००९

अथ समयक्रिया ॥ ९.१ ॥

राजद्रोहसाहसेषु यथाकामम् ॥ ९.२ ॥

निक्षेपस्तेयेष्वर्थप्रमाणम् ॥ ९.३ ॥

सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् ॥ ९.४ ॥

तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् ॥ ९.५ ॥

द्विकृष्णलोने तिलकरम् ॥ ९.६ ॥

त्रिकृष्णलोने रजतकरम् ॥ ९.७ ॥

चतुःकृष्णलोने सुवर्णकरम् ॥ ९.८ ॥

पञ्चकृष्णलोने सीरोद्धृतमहीकरम् ॥ ९.९ ॥

सुवर्णार्धोने कोशो देयः शूद्रस्य ॥ ९.१० ॥

ततः परं यथार्हं धटाग्न्युदकविषाणामन्यतमम् ॥ ९.११ ॥

द्विगुणेऽर्थे यथाभिहिताः समयक्रिया वैश्यस्य ॥ ९.१२ ॥ त्रिगुणे राजन्यस्य ॥ ९.१३ ॥

कोशवर्जं चतुर्गुणे ब्राह्मणस्य ॥ ९.१४ ॥

न ब्राह्मणस्य कोशं दद्यात् ॥ ९.१५ ॥

अन्यत्रागामिकालसमयनिबन्धनक्रियातः ॥ ९.१६ ॥

कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरमेव शापयेत् ॥ ९.१७ ॥

प्राग्दृष्टदोषे स्वल्पेऽप्यर्थे दिव्यानामन्यतममेव कारयेत् ॥ ९.१८ ॥

सत्सु विदितं सच्चरितं न महत्यर्थेऽपि ॥ ९.१९ ॥

अभियोक्ता वर्तयेच्छीर्षम् ॥ ९.२० ॥

अभियुक्तश्च दिव्यं कुर्यात् ॥ ९.२१ ॥

राजद्रोहसाहसेषु विनापि शीर्षवर्तनात् ॥ ९.२२ ॥

स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया ॥ ९.२३ ॥

सा च न वाति वायौ ॥ ९.२४ ॥

न कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः ॥ ९.२५ ॥

शरद्ग्रीष्मयोश्च ॥ ९.२६ ॥

न कुष्ठिपैत्तिकब्राह्मणानां विषं देयम् ॥ ९.२७ ॥

प्रावृषि च ॥ ९.२८ ॥

न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनामम्बुजीविनां चोदकम् ॥ ९.२९ ॥

हेमन्तशिशिरयोश्च ॥ ९.३० ॥

न नास्तिकेभ्यः कोशो देयः ॥ ९.३१ ॥

न देशे व्याधिमरकोपसृष्टे चे ॥ ९.३२ ॥

सचैलस्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥ ९.३३ ॥