जालस्थार्कमरीचिगतं रजः त्रसरेणुसंज्ञकम् ॥ ४.१ ॥
तदष्टकं लिक्षा ॥ ४.२ ॥
तत्त्रयं राजसर्षपः ॥ ४.३ ॥
तत्त्रयं गौरसर्षपः ॥ ४.४ ॥
तत्षट्कं यवः ॥ ४.५ ॥
तत्त्रयं कृष्णलम् ॥ ४.६ ॥
तत्पञ्चकं माषः ॥ ४.७ ॥
तद्द्वादशकमक्षार्धम् ॥ ४.८ ॥
अक्षार्धमेव सचतुर्माषकं सुवर्णः ॥ ४.९ ॥
चतुःसुवर्णको निष्कः ॥ ४.१० ॥
द्वे कृष्णले समधृते रूप्यमाषकः ॥ ४.११ ॥
तत्षोडशकं धरणम् ॥ ४.१२ ॥
ताम्रकार्षिकः कार्षापणः ॥ ४.१३ ॥
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः ॥ ४.१४ ॥