००५

अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः ॥ ५.१ ॥

न शारीरो ब्राह्मणस्य दण्डः ॥ ५.२ ॥

स्वदेशात्ब्राह्मणं कृताङ्कं विवासयेत् ॥ ५.३ ॥

तस्य च ब्रह्महत्यायामशिरस्कं पुरुषं ललाटे कुर्यात् ॥ ५.४ ॥

सुराध्वजं सुरापाने ॥ ५.५ ॥

श्वपदं स्तेये ॥ ५.६ ॥

भगं गुरुतल्पगमने ॥ ५.७ ॥

अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् ॥ ५.८ ॥

कूटशासनकर्तॄंश्च राजा हन्यात् ॥ ५.९ ॥

कूटलेख्यकारांश्च ॥ ५.१० ॥

गरदाग्निदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश्च ॥ ५.११ ॥

ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः ॥ ५.१२ ॥

धरिममेयानां शतादभ्यधिकम् ॥ ५.१३ ॥

ये चाकुलीना राज्यमभिकामयेयुः ॥ ५.१४ ॥

सेतुभेदकांश्च ॥ ५.१५ ॥

प्रसह्य तस्कराणां चावकाशभक्तप्रदांश्च ॥ ५.१६ ॥

अन्यत्र राजाशक्तेः ॥ ५.१७ ॥

स्त्रियमशक्तभर्तृकां तदतिक्रमणीं च ॥ ५.१८ ॥

हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् ॥ ५.१९ ॥

एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः ॥ ५.२० ॥

निष्ठीव्यौष्ठद्वयविहीनः कार्यः ॥ ५.२१ ॥

अवशर्धयिता च गुदहीनः ॥ ५.२२ ॥

आक्रोशयिता च विजिह्वः ॥ ५.२३ ॥

दर्पेण धर्मोपदेशकारिणां राजा तप्तमासेचयेत्तैलमास्ये ॥ ५.२४ ॥

द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निखेयः ॥ ५.२५ ॥

श्रुतदेशजातिकर्मणामन्यथावादी कार्शापणशतद्वयं दण्ड्यः ॥ ५.२६ ॥

काणखञ्जादीनां तथ्यवाद्यपि कार्शापणद्वयम् ॥ ५.२७ ॥

गुरूनाक्षिपन् कार्शापणशतद्वयम् ॥ ५.२८ ॥

परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम् ॥ ५.२९ ॥

उपपातकयुक्ते मध्यमम् ॥ ५.३० ॥

त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च ॥ ५.३१ ॥

ग्रामदेशयोश्च प्रथमसाहसम् ॥ ५.३२ ॥

न्यङ्गतायुक्ते क्षेपे कार्शापणशतम् ॥ ५.३३ ॥

मातृयुक्ते तूत्तमम् ॥ ५.३४ ॥

समवर्णाक्रोशने द्वादश पणान् दण्ड्यः ॥ ५.३५ ॥

हीनवर्णाकृओशने षट् ॥ ५.३६ ॥

यथाकालमुत्तमवर्णाक्षेपे तत्प्रमाणो दण्डः ॥ ५.३७ ॥

त्रयो वा कार्षापणाः ॥ ५.३८ ॥

शुक्तवाक्याभिधाने त्वेवमेव ॥ ५.३९ ॥

पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः ॥ ५.४० ॥

हीनवर्णागमने मध्यमम् ॥ ५.४१ ॥

गोगमने च ॥ ५.४२ ॥

अन्त्यागमने वध्यः ॥ ५.४३ ॥

पशुगमने कार्षापणशतं दण्ड्यः ॥ ५.४४ ॥

दोषमनाख्याय कन्यां प्रयच्छंश्च ॥ ५.४५ ॥

तां च बिभृयात् ॥ ५.४६ ॥

अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् ॥ ५.४७ ॥

गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः ॥ ५.४८ ॥

विमांसविक्रयी च ॥ ५.४९ ॥

ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः ॥ ५.५० ॥

पशुस्वामिने तन्मूल्यं दद्यात् ॥ ५.५१ ॥

आरण्यपशुघाती पञ्चाशतं कार्षापणान् ॥ ५.५२ ॥

पक्षिघाती मत्स्यघाती च दश कार्षापणान् ॥ ५.५३ ॥

कीटोपघाती च कार्षापणम् ॥ ५.५४ ॥

फलोपगमद्रुमच्छेदी तूत्तमसाहसम् ॥ ५.५५ ॥

पुष्पोपगमद्रुमच्छेदी मध्यमम् ॥ ५.५६ ॥

वल्लीगुल्मलताच्छेदी कार्षापणशतम् ॥ ५.५७ ॥

तृणच्छेद्येकम् ॥ ५.५८ ॥

सर्वे च तत्स्वामिनां तदुत्पत्तिम् ॥ ५.५९ ॥

हस्तेनोद्गूरयिता दशकार्षापणम् ॥ ५.६० ॥

पादेन विंशतिम् ॥ ५.६१ ॥

काष्ठेन प्रथमसाहसम् ॥ ५.६२ ॥

पाषाणेन मध्यमम् ॥ ५.६३ ॥

शस्त्रेणोत्तमम् ॥ ५.६४ ॥

पादकेशांशुककरलुञ्चने दश पणान् ॥ ५.६५ ॥

शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् ॥ ५.६६ ॥

सह शोणितेन चतुःषष्टिम् ॥ ५.६७ ॥

करपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमम् ॥ ५.६८ ॥

चेष्टाभोजनवाग्रोधे प्रहारदाने च ॥ ५.६९ ॥

नेत्रकंधराबाहुसक्थ्यंसभङ्गे चोत्तमम् ॥ ५.७० ॥

उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न मुञ्चेत् ॥ ५.७१ ॥

तादृशमेव वा कुर्यात् ॥ ५.७२ ॥

एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्द्विगुणः ॥ ५.७३ ॥

उत्क्रोशन्तमनभिधावतां तत्समीपवर्तिनां संसरतां च ॥ ५.७४ ॥

सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः ॥ ५.७५ ॥

ग्राम्यपशुपीडाकराश्च ॥ ५.७६ ॥

गोऽश्वोष्ट्रगजापहार्येककरपादः कार्यः ॥ ५.७७ ॥

अजाव्यपहार्येककरश्च ॥ ५.७८ ॥

धान्यापहार्येकादशगुणं दण्ड्यः ॥ ५.७९ ॥

सस्यापहारी च ॥ ५.८० ॥

सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन् विकरः ॥ ५.८१ ॥

तदूनमेकादशगुणं दण्ड्यः ॥ ५.८२ ॥

सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोहभाण्डानामपहर्ता मूल्यात्त्रिगुणं दण्ड्यः ॥ ५.८३ ॥

पक्वान्नानां च ॥ ५.८४ ॥

पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे पञ्चकृष्णलम् ॥ ५.८५ ॥

शाकमूलफलानां च ॥ ५.८६ ॥

रत्नापहार्युत्तमसाहसम् ॥ ५.८७ ॥

अनुक्तद्रव्याणामपहर्ता मूल्यसमम् ॥ ५.८८ ॥

स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः ॥ ५.८९ ॥

ततस्तेषामभिहितदण्डप्रयोगः ॥ ५.९० ॥

येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः ॥ ५.९१ ॥

आसनार्हस्यासनमददच्च ॥ ५.९२ ॥

पूजार्हमपूजयंश्च ॥ ५.९३ ॥

प्रातिवेश्यब्राह्मणनिमन्त्रणातिक्रमणे च ॥ ५.९४ ॥ निमन्त्रयित्वा भोजनादायिनश्च ॥ ५.९५ ॥

निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् ॥ ५.९६ ॥

निकेतयितुश्च द्विगुणमन्नम् ॥ ५.९७ ॥

अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ॥ ५.९८ ॥

जात्यपहारिणा शतम् ॥ ५.९९ ॥

सुरया वध्यः ॥ ५.१०० ॥

क्षत्रियं दूषयितुस्तदर्धम् ॥ ५.१०१ ॥

वैश्यं दूषयितुस्तदर्धमपि ॥ ५.१०२ ॥

शूद्रं दूषयितुः प्रथमसाहसम् ॥ ५.१०३ ॥

अस्पृश्यः कामकारेण स्पृशन् स्पृश्यं त्रैवर्णिकं वध्यः ॥ ५.१०४ ॥

रजस्वलां शिफाभिस्ताडयेत् ॥ ५.१०५ ॥

पथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् ॥ ५.१०६ ॥

तच्चापास्यात् ॥ ५.१०७ ॥

गृहभूकुड्याद्युपभेत्ता मध्यमसाहसम् ॥ ५.१०८ ॥

तच्च योजयेत् ॥ ५.१०९ ॥

गृहे पीडाकरं द्रव्यं प्रक्षिपन् पणशतम् ॥ ५.११० ॥

साधारणापलापी च ॥ ५.१११ ॥

प्रेषितस्याप्रदाता च ॥ ५.११२ ॥

पितृपुत्राचार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च ॥ ५.११३ ॥

न च तान् जह्यात् ॥ ५.११४ ॥

शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकाश्च ॥ ५.११५ ॥

अयोग्यकर्मकारी च ॥ ५.११६ ॥

समुद्रगृहभेदकश्च ॥ ५.११७ ॥

अनियुक्तः शपथकारी ॥ ५.११८ ॥

पशूनां पुंस्त्वोपघातकारी ॥ ५.११९ ॥

पितापुत्रविरोधे साक्षिणां दशपणो दण्डः ॥ ५.१२० ॥

यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसः ॥ ५.१२१ ॥

तुलामानकूटकर्तुश्च ॥ ५.१२२ ॥

तदकूटे कूटवादिनश्च ॥ ५.१२३ ॥

द्रव्याणां प्रतिरूपविक्रयिकस्य च ॥ ५.१२४ ॥

संभूय वणिजां पण्यमनर्घेणावरुन्धताम् ॥ ५.१२५ ॥

प्रत्येकं विक्रीणतां च ॥ ५.१२६ ॥

गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्, तस्यासौ सोदयं दाप्यः ॥ ५.१२७ ॥

राज्ञा च पणशतं दण्ड्यः ॥ ५.१२८ ॥

क्रीतमक्रीणतो या हानिः सा क्रेतुरेव स्यात् ॥ ५.१२९ ॥

राजनिषिद्धं विक्रीणतस्तदपहारः ॥ ५.१३० ॥

तरिकः स्थलजं शुल्कं गृह्णन् दशपणान् दण्ड्यः ॥ ५.१३१ ॥

ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कमाददानश्च ॥ ५.१३२ ॥

तच्च तेषां दद्यात् ॥ ५.१३३ ॥

द्यूते कूटाक्षदेविनां करच्छेदः ॥ ५.१३४ ॥

उपधिदेविनां संदंशच्छेदः ॥ ५.१३५ ॥

ग्रन्थिभेदकानां च ॥ ५.१३६ ॥

उत्क्षेपकानां च करच्छेदः ॥ ५.१३७ ॥

दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः ॥ ५.१३८ ॥

विनष्टपशुमूल्यं च स्वामिने दद्यात् ॥ ५.१३९ ॥

अननुज्ञातां दुहन् पञ्चविंशतिं कार्षापणान् ॥ ५.१४० ॥

महिषी चेत्सस्यनाशं कुर्यात्, तत्पालस्त्वष्टौ माषान् दण्ड्यः ॥ ५.१४१ ॥

अपालायाः स्वामी ॥ ५.१४२ ॥

अश्वस्तूष्ट्रो गर्दभो वा ॥ ५.१४३ ॥

गौश्चेत्तदर्धम् ॥ ५.१४४ ॥

तदर्धमजाविकम् ॥ ५.१४५ ॥

भक्षयित्वोपविष्टेषु द्विगुणम् ॥ ५.१४६ ॥

सर्वत्र स्वामिने विनष्टसस्यमूल्यं च ॥ ५.१४७ ॥

पथि ग्रामे विवीतान्ते न दोषः ॥ ५.१४८ ॥

अनावृते च ॥ ५.१४९ ॥

अल्पकालम् ॥ ५.१५० ॥

उत्सृष्टवृषभसूतिकानां च ॥ ५.१५१ ॥

यस्तूत्तमवर्णान् दास्ये नियोजयेत्तस्योत्तमसाहसो दण्डः ॥ ५.१५२ ॥

त्यक्तप्रव्रज्यो राज्ञो दास्यं कुर्यात् ॥ ५.१५३ ॥

भृतकश्चापूर्णे काले भृतिं त्यजन् सकलमेव मूल्यं दद्यात् ॥ ५.१५४ ॥

जाज्ञे च पणशतं दद्यात् ॥ ५.१५५ ॥

तद्दोषेण यद्विनश्येत्तत्स्वामिने ॥ ५.१५६ ॥

अन्यत्र दैवोपघातात् ॥ ५.१५७ ॥

स्वामी चेत्भृतकमपूर्णे काले जह्यात्, तस्य सर्वमेव मूल्यं दद्यात् ॥ ५.१५८ ॥

पणशतं च राजनि ॥ ५.१५९ ॥

अन्यत्र भृतकदोशात् ॥ ५.१६० ॥

यः कन्यां पूर्वदत्तामन्यस्मै दद्यात्, स चौरवच्छास्यः ॥ ५.१६१ ॥

वरदोषं विना ॥ ५.१६२ ॥

निर्दोषां परित्यजन् ॥ ५.१६३ ॥

पत्नीं च ॥ ५.१६४ ॥

अजानानः प्रकाशं यः परद्रव्यं क्रीणीयात्, तत्र तस्य न दोषः ॥ ५.१६५ ॥

स्वामी द्रव्यमाप्नुयात् ॥ ५.१६६ ॥

यद्यप्रकाशं हीनमूल्यं च क्रीणीयात्, तदा क्रेता विक्रेता च चौरवच्छास्यौ ॥ ५.१६७ ॥

गणद्रव्यापहर्ता विवास्यः ॥ ५.१६८ ॥

तत्संविदं यश्च लङ्घयेत् ॥ ५.१६९ ॥

निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः ॥ ५.१७० ॥

राज्ञा चौरवच्छास्यः ॥ ५.१७१ ॥

यश्चानिक्षिप्तं निक्षिप्तमिति ब्रूयात् ॥ ५.१७२ ॥

सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत् ॥ ५.१७३ ॥

जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः ॥ ५.१७४ ॥

अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः ॥ ५.१७५ ॥

भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु ॥ ५.१७६ ॥

मध्यमेषु मध्यमम् ॥ ५.१७७ ॥

तिर्यक्षु प्रथमम् ॥ ५.१७८ ॥

प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः ॥ ५.१७९ ॥

कूटसाक्षिणां सर्वस्वापहारः कार्यः ॥ ५.१८० ॥

उत्कोचोपजीविनां सभ्यानां च ॥ ५.१८१ ॥

गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः ॥ ५.१८२ ॥

ऊनां चेत्षोडश सुवर्णान् दण्ड्यः ॥ ५.१८३ ॥

एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् ।
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥ ५.१८४ ॥

ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥ ५.१८५ ॥

सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत् ।
आहर्ता लभते तत्र नापहार्यं तु तत्क्वचित् ॥ ५.१८६ ॥

पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन् प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥ ५.१८७ ॥

त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि ।
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ ५.१८८ ॥

नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥ ५.१८९ ॥

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥ ५.१९० ॥

नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥ ५.१९१ ॥

उद्यतासिविषाग्निं च शापोद्यतकरं तथा ।
आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥ ५.१९२ ॥

भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः ।
यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ॥ ५.१९३ ॥

उद्देशतस्ते कथितो धरे दण्डविधिर्मया ।
सर्वेषामपराधानां विस्तरादतिविस्तरः ॥ ५.१९४ ॥

अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः ।
दण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह ॥ ५.१९५ ॥

दण्ड्यं प्रमोचयन् दण्ड्याद्द्विगुणं दण्डमावहेत् ।
नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥ ५.१९६ ॥

यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ॥ ५.१९७ ॥