००२

ओम् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः ॥ २.१ ॥

तेषामाद्या द्विजातयस्त्रयः ॥ २.२ ॥

तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत्क्रियासमूहः ॥ २.३ ॥

तेषां च धर्माः ॥ २.४ ॥

ब्राह्मणस्याध्यापनम् ॥ २.५ ॥

क्षत्रियस्य शस्त्रनित्यता ॥ २.६ ॥

वैश्यस्य पशुपालनम् ॥ २.७ ॥

शूद्रस्य द्विजातिशुश्रूषा ॥ २.८ ॥

द्विजानां यजनाध्ययने ॥ २.९ ॥

अथैतेषां वृत्तयः ॥ २.१० ॥

ब्राह्मणस्य याजनप्रतिग्रहौ ॥ २.११ ॥

क्षत्रियस्य क्षितित्राणम् ॥ २.१२ ॥

कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य ॥ २.१३ ॥

शूद्रस्य सर्वशिल्पानि ॥ २.१४ ॥

आपद्यनन्तरा वृत्तिः ॥ २.१५ ॥

क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः ।
अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥ २.१६ ॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।
अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥ २.१७ ॥