शङ्खः

श्रीगणेशाय नमः
प्रथमोऽध्यायः
अथ ब्राहणादीनां कर्मवर्णनम्
स्वम्भुवे नमस्कृत्य सृष्टिसंहारकारिणे
चातुर्वर्ण्यहितार्थाय शङ्खः शास्त्रमथाकरोत् १
यजनं याजनं दानं तथैवाध्यापनक्रियाम्
प्रतिग्रहञ्चाध्ययनं विप्रः कर्माणि कारयेत् २
दानमध्ययनञ्चैव यजनञ्च यथाविधि
क्षत्त्रियस्य तु वैश्यस्य कर्मेदं परिकीर्तितम् ३
क्षत्त्रियस्य विशेषेण प्रजानां परिपालनम्
कृपिगौरक्ष्यवाणिज्यं वैश्यस्य परिकीर्तितम् ४
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ
क्षमा सत्यं दमः शौचं सर्वेषामविशेषतः ५
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः
तेषां जन्म द्वितीयस्तु विज्ञेयं मौञ्जिबन्धनम् ६
आचार्यस्तु पिता प्रोक्तः सावित्री जननी तथा
ब्रह्मक्षत्त्रविशाञ्चैव मौञ्जिबन्धनजन्मनि ७
वृत्त्या शूद्रसमास्तावद्विज्ञेयास्ते विचक्षणैः
यावद्वेदेन जायन्ते द्विजा ज्ञेयास्ततः परम् ८
इति शाङ्खीये धर्मशास्त्रे प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
ब्राह्मणादीनां संस्कारवर्णनम्
गर्भस्य स्फुठताज्ञाने निषेकः परिकीर्तितः
१८१
ततस्तु स्पन्दमात्कार्यं पुंसवनं विचक्षणैः १
षष्ठेऽष्टमे वा सीमन्तो जाते वै जातकर्म च
अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते
नामधेयञ्च कर्तव्यं वर्णानाञ्च समाक्षरम्
माङ्गल्यं ब्राह्मणंस्योक्तं क्षत्त्रियस्य बलान्वितम् २
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्
शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु ३
धनान्तं चैव वैश्यस्य दासान्तं वान्त्यजन्मनः
चतुर्थे मासि कर्तव्यमादित्यस्य प्रदर्शनम् ४
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम्
गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम् ५
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः
षोडशाब्दस्तु विप्रस्य द्वाविंशः क्षत्त्रियस्य तु ६
विंशतिः सचतुष्का च वैश्यस्य परिकीर्तिता
नाभिभाषेत सावित्रीमत ऊर्द्ध्वं निवर्तयेत् ७
विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः
सावित्रीपतिता व्रात्याः सर्वधर्मबहिष्कृताः ८
मौञ्जीबन्धो द्विजानान्तु क्रमान्मौञ्जी प्रकीर्तिता
मार्गवैयाघ्रवास्तानि कर्माणि ब्रह्मचारिणाम् ९
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः
कर्णकेशललाटैस्तु तुल्याः प्रोक्ताः क्रमेण तु १०
अवक्राः सत्वचः सर्वे नाग्निदग्धास्तथैव च
यज्ञोपवीतं कर्पासक्षौमोर्णानां यथाक्रमम् ११
आदिमध्यावसानेषु भवच्छब्दोपलक्षितम्
भैक्षस्य वरणं प्रोक्तं वर्णानामनुपूर्वशः १२
इति शाङ्खीये धर्मशास्त्रे द्वितीयोऽध्यायः

१८२

अथ तृतीयोऽध्यायः
ब्रह्मचर्याद्याचारवर्णनम्
स गुरुर्यः क्रिया कृत्वा वेदमस्मै प्रयच्छति
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः
आचारमग्निकार्यं च संध्योपासनमेव च
भृतकाध्यापको यस्तु उपाध्यायः स उच्यते १
माता पिता गुरुश्चैव पूजनीयाः सदा नृणाम्
क्रियास्तथाऽफलाः सर्वा यस्यैतेऽनादृतास्त्रयः
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः
कुर्वीत प्रयतो भूत्वा गुरूणामभिवादनम् २
अनुज्ञातश्च गुरुणा ततोऽध्ययनमाचरेत्
कृत्वा ब्रह्माञ्जलिं पश्यन् गुरोर्वदनमानतः ३
ब्रह्मावसाने प्रारम्भे प्रणवञ्च प्रकीर्तयेत्
अनध्यायेष्वध्ययनं वर्जयेच्च प्रयत्नतः ४
चतुर्द्दशीं पञ्चदशीमष्टमीं राहुसूतकम्
उल्कापातं महीकम्पमाशौचं ग्रामविप्लवम् ५
इन्द्रप्रयागं सुरतं घनसंघातनिस्वनम्
वाद्यकोलाहलं युद्धमनध्यायान्विवर्जयेत् ६
नाधीयीताभियुक्तोऽपि प्रयत्नान्न च वेगतः
देवायतनवल्मीकश्मशानशवसन्निधौ
भैक्षचर्य्यान्तथा कुर्याद्ब्राह्मणेषु यथाविधि ७
गुरुणा चाभ्यनुज्ञातः प्राश्नीयात्प्राङ्मुखः शुचिः
हितं प्रियं गुरोः कुर्यादहङ्कारविवर्जितः ८
उपास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम्
अभिवाद्य गुरुं पश्चाद्गुरोवचनकृद्भवेत् ९
गुरोः पूर्वं समुत्तिष्ठेच्छयीत चरमं तथा

१८३

मधुमांसाञ्जनं श्राद्धं गीतं नृत्यञ्च वर्जयेत् १०
हिंसापवादवादांश्च स्त्रीलीलां च विशेषतः
मेखलामजिनं दण्डं धारयेच्च प्रयत्नतः
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ११
एवं कृत्यन्तु कूर्वीत वेदस्वीकरणं बुधः
गुरुवे च धनं दत्त्वा स्नायाच्च तदनन्तरम् १२
इति शाङ्खीये धर्मशास्त्रे तृतीयोऽध्यायः
अथ चतुर्थोऽध्यायः
विवाहसंस्कारवर्णनम्
विन्देत विधिवद्भार्यामसमानार्षगोत्रजाम्
मातृतः पञ्चमीञ्चापि पितृतस्त्वथ सप्तमीम् १
ब्राह्मो दैवस्तथैवाऽऽर्षः प्राजापत्यस्तथाऽऽसुरः
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः २
एते धर्मास्तु चत्वारः पूर्वं विप्रे प्रकीर्तिताः
गान्धर्वो राक्षसश्चैव क्षत्त्रियस्य प्रशस्यते ३
अप्रार्थितः प्रयत्नेन ब्राह्मस्तु परिकीर्तितः
यज्ञेषु ऋत्विजे दैवमादायार्षस्तु गोद्वयम् ४
प्रार्थितः संप्रदानेन प्राजापत्यः प्रकीर्तितः
आसुरेन्द्रविणादानाद्गान्धर्वः समयान्मिथः ५
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात्
तिस्रस्तु भार्य्या विप्रस्य द्वे भार्य्ये क्षत्रियस्य तु ६
एकैव भार्य्या वैश्यस्य तथा शूद्रस्य कीर्तिता
ब्राह्मणी क्षत्त्रिया वैश्या ब्राह्मणस्य प्रकीर्तिताः ७
क्षत्त्रिया चैव वैश्या च क्षत्त्रियस्य विधीयते
वैश्यैव भार्य्या वैश्यस्य शूद्रा शूद्रस्य कीर्तिता ८

१८४

आपद्यपि न कर्तव्या शूद्रा भार्य्या द्विजन्मना
तस्यां तस्य प्रसूतस्य निष्कृतिर्न विधीयते ९
तपस्वी यज्ञशशीलश्च सर्व धमभृतां वरः
ध्रुवं शूद्रत्वमाप्नोति शूद्रश्राद्धे त्रयोदशे १०
नीयते तु सपिण्डत्वं येषां श्राद्धं कुलोद्गतम्
सर्वे शूद्रत्वमायान्ति यदि स्वर्गजितास्तु ते ११
सपिण्डीकरणं कार्यं कुलजस्य तथा ध्रुवम्
श्राद्धं द्वादशकं कृत्वा श्राद्धे प्राप्ते त्रयोदशे १२
सपिण्डीकरणे चार्हे न च शूद्रस्तथार्हति
तस्मात्सर्वप्रयत्नेन शूद्रां भार्य्यां विवर्जयेत् १३
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम्
वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः १४
सा भार्य्या या वहेदग्निं सा भार्य्या या पतिव्रता
सा भार्य्या या पतिप्राणा सा भार्य्या या प्रजावती १४
लालनीया सदा भार्य्या ताडनीया तथैव च
लालिता ताडिता चैव स्त्री श्रीर्भवति नान्यथा १५
इति शाङ्खीये धर्मशास्त्रे चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
पंचमहायज्ञाः गृहाश्रमिणांप्रशंसा अतिथिवर्णनम्
पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः
कण्डनी चोदकुम्भश्च तस्य पापस्य शान्तये १
पञ्चयज्ञविधानञ्च गृही नित्यं न हापयेत्
पञ्चयज्ञविधानेन तत्पापं तस्य नश्यति २
देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च
ब्रह्मयज्ञो नृयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः ३

१८५

होमो दैवोवलिर्भौतः पित्र्यः पिण्डक्रियास्मृतः
स्वाध्यायो ब्रह्मयज्ञश्च नृयज्ञोऽतिथिपूजनम् ४
वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः
गृहस्थस्य प्रसादेन जीवन्त्येते यथाविधि ५
गृहस्थ एव यजते गृहस्थस्तप्यते तपः
दाता चैव गृहस्थः स्यात्तस्माच्छ्रेष्ठो गृहाश्रमी ६
यथा भर्ता प्रभुः स्त्रीणां वर्णानां ब्राह्मणो यथा
अतिथिस्तद्वदेवास्य गृहरथस्य प्रभुः स्मृतः ७
न व्रतैर्नोपवासैश्च धर्मेण विविधेन च
नारी स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ८
न स्नानेन न होमेन नैवाग्नितर्पणात्
ब्रह्मचारी दिवं याति स याति गुरुपूजनात् ९
नाग्निशुश्रूषया क्षान्त्या स्नानेन विविधेन च
वानप्रस्थो दिवं याति याति भोजनवर्जनात् १०
न भैक्षैर्न च मौनेन शून्यागाराश्रयेण च
योगो सिद्धिमवाप्नोति यथा मैथुनवर्जनात् ११
न यज्ञैर्दक्षिणाभिश्च वह्निशुश्रूषया न च
गृही स्वर्गमवाप्नोति तथा चातिथिपूजनात् १२
तस्मात् सर्वप्रयत्नेन गृहस्थोऽतिथिमागतम्
आहारशयनाद्येन विधिवत्परिपूजयेत् १३
सायं प्रातञ्च जुहुयादग्निहोत्रं यथाविधि
दर्शश्च पौर्णमासश्च जुहुयाच्च यथाविधि १४
यज्ञैर्वा पशुबन्धैश्च चातुर्मास्यैस्तथैव च
त्रैवार्षिकाधिकान्नेन पिबेत्सोममतन्द्रितः १५
इष्टिं वैश्वानरीं कुर्य्यात्तथा चाल्पधनो द्विजः
न भिक्षेत धनं शूद्रात्सर्व्वं दद्यादभीप्सितम् १६

१८६

वृत्तिन्तु न त्यजेद्विद्वानृत्विजं पूर्वमेव तु
कर्मणा जन्मना शुद्धं विद्यात्पात्रं वलीततम् १७
एतैरेव गुणैर्युक्तं धर्मार्जितधनं तथा
याजयेत्तु सदा विप्रो ग्राह्यस्तस्मात् प्रतिग्रहः १८
इति शाङ्खीये धर्मशास्त्रे पञ्चमोऽध्यायः
षष्ठोऽध्यायः
अथवानप्रस्थधर्मनिरूपणं सन्यासधर्मप्रकरणञ्च
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः
अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् १
पुत्रेषु दारान्निक्षिप्य तया वाऽनुगतो वनम्
अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् २
यदाहारो भवेत्तेन पूजयेत्पितृदेवताः
तेनैव पूजयेन्नित्यमतिथिं समुपागतम् ३
ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान्समाहितः
स्वाध्यायञ्च सदा कुर्य्याज्जटाश्च विभृयात्तथा ४
तपसा शोषयेन्नित्यं स्वयञ्चैव कलेवरम्
आर्द्रवासास्तु हेमन्ते ग्रीष्मे पञ्चतपास्तथा ५
प्रावृष्याकाशशायी स्यान्नक्ताशी च सदा भवेत्
चतुर्थकालिको वास्यात्स्यात्षष्ठकालिक एव वा ६
कृच्छ्रैर्वाऽपि नयेत्कालं ब्रह्मचर्य्यञ्च पालयेत्
एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ७
इति शाङ्खीये धर्मशास्त्रे षष्ठोऽध्यायः
सप्तमोऽध्यायः
अथप्राणायामलक्षणंधारणध्यानयोगनिरूपणवर्णनम्

१८७

कृत्वेष्टिं विधिवत्पश्चात् सर्ववेदसदक्षिणाम्
आत्मन्यग्नीन्समारोप्य द्विजो ब्रह्माश्रमी भवेत् १
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवजने
अतीते पादसम्पाते नित्यं भिक्षां यतिश्चरेत् २
सनागारांश्चरेद्भैक्ष्यं भिक्षितं नानुभिक्षयेत्
न व्यथेत तथाऽलाभे यथा लब्धेन वर्तयेत्
नाऽऽस्वादयेत्तथैवान्नं नाश्नीयात्कस्यचिद्गृहे ३
मृण्मयालावुपात्राणि यतीनान्तु विनिर्दिशेत्
तेषां सम्मार्जनाच्छुद्धिरद्भिश्चैव प्रकीर्तिता ४
कौपीनाच्छादनं वासो विभृयादसखश्चरन्
शून्यागारनिकेतः स्याद्यत्र सायं गृहो मुनिः ५
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्
सत्त्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ६
चन्दनैर्लिप्यतेऽङ्गं वा भस्मचूर्णैर्विगर्हितैः
कल्याणमप्यकल्याणं तयोरेव न संश्रयेत् ७
सर्वभूतहितो मैत्रः समलोष्ट्राश्मकाञ्चनः
ध्यानयोगरतो नित्यं भिक्षुर्यायात्परां गतिम् ८
जन्मना यस्तु निर्विण्णो मन्यते च तथैव च
आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः ९
अशुचित्वं शरीरस्य प्रियस्य च विपर्य्ययः
गर्भवासे च वसतिस्तस्मान्मुच्येत नान्यथा १०
जगदेतन्निराक्रन्दं न तु सारमनर्थकम्
भोक्तव्यमिति निर्विण्णो मुच्यते नात्र संशयः ११
प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्विषम्
प्रत्याहारैरसत्सङ्गान् ध्यानेनानैश्वरान्गुणान् १२
सव्याहृतिं सप्रणवां गायत्री शिरसा सह

१८८

त्रिःपठेदायतप्राणः प्राणायामः स उच्यते १३
मनसः संयमस्तज्ज्ञैर्धारणेति निगद्यते
संहारश्चेन्द्रियाणाञ्च प्रत्याहारः प्रकीर्तितः १४
हृदयस्थस्य योगेन देवदेवस्य दर्शनम्
ध्यानं प्रोक्तं प्रवक्षामि सर्वस्माद्योगतः शुभम् १५
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः
हृदि ज्योतींषि भूयश्च हृदि सर्वं प्रतिष्टितम् १६
स्वदेहमरणिं कृत्वा प्रणवञ्चोत्तरारणिम्
ध्याननिर्मथनाभ्यान्तु विष्णुं पश्येद्धृदिस्थितम् १७
हृद्यर्कश्चन्द्रमाः सूर्य्यः सोमो मध्ये हुताशनः
तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः १८
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्न्निहितो गुहायाम्
तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः १९
वासुदेवस्तमोऽन्धानां प्रत्यक्षो नैव जायते
अज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुभिः २०
एष वै पुरुषोविष्णुर्व्यक्ताव्यक्तः सनातनः
एव धाता विधाता च पुराणो निष्कलः शिवः २१
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्
मन्त्रैर्विदित्वा न विभेति मृत्योर्नान्यः पन्थाविद्यतेऽयनाय २२
पृथिव्यापस्तथा तेजोवायुराकाशमेव च
पञ्चमानि विजानीयान्महाभूतानि पण्डितः २३
चक्षुः श्रोत्रे स्पर्शनञ्च रसना घ्राणमेव च
बुद्धीन्द्रियाणि ज्ञानीयात्पञ्चमानि शरीरके २४
शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च
इन्द्रियस्थान् विजानीयात्पञ्चैव विषयान् बुधः २५
हस्तौ पादावुपस्थञ्च जिह्वा पायुस्तथैव च

१८९

कर्मेन्द्रियाणि पञ्चैव नित्यं सति शरीरके २६
मनो बुद्धिस्तथैवाऽऽत्मा व्यक्ताव्यक्तं तथैव च
इन्द्रियेभ्यः पराणीह चत्वारि प्रवराणि च
चतुर्विंशत्यथैतानि तत्त्वानि कथितानि च
तथाऽऽत्मानं तद्व्यतीतं पुरुषं पञ्चविंशकम्
तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृत्तयः २८
इदन्तु परमं शुद्धमेतदक्षरमुत्तमम्
अशब्दरसमस्पर्शमरूपं गन्धवर्जितम् २९
निर्दुःखमसुखं शुद्धं तद्विष्णोः परमं पदम्
अजं निरञ्जनं शान्तमव्यक्तं ध्रुवमक्षरम्
अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम्
विज्ञानसारथिर्यस्तु मनःप्रग्रहबन्धनः ३०
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्
बालाग्रशतशो भागः कल्पितस्तु सहस्रधा ३१
तस्यापि शतशो भागाज्जीवः सूक्ष्म उदाहृतः ३२
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः
मनसस्तु परा बुद्धिर्बुद्धेरात्मा तथा परः
महतः परमव्यक्तमव्यक्तात्पुरुषः परः
पुरुषान्नं परं किञ्चित्सा काष्ठा सा परा गतिः ३३
एषु सर्वेषु भूतेषु तिष्ठत्यविरलः सदा
दृश्यते त्वग्य्रया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ३४
इति शाङ्खीये धर्मशास्त्रे सप्तमोऽध्यायः
अष्टमोऽध्यायः
अथनित्यनैमित्तिकादिस्नानानां लक्षणवर्णनम्
नित्यं नैमित्तिकं कामं क्रियाङ्गं मलकर्षणम्

१९०

क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् १
अस्नातः पुनरानहां जप्याग्निहवनादिषु
प्रातःस्नानं तदर्थं च नित्यस्नानं प्रकीर्तितम् २
चण्डालशवयूपाद्यं स्पृष्ट्वा स्नानं रजस्वलाम्
स्नानानर्हस्तु यः स्नाति स्नानं नैमित्तिकं च तत् ३
पुष्यस्नानादिकं स्नानं दैवज्ञविधिचोदितम्
तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ४
जप्तुकामः पवित्राणि अर्चिष्यन्देवताः पितृन्
स्नानं समाचरेद्यस्तु क्रियाङ्गं तत्प्रकीर्तितम् ५
मलापकर्षणार्थं तु स्नानमभ्यङ्गपूर्वकम्
मलापकर्षणार्थाय प्रवृत्तिस्तस्य नान्यथा ६
सरित्सु देवखातेषु तीर्थेषु च नदीषु च
क्रियास्नानं समुद्दिष्टं स्नानं तत्र महाक्रिया ७
तत्र काम्यं तु कर्तव्यं यथावद्विधिचोदितम्
नित्यं नैमित्तिकं चैव क्रियाङ्गं मलकर्षणम् ८
तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः
स्नानं तु वह्नितप्तेन तथैव परवारिणा ९
शरीरशुद्धिर्विज्ञेया न तु स्नानफलं लभेत्
अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् १०
सरःसु देवखातेषु तीर्थेषु च नदीषु च
स्नानमेव क्रिया तस्मात्स्नानात्पुण्यफलं स्मृतम् ११
तीर्थं प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरेत्
स्नानजं फलमाप्नोति तीर्थयात्राफलं न तु १२
सर्वतीर्थानि पुण्यानि पापघ्नानि सदा नृणाम्
परस्परानपेक्षाणि कथितानि मनीषिभिः १३
सर्वे प्रस्रवणाः पुण्याः सरांसि च शिलोच्चयाः

१९१

नद्यः पुण्यास्तथा सर्वा जाह्नवी तु विशेषतः १४
यस्य पादौ च हस्तौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते १५
नृणां पापकृतां तीर्थे पापस्य शमनं भवेत्
यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम् १६
इति शाङ्खीये धर्मशास्त्रेऽष्टमोऽध्यायः
अथ नवमोऽध्यायः
अथ क्रियास्नानविधिवर्णनम्
क्रियास्नानं प्रवक्ष्यामि यथावद्विधिपूर्वकम्
मृद्भिरद्भिश्च कर्तव्यं शौचमादौ यथाविधि १
जले निमग्न उन्मज्य उपस्पृश्य यथाविधि
जलस्याऽऽवाहनं कुर्यात्तत्प्रवक्ष्याम्यतः परम्
तीर्थस्यावाहनं कुर्य्यात्तत्प्रवक्ष्याम्यशेषतः २
प्रपद्ये वरुणं देवमम्भसां पतिमूर्ज्जितम्
याचितं देहि मे तीर्थं सर्वपापापनुत्तये ३
तीर्थमावाहयिष्यामि सर्व्वाघविनिषूदनम्
सान्निध्यमस्मिन् स्तोये च किर्यतां मदनुग्रहात् ४
रुद्रान्प्रपद्ये वरदान् सर्व्वानप्सु पदस्तथा
सर्व्वानप्सु सदश्चैव प्रपद्ये प्रयतः स्थितः ५
देवमंशुमदं वह्नि प्रपद्येऽघनिषूदनम्
आपः पुण्या पवित्राश्च प्रपद्ये शरणं तथा ६
रुद्राश्चाग्निश्च सर्पश्च वरुणस्त्वाप एव च
शमयन्त्वाशु म पापं माञ्च रक्षन्तु सर्वशः ७
इत्येवमुक्त्वा कर्तव्यस्ततः संमार्जनं जले
आपो हिष्ठेति तिसृभिर्यथावदनुपूर्वशः

१९२

हिरण्यवर्णति तिसृभिर्ज्जगतीति चतसृभिः
शं नो देवीति तथा शं न आपस्तथैव च ८
इदमापः प्रवहते तथा मन्त्रमुदीरयेत्
एवं सम्मार्जनं कृत्वा च्छन्दआर्षञ्च देवताः ९
एवं मन्त्रान्समुच्चार्य च्छन्दांसि ऋषिदेवताः
अघमर्षणसूक्तञ्च प्रपठेत् प्रयतः सदा
छन्दोऽनुष्टुप् च तस्यैव ऋषिश्चैवाघमर्षणः
देवता भाववृत्तश्च पापक्षये प्रकीर्तितः ११
ततोऽम्भसि निमग्नः स्यात्त्रिः पठेदघमर्षणम्
प्रपद्यान्मूर्द्धनि तथा महाव्याहृतिभिर्जलम् १२
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः
तथाऽघमर्षणं सूक्तं सर्वपापप्रणाशनम् १३
अनेन विधिना स्नात्वा स्नातवान् धौतवाससा
परिवर्जितवासास्तु तीर्थनामानि संजपेत् १४
उदकस्याप्रदानात्तु स्नानशाटीं न पीडयेत्
अनेन विधिना स्नातस्तीर्थस्य फलमश्नुते १५
इति शाङ्खे धर्मशास्त्रे नवमोऽध्यायः
अथ दशमोऽध्यायः
अथाचमनविधिवर्णनम्
अतः परं प्रवक्ष्यामि शुभामाचननक्रियाम्
कायं कनिष्ठिकामूले तीर्थमुक्तं मनीषिभिः १
अङ्गुष्ठमूले च तथा प्राजापत्यं विचक्षणैः
अङ्गुल्यग्रे स्मृतं दिव्यं पित्र्यं तर्जनिमूलकम् २
प्राजापत्येन तीर्थेन त्रिः प्राश्नीयाज्जलं द्विजः
द्विः प्रमृज्य मुखं पश्चात्खान्यद्भिः समुपस्पृशेत् ३

१९३

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः
तालुगाभिस्तथा वैश्यः शूद्रः स्पृष्टाभिरन्ततः ४
अन्तजार्नुः शुचौ देशे प्राङ्मुखः सुसमाहितः
उदङ्मुखो वा प्रयतो दिशश्चानवलोकयम् ५
अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुद्बुदैः
वह्निना चाप्यतपाभिरक्षाराभिरुपस्पृशेत् ६
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम्
अङ्गुष्ठमव्यायोगेन स्पृशेन्नत्रद्वयं ततः ७
अङ्गुष्ठानामिकाभ्यां तु श्रवणौ समुपस्पृशेत्
कनिष्ठाङ्गुष्ठयोगेन स्पृशेत्स्कन्धद्वयं ततः ८
सर्वासामेव योगेन नाभिं च हृदयं तथा
संस्पृशेच्च तथा मूर्ध्नि एष आचमने विधिः ९
त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः
ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुम १०
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात्
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ११
स्पृष्टे लोचनयुग्मे तु प्रीयेते शशिभास्करौ
कर्णयुग्मे तथा स्पृष्टे प्रीयेते अनिलानलौ १२
स्कन्धयाः स्पर्शनादश्य प्रीयन्ते सर्वदेवताः
मूर्ध्नः संस्पर्शनादस्य प्रीतस्तु पुरुषो भवेत् १३
विना यज्ञोपवीतेन तथा मुक्तशिखो द्विजः
अप्रक्षालितपादस्तु आचान्तोऽप्यशुचिर्भवेत् १४
बहिर्जानुरुपस्पृश्य एकहस्तार्पितैर्जलैः
सोपानत्कस्तथा तिष्ठन्नैव शुद्धिमवाप्नुयात् १५
आचम्य च पुराप्रोक्तं तीर्थसंमार्जनं तु यत्
उपस्पृशेत्ततः पश्चान्मत्रेणानेन धर्मतः १६

१९४

अन्तश्चरति भूतेषु गुहायां विश्वतोमुखः
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् १७
आचम्य च ततः पश्चादादित्याभिमुखो जलम्
उदु त्यं जातवेदसमिति मन्त्रेण निक्षिपेत् १८
एष एव विधिः प्रोक्तः संध्ययोश्च द्विजातिषु
पूर्वां संध्यां जपंस्तिष्ठेदासीनः पश्चिमांस्तथा १९
ततो जपेत्पवित्राणि पवित्रं वाऽथ शक्तितः
ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः २०
सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम्
येषां जपैश्च होमैश्च पूयन्ते मानवाः सदा २१
इति शाङ्खे धर्मशास्त्रे दशमोऽध्यायः
अथ एकादशोऽध्यायः
अथाघमर्षणविधिवर्णनम्
अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः
कूष्माण्ड्यः पावमान्यश्च सावित्र्यश्च तथैव च १
त्र्यभिष्ट्वं द्रुपदा चैव स्तोमानि व्याहृतिस्तथा
भारुण्डानि च सामानि गायत्री चौशनं तथा २
पुरुषव्रतं च भाषं च तथा सोमव्रतानि च
अब्लिङ्गं बार्हस्पत्यं च वाक्सूत्रममृतं तथा ३
शतरुद्रीयमथर्वशिरस्त्रिसुपर्णं महाव्रतम्
गे सूक्तमश्वसूक्तं च इन्द्रसूक्तं च सामनी ४
त्रीण्याज्यदोहानि रथंतरं च अग्निव्रतं वामदेवव्रतं च
एतानि गीतानि पुनन्तिजन्तूञ्जातिस्मरत्वं लभते यदीच्छेत् ५
इति शाङ्खे धर्मशास्त्रे एकादशोऽध्यायः

१९५

द्वादशोऽध्यायः
अथ गायत्रीजपविधिवर्णनम्
इति वेदपवित्राण्यभिहितानि एभ्यः सावित्री विशिष्यते १ ना-
स्त्यघमर्षणात्परमन्तर्जले २ न सावित्र्या समं जप्यं न व्याहृतिसमं
हुतम् ३ कुशमय्यामासीनः कुशोत्तरीयवान्कुशपवित्रपाणिः प्राङ्मुखः
सूर्याभिमुखो वाऽक्षमालामुपादाय देवताध्यायी जपं कुर्यात् ४
सुवर्णमणिभुक्तास्फटिकपद्माक्षरुद्राक्षपुत्रजीवकानामन्यतमेनाऽऽदाय
मालां कुर्यात् ५ कुशग्रन्थिं कृत्वा वामहस्तोपयमैर्वा गणयेत् ६
आदौ देवता ऋषिच्छन्दः स्मरेत् ७ ततः सप्रणवां सव्याहृतिकामादा-
वन्ते च शिरसा गायत्रीमावर्तयेत् अथास्याः सविता देवता ऋषि-
र्विश्वामित्रो गायत्री छन्दः ९ ॐकारः प्रणवाख्यः १०
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यमिति
व्याहृतयः ११ ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोमिति शिरः
१२ भवन्ति चात्र श्लोकाः १३
सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह
ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् १४
शतं जप्त्वा तु सा देवी दिनपापप्रणाशिनी
सहस्रं जप्त्वा तु तथा पातकेभ्यः समुद्धरेत् १५
दशसहस्रं जप्त्वा तु सर्वकल्मषनाशिनी
सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः १६
सुरापश्च विशुध्येत लक्षजाप्यान्न संशयः
प्राणायामत्रयं कृत्वा स्नानकाले समाहितः १७
अहोरात्रकृतात्पापात्तत्क्षणादेव मुच्यते
सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश १८
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः
हुता देवी विशेषेण सर्वकामप्रदायिनी १९

१९६

सर्वपापक्षयकरी वरदा भक्तवत्सला
शान्तिकामस्तु जुहुयात्सावित्रीमक्षतैः शुचिः २०
हन्तुकामोऽपमृत्युं च घृतेन जुहुयात्तथा
श्रीकामस्तु तथा पद्मैर्बिल्वैः काञ्चनकामुकः २१
ब्रह्मवर्चसकामस्तु पयसा जुहुयात्तथा
घृतप्लुतैस्तिलैर्वह्निं जुहुयात्सुसमाहितः २२
गायत्र्ययुतहोमाच्च सर्वपापैः प्रमुच्यते
पापात्मा लक्षहोमेन पातकेभ्यः प्रमुच्यते २३
अभीष्टं लोकमाप्नोति प्राप्नुयात्काममीप्सितम्
गायत्री वेदजननी गायत्री पापनाशिनी २४
गायत्र्या परमं नास्ति दिवि चेह च पावनम्
हस्तत्राणप्रदा देवी पततां नरकार्णवे २५
तस्मात्तामभ्यसेन्नित्यं ब्राह्मणो नियतः शुचिः
गायत्रीजाप्यनिरतं हव्यकव्येषु भोजयेत् २६
तस्मिन्न तिष्ठते पापमब्बिन्दुरिव पुष्करे २७
जपेनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते २८
उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः
नोच्चैर्जपं बुधः कुर्यात्सावित्र्यास्तु विशेषतः २९
सावित्रीजाप्यनिरतः स्वर्गमाप्नोति मानवः
गायत्रीजप्यनिरतो मोक्षोपायं च विन्दति ३०
तस्मात्सर्वप्रयत्नेन स्नातः प्रयतमानसः
गायत्रीं तु जपेद्भक्त्या सर्वपापप्रणाशिनीम् ३१
इति शाङ्खे धर्मशास्त्रे द्वादशोऽध्यायः

१९७

त्रयोदशोऽध्यायः
अथ तर्पणविधिवर्णनम्
स्नातः कृतजप्यस्तदनु प्राङ्मुखो
दिव्येन तीर्थेन देवानुदकेन तर्पयेत् १
अथ तर्पणविधिः २
ॐ भगवन्तं शेषं तर्पयामि ३
कालाग्निरुद्रं तु ततो रुक्मभौमं तथैव च
श्वेतभौमं ततः प्रोक्तं पातालानां च सप्तकम् ४
जम्बूद्वीपं ततः प्रोक्तं शाकद्वीपं ततः परम्
गोमेदपुष्करे तद्वच्छाकाख्यं च ततः परम् ५
शार्वरं ततः स्वधामानं ततो हिरण्यरोमाणं
ततः कल्पस्थायिनो लोकांस्तर्पयेत् ६
लवणोदकं ततः क्षीरोदं ततो घृतोदं तत इक्षूदं ततः स्वादूदं तत इति
सप्तसमुद्रकं प्रत्यृचं पुरुषसूक्तेनोदकाञ्जलीन्दद्यात् पुष्पाणि च तथा
भक्त्या ७ अथ कृतापसव्योदक्षिणामुखोऽन्तर्जानुः पित्र्येण पितृणां
यथाश्राद्धं प्रकाममुदकं दद्यात् ८ सौवर्णन पात्रेण राजतेनौदुम्बरेण
खड्गपात्रेणान्य पात्रेण वोदकं पितृतीर्थं स्पृशन्दद्यात् ९ पित्रे पिता-
महाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यं मातामहाय प्रमातः
महाय मात्रे मातामह्यै प्रमातामह्यै सप्तमात्पुरुषात्पितृपक्षे यावतां नाम
जानीयात्पितृपक्षाणां तर्पणं कृत्वा गुरूणां मातृपक्षाणां तर्पणं कुर्यात्
१० मातृपक्षाणां तर्पणं कृत्वा संबन्धिबान्धवानां कुर्यात् तेषां कृत्वा
सुहृदां कुर्यात् ११ भवन्ति चात्र श्लोकाः १२
विना रौप्यसुवर्णन विना ताम्रतिलेन च
विना दर्भैश्च मन्त्रैश्च पितृणां नोपतिष्ठते १३
सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण च
दत्तमक्षय्यतां याति पितृणां तु तिलोदकम् १४

१९८

हेम्ना तु सह यद्दत्तं क्षीरेण मधुना सह
तदप्यक्षय्यतां याति पितृणां तु तिलोदकम् १५
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा
पयोमूलफलैर्वाऽपि पितॄणां प्रीतिमाहवन् १६
स्नातः संतर्पणं कृत्वा पितृणां तु तिलाम्भसा
पितृयज्ञमवाप्नोति प्रीणाति च पितृंस्तथा १७
इति शाङ्खे धर्मशास्त्रे त्रयोदशोऽध्यायः
अथ चतुर्दशोऽध्यायः
अथ श्राद्धे ब्राह्मणपरीक्षावर्णनम्
ब्राह्मणान्न परीक्षेत दैवे कर्मणि धर्मवित्
पित्र्ये कर्मणि संप्राप्ते युक्तमाहुः परीक्षणम् १
ब्राह्मणा ये विकर्मस्था बैडालव्रतिकास्तथा
ऊनाङ्गा अतिरिक्ताङ्गा ब्राह्मणाः पङ्क्तिदूषकाः २
गुरूणां प्रतिकूलाश्च वेदाग्न्युत्सादिनश्च ये
गुरूणां त्यागिनश्चैव ब्राह्मणाः पङ्क्तिदूषकाः ३
अनध्यायेष्वधीयानाः शौचाचारविवर्जिताः
शूद्रान्नरससंपुष्टा ब्राह्मणा पङ्क्तिदूषकाः ४
षडङ्गवित्त्रिसुपर्णो बह्वृचो ज्येष्ठसामगः
त्रिणाचिकेतः पञ्चाग्निर्ब्राह्मणाः पङ्क्तिपावनाः ५
ब्रह्मदेयानुसंतानो ब्रह्मदेयाप्रदायकः
ब्रह्मदेयापतिर्यश्च ब्राह्मणाः पङ्क्ति पावनाः ६
ऋग्यजुःपारगो यश्च साम्नां यश्चापि पारगः
अथर्वाङ्गिरसोऽध्येता ब्राह्मणः पङ्क्तिपावनः ७
नित्यं योगरतो विद्वान्समलोष्टाश्मकाञ्चनः
ध्यानशीलो यतिर्विद्वान्ब्राह्मणः पङ्क्तिपावनः ८

१९९

द्वौदैवे प्राङ्मुखौ त्रीन्वा पित्र्ये चोदङ्मुखांस्तथा
भोजयेद्विविधान्विप्रानेकैकमुभयत्र वा ९
भोजयेदथवाऽप्येकं ब्राह्मणं पङ्क्तिपावनम्
दैवे कृत्वा तु नैवेद्यं पश्चाद्वह्नौ तु तत्क्षिपेत् १०
उच्छिष्टसंनिधौ कार्यं पिण्डनिर्वपणं बुधैः
अभावे च तथाकार्यमग्निकार्यं यथाविधि ११
श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः
उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् १२
अन्यत्र पुष्पमूलेभ्यः पीठकेभ्यश्च पण्डितः
भोजयेद्विविधान्विप्रान्गन्धमाल्यसमुज्ज्वलान् १३
यत्किंचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा
अनिवेद्य न भोक्तव्यं पिण्डमूले कदाचन १४
उग्रगन्धान्यगन्धानि चैत्यवृक्षभवानि च
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च १५
तोयोद्भवानि देयानि रक्तान्यपि विशेषतः
ऊर्णासूत्रं प्रदातव्यं कार्पासमथवा नवम् १६
दशां विवर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजाम्
घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः १७
धूपार्थं गुग्गुलुं दद्याद्धृतयुक्तं मधूत्कटम्
चन्दनं च तथा दद्यात्पिष्ट्वा च कुङ्कुमं शुभम् १८
भूतृणं सुरसं शिग्रुं पालकं सिन्धुकं तथा
कूष्माण्डालाबुवार्ताककोविदरांश्च वर्जयेत् १९
पिप्पलीं मरिचं चैव तथा वै पिण्डमूलकम्
कृतं च लवणं सर्वं वंशाग्रं तु विवर्जयेत् २०
राजमाषान्मसूरांश्च कोद्रवान्कोरदूषकान्
लोहितान्वृक्षनिर्यासान् श्राद्धकर्मणि वर्जयेत् २१

२००

आम्रमामलकीमिक्षं मृद्वीकादधिदाडिमान्
विदार्यश्चैव रम्भाद्या दद्याच्छ्राद्धे प्रयत्नतः २२
धानालाजे मधुयुते सक्तून्शर्करया सह
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटकविसेतकान् २३
भोजयित्वा द्विजान्भक्त्या स्वाचान्तान्दत्तदक्षिणान्
अभिवाद्य पुनर्विप्राननुत्रज्य विसर्जयेत् २४
निमन्त्रितस्तु यः श्राद्धे मैथुनं सेवते द्विजः
श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान्महतैनसा २५
कालशाकं सशल्कांश्च मांसं वाध्रीणसस्य च
खड्गमांसं तथाऽनन्तं यमः प्रोवाच धर्मवित् २६
यद्ददाति गयाक्षेत्रे प्रभासे पुष्करे तथा
प्रयागे नैमिषारण्ये सर्वमानन्त्यमश्नुते २७
गङ्गायमुनयोस्तीरे पयोष्ण्याभरकण्टके
नर्मदायां गयातीरे सर्वमानन्त्यमुच्यते २८
वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे महालये
सप्तवेण्यृषि कूपे च तदप्यक्षय्यमुच्यते २९
म्लेच्छदेशे तथा रात्रौ संध्यायां च विशेषतः
न श्राद्धमाचरेत्प्राज्ञो म्लेच्छदेशे न च व्रजेत् ३०
हस्तिच्छायासु यद्दत्तं यद्दत्तं राहुदर्शने
विषुवत्ययने चैव सर्वमानन्त्यमुच्यते ३१
प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम्
प्राप्य श्राद्धं तु कर्तव्यं मधुना पायसेन वा ३२
प्रजां पुष्टिं यशः स्वर्गमारोग्यं च धनं तथा
नृणां श्राद्धैः सदा प्रीताः प्रयच्छन्ति पितामहाः ३३
इति शाङ्खे धर्मशास्त्रे चतुर्दशोऽध्यायः

२०१

पञ्चदशोऽध्यायः
अथ जननमरणाशौचवर्णनम्
जनने मरणे चैव सपिण्डानां द्विजोत्तमः
त्र्यहाच्छुद्धिमवाप्नोति योऽग्निवेदसमन्वितः १
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते
नामधारकविप्रस्तु दशाहेन विशुध्यति २
क्षत्रियो द्वादशाहेन वैश्यः पक्षेण शुध्यति
मासेन तु तथा शूद्रः शुद्धिमाप्नोति नान्तरा ३
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति
अजातदन्तबाले तु सद्यः शौचं विधीयते ४
अहोरात्रात्तथा शुद्धिर्बाले त्वकृतचूडके
तथैवानुपनीते तु त्र्यहाच्छुध्यन्ति बान्धवाः ५
अनूढानां तु कन्यायां तथैव शूद्रजन्मनाम्
अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात्परम् ६
मृत्युं समधिगच्छेच्चेन्मासात्तस्यापि बान्धवाः
शुद्धिं समभिगच्छेयुर्नात्र कार्या विचारणा ७
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता
तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ८
हीनवर्णां तु या नारी प्रमादात्प्रसवं व्रजेत्
प्रसवे मरणे तज्जमाशौचं नोपशाम्यति ९
समानं खल्वशौचं तु प्रथमेन समापयेत्
असमानं द्वितीयेन धर्मराजवचो यथा १०
देशान्तरगतः श्रुत्वा कुल्यानां मरणोद्भवौ
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ११
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत्
तथा संवत्सरेऽतीते स्नान एव विशुध्यति १२

२०२

अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च
परपूर्वासु च स्त्रीषु त्र्यहाच्छुद्धिरिहेष्यते १३
मातामहे व्यतीते तु आचार्ये च तथा मृते
गृहे दत्तासु कन्यासु मृतासु च त्र्यहस्तथा १४
निवासराजनि प्रेते जाते दौहित्रके गृहे
आचार्यपत्नीपुत्रेषु प्रेतेषु दिवसेन च १५
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च
सब्रह्मचारिण्येकाहमनूचाने तथा मृते १६
एकरात्रं त्रिरात्रं च षड्रात्रं मासमेव च
शूद्रे सपिण्डे वर्णानामाशौचं क्रमशः स्मृतम् १७
त्रिरात्रमथ षड्रात्रं पक्षं मासं तथैव च
वैश्ये सपिण्डे वर्णानामाशौचं क्रमशः स्मृतम् १८
सपिण्डे क्षत्त्रिये शुद्धिः षड्रात्रं ब्राह्मणस्य तु
वर्णानां परिशिष्टानां द्वादशाहं विनिर्दिशेत् १९
सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः
दशरात्रेण शुध्येयुरित्याह भगवान्यमः २०
भृग्वग्न्यनशनाम्भोभिर्मृतानामात्मघातिनाम्
पतितानां च नाशौचं शस्त्रविद्युद्धताश्च ये २१
यतिव्रतिब्रह्मचारिनृपकारुकदीक्षिताः
नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये २२
यस्तु भुङ्क्ते पराशौचे वर्णी सोऽप्यशुचिर्भवेत्
अशौचशुद्धौ शुद्धिश्च तस्याप्युक्ता मनीषिभिः २३
पराशौचे नरो भुक्त्वा कृमियोनौ प्रजायते
भुक्त्वाऽन्नं म्रियते यस्य तस्य योनौ प्रजायते २४
दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च
प्रेतपिण्डक्रियावर्जमाशौचे विनिवर्तते २५

२०३

इति शाङ्खे धर्मशास्त्रे पञ्चदशोऽध्यायः
अथ षोडशोऽध्यायः
अथद्रव्यशुद्धिः मृण्मयादिपात्रशुद्धिवर्णनम्
मृण्मयं भाजनं सर्वं पुनः पाकेन शुध्यति
मद्यैर्मूत्रैः पुरीषैश्च ष्ठीवनैः पूयशोणितैः १
संस्पृष्टं नैव शुध्येत पुनः पाकेन मृण्मयम्
एतैरेव तथा स्पृष्टं ताम्रसौवर्नराजतम् २
शुध्यत्यावर्तितं पश्चादन्यथा केवलाम्भसा
आम्लोदकेन ताम्रस्य सीसस्य त्रपुणस्तथा ३
क्षारेण शुद्धिः कांसस्य लोहस्य च विनिर्दिशेत्
मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु ४
अब्जानां चैव भाण्डानां सर्वस्याश्ममयस्य च
शाकवर्जं मूलफलविदलानां तथैव च ५
मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि
उष्णाम्भसा तथा शुद्धिं सस्नेहानां विनिर्दिशेत् ६
शयनासनयानानां स्फ्यशूर्पशकटस्य च
शुद्धिः संप्रोक्षणाद्यज्ञे कटमिन्धनयोस्तथा ७
मार्जनाद्वेश्मनां शुद्धिः क्षितेः शोधस्तु तत्क्षणात्
संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ८
बहूनां प्रोक्षणाच्छुद्धिर्धान्यादीनां विनिर्दिशेत्
प्रोक्षणात्संहतानां च दारवाणां च तत्क्षणात् ९
सिद्धार्थकानां कल्केन शृङ्गदन्तमयस्य च
गोवालैः फलपात्राणामस्थ्नां शृङ्गवतां तथा १०
निर्यासानां गुडानां च लवणानां तथैव च
कुसुम्भकुङ्कुमानां च ऊर्णाकार्पासयोस्तथा ११

२०४

प्रोक्षणात्कथिता शुद्धिरित्याह भगवान्यमः
भूमिष्ठमुदकं शुद्धं शुचि तोयं शिलागतम् १२
वर्णगन्धरसैर्दुष्टैर्वर्जितं यदि तद्भवेत्
शुद्धं नदीगतं तोयं सर्वदैव तथाऽऽकरः १३
शुद्धं प्रसारितं पण्यं शुद्धे चाजाश्वयोर्मुखे
मुखवर्जं तु गौः शुद्धा मार्जारश्चाऽऽक्रमे शुचिः १४
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः
आत्मनः कथितं शुद्धं न शुद्धं हि परस्य च १५
नारीणां चैव वत्सानां शकुनीनां शुनां मुखम्
रात्रौ प्रस्रवणे वृक्षे मृगयायां सदा शुचि १६
शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति १७
रथ्याकर्दमतोयेन ष्ठीवनाद्येन वाऽप्यथ
नाभेरूर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुध्यति १८
कृत्वा मूत्रं पुरीषं वा स्नात्वा भोक्तुमनास्तथा
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च १९
रथ्यां वाऽऽक्रम्य वाऽऽचामेद्वासो विपरिधाय च
कृत्वा मूत्रपुरीषं च लेपगन्धापहं द्विजः २०
उद्धृतेनाम्भसा शौचं मृदा चैव समाचरेत्
मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते २१
एकस्मिन्विंशतिर्हस्ते द्वयोर्ज्ञेयाश्चतुर्दश
तिस्रस्तु मृत्तिका देयाः कृत्वा नखविशोधनम् २२
तिस्रस्तु पादयोर्ज्ञेयाः शौचक्रामस्य सर्वदा
शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् २३
त्रिगुणं च वनस्थानां यतीनां तु चतुर्गुणम्
मृत्तिका च विनिर्दिष्टा त्रिपर्वाऽऽपूर्यते यथा २४

२०५

इति शाङ्खे धर्मशास्त्रे षोडशोऽध्यायः
अथ सप्तदशोऽध्यायः
अथ क्षत्रियादिवधे गवाद्यपहारे व्रतवर्णनम्
नित्यं त्रिषवणस्नायी कृत्वा प्रर्णकुटीं वने
अधःशायी जटाधारी पर्णमूलफलाशनः १
ग्रामं विशेच्च भिक्षार्थं स्वकर्म परिकीर्तयन्
एककालं समश्नीयाद्वर्षे तु द्वादशे गते २
हेमस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः
व्रतेनैतेन शुध्यन्ते महापातकिनस्त्विमे ३
यागस्थं क्षत्त्रियं हत्वा वेश्यं हत्वा च याजकम्
एतदेव व्रतं कुर्यादाश्रमं विनिदूषकः ४
कूटसाक्ष्यं तथैवोक्त्वा निक्षेपमपहृत्य च
एतदेव व्रतं कुर्यात्त्यक्त्वा च शरणागतम् ५
आहिताग्नेः स्त्रियं हत्वा मित्रं हत्वा तथैव च
हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ६
वनस्थं च द्विजं हत्वा पार्थिवं च कृतागसम्
एतदेव व्रतं कुर्याद् द्विगुणं च विशुद्धये ७
क्षत्त्रियस्य च पादोनं वधेऽर्धं वैश्यघातने
अर्धमेव सदा कुर्यात्स्त्रीवधे पुरुषस्तथा ८
पादं तु शूद्रहत्यायामुदक्यागमने तथा
गोवधे च तथा कुर्यात्परदारगतस्तथा ९
पशून्हत्वा तथा ग्राम्यान्मासं कृत्वा विचक्षणः
आरण्यानां बधे तद्वत्तदर्धं तु विधीयते १०
हत्वा द्विजं तथा सर्पजलेशयबिलेशयान्
सप्तरात्रं तथा कुर्याद्व्रतं ब्रह्महणस्तथा ११

२०६

अनस्थ्नां शकटं हत्वा सास्थ्नां दशशतं तथा
ब्रह्महत्याव्रतं कुर्यात्पूर्णं संवत्सरं नरः १२
यस्य यस्य च वर्णस्य वृत्तिच्छेदं समाचरेत्
तस्य तस्य वधे प्रोक्तं प्रायश्चित्तं समाचरेत् १३
अपहृत्ये तु वर्णानां भुवं प्राप्य प्रमादतः
प्रायश्चित्तं वधे प्रोक्तं ब्राह्मणानुमतं चरेत् १४
गोजाश्वस्यापहरणे मणीनां रजतस्य च
जलापहरणे चैव कुर्यात्संवत्सरव्रतम् १५
तिलानां धान्यवस्त्राणां मद्यानामामिषस्य च
संवत्सरार्धं कुर्वीत व्रतमेतत्समाहितः १६
तृणेक्षुकाष्ठतक्राणां रसानामपहारकः
मासमेकं व्रतं कुर्याद्गन्धानां सर्पिषां तथा १७
लवणानां गुडानां च मूलानां कुसुमस्य च
मासार्धं तु व्रतं कुर्यादेतदेव समाहितः १८
लौहानां वैदलानां च सूत्राणां चर्मणां तथा
एकरात्रव्रतं कुर्यादेतदेव समाहितः १९
भुक्त्वा पलाण्डुं लशुनं मद्यं च कवकानि च
नारं मलं तथा मांसं विड्वराहं खरं तथा २०
गौधेरकुञ्जरोष्ट्रं च सवपञ्चनखं तथा
क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सरं व्रतम् २१
भक्ष्याः पञ्चनखास्त्वेते गोधाकच्छपशल्लकाः
खड्गश्च शशकश्चैव तान्हत्वा च चरेद्व्रतम् २२
हंसं मद्गुं बकं काकं काकोलं खञ्जरीटकम्
मत्स्यादांश्च तथा मत्स्यान्बलाकं शुकसारिके २३
चक्रवाकं प्लवं कोकं मण्डूकं भुजगं तथा
मासमेकं व्रतं कुर्यादेतच्चैव न भक्षयेत् २४

२०७

राजीवान्सिंहतुण्डाश्च सशल्कांश्च तथैव च
पाठीनरोहितौ भक्ष्यौ मत्स्येषु परिकीर्तितौ २५
जलेचरांश्च जलजान्मुखाग्रनखविष्किरान्
रक्तपादाञ्जालपादान्सप्ताहं व्रतमाचरेत् २६
तित्तिरं च मयूरं च लावकं च कपिञ्जलम्
वार्ध्रीणसं वर्तकं च भक्ष्यानाह यमस्तथा २७
भुक्त्वा चोभयतोदन्तं तथैकशफदंष्ट्रिणः
तथा भुक्त्वा तु मांसं वै मासार्धं व्रतमाचरेत् २८
स्वयं मृतं वृथा मांसं माहिषं त्वाजमेव च
गोश्च क्षीरं विवत्सायाः संधिन्याश्च तथा पयः २९
संधिन्यमेध्यं भक्षित्वा पक्षं तु व्रतमाचरेत्
क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः ३०
सप्तरात्रं व्रतं कुर्याद्यदेतत्परिकीर्तितम्
लोहितान्वृक्षनिर्यासान्ब्रश्चनप्रभवांस्तथा ३१
केवलानि च शुक्तानि तथा पर्युषितं च यत्
गुडयुक्तं तथा भुक्त्वा त्रिरात्रं च व्रती भवेत् ३२
दधि भैक्ष्यं च शुक्त्रेषु यच्चान्यद्दधिसंभवम्
गुडशुक्तं तु भक्ष्यं स्यात्ससर्पिष्कमिति स्थितिः ३३
यवगोधूमजाः सर्वे विकाराः पयसश्च ये
राजवाडवकुल्यं च भक्ष्यं पर्युषितं भवेत् ३४
सजीवपक्वमांसं च सर्वं यत्नेन वर्जयेत्
संवत्सरं व्रतं कुर्यात्प्राश्यैताञ्ज्ञानतस्तु तान् ३५
शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः
चिकित्सकस्य क्षुद्रस्य तथा स्त्रीमृगजीविनः ३६
षण्डस्य कुलटायाश्च तथा बन्धनचारिणः
बद्धस्य चैव चोरस्य अवीरायाः स्त्रियस्तथा ३७

२०८

चर्मकारस्य वेणस्य क्लीवस्य पतितस्य च
रुक्मकारस्य धूर्तस्य तथा वार्धुषिकस्य च ३८
कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च
गणान्नं भूमिपालान्नमन्नं चैव श्वजीविनाम् ३९
मौञ्जिकान्नं सूतिकान्नं भुक्त्वा मासं व्रतं चरेत्
शूद्रस्य सततं भुक्त्वा षन्मासान्व्रतमाचरेत् ४०
वैश्यस्य तु तया भुक्त्वा त्रीन्मासान्व्रतमाचरेत्
क्षत्त्रियस्य तथा भुक्त्वा द्वौमासौ व्रतमाचरेत् ४१
ब्राह्मणस्य तथा भुक्त्वा मासमेकं व्रतं चरेत्
अपः सुराभाजनस्थाः पीत्वा पक्षं व्रतं चरेत् ४२
मद्यभाण्डगताः पीत्वा सप्तरात्रं व्रतं चरेत्
शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः ४३
क्षत्त्रियस्य तु सप्ताहं ब्रह्मणस्य तथा दिनम्
अग्रश्राद्धाशने विद्वान्मासमेकं व्रती भवेत् ४४
परिवित्तिः परिवेत्ता च यया च परिविन्दति
व्रतं संवत्सरं कुर्युर्दातृयाजकपञ्चमाः ४५
काकोच्छिष्टं गवाऽऽघ्रातं भुक्त्वा पक्षं व्रती भवेत्
दूषितं केशकीटैश्च मूषिकालाङ्गलेन च ४६
मक्षिकामशकेनापि त्रिरात्रं तु व्रती भवेत्
वृथा कृसरसंयावपायसापूपशष्कुलीः ४७
भुक्त्वा त्रिरात्रं कुर्वीत व्रतमेतत्समाहितः
नील्या चैव क्षतो विप्रः शुना दष्टस्तथैव च ४८
त्रिरात्रं तु व्रतं कुर्यात्पुंश्चलीदशनक्षतः
पादप्रतापनं कृत्वा वह्निं कृत्वा तथाऽप्यधः ४९
कुशैः प्रमृज्य पादौ च दिनमेकं व्रती भवेत्
नीलीवस्त्रं परी धाय भुक्त्वा स्नानार्हणस्तथा ५०

२०९

त्रिरात्रं च व्रतं कुर्य्याच्छित्त्वा गुल्मलतास्तथा
अध्यास्य शयनं यानमासनं पादुके तथा ५१
पलाशस्य द्विजश्रेष्ठस्त्रिरात्रं तु व्रती भवेत्
वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते
भुक्त्वाऽन्नं ब्राह्मणः पश्चात्त्रिरात्रं तु व्रती भवेत् ५२
क्षत्त्रियस्तु रणे दत्त्वा पृष्ठं प्राणपरायणः
संवत्सरव्रतं कुर्य्याच्छित्त्वा वृक्षं फलप्रदम् ५३
दिवा च मैथुनं गत्वा स्नात्वा नग्नस्तथाऽम्भसि
नग्नां परस्त्रियं दृष्ट्वा दिनमेकं व्रती भवेत् ५४
क्षिप्त्वाऽग्नावशुचि द्रव्यं तदेवाम्भसि मानवः
मासमेकं व्रतं कुर्यादुपक्रुध्य तथा गुरुम् ५५
पीतावशेषं पानीयं पीत्वा च ब्राह्मणः क्वचित्
त्रिरात्रं तु व्रतं कुर्याद्वामहस्तेन वा पुनः ५६
एकपङ्क्त्युपविष्टेषु विषमं यः प्रयच्छति
स च तावदसौ पक्षं कुर्यात्तु ब्राह्मणो व्रतम् ५७
धारयित्वा तुलाचार्यं विषमं कारयेद्वणिक्
सुरालवणमद्यानां दिनमेकं व्रती भवेत् ५८
मांसस्य विक्रयं कृत्वा कुर्याच्चैव महाव्रतम्
विक्रीय पणिना मद्यं तिलस्य च तथाऽऽचरेत् ५९
हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः
दिनमेकं व्रतं कुर्यात्प्रयतः सुसमाहितः ६०
प्रेतस्य प्रेतकार्याणि अकृत्वा धनहारकः
वर्णानां यद्व्रतं प्रोक्तं तद्व्रतं प्रयतश्चरेत् ६१
कृत्वा पापं न गूहेत गुह्यमानं विवर्धते
कृत्वा पापं बुधः कुर्यात्पर्षदोऽनुमतं व्रतम् ६२
तस्करश्वापदाकीर्ण बहुव्यालमृगे वने

२१०

न व्रतं ब्राह्मणः कुर्य्यात्प्राणवाधाभयात्सदा ६३
सर्वत्र जीवनं रक्षेज्जीवन्पापमपोहति
व्रतैः कृच्छ्रैश्च दानैश्च इत्याह भगवान्यमः ६४
शरीरं धर्मसर्वस्वं रक्षणीयं प्रयत्नतः
शरीरात्स्रवते धर्मः पर्वतात्सलिलं यथा ६५
आलोच्य धर्मशास्त्राणि समेत्य ब्राह्मणैः सह
प्रायश्चित्तं द्विजो दद्यात्स्वेच्छया न कथंचन ६६
इति शाङ्खे धर्मशास्त्रे सप्तदशोऽध्यायः
अथाष्टादशोऽध्यायः
अघमर्षण पराक कृच्छ्र अतिकृच्छ्र सान्तापनादिव्रतम्
त्र्यहं त्रिषवणस्नायी स्नाने स्नानेऽघमर्षणम्
निमग्नस्त्रिः पठेदप्सु न भुञ्जीत दिनत्रयम् १
वीरासनं च तिष्ठेत गां दद्याच्च पयस्विनीम्
अघमर्षणमित्येतद्व्रतं सर्वाघनाशनम् २
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम्
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्व्रतम् ३
त्र्यहमुष्णं पिवेत्तोयं त्र्यहमुष्णं घृतं पिवेत् त्र्यहमुष्णं पयः पीत्वा वायुभक्षस्त्र्यहं भवेत् ४
तप्तकृच्छ्रं विजानीयाच्छीतैः शीतमुदाहृतम्
द्वादशाहोपवासेन पराकः परिकीर्तितः ५
विधिनोदकसिद्धानि मासमश्नीत यत्नतः
स कृत्वा सोदकान्मासं कृच्छ्रं वारुणमुच्यते ६
बिल्वैरामलकैर्वाऽपि पद्माक्षैरथवा शुभैः
मासेन लोकेऽतिकृच्छ्रः कथ्यते बुद्धिसत्तमैः ७
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

२११

एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ८
एतैस्तु त्र्यहमभ्यस्तं महासांतपनं स्मृतम्
पिण्याकं वामतक्राम्बुसक्तूनां प्रतिवासरम् ९
उपवासान्तराभ्यासात्तुलापुरुष उच्यते
गोपुरीषाशनो भूत्वा मासं नित्यं समाहितः १०
व्रतं तु यावकं कुर्यात्सर्वपापनुत्तये
ग्रासं चन्द्रकलावृद्ध्या प्राश्नीयाद्वर्धयन्सदा ११
ह्रासयेच्च कलाहानौ व्रतं चान्द्रायणं चरेत्
मुण्डस्त्रिषवणस्नायी अधः शायी जितेन्द्रियः १२
स्त्रीशूद्रपतितानां च वर्जयेत्परिभाषणम्
पवित्राणि जपेच्छक्त्या जुहुयाच्चैव शक्तितः १३
अयं विधिः स विज्ञेयः सर्वकृच्छ्रेषु सर्वदा
पापात्मानस्तु पापेभ्यः कृच्छ्रैः संतारिता नराः १४
गतपापादिकं यान्ति नात्र कार्या विचारणा
शङ्खप्रोक्तमिदं शास्त्रं योऽधीते बुद्धिमान्नरः
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते १६
इति शाङ्खे धर्मशास्त्रेऽष्टादशोऽध्यायः
समाप्ताचेयं शङ्खस्मृतिः
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
ण वेलभ ीीीण्ज्ञेलहख्ि न्अगण १९८१।ण पपभ १४१५फफभ

२१२