अथ धटः ॥ १०.१ ॥
चतुर्हस्तोच्छ्रितो द्विहस्तायतः ॥ १०.२ ॥
तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला ॥ १०.३ ॥
तां च सुवर्णकारकांस्यकाराणामन्यतमो बिभृयात् ॥ १०.४ ॥
तत्र चैकस्मिन् शिक्ये पुरुषं दिव्यकारिणमारोपयेत्, द्वितीये प्रतिमानं शिलादि ॥ १०.५ ॥
प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् ॥ १०.६ ॥
धटं च समयेन गृह्णीयात् ॥ १०.७ ॥
तुलाधारं च ॥ १०.८ ॥
ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ १०.९ ॥
धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वमेव धट जानीषे न विदुर्यानि मानुषाः ॥ १०.१० ॥
व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १०.११ ॥
ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् ।
तुलितो यदि वर्धेत ततः शुद्धः स धर्मतः ॥ १०.१२ ॥
शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् ।
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥ १०.१३ ॥