अथ राजधर्माः ॥ ३.१ ॥
प्रजापरिपालनम् ॥ ३.२ ॥
वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् ॥ ३.३ ॥
राजा च जाङ्गलं पशव्यं सस्योपेतं देशमाश्रयेत् ॥ ३.४ ॥
वैश्यशूद्रप्रायं च ॥ ३.५ ॥
तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणामन्यतमं दुर्गमाश्रयेत् ॥ ३.६ ॥
तत्रस्थश्च स्वस्वग्रामाधिपान् कुर्यात् ॥ ३.७ ॥
दशाध्यक्षान् ॥ ३.८ ॥
शताध्यक्षान् ॥ ३.९ ॥
देशाध्यक्षांश्च ॥ ३.१० ॥
ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात् ॥ ३.११ ॥
अशक्तो दशग्रामाध्यक्षाय निवेदयेत् ॥ ३.१२ ॥
सोऽप्यशक्तः शताध्यक्षाय ॥ ३.१३ ॥
सोऽप्यशक्तो देशाध्यक्षाय ॥ ३.१४ ॥
देशाध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात् ॥ ३.१५ ॥
आकरशुल्कतरनागवनेश्वाप्तान्नियुञ्जीत ॥ ३.१६ ॥
धर्मिष्ठान् धर्मकार्येषु ॥ ३.१७ ॥
निपुणानर्थकार्येषु ॥ ३.१८ ॥
शूरान् संग्रामकर्मसु ॥ ३.१९ ॥
उग्रानुग्रेषु ॥ ३.२० ॥
षण्ढान् स्त्रीषु ॥ ३.२१ ॥
प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यात् ॥ ३.२२ ॥
सर्वसस्येभ्यश्च ॥ ३.२३ ॥
द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च ॥ ३.२४ ॥
मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैदलेभ्यः षाष्ठभागं राजा ॥ ३.२५ ॥
ब्राह्मणेभ्यः करादानं न कुर्यात् ॥ ३.२६ ॥
ते हि राज्ञो धर्मकराः ॥ ३.२७ ॥
राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् ॥ ३.२८ ॥
स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् ॥ ३.२९ ॥
परदेशपण्याच्च विंशतितमम् ॥ ३.३० ॥
शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात् ॥ ३.३१ ॥
शिल्पिनः कर्मजीविनश्च मासेनैकं राज्ञः कर्म कुर्युः ॥ ३.३२ ॥
स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः ॥ ३.३३ ॥
तद्दूषकांश्च हन्यात् ॥ ३.३४ ॥
स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः स्यात् ॥ ३.३५ ॥
साधूनां पूजनं कुर्यात् ॥ ३.३६ ॥
दुष्टांश्च हन्यात् ॥ ३.३७ ॥
शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान् यथार्हं यथाकालं प्रयुञ्जीत ॥ ३.३८ ॥
संधिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत् ॥ ३.३९ ॥
चैत्रे मार्गशीर्षे वा यात्रां यायात् ॥ ३.४० ॥
परस्य व्यसने वा ॥ ३.४१ ॥
परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् ॥ ३.४२ ॥
परेणाभियुक्तश्च सर्वात्मना स्वराष्ट्रं गोपायेत् ॥ ३.४३ ॥
नास्ति राज्ञां समरे तनुत्यागसदृशो धर्मः ॥ ३.४४ ॥
गोब्राह्मणनृपमित्रधनदारजीवितरक्षणात्ये हतास्ते स्वर्गलोकभाजः ॥ ३.४५ ॥
वर्णसंकररक्षणार्थं च ॥ ३.४६ ॥
राजा परपुरावाप्तौ तत्र तत्कुलीनमभिषिञ्चेत् ॥ ३.४७ ॥
न राजकुलमुच्छिन्द्यात् ॥ ३.४८ ॥
अन्यत्राकुलीनराजकुलात् ॥ ३.४९ ॥
मृगयाक्षस्त्रीपानाभिरतिं परिहरेत् ॥ ३.५० ॥
वाक्पारुष्यदण्डपारुष्ये च ॥ ३.५१ ॥
नार्थदूषणं कुर्यात् ॥ ३.५२ ॥
आद्यद्वाराणि नोच्छिन्द्यात् ॥ ३.५३ ॥
नापात्रवर्षी स्यात् ॥ ३.५४ ॥
आकरेभ्यः सर्वमादद्यात् ॥ ३.५५ ॥
निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् ॥ ३.५६ ॥
द्वितीय्मर्धं कोशे प्रवेशयेत् ॥ ३.५७ ॥
निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात् ॥ ३.५८ ॥
क्षत्रियश्चतुर्थमंशं राज्ञे दद्यात्, चतुर्थमंशं ब्राह्मणेभ्यः, अर्धमादद्यात् ॥ ३.५९ ॥
वैष्यस्तु चतुर्थमंशं राज्ञे दद्यात्, ब्राह्मणेभ्योऽर्धं, चतुर्थमंशमादद्यात् ॥ ३.६० ॥
शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान् राज्ञे दद्यात्, पञ्चांशान् ब्राह्मणेभ्यः, अंशद्वयमादद्यात् ॥ ३.६१ ॥
अनिवेदितविज्ञातस्य सर्वमपहरेत् ॥ ३.६२ ॥
स्वनिहिताद्राज्ञे ब्राह्मणवर्जं द्वादशमंशं दद्युः ॥ ३.६३ ॥
परनिहितं स्वनिहितमिति ब्रुवंस्तत्समं दण्डमावहेत् ॥ ३.६४ ॥
बालानाथस्त्रीधनानि राजा परिपालयेत् ॥ ३.६५ ॥
चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् ॥ ३.६६ ॥
अनवाप्य च स्वकोशादेव दद्यात् ॥ ३.६७ ॥
शान्तिस्वस्त्ययनोपायैर्दैवोपघातान् प्रशमयेत् ॥ ३.६८ ॥
परचक्रोपघातांश्च शस्त्रनित्यतया ॥ ३.६९ ॥
वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनमव्यङ्गं तपस्विनं पुरोहितं च वरयेत् ॥ ३.७० ॥
शुचीनलुब्धानवहितान् शक्तिसंपन्नान् सर्वार्थेषु च सहायान् ॥ ३.७१ ॥
स्वयमेव व्यवहारान् पश्येद्विद्वद्भिर्ब्राह्मणैः सार्धम् ॥ ३.७२ ॥
व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात् ॥ ३.७३ ॥
जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्याः, रिपौ मित्रे च ये समाः, कामक्रोधभयलोभादिभिः कार्यार्थभिरनाहार्याः ॥ ३.७४ ॥
राजा च सर्वकार्येषु सांवत्सराधीनः स्यात् ॥ ३.७५ ॥
देवब्राह्मणान् सततमेव पूजयेत् ॥ ३.७६ ॥
वृद्धसेवी भवेत् ॥ ३.७७ ॥
यज्ञयाजी च ॥ ३.७८ ॥
न चास्य विषये ब्राह्मणः क्षुधार्तोऽवसीदेत् ॥ ३.७९ ॥
न चान्योऽपि सत्कर्मनिरतः ॥ ३.८० ॥
ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् ॥ ३.८१ ॥
येषां च प्रतिपादयेत्तेषां स्ववंश्यान् भुवः परिमाणं दानच्छेदोपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिविज्ञापनार्थं दद्यात् ॥ ३.८२ ॥
परदत्तां च भुवं नापहरेत् ॥ ३.८३ ॥
ब्राह्मणेभ्यः सर्वदायान् प्रयच्छेत् ॥ ३.८४ ॥
सर्वतस्त्वात्मानं गोपायेत् ॥ ३.८५ ॥
सुदर्शनश्च स्यात् ॥ ३.८६ ॥
विषघ्नागदमन्त्रधारी च ॥ ३.८७ ॥
नापरीक्षितमुपयुञ्ज्यात् ॥ ३.८८ ॥
स्मितपूर्वाभिभाषी स्यात् ॥ ३.८९ ॥
वध्येष्वपि न भ्रुंकुटीमाचरेत् ॥ ३.९० ॥
अपराधानुरूपं च दण्डं दण्ड्येषु दापयेत् ॥ ३.९१ ॥
सम्यग्दण्डप्रणयनं कुर्यात् ॥ ३.९२ ॥
द्वितीयमपराधं न स कस्यचित्क्षमेत ॥ ३.९३ ॥
स्वधर्ममपालयन्नादण्ड्यो नामास्ति राज्ञाम् ॥ ३.९४ ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ।
प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति ॥ ३.९५ ॥
स्वराष्ट्रो न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ३.९६ ॥
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ३.९७ ॥
प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः ।
स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते ॥ ३.९८ ॥