०१४

अथ कोशः ॥ १४.१ ॥

उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेत् ॥ १४.२ ॥

इदं मया न कृतमिति वदन् स्थापितदेवताभिमुखः ॥ १४.३ ॥

यस्य पश्येद्द्विसप्ताहात्त्रिसप्ताहादथापि वा ।
रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा ॥ १४.४ ॥

तमशुद्धं विजानीयात्तथा शुद्धं विपर्यये ।
दिव्ये च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥ १४.५ ॥