०१२

अथोदकम् ॥ १२.१ ॥

पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि ॥ १२.२ ॥

तत्र …नाभिमग्नस्यारोगद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितमम्भः प्रविशेत् ॥ १२.३ ॥

तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् ॥ १२.४ ॥

तं चापरः पुरुषो जवेन शरमानयेत् ॥ १२.५ ॥

तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः ।
अन्यथा ह्यविशुद्धः स्यादेकाङ्गस्यापि दर्शने ॥ १२.६ ॥

त्वमम्भः सर्वभूतानामन्तश्चरसि साक्षिवत् ।
त्वमेवाम्भो विजानीषे न विदुर्यानि मानुषाः ॥ १२.७ ॥

व्यवहाराभिशतोऽयं मानुषस्त्वयि मज्जति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १२.८ ॥