००७

अथ लेख्यं त्रिविधम् ॥ ७.१ ॥

राजसाक्षिकं ससाक्षिकमसाक्षिकं च ॥ ७.२ ॥

राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकम् ॥ ७.३ ॥

यत्र क्वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकम् ॥ ७.४ ॥

स्वहस्तलिखितमसाक्षिकम् ॥ ७.५ ॥

तत्बलात्कारितमप्रमाणम् ॥ ७.६ ॥

उपधिकृतानि सर्वाण्येव ॥ ७.७ ॥

दूषितकर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकमपि ॥ ७.८ ॥

तादृग्विधेन लेखकेन लिखितं च ॥ ७.९ ॥

स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च ॥ ७.१० ॥

देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणमलुप्तप्रक्रमाक्षरं प्रमाणम् ॥ ७.११ ॥

वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः ।
संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः ॥ ७.१२ ॥

यत्र+ऋणी धनिको वापि साक्षी वा लेखकोऽपि वा ।
म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥ ७.१३ ॥