००१

ब्रह्मरात्र्यां व्यतीतायां प्रबुद्धे पद्मसंभवे ।
विष्णुः सिसृक्षुर्भूतानि ज्ञात्वा भूमिं जलानुगाम् ॥ १.१ ॥

जलक्रीडारुचि शुभं कल्पाधिषु यथा पुरा ।
वाराहमास्थितो रूपमुज्जहार वसुंधराम् ॥ १.२ ॥

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ १.३ ॥

अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ १.४ ॥

धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः ।
प्रायश्चित्तमहाघोणः पशुजानुर्महाकृतिः ॥ १.५ ॥

उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।
वेद्यन्तरात्मा मन्त्रस्फिग्- विकृतः सोमशोणितः ॥ १.६ ॥

वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् ।
प्राग्वंषकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ १.७ ॥

दक्षिणाहृदयो योग महामन्त्रमयो महान् ।
उपाकर्मोष्ठरुचिरः प्रवर्ग्यावर्तभूषणः ॥ १.८ ॥

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मणिशृङ्ग इवोदितः ॥ १.९ ॥

महीं सागरपर्यन्तां सशैलवनकाननां ।
एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ १.१० ॥

दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ।
आदिदेवो महायोगी चकार जगतीं पुनः ॥ १.११ ॥

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी देवी रसातलगता पुरा ॥ १.१२ ॥

उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके ।
यथास्थानं विभज्यापस्तद्गता मधुसूदनः ॥ १.१३ ॥

सामुद्र्यश्च समुद्रेषु नादेयीश्च नदीषु च ।
पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः ॥ १.१४ ॥

पातालसप्तकं चक्रे लोकानां सप्तकं तथा ।
द्वीपानामुदधीनां च स्थानानि विविधानि च ॥ १.१५ ॥

स्थानपालान् लोकपालान्नदीः शैलवनस्पतीन् ।
ऋषींश्च सप्त धर्मज्ञान् वेदान् सान्ङान् सुरासुरान् ॥ १.१६ ॥

पिशाचोरगगन्धर्व यक्षराक्षसमानुषान् ।
पशुपक्षिमृगाद्यांश्च भूतग्रामं चतुर्विधम् ।
मेघेन्द्रचापशम्पाद्यान् यज्ञांश्च विविधांस्तथा ॥ १.१७ ॥

एवं वराहो भगवान् कृत्वेदं सचराचरम् ।
जगज्जगाम लोकानामविज्ञातां तदा गतिम् ॥ १.१८ ॥

अविज्ञातां गतिं याते देवदेवे जनार्दने ।
वसुधा चिन्तयामास का धृतिर्मे भविष्यति ॥ १.१९ ॥

पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् ।
मदीयां वहते चिन्तां नित्यमेव महामुनिः ॥ १.२० ॥

एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी ।
जगाम कश्यपं द्रष्टुं दृष्टवांस्तां च कश्यपः ॥ १.२१ ॥

नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम् ।
अलिसंघालकां शुभ्रां बन्धुजीवाधरां शुभाम् ॥ १.२२ ॥

सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतभ्रुवम् ।
कम्बुकण्ठीं संहतोरूं पीनोरुजघनस्थलाम् ॥ १.२३ ॥

विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ ।
शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती ॥ १.२४ ॥

मृणालकोमलौ बाहू करौ किसलयोपमौ ।
रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी ॥ १.२५ ॥

जङ्घे विरोमे सुसमे पादावतिमनोरमौ ।
जघनं च घनं मध्यं यथा केसरिणः शिशोः ॥ १.२६ ॥

प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् ।
कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः ॥ १.२७ ॥

कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः ।
सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषितां ॥ १.२८ ॥

पदन्यासैर्वसुमतीं सपद्मामिव कुर्वतीं ।
रूपयौवनसंपन्नां विनीतवदुपस्थिताम् ॥ १.२९ ॥

समीपमागतां दृष्ट्वा पूजयित्वाथ कश्यपः ।
उवाच तां वरारोहे विज्ञातं हृद्गतं मया ॥ १.३० ॥

धरे तव विशालाक्षि गच्छ देवि जनार्दनम् ।
स ते वक्ष्यत्यशेषेण भाविनी ते यथा धृतिः ॥ १.३१ ॥

क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने ।
ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः ॥ १.३२ ॥

इत्येवमुक्ता संपूज्य कश्यपं वसुधा ततः ।
प्रययौ केशवं द्रष्टुं क्षीरोदमथ सागरम् ॥ १.३३ ॥

सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम् ।
पवनक्षोभसंजात- वीचीशतसमाकुलम् ॥ १.३४ ॥

हिमवच्छतसंकाशं भूमण्डलमिवापरम् ।
वीचीहस्तैः प्रचलितैराह्वयानमिव क्षितिम् ॥ १.३५ ॥

तैरेव शुक्लतां चन्द्रे विदधानमिवानिशम् ।
अन्तरस्थेन हरिणा विगताशेषकल्मषम् ॥ १.३६ ॥

यस्मात्तस्माद्धारयन्तं सुशुक्लां तनुमूर्जिताम् ।
पाण्डुरं खगमागम्यमधोभुवनवर्तिनम् ॥ १.३७ ॥

इन्द्रनीलकडाराढ्यं विपरीतमिवाम्बरम् ।
फलावलीसमुद्भूत- वनसंघमिवाचितम् ॥ १.३८ ॥

निर्मोकमिव शेषाहेर्विस्तीर्णान्तमतीव हि ।
तं दृष्ट्वा तत्र मध्यस्थं दडृशे केशवालयम् ॥ १.३९ ॥

अनिर्देश्यपरीमाणमनिर्देश्यर्द्धिसंयुतम् ।
शेषपर्यङ्कगं तस्मिन् ददर्श मधुसूदनम् ॥ १.४० ॥

शेषाहिफणरत्नांशु दुर्विभाव्यमुखाम्बुजम् ।
शशाङ्कशतसंकाशं सूर्यायुतसमप्रभम् ॥ १.४१ ॥

पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम् [सवरत्न] ।
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥ १.४२ ॥

संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः ।
शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥ १.४३ ॥

तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम् ।
जानुभ्यामवनिं गत्वा विज्ञापयति चाप्यथ ॥ १.४४ ॥

उद्धृताहं त्वया देव रसातलतलं गता ।
स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया ॥ १.४५ ॥

तत्राधुना हि देवेश का धृतिर्मे भविष्यति ।
एवमुक्तस्तया देव्या देवो वचनमब्रवीत् ॥ १.४६ ॥

वर्णाश्रमाचाररताः सन्तः शास्त्रैकतत्पराः ।
त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः ॥ १.४७ ॥

एवमुक्ता वसुमती देवदेवमभाषत ।
वर्णानामाश्रमाणां च धर्मान् वद सनातन ॥ १.४८ ॥

त्वत्तोऽहं श्रोतुमिच्छामि त्वं हि मे परमा गतिः ।
नमस्ते देवदेवेश देवारिबलसूदन ॥ १.४९ ॥

नारायण जगन्नाथ शङ्खचक्रगदाधर ।
पद्मनाभ हृषीकेश महाबलपराक्रम ॥ १.५० ॥

अतीन्द्रिय सुदुष्पार देव शार्ङ्गधनुर्धर ।
वराह भीम गोविन्द पुराण पुरुषोत्तम ॥ १.५१ ॥

हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन ।
क्षेत्रक्षेत्रज्ञदेवेश सलिलार्णवशायक ॥ १.५२ ॥

मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह ।
जगतोऽस्य समग्रस्य सृष्टिसंहारकारक ॥ १.५३ ॥

धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद ।
विष्वक्सेनामृत व्योम मधुकैटभसूदन ॥ १.५४ ॥

बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद ।
वरेण्यानघ जीमूत जगन्निर्माणकारक ॥ १.५५ ॥

आप्यायन अपां स्थान चैतन्याधार निष्क्रिय ।
सप्तशीर्षाध्वरगुरो पुराणपुरुषोत्तम ॥ १.५६ ॥

ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन ।
त्वं गतिः सर्वदेवानां त्वं गतिर्ब्रह्मवादिनाम् ॥ १.५७ ॥

तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम ।
प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् ॥ १.५८ ॥

सुब्रह्मण्यमनाधृष्यं वसुषेणं वसुप्रदम् ।
महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् ॥ १.५९ ॥

वासुदेवं महात्मानं पुण्डरीकाक्षमच्युतम् ।
सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ॥ १.६० ॥

एकव्यूहं चतुर्बाहुं जगत्कारणकारणम् ।
ब्रूहि मे भगवन् धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ॥ १.६१ ॥

आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् ।
एवमुक्तस्तु देवेशः क्षोण्या क्षोणीमभाषत ॥ १.६२ ॥

शृणु देवि धरे धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ।
आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् ॥ १.६३ ॥

ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् ।
निषण्णा भव वामोरु काञ्चनेऽस्मिन् वरासने ॥ १.६४ ॥

सुखासीना निबोध त्वं धर्मान्निगदतो मम ।
शुश्रुवे वैष्णवान् धर्मान् सुखासीना धरा तदा ॥ १.६५ ॥