अथ विषम् ॥ १३.१ ॥
विषान्यदेयानि सार्वाणि ॥ १३.२ ॥
ऋते हिमाचलोद्भवात्शार्ङ्गात् ॥ १३.३ ॥
तस्य च यवसप्तकं घृतप्लुतमभिशस्ताय दद्यात् ॥ १३.४ ॥
विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।
विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥ १३.५ ॥
विषत्वाद्विषमत्वाच्च क्रूरं त्वं सर्वदेहिनाम् ।
त्वमेव विष जानीषे न विदुर्यानि मानुषाः ॥ १३.६ ॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १३.७ ॥