वागीशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे ।
यं नत्वा कृतकृत्याः स्युस् तं नमामि गजाननम् ॥ १ ॥
सो ऽहं प्राप्य विवेकतीर्थपदवीम् आम्नायतीर्थे परम्
मज्जन् सज्जनतीर्थसङ्गनिपुणः सद्वृत्ततीर्थं श्रयन् ।
लब्धाम् आकलयन् प्रभावलहरीं श्रीभारतीतीर्थतो
विद्यातीर्थम् उपाश्रयन् हृदि भजे श्रीकण्ठम् अव्याहतम् ॥ २ ॥
सत्यैकव्रतपालको द्विगुणधीस् त्र्यर्थी चतुर्वेदिता
पञ्चस्कन्धकृती षडन्वयदृढः सप्ताङ्गसर्वंसहः ।
अष्टव्यक्तिकलाधरो नवनिधिः पुष्यद्दशप्रत्ययः
स्मार्तोच्छ्रायधुरन्धरो विजयते श्रीबुक्कणक्ष्मापतिः ॥ ३ ॥
इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर्
दौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर् गौतमिः ।
प्रत्यग्दृष्टिर् अरुन्धतीसहचरो रामस्य पुण्यात्मनो
यद्वत् तस्य विभोर् अभूत् कुलगुरुर् मन्त्री तथा माधवः ॥ ४ ॥
प्रज्ञामूलमही विवेकसलिलैः सिक्ता बलोपघ्निका
मन्त्रैः पल्लविता विशालविटपा सन्ध्यादिभिः षड्गुणैः ।
[२] शक्त्या कोरकिता यज्ञः सुरभिता सिद्ध्या समुद्यत्फला
संप्राप्ता भुवि भाति नीतिलतिका सर्वोत्तरं माधवम् ॥ ५ ॥
श्रीमती जननी यस्य सुकीर्तिर् मायणः पिता ।
सायणो भोगनाथश् च मनोबुद्धिसहोदरौ ॥ ६ ॥
यस्य बौधायनं सूत्रं शाखा यस्य च याजुषी ।
भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ ७ ॥
स माधवः सकलपुराणसंहिताप्रवर्तकः स्मृतिसुषमा पराशरः ।
पराशरस्मृतिजगदीहिताप्तये पराशरस्मृतिविवृतौ प्रवर्तते ॥ ८ ॥
व्याख्याते आचारप्रायश्चित्ते । अथ व्यवहारः प्रस्तूयते । यद्य् अप्य् ऋणादानादीनाम् अष्टादशपदानां व्यवहाराणां मध्ये कम् अपि व्यवहारं पराशरो न व्युत्पादितवान् तथापि आचारकाण्डे चतुर्णां वर्णानां क्रमेण् आचारान् ब्रुवन्, “क्षत्रियस् तु प्रजा रक्षन्” इत्य् अस्मिन् वचने क्षत्रियविशेषस्य राज्ञ आचारविशेषम् एवम् अवोचत्- “क्षितिं धर्मेण पालयेत्” इति । क्षितिपालनं नाम क्षित्यादिश्रितासु प्रजासु दुष्टानां [३] शिक्षया शिष्टोपद्रवपरिहारः । एतद् अर्थ एव हि जगदीश्वरस्य राम-कृष्णादिक्षत्रियावतारः । तच् च गीतासु भगवता विस्पष्टम् अभिहितम् ।
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ इति । (भ्ग् ४।६–७)
यथा महतां रावणादीनां शिक्षायै रामाद्यवतारस् तथा क्षुद्राणां चोरादीनां शिक्षायै राजावतार इति द्रष्टव्यम् । अत एव मनुः ।
अराजके हि लोके ऽस्मिन् सर्वतो विद्रुते भयात् ।
रक्षार्थम् अस्य लोकस्य राजानम् असृजत् प्रभुः ॥
चन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च ।
इन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतिः ॥
यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥
तपत्य् आदित्यवच् चैव चक्षूंषि च मनांसि च ।
न चैनं भुवि शक्नोति कश्चिद् अप्य् अभिवीक्षितुम् ॥
सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥
[४] बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा नररूपेण तष्ठति ॥
एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥
कार्यं चावेक्ष्य शक्तिं च देशकालौ च तत्वतः ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ इति । (म्ध् ७।३–१०)
एतच् च सर्वम् आचारकाण्डे ऽस्माभिः राजधर्मान् व्याचक्षमाणैः प्रपञ्चितम् । बृहस्पतिस् तु विशेषतः ऋणादानादिव्यवहारविचारम् एव राजोत्पत्तिप्रयोजनम् अभिप्रेत्य तद्विचारक्षमत्वम् उपपादयितुम् इन्द्राद्यात्मकत्वं राज्ञ उदाजहार ।
गुणधर्मान् अतो राज्ञः कथयाम्य् अनुपूर्वशः ।
धनिकर्णिकसंदिग्धौ प्रतिभूलेख्यसाक्षिणः ॥
विचारयति यः सम्यक् तस्योत्पत्तिं निबोधत ।
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्यत्योर् यमस्य च ॥
तेजोमात्रां समुद्धृत्य राज्ञो मूर्तिर् हि निर्मिता ।
तस्य सर्वाणि भूतानि चराणि स्थावराणि च ॥
भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ।
[५] नाराजके कृषिवणिक्कुसीदपरिपालनम् ।
तस्माद् वर्णाश्रमाणां तु नेतासौ निर्मितः पुरा ॥ इति ।
लोके हि राजा भूपो नृप इत्य् एते शब्दा एकार्थवाचित्वेन प्रयुज्यन्ते । तत्र राजशब्दो रूढः । भूपनृपशब्दौ यौगिकौ । भुवं पातीति भूपः नॄन् पातीति नृपः । तथा च राज्ञो भूपालकत्वं मनुष्यपालकत्वं च गुणः । तत्प्रयुक्तो धर्मो व्यवहारविचारः । स च पूर्वम् एवाभिहितः । किं तु वर्णाश्रमधर्मान् व्याचक्षाणेन बृहस्पतिना राजन्य् अपि क्षत्रियत्वरूपवर्णप्रयुक्तो गृहस्थाश्रमप्रयुक्तश् च धर्मो ऽभिहितः । अतः परं ब्ःउपत्वगुणप्रयुक्तो व्यवहारविचारात्मको राजधर्मो ऽभिधीयते । धनिको धनप्रदाता । ऋणिकस् तदीयस्य धनस्य गृहीता । तयोः संदिग्धिर् विवादः । प्रतिभूस् तस्य प्रत्यर्पणं कारयिष्यामीति प्रतिश्रुत्य तदीयस्य भारस्य वोढा । लेख्यं धनसंख्यावृद्धिविशेषादियुक्तं पत्रम् । साक्षिण उत्तमाधर्मर्णयोः संप्रतिपन्ना मध्यस्थाः । एतेषां प्रतिभ्वादीनां त्रयाणां संदिघिर् न्यायान्यावर्तिताभ्यां संदेहः । तस्मिन् संदेहे सति यो राजा विचारयितुं प्रभवति तस्योत्पत्तिर् अभिधीयत इत्य् अर्थः । यस्माद् राजा सोमेन्द्रादिदेवतांशसंभवत्वात् ऋणादानादीन् व्यवहारान् विचारयितुं प्रभवति तस्मात् तान् असौ विचारयेत् । तद् आह याज्ञवल्क्यः ।
[६] व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ इति । (य्ध् २।१)
अत्र व्यवहारशब्दो रूढियोगाभ्यां निर्णयफलकम् अर्थिप्रत्यर्थिविवादम् आचष्टे । तत्र रूढिः कात्यायनेन निरूपिता ।
प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलस् तु यो वादो व्यवहारः स उच्यते ॥ इति ।
न्यायः शिष्टसंप्रतिपन्नं लौकिकम् आचरणं तस्य विस्तरः “इदं मदीयं धनम् अन्येनापहृतम्” “तत् क्षेत्रधनादिकं एतस्य युक्तं नान्यस्य” इत्य् उपपत्तिपुरःसरो निर्णयः । तस्मिन् न्यायविस्तरे विषयीभूते सति तत्प्रवर्तको ऽर्थिप्रत्यर्थिनोर् यो विवादः स व्यवहार उच्यते । “मदीयं धनम् अन्येनापहृतं तत् पुनर् मया साधनीयम्” इत्य् अर्थी यद् उद्दिश्य प्रवर्तते तद्धनं साध्यम् । तच् च मूलं यस्य विवादस्य सो ऽयं साध्यमूलः । अयं च कदा संपद्यत इत्य् अपेक्षायाम् उक्तम् ।
प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
इति ।
सत्यं ब्रूयात् प्रियं ब्रूयान् न स्तेनः स्यान् न वार्धुषिः ।
इत्यादिविधिनिषेधाव् उपलभ्य विहितानुष्ठाने प्रतिषिद्धवर्जने चोत्पन्न उत्साहः प्रयत्नस् तेन साध्यो धर्मनामकः पदार्थो यदा [७] विच्छिन्नो भवति तदानीम् अयं विवाद उपपद्यते । असति तु धर्मविच्छेदे नास्ति व्यवहारस्यावकाशः । अत एव नारदः ।
मनुः प्रजापतिर् यस्मिन् काले राज्यम् अबूभुजत् ।
धर्मैकतानाः पुरुषास् तदासन् सत्यवादिनः ॥
तदा न व्यवहारो ऽभून् न द्वेषो नापि मत्सरः ।
नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते ॥ इति । (न्स्म् १।१-२)
बृहस्पतिस् तु द्वेषलोभादिदुष्टस्यैव व्यवहारकर्त्ट्त्वम् आह ।
धर्मप्रधानाः पुरुषाः पूर्वम् आसन्न् अहिंसकाः ।
लोभद्वेषाभिभूतानां व्यवहारः प्रवर्तितः ॥ इति ।
तस्माद् धर्मे विच्छिन्ने सति साध्यमूलो न्यायनिर्णयफलो विवादो व्यवहारशब्देन रूढ्याभिधीयते । हारीतो ऽपि रूढिम् अभिप्रेत्याह ।
धर्मधर्मस्य यथा प्राप्तिः परधर्मस्य वर्जनम् ।
न्यायेन क्रियते यत् तु व्यवहारः स उच्यते ॥ इति ।
व्यवहारशब्दस्य् यौगिकम् अर्थं कात्यायन आह ।
विनानार्थे ऽवसंदेहे हरणं हार उच्यते ।
नानासंदेहहरणाद् व्यवहार इति स्मृतः ॥ इति ।
व्यवहार इत्य् अत्र वि-शब्दो नानेत्य् अस्मिन्न् अर्थे वर्तते । अवशब्दश् च संदेहे वर्तते । तान् एतान् एवंविधान् एकसंदेहहारिणो व्यवहारान् अर्थ्यादिगतरागद्वेषवशात् प्राप्तान् राजा सम्यग् विचारेयत् । [८] तद्विचारश् च राज्ञो गुणधर्मरूप आचारः । अत एवाचारकाण्डे व्यवहाराणाम् अन्तर्भावम् अभिप्रेत्य पराशरः पृथग् व्यवहारकाण्डम् अकृत्वा “क्षितिं धर्मेण पालयेत्” इति सूचनमात्रं व्यवहाराणां कृतवान् । तान् एतान् सूचितान् व्यवहारान् वयं स्मृत्यन्तराणि तन्निबन्धनानि चानुस्मृत्य यथाशक्ति निरूपयामः । तत्र पूर्वोदाहृताभ्यां रूढियोगस्मृतिभ्यां व्यवहारस्वरूपं निरूपितम् ।
अथ तद्भेदा रिरूप्यन्ते । तत्र सपणत्वापनत्वाभ्यां द्वैविध्यम् आह नारदः ।
सोत्तरो ऽनुत्तरश् चेति स विज्ञेयो द्विलक्षणः ।
सोत्तरो ऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥ (न्स्म् १।४)
[९] इति । “अहं यदि पराजयेयं तदा शास्त्रप्रापिताद् दण्डद्रव्याद् अधिकम् एव द्रव्यं राज्ञे तुभ्यं च दास्यामि” इति पत्रं लिखित्वा यद् अभिभाषणं तदुत्तरं तेन सह वर्तत इति सोत्तरः । पुनर् अपि चतुष्पादादिभिस् त्रयोदशभिः प्रकारैर् व्यवहारस्यावान्तरभेदान् स एव निर्दिश्य विवृणोति ।
चतुष्पादश् चतुःस्थानश् चतुःसाधन एव च ।
चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्तितः ॥
[१०] त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ।
अष्टाङ्गो ऽष्टादशपदः शतशाखस् तथैव च ॥
धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥
तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।
चरित्रं तु स्वीकरणे राजाज्ञायां तु शासनम् ॥
[११] सामाद्युपायसाध्यत्वाच् चतुःसाधन उच्यते ।
चतुर्णाम् अपि वर्णानां रक्षणाच् च चतुर्हितः ॥
कर्तॄन् अथो साक्षिणश् च सभ्यान् राजानम् एव च ।
व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥
धर्मस्यार्थस्य यशसो लोकपक्तेस् तथैव च ।
चतुर्णां करणाद् एष चतुष्कामी प्रकीर्तितः ॥
कामात् क्रोधाच् च लोभाच् च त्रिभ्यो यस्मात् प्रवर्तते ।
त्रियोनिः कीर्त्यते तस्मात् त्रयम् एतद् विवादकृत् ॥
[१२] द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्कासतां तु संसर्गात् तत्त्वं होढादिदर्शनात् ॥
पक्षद्वयाभिसंबन्धात् द्विर्द्वारः स उदाहृतः ।
पूर्ववादस् तयोः पक्षः प्रतिवादस् तदुत्तरः ॥
[१३] भूतच्छलानुसारित्वात् द्विगतिः स उदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥
राजा सत्पुरुषः सभ्याः शास्त्रं गणकलेखकौ ।
हिरण्यम् अग्निर् उदकम् अष्टाङ्गः स उदाहृतः ॥
ऋणादानं ह्य् उपनिधिः संभूयोत्थानम् एव च ॥
[१४] वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
दत्तस्य पुनर् आदानम् अशुश्रूषाभ्युपेत्य च ॥
विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ।
[१५] समयस्यानपाकर्म विवादः क्षेत्रजस् तथा ॥
स्त्रीपुंशयोश् च संबन्धो दायभागो ऽथ साहसम् ।
वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च ॥
द्यूतं प्रकीर्णकं चैवेत्य् अष्टादशपदः स्मृतः ।
एषाम् एव प्रभेदो ऽन्यो द्वात्रिंशद् अधिकं शतम् ॥
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥ (न्स्म् १।८–२९)
[१६] इति ।
ननु – धर्मादीनां पादत्वम् अयुक्तम्, प्रतिज्ञोत्तरप्रमाणनिर्णयानां व्यवहारपादत्वात् । यतो याज्ञवल्क्यः प्रतिज्ञादीनि प्रकृत्याह,
चतुष्पाद् व्यवहारो ऽयं विवादेषूपदर्शितः । इति । (य्ध् २।८)
बृहस्पतिर् अपि ।
पूर्वपक्षः स्मृतः पादो द्वितीयश् चोत्तरः स्मृतः ।
क्रियापादस् तृतीयस् तु चतुर्थो निर्णयः स्मृतः ॥ इति ।
नायं दोषः, धर्मादीनां प्रकारान्तरेण पादत्वोपपत्तेः । यो ऽयं निर्णयाख्यश् चतुर्थः पादो ऽभिहितः । स धर्मादिभिश् चतुर्भिर् निष्पद्यते । तद् आह बृहस्पतिः ।
धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया ।
चतुष्प्रकारो ऽभिहितः संदिग्धे ऽर्थे विनिर्णयः ॥ इति ।
तस्मान् निर्णयहेतुतया धर्मादीनां व्यवहारपादत्वं भविष्यति । तेषां च निर्णयहेतुत्वं कात्यायनेन प्रपञ्चितम् ।
दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् ।
विवादे प्राप्नुयाद् यत्र स धर्मेणैव निर्णयः ॥ इति ।
दोषकारी वाक्पारुष्यादिकारी । यस्मिन् विवादे व्यवहारे चरित्रराजशासननैरपेक्ष्येण धर्माभिमुखः सन्न् अधर्माद् भीतः स्वकीयं [१७] दोषकर्तृत्वं स्वयम् एवाङ्गीकरोति यत्र धनस्वामी व्यवहारादिप्रयासम् अन्तरेणाधर्माभिमुखाद् धनापहारिणः स्वकीयं धनं प्राप्नोति तत्र दोषकारिणे धर्माभिमुख्यम् एव निर्णयहेतुः । व्यवहारस्य निर्णयहेतुत्वं स एवाह ।
स्मृतिशास्त्रं तु यत् किंचित् प्रथितं धर्म्साधकैः ।
कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥ इति ।
यत्र धर्मशास्त्रकुशलैर् विद्वद्भिर् अर्ह्तिप्रत्यर्थिनोर् अग्रे निर्णयार्थं धर्मशास्त्रं प्रख्यापितं भवति स निर्णयो व्यवहारजन्यः । चरित्रजन्यं निर्णयम् आह स एव ।
यद् यद् आचर्यते येन धर्म्यं चाधर्म्यम् एव वा ।
देशस्याचरणं नित्यं चरित्रं तद् धि कीर्तितम् ॥ इति ।
शास्त्रोक्तधर्मानपेतं (?) धर्म्यं तद्विपरीअम् अधर्म्यम् । तद् उभयं देशाचारानुसारेण यत्र स्वीक्रियते तत्र चरित्रं निर्णयहेतुः । राजशासनस्य निर्णयहेतुताम् आह स एव ।
न्यायशास्त्राविरोधेन देशदृष्टैस् तथैव च ।
यद् धर्मं स्थापयेद् राजा न्याय्यं तद् राजशासनम् ॥ इति ।
न्यायशास्त्रम् इति व्यवहारप्रतिपादकस्मृतिशास्त्रम् । तस्य च देशाचारस्याविरोधेन राजायम् अनुशास्ति स निर्णयो राजशासनजन्यः । यथोक्तानां धर्मादीनां चतुर्णां मध्ये पूर्वस्य पूर्वस्य बाध्यत्वं उत्तरस्योत्तरस्य बाधकत्वं च बृहस्पतिना प्रपञ्चितम् ।
[१८] शास्त्रं केवलम् आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस् तेनापि वर्धते ॥
देशस्थित्यानुमानेन नैगमानुमतेन च ।
क्रियते निर्णयस् तत्र व्यवहारस् तु बाध्यते ॥
विहाय चरिताचारं यत्र कुर्यात् पुनर् नृपः ।
निर्णयं सा तु राजाज्ञा चरित्रं बाध्यते तया ॥ इति ।
चतुर्षु वर्णेषु यः कश्चिद् राजद्रोहं कृत्वा राज्ञा तर्जितः सन् अतिभीरुतया स्वापराधम् अङ्गीचकार तत्र समीपवर्तिनः साक्षिणो वर्णिवधं निवारयितुम् इच्छन्तः सत्यम् उल्लङ्घ्य “तत्र साक्ष्य् अनृतं वदेत्” (म्ध् १०।१३०) इत्य् एतादृशं शास्त्रम् एवाश्रित्य तदीयम् अपराधं पर्यहार्षुः । तत्र व्यवहारेण धर्मो बाध्यते । केरलदेशादौ वेश्यागमने साक्षिभिर् आपादिते ऽपि देशाचारवशान् नायं राज्ञा दण्ड्यते । तत्र चरित्रेण व्यवहारस्य बाधः । सत्य् अपि तादृशे देशाचारे त्वयैवं न कर्तव्यम् इति राजा चेद् अनुशास्ति तदा राजाज्ञया चरित्रस्य बाधः । य एते प्रोक्ता धर्मादयश् चत्वारः पादाः ते चतुर्षु सभ्यादिषु प्रतिष्ठिताः । दोषकारी स्वयम् अनृताद् भीतो ऽप्य् अपराधो ऽस्तीति सत्यं [१९] ब्रूते । अतो धर्मस्य सत्ये ऽवस्थानम् । प्रतिज्ञोत्तरयोः कृतयोः साक्षिणा यस्य पक्षो ऽभ्युपगम्यते तस्य जयः । तेन व्यवहारस्य साक्षिण्य् अवस्थानम् । कर्नाटकदेशे बलान् मातुलसुताविवाहो न दोषाय । केरलदेशे कन्याया ऋतुमतीत्वं न दोषायेत्य् एवमादिकस् तद्देशसमयः । तत्र तत्र पत्रादिशासने ऽवतिष्ठते । शिष्यत इति शासनम् । राजानुशासनेन प्रजानां वर्तनम् । तत्र राजाज्ञायां प्रतिष्ठितं सामभेददानदण्डैश् चतुर्भिर् दोषकारिणो दोषनिवारणाच् चतुःसाधनत्वम् । चतुर्हितत्वं विस्पष्टम् । कर्त्रादिचतुष्टयव्यापित्वं मनुना स्पष्टीकृतम् ।
पादो धर्मस्य कर्तारं पादो गच्छति साक्षिणम् ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ (म्ध् ८।१८)
[२०] इति । जेतुर् नृपस्य वा धर्मार्थयशोलोकानुरागसंपादनाच् चतुष्कारित्वम् । त्रियोनित्वं स्पष्टम् । असतां कितवस्तेनादीनां संसर्गं यः करोति तस्मिन्न् अपि चौर्यादिशङ्का जायते । होढा अपहृतद्रव्यादिदर्शनं तल्लिङ्गं वा तस्माद् अभियोगो भवति । अर्थिप्रत्यर्थिनोर् यौ पूर्वोत्तरपक्षौ तौ व्यवहारस्य प्रवर्तकौ तस्मात् द्विद्वारत्वम् । द्रव्यसंख्यादिकं यथातथ्येनान्यथा वा राजादीनाम् अग्रे यदा ब्रूते तदा तस्योभयस्योपरि व्यवहारः प्रवर्तते ततो द्विगतित्वम् । अष्टाङ्गेषु स पुरुषो राजेत्य् एतद् एकम् अङ्गम् । अतो नास्ति नवत्वसंख्याप्रसक्तिः । ऋणादादादीनाम् अष्टादशपदानां सव्रूपम् उपरिष्टात् तत्र तत्र विचारिष्यते । एतेषाम् अष्टादशपदानां मध्ये एकैकस्य पदस्यावान्तरक्रियाभेदाद् अनन्तभेदभिन्नत्वं शतशाखत्वम् । एतान् अष्टादशपदान् अवान्तरानन्तभेदभिन्नान् व्यवहारान् प्रकारान्तरेण द्वेधा उपसंगृह्णाति कात्यायनः ।
द्विपदे साध्यभेदात् तु पदाष्टादशतां गते ।
अष्टादशक्रियाभेदात् भिन्नान्य् अथ सहस्रधा ॥ इति ।
द्विपदत्वं विशदयति बृहस्पतिः ।
द्विपदो व्यवहारः स्याद् धनहिंसासमुद्भवः ।
द्विसप्तको ऽर्थमूलस् तु हिंसामूलश् चतुर्विधः ॥
[२१] इति । तद् एतद् उभयविधं स एव विवृणोति ।
कुसीदनिधिदेयाद्यं संभूयोत्थानम् एव च ।
भृत्यदानम् अशुश्रूषा भूवादो ऽस्वामिविक्रयः ॥
क्रयविक्रयानुशयः समयातिक्रमस् तथा ।
स्त्रीपुंसयोगः स्तेयं च दायभागो ऽक्षदेवनम् ॥
एवं सम्यक् समुत्थानं पदानि च चतुर्दश ।
पुनर् एव प्रभिन्नानि क्रियाभेदैर् अनेकधा ॥
पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस् तथा ।
हिंसोद्भवपदान्य् एवं चत्वार्य् आह बृहस्पतिः ॥ इति ।
जगति संभावितान् अशेषान् विवादान् उक्तेष्व् अष्टादशसु स एवान्तर्भावयति ।
पदान्य् अष्टादशैतानि धर्मशास्त्रोदितानि तु ।
मूलं सर्वविवादानां ये विदुस् ते परीक्षकाः ॥ इति ।
इति व्यवहारपरिच्छेदः
अथ सभा निरूप्यते
तत्र बृहस्पतिः ।
दुर्गमध्ये गृहं कुर्याज् जलवृक्षावृतं पृथक् ।
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत् सभाम् ॥
[२२] माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ।
प्रतिमालेख्यदेवैश् च युक्ताम् अन्नाम्बुना तथा ॥ इति ।
गृहं राजगृहम् । तस्य प्राग्दिशि धर्माधिकरणभूता सभा । सा च वास्तुशास्त्रलक्षणोपेता कर्तव्या । तस्याः सभाया धर्माधिकरणत्वं कात्यायनो दर्शयति ।
धर्मशास्त्रविचारेण मूलशास्त्रविवेचनम् ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥ इति ।
मूलस्यावेदितार्थस्य सारासारविवेचनं तत्वनिष्कर्षः । तत्र प्रवेशनं स एवाह ।
प्रातर् उत्थाय नृपतिः शौचं कृत्वा समाहितः ।
गुरुं ज्योतिर्विदं वैद्यान् देवान् विप्रान् पुरोहितान् ॥
यथार्थम् एतान् संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिवन्द्य च गुर्वादीन् सुमुखां प्रविशेत् सभाम् ॥ इति ।
प्रविश्य च विद्वद्भिर् मन्त्रिभिः सहकार्याण्य् अनुसंदध्यात् । तद् आह मनुः ।
[२३] व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥
तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेशाभरणः पश्येत् कार्याणि कार्यिणाम् ॥
प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ इति । (म्ध् ८।१–३)
अथ विचारकालम् आह कात्यायनः ।
दिवसस्याष्ठमं भागं मुक्त्वा कालत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥ इति ।
दिवसम् अष्टधा कृत्वा प्रथमं भागम् अग्निहोत्राद्यर्थं मुक्त्वा अनन्तरं भागत्रयं व्यवहारकालः । अत्र वर्ज्यास् तिथीर् आह संवर्तः ।
चतुर्दशी ह्य् अमावास्या पौर्णमासी तथाष्टमी ।
तिथिष्व् आसु न पश्येत् तु व्यवहारान् न नित्यशः ॥
[२४] इति । येयम् उक्ता सभा तस्याश् चतुर्विध्यम् आह बृहस्पतिः ।
प्रतिष्ठिताप्रतिष्ठिता मुद्रिता शाश्त्रिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश् चैव तथाविधाः ॥
प्रतिष्ठिता पुरे ग्रामे चलानाम् अप्रतिष्ठिता ।
मुद्रिताध्यक्षसंयुक्ता राजयुक्ता च शास्त्रिता ॥ इति ।
राजगृहसमीपवर्तिनः सभास्थानान् मुख्याद् अन्यान्य् अमुख्यानि स्थानान्य् आह भृगुः ।
दश स्थानानि वादानां पञ्च चैवाब्रवीद् भृगुः ।
निर्णयं येन गच्छति वादं प्राप्य च वादिनः ॥
आरण्यास् तु स्वकैः कुर्युः सार्थिकाः सार्थिकैस् तथा ।
सैनिकाः सैनिकैर् एव ग्रामे ऽप्य् उभयवासिनः ॥
उभयानुमतं चैव गृह्णन्ति स्थानम् ईप्सितम् ।
कुलिकाः सार्थमुख्याश् च पुरग्रामनिवासिनः ॥
ग्रामपौरगणश्रेण्यश् चातुर्विद्याश् च वर्गिणः ।
कुलानि कुलिकाश् चैव नियुक्ता नृपतिस् तथा ॥
[२५] इति । स्वकैर् आरण्यकैः । ग्रामे ऽपीत्य् आदिशब्दात् ये तु अरण्यादौ ग्रामे च निवसन्ति ते ह्य् उभयवासिभिः ग्रामवासिभिः अरण्यवासिभिर् वा निर्णयं कुर्युः,। उभयव्यवहाराभिज्ञत्वात् तेषाम् । कुलिकाः कुलश्रेष्ठिनः । सार्थिनो ग्रामयात्रादौ मिलितो जनसङ्घः । मुख्या गृअमण्यादयः । पुरं मुख्यं नगरम् । तस्माद् अर्वाचीनो ग्रामः । पुरग्रामनिवासिनां भेदः कुलिकादीनि पञ्च स्थानानि तानि चारण्यकादिजनविशेषाणाम् एव । ग्रामाकारेणावस्थितजनविवादे समीपग्रामनिवासिभिर् निर्णयः । अर्थिप्रथर्थिनोर् अनुशयानुमतं स्थानं कुलिकसार्थमुख्यपुरग्रामनिवासिनो गृह्णते । ग्रामादीनि दश स्थानानि साधारणानि । ग्रामो ग्रामाकारेणावास्थितो जनः । पौरः पुरवासिनां समूहः । गणाः कुलानां समूहः । श्रेण्यः रजकाद्यष्टादश हीनजातयः । चातुर्विद्या आन्वीक्षिक्यादिविद्याचतुष्टयोपेताः । वर्गिणो गणप्रभृतयः । तथा च कात्यायनः ।
[२६] गणाः पाखण्डपूगाश् च व्राताश् च श्रेणयस् तथा ।
समूहस्थाश् च ये चान्ये वर्णाख्या ये बृहस्पतिः ॥ इति ।
आयुधधराणां समूहो व्रातः । कुलान्य् अर्थिप्रत्यर्थिनोः सगोत्राणि । कुलकास् तत्र वृद्धा नियुक्ता अपि प्राड्विवाकसहितास् त्रयः सभ्याः नृपतिब्राह्मणादिसहिताः । सभ्यान् आह याज्ञवल्क्यः ।
श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ इति । (य्ध् २।२)
तेषां संख्याम् आह बृहस्पतिः ।
लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
[२७] यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥ इति ।
तत्र वर्ज्यान् स एवाह ।
देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।
उन्मत्तलुब्धक्रुद्धाश् च प्रष्टव्या विनिर्णये ॥ इति ।
राज्ञः प्रतिनिधिम् आह याज्ञवल्क्यः ।
अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ इति । (य्ध् २।३)
सो ऽपि राजवत् सर्वकार्याणि विचारयेत् । तद् आह मनुः ।
यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥
सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥ इति । (य्ध् ८।९–१०)
स च विचारको ब्राह्मणः प्राड्विवाक इत्य् उच्यते । तद् आह बृहस्पतिः ।
[२८] राजा कार्याणि संपश्येत् प्राड्विवाको ऽथ वा द्विजः ।
न्यायाङ्गान्य् अग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥
बलेन चतुरङ्गेण यतो रञ्जयते प्रजाः ।
दीप्यमानः स्ववपुषा तेन राजाभिधीयते ॥
विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राग् वदति प्राड्विवाको ऽभिधीयते ॥ तिइ ।
नारदो ऽपि ।
अष्टादशपदाभिज्ञः षड्भेदाष्टसहस्रवित् ।
आन्वीक्षिक्यादिकुशलः श्रुतिस्मृतिपरायणः ।
विवादसंश्रितं धर्मं पृच्छति प्रकृतं मतम् ।
विवेचयति यस् तस्मात् प्राड्विवाकस् तु संस्मृतः ॥
यथा शल्यं भिषक् कायाद् उद्धरेद् यन्त्रयुक्तितः ।
प्राड्विवाकस् तथा शल्यम् उद्धरेद् व्यवहारतः ॥ (न्स्म् ३।१६)
[२९] इति । प्राड्विवाकस्य गुणाः स्मृत्यन्तरे दर्शिताः ।
अक्रूरो मधुरः स्निग्धः क्रमायातो विचक्षणः ।
उत्साहवान् अलुब्धश् च वादे योज्यो नृपेण तु ॥ इति ।
प्राड्विवाकस्यानुकल्प्यम् आह कात्यायनः ।
ब्राह्मणो यत्र न स्यात् तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ इति ।
बृहस्पतिर् अपि ।
यत्र विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ इति ।
तद्वर्जने बाधम् आह मनुः ।
जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर् न तु शूद्रः कथंचन ॥
यस्य शूद्रस् तु कुरुते राज्ञो धर्मविवेचनम् ।
तस्य सीदति तद् राष्ट्रं पङ्के गौर् इव पश्यतः ॥
द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश् च नश्यति ॥ इति । (म्ध् ८।२०–२२)
गणकलेखकाव् अपि कार्याव् इत्य् आह बृहस्पतिः ।
[३०] शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥ इति ।
व्यासो ऽपि ।
त्रिस्कन्धज्योतिषाभिज्ञं स्फुटप्रत्ययकारकम् ।
श्रुताध्ययनसंपन्नं गणकं योजयेन् नृपः ॥
स्फुटलेखं नियुञ्जीत शाब्दं साक्षणिकं शुचिम् ।
स्पष्टाक्षरं जितक्रोधम् अलुब्धं सत्यवादिनम् ॥ इति ।
साध्यपालो ऽपि कर्तव्य इति तेनैवोक्तम् ।
साध्यपालस् तु कर्तव्यो राज्ञा साध्यस्य शधकः ।
क्रमायातो दृढः शूद्रः सभ्यानां च मते स्थितः ॥
[३१] इति । बृहस्पतिर् अपि ।
आकारणे रक्षणे च साक्ष्यर्थिप्रतिवादिनाम् ।
सभ्याधीनः सत्यवादी कर्तव्यस् तु स पूरुषः ॥ इति ।
राज्ञा कतिपयैर् वणिग्भिर् अधिष्टितं सदः कर्तव्यम् । तद् आह कात्यायनः ।
कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥ इति ।
कुलभूतैर् वृनद्भूतैर् इत्य् अर्थः । तेषाम् उपयोगम् आह स एव ।
श्रोतारो वणिजस् तत्र कर्तव्या न्यायदर्शिनः । इति ।
यथोक्तराजादियुक्तायाः सभाया दशाङ्गानि सप्रयोजनान्य् आह बृहस्पतिः ।
नृपो ऽधिकृतसभ्याश् च स्मृतिर् गणकलेखकौ ।
सहेमाग्न्यम्बुपुरुषाः साधनाङ्गानि वै दश ॥
एतद् दशाङ्गकरणं यस्याम् अध्यास्य पार्थिवः ।
न्यायं पश्येत् कृतमतिः सा सभाध्वरसंमिता ॥
दशानाम् अपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ।
वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षकाः ।
शपथार्थौ हिरण्याग्नी जलं तृषितलुब्धयोः ॥
[३२] गणको गणयेद् अर्थं लिखेन् न्यायं च लेखकः ।
प्रत्यर्थिसभ्यानयनं साक्षिणां च स पूरुषः ॥
वाग्दण्डश् चैव धिग्दण्डो विप्राधीनौ तु ताव् उभौ ।
अर्थदण्डवधाव् उक्तौ राजायत्ताव् उभाव् अपि ॥
राज्ञा ये विदिताः सम्यक् कुलश्रेणिगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥ इति ।
यथाविधिविचारे राज्ञः फलम् आह कात्यायनः ।
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ इति ।
वैपरीत्ये दोषम् आह मनुः ।
अदण्ड्यान् दण्दयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥ इति । (म्ध् ८।१२८)
सभ्यानां फलम् आह बृहस्पतिः ।
अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ।
निरामयान् यः कुरुते शास्त्राञ् जनशलाकया ॥
इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ।
लोभद्वेषादिकं त्यक्त्वा यः कुर्यात् कार्यनिर्णयम् ॥
शास्त्रोदितेन विधिना तस्य यज्ञफलं लभेत् ॥ इति ।
विपक्षे दोषम् आह कात्यायनः ।
न्यायशास्त्रम् अतिक्रम्य सभ्यैर् यत्र विनिश्चितम् ।
तत्र धर्मो ह्य् अधर्मेण हतो हन्ति न संशयः ॥
[३३] अपन्यायप्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणाः सनृपा नरकं यान्त्य् अधोमुखाः ॥
न्यायेनापि तं यान्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥
न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
कर्तव्यं तत्प्रियं तत्र न सभ्यः किल्बिषी भवेत् ॥ इति ।
कार्यानिष्पत्ताव् अपि यथाशास्त्रावादिनो नासि प्रत्यवाय इति स एवाह ।
सभ्येनावश्यकर्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात् तु सभ्यस् ततो ऽनघः ॥ इति ।
यदा तु राजा यथाशास्त्रं धर्मं श्रुत्वा दोषकारिणे पक्षपातं न करोति तदा निष्पापो भवति । तद् आह मनुः ।
राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ इति । (म्ध् ८।१९)
अन्यथावादिनः सभ्यस्य दण्डम् आह नारदः ।
रागाद् अज्ञानतो वापि यो लोभाद् अन्यथा वदेत् ।
सभ्यो ऽसभ्यः स विज्ञेयस् तं पापं विनयेद् भृशम् ॥ इति ।
कात्यायनो ऽपि ।
[३४] स्नेहाद् अज्ञानतो वापि लोभाद् वा मोहतो ऽपि वा ।
तत्र सभ्यो ऽन्यथावादी दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ इति ।
याज्ञवल्क्यो ऽपि ।
रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ॥ इति । (य्ध् २।४)
बृहस्पतिर् अपि ।
अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस् ते वञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥ इति ।
कात्यायनः ।
[३५] अनिर्णीते तु यद्य् अर्थे संभाषेत रहो ऽर्थिना ।
प्राड्विवाको ऽथ दण्ड्यः स्यात् सभ्याश् चैव विशेषतः ॥ इति ।
राजादीनां सभ्यायाम् उपवेशनप्रकारम् आह बृहस्पतिः ।
पूर्वामुखस् तूपविशेद् राजा सभ्या उदङ्मुखाः ।
गणकः पश्चिमास्यस् तु लेखको दक्षिणामुखः ॥ इति ।
सभोप्विष्टा नृपादयो यस्याङ्गानि तम् अङ्गिनं व्यवहारं पुरुषरूपेण परिकल्पयति स एव ।
एषां मूर्धा नृपो ऽङ्गानां मुखं चाधिकृतः स्मृतः ।
बाहू सभ्याः स्मृतिर् हस्तौ जङ्घे गणकलेखकौ ॥
हेमाग्न्यम्ब्वन्नपुरुषाः पादौ च पुरुषस्य च ॥ इति ।
या वृद्धराहित्यादिदोषरहिता सा मुख्या सभा । तद् उक्तं महाभारते ।
न सा सभा यत्र न सन्ति वृद्धाः
वृद्धा न ते ये अन् वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यम् अस्ति
न तत् सत्यं यच् छलेनानुविद्धम् ॥ इति । (=न्स्म् ३।१८)
इति सभानिरूपणम्
[३६]
अथ व्यवहारदर्शनविधिर् निरूप्यते
तत्र प्रजापतिः ।
राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः ।
धर्मासनगतः पश्येद् व्यवहारान् अनुल्बणम् ॥ इति ।
नारदः ।
तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः ।
समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥ इति । (न्स्म् १।३४)
वैवस्वतव्रतम् उक्तं बृहस्पतिना ।
[३७] यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
यथा राज्ञा नियन्तव्याः प्रजास् तद् धि यमव्रतम् ॥ इति ।
यद् व्यवहारप्रतिपादकं धर्मशास्त्रं यच् च तदन्तर्गतं द्रव्यदण्डादिरूपम् अर्थशास्त्रं तद् उभयम् अपि व्यवहारदर्शिता राज्ञानुसरणीयम् । तद् आह स एव ।
धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन पार्थिवः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥ इति । (=न्स्म् १।३७)
धर्मशास्त्राणि पितामहेन दर्शितानि ।
वेदाः साङ्गास् तु चत्वारो मीमांसा स्मृतयस् तथा ।
एतानि धर्मशास्त्राणि पुराणं न्यायदर्शनम् ॥ इति ।
ननु – न धर्मशास्त्रान्तर्गतम् अर्थशास्त्रम् । किं त्व् अन्यद् एवं नीत्यात्मकम् । यत् तु भविष्यत्पुराणे दर्शितम्,
षाड्गुण्यस्य प्रयोगश् चाप्रयोगः कार्यगौरवात् ।
सामादीनाम् उपायानां योगो व्याससमासतः ॥
अध्यक्षाणं च निक्षेपः कण्ठकानां निरूपणम् ।
दृष्टार्थे संस्मृतिः प्रोक्ता ऋषिभिर् गरुडाग्रज ॥ इति ।
बाढम् – अस्मिन्न् अप्य् अर्थशास्त्रे धर्मशास्त्राविरुद्धो यो ऽंशः स उपादेयः । इतरस् तु परित्याज्यः । तद् आह नारदः ।
यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्तोक्तम् आचरेत् ॥ (न्स्म् १।३९)
[३९] इति । धर्मशास्त्रयोर् द्वयोर् विरोधे न्यायेन निर्णेतव्यम् । तद् आह याज्ञवल्क्यः ।
स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ॥ इति । (य्ध् २।२१)
व्यवहारतो वृद्धव्यवहारात् प्रसिद्धो न्यायो बलवान् । न्यायानाश्रयणे बाधम् आह बृहस्पतिः ।
केवलं शास्त्रम् आश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥
चोरो ऽचौरः साध्वसाधुर् जायते व्यवहारतः ।
युक्तिं विना विचारेण माण्डव्यश् चोरतां गतः ॥
असत्याः सत्यसदृशाः सत्याश् चासत्यसंनिभाः ।
दृश्यते भ्रान्तिजनकास् तस्माद् युक्त्या विचारयेत् ॥ इति ।
न्यायस्य निर्णायकत्वम् उपपादयति मनुः ।
यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥
[४०] बाह्यैर् विभावयेल् लिङ्गैर् बावम् अन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषश् चेष्टितेन च ॥ इति । (म्ध् ८।४४, २५)
याज्ञवल्क्यो ऽपि ।
असाक्षिके हते चिह्नैर् युक्तिभिश् चागमेन च ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृताद् भयात् ॥ इति । (य्ध् २।३९)
यत् तु पूर्वम् उक्तम् “भूतछलानुसारित्वात् द्विगतिः” इति तत्र छलं हेयं भूतम् उपादेयम् । तद् आह याज्ञवल्क्यः ।
छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।
भूतम् अप्य् अनुपन्यस्तं हीयते व्यवहारतः ॥ इति । (य्ध् २।१९)
निर्णये प्रमाणं साक्ष्यादिकम् । तद् आह गौतमः- “विप्रतिपत्तौ साक्षिनिमित्ता तस्य व्यावस्था” इति (ग्ध् २७।१३) । मनुर् अपि ।
प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ (म्ध् ८।३)
[४१] इति । देशाचारैः शास्त्रोक्तदिव्यादिभिश् चाष्टादशपदसंबन्धीनि कार्याणि निर्णयेत् । तत्र देशाचारो ऽनुकल्पः । तद् आह कात्यायनः ।
तस्माच् छास्त्रानुसारेण राजा कार्याणि साधयेत् ।
वाक्याभावे तु सर्वेषां देशदृष्टमतं नयेत् ॥ इति ।
देशदृष्टस्य लक्षणम् आह स एव ।
यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।
श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥ इति ।
तत्तद्देशीयानां मिथो विवादे तद्देशदृष्टेन निर्णयः । तद् आह स एव ।
देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् ।
तेषां स्वसमयैर् धर्मः शास्त्रतो ऽन्येषु तैः सह ॥ इति ।
यत्र तद्देशीयानाम् इतरैः सह विवादः, तत्र शास्त्रतो निर्णयो न तु देशदृष्टतः । लेख्यादिप्रमाणाभावे राजा स्वेच्छया निर्णयेत् । तद् आह स एव ।
लेख्यं यत्र न विद्येत न भुक्तिर् न च साक्षिणः ।
न च दिव्यावतारो ऽस्ति प्रमाणं तत्र पार्थिवः ॥ इति ।
वणिगादिसमयेषु समयिभिर् एव निर्णेतव्यम् । तद् आह व्यासः ।
[४२] वणिक्शिल्पिप्रभृतिषु कृषिरङ्गोपजीविषु ।
अशक्यो निर्णयो ह्य् अन्यैस् तज्ज्ञैर् एव तु कारयेत् ॥
गुरुः स्वामी कुटुम्बी च पिता ज्येष्ठः पितामहः ।
विवादं नैव पश्येयुः स्वाधीने विषये नृणाम् ॥ इति ।
निर्णयकारिणाम् उत्तमाधमभावम् आह नारदः ।
कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां सर्वेषाम् उत्तरोत्तरम् ॥ इति । (न्स्म् १।७)
पितामहो ऽपि ।
ग्रामे दृष्टः पुरे यायात् पुरे दृष्टस् तु राजनि ।
राज्ञादृष्टः कुदृष्टो वा नास्ति तस्य पुनर् भयम् ॥ इति ।
राज्ञो नियमम् आह पितामहः ।
न रागेण न लोभेन न क्रोधेन ग्रसेन् नृपः ।
परैर् अप्रार्थितान् अर्थान् न चापि स्वमनीषया ॥ इति ।
अस्यापवादम् आह स एव ।
छलानि वापराधांश् च पदानि नृपतेस् तथा ।
स्वयम् एव निगृह्णीयान् नृपस् त्रीवेदकैर् विना ॥ इति ।
तत्र छलान्य् आह स एव ।
[४३] पथिभङ्गी कराक्षेपी प्राकारोपरि लङ्घकः ।
निपानस्य विनाशी च तथा चायतनस्य च ॥
परिखापूरकश् चैव राजछिद्रप्रकाशकः ।
अन्तःपुरं वासगृहं भाण्डागारं महानसम् ॥
प्रविशत्य् अनियुक्तो यो भोजनं च निरीक्षते ।
विण्मूत्रश्लेष्मघातानां क्षेप्तुकमो नृपाग्रतः ॥
पर्यङ्कासनबन्धश् चाप्य् अग्रस्थाननिरोधकः ।
राज्ञो ऽतिरिक्तवेषश् च श्ववृत्तः प्रविशेत् तु यः ॥
यश् चापद्वारेण प्रविशेद् अवेलायां तथैव च ।
शय्यासने पादुके च शयनासनरोहणे ॥
राजन्य् आसन्नशयने यस् तिष्ठति समीपतः ।
राज्ञो विद्विष्टसेवी चाप्य् अदत्तविहितासनः ॥
वस्त्राभरणयोश् चैव सुवर्णपरिधायकः ।
स्वयंग्राहेण ताम्बूलं गृहीत्वा भक्षयेत् तु यः ॥
अनियुक्तप्रभाषी च नृपाक्रोशक एव च ।
एकवासास् तथाभ्यक्तो मुक्तकेशो ऽवगुण्ठितः ॥
[४४] विचित्रिताङ्गः स्रग्वी च परिधानविधूनकः ।
शिरःप्रच्छादनश् चैव छिद्रान्वेषणतत्परः ॥
आसङ्गी मुक्तकेशश् च पक्षिपर्णाक्षिदर्शकः ।
दन्तोल्लेखनकश् चैव कर्णनासाविशोधकः ।
छलान्य् एतानि पञ्चाशद् भवन्ति नृपसंनिधौ ॥ इति ।
सापराधान् आह नारदः ।
आज्ञालङ्गनकर्तारः स्त्रीवधो वर्णसंकरः ।
परस्त्रीगमनं तौर्यं (चौर्यं) गर्भश् चैव पतिं विना ॥
वाक्पारुष्यम् अवाच्यं यद् दण्डपारुष्यम् एव च ।
गर्भस्य पातनं चैवेत्य् अपराधा दशैव हि ॥ इति ।
विवादम् अन्तरेणापि दण्डनहेतुत्वाद् एतेषाम् अपराधत्वम् । अत एव संवर्तः ।
आसेधं प्रतिभङ्गं च यश् च गर्भः पतिं विना ।
स्वयम् अन्वेषयेद् राजा विना चैव विवादिना ॥
कन्यापहारकं पापं विप्रं च पतितं तथा ।
परार्थवादसंयुक्तं स्वयं राजा विचारयेत् ॥
षड्भागकालं शुक्लार्थे मार्गभेदकम् एव च ।
स्वराष्ट्रे चौर्यभीतिं च परदाराभिमर्शनम् ॥
[४५] गोब्राह्मणनिहन्तारं सस्यानां चैव घातकम् ।
दशैतान् अपराधांश् च स्वयं राजा विचारयेत् ॥ इति ।
पादान्य् आह पितामहः ।
उत्कृती सस्यघाती च अग्निदश् च तथैव च ।
विवेसकः कुमार्याश् च निधानस्योपगोपकः ॥
सेतुकण्टकभेत्तारः क्षेत्रसंसारकस् तथा ।
आरामछन्दसश् चैव गरदश् तथैव च ॥
पटहा घोषणाछादी द्रव्यम् अस्वामिकं च यत् ।
राजावलीढद्रव्यं च यच् चैवाङ्गविनाशनम् ॥
द्वाविंशतिपदान्य् आहुर् नृपज्ञेयानि पण्डिताः ॥ इति ।
यत्र छलादीनि राजा स्वयं द्रष्टुम् अशक्तः तत्र स्तोभकात् सूचकाच् च बोद्धव्यम् । तयोः स्वरूपम् आह कात्यायनः ।
शास्त्रेण निन्दितं त्व् अर्थं मुख्यश् चार्थः प्रचोदितः ।
आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ॥
नृपेणैव नियुक्तो यः परदोषम् अवेक्षितुम् ।
नृपस्य समयं ज्ञात्वा सूचकः स उदाहृतः ॥ इति ।
शास्त्रेण निन्दितं छलादिकम् अर्थम् । मुख्यो धनलाभश् च प्रधानः । राज्ञा शास्त्रादिपर्यालोचनपुरःसरम् एव कार्यं कर्तव्यम् । तद् आह हारीतः ।
[४६] शास्त्राणि वर्णधर्मांस् तु प्रकृतीनां च भूपतिः ।
व्यवहारस्वरूपं च ज्ञात्वा कार्यं समाचरेत् ॥ इति ।
प्रकृतयः पितामहेन दर्शिताः ।
रजकश् चर्मकारश् च नटो बुरुड एव च ।
कैवर्तकश् च विज्ञेयो म्लेच्छो भिल्लस् तथैव च ॥
मेथिकस् त्रिरवव्यालः हस्तलक्षः दुघट्टिकाः ।
कोसेदिक्वा भारुपदा मातङ्गाः पदगोपकाः ॥
एताः प्रकृतयः प्रोक्ता अष्टादश मनीषिभिः ।
वर्णानाम् आश्रमाणां च सर्वदा तु बहिः स्थिताः ॥ इति ।
मनुश् च जात्यादि समीक्षणीयम् त्य् आह ।
जातिजानपदान् धर्मान् श्रेणिधर्मांश् च शाश्वतान् ।
समीक्ष्य कुलधर्मांश् च सवर्णे प्रतिपादयेत् ॥ इति ।
उन्मार्गवर्तिनो बलात् स्वमार्गे स्थापयेद् इत्य् आह याज्ञवल्क्यः ।
कुलानि प्रकृतीश् चैव श्रेणिर् जानपदान् अपि ।
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥ इति ।
कार्यदर्शनप्रकारम् आह नारदः ।
[४७] धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येत् व्यवहारम् अनुक्रमात् ॥
आगमः प्रथमः कार्यो व्यवहारपदं ततः ।
विचारो निर्णयश् चेति दर्शनं स्याच् चतुर्विधम् ॥ इति । (न्स्म् १।३५–३६)
आगमो ऽर्थिवचनश्रणं तद् आदौ कर्तव्यम् । ततस् तद्वचनम् ऋणादानाद्यन्यतमस्मिन् पदे ऽन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतो जयावधारणम् ।
इति व्यवहारदर्शानविधिः
अथासेधादिविधिः
तत्र नारदः ।
वक्तव्यार्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥ इति । (न्स्म् १।४७)
प्रथमं तावद् अर्थी प्रत्यर्थिनो ऽग्रे त्वयैतावन् मह्यं देयम् इत्यादिकं कार्यं ब्रूयात् । तत्र यदि तदुक्तम् अनभ्युपगम्योत्क्रान्तुम् इच्छेत् तदा स्वकार्यपर्यन्तं राजाज्ञया तं निरुन्ध्यात् । आसेधस्य भेदान् आह स एव ।
स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधस् तम् आसिद्धो न लङ्घलेत् ॥ (न्स्म् १।४८)
[४८] इति । अस्मात् स्थानात् त्वया न चलितव्यम् इति स्थानासेधः । मदीयद्रव्यदाने दिनम् एतन् नोल्लङ्घनीयम् इति कालासेधः । अदत्वा ग्रामान्तरं न गन्तव्यम् इति प्रवासासेधः । अदत्वा न संध्यावन्दनं कार्यम् इति कर्मासेधः । संध्यावन्दनादिवद् इन्द्रियनिरोधो नासेधार्हः । तद् आह कात्यायनः ।
यस् त्व् इन्द्रियनिरोधेन व्यवहारोत्सवादिभिः ।
आसेधयेद् अनासेध्यैः स दण्ड्यो न त्व् अतिक्रमात् ॥ इति ।
इन्द्रियनिरोधवद् विषमदेशो ऽपि नासेधार्ह इत्य् आह नारदः ।
नदीसन्तारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥ इति । (न्स्म् १।४९)
आसेध्यासेधकयोः स्वकालोल्लङ्घने दण्डम् आह स एव ।
आसेधकाल आसिद्ध आसेधं यो ऽतिवर्तते ।
स विनेयो ऽन्यथा कुर्वन् नासेद्धा दण्डभाग् भवेत् ॥ इति । (न्स्म् १।५१)
अन्यथा कुर्वन्न् अयोग्ये निशीथादिकाले तम् आसेधयन् । अनासेध्यान् आह कात्यायनः ।
वृक्षपर्वतम् आरूढा हस्त्यश्वरथनौगताः ।
विषमस्थाश् च ते सर्वे नासेध्याः कार्यसाधकैः ॥
[४९] व्याध्यार्ता व्यसनस्थाश् च यजमानास् तथैव च ।
अनुत्तीर्णाश् च नासेध्या मत्तोन्मत्तजडास् तथा ॥
न कर्षको बीजकाले सेनाकाले च सैनिकाः ।
प्रतिज्ञाय प्रयाताश् च कृतकालश् नान्तरा ॥
उद्युक्तः कर्षकः सस्ये वापस्यागमने सदा ।
आरम्भात् संग्रहं यावत् तत्कालं न विवादयेत् ॥ इति ।
बृहस्पतिर् अपि ।
सत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।
मत्तो वृद्धो ऽनुयुक्तश् च नृपकार्योद्यतो व्रती ॥
आसन्ने सैनिकः सङ्ख्ये कर्षको वापसंग्रहे ।
विषमस्थाश् च नासेध्याः स्त्रीसनाथास् तथैव च ॥ इति ।
नारदो ऽपि ।
निवेष्टुकामो रोगार्त्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकर्योद्यतस् तथा ॥
गवां प्रचारे गोपालः सस्यारम्भे कृषीवलाः ।
शिल्पिनश् चापि तत्काल आयुधीयाश् च विग्रहे ॥
[५०] अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्या न चैतान् आह्वयेन् नृपः ॥ इति । (न्स्म् १।५२–५४)
कदा तर्हि द्रव्यं दापनीयम् इत्य् आकाङ्क्षायां बृहस्पतिर् आह ।
वणिग् विक्रीतपण्यस् तु सस्ये जाते कृषीवलः ।
सत्त्रोद्यताश् चैव तथा दापनीयाः कृतक्रियाः ॥ इति ।
यद्य् आसिद्धो नागच्छेत् तदा राज्ञा समानेयः । तद् आह बृहस्पतिः ।
यस्याभियोगं कुरुते सत्येनाशङ्कयाथ वा ।
तम् एवानयेद् राजा मुद्रया पुरुषेण वा ॥ इति ।
नारदो ऽपि ।
देशं कालं च विज्ञाय कार्यानां च बलाबलम् ।
अकल्पादीन् अपि शनैर् यानैर् आह्वानयेन् नृपः ॥ इति ।
आह्वानानर्हान् आह हारीतः ।
अकल्पबालस्थविरविषमस्थक्रियाकुलान् ।
कार्यातिपातिव्यसनिनृपकार्योत्स्वाकुलान् ॥
मत्तोन्मत्तप्रमत्तांश् च स्वजातिप्रभुकां स्त्रियम् ।
धर्मोत्सुकान् जडान् आर्तभृत्यान् नाह्वनयेन् नृपः ॥ इति ।
कात्यायनो ऽपि ।
[५१] धर्मोत्सुकान् अभ्युदये रोगिणो ऽथ जडान् अपि ।
अस्वस्थमत्तोन्मत्तार्तस्त्रियो नाह्वानयेन् नृपः ॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
स्वजातिप्रभुकां चैव तथा नाह्वानयेन् नृपः ॥ इति ।
स्वजातिप्रभुका तु मरीचिना निरुक्ता ।
सर्ववर्णोत्तमा कन्या सा जातिप्रभुका स्मृता ।
तदधीनकुट्म्बिन्यः स्वैरिण्यो गणिकाश् च याः ॥
निष्कुला याश् च पतितास् तासाम् आह्वानम् इष्यते ॥ इति ।
दुष्टस्य दण्डम् आह बृहस्पतिः ।
आहूतो यस् तु नागच्छेद् दर्पाद् बन्धुबलान्वितः ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥ इति ।
कात्यायनो ऽपि ।
आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान् नृपो दण्डं विधिदृष्टेन कर्मणा ॥
हीने कर्मणि पञ्चाशन् मध्यमे तु शतावरः ।
गुरुकार्येषु दण्डः स्यान् नित्यं पञ्चशतावरः ॥ इति ।
आपन्नस्यानागमने ऽपि दण्डो नेत्य् आह व्यासः ।
परानीकहते देशे दुर्भिक्षे व्याधिपीडिते ।
कुर्वीत पुनर् आह्वानं दण्डं न परिकल्पयेत् ॥ इति ।
इत्य् आसेधविधिः
[५२]
अथ दर्शनोपक्रमः
तत्र मनुः ।
धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥ इति । (म्ध् ८।२३)
आरब्धुः कर्तव्यम् आह कात्यायनः ।
काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥
इति ।
केन कस्मिन् कथं कस्मात् पृच्छेद् एनं सभागतम् । इति ।
बृहस्पतिर् अपि ।
आगतानां विवदताम् असकृद् वादिनां नृपः ।
वादान् पश्येन् नात्मकृतान् न चाध्यक्षनिवेदितान् ॥
पीडितः स्वयम् आयातः शस्त्रेणार्थी यदा भवेत् ।
प्राड्विवाकस् तु तं पृच्छेत् पुरुषो वा शनैः शनैः ॥ इति ।
पृष्टश् च कार्यं यथावद् आवेदयेद् इत्य् आह याज्ञवल्क्यः ।
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ (य्ध् २।५)
[५३] इति । यदि केनचिन् निमित्तेन स नावेदयेत् । तदा स व्यवहारो न बलात्कारयितव्य इत्य् अभिप्रेत्य चेद् इत्य् उक्तम् । आवेदनकाले सख्यादयो वर्जयित्वा इत्य् आह उशनाः ।
ससखो ऽनुत्तरीयो वा मुक्तकच्छः सहासनः ।
वामहस्तेन वा स्रग्वी वदेद् दण्डम् अवाप्नुयात् ॥ इति ।
अर्थिनः प्रतिनिधिम् अभ्युपगच्छति कात्यायनः ।
अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विव्दते तयोर् जयपराजयौ ॥ इति । (=न्स्म् २।२२)
अन्तरेणापि नियोगं पित्रादयो विवादं कुर्युर् इत्य् आह पितामहः ।
पिता माता सुहृद् वापि बन्धुः संबन्धिनो ऽपि वा ।
यदि कुर्युर् उपस्थानं वादज़्म् तत्र प्रवर्तयेत् ॥
[५४] यः कश्चित् कारयेत् किंचित् नियोगाद् येन केनचित् ।
तत् तेनैव कृतं ज्ञेयम् अनिवर्त्यं हि तत् स्मृतम् ॥ इति ।
उक्तेभ्यो व्यतिरिक्तस्य विवादं च निषधति नारदः ।
यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादो दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥ इति । (न्स्म् २।२३)
कात्यायनो ऽपि ।
दासाः कर्मकराः शिश्याः नियुक्ताः बान्धवास् तथा ।
वादिनो न च दण्ड्याः स्युर् यस् ततो ऽन्यः स दण्डभाक् ॥ इति ।
आवेदितार्थो लेखनीय इत्य् आह नारदः ।
रागादिना यदैकेन कोपितः करणे वदेत् ।
तद् ओम् इति लिखेत् सर्वं वादिनः फलकादिषु ॥ इति । (न्स्म् २।१८)
करणे धर्माधिकरणे । लिखितस्यार्थस्य संभावितत्वे सति प्रभुस् तत्र प्रवर्तते इत्य् आह कात्यायनः ।
[५५] एवं पृष्टः स यद् ब्रूयात् तत् सभ्यैर् ब्राह्मणैः सह ।
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ॥
मुद्रां वा निक्षिपेत् तस्मिन् पुरुषं वा समादिशेत् । इति ।
आहूतं प्रत्यर्थिनं सुरक्षितस्थाने स्थापयेद् इत्य् आह पितामहः ।
सभायाः पुरतः स्थाप्यो ऽभोयोगी वादिना तथा ।
शंसिते ऽन्यत्र वा स्थाने प्रमाणं सो ऽन्यथा तु न ॥ इति ।
स्थापितस्य छलवादित्वं भूतवादित्वं वा लिङ्गैर् निश्चेयम् । अत एव मनुः ।
बाह्यैर् विभावयेल् लिङ्क्गैर् भावम् अन्तर्तं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ इति । (म्ध् ८।२५–२६)
लिङ्गान्तराण्य् आह याज्ञवल्क्य ।
[५६] देशाद् देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते तस्य मुखं वैवर्ण्यम् एति च ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्य् अपि ॥
स्वभावाद् विकृतिं गच्छेन् मनोवाक्कायकर्मभिः ।
अभियोगे ऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ इति । (म्ध् २।१३–१५)
छलवादपक्षे स एवाह ।
[५७] उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये । इति । (य्ध् २।१०)
तत्र वर्ज्यान् आह कात्यायनः ।
न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
विरुद्धो दण्डितश् चैव संशयस्थश् च न क्वचित् ॥ इति ।
तथा च ।
नैव रिक्थी न रक्थश् च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्ताश् च ये च प्रव्रजिता नराः ॥
नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ॥
नाविज्ञातो ग्रहीतव्यः प्रतिभूस् तत्क्रियां प्रति ॥ इति ।
यदि वादी विवादप्रतिभुवं दातुम् असमर्थः, तदापि तेनैवोक्तम् ।
[५८] अथ चेत् प्रतिभूर् नास्ति कार्ययोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम् ॥
द्विजातिः प्रतिभूहीनो रक्ष्यः स्यात् बाह्यचारिभिः ।
शूद्रादीन् प्रतिभूहीनान् बन्धयेन् निगडेन तु ॥
अतिक्रमे ऽपयाते च दण्डयेत् तं पणाष्टकम् ।
नित्यकर्मोपरोधस् तु न कार्यः सर्ववर्णिनाम् ॥ इति ।
अभियोक्तादीनाम् उक्तिक्रमो ऽपि तेनैवोक्तः ।
तत्राभियोक्ता प्राग् ब्रूयाद् अभियुक्तस् त्व् अनन्तरम् ।
तयोर् अन्ते सदस्यास् तु प्राड्विवाकस् ततः परम् ॥ इति ।
प्राग् ब्रूयात् प्रतिज्ञां कुर्याद् इत्य् अर्थः । तथा च नारदः ।
आज्ञालेख्ये पट्टिके शासने वा
आधिःपत्रं विक्रयो वा क्रयो वा ।
[५९] राज्ञे कुर्यात् पूर्वम् आवेदनं यः
तस्य ज्ञेयः पूर्वपक्षो विधिज्ञैः ॥ इति । (न्स्म् २।३८)
विवादे पूर्वाभियोक्तुर् एव प्रतिज्ञावादित्वम् इत्य् अर्थः । तत्रापवदम् आह स एव ।
यस्य स्याद् अधिका पीडा कार्यं वाभ्यधिकं भवेत् ।
तस्यार्थवादो दातव्यो न यः पूर्वं निवेदयेत् ॥ इति ।
कात्यायनः ।
यस्य स्याद् अधिका पीडा कार्यं वाभ्यधिकं भवेत् ।
पूर्वपक्षो भवेत् तस्य न यः पूर्वं निवेदयत् ॥ इति ।
यत्रोभयोर् अपि परस्परम् अर्थित्वं प्रत्यर्थित्वं च साध्यभेदाद् युगपद् भवति तत्रोत्कृष्टजातेर् बहुपीडस्य वार्थिनो वादः पूर्वं द्रष्टव्यः । तथा च बृहस्पतिः ।
अहंपूर्विकया याताव् अर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडाम् अवेक्ष्य वा ॥
[६०] इति । समानवर्णत्वे पीडापेक्षया ग्राह्याः । अनेकवादियुग्मानां युगपद् उपस्थाने दर्शनक्रमम् आह मनुः ।
अर्थानर्थाव् उभौ बुध्वा धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ इति । (म्ध् ८।२४)
दर्शनोपक्रमो निरूपितः
अथ् चतुष्पाद् व्यवहारः प्रस्तूयते
तत्र प्रतिज्ञोत्तरं प्रमाणं निर्णयश् चेति चत्वारः पादाः । तत्र प्रतिज्ञां संगृह्णाति याज्ञवल्क्यः ।
प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना ।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ (य्ध् २।६)
[६१] इति । एतच् च बृहस्पतिना स्पष्टीकृतम् ।
उपस्थिते ततस् तस्मिन् वादी पक्षं प्रकल्पयेत् ।
निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ॥
देशस्थानसमामासपक्षाहोनामजातिभिः ।
द्रव्यसंख्योदयं पीडां क्षमा लिङ्गं च लेखयेत् ॥
प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥
अल्पाक्षरस् त्व् असंदिग्धो बह्वर्थश् चाप्य् अनाकुलः ।
युक्तो विरोधिकरणे विरोधिप्रतिषेधकः ॥ इति ।
ततः प्रत्यर्थ्याह्वानानन्तरम् । तस्मिन्न् उपस्थिते प्रत्यर्थिन्य् आगते सति निरवद्यं पक्षदोषरहितम् । पक्षदोषास् तु कात्यायनेन दर्शिताः ।
देशकालविहीनश् च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥ इति ।
स्मृत्यन्तरे ऽपि ।
अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥ इति ।
अप्रसिद्धम् – मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधम् – अस्मद्गृहप्रदीपप्रकाशेनायं स्वगृहे व्यवहरतीत्यादि । निरर्थकम् – अभिधेयरहितं कचटतप इत्यादि । निष्प्रयोजनम् – यथा अयं देवदत्तो ऽस्मद्गृहसंनिधौ सुस्वरम् अधीत इत्यादि । [६२] असाध्यम् – यथा देवदत्तेन श्मश्रूभङ्गं प्रहसित इति । विरुद्धम् – यथा अहम् अमुकेन शप्त इत्यादि । पुरराष्ट्रविरुद्धं वा । एवंविधपक्षदोषरहितं निरवद्यम् “मदीयं द्रव्यम् अनेन गृहीतं तत् प्रत्यर्पणीयम्” इति प्रतिज्ञा तया युक्तं सप्रतिज्ञम् । प्रमाणं लिखितभुक्त्यादि । आगमो द्रव्यप्राप्तिप्रकारः । कात्यायनो ऽपि स्पष्टम् उदाजहार ।
निर्दिश्य कालं वर्षं च मासं पक्षं तिथिं तथा ।
वेलां प्रवेशं विषयं स्थानं जात्याकृती वयः ॥
साध्यं प्रमाणं द्रव्यं च संख्या नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासः साध्यनाम च ॥
क्रमात् पितॄणां नामानि पीडाम् आहर्तृदायकौ ।
क्षमालिङ्गानि वाक्यानि पक्षं संकीर्त्य कल्पयेत् ॥
देशं कालं तथात्मानं संनिवेशं तथैव च ।
जातिसंज्ञाधिवासांश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेदयेत् ॥ इति ।
देशादीनां स्थावरविवादेषु पुनर् अभिधानं यत्र यावद् उपयुज्यते तत्र तावद् उपादेयम् । न तु सर्वं सर्वत्रेति प्रदर्शनार्थम् । संग्रहकारो ऽपि ।
[६३] अर्थवद् धर्मसंयुक्तं परिपूर्णम् अनाकुलम् ।
साध्यवद् वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धम् अविरुद्धं च निश्चितं साधनक्षमम् ।
संक्षिप्तं निखिलार्थं च देशकालाविरोधि च ॥
वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत् ।
स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाप्यसंख्यावद् आत्मप्रत्यर्थिनामवत् ।
परात्मपूर्वजानेकराजनामभिर् अङ्कितम् ॥
क्षमालिङ्गात्मपीडावत् कथिताहर्तृदायकम् ।
यद् आवेदयते राज्ञे तद् भाषेत्य् अभिधीयते ॥ इति ।
परात्मपूर्वजानेकराजनामभिः – परः प्रतिवादी, आत्मा वादी, तयोः पूर्वजाः पित्रादयः, अनेकराजानो भुक्तिकालीनाः तेषां नामभिः । भाषादोषास् तु नारदेन दर्शिताः ।
अन्यार्थम् अर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यस्थानादिभिर् भ्रष्टं भाषादोषा उदाहृताः ॥ इति । (न्स्म् २।८)
तांश् च स्वयम् एव व्याचष्टे ।
दृष्टे शाधारणे प्य् एको यद्य् अर्थे वा नियुक्तकः ।
लेखयेद् यस् तु भाषायाम् अन्यार्थां तां विदुर् बुधाः ॥
[६४] गणिते तुलिते मेये तथा क्षेत्रगृहादिके ।
यत्र संख्या न निर्दिष्टा सा प्रमाणविवर्जिता ॥
न त्व् एवं लिख्यते यत्र स भाषा स्यद् अनागमा ।
समा मासस् तथा पक्षस् तिथिर् वारस् तथैव च ॥
यत्रैतानि न लिख्यन्ते लेख्यहीनां तु तां विदुः ॥
लेखयित्वा तु यो भाषां निर्दिष्टे च तथोत्तरे ।
उद्दिष्टे साक्षिणः पूर्वम् अधिकां ताम् विनिर्देशेत् ॥
यत्र स्याद् उभयं सर्वं निर्दिष्टं पूर्ववादिना ।
संदिग्धम् इव लिख्येत भ्रष्टभाषां तु तां विदुः ॥ इति ।
अर्थे साधारणे बहूनां संबन्धिनि कार्ये पुनर् अपि स एव पक्षं संगृह्य विवृणोति ।
भिन्नक्रमो व्युत्क्रमार्थः प्रकीर्णार्थो निरर्थकः ।
अतीतकालोद्दिष्टश् च पक्षो नादेय इष्यते ॥
यथास्थाननिवेशेन नैवं पक्षार्थकल्पना ।
शस्यते न स पक्षस् तु भिन्नक्रम उदाहृतः ॥
मूलम् अर्थं परित्यज्य तद्गुणो यत्र लिख्यते ।
निरर्थकः स वै पक्षो भूतसाधनवर्जितः ॥
भूतकामन् अतिक्रान्तं द्रव्यं यत्र हि लिख्यते ।
अतीतकालः पक्षो ऽसौ प्रमाणे सत्य् अपि स्मृतः ॥
[६५] यस्मिन् पक्षे द्विधा साध्यं भिन्नकालविमर्शनम् ।
विमृश्यते क्रियाभेदात् स पक्षो दिष्ट उच्यते ॥ इति ।
एकेनाप्य् अर्थिना बहुसाध्यनिर्देशो युगपन् न कर्तव्यः । कालभेदेन तु कर्तव्यः । तद् उभयं कात्यायन आह ।
पुरराष्ट्रविरुद्धश् च यश् च राज्ञा विवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति ॥
बहुप्रतिज्ञं यत् कार्यं व्यवहारेषू निश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥ इति ।
पूर्ववादिनो नियमम् आह बृहस्पतिः ।
मृषायुक्तं क्रियाहीनम् असारान्यर्थम् आकुलम् ।
पूर्वपक्षं लेखयतो वादहानिः प्रजायते ॥
अपदिश्याभियोगं यस् तम् अतीत्यापरं वदेत् ।
क्रियाम् उक्त्वान्यथा ब्रूयात् स वादी हानिम् आप्नुयात् ॥
ऊनाधिकं पूर्वपक्षे तावद् वादी विशोधयेत् ।
न दद्याद् उत्तरं यावत् प्रत्यर्थी सभ्यसंनिधौ ॥ इति ।
कात्यायनो ऽपि ।
अधिकान् छेदयेद् अर्थान् हीनांश् च प्रतिपूजयेत् ।
भूमौ निवेशयेत् तावद् यावद् अर्थो ऽभिवर्णितः ॥ इति ।
नारदो ऽपि ।
[६६] भाषाया उत्तरं यावत् प्रत्यर्थी नाभिलेखयेत् ।
अर्थी तु लेखयेत् तावद् यावद् वस्तु विवक्षितम् ॥ इति । (न्स्म् २।७)
अप्रगल्भं वादिनं प्रति बृहस्पतिर् आह ।
अभियोक्ताप्रगल्भत्वाद् वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कार्यशक्त्यनुरूपतः ॥ इति ।
काले इयत्ताम् आह कात्यायनः ।
सोल्लेखनं वा लभते त्र्यहं सप्ताहम् एव वा ।
मतिर् उत्पद्यते यावद् विवादे वक्तुम् इच्छतः ॥ इति ।
पूर्वपक्षस्य चातुर्विध्यं प्रतिपादयति बृहस्पतिः ।
चतुर्विधः पूर्वपक्षः प्रतिपक्षस् तथैव च ।
चतुर्धा निर्णयः प्रोक्तः कैश्चिद् अष्टविधः स्मृतः ॥
शङ्काभियोगस् तत्त्वं च लब्धए ऽर्थे ऽभ्यर्थिनं तथा ।
वृत्ते वादे पुनर् न्यायः पक्षो ज्ञेयश् चतुर्विधः ॥
भ्रान्तिः शङ्का समुद्दिष्टा वश्यं नष्टार्थदर्शनम् ।
लब्धे ऽर्थे ऽभ्यर्थिनं मोहस् तथावृत्ते पुनः क्रियाः ॥
[६७] इति । एतत् पाण्डुलेखेन लिखित्वा वायोद्धारेण शोधितं पत्रे निवेशयेद् इत्य् आह कात्यायनः ।
पूर्वपक्षं स्वभावोक्तं प्राड्विवाको ऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥ इति ।
शोधनं यावद् उत्तरदर्शनम् । न अतः परम् । अत एव नारदः ।
शोधयेत् पूर्ववादं तु यावन् नोत्तरदर्शनम् ।
अवष्टब्धस्योत्तरणे निवृत्तं शोधनं भवेत् ॥ इति ।
हेयादेयौ पूर्वपक्षौ विविनक्ति बृहस्पतिः ।
राज्ञापवर्जितो यस् तु यश् च पौरविरोधकृत् ।
राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥
अन्ये वा ये पुरग्राममहाजनविरोधकाः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥
न्यायं वा नेच्छते कर्तुम् अन्यायं वा करोति यः ।
न लेखयति यस् त्व् एवं तस्य पक्षो न सिध्यति ॥
विरुद्धं चाविरुद्धं च द्वाव् अप्य् अर्थौ निवेशितौ ।
एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस् त्यजेत् ॥
[६८]** **उन्मत्तमत्तनिर्धूता महापतकदूषिताः ।
जडातिवृद्धबालाश् च विज्ञेया स्युर् निरुत्तराः ॥
पक्षः प्रोक्तस् त्व् अनादेयो वादी चानुत्तरस् तथा ।
यादृग्वादी यश् च पक्षो ग्राह्यस् तत् कथयाम्य् अहम् ॥
पीडातिशयम् आश्रित्य यद् ब्रवीति विवक्षितम् ।
स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ॥ इति ।
इति प्रतिज्ञापादो निरूपितः
अथोत्तरपादो निरूप्यते
तं च याज्ञवल्क्यः संगृह्णाति ।
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । इति । (य्ध् २।७)
तद् एतद् बृहस्पतिर् विवृणोति ।
यदा त्व् एवंविधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात् तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥
विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञार्थे स्थिरीभूते लेखयेद् उत्तरं ततः ॥ इति ।
उत्तरे स्वतः प्रवृत्त्यभावे च तत् दापनीयम् इत्य् आह [६९] अस् एव ।
पूर्वपक्षे यथर्थे तु न दद्याद् उत्तरं तु यः ।
प्रत्यर्थी दापनीयः स्यात् सामादिभिर् उपक्रमैः ॥
प्रियपूर्वं वचः साम भेदस् तु भयदर्शनम् ।
अर्थापकर्षणं दण्डस् ताडनं बन्धनं तथा ॥ इति ।
उत्तरलक्षणम् आह प्रजापतिः ।
पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥ इति ।
हारीतो ऽपि ।
पूर्वपक्षार्थसंबद्धम् अनेकार्थम् अनाकुलम् ।
अनल्पम् अव्यस्तपदं व्यापकं नातिभूरि च ॥
सारभूतम् असंदिग्धं स्वपक्षैकान्तसंभवम् ।
अर्थिश्रवम् अगूढार्थं देयम् उत्तरम् ईदृशम् ॥ इति ।
स्वपक्षैकान्तसंभवम् अनवशेषितस्वपक्षैकदेशं संपूर्णस्वपक्षम् इति यावत् । सहसोत्तरं दातुम् अशक्तं प्रति कात्यायन आह ।
श्रुत्वा लेख्यगतं त्व् अर्थं प्रत्यर्थी कारणाद् यदि ।
कालं विवादे याचेत तस्य देयो न संशयः ॥
[७०] इति । कालभेदं कारणविशेषं चाह नारदः ।
शालीनत्वाद् भयार्तत्वात् प्रत्यर्थी स्मृतिविभ्रमात् ।
कालं प्रार्थयते यत्र तत्र तं लब्धुम् अर्हति ॥
एकाहं त्र्यहपञ्चाहं सप्ताहम् पक्षम् एव वा ।
मासं चतुष्टयं वर्षं लभते शक्त्यपेक्षया ॥ इति ।
तत्र व्यवस्थाम् आह स एव ।
सद्यःकृते तदा वादः समातीते दिनं क्षिपेत् ।
षडब्दिके त्रिरात्रं तु सप्ताहं द्वादशाब्दिके ॥
विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥
अस्वतन्त्रजडोन्मत्तबालदीक्षितरोगिणाम् ।
कालः संवत्सराद् अर्वाक् स्वयम् एव यथेप्सितम् ॥ इति ।
कात्यायनो ऽपि ।
संवत्सरं जडोन्मत्ते ऽमनस्के व्याधिपीडिते ।
दिगन्तरप्रपन्ने च अज्ञातार्थे च वस्तुनि ॥
मूलं वा साक्षिणो वाथ परदेशस्थिता यदा ।
[७१] तत्र कालो भवेत् पुंसाम् आ स्वदेशसमागमात् ॥
दत्ते ऽपि काले देयं स्यात् पुनः कार्यस्य् गौरवात् । इति ।
कालदानस्य विषयम् आह नारदः ।
गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ इति । (न्स्म् १।४४)
ऋणादीन् दर्शयति पितामहः ।
ऋणोपनिधिनिक्षेपदानसंभूयकर्मणाम् ।
समये दायभागे च कालः कार्यः प्रयत्नतः ॥ इति ।
कालदानस्यानर्हविषयम् आह याज्ञवल्क्यः ।
साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥ इति । (य्ध् २।१२)
बृहस्पतिर् अपि ।
साहसस्तेयपारुष्यगोऽभिशापे तथात्यये ।
भूमौ विवादयेत् क्षिप्रम् अकाले ऽपि बृहस्पतिः ॥ इति ।
कात्यायनो ऽपि ।
धेनाव् अनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥
[७२] कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥ इति ।
उपधिर् भयादिवशात् प्राप्तं कार्यम् । उत्तरभेदान् आह नारदः ।
मिथ्या संप्रतिपत्तिश् च प्रत्यवस्कन्दनं तथा ।
प्राङ्न्यायश् चोत्तराः प्रोक्ता चत्वारः शास्त्रवेदिभिः ॥ इति ।
मिथ्यादीनां स्वरूपम् आह बृहस्पतिः ।
अभियुक्तो ऽभियोगस्य यदि कुर्यात् तु निह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥
श्रुत्वाभियोगं प्रत्यर्थी यदि तत् प्रतिपद्यते ।
सा तु संप्रतिपत्तिस् तु शास्त्रविद्भिर् उदाहृता ॥
अर्थिनाभिहितो यो ऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥
आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।
स विनेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥ इति ।
प्रजापतिर् अपि ।
यावद् आवेदितं किंचिन् मत्संबन्धम् इहार्थिना ।
तावत् सर्वम् असंभूतम् इति मिथ्योत्तरं स्मृतम् ॥
[७३] यस्यैतद् एवम् एवैतं नासंभावितम् अर्थिना ।
इति संप्रतिपत्त्याख्यं द्वितीयम् इदम् उत्तरम् ॥
दत्तम् एव ममानेन किं त्व् अस्यापि मया पुनः ।
प्रतिदत्तम् इतीदृक् च प्रत्यवस्कन्दनं स्मृतम् ॥
अस्मिन्न् अर्थान्तरे पूर्वं प्रलब्धो ऽस्म्य् अहम् अर्थिना ।
जितश् चायं मया तत्र प्राङ्न्यायविधिर् उच्यते ॥ इति ।
मिथ्योत्तरस्यान्तरभेदम् आह स एव ।
मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥ इति ।
उत्तराभासान् आह कात्यायनः ।
अप्रसिद्धं विरुद्धं यद् अत्यल्पम् अतिभूरि च ।
संदिग्धासंभवाव्यक्तम् अन्यार्थं चातिदोषवत् ॥
यद् व्यस्तपदम् अव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं स्वार्थसिद्धये ॥ इति ।
अप्रसिद्धादीन् स एव व्याचष्टे ।
चिह्नाकारसहस्रं तु समयं वा विजानता ।
भाषान्तरेण वा प्रोक्तम् अप्रसिद्धं तद् उत्तरम् ॥
प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।
यद् एवम् आह विज्ञेयं विरुद्धं तद् इहोत्तरम् ॥
[७४] जितः पुरा मयायं तु अर्थे ऽस्मिन्न् इति भाषिते ।
पुरा मया च प्रमितम् अङ्गीकारोत्तरं स्मृतम् ॥
गृहीतम् इति वाच्ये तु कार्यं तेन कृतं मया ।
पुरा गृहीतं यद् द्रव्यम् इति चेद् वक्ति भूति तत् ॥
देयं ममेति वक्तव्ये मया देयम् इतीदृशम् ॥
संदिग्धम् उत्तरं ज्ञेयं व्यवहारे बुधैस् तदा ॥
बलाबलेन चैतेन साहसं स्थापितं पुरा ।
अनुक्तम् एतन् मन्यन्ते तद् अन्यार्थम् इतीरितम् ॥
अस्मै दत्तं मया सार्धं सहस्रम् इति भाषिते ।
प्रतिदत्तं तदर्धं यत् तद् इहाव्यापकं स्मृतम् ॥
पूर्ववादक्रियां यावत् सम्यङ् नैव निवेशयेत् ।
मया गृहीतं पूर्व्ं नो तद् व्यस्तपदम् उच्यते ॥
तत् किं तामरसं किंचिद् अगृहीतं प्रदास्यति ।
[७५] निगूढार्थं तु तत् प्रोक्तम् उत्तरं व्यवहारतः ॥
किं तेनैव सदा देयं मया देयं भवेद् इति ।
एतद् आकुलम् इत्य् उक्तम् उत्तरज़्म् तद्विदो विदुः ॥
काकस्य दन्ता नो सन्ति सन्तीत्यादि तद् उत्तरम् ।
असारम् इति तत्त्वेन सम्यङ् नोत्तरम् इष्यते ॥ इति ।
अत्र चिह्नेत्यादेर् अयम् अर्थः । विवादविषयस्य गोहिरण्यादिद्रव्यस्य वर्णविशेषादिकं चिह्नम् । दीर्घश्रृङ्गत्वादिर् आकारः । सहस्रादिः संख्या । समयः कालविशेषः संकेतविशेषो वा । तत् सर्वम् अजानता यत् प्रोक्तम्, जानता वा सभ्यानाम् अपरिचितया बाषया यद् उक्तं तद् उभयम् अप्रसिद्धम् । बाल्य एव मया सर्वं द्रव्यं प्रतिदत्तम् इत्य् उक्त्वा स पुनर् अपि विस्मृत्य वा प्रतिवादिबुद्धिं प्रच्छादयितुकामो वा न दत्तम् इति यद् ब्रूयात् तद् विरुद्धम् । “पुरा मयायं जितः” इति वक्तव्ये सति, जितशब्दं परित्यजति चेत् तद् उभयम् । गृहीतम् इत्य् एतावत्य् एव वक्तव्ये सति प्रथमं तद् अनुक्त्वा तेन यत् कर्तव्यं तत् कार्यं मया कृतम् इत्य् एतादृशं प्रस्तुतानुपयोगि किंचिद् उक्त्वा पश्चाद् गृहीतम् इति यद् ब्रूयात् तद् उत्तरं भूरि । देयं मयेत्य् उक्ते सति संदेहम् अन्तरेण दातव्यनिश्चयो भवति तद् अनुक्त्वा मयादेयम् [७६] इति यद् ब्रूयात्, तदानीम् अदेयम् इति वा देयम् इति वा पदस्य छेत्तुं शक्यत्वाद् उत्तरं संदिग्धं भवति । यदि षोडशवर्षः प्रतिवादी “मत्पौत्रेण दत्तम्” इति ब्रूयात् अद् असंभवम् । एकादश वस्त्राणि मया दत्तानीति वक्तव्ये सति रुद्राकाशनामकानि युष्मत्प्रयोगशब्दवाच्येन विभागितानीत्य् एवम् अप्रसिद्धैः पदैर् अभिहितम् उत्तरम् अव्यक्तम् । प्रकृतार्थस्योचितम् उत्तरम् अनुक्त्वा अनुपयुक्तम् एव किंचिद् ब्रूते- “एतेन वादिना प्राबल्येन दौर्बल्येन वा किंचित् साहसं कृतम्” इत्यादि तत्र प्रकृतस्यानुक्तत्वाद् उत्तरम् अन्यार्थं भवति । शतं देयम् इति प्रतिज्ञा तस्यार्थस्य शतद्वयं दत्तम् इत्य् उत्तरं दोषवत् । सार्धं सहस्रं मह्यं देयम् इति प्रतिज्ञा तस्य तदर्धं प्रत्यर्पितम् इत्य् उत्तरम् अव्यापकम् । वादिना स्वपक्षस्य सम्यक् लेखनात् पूर्वम् एव मया न गृहीतम् इत्य् उत्तरं व्यस्तपदम् । मया दत्तम् अपि यदा न गृहीतम् इति वक्तव्ये सति विस्पष्टं न वदति किं तु लोके यः को ऽपि किम् अगृहीतं तामरसं प्रदास्यतीत्य् एवम् अप्रसिद्धेन शब्देन व्यतिरेकमुखेन काकस्वरेणाभिहितम् उत्तरं निगूढम् । किं ते नैव सदा देयं मया देयम् इत्य् अत्रोभयोर् वाक्ययोर् अदेयं मया देयम् इति पदच्छेदसंभवाद् [७७] अर्थस्यानिश्चयात् किम् इति काक्वा व्यज्यमानस्याप्य् अनिश्चयाद् इदम् उत्तरं व्याकुलम् । त्वत्पित्रा सुवर्णशतं गृहीतम् इत्य् अभियोगे पितुर् वाक्यं जानामीति वक्तव्ये व्यत्यस्यान्वयेन दुर्बोधं वचो ब्रूते गृहीतं शतम् इति वचनात् सुवर्णानां पितुर् न जानामीति तद् इदम् उत्तरं व्याख्यागम्यम् । काकदन्तादिविषयं निष्प्रयोजनं असारम् इति । संकराख्यम् उत्तराभासम् आह कात्यायनः ।
पक्षैकदेशे यत् सत्यं एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे यत् संकरात् तद् अनुत्तरम् ॥ इति ।
तच् च स एव विशदयति ।
न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥ इति ।
मिथ्याकारणोक्तयोः संकरे अर्थिप्रत्यर्थिनोर् द्वयोर् अपि क्रिया प्राप्नोति ।
मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।
इति स्मरणात्, तद् उभयम् एकस्मिन् व्यवहारे विरुद्धम् । तथा सुवर्णं रूपकशतं अनेन गृहीतम् इत्य् अभियोगे सुवर्णं न गृहीतम्, रूपकशतं गृहीतं प्रतिदत्तम् इति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्,
प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
[७८] इति स्मरणात् । यथा “सुवर्णं गृहीतं प्रतिदत्तम्, रूपके व्यवहारमार्गेण् पराजितः” इति । अत्र प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर् वा भवितव्यम् । कारणोत्तरे तु साक्षिलेख्यादिभिर् भावयितव्यम् इत्य् अविरोधः । एवम् उत्तरत्रयसंकरे ऽपि द्रष्टव्यम् । यथा “अनेन सुवर्णरूपकशतं वस्त्राणि च गृहीतानि” इत्य् अभियोगे “सत्यं सुवर्णं गृहीतं प्रतिदास्यामि । रूपकशतं तु न गृहीतम् । वस्त्रविषये पूर्वन्यायेन पराजितः” इति । एवं चतुःसंकरे ऽपि । एतेषां चानुत्तरत्वं यौगपद्येन । तस्य तस्यांशस्य तेन तेन विवादप्रसिद्धेः क्रमेणोत्तरत्वम् एव । क्रमश् चार्थिनः प्रत्यर्थिनः सभ्यानां चेच्चया भवति । यत्र पुनर् उभयोः संकरस् तत्र यस्य प्रभूतार्थविषयत्वं तत्र क्रियोपादानेन व्यवहारः प्रवर्तयितव्यः । पश्चाद् अन्यविषयान्तरोपादानेन । यत्र च संप्रतिपत्तेर् उत्तरान्तरस्य च संकरः तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः संप्रतिपत्तेः प्रयोगाभावात् । यथा हारीतेनोक्तम् ।
मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।
सत्यं वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥
[७९] इत्य् उक्त्वा,
यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्र विज्ञेयम् असंकीर्णम् अतो ऽन्यथा ॥ इति ।
संकीर्णं भवतीति शेषः ऐच्छिकक्रमं भवतीत्य् अर्थः । तत्र प्रभूतार्थविषयं यथा – “अनेन रूपकशतं सुवर्णं वस्त्राणि च गृहीतानि” इत्य् अभियोगे, “सुवर्णं रूपकशतं च गृहीतम्, वस्त्राणि गृहीतानि प्रतिदत्तानि च” इति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वाद् अर्थिनः क्रियाम् आदाय प्रथमं व्यवहारः प्रवर्तयितव्यः । पश्चाद् वस्त्रविषयो व्यवहारः । एवं मिथ्याप्राङ्न्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । यथा तस्मिन्न् एवाभियोगे “सत्यं सुवर्णं रूपकशतं च गृहीतं दास्यामि । वस्त्राणि तु न गृहीतानि प्रतिदत्तानि” इति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तेर् भूरिविषयत्वे ऽपि तत्र क्रियाभावात् मिथ्योत्तरक्रियाम् आदाय व्यवहारः प्रवर्तयितव्यः । यत्र तु मिथ्याकारणयोर् उत्तरयोः कृत्स्नप्रक्षव्यापित्वम्, यथा – शृङ्गग्राहिकया कश्चिद् वदति “इयं गौर् मदीया, अमुकस्मिन् काले नष्टा, अस्य गृहे दृष्टा” इति । अन्यस् तु “मिथ्याइतत्, एतत्प्रदर्शितकालात् पूर्वम् एवास्मद् गृहे स्थिता । मम गृहे जाता वा” इति वदति । इदं तावत् पक्षनिराकरणसमर्थत्वान् नानुत्तरम् । नापि मिथ्यैव, कारणोपन्यासात् । नापि अकारणम्, एकदेशाभ्युपगमाभावात् । [८०] तस्मात् सकारणमिथ्योत्तरम् इदम् । अत्र च प्रतिवादिनः क्रिया । “कारणे प्रतिवादिनि” इति वचनात् । ननु – “मिथ्या क्रिया पूर्ववादे” इति पूर्ववादिनः कस्मात् क्रिया न भवति । तस्य शुद्धमिथ्याविषयत्वात् । “कारणे प्रतिवादिनि” इति एतद् अपि कस्माच् छुद्धकारणविषयं न भवति । नैतत् सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूपत्वाच् छुद्धकारणोत्तरस्याभावात् । प्रसिद्धकारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम् । यथा – “सत्यं रूपकशतं गृहीतम्, न धारयामि, दत्तत्वात्” इति । प्रकृतोदाहरणे तु प्रतिज्ञार्थैकदेशस्याभ्युपगमो नास्तीति विशेषः । एतच् च हारीतेन स्पष्टम् उक्तम् ।
मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् ॥ इति ।
यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वं यथा “रूपकशतं धारयति” इत्य् अभियोगे “मिथ्यैतत् अस्मिन्न् अर्थे पूर्वम् अयं पराजितः” इति तत्रापि प्रतिवादिन एव क्रिया,
प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
इति वचनात् । शुद्धस्य प्राङ्न्यायस्याभावाद् अनुत्तरप्रसङ्गात् । संप्रतिपत्तेर् अपि साध्यत्वेनोपदिष्टस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकारणाद् एवोत्तरत्वम् । यत्र तु कारणं प्राङ्न्यायसंकरः । [८१] यथा – “शतम् अनेन गृहीतम्” इत्य् अभियुक्तः प्रतिवदति “सत्यं गृहीतम् । प्रतिदत्तं च” इत्य् अस्मिन्न् एवार्थे प्राङ्न्यायेनायं पराजित इति तत्र प्रतिवादिनो यथारुचीति न क्वचिद् वादिप्रतिवादिनोर् एकस्मिन् व्यवहारे क्रियाप्रसङ्ग इति निर्णयः । निरुत्तरं प्रत्यर्थिनं प्रति कात्यायन आह ।
उपायैश् चोद्यमानस् तु न दद्याद् उत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितो ऽसौ दातुम् अर्हति ॥ इति ।
हीनवादिनं दर्शयति नारदः ।
पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते पुनः ।
वादसंक्रमणात् ज्ञेयो हीनवादी स वै नरः ॥
न मयाभिहितं कार्यम् अभियुक्तं परं वदेत् ।
विब्रुवंश् च भवेद् एवं हीनं तम् अपि निर्दिशेत् ॥
अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ इति । (न्स्म् २।२४, ३३)
तान् वादिनो विवृणोति स एव ।
लेखयित्वा तु यो वाक्यम् ऊनं वाभ्यधिकं पुनः ।
वदेद् वादी स हीयेत नाभियोगं तु सो ऽर्हति ॥
[८२] सभ्याश् च साक्षिणश् चैव क्रिया ज्ञेया मनीषिणः ।
तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते ॥
आह्वानाद् अनुपस्थानात् सद्य एव प्रहीयते ।
ब्रूहीत्य् उक्तो ऽपि न ब्रूयात् सद्यो बन्धनम् अर्हति ॥
द्वितीये ऽहनि दुर्बुद्धेर् विद्यात् तस्य पराजयम् ॥ इति ।
बृहस्पतिः ।
आहूतव्यपलापी च मौनी साक्षिः पराजितः ।
स्ववाक्यप्रतिपन्नश् च हीनवादी चतुर्विधः ॥ इति ।
हीनत्वे कालावधिम् आह स एव ।
प्रपलायी तु पक्षेण मौनकृत् सप्तभिर् दिनैः ।
साक्षिभिस् तत्क्षणेनैव प्रतिपन्नश् च हीयते ॥ इति ।
दैविकादिविध्नेन यथोक्तकालातिक्रमे ऽपि नापराध इत्य् आह स एव ।
दैवराजकृतो दोषस् तत्काले तु यदा भवेत् ।
अवधित्यागमात्रेण न भवेत् स पराजितः ॥ इति ।
हीनवादिनो दण्डेन पुनर्वादाधिकारम् आह कात्यायनः ।
[८३] अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश ।
नोपस्थाता दश द्वे च षोडशैव निरुत्तरः ॥
आहूतप्रपलायी च पणान् ग्राह्यस् तु विंशतिम् ॥
इति ।
त्रिर् आहूतम् अनायातम् आहूतप्रपलायिनम् ।
पञ्चरात्रम् अतिक्रान्तं विनयेत् तं महीपतिः ॥ इति ।
यत् तु तेनैव पुनर्वादनिषेधकथनम्,
दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते ॥
इति, तद् एतन् न्यक्कृतविवादविषयम् । इतरत्र तु प्रकृतिहानिर् नास्तीत्य् आह नारदः ।
सर्वेष्व् अर्थविवादेषु वाक्छलेनावसीदति ।
पशुस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥ (न्स्म् २।२५)
[८४] इति । नावसीदतीति प्रतिज्ञातार्थस्य न हीयत इत्य् उपपादनम् । अत्रापवादम् आह कात्यायनः ।
उभयोर् लिखिते वाक्ये प्रारब्धे कार्यनिर्णये ।
अयुक्तं तत्र यो ब्रूयात् तस्माद् अर्थात् महीयते ॥ इति ।
याज्ञवल्क्यो ऽपि ।
संदिग्धार्थस्वतन्त्रो यः साधयेद् यश् च निष्पतेत् ।
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥ इति । (य्ध् २।१६)
अत्र दण्डग्रहणेनैव हीनत्वे सिद्धे पुनर् हीनग्रहणं प्रकृताद् अर्थाद् धीन इति ज्ञापनार्थम् । वादम् उपक्रम्य निवृत्तयोर् द्वयोर् अपि दण्डम् आह बृहस्पतिः ।
पूर्वरूपे संनिविष्टे विचारे संप्रवर्तिते ।
प्रशमं ये मिथो यान्ति दाप्यास् ते द्विगुणं दमम् ॥ इति ।
तद् एतन् नृपवचनविषयम् इत्य् आह कात्यायनः ।
आवेद्य प्रगृहीतार्थं प्रशमं यान्ति ये मिथः ।
सर्वे द्विगुणदण्ड्याः स्युर् विप्रलम्भान् नृपस्य ते ॥
[८५] इति । एवं चावञ्चनया प्रशान्तानां न दण्डः । अत एव बृहस्पतिः ।
पूर्वोत्तरे ऽभिलिखिते प्रक्रान्ते कार्यनिर्णये ।
द्वयोः सन्तप्तयोः संधिः स्याद् अयःखण्डयोर् इव ॥
साक्षिसभ्यविकल्पस् तु भवेत् तत्रोभयोर् अपि ।
दोलायमानयोः संधिः प्रकुर्यातां विचक्षणैः ॥
प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।
तत्र राजाज्ञया संधिर् उभयोर् अपि शस्यते ॥ इति ।
अर्थिप्रत्यर्थिनोर् अभियोगे कंचिन् नियमम् आह याज्ञवल्क्यः ।
अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ इति । (य्ध् २।९)
प्रत्यर्थी स्वस्मिन् वादिना संपादितम् अभियोगम् अपरिहृत्य प्रत्यभियोगं न कुर्यात् । अर्थी चान्येनार्थिना अभियुक्तं प्रत्यर्थिनं तदभियोगपरिहारात् पुरा स्वयं नाभियुञ्ज्यात् । उभाभ्याम् अपि प्रतिज्ञारूपम् उत्तरस्वरूपं वाचा यद् यथाभिहितं तत् तथैव समाप्तिपर्यन्तं निर्वाह्यम् । प्रत्यभियोगनिषेधस्यापवादम् आह स एव ।
कुर्यात् प्रत्यभियोगं तु कलहे साहसेषु च । (य्ध् २।१०)
[८६] इति । कलहे वाग्दण्डपारुष्यात्मके । साहसेषु च विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु । प्रत्यभियोगसंभवे त्व् अभियोगम् अनिस्तीर्यापि स्वाभियोक्तारं प्रत्यभियोजयेत् ।
ननु – अत्रापि पूर्वपक्षानुपमर्दरूपत्वेनानुत्तरत्वात् प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे युगपद्व्यवहारासंभवः समानः ।
सत्यम् । नात्र युगपद्व्यवहारस्य प्रत्यभियोगोपदेशः । अपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये च । तथा हि “अनेनाहं ताडितः शप्तो वा” इत्य् अभियोगे “पूर्वम् अहम् अनेन ताडितः शप्तो वा” इति प्रत्यभियोगे दण्डाल्पत्वम् । यथाह कात्यायनः ।
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दण्डभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥ इति ।
पश्चाद् यः आक्षारयेत् सो ऽप्य् असत्कारी दण्डभाक् । तयोर् मध्ये [८७] पूर्वस्य दण्डाधिक्यं इत्य् उत्तरपादः ।
अथ क्रियापादः । तं च याज्ञवल्क्यः संगृह्णाति ।
ततो ऽर्थी लेकयेत् सद्यः प्रतिज्ञातार्थसाधनम् । इति । (य्ध् २।७)
बृहस्पतिस् तु तं विवृणोति ।
पूर्वपादे विलिखितं यथाक्षरम् अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ इति ।
क्रियाया उपयोगम् आह कात्यायनः ।
कारणात् पूर्वपक्षो ऽपि उत्तरत्वं प्रपद्यते ।
अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधनी ॥ इति ।
क्रियाभेदान् आह बृहस्पतिः ।
द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
एकैकानेकधा भिन्ना ऋषिभिस् तत्त्ववेदिभिः ॥
साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया ।
साक्षी द्वादशभेदस् तु लिखितं त्व् अष्टधा स्मृतम् ॥
अनुमानं त्रिधा प्रोक्तं नवधा दैविकी क्रिया । इति ।
दैवमानुषक्रिययोर् मानुष्याः प्राबल्यम् आह कात्यायनः ।
यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तु दैवीं क्रियां नृपः ॥
[८८] यद्य् एकदेशप्राप्तापि क्रिया विद्येत मानुषी ।
सा न्याय्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ इति ।
मानुषयोः साक्षिलेख्ययोः संनिपाते लेख्यस्य प्राबल्यम् आह स एव ।
क्रिया तु दैविकी प्राप्ता विद्यमानेषु साक्षिषु ।
लेख्ये च प्रतिवादेषु न दिव्यं न च साक्षिणः ॥ इति ।
लेख्यप्राबल्यस्य विषयम् आह स एव ।
पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ इति ।
क्वचित् तु साक्षिणः प्राबल्यं तद् आह स एव ।
दत्तादत्तेषु भृत्यानां स्वामिनां निर्णये सति ।
विक्रियादानसंबन्धे क्रीत्वा धनम् अनिच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥ इति ।
क्वचिद् अनुमानं प्रबलम् । अनुमानं नाम भुक्तिः याज्ञवल्क्येनानुमानस्थाने भुक्तिशब्दप्रयोगात् ।
प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् । इति । (य्ध् २।२२)
भुक्तिप्राबल्यविषयम् आह कात्यायनः ।
द्वारमार्गक्रियाभोगे जलवाहादिके तथा ।
भुक्तिर् एव हि गुर्वी स्यान् न लेख्यं न च साक्षिणः ॥ इति ।
दैवक्रियाविषयम् आह व्यासः ।
रहःकृतं प्रकाशं च द्विविधं कार्यम् उच्यते ।
प्रकाशं साक्षिभिर् भाव्यं दैविकेन रहःकृतम् ॥ इति ।
प्रकाशं साक्षिभिर् भाव्यम् इत्य् अस्यापवादम् आह बृहस्पतिः ।
महापापाभिशापेषु निक्षेपे हरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्व् अपि साक्षिषु ॥
मणिमुक्ताप्रवालानां कूटकृत् पाशहारकः ।
हिंसको ऽन्त्याङ्गनासेवी परीक्ष्यः शपथैः सदा ॥
[९०] चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु ।
प्रदुष्टेष्व् अनुमानेषु दिव्यैः कार्यं विशोधयेत् ॥ इति ।
कात्यायनो ऽपि ।
समत्वं साक्षिणां यत्र दिव्यैस् तत्रापि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ॥
दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिणः ।
उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ॥
सर्वं तु दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥ इति ।
व्यासो ऽपि ।
न मयैतत् कृतं पत्रं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रं ह्य् अर्थे दिव्येन निर्णयः ॥
यन्नामलेख्यं तल्लेख्यं तुल्यं लेख्यं क्वचिद् भवेत् ।
अगृहीते धने तत्र कार्यो दैवेन निर्णयः ॥ इति ।
कात्यायनो ऽपि ।
यत्र स्यात् सोपधं लेख्यं यद् राजश्रावितं यदि ।
दिव्येन शोधयेत् तत्र राजा धर्मासनस्थितः ॥ इति ।
दिव्यसाक्षिविकल्पविषयम् आह कात्यायनः ।
[९१] प्रक्रान्ते साहसे बाद्पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव वा ॥
ऋणे लेख्यं साक्षिणो वा युक्तिलेख्यादयो ऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥ इति ।
युक्तिस् तेनैव दर्शिता ।
साक्षिणो लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः ।
लिङ्गोद्देशस् तु युक्तिः स्याद् द्वियानीह विषादयः ॥ इति ।
चोदनादीनां मुख्यानुकल्पभावम् आह स एव ¦
चोदना प्रतिकालं तु युक्तिर् लेखस् तथैव च ।
तृतीयः शपथः प्रोक्तस् तैर् ऋणं साधयेत् क्रमात् ॥ इति ।
अस्यार्थस् तेनैव विवृतः ।
अभीक्ष्णं चोद्यमानो ऽपि प्रतिहन्यान् न तद्वचः ।
त्रिचतुःपञ्चकृत्वो वा परतो ऽर्थं समाचरेत् ॥
चोदनाप्रतिघाते तु युक्तिलेखैः समन्वियात् ।
देशकालार्थसंबन्धपरिणामक्रियादिभिः ॥
[९२] युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अर्दयेत् ।
अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ॥ इति ।
येयम् उक्ता प्रमाणव्यवस्था सावश्यं परिपालनीया । तद् आह नारदः ।
प्रमाणानि प्रमाणज्ञैः परिभाव्यानि यत्नतः ।
सीदन्ति हि प्रमेयानि प्रमाणैर् अव्यवस्थितैः ॥ इति । (न्ध् १।६७)
अव्यस्थितैः प्रमाणैः प्रमाणकथितो ऽर्थो यतो विनश्यति अतः कालस्यानन्तत्वात् न किं प्रमाणम् इति प्रत्याकलनकुशलैः प्रत्याकलयितव्यानीत्य् अर्थः । यत्र प्रमाणैर् निर्णयः कर्तुं न शक्यते तदा राजेच्छया निर्णयः कार्यः । तद् आह पितामहः ।
[९३] लेख्यं यत्र न विद्येत न भुक्तिर् न च साक्षिण्ः ।
न च दिव्यावतारो ऽस्ति प्रमाणं तत्र पार्थिवः ॥
निश्चेतुं ये न शक्याः स्युर् वादाः संदिग्धरूपिणः ।
तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर् यतः ॥
इति क्रियापादो निरूपितः ।
अथ साक्षिनिरूपणम्
तत्र साक्षिशब्दार्थं निर्वक्ति मनुः ।
समक्षदर्शनात् साक्षी श्रवणाच् चैव सिध्यति । इति । (म्ध् ८।७४)
विष्णुर् अपि- “समक्षदर्शनात् साक्षी श्रवणाद् वा” इति (विध् ८।१३) । चक्षुषा श्रोत्रेण सह मनोव्यापारो यस्य स साक्षी इति, “साक्षाद् द्रष्टरि संज्ञायाम्” (पाण् ३।७) इति पाणिनिस्मरणात् । साक्षिणः प्रयोजनानि मनुर् एवाह ।
संदिग्धेषु च कार्येषु द्वयोर् विवदमानयोः ।
दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तदर्शनम् ॥ (=न्स्म् ३।१४७)
[९४] इति । साक्षिलक्षणं तु मनुः ।
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥
गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः ।
प्रवक्तुं साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥ इति । (म्ध् ८।६१–६३)
व्यासो ऽपि ।
धर्मज्ञाः पुत्रिणो मौलाः कुलीनाः सत्यवादिनः ।
श्रौतस्मार्तक्रियायुक्ता विगतद्वेषमत्सराः ॥
श्रोत्रिया न पराधीनाः सूरयश् चाप्रवासिनः ।
युवानः साक्षिणः कार्या ऋणादिषु विजानता ॥ इति ।
याज्ञवल्क्यो ऽपि ।
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥
[९५] त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ इति । (य्ध् २।६८–६९)
स्मृत्यन्तरे ऽपि ।
कुलीना ऋजवः शुद्धा जन्मतः कर्मतो ऽर्थतः ।
त्र्यवराः साक्षिणो ज्ञेया शुचयश् च सुबुद्धयः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्य् अनिन्दिताः ।
प्रतिवर्णं भवेयुस् ते सर्वे सर्वेषु वादिनः ॥
श्रेणिषु श्रेणिपुरुषाः स्वेषु स्वे चैव वर्गिणः ।
बहिर्वासिषु बाह्याश् च स्त्रियः स्त्रीषु च साक्षिणः ॥ इति । (=न्स्म् ३।१५२–५५)
बृहस्पतिः संख्याम् आह ।
नव सप्त च पञ्च स्युश् चत्वारस् त्रय एव वा ।
उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत् कदाचन ॥ इति ।
यत् पुनस् तेनैवोक्तम्,
[९६] द्यूतकः शटिकाग्राही कार्यमध्यगतस् तथा ।
एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥ इति ।
व्यासो ऽपि,
शुचिक्रियश् च धर्मज्ञः साक्षी यो ऽत्रानुभूतवाक् ।
प्रमाणम् एको ऽपि भवेत् साहसेषु विशेषतः ॥ इति ।
यद् अपि कात्यायनेन,
आभ्यन्तरस् तु विज्ञेयो साक्ष्यम् एको ऽपि वा वदेत् ।
इति, तद् एतत् सर्वम् उभयानुमतसाक्षिविषयम् । तथा च नारदः ।
उभयानुमतो यः स्यात् द्वयोर् विवदमानयोः ।
स साक्ष्य् एको ऽपि साक्षित्वे प्रष्टव्यः स्यात् तु संसदि ॥ इति ।
साक्षिषु वर्ज्यान् आह मनुः ।
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥
[९७] न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
न श्रोत्रियो विलिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥
नान्याधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।
न वृद्धो न शुशुर् नैको नान्त्यो न विकलेन्द्रियः ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ इति । (म्ध् ८।६४–६८)
नारदो ऽपि ।
दासनैकृतिकक्रुद्धवृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ॥
महापथिकसामुद्रिवणिक्प्रव्रजितातुराः ।
व्यङ्गैकश्रोत्रियाचारहीनक्लीबकुशीलवाः ॥
नास्तिकव्रात्यदाराग्नित्यागिनो ऽयाज्ययाजकाः ।
एकस्थाली सहावासी चरज्ञातिसनाभयः ॥
वाग्दृष्टदोषशौलूषा विषजीव्यहितुण्डिकाः ।
गरदछद्म्यगिदाता शूद्रापत्युपपातिकाः ॥
[९८] क्लान्तसाहसिकश्रान्तनिर्धनान्त्यावसाहिनः ।
भिन्नवृत्तासमावृत्य जडतैलिकमूलिकाः ॥
भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।
अधशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥
कुनखी श्यावदन्तश् च मित्रध्रुक्शठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥
वधकश् चित्रकृन् मूर्खः पतितः कूटकारकः ।
कुहकः प्रत्यवसितस् तस्करो राजपूरुषः ॥
मनुष्यविषमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।
विक्रेता ब्राह्मणश् चैव द्विजो वार्धुषिकश् च यः ॥
च्युतः स्वधर्मात् कुलिकः सूचको हीनसेवकः ।
पित्रा विवाद्मानश् च भेदकृच् चेत्य् असाक्षिणः ॥ (न्स्म् ३।१७८–८७)
[९९] इति । नैकृतिकः पररन्धान्वेषणशीलः । चाक्रिको वैतालिकः समुद्रवणिग्वाहित्रयायी । युग्मौ द्वित्वविशिष्टौ एकस्थालीत्य् अस्य द्वेधाविग्रहः । एका पाकसाधनस्थाली यस्य । यद् वा पाकस्थाली भोजनस्थानम् । एकं भोजनस्थानं यस्य । अरिषु चरतीत्य् अरिचरः । शत्रुसंबन्धीति यावत् । सनाभयस् तु कात्यायनेन दर्शिताः ।
मातुः स्वसुः सुताश् चैव सोदर्यसुतमातुलाः ।
एते सनाभयस् तूक्ताः साक्ष्यं तेषु न योजयेत् ॥ इति ।
शौलुषो नटः । विषजीवी विषस्य संग्रहरक्षणादिव्यापारे नियुक्तः । अहितुण्डिकः सर्पग्राही । गरदो विषदः । अग्निदो गृहदाहादिकर्ता । कीनाशः कृपणः । श्रान्तः श्येनः । निर्धूतो बहिष्कृतः । अन्तावसायी प्रतिलोमजः । भिन्नवृत्तो दुराचारः । असमावृत्तो ऽनैष्टिकब्रह्मचारी । जडो मन्दबुद्धिः । तैलकस् तिलाघाती । वर्षसूचको वृष्टिसूचकः । नक्षत्रसूचको ज्योतिषः । अघशंसी परदोषप्रकाशकः । भगवृत्तिः स्ववृत्तये भार्यावेश्यात्वकारी । शौण्डिको मद्यविक्रयी । देवताव्याजेन द्रव्योपजीविको मूर्खः । कुहको दाम्भिकः । प्रत्यवसितः [१००] प्रव्रज्यातो निवृत्तः । सूचकः परदोषसूचनार्थं राज्ञा नियुक्तः । भेदकृत् पिशुनः । अन्ये प्रसिद्धाः । कात्यायनो ऽपि ।
पिता बन्धुः पितृव्यश् च श्वशुरो गुरवस् तथा ।
नगरग्रामदेशेषु नियुक्ता ये पदेषु च ॥
वल्लभाश् च न पृच्छेयुर् भक्तास् ते राजपूरुषाः ॥ इति ।
न पृच्छेयुः भवदीयो विवादः कीदृश इति तैर् न प्रष्टव्यम् । साक्षिणो न भवन्तीति यावत् । एतेषाम् असाक्षित्वे हेतुम् आह नारदः ।
असाक्षिणो ये निर्दिष्टा दासनैष्कृतिकादयः ।
तेषाम् अपि बालः स्यान् नैको न स्त्री न कूटकृत् ॥
न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ।
बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ॥
विब्रूयुर् बान्धवाः स्नेहाद् वैरनिर्यातनाद् अरिः ।
एको ऽलुब्धस् तु साक्षी स्याद् बह्व्यः शुचयो ऽपि न स्त्रियः ॥
स्त्रीबुद्धेर् अस्थिरत्वाच् च दोषैश् चान्यैश् च ये वृताः ॥ इति । (न्स्म् ३।१८८–९५)
बृहस्पतिर् अपि ।
स्तेनाः साहसिकाः षण्ढाः कितवाः सूचकास् तथा ।
न साक्षिणस् ते दुष्टत्वात् तेषु साक्ष्यं न विद्यते ॥
[१०१] इति । याज्ञवल्क्यो ऽपि ।
श्रोत्रियास् तापसा वृद्धा ये च् प्रव्रजिता नराः ।
असाक्षिणस् ते वचनात् तत्र हेतुर् उदाहृतः ॥ इति ।
उक्तानां साक्षिणाम् असंभवे कार्यगौरवे च प्रतिप्रसवम् आह नारदः ।
असाक्षिणो ये निर्दिष्टा दासनैष्कृतिकादयः ।
कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥ इति । (न्स्म् ३।१८८)
मनुर् अपि ।
स्त्रियाप्य् असंभवे कार्यं बालेन स्थविरेण वा ।
शिष्येण वापि दासेन बन्धुना मृतकेन वा ॥ इति । (म्ध् ८।७०)
नारदो ऽपि ।
स्तेये ऽपि साहसे चैव पारुष्ये संगमे स्त्रियाः ।
शमादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः ॥ इति ।
व्याघ्रो ऽपि ।
साहसेषु च सर्वेषु स्तेये संग्रहणेषु च ।
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥ इति ।
यत् पूर्वम् उक्तम् “साक्षी द्वादशभेदः” इति तान् द्वादशभेदान् आह बृहस्पतिः ।
[१०२] लिखिते लेखितो गूढः स्मारितः कुल्यदूतकौ ।
यदृच्छोत्तरसाक्षी च कार्यमध्यगतो ऽपरः ॥
नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादशधा स्मृतः ।
प्रभेदम् एषां वक्ष्यामि यथावद् अनुपूर्वशः ॥
जातिमामाभिलिखितं येन स्वं पित्र्यम् एव च ।
निवासं च समुद्दिष्टं स साक्षी लिखितः स्मृतः ॥
संधिक्रिया क्रियाभेदैस् तस्य कृत्वा ऋणादिके ।
प्रत्यक्षं लिख्यते यस्य लेखितः स उदाहृतः ॥
कुड्यव्यवहितो यस् तु श्राव्यते ऋणिभाषितम् ।
विनिह्नुते यथाभूतं गूढः साक्षी स कीर्तितः ॥
आहूय यः कृतः साक्षी ऋणन्यासकिर्यादिके ।
स्मार्यते च मुहुस् तच् च स्मारितः सो ऽभिधीयते ॥
विभागे दान आधाने ज्ञातिर् यत्रोपदिश्यते ।
द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥
अर्थिप्रत्यर्थिवचने शृणुयात् प्रेषितस् तु यः ।
उभयोः संमतः साधुः दूतकः स उदाहृतः ॥
[१०३] क्रियमाणे तु कर्तव्ये यः कश्चित् स्वयम् आगतः ।
अत्र साक्षी त्व् अस्माकम् उक्तो यादृच्छिको मतः ॥
यत्र साक्षी दिशं गच्छन् मुमूर्षुर् वा यथास्मृतम् ।
अन्यं संश्रावयेत् तं तु विद्याद् उत्तरसाक्षिणम् ॥
उभाभ्यां यस्य विश्वस्तं कार्यं वा विनिवेदितम् ।
कूटसाक्षी स विज्ञेयः कार्यमध्यगतस् तथा ॥
अर्थिप्रत्यर्थिनोर् वापि यद् वृत्तं भूभृता स्वयम् ।
स एव तत्र साक्षी स्याद् विसंवादे द्वयोस् तथा ॥
निर्णीते व्यवहारे तु पुनर् न्यायो यदा भवेत् ।
अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥
व्युषितं छादितं यत्र सीमायां च समं ततः ।
स कृतो ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥ इति ।
तेष्व् एव द्वादशसु विशेषान्तरम् आह स एव ।
लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्चलेखिताः ।
यदृच्छास्मारिताः कुल्यास् तथा चोत्तरसाक्षिणः ॥
दूतकः खटिकाग्राही कार्यमध्यगतस् तथा ।
एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥
[१०४] इति । लिखितादाव् अपरं विशेषम् आह नारदः ।
सुदीर्घेणापि कालेन लिखितः शुद्धिम् आप्नुयात् ।
आत्मनैव लिखेज् जातम् अज्ञस् त्व् अन्येन लेखयेत् ॥ इति । (न्स्म् ३।१६७)
यस् पुनस् तेनैवोक्तम्,
अष्टमाद् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः ।
आ पञ्चमात् तथा सिद्धिर् यदृच्छोपगतस्य तु ॥
आ तृतीयात् तथा वर्षात् सिद्धिर् गूढस्य साक्षिणः ।
आ संवत्सरात् सिद्धिं च वदन्त्य् उत्तरसाक्षिणः ॥ इति । (न्स्म् ३।१६८–६९)
तद् एतत् परमताभिप्रायेणोक्तम् । यतः स्वमतम् उपरि स एवाह ।
निर्णये कालनियमो न दृष्टः साक्षिणं प्रति ।
स्मृत्यपेक्षं हि साक्षित्वम् आहुः शास्त्रविदो जनाः ॥
यद्य नोपहता बुद्धिः स्मृतिः श्रोत्रं च नित्यशः ।
सुदीर्घेणापि कालेन स साक्षी साक्ष्यम् अर्हति ॥ इति । (न्स्म् ३।१७०-–७१)
साक्षिदोषोद्भावनं विदधाति बृहस्पतिः ।
[१०५] साक्षिणो ऽर्थसमुद्दिष्टान् यस् तु दोषेण दूषयेत् ।
अदुष्टं दूषयन् वादी तत्समं दण्डम् अर्हति ॥
साक्षिणो दूषणं हार्यं पूर्वसाक्षिपरीक्षणम् ।
शुद्धेषु साक्षिषु ततः पश्चात् कार्यं विशोधयेत् ॥ इति ।
कात्यायनो ऽपि ।
सभासदां प्रसिद्धं यल् लोकसिद्धम् अथापि वा ।
साक्षिणां दूषणं ग्राह्यम् असाध्यं नान्यदिष्यते ॥ इति ।
संसदि प्रतिवादिना साक्षिदूषणे कृते साक्षिणः प्रष्टव्याः । युष्मास्व् अभिहितो दोषः सत्यं न वा । ते च यदि दुषणम् अभ्युपगच्छन्ति तदा न साक्षिणः । अथ न अङ्गीकुर्वन्ति तदा दूषणवादिना दूषणक्रिया भाव्या । अथ संभावयितुं न शक्नोति तदा दूषणवादी सारानुसारेण दण्ड्यः । यदि भावयति तदा तेन साक्षिणः सर्वे एव दुष्टा भवन्ति तदा अर्थिनः पराजयः, विपर्ययस्य निश्चितत्वात् । अथ साक्षिणां दोषैः सभ्यानां साध्यार्थसंदेहस् तदा वादविशेषः साधनान्तरेण प्रवर्तयितव्यः । यदि साधनान्तरं पूर्वं निर्दिष्टं तदा वाससमाप्तिः, “पूर्वम् आविदितं न चेत्” इति वचनात् । न चैतत् प्रस्तुतव्यवहाराद् व्यवहारान्तरम् । तस्मिन्न् एव व्यवहारे प्रमाणसाधनदूषणव्यवहाराद् इति । एतत् सर्वं कात्यायन आह ।
[१०६] साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान् सर्वान् वाच्यः प्रत्युत्तरं ततः ॥
प्रतिपत्तौ तु साक्षित्वम् अर्हन्ति न कदाचन ।
अतो ऽन्यथाभावनायाः क्रियया प्रतिवादिना ॥
अभावयन् धनं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥
प्रत्यर्थिनो ऽर्घिनो वापि साक्षिदूषणसाधने ।
पस्तुतार्थोपयोगेन व्यवहारान्तरं न च ॥
जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्म्णा ।
यदि वादी निराकांक्षः साक्षिसत्ये व्यवस्थितः ॥ इति ।
दोषोद्भावनकालम् आह स एव ।
लेख्यदोषास् तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥ इति ।
उक्तान् पश्चाद् दूषयतो दण्डम् आह स एव ।
उके ऽर्थे साक्षिणो यस् तु दूषयेत् प्राग् अदूषितान् ।
स च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥
न तथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभोगे तु दण्ड्यः स्यात् साध्यार्थाच् चापि हीयते ॥ इति ।
साक्षिपरीक्षाम् आह कात्यायनः ।
[१०७] राजा क्रियां समीक्ष्यैव यत्नान् न्यायं विचारयेत् ।
लेख्याचारेण लिख्तं साक्ष्याचारेण साक्षिणः ॥ इति ।
बृहस्पतिर् अपि ।
उपस्थिता परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभिः ॥ इति ।
इङ्गितादीनि दर्शयति नारदः ।
यस् त्व् आत्मदोषदुष्टत्वान् न दक्ष इव् लक्ष्यते ।
स्थानात् स्थानान्तरं गच्छेद् एकैकं चानुधावति ॥
कासत्य् अकस्माच् च भृशम् अभीक्ष्णं विश्वसत्य् अपि ।
विलिखत्य् अवनिं पद्भ्यां बाहू वासश् च् धूनयेत् ॥
भिद्यते मुखवर्णो ऽस्य ललाटं स्विद्यते तथा ।
शोषम् आगच्छतश् चोष्ठाव् ऊर्ध्वं तिर्यक् च वीक्षते ॥
त्वरमाण इवात्यर्थम् अपृष्टो बहु भाषते ।
कूटसाक्षी स विज्ञेयस् तं पापं विनयेद् भृशम् ॥ इति । (न्स्म् २।१९३–९६)
साक्षिनियोजनम् आह मनुः ।
सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ॥
[१०८] यत् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन उष्माकं ह्य् अत्र साक्षिता ॥
सत्यं सत्ये ब्रुवन् साक्षी लोकान् प्राप्नोति पुष्कलान् ।
इह चानुत्तमां कीर्तिं वाग् एषा ब्रह्मपूजिता ॥
ब्राह्मणो वा मनुष्याणाम् आदित्यस् तेजसाम् इव ॥ इति । (म्ध् ८।७९–८२)
नारदो ऽपि ।
शिरो वा सर्वगात्राणां धर्माणां सत्यम् उत्तमम् ॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥
सत्यम् एव परं दानं सत्यम् एव परं तपः ।
सत्यम् एव परो धर्मो लोकानाम् इति हि स्मृतिः ॥
सत्यं देवाः समानेन मनुष्यास् त्व् अनृतं स्मृतम् ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यम् एव वदेत् ततः ॥ इति । (न्स्म् ३?)
व्यासो ऽपि ।
[१०९] साक्षिणा धर्मसंस्थेन सत्यम् एव वदेत् ततः ।
साक्षिभावे नियुक्तानां देवता विप्रतिष्ठिताः ॥
पितरश् चावलम्बन्ते वितथाख्यानशङ्कया ।
सत्यवाक्ये व्रजन्त्य् ऊर्ध्वं अधो यान्त्य् अन्यथा च ते ॥
तस्मात् सत्यं हि वक्तव्यं भवद्भिः सभ्यसंनिधौ ॥ इति ।
नारदो ऽपि ।
कुबेरादित्यवरुणशकवैवस्वतादयः ।
पश्यन्ति लोकपालाश् च नित्यं दिव्येन चक्षुषा ॥ इति ।
मनुर् अपि ।
आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।
मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥
मन्यन्ते वै पापकृतो न कश्चित् पश्यन्तीति नः ।
तांस् तु देवाः प्रपश्यन्ति स्वश् चैवान्तरपूरुषः ॥
द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥ इति । (म्ध् ८।८४–८६)
वसिष्ठो ऽपि ।
[११०] अथ चेद् अनृतं ब्रूयात् सर्वतो ऽमेध्यलक्षणम् ।
मृतो नरकम् आयाति तिर्यग् गच्छेद् अनन्तरम् ॥ इति ।
व्यासो ऽपि ।
बध्यन्ते वारुणैः पाशैः साक्षिणो ऽनृतवादिनः ।
षष्टिर् वर्षसहस्राणि तिष्ठन्ति नरके ध्रुवम् ॥
तेषां वर्षशते पूर्णे पाश एकः प्रमुच्यते ।
काले ऽतीते मुक्तपाशास् तिर्यग्योनिषु जायते ॥ इति ।
वसिष्ठो ऽपि ।
सूकरो दशवर्षाणि शतवर्षाणि गर्दभः ।
श्वा चैव दशवर्षाणि भासो वर्षाणि विंशतिः ॥
कृमिकीटपतङ्गेषु चत्वारिंशत् तथैव च ।
मृगस् तु दशवर्षाणि जायते मानवस् ततः ॥
मानुषत्वं यद् आप्नोति मूको ऽन्धस् तु भवेत् तु सः ।
दारिद्र्यं तु भवेत् तस्य पुनर् जन्मनि जन्मनि ॥ इति ।
पुराणे ऽपि ।
न नरो जायते पश्चात् संपरित्यक्तबान्धवः।
पङ्ग्वन्धबधिरो मूकः कुष्ठी नग्नः पिपासिनः ॥
बुभुक्षितः शत्रुगृहे भिक्षते भायया सह ।
[१११] ज्ञात्वा त्व अनृततो दोषान् ज्ञात्वा सत्ये च सद्गुणान् ॥
श्रेयस्करम् इहामुत्र सत्यं साक्ष्ये वदेत् ततः ॥ इति ।
साक्षिप्रश्नप्रकारं दर्शयति मनुः ।
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ इति । (म्ध् ८।८७)
सर्वान् एवोपवेशयेत् ।
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर् ब्रुवतो मृषा ॥
जन्मप्रभृति यत् किंचित् पुण्यं भद्र त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयात् त्वम् अन्यथा ॥
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥
[११२] हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥
अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥
एतान् दोषान् अवेक्ष्य त्वं सर्वथानृतभाषणे ।
यथाश्रुतं यथादृष्टं सत्यम् एवाञ्जसा वद ॥ इति ।
साक्षिणाम् उक्तिप्रकारम् आह वसिष्ठः ।
प्राङ्मुखो ऽवस्थितः साक्षी शपथैः शापितः स्वकैः ।
हिरण्यं गोशकृद्दर्भान्तान् संस्पृश्य वदेद् ऋतम् ॥ इति ।
बृहस्पतिर् अपि ।
विहायोपानदुष्णीषं दक्षिणं पाणिम् उद्धरन् ।
हिरण्यं गोशकृद् दर्भान् समादाय ऋतं वदेत् ॥ इति ।
कात्यायनो ऽपि ।
सभान्तस्थैश् च वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्षिष्व् अयं धर्मो नित्यः स्यात् स्थावरेषु च ॥
[११३] अर्थस्योपरि वक्तव्यं तयोर् अपि विना क्वचित् ।
चतुष्पादेष्व् अयं धर्मो द्विपदस्थावरेषु च ॥ इति ।
तयोः पूर्वोक्तयोः स्थानयोः । क्वचिद् वधरूपविवादे ताभ्यां स्थानाभ्यां विनापि साक्ष्यं वदेत् । तथा च स एव ।
वधे चेत् प्राणिनां साक्ष्यं वादयेच् छवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥ इति ।
ऋतं वदेद् इत्य् अस्य क्वचिद् विषये ऽपवादम् आह मनुः ।
शूद्रविट्क्ञत्रविप्राणां यथोक्तौ तु भवेद् वधः ।
तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥ इति । (म्ध् ८।१०४)
साक्ष्युक्तौ क्वचिद् विशेषम् आह वसिष्ठः ।
समवेतैस् तु यद् दृष्टं वक्तव्यं तु तथैव तत् ।
विभिन्नैर् एव तत् कार्यं वक्तव्यं स्यात् पृथक् पृथक् ॥
भिन्नकाले तु यत् कार्यं ज्ञातं वा यच् च साक्षिभिः ।
एकैकं वादयेत् तत्र विधिर् एष प्रकीर्तितः ॥ इति ।
साक्ष्युक्तौ उपादेयं हेयं च विभजते मनुः ।
स्वभावेनैव यद् भ्रूयुस् तद् ग्राह्यं व्यावहारिकम् ।
अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ॥ इति । (म्ध् ८।७८)
बृहस्पतिः ।
[११४] देशकालवयोद्रव्यसंज्ञाजातिप्रमाणतः ।
अन्यूनं चेन् निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥
निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्य आगते ।
न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥
यस्याशेषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः ।
सो ऽजयी स्याद् अन्यनीतं साध्यार्थं न समाप्नुयात् ॥
ऊनम् अभ्यधिकं वार्थं विब्रूयुर् यत्र साक्षिणः ।
तद् अर्थानुक्तविज्ञेयम् एष साक्षिविधिः स्मृतः ॥ इति ।
कात्यायनो ऽपि ।
न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः ।
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥ इति । (=य्ध् २।७७)
कूटसाक्षिणो दण्डम् आह मनुः ।
लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥
एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत् ।
तस्य दण्डविशेषं तु प्रवक्ष्याम्य् अनुपूर्वशः ॥
लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् ।
भयाद् वै मध्यमम् दण्ड्यो मैत्रात् पूर्वं चतुर्गुणम् ॥
[११५] कामाद् दशगुणं पूर्वं क्रोधात् तु द्विगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥
एतान् आहुः कूटसाक्ष्ये प्रोक्तान् दण्डान् मनिषिभिः ।
धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥
कूटसाक्ष्यं तु कुर्वाणात् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥
यस्य पश्येत् तु सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ इति । (म्ध् ८।११८–२३, १०८)
कात्यायनः ।
साक्षी साक्ष्यं न चेद् ब्रूयात् स सदण्डं वहेद् ऋणम् ।
अतो ऽन्येषु विवादेषु त्रिशतं दण्डम् अर्हति ॥ इति ।
बृहस्पतिः ।
आहूतो यस् तु नागच्छेत् साक्षी रोगविवर्जितः ।
ऋणं दमं च दाप्यः स्यात् त्रिपक्षात् परतस् तु सः ॥ इति ।
प्रजापतिर् अपि ।
[११६] अप्ष्टसत्यवचने प्र्ष्टस्याकथने तथा ।
साक्षिणश् च निरोद्धव्या गर्ह्या दण्ड्याश् च धर्मतः ॥ इति ।
साक्षिणाम् अनेकविधत्वे ग्राह्यान् विभजते बृहस्पतिः ।
साक्षिद्वैधे प्रभूताः स्युर् ग्राह्याः साम्ये गुणान्विताः ।
गुणिद्वैधे क्रियायुक्तास् तत्साम्ये शुचिमत्तराः ॥ इति ।
मनुर् अपि ।
बहुत्वं प्रतिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ इति । (म्ध् ८।७३)
यत् तु कात्यायनेनोक्तम्,
साक्षिणां लिखितानां च निर्दिष्टानां च वादिनाम् ।
तेषाम् एको ऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥ इति ।
तत्र सर्वशब्देनान्यथावादिसहितानाम् एव बहूनाम् असाक्षित्वम् उक्तम् । न पुनः केवलानाम् इति मन्तव्यम्, अन्यथा “द्वैधे बहूनाम्” इत्यादिवचनविरोधात् । अनेकत्वे विशेषान्तरम् आह नारदः ।
द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥
[११७] आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थवशाद् भवेत् ।
विवादे साक्षिणस् तत्र प्रष्टव्याः प्रतिवादिनः ॥ इति ।
अत्रोदाहरणम् — यत्रैकः क्षेत्रं प्रतिग्रहेण प्राप्य भुक्त्वा त्यक्त्वा सकुटुम्बो देशान्तरं प्राप्तः । पुनर् अन्येन लब्धं भुक्तं च सो ऽपि देशविप्लवादिना देशान्तरं सकुटुम्बो गतः । पुनस् तौ द्वाव् अपि चिरन्तनकालापगमे स्ववृत्तिलोभेन स्वस्थानम् आगत्य क्षेत्रविवादनिर्णयार्थं मानं युगपद् आयतौ । तत्रैकः प्रतिजानीते । जयवर्माख्येन राज्ञा स्वराज्यकाले मह्यं दत्तं मदीयम् एवैतत् क्षेत्रम् । अन्यो ऽपि प्रतिजानीते । धर्मपालेन राज्ञा मह्यं दत्तं मदीयम् एवैतत् क्षेत्रम् । अथ चैकस्यैवं प्रतिज्ञा । सत्यं जयवर्माख्येनास्मै दत्तम् । एतस्य हस्ताद् धर्मपालेनैतत् क्षेत्रं क्रयेण् गृहीत्वा मह्यं दत्तम् इति । सन्ति च द्वयोर् अपि वादिनोः साक्षिणः तत्रेदम् उक्तम् “द्वयोर् विवदतोर् अर्थ” इति । अयम् अर्थः – यस्य विवदमानस्य पूर्वपक्षो भवेत् पूर्वकालिकस्य दानस्य स्वत्वहेतुतयोपन्यासेन पक्षो भवेत् । तस्य साक्षिणः सभ्यैः प्रष्टव्या भवेयुः । नेतरस्य साक्षिणः । तेषाम् **[११८] **उत्तरकालदानसाक्षित्वेनासाक्षिप्रायत्वात् । यदा पुनर् इतरप्रतिज्ञा तदार्थवशेनैतस्य हस्तात् क्रीत्वा मह्यं दत्तम् इत्यादिना पूर्वदानोपन्यासपक्षस्याधर्यम् अकिंचित्करत्वं भवेत् तदा पश्चात् प्रतिजानानस्य साक्षिणः प्रष्टव्याः । न पूर्वं प्रतिजानानस्य, असिद्धसाध्यत्वेन वैयर्थ्यात् । किं तु असाक्षित्वाद् उपेक्षणीयाः । एतद् एवाभिप्रेत्य याज्ञवल्क्य आह ।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ इति । (य्ध् २।१७)
साक्षिणम् अन्तरेण ज्ञानोपायम् आह नारदः ।
असाक्षिप्रत्ययास् त्व् अन्ये षड् वादाः परिकीर्तिताः ।
उल्काहस्तो ऽग्निदो ज्ञेयः शस्त्रपाणिश् च घातकः ॥
केशाकेशि गृहीतश् च युगपत् पारदारिकः ।
कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः ॥
तथा कुठारपाणिस् तु वनच्छेत्ता प्रकीर्तितः ।
प्रत्यग्रचिह्नैर् विज्ञेयो दण्डपारुष्यकृन् नरः ॥
असाक्षिप्रत्यया ह्य् एते पारुष्ये तत्परीक्षणम् ॥ इति । (न्स्म् ३।१७२–७५)
शङ्खलिखिताव् अपि- [११९] “केशाकेशिग्रहणात् पारदारिकः । उल्काहस्तो ऽग्निदः । शस्त्रपाणिर् घातकः । लोप्त्रहस्तश् चोरः” इति ।
अथ लेख्यम्
साक्षिनिरूपणोपसंहारपुरःसरं लिखितनिरूपणं करोति बृहस्पतिः ।
साक्षिणाम् एष निर्दिष्टः सङ्ख्यालक्षणनिश्चयः ।
लिखितस्याधुना वच्मि विधानम् अनुपूर्वशः ॥
ऋणादिके ऽपि समये भ्रान्तिः संजायते गतह् ।
धात्राक्षराणि सृष्टानि पत्रारूढान्य् अतः पुरा ॥
देशाचारयुतं वर्षमासपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानां हस्ताङ्कं लेख्यम् उच्यते ॥
राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।
लेख्यं तु त्रिविधं प्रोक्तं विदुर् एवं बुधाः पुनः ॥ इति ।
एतत् त्रयं द्वैविध्येन संगृह्णाति वसिष्ठः ।
लौकिकं राजकीयं च लेख्यं विद्याद् द्विलक्षणम् । इति ।
तयोर् अवान्तरभेदान् आह बृहस्पतिः ।
भागदानक्रयाधानं संविद्दासऋणादिभिः ।
सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥
[१२०] भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।
विभागपत्रं कुर्वन्ति भागलेख्यं तद् उच्यते ॥
भूमिं दत्वा तु यत् पत्रं कुर्युश् चन्द्रार्ककालिकम् ।
अनाछेद्यम् अनाहार्यं दानलेख्यं तद् उच्यते ॥
गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यत्र क्रयलेख्यं तद् उच्यते ॥
जङ्गमं स्थावरं बन्धं दत्वा लेख्यं करोति यः ।
गोप्यभोग्यक्रियायुक्तम् आधिलेख्यं तु तन् मतम् ॥
ग्रामादिसमयात् कुर्यान् मतं लख्यं परस्परम् ।
राजाविरोधि धर्मार्थं संवित्पत्रं वदन्ति तत् ॥
वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यत् ।
कर्माणि ते करोमीति दासपत्रं तद् उच्यते ॥
धनं वृद्ध्या गृहीत्वा तु स्वयं कुर्याच् च कारयेत् ।
उद्धारपत्रं तत् प्रोक्तं ऋणलेख्यं मनीषिभिः ॥
दत्वा भूम्यादिकं राजा ताम्रपत्रे पटे ऽथ वा ।
शासनं कारयेद् धर्मं स्थानवंशादिसंयुतम् ॥
अनाछेद्यम् अनाहार्यं सर्वं भाव्यविवर्जितम् ।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥
[१२१] दातुः पालयितुः स्वर्ग्यं हर्तुर् नरकम् एव च ।
षष्टिवर्षसहस्राणि दानछेदफलं लिखेत् ॥
समुद्रावर्षमासादि धनाध्यक्षाक्षरान्वितम् ।
ज्ञातं मयेति लिखितं संधिविग्रहलेखकैः ॥
एवंविधं राजकृतं शासनं तद् उदाहृतम् ।
देशादिकं यस्य राजा लिखितं तु प्रयच्छति ॥
सेवाशौर्यादिना तुष्टः प्रसादलिखितं तु तत् ।
पूर्वोत्तरक्रियावादनिर्णयान्ते यदा नृपः ॥
प्रदद्याज् जयिने लेख्यं जयपत्रं तद् उच्यते ॥ इति ।
यत् पूर्वम् उदाहृतं “लिखितं दशधा स्मृतम्” इति तद् विशदत्वेन संपन्नम्, लौकिकस्य सप्तविध्त्वात्, राजपत्रस्य त्रिविधत्वात् । शासनम् एकम्, जयपत्रं द्वितीयम् आज्ञाप्रज्ञापनपत्रयोर् एकीकारेण तृतीयं द्रष्टव्यम् । वसिष्ठस् तु तयोर् भेदम् आश्रित्य चातुर्विध्यम् आह ।
शासनं प्रथमं ज्ञेयं जयपत्रं तथापरम् ।
आज्ञाप्रज्ञापनापत्रं राजकीयं चतुर्विधम् ॥ इति ।
तत्र शासनजयपत्रे पूर्वम् उदाहृते । शासने विशेषम् आह याज्ञवल्क्यः ।
[१२२] दत्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ इति । (य्द् १।३१८)
अत्र निबन्धो वाणिज्यादिकारिभिः प्रतिवर्षं प्रतिमासं वा किंचिद् धनं अस्मै ब्राह्मणायास्यै देवतायै वा देयम् इत्यादिप्रभुसमयलभ्यो ऽर्थः । अत्र यद्य् अपि धनदातृत्वं वाणिज्यादिकर्तुर् तथापि निबन्धनकर्तुर् एव पुण्यम्, तदुद्देशेनैव तस्य प्रवृत्तेः । व्यासो ऽपि ।
राज्ञा तु स्वयम् आदिष्टः संधिविग्रहलेखकः ।
ताम्रपट्टे पटे वापि प्रलिखेद् राजशासनम् ॥
क्रियाकारकसंबन्धं समासार्थक्रियान्वितम् । इति ।
क्रियाकारकयोः संबन्धो यस्मिन् शासने तत् तथोक्तम् । समासार्थक्र्यान्वितं संक्षिप्तार्थक्रियया समन्वितम् इत्य् अर्थः । तत्र लेखनीयार्थम् आह याज्ञवल्क्यः ।
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ।
प्रतिग्रहपरीमाणं दानछेदोपवर्णनम् ॥ इति । (य्ध् १।३१९–२०)
व्यासो ऽपि ।
[१२३] समामासतदर्धाहर्नृपनामोपलक्षितम् ।
प्रतिग्रहीतृजात्यादिसगोत्रब्रह्मचारिकम् ॥
स्थानवंशादिपूर्वं च देशग्रामम् उपागतम् ।
ब्राह्मणांस् तु तथैवान्यान् मान्यान् अधिकृतांल् लिखेत् ॥
कुटुम्बिनो ऽथ कायस्थदूतवैद्यमहत्तरान् ।
ते च चण्डालपर्यन्तान् सर्वान् संबोधय्न्न् इति ॥
मातापित्रोर् आत्मनश् च पुण्यायामुकसूनवे ।
दत्तं मयामुकायाथ दानं सब्रह्मचारिणे ॥ इति ।
अपरम् अपि विशेषं स एवाह ।
संनिवेशं प्रमाणं च स्वहस्तं च लिखेत् स्वयम् ।
मतं मे ऽमुकपुत्रस्य अमुकस्य महीपतेः ॥
सामान्यो ऽयं धर्मसेतुर् नृपाणां
काले काले पालनीयो भवद्भिः ।
सर्वान् एतान् भाविनः पार्थिवेन्द्रान्
भूयो भूयो यावते रामचन्द्रः ॥
[१२४] इति । जयपत्रे विशेषम् आह स एव ।
व्यवहारं स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः ।
जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥
जङ्गमं स्थावरं येन परीक्षणेनात्मसात् कृतम् ।
भागाभिशापसंदिग्धे यः सम्यग् विजयी भवेत् ॥
तस्य राज्ञा प्रदातव्यं जयपत्रं सुलेखितम् ।
पूर्वोत्तरे क्रियापादं प्रमाणं तत्परीक्षणम् ॥
निगदं स्मृतिवाक्यं च यथा सभ्यविनिश्चितम् ।
एतत् सर्वं समासेन जयपत्रे विलेखयेत् ॥ इति ।
वसिष्ठो ऽपि ।
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धे ऽर्थे वादिने दद्याज् जयिने जयपत्रकम् ॥ इति ।
जयपत्रकभेदम् आह कात्यायनः ।
अनेन विधिना लेख्यं पश्चात् कार्यं विदुर् बुधाः ।
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ॥
[१२५] पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ।
अन्यवाद्यादिहीनेभ्य इतरेषां विधीयते ॥
वृद्धानुवादसंसिद्धिस् तच् च स्याज् जयपत्रकम् । इति ।
आज्ञाप्रज्ञापनापत्रयोर् लक्षणम् आह वसिष्ठः ।
आज्ञाप्रज्ञापनापत्रे द्वे वसिष्ठेन दर्शिते ।
सामन्तेष्व् अथ भृत्येषु राष्ट्रपालादिकेषु च ॥
कार्यम् आदिश्यते येन तद् आज्ञापत्रम् उच्यते ।
ऋत्विक्पुरोहिताचार्यमान्येष्व् अभ्यर्हितेषु तु ॥
कार्यं निवेदितं येन पत्रं पज्ञापनाय तत् । इत् ।
जाजपदं पुनर् व्यासेन निरूपितम् ।
लिखेज् जानपदं लेख्यं प्रसिद्धस्थानलेखकः ।
राजवंशक्रमयुतं वर्षमासार्धवासरैः ॥
पितृपूर्वं नामजाती धनिकर्णिकयोर् लिखेत् ।
द्रव्यभेदप्रमाणं च वृद्धिं चोभयसंमताम् ॥ इति ।
वसिष्ठो ऽपि ।
[१२६] कालं निवेश्य राजानं स्थानं निवसनं तथा ।
दायकं ग्राहकं चैव पितृनाम्ना च संयुतम् ॥
जातिं गोत्रं च शाखां च द्रव्यम् आधिं ससंख्यकम् ।
वृद्धिं ग्राहकहस्तं च विदितार्थौ च साक्षिणौ ॥ इति ।
ग्राहकहस्तनिवेशनप्रकारम् आह याज्ञवल्क्यः ।
समाप्ते ऽर्थे ऋणी नाम हस्तेन विनिवेशयेत् ।
मतं मे ऽमुकपुत्रस्य यद् अत्रोपरिलेखितम् ॥ इति । (य्ध् २।८६)
ऋणिवत् साक्षिभिः पत्रलेखकेन च स्वहस्तनिवेशनं कर्तव्यम् इत्य् आह स एव ।
साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥
उभयाभ्यर्थितेनैव मया ह्य् अमुकसूनुना ।
लिखितं ह्य् अमुकेनेति लेखकस् त्व् अन्ततो लिखेत् ॥ इति । (य्ध् २।८७–८८)
पूर्वं लौकिकलिखितस्य सप्तविधत्वं बृहस्पतिना दर्शितम् । व्यासस् तु प्रकारान्तरेणाष्टविधत्वम् आह ।
चीरकं च स्वहस्तं च तथोपगतसंज्ञितम् ।
आधिपत्रं चतुर्थं च पञ्चमं कार्यपत्रकम् ॥
[१२७] षष्ठं तु स्थितिपत्राख्यं सप्तमं संधिपत्रकम् ।
विशुद्धिपत्रकं चैव अष्टधा लौकिकं स्मृतम् ॥ इति ।
तेषां लक्षणम् उच्यते । तत्र संग्रहकारः ।
चीरकं नाम लिखितं पुराणैः पौरलेखकैः ।
अर्थिप्रत्यर्थिनिर्दिष्टं यथासंभवसंस्कृतैः ॥
स्वकीयैः प्रतिनामाद्यैर् अर्थिप्रत्यर्थिसाक्षिणाम् ।
प्रतिनामभिर् आक्रान्तम् अर्थिसाक्षिस्वहस्तवत् ॥
स्पष्टावगमसंयुक्तं यथास्मृत्युक्तलक्षणम् । इति ।
कात्यायनः ।
ग्राहकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत् स्मृतं बुधैः ॥ इति ।
एवम् एव दायकेन लिखितं ग्राहकेणाभ्युपगतं लेख्यम् उपगताक्यं विज्ञेयम् । आधिपत्रम् आह नारदः ।
आधिं कृत्वा तु यो द्रव्यं प्रयुङ्क्ते स्वधनं धनी ।
यत् तत्र क्रियते लेख्यम् आधिपत्रं तद् उच्यते ॥ इति ।
अन्वाधिलेख्ये विशेषम् आह प्रजापतिः ।
[१२८] धनी धनेन तेनैव परम् आधिम् नयेद् यदि ।
कृत्वा तद् आधिलिखितं पूर्वं चास्य समर्पयेत् ॥ इति ।
क्रयस्थितिसंधिविशुद्धिपत्राण्य् आह पितामहः ।
क्रीते क्रयप्रकाशार्थं द्रव्ये यत् क्रियते क्वचित् ।
विक्रेत्रनुमतं क्रेत्रा ज्ञेयं तत् क्रयपत्रकम् ॥
यद् यत् पुरःसरश्रेणीगणपौरादिकस्थितिः ।
तत्सिद्ध्यर्थं तु यल् लेख्यंतद् भवेत् स्थितिपत्रकम् ॥
उत्तमेषु समस्तेषु अभिशापसमागते ।
वृत्तानुवादलेख्यं यज् ज्ञेयं तत् संधिपत्रकम् ॥
अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥ इति ।
अन्यद् अपि लेख्यम् आह कात्यायनः ।
सीमाविवादे निर्णीते सीमापत्रं विधीयते । इति ।
याज्ञवल्क्यो ऽपि ।
दत्वर्णं पाटयेत् पत्रं शुद्ध्यै वान्यत् तु कारयेत् ॥ इति । (य्ध् २।९४)
लेख्यस्य प्रयोजनम् आह मरीचिः ।
स्थावरे विक्रियाधाने विभागे दान एव च ।
प्रतिग्रहे च क्रीते च नालेख्या सिद्ध्यति क्रिया ॥ इति ।
लिप्यनभिज्ञस् त्व् अन्येन लेखयेद् इत्य् आह नारदः ।
[१२९] अलिपिज्ञो ऋणी यः स्याल् लेखयेत् स्वमतं तु सः ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥ इति । (न्स्म् ३।८९)
पत्रनाशादौ पत्रान्तरं लेख्यम् इत्य् आह याज्ञवल्क्यः ।
देशान्तरस्थे दुर्लेख्ये नष्टे घृष्टे हृते तथा ।
भिन्ने दग्धे ऽथ वा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥ इति । (य्ध् २।९१)
यच् च नारदेनोक्तम्,
लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।
समस् तत्कालकरणम् असतो द्रष्टृदर्शनम् ॥ इति । (न्स्म् ३।१४२)
तद् धनदानोद्यतऋणिकविषयम् । लेख्यपरीक्षाम् आह बृहस्पतिः ।
त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते यदा ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत् ततः ॥ इति ।
कात्यायनः ।
राजाज्ञया समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥
वर्णवाक्यक्रियायुक्तम् असंदिग्धस्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिम् आप्नुयात् ॥
[१३०] इति । लेख्यस्य प्रामाण्यसिद्धिम् आह स एव ।
लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ इति ।
देशस्थितिर् देशाचारः । स्वहस्तकृते विशेषम् आह याज्ञवल्क्यः ।
विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत् प्रमाणं स्मृतं सर्वं बलोपधिकृताद् ऋते ॥ इति । (य्ध् २।८९)
परहस्तकृते पितामह आह ।
वादिभ्याम् अभ्यनुज्ञातं लेखकेन ससाक्षिकम् ।
लिखितं सर्वकार्येषु तत् प्रमाणं स्मृतं बुधैः ॥ इति ।
आधिपत्रे नारद आह ।
देशाचाराविरुद्धं यद् व्यक्तादिविधिलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥ इति ।
लेख्यदोषम् आह कात्यायनः ।
स्थानभ्रष्टास् त्व् अकान्तिस्थाः संदिग्धा लक्षणच्युताः ।
यथासंस्थाः स्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥
[१३१] देशाचारविरुद्धं यत् संदिग्धं क्रमवर्जितम् ।
कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥ इति ।
हारीतो ऽपि ।
यच् च काकपदाकीर्णं तल् लेख्यं कूटताम् इयात् ।
बिन्दुमात्राविहीनं यत् संदिग्धसहितं च तत् ॥ इति ।
बृहस्पतिर् अपि ।
दूषितो गर्हितः साक्षी यत्रैको ऽपि निवेशितः ।
कूटलेख्यं तु तत् प्राहुर् लेखको वापि तद्विधः ॥
मुमूर्षुहीनलुप्तार्थैर् उन्मत्तव्यसनातुरैः ।
विषोपधिबलात्कारकृतं लेख्यं न सिध्यति ॥
अत्युज्ज्वलं चिरकृतं मलिनं चाल्पकालिकम् ।
भग्नोन्मृष्टाक्षरयुतं लेख्यं कूटत्वम् आप्नुयात् ॥ इति ।
नारदो ऽपि ।
मत्ताभियुक्तस्त्रीबालबलात्कारकृतं तु यत् ।
तद् अप्रमाणं लिखितं भयोपधिकृतं तथा ॥ इति । (न्स्म् ३।१३७)
कात्यायनो ऽपि ।
साक्षिदोषाद् भवेद् दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्यापि वै दोषात् तथाचरणकस्य च ॥
[१३२] इति । दोषोद्भावयितुः स एवाह ।
प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिनः ।
गूढाः स्युः प्रकटाः सभ्यैः कालशास्त्रप्रदर्शनात् ॥ इति ।
उद्भावनप्रकारं च स एवाह ।
साक्षिलेखनकर्तारः कूटतां यान्ति वादिनः ।
तथा दोषाः प्रयोक्तव्या दुष्टैः लेख्यं प्रदुष्यति ॥
न लेखकेन लिखितं न दृष्टं साक्षिभिस् तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥
तथ्येन हि प्रमाणं तु दोषेणैव तु दूषणम् ।
मिथ्याभियोगे दण्ड्यः स्यात् साध्यार्थाच् चापि हीयते ॥ इति ।
अनन्तरबाविराजकृत्यम् आह बृहस्पतिः ।
तथ्येन हि प्रमाणं तु दोषेणैव तु दूषणम् ।
एवं दुष्टं नृपस्थाने यस्मिंस् तद् धि विचार्यते ॥
[१३३] विमृश्य ब्राह्मणैः सार्धं वक्तृदोषं निरूपयेत् ।
येन ते कूटतां यान्ति साक्षिलेखककारकाः ॥
तेन दुष्टं भवेल् लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ॥ इति ।
प्रत्यर्थिना दूषिते साक्षिमुखान् निश्चेतव्यम् इत्य् आह स एव ।
दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नुते ।
पत्रस्थैः साक्षिभिर् वाचा लेखकस्य मतेन च ॥ इति ।
निश्चयं कुर्याद् इति शेषः । संदिग्धलेख्यनिर्णयम् आह याज्ञवल्क्यः ।
संदिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ इति । (य्ध् २।९२)
नारदो ऽपि ।
यस्मिन् स्यात् संशयो लेख्ये भूताभूतकृते क्वचित् ।
तत् स्वहस्तक्रियाचिह्नप्राप्तियुक्तिभिर् उद्धरेत् ॥ इति । (न्स्म् ३।१४३)
बृहस्पतिर् अपि ।
[१३४] त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते तदा ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत् तु तत् ॥ इति ।
कात्यायनः ।
अथ पञ्चत्वम् आपन्ने लेखके सह साक्षिभिः ।
तत्स्वहस्तादिभिस् तेषां विशुद्ध्येत् तु न संशयः ॥
ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत्स्वहस्तकृतैर् अन्यैः पत्रैस् तल्लेख्यनिर्णयः ॥
समुद्रे ऽपि यदा लेख्ये मृताः सर्वे ऽपि ते स्थिताः ।
लिखितं तत् प्रमाणं तु मृतेष्व् अपि हि तेषु च ॥ इति ।
विष्णुर् अपि ।
यत्रर्णी धनिको वापि साक्षी वा लेखको ऽपि वा ।
म्रियते तत्र तल् लख्यं तत् स्वहस्तैः प्रसाधयेत् ॥ इति । (विध् ७।१३)
निराकरणे व्यवस्थितानि साधनान्य् आह कात्यायनः ।
लिखितं लिखितेनैव साक्षिमत् साक्षिभिर् हरेत् ।
कूटोक्तौ साक्षिणो वाक्याल् लेखकस्य च पत्रकम् ॥
आढ्यस्य निकटस्थस्य य्च् छक्तेन न याचितम् ।
शुद्धर्णशङ्कया तत् तु लेख्यं दुर्बलताम् इयात् ॥
[१३५] लेख्यं त्रिंशत् समातीतम् अदृष्टाश्रावितं च यत् ।
न तत् सिद्धम् अवाप्नोति तिष्ठत्स्व् अपि न साक्षिषु ॥
प्रयुक्ते शान्तिलाभे तु लिखितं यो न दर्शयेत् ।
नैव याचेत ऋणिकं न तत् सिद्धिम् अवाप्नुयात् ॥ इति ।
नारदो ऽपि ।
अश्रुतार्थम् अदृष्टार्थं व्यवहारार्थम् आगतम् ।
न लेख्यं सिद्धिम् आप्नोति जीवत्स्व् अपि हि साक्षिषु ॥
मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तद् अप्य् अपार्थं लिखितं ऋते चादेः स्थिराश्रयात् ॥
अदृष्टाश्रावितं लेख्यं प्रमीतधनिकर्णिकम् ।
अबन्धलग्नकं चैव बहुकालं न सिध्यति ॥ इति । (न्स्म् ३।१३८–४१)
लेख्यहानेर् अपवादम् आह बृहस्पतिः ।
उन्मत्तजडमूकानां राजभीतिप्रवासिनाम् ।
अप्रगल्भभयार्तानां न लेख्यं हानिम् आप्नुयात् ॥ इति ।
लेख्यसिद्धिप्रकारम् आह नारदः ।
[१३६] दर्शितं प्रतिकालं यच् छ्रावितं स्मारितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥ इति । (न्स्म् ३।१४०)
कात्यायनो ऽपि ।
निर्दोषं प्रथितं यत् तु लेख्यं तत् सिद्धिम् आप्नुयात् ।
तथादृष्टं स्फुटं दोषं नोक्तवान् ऋणिको यदि ॥
ततो विंशतिवर्षाणि क्रीतं पत्रं स्थितं भवेत् ।
शक्तस्य संनिधाव् अर्थो यस्य लेख्ये न भुज्यते ॥
वर्षाणि विंशतिं यावत् तत्परं दोषवर्जितम् ।
अथ विंशतिवर्षाणि आधिर् भुक्तः सुनिश्चितम् ॥
तेन लेख्येन तत् सिद्धं लेख्यं दोषविवर्जितम् ।
सीमाविवादे निर्णीते सीमापत्रं विधीयते ॥
यस्य दोषाः प्रवक्तव्या यावद् वर्षाणि विंशतिः ।
आधानसहितं यत्र ऋणं लेख्ये निवेशितम् ॥
मृतं साक्षिप्रमाणं तु स्वल्पभोगेषु तद् विदुः ।
[१३७] प्राप्तं वानेन चेत् किंचिद् दानं चाप्य् अनिरूपितम् ।
विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ॥
यदि लब्धं भवेत् किंचित् प्रज्ञप्तिर् वा कृता भवेत् ।
प्रमाणम् एव लिखितं मृता यद्य् अपि साक्षिणः ॥ इति ।
लेख्यानां मिथो विरोधे बाध्यबाधकप्रकारम् आह व्यासः ।
स्वहस्तकाज् जानपदं तस्मात् तु नृपशासनम् ।
प्रमाणान्तरम् इष्टं हि व्यवहारार्थम् आगतम् ।
द्वित्रिर्लिपिज्ञैः स्वकृतं न संल्लेख्येन युक्तितः ॥
कुर्याज् जानपदं लेख्यं तस्माज् जानपदं शुभम् ।
अप्रकाशोत्साधियुक्तं लेखकाक्षरमुद्रितम् ॥
लोकप्रसादात् स्वकृताद् वरम् अन्यकृतं शुभम् ।
देशाध्यक्षादिना लेख्यं पत्रं जानपदं कृतम् ॥
समकालं पश्चिमं वा तत्र राजकृतं शुभम् ॥ इति ।
साक्ष्याद्यसंभवे हारीतः ।
न मयैतत् कृतं पत्रं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रम् अथ दिव्येन निर्णयः ॥ इति ।
प्रजापतिः ।
[१३८] स्वनामगोत्रैस् तत् तुल्यरूपं लेख्यं क्वचिद् भवेत् ।
अगृहीते धने तत्र कार्यो दिव्येन निर्णयः ॥ इति ।
कृत्स्नदानासमर्थं प्रति याज्ञवल्क्यः ।
लेख्यस्य पृष्टे विलिखेद् दत्वा दत्वर्णिको धनम् ।
दनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ इति । (य्ध् २।९३)
लेख्यदोषम् अनुद्धरतो दण्डम् आह कात्यायनः ।
कूटोक्तौ साक्षिणां वाक्यं लेखकस्य च पत्रकम् ।
न चेच् छिद्धिं नयेत् कूटं स दाप्यो दण्डम् उत्तमम् ॥ इति ।
साक्षिणां वाक्यं वा लेखकस्य एवं प्रतिकूटोक्तौ उक्तिं विधाय यो वादी कूटशुद्धिं न नयेत् स उत्तमसाहसं दण्ड्य इत्य् अर्थः । स्थावरादौ तु विशेषं आह स एव ।
स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।
असम्यग् भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥ इति ।
अन्यलेख्यदारकेण तल्लेख्यागमनकारणम् उद्भावनीयम् इत्य् आह व्यासः ।
[१३९] यच् चान्यस्य कृतं लेख्यम् अन्यहस्ते प्रदृश्यते ।
अवश्यं तेन वक्तव्यं पत्रस्यागमनं ततः ॥ इति ।
नारदो ऽपि ।
लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विवृत्य वै परीक्ष्यं तत्संबन्धागमहेतुभिः ॥ (न्स्म् ३।१४४)
इति व्यवहारमाधवीये लेख्यप्रकरणम्
अथ भुक्तिः
लिखितोपसंहारपुरःसरं भुक्तिम् उपक्रमते बृहस्पतिः ।
एतद् विधानम् आख्यातं साक्षिणां लिखितस्य च ।
संप्रति स्थावरप्राप्तेर् भुक्तेश् च विधिर् उच्यते ॥ इति ।
तत्र स्थावरप्राप्तिनिमित्तानि स एवाह ।
विद्यया क्रयबन्धेन शौर्यभार्यान्वयागतम् ।
सपिण्डस्याप्रजस्यांशं स्थावरं सप्तधोच्यते ॥ इति ।
नारदो ऽपि ।
लब्धं दानात् क्रयात् प्राप्तं शौर्यं वैवाहिकं तथा ।
बान्धवाद् अप्रजाज् जातं षड्विधस् तु धनागमः ॥ इति ।
आगमपूर्वकम् एव भुक्तेः प्रामाण्यम् इत्य् आह हारीतः ।
[१४०] न मूलेन विना शाखा अन्तरिक्षे प्ररोहति ।
आगमस् तु भवेन् मूलं भुक्तिः शाखा प्रकीर्तिता ॥ इति ।
नारदो ऽपि ।
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥ इति । (न्स्म् ३।८५)
आगमवद् दीर्घकालत्वादिकम् अपि भुक्तेः प्रामाण्यकरणम् इत्य् आह नारदो ऽपि ।
आगमो दीर्घकालश् च विच्छेदोपरमोज्झितः ।
प्रत्यर्थिसंनिधानश् च पञ्चाङ्गो भोग इष्यते ॥ इति ।
अन्यतराङ्गवैकल्ये भोगस्य प्रामाण्यं नास्तीत्य् आह नारदः ।
संभोगं केवलं यस् तु कीर्तयेन् नागमं क्वचित् ।
भोगछलापदेशेन विज्ञेयः स तु तस्करः ॥ इति । (न्स्म् ३।८६)
कात्यायनो ऽपि ।
प्रनष्टागमलेख्येन भोगारूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि ॥ इति ।
पञ्चाङ्गेषु विप्रतिपत्तौ साधनीयम् इत्य् आह संग्रहकारः ।
[१४१] भुक्तिप्रसाधने मुख्याः प्रथमं तु कृषीवलाः ।
ग्रामण्यः क्षेत्रसामन्तास् तत्सीमापतयः क्रमात् ॥
लिखितं साक्षिणो भुक्तिः क्रिया क्षेत्रगृहादिषु ।
आगमे क्रयदानादौ प्रत्याख्याते चिरन्तना ॥ इति ।
क्रयदानावगमे प्रतिवादिना प्रत्याख्याते सति लिखितसाक्षिभुक्तयः क्रियाः प्रमाणम् । भुक्तेर् भेदम् आह कात्ययनः ।
भुक्तिस् तु द्विविधा प्रोक्ता सागमानागमा तथा ।
त्रिपुरुषीया स्वतन्त्रा सा चेद् अल्पा तु सागमा ॥ इति ।
पुरुषत्रयानुगता भुक्तिः आगमानुपन्यासे ऽपि प्रमाणम् । स्वल्पा तु भुक्तिर् आगमसहितैव प्रमाणम् । एतद् एव बृहस्पतिर् अप्य् आह ।
भुक्तिस् त्रैपुरुषी यत्र चतुर्थे संप्रवर्तिता ।
तद्भोगः स्थिरतां याति न पृच्छेद् आगमं क्वचित् ॥
अनिषिद्धेन यद् भुक्तं पुरुषैस् त्रिभिर् एव तु ।
तत्र नैवागमः कार्यो भुक्तिस् तत्र गरीयसी ॥ इति ।
त्रिपुरुषभोगेन षष्ठिसंवत्सरादय उपलक्ष्यन्ते । अत एव व्यासः ।
[१४२] वर्षाणि विंशतिं भुक्ता स्वामिनाव्याहता सती ।
भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपौरुषी ॥
त्रिपुरुषी त्रिगुणिता तत्र नान्वेष्य आगमः ॥ इति ।
बृहस्पतिस् तु नवतिसंवत्सरान् उपलक्षयति ।
पिता पितामहो यस्य जीवेच् च प्रपितामहः ।
त्रिंशत्समा या तु भुक्ता भूमिर् अव्याहता परैः ॥
भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपूरुषी ।
त्रिपुरुषी च त्रिगुणा परतः स्याच् चिरन्तना ॥ इति ।
स्मृत्यन्तरे ऽपि पञ्चत्रिंशद्वर्षः पौरुषो भोग इत्य् उक्तम् ।
वर्षाणि पञ्चत्रिंशत् तु पौरुषो भोग उच्यते ॥ इति ।
यदि विंशतिवर्षः पौरुषो भोगः यदि वा त्रिंशद्वर्षः पञ्चत्रिंशद्वर्षो वा सर्वथापि त्रिपुरुषभोगेन स्मरणयोग्यः काल उपलक्ष्यते । अत एव कात्यायनः ।
स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
[१४३] इति, अस्मार्ते निश्चयासंभवात् । एतद् उक्तं भवति । स्मरणयोग्ये पञ्चाधिकशतवर्षपर्यन्तातीतकालमध्ये प्रारब्धा भुक्तिः स्वेतरप्रमाणावगतागममूलैव स्वत्वे प्रमाणम्, स्वतन्त्रमूलागमस्य योग्यानुपलब्ध्या बाध्यमानत्वात् । स्मरणायोग्ये पुनः पञ्चाधिकशतवर्षातीतकालात् प्राचीनकाले प्रारब्धा स्वकीयदार्ढ्ये ऽवसितागममूलिका विनापि मानान्तरागममूलतां स्वत्वे प्रमाणम् इति । अस्मार्ते ऽपि काले अनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम् । अत एव नारदः ।
अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चोरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥ इति । (न्स्म् ३।८७)
निश्चितानागमाश् च भोगास् तेनैव दर्शिताः ।
अन्याहितं हृतं न्यस्तं बलावष्टब्धयाचिते ।
अप्रत्यक्षं च यद् भुक्तं षड् एतान्य् आगमं विना ॥ (न्स्म् ३।९२)
[१४४] इति । अन्याहितम् अन्यस्मै दातुम् अर्पितम् । हृतम् अपहृतम् । न्यस्तं निक्षिप्तम् । बलावष्टब्धं राजप्रसादादिबलावष्टम्भेन भुक्तम् । याचितं परकीयम् अलङ्काराद्यर्थम् आनीतम् । संवर्तो ऽपि ।
या राज्ञा क्रोधलोभेन छलान् न्यायेन वा कृता ।
प्रदत्तान्य् अस्य तुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥ इति ।
यत् तु हारीतेनोक्त्म्,
अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुषुषागतम् ॥
इति, एतच् चान्यायेनापि भुक्तम् अपहर्तुम् अशक्यं किं पुनर् न्यायेन भुक्तम् इति । शासनविरोधे भुक्तेर् अप्रामाण्यम् आह बृहस्पतिः ।
यस्य त्रिपुरुषा भुक्तिः पारम्पर्यक्रमागता ।
न सा चालयितुं शक्या पूर्वकाच् छासनाद् ऋते ॥ इति ।
यत् तु पितामहेनोक्तम्,
स्वहस्तकाज् जानपदं तस्मात् तु नृपशासनम् ।
ततस् त्रिपुरुषो भोगः प्रमाणान्तरम् इष्यते ॥
इति, तत् प्रवाहपरम्परया तत्प्रसिद्ध्या निश्चितागमभोगविषयम् । सत्य् अपि विच्छेदे सागमा भुक्तिः प्रमाणम् इत्य् आह बृहस्पतिः ।
[१४५] भुक्तिर् बलवती शास्त्रे ह्य् अविच्छिन्ना चिरन्तनी ।
विच्छिन्नापि हि सा ज्ञेया या तु पूर्वं प्रसाधिता ॥ इति ।
चिरन्तनाया भुक्तेः क्वचिद् अपवादम् आह याज्ञवल्क्यः ।
यो ऽभियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन विनाकृता ॥ इति । (य्ध् २।२९)
नारदो ऽपि ।
अथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सो ऽर्थः शोध्यः स्यान् न तद् भोगान् निवर्तयेत् ॥ इति । (न्स्म् ३।९३)
अनुद्धारे त्व् अभियुक्तस्यैव दण्डो न तत् पुत्रादेः । तद् उक्तं स्मृत्यन्तरे ।
आगमस् तु कृतो येन स दण्ड्यस् तम् अनुद्धरन् ।
न तत् सुतस् तत्सुतो वा भोग्यहानिस् तयोर् अपि ॥ इति ।
एतद् एवाभिप्रेत्य कात्यायन आह ।
आहर्ता भुक्तियुक्तो ऽपि लेख्यदेषान् विशोधयेत् ।
तत्सुतो भुक्तिदोषांस् तु लख्यदोषांस् तु नाप्नुयात् ॥ इति ।
त्रिपुरुषेषु व्यवस्थितं साधकं क्रमेण दर्शयति नारदः ।
[१४६] आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।
कारणं भुक्तिर् एवैका सन्तता या चिरन्तनी ॥ इति ।
अक्षरार्थस् तु संग्रहकारेण दर्शितः ।
कृतागमस्योक्तकाले भुक्तेश् च प्रभुर् आगमः ।
तस्यैवात्मतृतीयस्य प्रभुर् भुक्तिः स्फुटागमाः ॥
भुक्तिर् या सा चतुर्थस्य प्रमाणं सन्तता मता ।
परित्यक्तागमा भुक्तिः केवलैव प्रभुर् मता ॥ इति ।
क्वचिद् भुक्तेर् एव प्राबल्यम् इतराभ्याम् इत्य् आह कात्यायनः ।
रथ्यानिर्गमनद्वारे जलवाहादिसंश्रये ।
भुक्तिर् एव तु गुर्वी स्यात् प्रमाणेष्व् इति निश्चयः ॥ इति ।
नारदो ऽपि ।
विद्यमाने ऽपि लिखिते जीवत्स्व् अपि हि साक्षिषु ।
विशेषतः स्थावराणां यन् न भुक्तं न तत् स्थिरम् ॥ इति । (न्स्म् ३।७०)
संवर्तो ऽपि ।
भुज्यमाने गृहे क्षेत्रे विद्यमाने तु राजनि ।
भुक्तिर् यस्य भवेत् तस्य न लेख्यं तत्र कारणम् ॥ इति ।
एतच् च लेख्यवैयर्थ्यकथनार्थम् उक्तम्, न पुनर् भोक्तुः स्वामित्वप्रतिपादनार्थम् । तस्य भोगमात्रेण स्वामित्वासिद्धेः, अपहारेणापि भोगसंभवात् । अत एव कात्यायनः ।
[१४७] नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥ इति ।
यत् तु याज्ञवल्क्येनोक्तम्,
पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ इति । (य्ध् २।२४)
यद् अपि प्रजापतिनोक्तम्,
आदानकालाद् आरभ्य भुक्तिर् यस्याविघातिनी ।
समा विंशत्यवधिका तस्य तां न विचारेयेत् ॥
इति, तद् एतद् आसेधम् अकुर्वतः फलहानिविषयम्, न तु भूहानिविषयम्, यस्मात् तत्कालोपलक्षितभुक्तेर् एव तत्र प्रामाण्यात् । अत एव बृहस्पतिः ।
त्रिपुरुषं भुज्यते येन समक्षं भूर् अवारिता ।
तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद् वदेत् ॥ इति ।
आध्यादिषूपेक्षकस्य न फलहानिर् इत्य् आह याज्ञवल्क्यः ।
आधिसीमोपनिक्षेपजडबालधनैर् विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ॥ इति । (य्ध् २।२५)
मनुर् अपि ।
[१४८] आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं नोपभोगेन नश्यति ॥ इति । (म्ध् ८।१४९)
श्रोत्रियग्रहणम् अन्यासक्तोपलक्षणार्थम् । अत एव कात्यायनः ।
ब्रह्मचारी चरेत् कश्चिद् व्रतं षट्त्रिंशदाब्दिकम् ।
अर्थार्थी चान्यविषये दीर्घकालं वसेन् नरः ॥
समावृत्तो ऽव्रती कुर्यात् स्वधानान्वेषणं ततः ।
पञ्चाशदाब्दिको भोगस् तद्धनस्यापहारकः ॥
प्रतिवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः ।
शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥
सुहृद्भिर् बन्धुभिश् चैषां यत् स्वं भुक्तम् अपश्यताम् ।
नृपापराधिनां चैव भवेत् कालेन हीयते ॥ इति ।
धनस्य दशवार्षिकी हानिर् इति यद् उक्तं तस्य विषयविशेषे सङ्कोचम् आह मरीचिः ।
धनबाह्यालंकरणं याचितं प्रीतिकर्मणा ।
चतुःपञ्चाब्दिकं देयम् अन्यथा हानिम् आप्नुयात् ॥ इति ।
अत्रापवादम् आह मनुः ।
[१४९] संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥ इति । (म्ध् ८।१४६)
याचितेष्व् अप्य् अपवादम् आह व्यासः ।
याच्ञाधर्मेण यद् भुक्तं श्रोत्रियै राजपूरुषैः ।
सुहृद्भिर् बान्धवैश् चापि न तद् भोगेन हीयते ॥ इति ।
बृहस्पतिर् अपि ।
अनागमं तु यद् भुक्तं गृहक्षेत्रपणादिकम् ।
सुहृद्बन्धुसकुल्यैश् च न तद् भोगेन हीयते ॥ इति ।
अहानौ कारणम् आह स एव ।
धर्मो ऽक्षयः श्रोत्रियस्य अभयं राजपुरुषे ।
स्नेहः सुहृद्बान्धवेषु भुक्तम् एतैर् न हीयते ॥ इति ।
क्वचिद् एकदेशभोगो ऽनुपभुक्तेष्व् अप्य् एकदेशान्तरेषु प्रमाणम् । तद् आह बृहस्पतिः ।
यद्य् एकशासने ग्रामे क्षेत्रारामाश् च लिप्सिताः ।
एकदेशोपभोगे ऽपि सर्वे भुक्ता भवन्ति ते ॥ इति ।
[१५०]
इति भुक्तिप्रकरणम्
[दिव्यप्रकरणम्]
अथ भुक्त्युपसंहारपुरःसरं दिव्यम् उपसथापयति बृहस्पतिः ।
स्थावरस्य तथाख्यातं लाभभोगप्रसाधनम् ।
प्रमाणहीने वादे तु निर्दोषा दैविकी क्रिया ॥ इति ।
प्रमानं दिव्यव्यतिरिक्तं लिखितादि प्रमाणं विवक्षितम् । अत एव याज्ञवल्क्यः ।
प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ इति । (य्ध् २।२२)
दिव्यान्य् उद्दिशति बृहस्पतिः ।
तुलाग्निर् उदकं चैव विषं कोषश् च पञ्चमः ।
षष्ठश् च तण्डुलः प्रोक्तः सप्तमस् तप्तमाषकः ॥
अष्टमं फालम् इत्य् उक्तं नवमं धर्मकं तथा ।
दिव्यान्य् एतानि सर्वाणि निर्दिष्टानि स्वयंभुवा ॥
यस्माद् देवैः प्रयुक्तानि दुष्करार्थे महात्मभिः ॥ इति ।
शङ्खः- [१५१] “तत्र दिव्यं नाम तुला धारणम् । विषाशनम् अग्निप्रवेशः । लोहधारणम् इष्टापूर्तप्रदानम् अन्यांश् च शपथान् कारयेत्” इति । शपथाश् च बृहस्पतिना दर्शिताः ।
सतां वाहनशस्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादाश् च पुत्रदारशिरांसि च ॥
एते च शपथाः प्रोक्ता अल्पार्थे सुकराः सदा ॥ इति ।
शङ्खलिखिताव् अपि- “इष्टापूर्तप्रदानम् अन्यांश् च शपथान् कारयेत्” इति । उद्दिष्टानां दिव्यानां मध्ये तुलादीनि महाभियोगे प्रयोक्तव्यानि । तथा च याज्ञवल्क्यः ।
तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षकस्थे ऽभियोक्तरि ॥ इति । (य्ध् २।९५)
एषाम् अग्निशब्देन तप्तायःपिण्डतप्तमाषतप्तफालाश् च गृह्यन्ते ।
ननु – “कोशम् अल्पे ऽपि दापयेत्” इति स्वल्पाभियोगे कोशः स्मर्यते ।
सत्यम् । कोशस्य तुलादिषु पाठः सावष्टम्भाभोयोगे ऽपि प्राप्त्यर्थः । न महाभियोगेष्व् एवेति नियमार्थः । अन्यथा कोशस्य शङ्काभियोग एव प्राप्तिः स्यात् ।
[१५२] अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एव न संशयः ॥
इति स्मरणात् । शीर्षकं विवादपराजयनिबन्धनो दण्डः तत्र तिष्ठतीति शीर्षकस्थः । यदा शीर्षकस्थो ऽभियोक्ता न स्यात् तदा एतानि दिव्यानि न देयानि । तथा च नारदः ।
शीर्षकस्थो यदा न स्यात् तदा दिव्यं न दीयते । इति । (न्स्म् ३।२५७)
दिव्यदाने नियमम् आह पितामहः ।
अभियोक्ता शिरःस्थाने दिव्येषु परिकीर्त्यते ।
अभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात् ॥ इति ।
कात्यायनो ऽपि ।
न कश्चिद् अभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ इति ।
अभियुक्ताय दातव्यम् इत्य् अस्य नियमस्यापवादम् आह याज्ञवल्क्यः ।
रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः । इति । (य्ध् २।९६)
नारदो ऽपि ।
[१५३] परियोक्ता शिरःस्थाने सर्वत्रैकः प्रकल्पितः ।
इतरान् इतरः कुर्याद् इतरो वर्तयेच् छिरः ॥ इति ।
क्वचिद् विषयविशेषे शिरो विनापि दिव्यं देयम् इत्य् आह कात्यायनः ।
पार्थिवैः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
शङ्काशुद्धिपराणां च दिव्यं देयं शिरो विना ॥
लोकापवाददुष्टानां शङ्कितानां च दस्युभिः ।
तुलादीनि नियोज्यानि न शिरस् तत्र वै भृगुः ॥
न शङ्कासु शिरःकोशे कल्पयेच् च कदाचन ।
अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ॥ इति ।
विषयविशेषेषु दिव्यविशेषान् व्यवस्थापयति संग्रहकारः ।
धटादीनि विषान्तानि गुर्वर्थेषु च दापयेत् । इति ।
पितामहः ।
अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एतौ नियोजयेत् ॥ इति ।
कात्यायनः ।
[१५४] शङ्काविश्वाससंधाने विभागे रिक्थिना सदा ।
क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥ इति ।
पितामहो ऽपि ।
विस्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च ।
एषु कोशः प्रदातव्यो विद्वद्भिश् चित्तशुद्धये ॥
शिरस्थायिनिहीनानि दिव्यादीनि विवर्जयेत् ।
धटादीनि विषान्तानि कोश एको शिरः स्मृतः ॥ इति ।
धनतारतम्येन दिव्यस्य व्यवस्थाम् आह बृहस्पतिः ।
विषं सहस्रे ऽपहृते पादोने च हुताशनः ।
त्रिभागोने तु सलिलम् अर्धे देयो धटः सदा ॥
चतुःशते ऽभियोगे तु दातय्वं तप्तमाषकम् ।
त्रिशते तण्डुलं देयं कोशश् चैव तदर्धके ॥
शते हृते निह्नुते वा दातव्यं धनशोधनम् ।
गोचोरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥
एवं संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः ॥ इति ।
कात्यायनो ऽपि ।
[१५५] ज्ञात्वा संख्यां सुवर्णानां शतमाने विषं स्मृतम् ।
अशीतेस् तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ठ्या नाशे जलं देयं चत्वारिंशति वै धटम् ।
त्रिंशद्दशविनाशे वै कोशपानं विधीयते ॥
पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तण्डुला ।
तदर्धार्धस्य नाशे तु स्पृशेत् पुत्रादिमस्तकम् ॥
तदर्धार्धस्य नाशे तु लौकिकाश् च क्रियाः स्मृताः ॥ इति ।
विष्णुर् अपि- “सर्वेषु चार्थजातेषु मूल्यं कनकं कल्पयेत् । तत्र कृष्णलोने शूद्रम् दूर्वाकरं शापयेत् । द्विकृष्णलोने तिलकरं, त्रिकृष्णलोने रजतकर्म्, चतुः कृष्णलोने सुवर्णकरम्, पञ्चकृष्णलोने शिरोद्धृतमहीकरं । द्विगुणार्थे यवाभिहिताः समयक्रिया वैश्यस्य । त्रिगुणे ऽर्थे राजन्यस्य । कोशवर्जं चतुर्गुणे ऽर्थे ब्राह्मणस्य” इति । पादस्पर्शादीनां विशेषः स्मृत्यन्तरे दर्शितः ।
निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
ऊनत्रिके तु पुष्पं स्यात् कोशपानम् अतः परम् ॥ इति ।
निष्कशब्देन काञ्चनकर्षचतुर्थांशो यो मुद्रामुद्रितः प्रतिपाद्यते । तत्रापि क्वचिद् देशे निष्कव्यवहारात्- “ज्ञात्वा संख्यां सुवर्णानाम्” इति । यद् उक्तं तत्र सुवर्णपरिमाणम् आह मनुः ।
लोकसंव्यवहारार्थं याः संज्ञा प्रथिता भुवि ।
ताम्ररूप्यसुवर्णान्ताः प्रवक्ष्याम्य् अविशेषतः ॥
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥
त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥
सर्षपाः षड् यवो मध्यस् त्रियवं त्व् एककृष्णलम् ॥ इति ।
कृष्णलो मुञ्जा ।
पञ्चकृष्णलको माषस् ते सुवर्णस् तु षोडश ।
पलं सुवर्णाश् चत्वारः पलानि धरणं दश ॥
द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ।
ते षोडश स्याद् धरणं पुराणश् चैव राजतः ॥
[१५७] कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ।
धरणानि दश ज्ञेयः शतमासस् तु राजतः ॥
चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥ इति । (म्ध् ८।१३१–३७)
त्रसरेणुसंज्ञा पुराणे दर्शिता ।
अष्टानां परमाणूनां समवायो यदा भवेत् ।
त्रसरेणुः स विख्यातस् ततः करक उच्यते ॥ इति ।
माषशब्दः सुवर्णस्य षोडशे भागे वर्तते । कृष्णलशब्दस् तु कर्षाशीतिभागवाची माषपञ्चमांशस्य कृष्णलत्वात् । सुवर्णशब्दस् तु काण्चनकर्षवचनः । पणकार्षापणशब्दौ पलदशमांशस्य नामनी । कर्षचत्वारिंशत्तमांशस्य रूप्यद्रव्यस्य माषसंज्ञा । निष्कशतमानशब्दौ एकपले रूप्यद्रव्ये वर्तेते । अत एव रूप्यसंज्ञाधिकारे
याज्ञवल्क्य आह ।
[१५८] शतमानं तु दशभिर् धरणैः फलम् एव तु ।
निष्कं सुवर्णाः चत्वारः ॥ इति । (य्ध् १।३६४–६५)
बृहस्पतिस् तु सुवर्णशब्दस्यार्थान्तरम् आह ।
ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥
स एव चान्द्रिका प्रोक्ता ताश् चतस्रस् तु धानका ।
ता द्वादश सुवर्णस् तु दीनाराख्यः स एव तु ॥ इति ।
याज्ञवल्क्यस् तु पले विकल्पम् आह ।
पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ॥ इति । (य्ध् १।३६३)
राजते ऽपि कार्षापणो ऽस्तीत्य् आह नारदः ।
कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते । इति ।
व्यासस् तु सुवर्णनिष्कस्य परिमाणम् आह ।
पलान्य् अष्टौ सुवर्णं स्यात् सुवर्णानां चतुर्दश ।
एवं निष्कप्रमाणं तु व्यासेन परिकीर्तितम् ॥ इति ।
अत्र मनूक्तप्रमाणान्तरमाषादिद्रव्यं दिव्यदण्डव्यतिरिक्तविषये देशव्यवहाराविरोधेन ग्राह्यम् । तथा च बृहस्पतिः ।
[१५९] संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥
कार्षापणसहस्रं तु दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥ इति ।
जातिभेदेनापि दिव्यव्यवस्थाम् आह नारदः ।
ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषम् एव तु ॥
साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ॥ इति । (न्स्म् ३।२२४–३५)
अनित्या चयं व्यवस्था,
सर्वेषु सर्वदिव्यं वा विषं वर्ज्यं द्विजोत्तमे ।
इति कात्यायनस्मरणात् । व्यवस्थापक्षे वयोविशेषादिना व्यवस्थापनीयम् । तद् आह नारदः ।
क्लीबान् दीनान् सत्त्वहीनान् पतितांश् चार्दितान् नरान् ।
बालवृद्धस्त्रियो ऽन्धांश् च परीक्षेत धटे सदा ॥
स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोशादिभिस् तासाम् अन्तस् तत्त्वं विचारयेत् ॥
न मज्जनीया स्त्री बाला धर्मशास्त्रविचक्षणैः ।
रोगिणो ये च वृद्धाः स्युः पुमांसो ये च दुर्बलाः ॥
[१६०] साहसे ऽप्य् आगतान् एतान् नैव तोये निमज्जयेत् ।
न चापि हारयेद् अग्निं न विषेण विशोधयेत् ॥ इति । (न्स्म् ?)
कात्यायनः ।
न लोहशिल्पिनाम् अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच् च न क्वचित् ॥
तण्डुलैर् न नियुञ्जीत व्रतिनां मुखरोगिणाम् ॥ इति ।
पितामहो ऽपि ।
कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥ इति ।
स्मृत्यन्तरे ऽपि ।
पण्यस्त्रीणां व्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥ इति ।
कात्यायनो ऽपि ।
मातृपितृद्विजगुरुवृद्धस्त्रीबालघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥
लिङ्गिनां प्रशमानां तु मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥
[१६१] एतेष्व् एवाभियोगेषु निन्दितेष्व् एव यत्नतः ।
दिव्यं प्रकल्पयेन् नैव राजा धर्मपरायणः ॥
एतैर् एव नियुक्तानां साधूनां दिव्यम् अर्हति ।
न सन्ति साधवो यत्र तत्र शोध्याः स्वकर् नरैः ॥ इति ।
यच् च पितामनेनोक्तम्,
सव्रतानां कृशाङ्गानां बालवृद्धतपस्विनाम् ।
स्त्रीणां तु न भवेद् दिव्यं यदि धर्मस् त्व् अवेक्ष्यते ॥
इति, तद् अग्न्यम्बुविषयम् । यत् तु कात्यायनेनोक्तम्,
धनदारापहाराणां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ॥
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥
इति, तत् तैर् नियुक्तपुरुषालाभविषयम् । हारीतस् तु वर्णविषये विशेषम् आह ।
राजन्ये ऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् ।
न विषं ब्राह्मणे दद्याद् विषं वर्णान्तरे स्मृतम् ॥
कोशतण्डुलधर्मास् तु धर्मसंभवम् एव च ।
पुत्रदारादिशपथान् सर्ववर्णे प्रयोजयेत् ॥ इति ।
दिव्यानां कालविशेषम् आह पितामहः ।
१६२] चैत्रो मार्गशिरश् चैव वैशखश् च तथैव च ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥
धटः सर्वर्तुकः प्रोक्तो वाते वाति विवर्जयेत् ।
अग्निं शिशिरहेमन्तवर्षास्व् अपि च दापयेत् ॥
ग्रीष्मे सलिलम् इत्य् उक्तं हिमकाले तु वर्जयेत् । इति ।
नारदो ऽपि ।
अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः ।
शरद्ग्रीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ॥
न शीते तोयसिद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते न तुलां नृपः ॥ इति । (न्स्म् ३।२५४–५९)
विष्णुर् अपि ।
स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया । सा च न वाति वायौ । न नास्तिकस्य । न च कुष्ठ्यसमर्थलोहकाराणाम् अग्निर् देयः । प्रावृषि च । न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनाम् अम्बुजीविनां न चोदकं हेमन्तशिशिरयोश् च । नास्तिकेभ्यः कोशं न देयम् । न देशे व्याध्युपसृष्टे च । इति ।
पितामहो ऽपि ।
[१६३] पूर्वाह्णे ऽग्निपरिक्षा स्यात् पूर्वाह्णे च धटो भवेत् ।
मध्याह्ने तु जलं देयं धर्मतत्त्वम् अभीप्सता ॥
दिवसस्य तु पूर्वाह्णे कोशशुद्धिर् विधीयते ।
रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥ इति ।
दिव्यदेशान् आह पितामहः ।
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा ।
इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे ॥ इति ।
इन्द्रस्थानं प्रख्यातदेवतायतनोपलक्षणम् । अत एव नारदः ।
सभाराजकुलद्वारदेवायतनचत्वरे । इति । (न्स्म् ३।२६५)
अधिकारिविशेषेण देशाविशेषान् व्यवस्थापयति कात्यायनः ।
दण्डस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतो ऽन्येषु तु कार्येषु सभामध्ये विदुर् बुधाः ॥ इति ।
दिव्यदेशाद्यनादरे दिव्यस्य प्रामान्यहानिर् इत्य् आह नारदः ।
अदेशकाले दत्तानि बहिर्वासकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्ति हि न संशयः ॥ इति ।
वासो जननिवासः । तस्माद् बहिर् निर्जने प्रदेश इति यावत् । तथा च पितामहः ।
[१६४] प्रत्यक्षं दापयेद् दिव्यं राजा अधिकृतो ऽपि वा ।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ इति ।
दिव्ये साधारणेतिकर्तव्यताम् आह स एव ।
दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
तत आवाहयेद् देवान् विधिनानेन धर्मवित् ॥
प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् ।
एह्य् एहि भगवन् धर्म अस्मिन् दिव्ये समाविश ॥
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ।
आवाह्य तु धटे धर्मं पश्चाद् अङ्गानि विन्यसेत् ॥ इति ।
धटग्रहणं सर्वदिव्योपलक्षणार्थम्, एषां धर्माणां सर्वदिव्यसाधारणत्वात् । अङ्गविन्यासप्रकारस् तेनैव दर्शितः ।
इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं चापि दक्षिणे ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥
[१६५] कुबेरस् तु सुवर्णाभो ऽप्य् अग्निश् चापि सुवर्णभः ।
तथैव निरृतिः श्यामो वायुर् धूम्रः प्रशस्यते ॥
ईशानस् तु भवेद् रक्तः एवं ध्यायेत् क्रमाद् इमान् ।
इन्द्रस्य दक्षिणे पार्श्वे वसून् आवाहयेद् बुधः ॥
धरो ध्रुवस् तथा सोम आपश् चैवानिलो नलः ।
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥
देवेशेशानयोर् मध्ये आदित्यानां तथायनम् ।
धातार्यमा च मित्रश् च वरुणेशौ भगस् तथा ॥
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।
ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ॥
इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ।
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥
वीरभद्रश् च शम्भुश् च गिरीशश् च महायशाः ।
अजैकपाद् अहिर्बुध्न्यः पिनाकी चापराजितः ॥
भुवनाधीश्वरश् चैव कपाली च विशांपतिः ।
स्थाणुर् भगश् च भगवान् रुद्रास् त्व् एकादश स्मृताः ॥
प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही च महेन्द्राणी चामुण्डा गणसंयुता ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥
[१६६] वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ।
गगनस्पर्शनो वायुर् अनिलो मारुतस् तथा ॥
प्राणः प्राणेशजीवौ च मरुतो ऽष्टौ प्रकीर्तिताः ।
धर्मस्योत्तरभागे तु दुर्गाम् आवाहयेद् बुधः ॥
एतासां देवतानां च स्वनाम्ना पूजनं विदुः ।
भूषावसानं धराय दत्वा चार्घ्यादिकं क्रमात् ॥
अर्घ्यादि पश्चाद् अङ्गानां भूषान्तम् उपकल्पयेत् ।
गन्धादिकां नैवेद्यान्तां परिवर्यां प्रकल्पयेत् ॥
चतुर्दिक्षु तथा होमह् कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर् होमसाधनैः ।
सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥ इति ।
प्रणवादिकां गायत्रीम् उच्चार्य पुनः स्वाहान्तं प्रणवम् उच्चार्य समिदाज्यचरून् प्रत्येकम् अष्टोत्तरशतं जुहुयात्,
अनुक्तसंख्या यत्र स्याच् छतम् अष्टोत्तरं स्मृतम् ।
इति स्मरणात् । एतत् सर्वम् उपवासादिपूर्वकं कर्तव्यम् । तद् आह नारदः ।
[१६७] अहोरात्रोषिते स्नात आर्द्रवाससि मानवे ।
पूर्वाह्णे सर्वदिव्यानां प्रदानम् अनुकीर्तितम् ॥ इति । (न्स्म् ३।२६८)
याज्ञवल्क्यो ऽपि ।
सचैलं स्नातम् आहूय सूर्योदय उपोषितम् ।
कारेयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ इति । (य्ध् २।९७)
पितामहो ऽपि ।
त्रिरात्रोपोषितायैव एक रात्रोषिताय वा ।
नित्यं देयानि दिव्यानि शुचये सार्द्रवाससे ॥ इति ।
अयं चोपवासविकल्पो बलवदबलवद्विषयतया द्रष्टव्यः । होमानन्तरं पितामहः ।
यं चार्थम् अभियुक्तः स्याल् लिखित्वा तं तु पत्रके ।
मन्त्रेणानेन सहितं तत् कार्यं तु शिरोगतम् ॥ इति ।
मन्त्रस् तु ।
आदित्यचन्द्राव् अनिलो ऽनिलश् च द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥ इति ।
अयं च विधिः सर्वदिव्यसाधारणः,
एवं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
[१६८] इति पितामहस्मरणात् । प्रयोगावसाने दक्षिणां दद्यात् । तथा च स एव ।
ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ।
इति दिव्यमातृका
अथ घटविधिः
तत्र पितामहः ।
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा ।
इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे ॥ इति ।
नारदो ऽपि ।
सभाराजगृहद्वारसुरायतनचत्वरे ।
विशालाम् उच्छ्रितां शुभ्रां धटशालां तु कारयेत् ।
यत्रस्थो नोपहन्येत श्वभिश् चण्डालवायसैः ॥
कवाटबीजसंयुक्तां परिचारकरक्षिताम् ।
पानीयादिसमायुक्ताम् अशून्यां कारयेन् नृपः ॥ इति ।
धटनिर्माणप्रकारम् आह पितामहः ।
चतुर्हस्ता तुला कार्या पादौ कार्यौ तथाविधौ ।
अन्तरं तु तयोर् हस्तो भवेद् अध्यर्धम् एव वा ॥
छित्त्वा तु याज्ञिकं वृक्षं हेतुवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यस् तुला कार्या मनीषिभिः ॥ इति ।
नारदः ।
खादिरीं कारयेत् तत्र निर्व्रणां शुक्लवर्जिताम् ।
शिंशिपा तदभावे तु सालां वा कोटरैर् विना ॥
[१६९] अर्जुनस् तिलको ऽशोकस् तिमियो रक्त्चन्दनः ।
एवंविधानि काष्ठानि धटार्थं परिकल्पयेत् ॥
ऋज्वी धटतुलाकार्या खादिरी तैन्दुकी तथा ।
चतुरस्रास् त्रिभिः स्थानैर् धटः कर्कटकादिभिः ॥ (न्स्म् ३।२६३–६५)
पितामहः ।
कर्कटानि च देयानि त्रिषु स्थानेषु यत्नतः ।
हस्तद्वयं निखेयं तु पादयोर् उभयोर् अपि ॥ इति ।
व्यासः ।
हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोस् तयोः ।
षढस्तं तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥ इति ।
पितामहो ऽपि ।
तोरणे तु तयोः कार्ये पार्श्वयोर् उभयोर् अपि ।
धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ॥
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ।
मृण्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बिनौ ॥ इति ।
नारदः ।
शिक्यद्वयं समासाद्य पार्श्वयोर् उभयोर् अपि ।
एकत्र शिक्ये पुरुषम् अन्यत्र तुलयेच् छिलाम् ॥
[१७०] धारयेद् उत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् ।
पिठकं पूरयेत् तत्र इष्टकापांसुलोष्टकैः ॥ इति । (न्स्म् ३।२७१–७२)
पितामहः ।
एकस्मिन् तोलयेन् मर्त्यम् अन्यस्मिन् मृत्तिकां शुभाम् ।
इष्टकाभस्मपाषाणकपालास्थिविवर्जिताम् ॥ इति ।
अत्र मृत्तिकेष्टकाग्रावपांसूनां विकल्पः । समता निरीक्षणार्थं राज्ञा तद्विदो नियोक्तव्याः । तहा च पितामहः ।
एकस्मिन् तोलयन् मर्त्यम् अन्यस्मिन् मृत्तिकां शुभाम् ।
इष्टकाभस्मपाषाणकपालास्थिविवर्जिताम् ॥ इति ।
अत्र मृत्तिकेष्टकाग्रावपांसूनां विकल्पः । समतानिरीक्षणार्थं राज्ञा तद्विदो नियोक्तव्याः । तथा च पितामहः ।
परीक्षका नियोक्तव्यास् तुलामानविशारदाः ।
वणिजो हेमकाराश् च कांस्यकारास् तथैव च ॥
कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ।
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ॥
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ।
तोलयित्वा नरं पूर्वं पश्चात् तम् अवतार्य तु ॥
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ।
तत आवाहयेद् देवान् विधिनानेन मन्त्रवित् ॥
वादित्रतूर्यघोषैश् च गन्धमाल्यानुलेपनैः ॥ इति ।
अत्र विशेषम् आह नारदः ।
[१७१] रक्तैर् गन्धैश् च माल्यैश् च दध्यपूपाक्षतादिभिः ।
अर्चयेत् तु धटं पूर्वं ततः शिष्टांश् च पूजयेत् ॥ इति ।
इन्द्रादीन् इत्य् अर्थः । ततः प्राड्विवाकस् तुलाम् आमन्त्रयेत् । तद् आह पितामहः ।
धटम् आमन्त्रयेच् चैव विधिनानेन शास्त्रवित् ।
त्वं धट ब्रह्मणा सृष्टः परीक्षार्थं दुरात्म्नाम् ॥
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् ।
घृतो भावयते यस्माद् धटस् तेनाभिधीयसे ॥
त्वम् एव धट जानीषे न विदुर् याति मानवाः ।
व्यवहाराभिशस्तो ऽयं मानुषस् तोल्यते त्वयि ॥
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ इति ।
शास्त्रवित् प्राड्विवाकः । ततः संशोद्यः तुलाम् आमन्त्रयीत । तद् आह याज्ञवल्क्यः ।
तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥
त्वं तुले सत्यधर्मासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥
[१७२] यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ इति । (य्ध् २।१००–०२)
ततः प्राड्विवाकस् तुलाधारकं शपथैर् नियम्य शोध्यं पुनर् आरोपयेत् । तथा च नारदः ।
समैः परिगृह्याथ् पुनर् आरोपयन् नरम् ।
निर्वाते वृष्टिर् अहिते शिरस्य् आरोप्य पत्रकम् ॥ इति । (न्स्म् ३।२७६)
समयाः शपथाः । ते च विष्णुना दर्शिताः ।
ब्रह्मघ्नानां स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास् तुलां धारयतो मृषा ॥ इति ।
पुनरारोपणानन्तरं नारदः ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानवस् तोल्यते त्वया ।
तद् एनं संशयारूढं धर्मतस् त्रातुम् अर्हसि ॥ इति ।
देवासुरमनुष्याणां सत्ये त्वम् अतिरिच्यसे ।
सत्यसन्धो हि भवान् शुभाशुभविभावनः ।
[१७३] आदित्यचन्द्राव् अनिलोऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च संध्ये
धर्मश् च जानाति नरस्य वृत्तम् ॥ इति । (न्स्म् २।२७८, २८०)
तदनन्तरं पितामहः ।
ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात् कालपरीक्षणम् ।
विनाड्यः पञ्च विज्ञेयाः परीक्षा कालकोविदैः ॥
साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयो ऽलुब्धा नियोक्तव्या नृपेण तु ॥
तेषां वचनतो गम्यः शुद्ध्यशुद्धिविनिर्णयः ॥ इति ।
आरोपितं च विनाडीपञ्चकं यावत् तावत् तथैव स्थापयेत् । दशगुर्वक्षरोच्चारणकालः प्राणः । षट्प्राणा विनाडिका । उक्तं च ।
दशगुर्वक्षरः प्राणः षट्प्राणाः स्याद् विनाडिका । इति ।
शुद्ध्यशुद्धिनिर्णये कारणम् आह नारदः ।
तुलितो यदि वर्धेत विशुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥ इति । (न्स्म् ३।२८३)
व्यासः ।
[१७४] अधोगतो न शुद्ध्येत् तु शुद्ध्येद् ऊर्ध्वगतस् तथा ।
समो ऽपि न विशुद्धः स्याद् एषा शुद्धिर् उदाहृता ॥
शिक्यछेदे ऽक्षभङ्गे च भूयश् चारोपयेन् नरम् ।
एवं निःसंशयज्ञानात् ततो भवति निर्णयः ॥ इति ।
शुद्धेस् तु संशयो नारदेन प्रपञ्चितः ।
तुला शिरोभ्याम् उद्भ्रान्तं विवर्णं व्यस्तलक्षणम् ।
यदा वायुप्रणुन्नं वा चलत्य् ऊर्ध्वम् अधो ऽपि वा ॥
निर्मुक्तः सहसा वापि तदा नैकतरं वदेत् ॥ इति ।
अयम् अर्थः – यदा तुलाग्रभागौ तिर्यक्चलितौ, यदा च समताज्ञानार्थं न्यस्तम् उदकादि चलितं, यदा च वायुना प्रेरिता तुला ऊर्ध्वम् अधश् च कल्पते, यदा च तुला दोलाधारकेण हठात् प्रमुच्यते तदा जयं पराजयं वा न निश्चिनुयाद् इति । राज्ञः कर्तव्यम् आह पितामहः ।
सद्भिः परिवृतो राजा शुद्धं रूढं प्रपूजयेत् ।
ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ॥
एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ।
महतीं कीर्तिम् आप्नोति ब्रह्मभूयाय कल्पते ॥
इति धटविधिः
[१७५]
अथाग्निविधिः
तत्र प्रजापतिः ।
अग्नेर् विधिं प्रवक्ष्यामि यथावच् छास्त्रचोदितम् ।
कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ॥
आग्नेयं मण्डलं चाद्यं द्वितीयं वारुणं तथा ।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥
पञ्चमं त्व् इन्द्रदैवत्यं षष्ठं कौबेरम् उच्यते ।
सप्त्मं सोमदैवत्यम् अष्टमं सर्वदैवतम् ॥
पुरस्तान् नवमं यत् तु तन् महद्दैवतं विदुः ।
गोमयेन कृतानि स्युर् अद्भिः पर्युक्षितानि च ॥
द्वात्रिंशदङ्गुलान्य् आहुर् मण्डलान् मण्डलान्तरम् ।
अष्टभिर् मण्डलैर् एवम् अङ्गुलीनां शतद्वयम् ॥
षट्पञ्चाशत् समधिकं भूमेस् तु परिकल्पना ।
मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ॥ इति ।
तत्र नवमं मण्डलम् अपरिमिताङ्गुलिप्रमाणकम् । तद् विहायाष्टभिर् मण्डलैर् अष्टाभिश् चान्तरालैः प्रत्येकं षोडशाङ्गुलिप्रमाणैर् अङ्गुलीनां द्विहानां (?) षट्पञ्चाशत्समधिकं शतद्वयं संपद्यते । अङ्गुलिप्रमाणं च स्मृत्यन्तरे ऽभिहितम् ।
तिर्यग्यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाक्गुला ॥ इति ।
अत्र च गम्यानि सप्तैव मण्डलानि,
[१७६] स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् । (य्ध् २।१०६)
इति याज्ञवल्क्यस्मरणात् । नारदो ऽपि ।
हस्ताभ्याम् तं समादाय प्राद्विवाकसमीरितः ।
स्थित्वैकस्मिन् ततो ऽन्यानि व्रजेत् सप्त त्व् अजिह्मगः ॥
असंभ्रान्तः शनैर् गच्छेद् अक्रुद्धः सो ऽनलं प्रति ।
न पातयेत् ताम् अप्राप्य या भूमिः परिकल्पिता ॥
न मण्डलम् अतिक्रामेन् न चार्वाग् अर्पयेत् पदम् ॥
मण्डलं चाष्टमं गत्वा ततो ऽग्निं विसृजेन् नरः ॥ इति । (न्स्म् ?)
अग्निविसर्जनं नवमे मण्डले कार्यम् । तथा च पितामहः ।
अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ॥ इति ।
अयसः पिण्डपरिमाणम् आह पितामहः ।
असंयतं चास्रहीनं पञ्चाशत्पलिकं समम् ।
पिण्डं तु तापयेद् अग्नाव् अष्टाङ्गुलम् अयोमयम् ॥ इति ।
आद्यमण्डलाद् दक्षिणतो ऽग्निं प्रतिष्ठाप्य अग्नये पवमानायेति मन्त्रेणाष्टोत्तरशतवारं प्राड्विवाको जुहुयात्,
[१७७] शान्त्यर्थं जुहुयाद् अग्नौ घृतम् अष्टोत्तरं शतम् ।
इति स्मरणात् । तस्मिन्न् एवाग्नाव् अयःपिण्डं लोहकारेण तापयेत् । तद् आह नारदः ।
जात्यैव लोहकारो यः कुशलश् चापि कर्मणि ।
दृष्टप्रयोगश् चान्यत्र तेनयो ऽग्नौ तु तापयेत् ॥
अग्निवर्णम् अयःपिण्डं सस्फुलिङ्गं सुरञ्जितम् ।
पञ्चाशत्पलिकं भूयः कारयित्वा शुचिव्रतः ॥
तृतीयतापे तप्यन्तं ब्रूयात् सत्यपुरस्कृतम् ॥ इति । (न्स्म् ३।२८८–९०)
लोहशुद्ध्यर्थम् अवितप्तम् उदके निक्षिप्य पुनः सन्ताप्योदके निक्षिप्य पुनः सन्तापनं तृतीयस् तापः । तस्मिन् तापे वर्तमाने धर्मावाहनादिग्रहणान्तं पूर्वोक्तविधिं विधाय पिण्डस्थम् अग्निम् एभिर् मन्त्रैर् अभिमन्त्रयीत । मन्त्राश् च नारदेन दर्शिताः ।
त्वम् अग्ने देवाश् चत्वारः पञ्चयज्ञेषु हूयसे ।
त्वं मुखं सर्व्देवानां त्वं मुखं ब्रह्मवादिनाम् ॥
जठरस्थो हि भूतानां तथा वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥
[१७८] पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथ वा शुद्धभावेषु शीतो भव हुताशनः ॥
त्वम् एव सर्वभूतानां अन्तश् चरसि साक्षिवत् ।
त्वम् अग्ने देव जानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्मात् धर्मतस् त्रातुअम् अर्हसि ॥ इति । (न्स्म्३।२९१–९५)
शोध्यकर्तव्यम् आह हारीतः ।
प्राङ्मुखस् तु ततस् तिष्ठेत् प्रसारितकराङ्गुलिः ।
आर्द्रवासाः शुषिश् चैव शिरस्य् आरोप्य पत्रकम् ॥ इति ।
नारदो ऽपि ।
आदित्याभिमुखस् तिष्ठन्न् इमं मन्त्रम् उदीरयेत् ।
त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ॥
हव्यं वहसि देवानां हुतः शातिं प्रयच्छसि ।
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ॥
त्वम् एव सर्वं जानीषे न विदुर् यानि मानुषाः ।
व्यवहाराभिशस्तो ऽहं वह्ने तिष्टामि संशये ॥
तस्मान् मां संशयारूढं धर्मतस् त्रातुम् अर्हति ॥ इति । (न्स्म् ३।२९?)
अत्रादाव् एव व्रीहिमर्दनेन शोध्यस्य् करौ लक्षयेत् । तद् आह विष्णुः ।
[१७९] करौ विमर्दितव्रीही तस्यादाव् एव लक्षयेत् ।
लक्षयेत् तस्य चिह्नानि हस्तयोर् उभयोर् अपि ।
प्राकृतानि च गूढानि सव्रणान्य् अव्रणानि च ॥
हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि तु ॥ इति ।
अग्निधारणात् पूर्वम् एतानि ज्ञानार्थम् । तस्य शोध्यस्य करद्वयस्थितव्रणादिस्थानेषु अलक्तकादिरसेन हंसपदानि कुर्याद् इत्य् अर्थः । ततः कर्तव्यम् आह याज्ञवल्क्यः ।
करौ विमृदितव्रीही लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पर्णानि तावत् सूत्रेण वेष्टयेत् ॥ इति । (य्ध् २।१०३)
पर्णानि च समानि कर्तव्यानि,
पत्रैर् अञ्जलिम् आपूर्य अश्वत्थैः सप्तभिः समैः ।
इति स्मरणात् । वेष्टनसूत्राणि च सितानि कर्तव्यानि,
वेष्टयीत सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः ।
इति नारदस्मरणात् । तथा सप्त शमीपर्णानि तथैव दूर्वापत्राणि दध्यक्तांश् चाक्षतान् अश्वत्थपत्राणाम् उपरि न्यसेत् । तद् उक्तं स्मृत्यन्तरे ।
[१८०] सप्त पिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।
दूर्वायाः सप्तपर्णानि दध्यक्तांश् चाक्षतान् न्यसेत् ॥ इति ।
न्यसेत् दद्यात् । पुष्पाणि च विन्यसेत् । तद् आह पितामहः ।
सप्तपिप्पलपत्राणि अक्षताः सुमनो दधि ।
हस्तयोर् निक्षिपेत् तत्र सूत्रेणावेष्ठनं तथा ॥ इति ।
यत् तु स्मृत्यन्तरम्,
अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥
इति, तद् अश्वत्थपत्रालाभविषयम् । यतो ऽश्वत्थपत्राणां मुख्यत्वम् आह पितामहः ।
पिप्पलाज् जायते वह्निः पिप्पलो वृक्षराट् स्मृतः ।
अतस् तस्य तु पत्राणि हस्तयोर् निक्षिपेद् बुधः ॥ इति ।
अनन्तरकर्तव्यम् आह स एव ।
ततस् तं समुपादाय् राजा दर्मपरायणः ।
सन्दंशेन नियुक्तो ऽथ हन्तयोस् तत्र निक्षिपेत् ॥
त्वरमाणो न गच्छेत स्वस्थो गच्छेच् छनैः शनैः ।
न मण्डलम् अतिक्रामेन् नान्तरा स्थापयेत् पदम् ॥
अष्टमं मण्डलं गत्वा नवमे स्थापयेद् बुधः ।
भर्यार्तः पातयेद् यस् तु व्रणं च न विभाव्यते ॥
[१८१] पुनर् आरोहयेल् लोहं स्हितिर् एषा दृढीकृता । इति ।
यदा च दग्धादग्धसंदेहः तद् आह नारदः ।
यदा तु न विभाव्येते दग्धाव् इति करौ तदा ।
व्रीहीन् अतिप्रयत्नेन सप्तवारं तु मर्दयेत् ॥
मर्दितो यदि नो दग्धः सभ्यैर् एव विनिश्चितः ।
शोध्यः शुद्धः स सत्कृत्यो दग्धो दण्ड्यो यथाक्रमम् ॥
पूर्वदृष्टेषु चिह्नेषु ततो ऽन्यत्रापि लक्षयेत् ।
मण्डलं रक्तसङ्काशं यत्रान्यद् अग्निसंभवम् ॥
यो निरुद्धस् तु निविज्ञेयो सत्यधर्मव्यवस्थितः ॥ इति । (न्स्म् ३।३०२–३?)
यस् तु सन्त्रासात् प्रज्वालया हस्ताभ्याम् अन्यत्र दह्येत तथाप्य् अशुद्धो न भवति । तद् आह कात्यायनः ।
प्रज्वालेनाभिशतश् चेत् स्थानाद् अन्यत्र दह्यते ।
अदग्धं तं विदुर् देवास् तस्य भूयो न दापयेत् ॥ इति ।
शुद्धः कालावधिम् आह पितामहः ।
ततस् तद्धस्त्योः प्रास्येद् व्रीहीन् वा यदि वा यवान् ।
निर्विशङ्केन तेषां तु हस्ताभ्यां मर्दने कृते ॥
निर्विकारो दिनस्यान्ते शुद्धिं तस्य विनिर्दिशेत् ॥
इति अग्निविधिः
[१८२]
अथ जलविधिः
तत्र प्रजापतिः ।
तोयस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।
मण्डलं धूपदीपाभ्यां कारयीत विचक्षणः ॥
शरान् संपूजयेद् भक्त्या वैष्णवं च धनुस् तथा ।
मङ्गलैः पुष्पधूपैश् च ततः कर्म समाचरेत् ॥ इति ।
धनुषः प्रमाणम् आह नारदः ।
क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।
मन्दं पञ्चशतं ज्ञेयम् एष ज्ञेयो धनुर्विधिः ॥
मध्यमेन तु चापेन प्रक्षिपेत् तु शरत्रयम् ।
हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस् तथा । इति । (न्स्म् ३।३०७)
अत्राङ्गुलिसंख्या विवक्षिता । शराश् चायसाग्राः कर्तव्याः,
[१८३] शरान् अप्य् आयसैर् अग्रैः प्रकुर्वीत विशुद्धये ।
वेणुकाण्डमयांश् चैव क्षेप्ता च सुदृढं क्षिपेत् ॥
इति वचनात् । क्षेप्ता चात्र् क्षत्रियः । तद्वृत्तिर् ब्राह्मणो वा । तद् आह पितामहः ।
क्षेप्ता च क्षत्रियः कार्यस् तद्वृत्तिर् ब्राह्मणो ऽपि वा ।
अक्रूरहृदयः शान्तः सोपवासः क्षिपेद् इति ॥
शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् ।
सर्पन् सर्पन् शरो यायाद् दूराद् दूरतरं यतः ॥
इषून् न पक्षिपेद् विद्वान् मारुते वाति वा भृशम् ।
विषमे वा प्रदेश्ē च वृक्षस्थाणुसमाकुले ।
तरुगुल्मलतावल्लीपङ्कपाषाणसंयुते ॥ इति
तोरणं च मज्जनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् । तद् आह नारदः ।
गत्वा तु तज्जलस्थानं तटे तोरणम् उच्छ्रितम् ।
कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचिः ॥ इति ।
उपादेयानुपादेये जले विविनक्ति पितामहः ।
[१८४] स्थिरतोये निमज्जेत् तु न ग्राहिणि न चाल्पके ।
तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥
देवखातेषु यत् तोयं तस्मिन् कुर्याद् विशोधनम् ।
आहार्यं वर्जयेत् तोयं शीघ्रगासु नदीषु च ॥
आविशेत् सलिले नित्यम् ऊर्मिपङ्कविवर्जिते ।
स्थापयेत् प्रथमं तोये स्तम्भवत् पुरुषं नृपः ॥
आगतं प्राङ्मुखं कृत्वा तोयमध्ये तु कारिणम् ।
ततस् त्व् आवाहयेद् देवान् सलिलं चानुमन्त्रयेत् ॥ इति ।
तत्र चादौ वरुणपूजा कर्तव्या । तद् आह नारदः ।
गन्धमाल्यैः सुरभिभिर् मधुक्षीरघृतादिभिः ।
वरुणाय प्रकुर्वीत पूजाम् आदौ समाहितः ॥ इति ।
एवं वरुणपूजां कृत्वा धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्र-शिरोनिदेशनान्तं कृत्वा प्राड्विवाको जलाभिमन्त्रणं कुर्यात् । मन्त्रश् च विष्णुना दर्शितः ।
त्वम् अन्तः सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ।
त्वम् एवाम्भो विजानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानुषस् त्वयि मज्जति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ इति । (विस्म् १२।७–८)
पितामहो ऽपि ।
तोयम् त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेस् त्वं कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस् त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥ इति ।
शोध्यस्येतिकर्तव्यताम् आह याज्ञवल्क्यः ।
सत्येन माभिरक्ष त्वं वरुणेत्य् अभिशाप्य कम् ।
नाभिदध्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ इति । (य्ध् २।१०८)
तदनन्तरकर्तव्यताम् आह स एव ।
समकालम् इषुं मुक्तम् आनीयान्यो जवी नरः ।
गते तस्मिन् निमग्नाङ्गं। पश्येच् चेच् छुद्धिम् आप्नुयात् ॥ इति । (य्ध् २।१०९)
अयम् अर्थः । त्रिषु शरेषु मुक्तेष्व् एको वेगवान् मध्यशरपातस्थानं गत्वा तम् आदाय तत्रैव तिष्ठति । अन्यस् तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति । एवं स्थितयोस् तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालम् एव तोरणमूलस्थितो ऽपि द्रुततरं मध्यमशरपातस्थानं गच्छति । शरग्राही च तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति । तद् एव स्पष्टीकृतं पितामहेन ।
गन्तुश् चापि च कर्तुश् च समं गमनमज्जनम् ।
गच्छेत् तोरणमूलात् तु शरस्थानं जवी नरः ॥
[१८६] तस्मिन् गते द्वितीयो ऽपि वेगाद् आदाय सायकम् ।
गच्छेत् तोरणमूलं तु यतः स पुरुषो गतः ॥
आगतस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् ॥ इति ।
जविनोश् च जरयोर् निर्धारणं कृतं नारदेन ।
पञ्चाशतो धावकानां यौ स्याताम् अधिकौ जवे ।
तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥ इति ।
निमग्नस्य स्थानान्तरगमने अशुद्धिम् आह पितामहः ।
अन्यथा न विशुद्धिः स्याद् एकाङ्गस्यापि दर्शनात् ।
स्थानाद् अन्यत्र गमनाद् यस्मिन् पूर्वं निवेशिते ॥ इति ।
एकाङ्गदर्शनाद् इति कर्णाद्यभिप्रायेण,
शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥
इति विशेषस्मरणात् । कारणान्तरेणोन्मज्जने पुनर् अपि कर्तव्यम् । तद् आह कात्यायनः ।
निमज्ज्योत्प्लवते यस् तु दृष्टश् चेत् प्राणिभिर् नरः ।
पुनस् तत्र निमज्जंस् तु स सचिह्नविबाविते ॥
इति जलविधिः
[१८७]
अथ विषविधिः
तत्र प्रजापतिः ।
विषस्यापि प्रवक्ष्यामि विधिं लक्षणचोदितम् ।
अभियुक्ताय दातव्यं तावन्मात्रं प्रदीयते ॥
यवाः सप्त प्रदातव्या अथ वा षट्कसंख्यया ।
शृङ्गिणो वात्सनाभस्य हिमजस्य विषस्य च ॥ इति ।
वर्ज्यान्य् आह स एव ।
चारितानि च जीर्णानि कृत्रिमाणि तथिव च ।
भूमिजातानि सर्वाणि विषाणि परिवर्जयेत् ॥ इति ।
नारदो ऽपि ।
भृष्टं च चारितं चैव धूपितं मिश्रितं तथा ।
कालकूटम् अथाशुद्धं विषं यत्नेन वर्जयेत् ॥ इति ।
कालश् च तेनैवोक्तः ।
तोलयित्वेप्सिते काले देयं तद् धि दिनागमे ।
नापराह्णे न मध्याह्ने न संध्यायां च धर्मवित् ॥
[१८८] इति । कालान्तरे तु भुक्तप्रमाणाद् अल्पं देयम् । तद् आह स एव ।
वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता ।
हेमन्ते सा सप्तयवा शरद्य् अल्पा ततो ऽपि हि ॥ इति ।
विषं च घृतप्लुतं देयम् । तद् आह स एव ।
विषस्य पलषड्भागाद् भागो विंशतिम् अस्तु यः ।
तम् अष्टभागहीनं तु शोध्ये दद्याद् घृतप्लुतम् ॥ इति ।
पलं चात्र चतुःसुवर्णकम् तस्य षष्ठो भागो दशमाषा वा दशानां माषाणां यवाः सार्धं शतं भवन्ति । पूर्वे च दशयवाः । एवं षष्ट्यधिकं शतं यवाः पलस्य षष्ठो भागः । तस्माद् विंशतितमो भागो ऽष्टयवाः । तस्याष्टमभागहीनः एकयवहीनः । तं सप्तयवं घृतयुतं दद्यात् । घृतं च विषात् त्रिंशद्गुणं ग्राह्यम् । तद् आह कात्यायनः ।
पूर्वोक्तशीतले देशे विषं देयं तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं विषत्रिंशद्गुणेन तु ॥ इति ।
अत्र माहादेवस्य पूजा कर्तव्या । तद् आह नारदः ।
[१८९] प्रदद्यात् सोपवासाय देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥
द्विजानां संनिधानेन दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्राङ्मुखो वा दद्याद् विप्रः समाहितः ॥ इति ।
प्राड्विवाकः कृतोपवासो महेश्वरं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादिपूजां हवनान्तां पूर्ववद् विधाय प्रतिज्ञापत्रं शोध्यशिरसि निधाय विषं अभिमन्त्रयेत् । मन्त्रश् च पितामनेनोक्तः ।
त्वं विष ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ।
पापेषु दर्शयात्मानं शुद्धानाम् अमृतं भव ॥
मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् ।
त्रायस्वैनं नरं पापात् सत्येनास्यामृतं भव ॥ इति ।
कर्ता तु विषं अभिमन्त्र्य भक्षयेत् । मन्त्रश् च याज्ञवल्क्येनोक्तः ।
एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ।
यस्य वेगैर् विना जीर्येत् तस्य शुद्धिं विनिर्दिशेत् ॥
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः ।
त्रायस्वास्माद् अभीशापात् सत्येन भव मे ऽमृतम् ॥ इति । (य्ध् २।११०–११)
वेगो नाम धातोर् धात्वन्त्रप्राप्तिः । तद् उक्तं स्मृत्यन्तरे ।
[१९०] धातोर् धात्वन्तरप्राप्तिर् विषवेग इति स्मृतः । इति ।
वेगाश् च सप्तैव । तेषां लक्षणानि विषतन्त्रे कथितानि ।
वेगो रोमाञ्चम् आद्यो रचयति विषजः स्वेदवक्त्रोपशोषौ ।
तस्योर्ध्वं तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ ॥
यो वेगः पञ्चमो ऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां ।
षष्ठो निःश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य ॥ इति ।
शोध्यस् तु कुहकादिभ्यो रक्षणीय इत्य् आह पितामहः ।
त्रिरात्रं पञ्चरात्रं स्यात् पुरुषैः स्वैर् अधिष्ठितम् ।
कुहकादिभयाद् राजा धारयेद् दिव्यकारिणम् ॥
औषधीर् मन्त्रयोगांश् च मणीन् अथ विषापहान् ।
कर्तुः शरीरसंस्थांस् तु गूढोत्पन्नान् परीक्षयेत् ॥ इति ।
शुद्धेः कालावधिम् आह नारदः ।
पञ्चतालशतं कालं निर्विकारो यदा भवेत् ।
तदा भवति संशुद्धस् ततः कुर्याच् चिकित्सितम् ॥ इति ।
यावत् करतालिकाशतपञ्चकं तावत् परीक्षणीयम् इत्य् अर्थः । यत् तु पितामहेनोक्तम्,
भक्षिते तु यदा स्वस्थो मूर्च्छाछर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धं तम् अपि निर्दिशेत् ॥
इति, तद् एतच् चतुर्मात्राविषयम् ।
इति विषविधिः
[१९१]
अथ कोशविधिः
तत्र नारदः ।
अतः परं प्रवक्ष्यामि कोशस्य विधिम् उत्तमम् ।
शास्त्रविद्भिर् यथाप्रोक्तं सर्वकालविरोधिनम् ॥
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशूकस्याव्यसनिनः कोशकार्यं विधीयते ॥
इच्छतः श्रद्दधानस्य देवब्राह्मणसंनिधौ ॥ इति ।
सशूकः आस्तिकः । अत्रेतिकर्तव्यताम् आह याज्ञवल्क्यः ।
देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।
संश्राव्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥ इति । (य्ध् २।११२)
उग्राः रुद्रदुर्गादित्यादयः । पितामहो ऽपि ।
प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम् ।
पूर्वोक्तेन विधानेन स्नातम् आर्द्राम्बरं च तम् ॥ इति ।
पूर्वोक्तेनेति धर्मावाहनादिशोध्यशिरसि पत्रारोपणान्तम् अङ्गकलापं विधायाभियुक्तं प्राङ्मुखं कृत्वा प्रसृतित्रयं पाययेत् । तत्र विशेषो नारदेनोक्तः ।
[१९२] तम् आहूयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् ।
एनः संश्रावयित्वा तु पाययेत् प्रसृतित्रयम् ॥ इति ।
स्नापनीयदेवान् आह पितामहः ।
भक्तो यो यस्य देवस्य पाययेत् तस्य तज् जलम् ।
समभावे तु देवानाम् आदित्यस्य तु पाययेत् ॥
दुर्गायाः पाययेच् चोरान् ये च शस्त्रोपजीविनः ।
भास्करस्य च यत् तोरं ब्राह्मणं तन् न पाययेत् ॥ इति ।
स्नापनीयप्रदेशविशेषम् आह स एव ।
दुर्गायाः स्नापयेच् छूलं आदित्यस्य तु मण्डलम् ।
इतरेषां तु देवानां स्नापयेद् आयुधानि तु ॥ इति ।
शुद्धेः कालावधिम् आह पितामहः ।
त्रिरात्रात् सप्तरात्राद् वा द्विसप्ताहाद् अथापि वा ।
वैकृतं यत्र दृश्येत पापकृत् स तु मानवः ॥
तस्यैकस्य तु सर्वस्य जनस्य यदि वा भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणं सैव तस्य विभावना ॥ इति ।
विष्णुः ।
[१९३] यस्य पश्येद् द्विसप्ताहात् त्रिसप्ताहाद् अथापि वा ।
रोगो ऽग्निर् ज्ञातिमरणं राजदण्डम् अथापि वा ॥
तम् अशुद्धं विजानीयाद् विशुद्धिं तु विपर्यये ॥ इति । (विध् १४।४५)
नारदो ऽपि ।
सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वा पुनः ।
रोगो ऽग्निर् ज्ञातिमरणम् अर्थनाशो यशःक्षयः ॥
प्रत्यात्मिकं भवेत् तस्य विद्यात् तस्य पराजयम् ॥ इति ।
एतानि त्रिरात्राद्यवधिवचनानि द्रव्याल्पत्वमहत्वाभ्याम् अभियोगाल्पत्वमहत्वाब्यां वा व्यवस्थापनीयानि । अवधेर् ऊर्ध्वं वैकृतदर्शने न पराजय इत्य् आह नारदः ।
ऊर्ध्वं यस्य द्विसप्ताहाद् वैकृतं तु समुद्भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥ इति ।
बृहस्पतिर् अपि ।
सप्ताहाद् वा द्विसप्ताहाद् यस्य हानिर् न जायते ।
पुत्रदारधनानां च स शुद्धः स्यान् न संशयः ॥ इति ।
इति कोशविधिः
[१९४]
अथ तण्डुलादिविधिः
तत्र पितामहः ।
तण्डुलानां प्रवक्ष्यामि विधिं लक्षणचोदितम् ।
चौर्ये तु तण्डुला देया नान्यत्रेति विनिर्णयः ॥ इति ।
चौर्यग्रहणम् अर्थविवादप्रदर्शनार्थम्, “तदर्धार्धस्य तण्डुलाः” इति धनविवादे कात्यायेनन दर्शितत्वात् । पूर्वेद्युर् यत् कर्तव्यं तद् आह स एव ।
तण्डुलान् कारयेच् छुक्लान् शालेर् नान्यस्य कस्य चित् ।
मृण्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ।
आवाहनादि पूर्वं तु कृत्वा रात्रौ विधानतः ॥ इति ।
धर्मावाहनादिसर्वदिव्यसाधारणविधिना दिव्यस्य पुरतः कृत्वा देवतास्नानोदकेन तण्डुलान् आप्लुत्य प्रभातपर्यन्तं प्राड्विवाकस् तथैव स्थापयेत् । तदनन्तरं कर्तव्यं तेनैव दर्शितम् ।
प्रभाते कारिणो देयास् त्रिःकृत्वः प्राङ्मुखाय तु ।
तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत् ततः ॥
[१९५] भूर्जस्यैव तु नान्यस्य पलाशे पिप्पिलस्य तु । इति ।
बृहस्पतिः ।
सोपवासः सूर्यग्रहे तण्डुलान् भक्षयेच् छुचिः ।
शुद्धः स्याच् छुक्लनिष्ठीवे विपरीते तु दोषभाक् ॥
शोणितं दृश्यते यत्र हनुस् तालु च शीर्यतः ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥
इति तण्डुलविधिः
अथ तप्तमाशविधिः
तत्र पितामहः ।
तप्तमाषस्य वक्ष्यामि विधिम् उद्धरणे शुभम् ।
कारयेद् आयसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥
चतुरङ्गुलखातं तु मृण्मयं वाथ मण्डलम् ॥ इति ।
मण्डलं वर्तुलम् । एवंविधं पात्रं कृत्वा घृततैलाभ्यां पूरयेत् । तथा च स एव ।
पूरयेद् घृततैलाभ्यां विंशत्या वै पलैस् तु तत् ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥
सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत् ततः ।
अङ्गुष्ठाङ्गुलियोगेन उद्धरेत् तप्तमाषकम् ॥
[१९६] कराग्रं यो न धुनुयाद् विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥ इति ।
अङ्गुष्ठाङ्गुलियोगेन तर्जन्यङ्गुष्ठमध्यमानां समूहेनेत्य् अर्थः । केवलगव्यघृततापे विशेषम् आह स एव ।
सौवर्णे राजते ताम्रे आयसे मृण्मये ऽपि वा ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥
सौवर्णीं राजतीं ताम्रीं आयसीं वा विशोधिताम् ।
सलिलेन सकृद् धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥
भ्रमद्वीचितरङ्गाढ्ये अनखस्पर्शगोचरे ।
परीक्षेद् आर्द्रपर्णेन चुरुत्कारं सुघोषकम् ॥ इति ।
प्राड्विवाको धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं कर्म कृत्वा घृताभिमन्त्रणं कुर्यात् । मन्त्रास् तु तेनैव दर्शिताः ।
परं पवित्रम् अमृतं घृतं त्वं यज्ञकर्मसु ।
दह पावक पापं त्वं हिमशीतं शुचौ भव ॥
उपोषितं ततः स्नातम् आर्द्रवाससम् आगतम् ।
ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ॥ इति ।
शोध्यस् तु “त्वम् अग्ने सर्वभूतानाम्” इत्यादिमन्त्रं पठेत् । शुद्धिलिङ्गान्य् आह स एव ।
[१९७] प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
यस्य विस्फोटका न स्युः शुद्धो ऽसाव् अन्यथा ऽशुचिः ॥ इति ।
इति तप्तमाषविधिः
अथ फालविधिः
तत्र बृहस्पतिः ।
आयसं द्वादशपलघटितं फालम् उच्यते ।
अष्टाङ्गुलं भवेद् दीर्घं चतुरङ्गुलविस्तृतम् ॥
अग्निवर्णं तु तच् चोरो जिह्वया लेलिहेत् सकृत् ।
न दग्धश् चेच् छुद्धिम् इयाद् अन्यथा तु स हीयते ॥ इति ।
अत्रापि धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं कार्यम् ।
इति फालविधिः
अथ धर्माधर्मविधिः
तत्र पितामहः ।
अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
राजतं कारयेद् धर्मम् अधर्मं सीसकायसम् ॥
लिखेद् भूर्जे पटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पण्चगव्येन गन्धमाल्यैः समर्चयेत् ॥
सितपुष्पस् तु धर्मः स्याद् अधर्मो ऽसितपुष्पधृक् ।
एवं विधायोपलिप्य पिण्डयोस् तौ निधापयेत् ॥
गोमयेन मृदा वापि पिण्डौ कार्यौ समं ततः ।
मृभाण्डके ऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥
[१९८] उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।
आवाहयेत् ततो देवांल् लोकपालांश् च पूर्ववत् ॥
धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ।
यदि पापविमुक्तो ऽहं धर्मस् त्व् आयातु मे करे ॥
अभियुक्तस् ततश् चैकं प्रगृह्णीताविलम्बितम् ।
धर्मे गृहीते शुद्धिः स्याद् अधर्मे तु स हीयते ॥
एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥ इति ।
सीसकायसं सीसकमिश्रायसम् ॥
इति धर्माधर्मविधिः
इति क्रियापादः ॥
अथ क्रमप्राप्तो निर्णयपादः कथ्यते ॥
तत्र बृहस्पतिः ।
धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुःप्रकारो ऽभिहितः संदिग्धार्थविनिर्णयः ॥
एकैको द्विविधः प्रोक्तः क्रियाभेदान् मनीषिभि ।
अपराधानुरूपं तु दण्डं च परिकल्पयेत् ॥
प्रतिवादी प्रपद्येत यत्र धर्मः स निर्णयः ।
दिव्यैर् विशोधितः सम्यङ् निर्णयः समुदाहृतः ॥
प्रमाणनिश्चितो यस् तु व्यवहारः स उच्यते ।
वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥
अनुमानेन निर्णीतं चारित्रम् इति कथ्यते ।
[१९९] देशस्थित्या तृतीयस् तु शास्त्रविद्भिर् उदाहृतः ॥
प्रमाणसमतायां तु राजाज्ञा निर्णयः स्मृतः ।
शास्त्रसभ्याविरोधेन चतुर्थः परिकीर्तितः ॥ इति ।
संग्रहकारो ऽपि ।
उक्तप्रकाररूपेण स्वमतस्थापितापि वा ।
राज्ञा परीक्ष्य साक्ष्यैश् च स्थाप्यौ जयपराजयौ ॥
यो यथोक्तान्यतमया क्रियया ऽर्थं प्रसाधयेत् ।
भाषाक्षरसमं साध्यं स जयी परिकीर्तितः ॥
असाधयन् साधयन् वा विपरीतार्थम् आत्मनः ।
दृष्टकारणदोषो वा यः पुनः स पराजितः ॥ इति ।
व्यासो ऽपि ।
जितं तु दण्डयेद् राजा जेतुः पूजां प्रवर्तयेत् ।
अजिता अपि दण्ड्याः स्युर् वेदशास्त्रविरोधिनः ॥ इति ।
पूजाकरणानन्तरं कात्यायनः ।
सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥ इति ।
नारदो ऽपि ।
[२००] मध्ये यत् स्थापितं द्रव्यं चलं वा यदि वा स्थिरम् ।
पश्चात् तत् सोदयं दाप्यं जयिने पत्रसंयुतम् ॥ इति ।
पत्रं जयपत्रम् । तद् आह बृहस्पतिः ।
पूर्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।
प्रदद्याज् जयिने लेख्यं जयपत्रं तद् उच्यते ॥ इति ।
धनदापनप्रकारे विशेषम् आह कात्यायनः ।
राजा तु स्वामिने वित्तं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस् तु दुष्टान् संपीड्य दापयेत् ।
ऋक्थिनः सुहृदं वापि छलेनैव प्रदापयेत् ॥ इति ।
न केवलं स्वामिने धनदापनमात्रं स्वयम् अपि दण्डं गृह्णीयाद् इत्य् आह नारदः ।
ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।
राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥ इति ।
एतद् अविप्रतिपन्नऋणिकविषयम् । विप्रतिपन्नऋणिकविषये विष्णुर् आह- “उत्तमर्णश् चेद् राजानम् इयात् तद् धि भावितो ऽधर्मर्णो राज्ञे धनदशभागसमं दण्डं दद्यात् । प्राप्तार्थश् चोत्तमर्णो विंशतितमम् अंशम्” (विध् ६।२१) [२०१] इति । उत्तमर्णे धनदानं भृतित्वेन न दण्डत्वेन । यदा तु राज्ञः प्रियो ऽधर्मर्णो ऽपलापबुद्ध्या राज्ञे पूर्वं निवेदयति तत्र दण्डविशेषम् आह मनुः ।
यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।
स च राज्ञा चतुर्भागं दाप्यस् तस्य च तद् धनम् ॥ इति । (म्ध् ८।१७६)
यत् तु तेनैवोक्तम्,
यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ म्ध् ८।५९)
इति, तद् उद्भृत्ताधमर्णोत्तमर्णविषयम् । यत् तु याज्ञवल्क्येनोक्तम्,
निह्नवे बावितो दद्याद् धनं राज्ञे च तत्समम् । (य्ध् २।११)
इति, तत् द्विगुणदण्डपर्याप्तधनाभावविषयम् । मिथ्याभियोगिनस् तु अपर्याप्तधनस्यापि तत्समो दण्डः । यद् आह स एव ।
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् । इति । (य्ध् २।११)
धनाभावे ऽपि [२०२] “आनृण्यं कर्मणा गच्छेत्” इत्य् अनुकल्पो द्रष्टव्यः । यः प्रथमतो निह्नवं कृत्वा पश्चात् स्वयं संप्रतिपद्यते । तस्यार्धं दण्डम् आह व्यासः ।
निह्नुते तु यदा वादी स्वयं तत् प्रतिपद्यते ।
ज्ञेया सा प्रतिपत्तिश् च तस्यार्धं विनयः स्मृतः ॥ इति ।
यत् पुनर् मनुनोक्त,
अर्थे ऽपव्ययमानं तु करेणेन विभावितम् ।
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ (म्ध् ८।५१)
इति, तत् सद्वृत्तब्राह्मणाधमर्णविषयम् । निह्नवविषये विशेषम् आह याज्ञवल्क्यः ।
निह्नुते लिखितं नैकं एकदेशविभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥ इति । (म्ध् २।२०)
नैकम् अनेकम् । सुवर्णरजतवस्त्रादिकं प्रतिज्ञा काले लिखितम् अभियुक्तं प्रत्यर्थी यदि सर्वम् एव मिथैतद् इति प्रतिजानीते तदा अर्थिना एकदेशभूतहिरण्यादिविषये आक्रमादिभिः प्रत्यर्थी भावितः अङ्गीकारितः तदा स सर्वं पूर्वलिखितम् अर्थिने नृपेण [२०३] दाप्यः । पूर्वं भाषाकाले अर्थिना अनिवेदितः पश्चान् निवेद्यमानो न ग्राह्यो नादर्तव्यो नृपेणेत्य् अर्थः । नारदो ऽपि ।
अनेकार्थाभियुक्तेन सर्वार्थव्यपलायिनाम् ।
विभावितैकदेशेन देयं यद् अभियुज्यते ॥ इति ।
ननु – प्राचीनवचनानां प्रागुक्तार्थाविधानेन धर्मनिर्णयार्थता न स्यात्, छलानुसारेण तेषां व्यवहारनिर्णयाभिधायकत्वात् ।
सत्यम् । तथापि न दोषः, प्रागुक्तविषये व्यवहारनिऋणयस्य धर्मनिर्णयबाधकत्वात् । अत एव बृहस्पतिः ।
केवलं शास्त्रम् आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस् तेनापि हीयते ॥ इति ।
यत् तु कात्यायनवचनम्,
अनेकार्थाभियोगे तु यावत् साधयते धनम् ।
साक्षिभिस् तावद् एवासौ लभते साधिता धनम् ॥
इति, तत् पुत्रादिदेयपित्रादिऋणविषयम् । तत्र हि बहून् अर्थान् अभियुक्तः पुत्रादिर् न जानामीति वदन् निह्नववादी न भवतीति । एकदेशविभावितन्यायस्य तत्राप्रवृत्तेः । दिव्ये जयपराजयावधारणे दण्डविशेषः कात्यायनेन दर्शितः ।
[२०४] न दण्डं दापय्च् छुद्धं न शुद्धो दण्डभाग् भवेत् ।
विषे योये हुताशे च चर्या कोशे च तण्डुले ॥
तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ।
सहस्रं षट्शतं चैव तथा पञ्चशतानि तु ॥
चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ॥ इति ।
सपणविवादे विशेषम् आह याज्ञवल्क्यः ।
सपणश् चेद् विवादः स्याद् राजा हीनं तु दापयेत् ।
दण्डं तस्य पणं चैव धनिने धनम् एव च ॥ इति । (य्ध् २।१८)
नारदो ऽपि ।
विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते ।
स्वपणं स्वकृतं दाप्यो विनयं च पराजये ॥ इति ।
उक्तस्य दण्डस्य द्वैविध्यम् आह स एव ।
शारीरश् चार्थदण्डश् च दण्डस् तु द्विविधः स्मृतः ।
शारीरस् ताडनादिस् तु मरणान्तः प्रकीर्तितः ॥
काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तः प्रकीर्तितः ।
शारीरो दशधा प्रोक्तो ह्य् अर्थदण्डस् त्व् अनेकधा ॥
[२०५] इति । दशधेति न संख्यानियमार्थम्, बहुविधस्य बन्धनाङ्ककरणकर्मकरण-बन्धनागारप्रवेशताडनरूपस्य शारीरस्य विद्यमानत्वात् । तत्र नवविधत्वं शरीरदण्डस्य दर्शयति मनुः ।
दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ॥
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ इति । (म्ध् ८।१२४–२५)
द्विविध इत्य् उपलक्षणार्थम्,
शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥
इति विधानान्तरस्य स्मृतत्वात् । याज्ञवल्क्यस् तु दण्डस्य चातुर्विध्यम् आह ।
वाग्दण्डस् त्व् अथ धिग्दण्डो धनदण्डो वधस् तथा ।
योज्या व्यस्ताः समस्ता वा अपराधवशाद् इमे ॥ इति । (य्ध् १।३६७)
वाग्दण्डः परुषशापवचनात्मकः । धिग्दण्डो धिग् इति कुत्सनम् । समस्तानां योजने क्रमम् आह मनुः ।
[२०६] वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं च वधदण्डम् अतः परम् ॥ इति । (म्ध् ८।१२९)
व्यस्तानां योजने व्यवस्थाम् आह बृहस्पतिः ।
स्वल्पे ऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे ।
मध्योत्तमे ऽर्थदण्डस् तु राजद्रोहे च बन्धनम् ॥
निर्वासनं वधो वापि कार्यम् आत्महितैषिणा ।
व्यस्ताः समस्ता एकस्य महापातककारिणे ॥ इति ।
पुरुषतारतम्येन व्यवस्थाम् आह स एव ।
मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनाम् ।
विवादिनो नरांश् चापि दोषिणो ऽर्थेन दण्डयेत् ॥
गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नरांश् चान्यान् धिग्धनाभ्यां च दण्डयेत् ॥ इति ।
यत् तु शङ्खेनोक्तम्- “अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परिव्राजकवानप्रस्थौ जन्मकर्मश्रुतशीलशौचाचारवन्तश् च” इति, यद् अप् कात्यायनेन,
आचार्यस्य पितुर् मातुर् बान्धवानां तथैव च ।
एतेषाम् अपराधे तु दण्डो नैव विधीयते ॥
इति, यत् तु गौतमेन- [२०७] “षण्डः परिहार्यो राज्ञा अवध्यश् चादण्ड्यश् चाबहिष्कार्यश् चापरिवाद्यश् चापरिहार्यश् च” (ग्ध् ८।३) इति, तद् एतत्, “स एष बहुश्रुतो भवति । लोकवेदवेदाङ्गविद् वाकोवाक्येतिहासपुराणकुशलस् तदवेक्षस् तद्वृत्तिः चत्वारिंशत्संस्कारैः संस्कृतः त्रिषु कर्मस्व् अभिरतः षट्सु वा समयाचारिकेष्व् अभिनिविष्टः विनीतः” (ग्ध् ८।२) इति प्रतिपादितबहुश्रुतविषयम् । यत् तु पित्रादीनां दण्डविधानं मनु-बृहस्पतिभ्याम् उक्तम्,
पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥
ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः ।
धर्माद् विचलिता दण्ड्या निर्वास्या राजभिः पुरात् ॥
इति, तद् एतच् छरीरार्थव्यतिरिक्तदण्डविषयम्,
गुरून् पुरोहितान् पूज्यान् वागदाण्डेनैव दण्डयेत् ।
[२०८] इत्य् उक्तत्वात् । ब्राह्मणस्य वधदण्डो न कार्यः किं तु स बहिष्कार्य इत्य् आह कात्यायनः ।
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्राच् चैनं बहिष्कुर्यात् समग्रधनम् अक्षतम् ॥ इति ।
यस् तु बहिष्कारं नाङ्गीकरोति तस्य क्षत्रियादिवद् दण्ड इत्य् आह स एव ।
चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् ।
शारीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ इति ।
यत् तु गौतमेन- “न शारीरो ब्राह्मणस्य दण्डः” (ग्ध् १२।६) इति, तद् अङ्गभङ्गरूपदण्डनिषेधार्थम्, “न त्व् अङ्गभेदं विप्रस्य प्रवदन्ति मनीषिणः” इति हारीतेनोक्तत्वात् । यत् तु शङ्केनोक्तम्- “त्रयाणाम् अपि वर्णानाम् अपहारवधबन्धक्रिया । विवासनं धिक्करणं ब्राह्मणस्य” इत्, तद् एतद् अकिंचनब्राह्मणविषयम् । तथा च गौतमः- “कर्मवियोगविख्यापनविवासनाङ्ककरणान्य् अवृत्तौ” (ग्ध् १२।२३) इति । अवृत्तिर् निर्धनः । धनदानासमर्थान् प्रत्य् आह मनुः ।
[२०९] क्षत्रविट्शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन् ।
आनृण्यं कर्मणा गच्छेद् विप्रो दद्याच् छनैः शनैः ॥ इति । (म्ध् १०।२२९)
कर्मकरणसामर्थ्ये तु कात्यायन आह ।
धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागरे प्रवेश्यो ब्राह्मणाद् ऋते ॥ इति ।
मनुर् अपि ।
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् ।
शिफाविदनरज्ज्वाद्यैर् विदध्यान् नृपतिर् दमम् ॥ इति । (म्ध् ९।२३०)
ब्राह्मणस्य वधस्थाने मौण्ड्यं विदधाति मनुः ।
मैण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥
न ब्राह्मणवधाद् भूयाम् अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥ इति । (म्ध् ८।३७९–८१)
बृहस्पतिर् अपि ।
[२१०] ललाटाङ्कं ब्राह्मणस्य नान्यो दण्डो विधीयते ।
महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति ॥
निर्वासनाङ्ककरणे मौण्ड्यं कुर्यान् नराधिपः ॥ इति ।
अङ्कने विशेषो नारदेन दर्शितः ।
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ इति ।
अङ्कनं न क्षत्रियादिषु कर्तव्यम् ।
ब्राह्मणस्यापराधे तु चतुर्ष्व् अङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥
इतरेषां तु वर्णानाम् अङ्कनं नात्र कारयेत् ॥ इति ।
क्वचिद् विषये दण्डं निषेधति कात्यायनः ।
[२११] प्राणात्यये तु यत्र स्याद् अकार्यकरणं कृतम् ।
दण्डं तत्र तु नैव स्याद् एष धर्मो भृगुस्मृतः ॥ इति ।
नारदस् तु विहितदण्डस्यार्धदण्डेन दण्डम् आह ।
अयुक्तं साहसं कृत्वा प्रत्यापत्तिं व्रजेत् तु यः ।
ब्रूयात् सर्वं वा सदसि तस्य वार्धो दमः स्मृतः ॥ इति ।
अन्यच् च ।
व्याधिना पीडितो यस् तु यः कश्चिद् अतिनान्यति (?) ।
नैतन् मया कृतं कार्यं ब्रूयात् तस्यार्धको दमः ॥ इति ।
वर्णविशेषेण दण्डविशेषम् आह पितामहः ।
येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।
न चैतत् क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥
[२१२] प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।
वधेन गमयेत् पापं दण्ड्यो ऽपि द्विगुणं दमम् ॥ इति ।
बृहस्पतिः ।
वधार्हकः स्वर्णशतं दमं दाप्यस् तु पूरुषः ।
अङ्गछेदार्हकस् त्व् अर्धं सदशंशस् (?) तदर्धकम् ॥
ताडनं बन्धनं चैव तथैव च विडन्नकम् ।
एष दण्डो हि शूद्रस्य नार्थदण्डो बृहस्पतिः ॥ इति ।
दण्डानां पारिभाषिकसंज्ञा मनुना दर्शिता ।
पणानां द्वे शते सार्धे पथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एवम् उत्तमः ॥ इति । (म्ध् ८।१३८)
इयं संज्ञा प्रथमापराधविषये मन्तव्या । अपराधावृत्तौ तु याज्ञवल्क्य आह ।
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥ इति । (य्ध् १।३६६)
पणशब्देनात्र कार्षापणो गृह्यते । यथोक्तमार्गे व्यवहारनिर्णयम् अकुर्वतो ऽमात्यादीन् दण्डयित्वा राजा पुनर् व्यवहारं प्रवर्तयेत् । तद् आह मनुः ।
अमात्यः प्राड्विवाको वा ये कुर्युः कार्यम् अन्यथा ।
तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं तु दण्डयेत् ॥ इति । (म्ध् ९।२३४)
न केवलं सभ्यादीनाम् एव दण्डः । किं तु जयिनो ऽपीत्य् आह बृहस्पतिः ।
[२१३] निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः ।
दण्डयेज् जयिना साकं पूर्वसभ्यांस् तु दोषिणः ॥ इति ।
याज्ञवल्क्यो ऽपि ।
दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥ इति । (य्ध् २।३०५)
रागलोभादिना व्यवहारस्यान्यथाकरणे जयिसहिताः सभ्याः प्रत्येकं विवादपराजयनिमित्तादर्शनाद् द्विगुणं दण्ड्याः । यदा पुनः साक्षिदोषेण व्यवहारस्यान्यथात्वं तदा साक्षिण एव दण्ड्याः । न सभ्यादय इत्य् अर्थः । य पुनर्न्यायतो निर्णीतम् अपि व्यवहारम् औद्धत्याद् अधर्म इति मन्यते तं प्रत्य् आह नारदः ।
तीरितं चानुशिष्टं च यो मन्येत विधर्मणा ।
द्विगुणं दण्डम् आस्थाय तत्कार्यं पुनर् उद्धरेत् ॥ इति ।
वसिष्ठो ऽपि ।
यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।
तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ इति ।
तीरितानुशिषयोर् भेदः कात्यायनेन स्पष्टीकृतः ।
[२१४] असत् सद् इति यः पक्षः सभ्यै राज्ञावधार्यते ।
तीरितः सो ऽनुशिष्टस् तु साक्षिवाक्यात् प्रकीर्तितः ॥ इति ।
यत् पुनर् मनुनोक्तम्,
तीरितं चानुशिष्टं च यत्र क्वचन यद् भवेत् ।
कृतं तद् धर्मतो विद्यात् न तद् भूयो निवर्तयेत् ॥ (म्ध् ९।२३३)
इति, तत् स्त्रीकृतत्वादिनिवृत्तिहेत्वभावविषयम् । स्त्र्यादिविषये पुनर्व्यवहारः प्रवर्तनीयः । तद् आह नारदः ।
स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मस्व् अरातिषु ।
व्यवहारः कृतो ऽप्य् एषु पुनः कर्तव्यताम् इयात् ॥ इति ।
बलात्कारादिना कृतो ऽपि व्यवहारो निवर्तनीय इत्य् आह याज्ञवल्क्यः ।
बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस् तथा ॥ इति । (य्ध् २।३१)
कर्तृवैगुण्ये ऽपि पुनर्व्यवहारम् आह स एव ।
[२१५] मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः ।
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ इति । (य्ध् २।३२)
आदिशब्देन वृद्धादिप्रयुक्ता व्यवहारा गृह्यन्ते । तथा च मनुः ।
मत्तोन्मत्तार्ताध्यधीनैर् बालेन स्थविरेण वा ।
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ इति । (म्ध् ८।१६३)
नारदो ऽपि ।
पुरराष्ट्रविरुद्धश् च यश् च राज्ञा विवर्जितः ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥ इति ।
हारीतो ऽपि ।
राज्ञा विवर्जितो यस् तु स्वयं पौरविरोधकृत् ।
राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥
अन्ये वा ये पुनर् ग्राममहाजनविरोधकाः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥ इति ।
स्ववाक्यजितस्य तु न पुनर्न्याय इत्य् आह नारदः ।
साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भवो विधिः ॥ इति ।
अन्यान् अपि निवर्तनीयव्यवहारान् आह मनुः ।
[२१६] योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ इति । (य्ध् ८।१६५)
परकीयधनस्यात्मीयत्वहेत्वभावे याचितकादिना प्राप्तिर् योगः । आधमनम् आधिः योगेनाधमनं योगाधमनम् । एवं विक्रीतम् इत्य् अत्रापि योज्यम् । यमो ऽपि ।
बलाद् दत्तं बलाद् भुक्तं बलाच् चापि विलेखितम् ।
सर्वान् बलकृतान् अर्थान् निवर्त्यान् आह वै मनुः ॥ इति ।
कात्यायनो ऽपि ।
उन्मत्तेनैव मत्तेन तथा वाचान्तरेण वा ।
यद् दत्तं यत् कृतं वाथ प्रमाणं नैव तद् भवेत् ॥ इति ।
नारदो ऽपि ।
यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च ।
अकृतं तद् अपि प्राहुः शास्त्रे शास्त्रविदो जनाः ॥
गर्भस्थैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आषोडशाद् वर्षात् पौगण्ड इति कथ्यते ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितराव् ऋते ।
जीवतोर् न स्वतन्त्रः स्याज् जरयापि समन्वितः ॥
[२१७] तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ इति ।
केषुचित् कार्यविशेषेषु स्त्रीणाम् अस्वातन्त्र्यम् इत्य् आह हारीतः ।
दाने वाधमने वापि धर्मार्थे वा विशेषतः ।
आदाने वा विसर्गे वा न स्त्री स्वातन्त्र्यम् अर्हति ॥ इति ।
नारदः ।
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्यः आचार्ये तु स्वतन्त्रता ॥ इति ।
अत्रास्वतन्त्रकृतव्यवहारनिवर्तनं स्वतन्त्रानुमत्य्भावविषये वेदितव्यम् । तथा च नारदः ।
एतान्य् एव प्रमाणानि भर्ता यद्य् अनुमन्यते ।
पुत्रः पत्युर् अभावे वा राजा वा पतिपुत्रयोः ॥
तत्र दासकृतं कार्यं न कृतं परिचक्षते ।
अन्यत्र स्वामिसन्देशं न दासः प्रभुर् आत्मनः ॥
पुत्रेण च कृतं कार्यं यत् स्याद् अछन्दतः पितुः ।
तद् अप्य् अकृतम् एवाहुर् दासः पुत्रश् च तौ समौ ॥ इति ।
कात्यायनो ऽपि ।
न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृतः सिद्धिं प्राप्नुयान् नानुवर्णिताम् ॥
[२१८] प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि स्वं व्यवहारं ते कुर्वन्तो ह्य् अनुमोदिताः ॥
क्षेत्रादीनि तथैव स्युर् भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छतः ॥ इति ।
बृहस्पतिर् अपि ।
यः स्वामिना नियुक्तस् तु धनायस्यापलापने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥
प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा न स्वातन्त्र्यं विसंवदेत् ॥ इति ।
अनुमत्यभावे ऽपि कुटुम्बभरणार्थम् अस्वतन्त्रकृतं स्वतन्त्रो नान्यथा कर्तुम् अर्हतीत्य् आह मनुः ।
कुटुम्बार्थे ऽनधीयो ऽपि व्यवहारं समाचरेत् ।
स्वदेशे वा विदेशे वा तं न्यायं न विचारयेत् ॥ इति । (म्ध् ८।१६७)
प्रकृतिस्थस्वतन्त्रकृतं कार्यं सिध्यति नाप्रकृतिस्थकृतम् । तथा च नारदः ।
कुलज्येष्ठस् तथा श्रेष्ठः प्रकृतिस्थश् च यो भवेत् ।
तत्कृतं स्यात् कृतं कार्यं न स्वतन्त्रकृतं कृतम् ॥
[२१९] इति । स्वतन्त्रप्रकृतिस्थकृतम् अपि कार्यं क्वचिन् न सिध्यतीत्य् आह कात्यायनः ।
सुतस्य सुतदाराणां वशित्वं त्व् अनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ इति ।
एवं शास्त्रोक्तमार्गेण निर्णयं कृअतवतो राज्ञः फलं दर्शयति बृहस्पतिः ।
एवं शास्त्रोदितं राजा कुर्वन् निर्णयपालनम् ।
वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ॥
साक्षिलेख्यानुमानेन प्रकुर्वन् कार्यनिर्णयम् ।
वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥
इति निर्णयपादः समाप्तः
अष्टादशपदोपयोगिनी व्यवहारमातृका निरूपिता । अथेदानीम् अष्टादशापदान्य् अनुक्रमशो निरूप्यन्ते । तत्र बृहस्पतिः ।
पदांशसहितस् त्व् एष व्यवहारः प्रकीर्तितः ।
विवादकारणान्य् अस्य पदानि शृणुताधुना ॥
ऋणादानप्रधानानि द्यूताह्वानान्तिकानि च ।
क्रमशः संप्रवक्ष्यामि क्रियाभेदांश् च तत्त्वतः ॥ इति ।
तत्र प्रथमोद्दिष्टत्वेन ऋणादानाख्यस्य पदस्य विधिर् उच्यते । तच् च ऋणादानं सप्तविधम् । तद् आह नारदः ।
[२२०] ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्माश् च ऋणादानम् इति स्मृतम् । इति ।
तत्राधमर्णे पञ्चविधम् । ईदृशम् ऋणं देयम्, ईदृशम् अदेयं च, अनेनाधिकारिणा देयम्, अस्मिन् समये देयम् अनेन प्रकारेण देयम् इति । उत्तमर्णे द्विविधम् दानविधिर् आदानविधिश् चेति । तत्र दानविधिपूर्वत्वाद् इतरेषाम् आदौ दानविधिर् उच्यते । तत्र बृहस्पतिः ।
परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् ।
लेख्यारूढं साक्षिमद् वा ऋणं दद्याद् धनी सदा ॥ इति ।
आधेः परिपूर्णत्वं सवृद्धिकमूलद्रव्यपर्याप्तता । वृद्धिभेदाश् च बृहस्पतिना निरूपिताः ।
वृद्धिश् चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।
षड्विधास्मिन् समाख्याता तत्त्वतस् तां निबोधत ॥
कायिका कालिका चैव चक्रवृद्धिस् अतो ऽपरा ।
कारिता च शिखावृद्धिर् भागलाभस् तथैव च ॥
कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका ।
वृद्धेर् वृद्धिश् चक्रवृद्धिः कारिता त्व् ऋणिना कृता ॥
[२२१] प्रत्यहं गृह्यते यातु शिखावृद्धिस् तु सा मता ।
गृहात् स्तोमः शदः क्षेत्राद् भोगलाभः प्रकीर्तितः ॥ इति ।
वृद्धेस् तु परिमाणं मनुनोक्तम् ।
अशीतिभागं गृह्णीयान् मासि वार्धुषिकः शते । इति । (म्ध् ८।१४०)
वृद्ध्यर्थं निष्कशते प्रयुक्ते सपादनिष्कपरिमितां वृद्धिं मासि मासि गृह्णीयात् । एतत् सबन्धकविषयम् तथा च याज्ञवल्क्यः ।
अशीतभागो वृद्धिः स्यान् मासि मासि सबन्धके ।
वर्णक्रमाच् छतं द्वित्रिचतुष्पञ्चकम् अन्यथा ॥ इति । (य्ध् २।३७)
अन्यथा बन्धरहितप्रयोगे अधमर्ण ब्राह्मणादिक्रमेण द्विकं त्रिकं चतुष्कं शतं धर्म्यं भवतीत्य् अर्थः । तथा च मनुः ।
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं तथा ।
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥ इति । (म्ध् ८।१४२)
सलग्नकप्रयोगे व्यासः ।
सबन्धे भाग आशीतः षष्ठो भागः सलग्नके ।
निराधारे द्विकशतं मासलाभ उदाहृतः ॥ इति ।
ग्रहीतृभेदेन वृद्धिः परिमाणान्तरम् आह याज्ञवल्क्यः ।
[२२२] कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् । इति । (य्ध् २।३८)
कान्तारगाः दुर्गभववर्त्मगन्तारः ते प्रतिमासं दशकं शतं दद्युः । सामुद्राः समुद्रगन्तारः विंशकं शतं दद्युर् इत्य् अर्थः । कारितायां तु न नियम इत्य् आह स एव ।
दद्युर् वा स्वकृता वृद्धिः सर्वे सर्वासु जातिषु । इति । (य्ध् २।३८)
सर्वे ब्राह्मणादयो ऽधर्मर्णाः । सबन्धके ऽबन्धके सर्वासु जातिषूत्तमर्णानुभूतासु स्वाभ्युपगतां वृद्धिं दद्युः । क्वचिद् अनङ्गीकृतापि वृद्धिर् भवति । तद् आह विष्णुः ।
यो गृहीत्वा ऋणं पूर्वं श्वो दास्यामीति सामकम् ।
न दद्याल् लोभतः पश्चात् तद् अह्ना वृद्धिम् आप्नुयात् ॥ इति । (विध् ६।४०)
समम् एव सामकम् । प्रतिदानकालावधिम् अङ्गीकृत्य गृहीतम् उद्वृद्धिकं धनं यदि ततः प्राङ् न ददाति तदा अवधेर् अनन्तरकालाद् आरभ्य वर्धत एवेत्य् अर्थः । कालावधिम् अनङ्गीकृत्य स्वीकृतस्य धनस्य षण्मासा ऊर्ध्वं वृद्धिर् भवतीत्य् आह नारदः ।
न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।
अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥
[२२३] इति । याचितकं गृहीत्वा देशान्तरगमने कात्यायनः ।
यो याचितकम् आदाय तम् अदत्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥ इति ।
एतच् चाप्रतियाचितविषयम् । प्रतियाचिते तु स एवाह ।
कृत्वोद्धारम् अदत्वा यो याचितस् तु दिशं व्रजेत् ।
ऊर्ध्वं मासप्रयातस्य तद् धनं वृद्धिम् आप्नुयात् ॥ इति ।
कृत्वोद्धारं याचितकम् आदायेत्य् अर्थः । यस् तु याचितकं गृहीत्वा स्वदेश एव स्थितो याचितो ऽपि याचितकं न प्रयच्छति तं प्रत्य् आह स एव ।
स्वेदेशे ऽपि स्थितो यस् तु न दद्याद् याचितः क्वचित् ।
तं ततः कारितां वृद्धिम् अनिच्छन्तं न दापयेत् ॥ इति ।
ततः प्रतियाचनकालाद् आरभ्येत्य् अर्थः । प्रीतिदत्ते प्रतियाचिते वृद्धिविशेषस् तेनैवोक्तः ।
प्रीतिदत्तं न वर्धेत यावन् न प्रतियाचितम् ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥ इति ।
दत्ते च प्रतियाचिते वृद्धिनिक्षेपादाव् अपि स एव ।
[२२४] निक्षिप्तं वृद्धिशेषं च क्रयविक्रयम् एव च ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥ इति ।
गृहीतपण्यस्य मूल्यानर्पणविषये तु स एव ।
पण्यं गृहीत्वा यो मूल्यम् अदत्वैव दिशं व्रजेत् ।
ऋतुत्रयस्योपरिष्टाद् धनं वृद्धिम् अवाप्नुयात् ॥ इति ।
एतच् च प्रतियाचितविषयम् । अनाकारितवृद्धेर् अपवादो नारदेन दर्शितः ।
पण्यमूल्यं भृतिर् न्यासो दण्डो यश् च प्रकल्पितः ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥ इति ।
वृथादानं नटादिभ्यः प्रतिश्रुतम् । आक्षिकपणो द्यूतद्रव्यम् । अविवक्षिता अनाकारिता । पण्यमूल्यस्य वृद्ध्यभावः प्रवासप्रतियाचनाभावे । न्यासस्य तु वृद्ध्यभावो यथावस्थाने प्रतियाचनाभावे च, अन्यथा कात्यायनवचनविरोधापत्तेः । संवर्तो ऽपि ।
न वृद्धिः स्त्रीधने लाभे निक्षिप्ते च यथास्थिते ।
संदिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयंकृता ॥ इति ।
यथास्थिते निक्षिप्ते व्यक्त्यन्यथाकरणरहिते । दातुं योग्यम् अयोग्यं चेति संदिग्धे ऽर्थे प्रातिभाव्ये ऋणिप्रत्यर्पणादौ । कात्यायनो ऽपि ।
[२२५] चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा ।
स्त्री शुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च ॥ इति ।
सर्वदेति प्रतियाचनादेः परस्ताद् अप्य् अकृता वृद्धिर् नास्तीत्य् अर्थः । पण्यमूल्ये कात्यायनवचनविरोधः पूर्वम् एव परिहृतः । व्यासो ऽपि ।
प्रातिभाव्यं भुक्तबन्धम् अगृहीतं च दित्सतः ।
न वर्धते प्रयत्नस्य दमः शुल्कं प्रतिश्रुतम् ॥ इति ।
भुक्तभन्धग्रहणं निक्षेपोपयोगे यथा वृद्धिर् देया तथा गोप्याधिभोगे वृद्धिर् न देयेत्य् एवमर्थम्, “भुक्ताधिर् न वर्धते वस्त्रालङ्कारादिः” इति गौतमस्मरणात् । “अगृहीतं च दित्सतः” इति कृतवृद्ध्यपवादे अकृतवृद्ध्यपवादप्रसङ्गो ऽयुक्तः । कृतवृद्ध्यपवादश् च याज्ञवल्क्येन दर्शितः ।
दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं तत् स्याद् वर्धते न ततः परम् ॥ इति । (य्ध् २।४४)
प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणम् अन्तरेण चिरकालावस्थितस्य परम् । वृद्धिं द्रव्यभेदेनाह याज्ञवल्क्यः ।
[२२६] सन्ततिस् तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ इति । (य्ध् २।३९)
पशुस्त्रीणां सन्ततिर् एव वृद्धिः । रसस्य तैलघृतादेः स्वकृतया वृद्ध्या वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परा वृद्धिः । वस्त्रधान्यहिरण्यानां यथाक्रमं चतुर्गुणा त्रिगुणा द्विगुणा परा वृद्धिः ।
यत् तु वसिष्ठेनोक्तम्- “द्विगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रसा व्याख्याताः । पुष्पमूलफलादीनि च । तुलाघृतम् अष्टगुणम्” इति,
यत् तु मनुनोक्तम्-
धान्ये शदे लवे वाह्ये नात्क्रामति पञ्चताम् । (म्ध् ८।१५१)
इति — शदः क्षेत्रफलं पुष्पमूलफलादि, लवो मेषोर्णा चमरीकेशादिः, वाह्या बलीवर्दतुरगादयः, धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामति —
यद् अपि बृहस्पतिनोक्तम्,
हिरण्ये द्विगुणा वृद्धिस् त्रिगुणा वस्त्रगुप्यके ।
धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च ॥
[२२७] उक्ता पञ्चगुणा शाके बीजे ऽक्षौ षड्गुणा स्मृता ।
लवणस्वेदमद्येषु वृद्धिर् अष्टगुणा मता ॥
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ।
इति — कुप्यं त्रपुसीसकम्, शदः क्षेत्रफलं पुष्पमूलफलादि —
तद् एतत् सर्वम् अधमर्णयोग्यतानुसारेण दुर्भिक्षादिकालवशेन व्यवस्थापनीयम् । देशभेदेनापि परां वृद्धिं दर्शयति नारदः ।
द्विगुणं त्रुगुणं चैव तथान्यस्मिंश् चतुर्गुणम् ।
तथाष्टगुणम् अन्यस्मिन् देयं देशे ऽवतिष्ठति ॥ इति ।
देयम् ऋणं वर्धमानं चिरकालावस्थितं क्वचिद् देशे द्विगुणं क्वचिद् देशे त्रिगुणं क्वचिच् चतुर्गुणं क्वचिद् अष्टगुणं भवतीत्य् अर्थः । वसिष्ठो ऽपि ।
वज्रशुक्तिप्रवालानां रत्नस्य रजतस्य च ।
द्विगुणा दाप्यते वृद्धिः कृता कालानुसारिणी ॥
ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य च ।
त्रिगुणा तिष्ठते वृद्धिः कालान्तरकृतस्य तु ॥ इति ।
शुक्तिम् इति मुक्ताफलं लक्ष्यते, वज्रसाहचर्यात् । व्यासो ऽपि ।
[२२८] शाककार्पासबीजेक्षौ षड्गुणा परिकीर्तिता ।
वदन्त्य् अष्टगुणान् काले मद्यस्नेहरसासवान् ॥ इति ।
कात्यायनो ऽपि ।
तैलानां च सर्वेषां मद्यानाम् अथ सर्पिषाम् ।
वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ इति ।
यत्र वृद्धिविशेषो न श्रूयते तत्र द्विगुणैव । तथा च विष्णुः- “अनुक्तानां द्विगुणा” इति (विध् ६।१७) । अयं च वृद्ध्युपरमः सकृत्प्रयोगे सकृदाहरणे च वेदितव्यः । तथा च मनुः ।
कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहिता । इति । (म्ध् ८।१५१)
उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं तस्य वृद्धिर् द्वैगुण्यं नात्येति नातिक्रामति । यदा सकृद् आहिता सकृत् प्रयुक्ता पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणेन तस्मिन्न् एव वा पुरुषे रेकसेकाभ्यां प्रयोगान्तरकरणे द्वैगुण्यम् अतिक्रम्य पूर्ववद् वर्धते । सकृद् आहृतेति पाठे शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमर्णाद् आहृत्य द्वैगुण्यम् अतीत्य इति व्याख्येयम् । गौतमो ऽपि- “चिरस्थाने द्वैगुण्यं प्रयोगस्य” (ग्ध् १२।५) [२२९] इति । प्रयोगस्येति एकवचननिर्देशात् प्रयोगान्तरकरणं द्वैगुण्यातिक्रमः । चिरस्थान इति निर्देशाच् छनैः शनैर् वृद्धिग्रहणे द्वैगुण्यातिक्रमो ऽभिमतः । उक्तस्य वृद्ध्युपरमस्य क्वचिद् द्रव्यविशेषे ऽपवादम् आह बृहस्पतिः ।
तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्मणाम् ।
हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥ इति ।
किण्वः सुराद्रव्योपादानभूतो मलविशेषः । चर्म बाणादिनिवारकः फलकः । वर्म तनुत्रम् । हेतिर् आयुधम् । पुष्पफलयोर् वृद्धिनिवृत्त्यभावो ऽत्यन्तसमृद्धाधमर्णविषयः, अन्यथा त्रिगुणवृद्धिप्रतिपादकवसिष्ठवचनविरोधापत्तेः । विष्णुर् अपि- “किण्वकार्पाससूत्रचर्म-वर्मायुधेष्टकाङ्गाराणम् अक्षया” इति (विध् ६।१६) । अत्रापि कार्पासे तु षड्गुणप्रतिपादक-व्यासवचनविरोधः पूर्ववद् विज्ञेयः । वसिष्ठो ऽपि ।
दन्तचर्मास्थिशृङ्गाणां मृण्मयानां तथैव च ।
अक्षया वृद्धिर् एतेषां पुष्पमूलफलस्य च ॥
[२३०] इति । बृहस्पतिर् अपि ।
शिखावृद्धिं कायिकां च भोगलाभं तथैव च ।
धनी तावत् समादद्याद् यावन् मूलं न शोधितम् ॥ इति ।
तद् एवम् – “परिपूर्णं गृहीत्वाधिम्” इत्य् अत्राधेः परिपूर्णत्वनिरूपणप्रसङ्गात् सविशेषा वृद्धिर् निरूपिता ।
इदानीम् आधिर् निरूप्यत्
तत्र नारदः ।
अधिक्रियत इत्य् आधिः स विज्ञेयो द्विलक्षणः ।
कृतकालो ऽपनेयश् च यावद् देयोद्यतस् तथा ॥
स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ॥ इति ।
गृहीतस्य द्रव्यसोपरि विश्वासार्थम् अधर्ंएनोत्तमर्णे ऽधिक्रियते आधीयत इत्य् आधिः । कृतकाले आधानकाल एवामुष्मिन् दीपोत्सवे ऽयम् आधिर् मया मोक्ष्यते । अन्यथा तवैव भविष्यतीत्य् एवं निरूपिते काले । उपनेयो मोचनीय इत्य् अर्थः । यावद् देयोद्यतः गृहीतधनप्रत्यर्पणावधि निरूपितकाल इत्य् अर्थः । गोप्यो रक्षणीयः । भोग्यः फलभोग्यादिः । बृहस्पतिर् अपि ।
आधिर् बन्धः समाख्यातः स च प्रोक्तश् चतुर्विधः ।
जङ्गमः स्थावरश् चैव गोप्यो भोग्यस् तथैव च ॥
यादृच्छिकः सावधिश् च लेख्यारूढो ऽथ साक्षिमान् ॥
[२३१] इति । आधिर् नाम बन्धः । स द्विविधः । गोप्यो भोग्यश् च । पुनश् चैकैकशो द्विविधः । जङ्गमः स्थावरश् चेत्य् एवं चतुर्विधः । पुनर् अपि प्रत्येकं द्विविधः यादृच्छिकः सावधिश् चेति । यावद् ऋणं तव न ददामि तावद् अर्थम् आधिर् इत्य् एवं कालविशेषावधिशून्यतया कृतो यादृच्छिकः । सावधिः कृतकालोपनेयः । पुनश् च लेख्यावरूढः साक्षिमान् इति द्विविधः । भरद्वाजः प्रकारान्तरेणाधेश् चातुर्विध्यम् आह ।
आधिस् तु द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ।
अर्थप्रत्ययहेतुश् च चतुर्थस् त्व् आज्ञया कृतः ॥ इति ।
मरीचिर् अपि ।
श्र्वणात् पूर्वलिखितो भोग्याधिः श्रेष्ठ उच्यते ।
गोप्याधिस् तु परेभ्यस् तु दत्वा यो गोप्यते गृहे ॥
अर्थप्रत्ययहेतुर् यः प्रत्ययाधिः स उच्यते ।
आज्ञाधिर् नाम यो राज्ञा संसदि त्व् आज्ञया कृतः ॥ इति ।
श्रावणं संसदि प्रकाशनम् । आधेर् ग्रहणानन्तरं नाशह्रासविकारादयो यथा न भवन्ति तथासौ पालनीय इत्य् आह हारीतः ।
बन्धं यथा स्थापितं स्यात् तथैव परिपालयेत् ।
अन्यथा नश्यते लाभो मूलं वा तद्व्यतिक्रमात् ॥ इति।
बृहस्पतिर् अपि ।
[२३२] भुक्ते वासारतां प्राप्ते मूलहानिः प्रजायते ।
बहुमूल्यं यत्र नष्टम् ऋणिकं तत्र तोषयेत् ॥
दैवराजोपघाते च यत्राधिर् नाशम् आप्नुयात् ।
न्यासवत् परिपाल्यो ऽसौ वृद्धिर् नश्येत् दापिते ॥
तत्राधिं दापयेद् दद्यात् सोदयं धनम् अन्यथा ॥ इति ।
दैवोपघातो ऽग्न्युदकदेशोपप्लवादिः । स्वापराधाभावे ऽपि कृतो राजोपघातः । यदि ताभ्याम् आधिर् नाशम् आप्नुयात् तदान्यम् आदध्यात् । सोदयं धनं वा दद्यात् । तथा च व्यासः ।
दैवराजोपघाते तु न दोषो धनिनां क्वचित् ।
अन्यथा नश्यते लाभो मूलं वा नाशम् आप्नुयात् ॥
ऋणं दाप्यस् तु तन्नाशे बन्धं वान्यम् ऋणी तथा । इति ।
आधेर् असारत्वे ऽप्य् एवम् अनुसंधेयम् । तथा च नारदः ।
रक्ष्यमाणो ऽपि यत्राधिः कालेनेत्याड् असारताम् ।
आधिर् अन्यो ऽथ वा कार्यो देयं वा धनिने धनम् ॥ इति ।
याज्ञवल्क्यो ऽपि ।
[२३३] आधेः स्वीकरणात् सिद्धी रक्ष्यमाणो ऽप्य् असारताम् ।
यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत् ॥ इति । (य्ध् २।६०)
अयम् अर्थः – आधेर् गोप्यस्य भोग्यस्य च स्वीकरणाद् ग्रहणोपभोगाच् च सिद्धिः, न साक्षिलेख्यमात्रेण, नाप्य् उद्देशमात्रेण । तद् आह नारदः ।
आधिस् तु द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।
सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥ इति ।
एवं च सति या स्वीकारान्ता क्रिया सा पूर्वा बलवती । पूर्वापि स्वीकाररहिता सा न बलवतीत्य् उक्तं भवति । आधिः प्रयत्नेन रक्ष्यमाणो ऽपि कालादिवशेन यद्य् असारतां गतस् तदान्य आधेयः । अथ वा धनिने धनं देयम् । आधिसिद्धौ भोग एव प्रमाणम् इत्य् आह विष्णुः ।
ययोर् निक्षिप्त आधिः स्तौ विवदेतां यदा नरौ ।
यस्य भुक्तिर् जयस् तस्य बलात्कारविना कृता ॥ इति ।
द्वयोर् अपि तु भुक्तियुक्तत्वे बृहस्पतिर् आह ।
क्षेत्रम् एकं द्वयोर् बन्धे यद् दत्तं समकालिकम् ।
येन भुक्तं भवेत् पूर्वं तस्य तत्सिद्धिम् आप्नुयात् ॥ इति ।
वसिष्ठः ।
[२३४] तुल्यकाले निसृष्टानां लेख्यानाम् आधिकर्मणि ।
येन भुक्तं भवेत् पूर्वं तस्याधिर् बलवत्तरा ॥ इति ।
भोगाविशेषे ऽपि स एवाह ।
यदेकदिवसे तौ तु भोक्तुकामाव् उपागतौ ।
विभज्याधिः समं तत्र भोक्तव्य इति निश्चयः ॥ इति ।
द्वयोर् एक्म् आधिं कुर्वतो दण्डम् आह कात्यायनः ।
आधिम् एकं द्वयोः कृत्वा यद्य् एका प्रतिपद् भवेत् ।
तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥ इति ।
प्रतिपद् इति प्रतिपत्तिर् इत्य् अर्थः । आधिविशेषे दण्डविशेषम् आह विष्णुः- “गोचर्ममात्राधिकां भुवम् अन्यस्याधीकृतां तस्माद् अनिर्मोच्यान्यस्य यः प्रयच्छेत् स वध्यः । ऊनां चेत् षोडशसुवर्णं दण्ड्यः” इति (विध् ५।१८१–८२) । साक्षिलेख्यसिद्ध्योर् लेख्यसिद्धिं बलवद् इत्य् आह कात्यायनः ।
आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा ।
एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥
[२३५] इति । लेख्यसिद्धत्वाविशेषे ऽपि स एवाह ।
अनिर्दिष्टाच् च निर्दिष्टम् एकत्र च विलेखितम् ।
विशेषलिखितं ज्याय इति कात्यायनो ऽब्रवीत् ॥ इति ।
निर्दिष्टानिर्दिष्टयोः स्वरूपम् आह स एव ।
यो विद्यमानं प्रथमम् अनादिष्टस्वरूपकम् ।
आकाशभूतमानेन अनिर्दिष्टं च तद् भवेत् ॥
यद् यद् यदास्य विद्येत तदादिष्टं विनिर्दिशेत् ॥ इति ।
अयम् अर्थः – आधातुम् आधानकाले यद् विद्यमानं धनं निरूपितस्वरूपं च तद् धनम् आधित्वेनादिष्टं तन् निर्दिष्टम् इत्य् उच्यते । तद्विपरीतं तु धनम् आधित्वेन कल्प्यमानम् अनिर्दिष्टम् इति । निर्दिष्टत्वाविशेषे याज्ञवल्क्यः ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । इति । (य्ध् २।२३)
एकम् एव क्षेत्रम् एकस्याधिं कृत्वा किम् अपि गृहीत्वा पुनर् अन्यस्याप्य् आधाय किम् अपि गृह्णाति । तत्र पूर्वस्यैव क्षेत्रं भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च योज्यम् । ऋणादिषु उत्तरक्रियाप्राबल्यम् आह स एव ।
[२३६] सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तरक्रिया । इति । (य्ध् २।२३)
यदैकं क्षेत्रम् एकस्याधिं कृत्वान्यस्य विक्रीयते तत्राह वसिष्ठः ।
यं पूर्वतरम् आधाय विकीणीते तु तं पुनः ।
किम् एतयोर् बलीयः स्यात् प्राक्तनं बलवत्तरम् ॥ इति ।
आध्यादीनां यौगपद्ये ऽप्य् आह स एव ।
कृतं यत्रैकदिवसे दानम् आधानविक्रयम् ।
त्रयाणाम् इति संदेहे कथं तत्र विचिन्तयेत् ॥
त्रयो ऽपि तद् धनं धर्म्यं विभजेयुर् यथांशतः ।
उभौ क्रियानुसारेण त्रिभागोनं प्रतिग्रही ॥ इति ।
अथ धनिदोषेणाधिनाशे व्यासः ।
गृहीतदोषो नष्टश् च वृद्धौ देयाधिको भवेत् ।
ऋणं सलाभं संशोध्य तन्मूलं दाप्यते धनी ॥ इति ।
एतद् आधितो ऽभ्यधिकसमलाभर्णिविषयम् । ऋणपर्याप्ताधिनाशे त्व् आह नारदः ।
विनष्टे मूलनाशः स्याद् दैवराजकृताद् ऋते ॥
[२३७] इति । बहुमूल्याधिनाशे धनिकं तोषयेद् इत्य् उक्तं तत्र विशेषम् आह मनुः ।
मूल्येन तोषयेद् एनम् आधिस्तेनो ऽन्यथा भवेत् । इति । (म्ध् ८।१४४)
गोप्याधिभोगे लाभहानिम् आह याज्ञवल्क्यः ।
गोप्याधिभोगे नो वृद्धिः सोपकारे ऽथ हापिते ।
नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ॥ इति । (य्ध् २।५९)
अयम् अर्थः – गोप्यस्याधेः समयातिक्रमेण भोगे सति महत्य् अपि वृद्धिर् हातव्या । सोपकारे सवृद्धिके भोग्याधौ हापिते व्यवहाराक्षमत्वं प्रापिते सति न वृद्धिः । नष्टो विकारं प्रापितः पूर्ववत् कृत्वा देयः । विनष्टश् चेद् आत्यन्तिकनाशं प्राप्तश् चेन् मूल्यादिद्वारेण देयः । “गोप्याधिभोगे नो वृद्धिः” इत्य् एतद् बलात्कारभोगविषयम् । अत एव मनुः ।
न भोक्तव्यओ बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् । इति । (म्ध् ८।१४४)
वञ्चनादिना आधिभोगे भोगानुसारेण भोगद्रव्यस्य नाशम् आह स एव ।
यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते ऽविचक्षणः ।
तेनार्धवृद्धिर् मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ (म्ध् ८।१५०)
[२३८] इति । क्वचिद् विषये मूलद्रव्यनाशेन सह लाभनाशस्य विकल्पम् आह कात्यायनः ।
आकामम् अननुज्ञातम् आधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥ इति ।
दास्याद्याधौ कर्मफलं वेतनम् । आहितदास्यादिपीडने स एवाह ।
यस् त्व् आधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।
पीडयेद् भर्त्सयेच् चैव प्राप्नुयात् पूर्वसाहसम् ॥ इति ।
आहितस्य द्रव्यस्य स्वत्वनिवृत्तिकालम् आह याज्ञवल्क्यः ।
आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥ इति । (य्ध् २।५८)
प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्वैगुण्यं प्राप्ते सति यद्य् अकृतकालो गोप्याधिर् न मोक्ष्यते तदा नश्येद् अधर्मणस्य धनं प्रयोक्तुः स्वं भवति । कृतकालो गोप्यो भोग्यश् चाधिः संप्रतिपन्ने काले यदि न मोक्ष्यते तदाधर्मर्णस्य नश्येत् । अकृतकालः फलभोग्यः कदाचिद् अपि न नश्यति । द्वैगुण्यनिरूपितकालयोर् उपरि चतुर्दशदिवसप्रतीक्षणं कर्तव्यम् इत्य् आह व्यासः ।
[२३९] हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ॥
तदन्तरा धनं दत्वा ऋणी बन्धम् अवाप्नुयात् ॥ इति ।
ननु – आधेः स्वत्वनिवृत्तिहेतोर् दानविक्रयादेर् अभावात् उत्तमर्णस्यापि स्वत्वापत्तिर् अयुक्ता । प्रतिग्रहादेर् अभावात् आधीकरणम् एव स्वत्वनिवृत्तिं प्रति कारणम् – इति चेत्, तन् न,
न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ।
इति मनुवचनविरोधात्, कालसंरोधाच् चिरकालावस्थानादेः । निसर्गो ऽन्यत्राधीकरणं नास्ति । विक्रयो ऽपि नास्ति
मैवम् । न केवलं दानादिर् एव स्वत्वनिवृत्तिकारणम् । प्रतिग्रहादिर् एव वा स्वत्वापत्तिकारणम् । किं तु द्विगुण्ये निरूपितकालप्राप्तौ च द्रव्यादानम् अपि । तस्य याज्ञवल्क्यवचनेनैव ऋणिधनिनोर् आत्यन्तिकस्वत्वनिवृत्तिस्वत्वापत्त्योः कारणत्वावगमात् । न च मनुवचनविरोधः, तस्य कृतकालभोग्याधिविषयत्वेनाप्य् उपपत्तेः । यत् तु बृहस्पतिना दशदिवसप्रतीक्षणम् उक्तम्,
[२४०] पूर्णे विधौ सान्तलाभे बन्धस्वामी धनी भवेत् ।
अनिर्गते दशाहे तु ऋणी मोक्षितुम् अर्हति ॥ इति ।
तत् द्वैगुण्यव्यतिरिक्तवस्त्वादिविषयम्, “हिरण्ये द्विगुणी भूते” इति व्यासेन विशेषोपादानात् । यत् पुनस् तेनैवोक्तम्,
गोप्याधिर् द्विगुणाद् ऊर्ध्वं कृतकालस् तथावधेः ।
आवेदयित्वर्णिकुल भोक्तव्यस् तदनन्तरम् ॥
इति, तद् भोगमात्रविधिपरम् । न पुनः स्वत्वापत्तिपरम् । यदा तु सान्तलाभे धने बन्धकस्य तथैवावस्थितस्य मोचनात् प्रागृणिकस्य मरणादिर् भवेत् तदा किं कार्यम् इत्य् अपेक्षिते आह बृहस्पतिः ।
हिरण्ये द्विगुणी भूते मृते नष्टे ऽधमर्णिके ।
द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥
रक्षेद् वा कृतमूल्यं तु दशाहं जनसंसदि ।
ऋणानुरूपं परतो गृह्णीतान्यत् तु वर्जयेत् ॥ इति ।
हिरण्ये द्विगुणीभूते पश्चाद् आधिमोक्षणाद् अर्वाक् अधमर्णके मृते नष्टे कुत्रचिद् गते चिरकालम् अविज्ञाते सति आधीकृतं द्रव्यं [२४१] ससाक्षिकं विक्रीणीय ऋणानुरूपं द्विगुणीभूतद्रव्यपर्याप्तं गृह्णीत । ततो ऽवशिष्टं वर्जयेत् । राज्ञे समर्पयेद् इत्य् अर्थः । तथा च कात्यायनः ।
आधाता यत्र न स्यात् तु धनी बन्धं निवेदयेत् ।
राज्ञस् ततः स विख्यातो विक्रेय इति धारणा ॥
सवृद्धिकं गृहीत्वा तु शेषं राजन्य् अथार्पयेत् ॥ इति ।
राज्ञे समर्पणं च ज्ञात्याद्यभावविषयम् । तत्सद्भावे तत्रैव समर्पणस्य न्याय्यत्वात् । अन्यस् तु वर्जयेद् इत्य् अनेन धनद्वैगुण्ये ऽप्य् अकृतकालावधिकाधौ धनिकस्य स्वामित्वम् अवगम्यते । धनद्वैगुण्ये स्वत्वप्रतिपादकं याज्ञवल्क्यवचनं समानाधिविषयम् । अत एव न्यूने अधिके च बन्धे आधिनाशो नाश्ति । किं तु द्विगुणीभूतं द्रव्यम् एव राज्ञा दाप्य इत्य् आह याज्ञवल्क्यः ।
चरित्रबन्धककृतं सवृद्ध्या दापयेद् धनम् ।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रैपादयेत् ॥ इति । (य्ध् २।६१)
चरित्रं शोभनाचरितं स्वच्छाशयत्वं तेन यद् बन्धकं चरित्रबन्धकं । तेनाधिनाधिकेन न्यूनेन वा यद् द्रव्यम् आत्मसात्कृतं पराधीनं वा कृतं तच् चरित्रबन्धककृतम् । तत् सवृद्धिकम् एव दापयेत् । [२४२] अथ वा चरित्रम् अग्निहोत्रादिजनितम् अपूर्वम् । तद् एव बन्धकं चरित्रबन्धकम् । तेन यद् द्रव्यम् आत्मसात्कृतं तद् एव द्विगुणीभूतम् एव दतव्यम् । नाधिनास इति । न तु धनद्वैगुण्ये ऽप्य् आधिनाशः । सत्यस्य कारः सत्यंकारः तेन कृतं सत्यंकारकृतं तद् अपि द्विगुणम् एव देयम् नाधिनाशः । अयम् अभिप्रायः – बन्धकार्यतासमय (-कार्पणसमय ?) एव मया द्विगुणम् एव द्रव्यं दातव्यम्, नाधिनाश इति समये कृते द्विगुणीभूतं द्रव्यम् एव दातव्यं नाधिनाश इति । क्रयविक्रयादिव्यवस्थानिर्वाहाय यद् अङ्गुलीयकादि परहस्ते समर्पितं तत् सत्यंकारकृतम् । तत्राङ्गुलीयकादिग्रहीता व्यवस्थाम् अतिक्रामन् तद् एवाङ्गुलीयकादि द्विगुणं प्रतिदापयेत् । इतरश् चेद् अङ्गुलीयकादिकम् एव दद्यात् । अन्वाधौ नियमम् आह प्रजाप्तिः ।
धनी धनेन तेनैव परम् आधिं नयेद् यदि ।
कृत्वा तद् आधिलिखितं पूर्वं चास्य समर्पयेत् ॥ इति ।
यद् बन्धस्वामिनि धनं प्रयुक्तं तत् तुल्येनैव धनेन परं धनिकान्तरम् आधिं नयेत् । न त्व् अधिकेन । अयं चान्वाधिर् धनस्य [२४३] द्विगुण्ये सति । संप्रतिपत्तौ तु द्वैगुण्याद् अर्वाग् अपि द्रष्टव्यः ।
**अथाधिमोचनम् **
तत्र बृहस्पतिः ।
धनं मूलीकृतं दत्वा यद् आधिं प्रार्थयेद् ऋणी ।
तदैव तस्य मोक्तव्यस् त्व् अन्यथा दोषभाग् धनी ॥ इति ।
मूलीकृतम् अध्मर्णेन देयं धनम् । तच् च भोग्याधौ मूलमात्रम् । गोप्याधौ तु सवृद्धिकं तद् दत्वा ऋणी आधिं प्रार्थयते तदा धनिना स मोक्तव्यः । अन्यथा दोषभाक् स्तेयदोषभाग् भवेद् इत्य् अर्थः । तद् आह याज्ञवल्क्यः ।
उपस्थितस्य मोक्तव्य आधिस्तेनो ऽन्यथा भवेत् ।
प्रयोजके ऽसति धनं कुले न्यस्याधिम् आप्नुयात् ॥ इति । (य्ध् २।६२)
धनप्रयोक्तरि असन्निहिते सति तदा आप्तहस्ते सवृद्धिकं धनं निवेद्य स्वकीयम् आधिं गृह्णीयत् । भोग्याधिस् तु मूलमत्रं दत्वा फलकालान्ते मोक्तव्य इत्य् आह व्यासः ।
फलभोग्यं पूर्णकालं दत्वा द्रव्यं तु सामकम् । इति ।
समम् एव सामकम् । मूलमात्रं दत्वा ऋणी बन्धम् आप्नुयाद् इति । आधिनाशनबन्धद्वैगुणादिकाद् अर्वाग् एवाधिर् मोक्तव्यः । तथा च स एव ।
२४४] अतो ऽन्तरा धनं दत्वा ऋणी बन्धम् अवाप्नुयात् । इति ।
यत् तु तेनैवोक्तम्,
गोप्याधिं द्विगुणाद् ऊर्ध्वं मोचयेद् अधमर्णिके ।
इति, तद् द्वैगुण्याद् ऊर्ध्वम् अर्वाग् द्विसप्ताहान् मोचयेद् इत्य् एवंपरम् । अन्यथा “आधिः प्रणश्येद् द्विगुणे धने” (य्ध् २।६४) इति याज्ञवल्क्यवचनविरोधापत्तेः । यदि प्रयोक्तर्य् असंनिहिते तत्कुले न धनगृहितरः सन्ति, यदि वा आधिविक्रयेण च धनदित्साधमर्णस्य तत्र यत् कर्तव्यम् तद् आह याज्ञवल्क्यः ।
तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः । इति । (य्ध् २।६३)
ऋणदानेच्छाकाले यत् तस्याधेर् मूल्यं तत् परिकल्प्य तत्रैव धनिनि तम् आधिं वृद्धिरहितं स्थापयेत् । तदूर्ध्वं धनं न वर्धत इति । भोग्याधिविषये क्वचिद् विशेषम् आह बृहस्पतिः ।
क्षेत्रादिकं यदा भुक्तम् उत्पन्नम् अधिकं ततः ।
मूलोदयं प्रविष्टं चेत् तद् आधिं प्राप्नुयाद् ऋणी ॥
परिभाष्य यदा क्षेत्रं दद्यात् तु धनिने ऋणी ।
तदा तच्छान्तलाभे ऽर्थे मोक्तव्यम् इति निश्चयः ॥
आधिस् तु सोदये द्रव्ये प्रदातव्यं त्वया मम ।
[२४५] इति । ऋणग्रहणकाले धनद्वैगुण्यानन्तरं भोगे तत्प्रदिष्टे सोदये द्रव्ये त्वयैतन् मोक्तव्यम् इत्य् एवं परिभाष्य यदा क्षेत्रादिप्रवेशे क्रमम् आदध्यात् तदा भोगेन क्षेत्रार्थव्ययसहितसवृद्धिकधने सति आधिं मुञ्चेद् उत्तमर्ण इत्य् अर्थः । याज्ञवल्क्यो ऽपि ।
यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।
मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ इति । (य्ध् २।६४)
अयम् एव क्षयाधिर् उच्यते लौकिकैः । यत्र तु वृद्ध्यर्थ एव भोग इति परिभाषा तत्र तद्भोगेनाधिकधनप्रवेशे यावन् मूल्यदानं तावद् आधिर् न मोक्तव्यः । यत्र वृद्धेर् अप्य् अपर्याप्तो भोगः तत्र द्रव्यमूलदानेनापि नातिक्रामति भोग इत्य् आह बृहस्पतिः ।
यत्राधिकं गृहक्षेत्रं भोगेन प्रकर्षान्वितम् ।
तत्रर्णी चाप्नुयाद् बन्धं धनी चैव ऋणं तथा ॥
[२४६] पूर्णे प्रकर्षे तत्साम्यम् उभयोः परिकीर्तितम् ।
अपूर्णे तु प्रकुर्यातां परस्परमतेन तौ ॥ इति ।
क्षेत्रार्थाद् अधिको भोगः प्रकर्षशब्दवाच्यः । तस्मिन् समग्रवृद्धिपर्याप्ते धनिनि प्रविष्टे सति मूलमात्रं दत्वाधर्मर्णो बन्धम् आप्नोति । धनी च ऋणं मूलमात्रम् एव गृह्णीयात् । किं तु पूर्णे प्रकर्षे समग्रवृद्धिपर्याप्ते धने प्रविष्टे सति धनिने मूलमात्रम् देयम् । ऋणिनो बन्धलाभ इति । एतच् च परस्परानुमत्यभावे । परस्परानुमतौ तु वृद्धिपर्याप्तभोगे ऽपि मूलमात्रदानेनैवाधिलाभ इत्य् अर्थः । परिभाषितकालैकदेशेनैव समग्रवृद्धिपर्याप्तपर्कर्षप्रवेशे स एवाह ।
यदि प्रकर्षितं तत् स्यात् तदा न धनभाग् धनी ।
ऋणी न लभते बन्धं परस्परमतं विना ॥ इति ।
इत्य् आधिविधिः
अथ प्रतिभूः
तत्र बृहस्पतिः ।
दर्शने प्रयये दाने ऋणिद्रव्यार्पणे तथा ।
चतुःप्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥
आहैको दर्शयामीति साधुर् इत्य् अपरो ऽब्रवीत् ।
दाताहम् एतद् द्रविणम् अर्पयामीति चापरः ॥
[२४७] इति । अहम् एनं पलायनप्रवृत्तं तव दर्शयिष्यामीति प्रातिभाव्यं भजन्न् आह । अपरः प्रत्ययप्रतिभूः एष साधुर् वञ्चको मम प्रत्ययनेनास्य धनं प्रयच्छेति ब्रूते । दानप्रतिभूर् अपरः यद्य् अयं न ददाति द्रविणं गृहीतं सवृद्धिकं तर्ह्य् अहम् एव दास्यामीति वदति । अपरो ऋणिद्रव्यार्पणप्रतिभूः यदायं गृहीतं न ददाति तदाहम् एतदीयं धनम् अर्पयामीति ब्रवीतीति चतुर्णां प्रतिभुवां भेदः । दर्शनप्रतिभुवः कृत्यम् आह स एव ।
दर्शनप्रतिभूर् यस् तु देशे काले च दर्शयेत् ।
निबन्धं वावहेत् तत्र दैवराजकृताद् ऋते ॥ इति ।
निबन्धं देयं द्रव्यम् । आवहेद् धनिने प्रापयेत् । यस् तु न दर्शयति तं प्रत्य् आह मनुः ।
यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।
अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥ इति । (म्ध् ८।१५८)
दर्शनाय कालं दद्याद् इत्य् आह बृहस्पतिः ।
नष्टस्यान्वेषणे कालं दद्यात् प्रतिभुवे धनी ।
देशानुरूपतः पक्षं मासं सार्धम् अथापि वा ॥ इति ।
कात्यायनो ऽपि ।
[२४८] नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥
काले प्रतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।
स तम् अर्थं प्रदाप्यः स्यात् प्रेते चैवं विधीयते ॥ इति ।
दानप्रत्ययप्रतिभुवोः कृत्यम् आह नारदः ।
ऋणिष्व् अप्रतिकुर्वत्सु प्रत्यये वाथ हापिते ।
प्रतिभूस् तु ऋणं दद्याद् अनुपस्थापयंस् तदा ॥ इति ।
अप्रतिकुर्वत्सु वञ्चनया दारिद्र्येण वा ऋणम् अददत्सु प्रत्यये हापिते विश्वासे ऽपगते । धनार्पणप्रतिभुवः कृत्यम् आह स एव ।
विश्वासार्थं कृतस् त्व् आधिर् न प्राप्तो धनिना यदा ।
प्रापणीयस् तदा तेन देयं वा धनिने धनम् ॥ इति ।
आधिप्रत्यर्पणप्रतिभुवं प्रत्य् आह स एव ।
खादको वित्तहीनश् च लग्नको वित्तवान् यदि ।
मूल्यं तस्य भवेद् देयं न वृद्धिं दातुम् अर्हति ॥ इति ।
खादको बन्धकभक्षकः । लग्नकः प्रतिभूः । स तु वृद्धिं दातुं नार्हतीति । खादको दापयेत् । [२४९] “मूल्येन तोषयेद् एनम्” (म्ध् ८।१४४) इति वचनान् मूलमात्रम् एव देयम् । एवम् इतरेषां प्रतिभुवाम् अपि देयद्रव्यविषये द्रष्टव्यम् । प्रतिभूग्रहणनिमित्तानि दर्शयति हारीतः ।
अभक्षणे प्रत्यये दाने उपस्थाने ऽपि दर्शने ।
पञ्चस्व् एषु प्रकारेषु ग्राह्यो ऽपि प्रतिभूर् बुधैः ॥ इति ।
कात्यायनो ऽपि ।
दानोपस्थानवादेषु विश्वासशपथाय च ।
लग्नकं कारयेद् एवं यथायोगविपर्यये ॥ इति ।
उपस्थानं दर्शनम् । व्यासो ऽपि ।
लेख्ये कृते च दिव्ये च दानप्रत्ययदर्शने ।
गृहीतबन्धोपस्थाने ऋणिद्रव्यार्पणे तथा ॥ इति ।
प्रतिभूर् ग्राह्य इति शेषः । गृहीतबन्धोपस्थानं याचितकत्वेन कर्तुर् दर्शनाद्यर्थं वा । प्रतिभूमरणे व्यवस्थाम् आह याज्ञवल्क्यः ।
[२५०] दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय चेत् स्थितः ॥ इति । (य्ध् २।५४)
यदा दर्शनप्रतिभूः प्रात्ययिको वा मृतः तदा तयोः पुत्राः प्रातिभाव्यायातं पितृकृतम् ऋणं दद्युः न पौत्राः । पुत्रैर् अपि मूल्यम् एव देयं न वृद्धिर् देया । तथा च व्यासः ।
ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः ।
समं दद्यात् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥ इति ।
तत्सुतौ पौत्रप्रपौत्रौ । बृहस्पतिर् अपि ।
आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥ इति ।
आद्यौ दर्शनप्रत्ययप्रतिभुवौ । वितथे अहम् एनं दर्शयिष्यामि । असौ साधुर् इत्य् एवंविधयोर् वाक्ययोर् मिथ्यात्वे राज्ञा दाप्यौ । उत्तरौ दानर्णिद्रव्यार्पणप्रतिभुवौ विसंवादे दार्ढ्यादिना धने ऋणिकेनाप्रतिदत्ते दाप्यौ । तयोर् अभावे तत्सुतौ दाप्यौ । प्रत्ययप्रतिभूवत् प्रमाणप्रतिभूर् एव दाप्यो न तत्पुत्रः । विवादप्रतिभूस् तु साधितं धनं दण्डं वा दाप्यः । तदभावे तत्पुत्रो ऽपीत्य् आह व्यासः ।
[२५१] विप्रत्यये लेख्यदिव्यदर्शने वाकृते सति ।
ऋणं दाप्याः प्रतिभुवः पुत्रं तेषां न दापयेत् ॥
दानवादप्रतिभुवौ दाप्यौ तत्पुत्रकौ तथा ॥ इति ।
यत्र दर्शणप्रत्ययप्रतिभुवौ बन्धकं गृहीत्वा प्रातिभाव्यम् अङ्गीकृतवन्तौ तत्र विशेषम् आह कात्यायनः ।
गृहीत्वा बन्धकं यत्र दर्शने ऽस्य स्थितो भवेत् ।
विना पित्रा धनं तस्माद् दाप्यः स्यात् तद् ऋणं सुतः ॥ इति ।
अनेकप्रतिभूदानप्रकारम् आह याज्ञवल्क्यः ।
बहवस् तु यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।
एकछायाश्रितेष्व् एवं धनिकस्य यथा तथा ॥ इति । (य्ध् २।५५)
एकछायानाश्रिताः प्रतिभुवः ऋणं विभज्य स्वांशेन दद्युः । एकछायाश्रितेषु तु यं धनिकः प्रार्थयति स एव कृत्स्नं दद्यात्, नांशतः । एकछायाश्रितेषु यदि कश्चिद् देशान्तरं गतः तदा तत्पुत्रो ऽपि दद्यात् । मृते तु पितरि पुत्रः पित्रंशम् एव दद्यात्, न कृत्स्नम् । तथा च कात्यायनः ।
[२५२] एकछायां प्रविष्टानां दाप्यो यस् तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ॥ इति ।
प्रातिभाव्यापलापे दण्डम् आह पितामहः ।
यो यस्य प्रतिभूर् भूत्वा मिथ्या चैव तु गच्छति ।
धनिकस्य धनं दाप्यो राज्ञा दण्डेन तत्समम् ॥
कुर्याच् च प्रतिभूर् वादं ऋणिकार्थे ऽर्थिना सह ।
सोपसर्गस् तदा दण्ड्यो विवादाद् द्विगुणं दमम् ॥ इति ।
अथ प्रतिभूदत्तप्रतिक्रियाविधिः
तत्र याज्ञवल्क्यः ।
प्रतिभूर् दापितो यत्र प्रकाशं धनिने धनम् ।
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥ इति । (य्ध् २।५६)
धनिकेन पीडितः सन् प्रतिभूस् तत्सुतो वा जनसमक्षं राज्ञा यद् धनं दापितः तद्द्विगुणम् ऋणिकः प्रतिभुवे दद्यात् । तथा च नारदः ।
यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।
ऋणिकस् तु प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥ इति ।
कदा द्विगुणं दद्याद् इत्य् अपेक्षित आह कात्यायनः ।
[२५३] प्रातिभाव्यं तु यो दद्याद् दण्डितः प्रतिभावितः ।
त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥ इति ।
द्वैगुण्यं हिरण्यविषयम् । पश्वादौ तु विशेषो याज्ञवल्क्येनोक्तः ।
सन्ततिः स्त्रीपशुश्व् एव धान्यं त्रिगुणम् एव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणः स्मृतः ॥ इति । (य्ध् २।५७)
संनिहितम् ऋणिकम् अपृष्ट्वैव प्रतिभुवा दत्ते बृहस्पतिर् आह ।
प्रतिभुवा तु यद् दत्तम् अपृष्टम् ऋणिके धनम् ।
द्विगुणं न प्रतिभुवे प्रदेयम् ऋणिकेन तु ॥ इति ।
प्रातिभाव्ये निषेधम् आह कात्यायनः ।
न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
[२५४] निरुद्धो दण्डितश् चैव शिल्पिनश् चाब्रवीद् भृगुः ॥
देशाचारेण दाप्याः स्युर् दुष्टान् संपीड्य दापयेत् ॥ इति ।
दापने विशेषम् आह कात्यायनः ।
साक्षित्वं प्रातिभाव्यं च संदिग्धश् चैव न क्वचित् ।
नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः ॥
राजकार्यनियुक्ताश् च ये च प्रव्रजिता नराः ।
न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ॥
न विज्ञातो गृहीतव्यः प्रतिभूत्वक्रियां प्रति ॥ इति ।
संदिग्धो ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । याज्ञवल्क्यो ऽपि ।
भ्रातॄणाम् अपि दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ इति । (य्ध् २।५२)
नारदो ऽपि ।
[२५५] साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥ इति ।
अस्वतन्त्रेषु धनप्रयोगनिषेधम् आह कात्यायनः ।
न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत् क्वचिद् उद्धते ।
दानं न लभते यत् तु तेभ्यो दत्तं तु यद् वसु ॥ इति ।
अथ ऋणग्रहणधर्माः
तत्र याज्ञवल्क्यः ।
प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् ।
साध्यमानो नृपं गच्छेद् दण्ड्यो दाप्यश् च तद् धनम् ॥ इति । (य्ध् २।४०)
अस्यार्थः – अधमर्णेनाभ्युपगतं साक्ष्यादिभिर् विभावितं वा धर्मादिभिर् उपायैः साधयन्न् उत्तमर्णो राज्ञा न निवारणीयः । धर्मादीन् उपायान् बृहस्पतिर् आह ।
धर्मोपधिबलात्कारैर् गृहसंरोधनेन च । इति ।
धर्मादीन् स्वयम् एवाह ।
सुहृत्संबन्धिसंदिष्टैः सामोक्त्यानुगमेन च ।
प्रायेण धनिने दाप्यो धर्म एष उदाहृतः ॥
[२५६] छद्मना याचितं चार्थम् अनीय ऋणिकाद् धनी ।
अन्वाहितादि वाहृत्य दाप्यते यत्र सोपधिः ॥
यदा स्वगृहम् आनीय ताडनाद्यैर् उपकर्मैः ।
ऋणिको दाप्यते यत्र बलात्कारः स कीर्तितः ॥
दारपुत्रपशून् बध्वा कृत्वा द्वारोपवेशनम् ।
यत्रर्णी दाप्यते ऽर्थं स्वं तद् आचरितम् उच्यते ॥ इति ।
मनुर् अपि धर्मादीन् उपायान् दर्शयति ।
धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ इति । (म्ध् ८।४९)
धर्मादयश् चोपायाः पुरुषापेक्षया प्रयोक्तव्याः । तद् आह कात्यायनः ।
राजा तु स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥
वणिजः कर्षकाश् चापि शिल्पिनश् चाब्रवीद् भृगुः ।
देशाचारेण दाप्याः स्युर् दुष्टान् संपीड्य दापयेत् ॥ इति ।
दापने विशेषम् आह याज्ञवल्क्यः ।
गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः ।
दत्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥ (य्ध् २।४१)
[२५७] इति । समानजातीयेषु धनिषु युगपत् प्राप्तेषु गृहीतानुक्रमाद् धनं दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण । साधयितुम् अशक्तं धनिनं प्रत्य् आह याज्ञवल्क्यः ।
राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् ।
पञ्चकं तु शतं दाप्यः प्राप्तार्थो ऽप्य् उत्तमर्णकः ॥ इति । (य्ध् २।४२)
प्रतिपन्नस्यार्थस्य राजा दशमम् अंशम् अधर्णकाद् दण्डरूपेण गृह्णीयात् । उत्तमर्णाद् विंशतितमं भागं वृत्त्यर्थं गृह्णीयद् इत्य् अर्थः । अधनिकऋणदानप्रकारम् आह याज्ञवल्क्यः ।
हीनजातिं परिक्षीणम् ऋणार्थे कर्म कारयेत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥ इति । (य्ध् २।४३)
अत्र ब्राह्मणग्रहणम् उत्कृष्टजात्युपलक्षणार्थम् । तथा च मनुः ।
कर्मणापि समं कुर्याद् धनिकं वाधमर्णिकः ।
समोपकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच् छनैः ॥ इति । (म्ध् ८।१७७)
नारदो ऽपि ।
[२५८] अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् ।
शक्त्यपेक्षम् ऋणं दाप्यः काले काले यथोदयम् ॥ इति ।
दुष्टाधमर्णिकं प्रत्य् आह मनुः ।
ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।
राज्ञा दापयितव्यः स्याद् गृहीत्वा द्विगुणं दमम् ॥ इति ।
संदिघे ऽर्थे धनग्रहणं कुर्वतो ऽर्थहानिर् दण्डश् चेत्य् आह बृहस्पतिः ।
अनावेद्य तु राज्ञे यः संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चाप्य् अर्थो न सिध्यति ॥ इति ।
कात्यायनो ऽपि ।
पीडयेत् तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥ इति ।
यस् त्व् अधमर्णस् तूत्तमर्णसकाशाद् व्यवहारार्थं धनं गृहीतवान् स तस्यैव ऋणं दद्यात्, नान्येषाम् । तद् आह कात्यायनः ।
[२५९] यस्य द्रव्येण यत् पण्यं साधितं यो विभावयेत् ।
तद् द्रव्यम् ऋणिकेनैव दातव्यं तस्य नान्यथा ॥ इति ।
निर्धनाधमर्णविषये ऋणप्रतिदानप्रकारम् आह भारद्वाजः ।
ऋणिकस्य धनाभावे देयो ऽन्यो ऽर्थस् तु तत्क्रमात् ।
धान्यं हिरण्यं लोहं वा गोमहिष्यादिकं तथा ॥
वस्त्रं भूर् दासवर्गं च वाहनादि यथाक्रमम् ।
धनिकस्य तु विक्रीय प्रदेयम् अनुपूर्वशः ॥
क्षेत्राभावे तथारामस् तस्याभावे गृहक्रयः ।
द्विजातीनां गृहाभावे कालहारो विधीयते ॥ इति ।
मनुर् अपि ।
ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् ।
स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ इति । (म्ध् ८।१५४)
अयम् अर्थः – प्रतिदानकाले धनासंपत्तिवशात् सवृद्धिकमूलदानाशक्तो ऽधर्मर्णः ऋणस्य चिरन्तनत्वं परिहरतो धनिकस्य समानार्थक्रियां लेख्यादिरूपां पुनः कर्तुम् इच्छेत् स निष्पन्नां वृद्धिं दत्वा करणं परिवर्तयेत् । पुनर् लेख्यादिक्रियां **[२६०] **वर्तमानवत्सरादिचिह्नितां कुर्याद् इति । यः पूर्वनिर्जितां वृद्धिं दातुम् असमर्थः स तु तां मूलत्वेनारोपयेत् । तद् आह स एव ।
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥ इति । (म्ध् ८।१५५)
समग्रं हिरण्यम् अदर्शयित्वा निर्मितां वृद्धिम् अदत्वा तत्रैव लेख्ये परिवर्तयेत् ।
यस् तु ऋणप्रतिदानकाले सवृद्धिकं समग्रं मूलं न दातुं शक्नोति तं प्रत्य् आह याज्ञवल्क्यः ।
लेख्यस्य पृष्ठे ऽभिलिखेद् दत्वा दत्वर्णिको धनम् । इति । (य्ध् २।९३)
लेख्यासंनिधाने विष्णुः- “असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात्” इति (विध् ६।२६) । नारदो ऽपि ।
[२६१] गृहीत्वोपगतं दद्याद् ऋणिकाक्षे धनं धनी ।
अददद् याच्यमानस् तु दोषहानिम् अवाप्नुयात् ॥ इति ।
धनप्रवेशम् आरभ्य यावल् लेखनं लेख्यदानं वा न करोति तावन् नाधमर्णात् वृद्धिम् आप्नुयात् । तथा च नारदः ।
यदि वा नोपरि लिखेद् ऋणिना चोदितो ऽपि सन् ।
धनिकस्यैव वर्धेत तथैव ऋणिकस्य तत् ॥ इति ।
यस् तु ऋणापाकरणं न करोति तस्य प्रत्यवायः नारदेन दर्शितः ।
तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
तपश् चैवाग्निहोत्रं च सर्वं तद् धनिने भवेत् ॥ इति ।
कात्यायनो ऽपि ।
उद्धारादिकम् आदाय स्वामिने न ददाति यः ।
स तस्य दासो भृत्यः स्त्री पशुर् वा जायते गृहे ॥ इति ।
उद्धारादिकं दातुः यद् देयतया स्थितम् । नारदो ऽपि ।
[२६२] याच्यमानं न दद्याद् यद् ऋणं वाधिं प्रतिग्रहम् ।
तद् द्रव्यं वर्धते तावद् यावत् कोटिशतं भवेत् ॥
ततः कोटिशते पूर्णे वेष्टितस् तेन कर्मणा ।
अश्वः खरो वृषो दासो भवेज् जन्मनि जन्मनि ॥ इति ।
प्रतिदातुः कर्तव्यम् आह याज्ञवल्क्यः ।
दत्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् ।
साक्षिणं ख्यापयेद् यद् वा दातव्यं वा ससाक्षिकम् ॥ इति । (य्ध् २।९४)
ससाक्षिकम् ऋणं पूर्वसाक्षिसमक्षम् एव दातव्यम् । पूर्वसाक्षिणाम् असंभवे साक्ष्यन्तरसमक्षम् एव दातव्यम् इति । नारदो ऽपि ।
लेख्यं दत्वा ऋणी शुद्ध्येत् तदभावे प्रतिश्वरम् ।
धनिकर्णिकयोर् एवं विशुद्धिः स्यात् प्रतिश्रवम् ॥ इति ।
ऋणप्रतिदातॄन् आह बृहस्पतिः ।
याचमानाय दातव्यम् अल्पकालम् ऋणं कृतम् ।
पूर्णे ऽवधौ शान्तलाभम् अभावे च पितुः सुतैः ॥
[२६३] इति । अल्पकालम् अदीर्घकालम् ऋणं याच्ञासमन्तरम् एव देयम् । सावधित्वेन कृतं तु पूर्णे त्व् अवधौ शान्तलाभं लभेत् । शान्त्यनन्तरं ऋणग्रस्तस्य पितुर् अभावे पितृकृतम् ऋणं सुतैर् अवश्यं दातव्यम् । आवश्यकं दातव्यम् इत्य् अत्र हेतुम् आह नारदः ।
इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् यतस् ततः ।
उत्तमर्णाधमर्णाभ्यां माम् अयं मोचयिष्यति ॥
अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो यथा न नरकं व्रजेत् ॥ इति ।
उत्तमम् ऋणम् “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवान् जायते” इत्यादिश्रुतिप्रतिपादितम् । अधमम् ऋणं परहस्तात् कुसीदविधिना गृहीतम् । कात्यायनो ऽपि ।
पितॄणां सूनुभिर् जातैर् दानेनैवाधमाद् ऋणात् ।
विमोक्षस् तु यतस् तस्माद् इच्छन्ति पितरः सुतान् ॥ इति ।
जातेनेत्य् अभिधानान् न जातमात्रस्य ऋणमोचने ऽधिकारः । किं तु प्राप्तव्यवहारस्येत्य् आह स एव ।
न प्राप्तव्यवहारस् तु पितर्य् उपरते क्वचित् ।
काले तु विधिना देयं वसेयुर् नरके ऽन्यथा ॥ इति ।
क्वचिद् विद्यमाने ऽपि पितरि सुतैर् देयम् इत्य् आह स एव ।
[२६४] विद्यमाने ऽपि रोगार्ते स्वदेशात् प्रोषिते तथा ।
विंशात् संवत्सराद् देयम् ऋणं पितृकृतं सुतैः ॥ इति ।
बृहस्पतिर् अपि ।
सांनिध्ये ऽपि पितुः पुत्रैर् ऋणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्तक्षयश्वित्रादिरोगिणः ॥ इति ।
ऋणादाने ऽधिकारिणं पुत्रं दर्शयति कात्यायनः ।
ऋणं तु दापयेत् पुत्रं यदि स्यान् निरुपद्रवः ।
द्रविणार्हश् च धुर्यश् च नान्यथा दापयेत् सुतम् ॥ इति ।
नारदो ऽपि ।
पितर्य् उपरते पुत्राः ऋणं दद्युर् यथांशतः ।
विभक्ता ह्य् अविभक्ता वा यो वा ताम् उद्वहेद् धुरम् ॥ इति ।
विभागोत्तरकालं पित्रा यद् ऋणं कृतं तत् केन देयम् इत्य् अपेक्षित आह कात्यायनः ।
पित्र्यर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद् धनिके द्रव्यं मृते गृह्णंस् तु दाप्यते ॥ इति ।
पित्रादिकृतर्णसमवाये दानक्रमम् आह बृहस्पतिः ।
पित्र्यम् एवाग्रतो देयं पश्चाद् आत्मीयम् एव च ।
तयोः पैतामहं पूर्वं देयम् एतद् ऋणं सदा ॥ इति ।
पैतामहं ऋणं समम् एव देयम् । तथा च स एव । ऋणम् आत्मीयवत् पित्र्यं देयं विभावितम् । पैतामहं समम् देयम् अदेयं । तथा च स एव ।
[२६५] ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।
पैतामहं समं देयम् अदेयं तत्सुतस्य तु ॥ इति ।
तत्सुतस्यागृहीतधनप्रपौत्रस्य । एतद् एवाभिप्रेत्याह नारदः ।
क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यद् ऋणम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ इति ।
कात्यायनो ऽपि ।
पुत्राभावे तु दातव्यम् ऋणं पौत्रेण यत्नतः ।
चतुर्थेन न दातव्यं तस्मात् तद् विनिवर्तते ॥ इति ।
देयम् ऋणम् अनेन देयम् एतस्मिन् काले देयम् इत्य् एतत् त्रितयं याज्ञवल्क्यो ऽप्य् आह ।
पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा ।
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ इति । (य्ध् २।५०)
अदेयम् ऋणम् आह बृहस्पतिः ।
सौराक्षिकं वृथा दानं कामकोर्धप्रतिश्रुतम् ।
प्रातिभाव्यं दण्डशुल्कशेषं पुत्रं न दापयेत् ॥
]२६६] इति । सुरापानार्थं यत् कृतं तत् सौरम् । द्यूतपराजयनिमित्तकम् आक्षिकम् । वृथा दानं धूर्तादिभ्यो दत्तम् । कामक्रोधप्रतिश्रुतयोः स्वरूपं कात्यायनेन दर्शितम् ।
लिखितं मुक्तकं वापि देयं यत् तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै दत्तं विद्यात् कामकृतम् ऋणम् ॥
यत्र हिंसा समुत्पाद्य क्रोधात् द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं तत् तु विद्यात् क्रोधकृतं च तत् ॥ इति ।
मुक्तकं लेखनरहितं । प्रातिभाव्यं दर्शनप्रातिभाव्यागतम् । तथा च मनुः ।
प्रातिभाव्यं वृथा दानम् आक्षिकं सौरिकं तथा ।
दण्डशुल्कावशिष्टं च न पुत्रो दातुम् अर्हति ॥
दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः ॥ इति । (म्ध् ८।१५९–६०)
याज्ञवल्क्यो ऽपि ।
[२६७] सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथा दानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥ इति । (य्ध् २।४७)
उशना अपि ।
दण्डं वा दण्डशेषं वा शुल्कं तच्छेषम् एव वा ।
न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥ इति ।
कुटुम्बार्थे पितृव्यादिना कृतम् ऋणं गृही दद्याद् इत्य् आह बृहस्पतिः ।
पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः ।
यद् गृहीतं कुट्म्बार्थे तद् गृही दातुम् अर्हति ॥ इति ।
नारदो ऽपि ।
शिष्यान्तेवासिदासस्त्रीप्रेष्यकृत्यकरैश् च यत् ।
कुटुम्बहेतोर् उत्क्षिप्तं दातव्यं तत्कुटुम्बिना ॥ इति ।
शिष्यो ऽत्र विध्यार्थी । शिल्पशास्त्रार्थी अन्तेवासी । उत्क्षिप्तम् असंनिधानादिना स्वाम्यनुज्ञातं विनापि क्टम् ऋणम् । कात्यायनो ऽपि ।
[२६८] प्रोषितस्यामतेनापि कुटुम्बार्थम् ऋणं कृतम् ।
दासस्त्रीभ्रातृशिष्यैर् वा दद्यात् पुत्रेण वा पिता ॥ इति ।
कुटुम्बार्थव्यतिरिक्तऋणविषये याज्ञवल्क्यः ।
न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्वीकृतं तथा ॥ इति । (य्ध् २।४६)
“न पुत्रेण कृतं पिता” इत्य् अस्य क्वचिद् अपवादम् आह बृहस्पतिः ।
ऋणं पुत्रकृतं पित्रा शोध्यं यद् अनुमोदितम् ।
सुतस्नेहेन वा दद्यान् नान्यथा दातुम् अर्हति ॥ इति ।
नारदो ऽपि ।
[२६९] पितुर् एव नियोगाद् वा कुटुम्बभरणाय वा ।
कृतं तु यद् ऋणं कृच्छ्रे दद्यात् पुत्रस्य तत् पिता ॥ इति ।
अत्र पुत्रग्रहणं कुटुम्बोपलक्षणार्थम् । पितृग्रहणं च प्रभोर् उपलक्षणार्थम् । तथा च कात्यायनः ।
कुटुम्बार्थम् अशक्ते तु गृहीते व्याधिना तथा ।
उपप्लवनिमित्तं च विद्याद् आपत्कृतं तु तत् ॥
कन्यावैवाहिकं चैव प्रतेकार्येषु यत् कृतम् ।
एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥ इति ।
“न पतिः स्त्रीकृतं तथ्” (य्ध् २।४६) इत्य् अस्यापवादम् आह याज्ञवल्क्यः ।
गोपशौण्डिकशौलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥ (य्ध् २।४८)
[२७०] इति । योषित् पत्या कृतम् ऋणं न दद्याद् इत्य् अस्यापवादम् आह नारदः ।
दद्याद् अपुत्रा विधवा नियुक्ता वा मुमूर्षुणा ।
या सा तद्रिक्थम् आदद्याद् यतो रिक्थम् ऋणं ततः ॥ इति ।
याज्ञवल्क्यो ऽपि ।
प्रतिपन्नं स्त्रिया दयं पत्या वा सह यत् कृतम् ।
स्वयं कृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अर्हति ॥ इति । (य्ध् २।४९)
अप्रतिपन्नम् अपि तद्रिक्थग्रहणे स्त्रिया देयम् इत्य् आह कात्यायनः ।
मर्तुकामेन या भर्त्रा उक्ता देयम् ऋणं तथा ।
अप्रतिपन्नापि सा दाप्या धनं दद्यात् सुतो यथा ॥ इति ।
अविभक्तभ्रात्रादिविषये याज्ञवल्क्यः ।
अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।
दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ (य्ध् २।४५)
[२७१] इति । अविभक्तैः कुटुम्बार्थे कृतम् ऋणं कुटुम्बी दद्यात् । तस्मिन् प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः । नारदो ऽपि ।
पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् ।
मात्रा वा यत् कुटुम्बार्थे दद्युस् तत् सर्वरिक्थिनः ॥ इति ।
अनेकऋणदातृसमवाये याज्ञवल्क्यः ।
रिक्थग्राह ऋणं दाप्यो योष्द्ग्राहस् तथैव च ।
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ इति । (य्ध् २।५१)
यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम् ऋणं दाप्यः । तदभावे यस् तु रागादिवशात् यदीयां भार्यां गृह्नाति स तत्कृतं ऋणं दाप्यः । तदभावे ऽनन्याश्रितद्रव्यः पुत्रो ऋणं दाप्यः । पुत्रहीनस्य रिक्थिन ऋणं दाप्यः । एतेषां समवाये पाठक्रमाद् एव दाप्याः ।
नन्व् एतेषां समवाय एवानुपपन्नः, पुत्रे सत्य् अन्यस्य रिक्थग्राहित्वासंभवात् । न च पुत्रे सत्य् अपि पितृभ्रात्रो रिक्थहारित्वम् इति वाच्यम्,
[२७२] न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव च ॥ (म्स्ह् ८।१८५)
इति मनुना पुत्राभाव एव द्वयो रिक्थग्राहित्वस्य स्मृतत्वात् । योषिद्ग्राहो ऽपि न संभवति,
न द्वितीयश् साध्वीनां क्वचिद् भर्तोपदिश्यते । (म्ध् ५।१६५)
इति तेनैवोक्तत्वात् । “पुत्रो ऽनन्याश्रितद्रव्यः” इत्य् एतद् अप्य् अनर्थकम्, [२७३] “रिक्थग्राही ऋणं दाप्यः” इत्य् अनेनैकार्थत्वात् । “पुत्रो ऽनन्याश्रितद्रव्यः” इत्य् एतद् अप्य् अनर्थकम्, [२७३] “रिक्थग्राही ऋणं दाप्यः” इत्य् अनेनैकार्थत्वात् । “पुत्रहीनस्य रिक्थिनः” इत्य् एतद् अपि व्यर्थम्, सत्य् अपि पुत्रे रिक्थग्राहिण एव ऋणापाकरणाधिकारित्वस्य “रिक्थग्राही ऋणं दाप्यः” इत्य् उक्तत्वाद् इति ।
तद् एतद् असंगतम्, सत्स्व् अपि क्लीबादिषु पुत्रेष्व् अन्यायवर्तिषु वा सवर्णापुत्रेषु पितृव्यादीनां रक्थग्राहित्वसंभवात् । क्लीबादीनां रिक्थग्राहित्वाभावं मनुर् आह ।
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ इति । (म्ध् ९।२०१)
सवर्णापुत्रस्यान्यायवृत्तस्य रिक्थायोग्यत्वं गौतम आह- “तथा सवर्णापुत्रो ऽप्य् अन्यायवृत्तो न लभेतैकेषाम्” (ग्ध् २९।१८) [२७४] इति । अतः पुत्रे सत्य् अपि रिक्थग्राह्य् अन्यः संभवति । योषिद्ग्राही कीदृश ऋणं दद्याद् इत्य् अपेक्षिते नारदः ।
परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी च चतुर्विधा ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥
देशधर्मान् अवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥
असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥
स्त्री प्रसूताप्रसूता वा पत्याव् एव तु जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥
कौमारं पतिम् उत्सृज्य या त्व् अन्यं पुरुषं श्रिता ।
पुनः पत्युर् गृहं यायात् सा द्वितीया प्रकीर्तिता ॥
मृते भर्तरि तु प्राप्तान् देवरादीन् अपास या ।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥
[२७५] प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥
अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद् यस् ते उपाश्रितः ॥ इति ।
यत् तु तेनैवोक्तम्,
या तु सप्रधनैव स्त्री सापत्या वान्यम् आश्रयेत् ।
सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥
इति, तत् आश्रितभर्त्रादिविषयम् । अत एव कात्यायनः ।
बालपुत्राधिकार्या वा भयार्ता यान्यम् आश्रिता ।
आश्रितस् तद् ऋणं दद्याद् बालपुत्रावधिः स्मृतः ॥ इति ।
यद् अपि नारदेनैवोक्तम्,
अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते सैव चास्य धनं स्मृतम् ॥
[२७६] इति, तद् धनभागिपुत्रयोषिद्ग्राहयोर् अभावे यः को ऽपि योषिदुपभोक्ता ऋणं दद्याद् इत्य् एवं प्रतिपादनाय । पुत्रस्य पुनर्वचनं क्रमार्थम् । “अनन्याश्रितद्रव्यः” इत्य् एतद् अप्य् अनर्थकं न भवति, पुत्राणां बहूनां समवाये रिक्थग्रहणयोग्य एव पुत्रो दद्यात्, नायोग्यः षण्डक्लीबादिर् इत्य् एतत्प्रतिपादनार्थत्वात् । “पुत्रहीनस्य रिक्थिनः” इत्य् एतद् अपि न व्यर्थम्, पुत्रपौत्रयोर् अभावे प्रपौत्रो रिक्थग्राही दद्याद् इत्य् एवंप्रतिपादनार्थत्वात् । यद् वा “पुत्रहीनस्य रिक्थिनः” इत्य् अनेन पुत्राभावे योषिद्ग्राहो दाप्य इत्य् उच्यते, रिक्थशब्देन “सैव चास्य धनं स्मृतम्” इति योषितो विवक्षितत्वात् । अयम् अभिप्रायः – स्वैरिणीनाम् अन्तिमायाः पुनर्भुवां प्रथमायाश् च सप्रधनसापत्यस्त्रियाश् च गृहिणः अभावे पुत्रो दाप्यः । पुत्राभावे च निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । अत एव नारदः ।
धनस्त्रीहारिपुराणाम् ऋणभाग् यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्र्हारी धनिपुत्रयोः ॥
[२७७] इति । धनस्त्रीहारिपुत्राणां समवाये धनहारी ऋणं दद्यात् । धनहारिस्त्रीहारिणोर् अभावे पुत्र एव दद्यात् । धनिपुत्रयोर् असतोः स्त्रीहारी दद्याद् इति । अथ वा “पुत्रहीनस्य रिक्थिनः” इत्य् अनेन पुत्रहीनस्योत्तमर्णस्य यो रिक्थी तस्य धनहारी पुत्र ऋणं दाप्य इत्य् उच्यते । तथा च नारदः ।
ब्राह्मणस्य तु यद् देयं सान्वयस्य न चास्ति चेत् ।
निर्वपेत् तत् सकुल्येषु तदभावे ऽस्य बन्धुषु ॥
यदा तु न सकुल्याः स्युर् न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजेभ्यस् तु तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥ इति ॥
इत्य् ऋणादानप्रकरणम्
वोलुमे इइइ पर्त् २
[२७९]
अथ निक्षेपाख्यस्य द्वितीयपदस्य विधिर् उच्यते
तत्र निक्षेपस्य स्वरूपं नारद आह ।
स्वद्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ इति ।
उपनिधिन्यासौ निक्षेपावान्तरविशेषौ । तयोः स्वरूपम् आह बृहस्पतिः ।
अनाख्यातं व्यवहितम् असंख्यातम् अदर्शितम् ।
मुद्राङ्कितं च यद् दत्तं तद् औपनिधिकं स्मृतम् ॥
राजचोरारातिभयाद् अक्षदानां च वञ्चनात् ।
स्थाप्यते ऽन्यगृहे यत् तु स न्यासः परिकीर्तितः ॥ इति ।
नारदो ऽपि ।
असंख्यातम् अविज्ञातं समुद्रं यन् निधीयते ।
तज् जानीयाद् उपनिधिं निक्षेपं गणितं विदुः ॥
[२८०] इति । याज्ञवल्क्यो ऽपि ।
वासनस्थम् अनाख्याय हते ऽन्यस्य समर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ इति । (य्ध् २।६५)
वासनं करण्डादि तत्स्थं द्रव्यं रूपसंख्यदिविशेषम् अकथयित्वा समुद्रम् अन्यहस्ते रक्षणार्थाय स्थाप्यते तद् द्रव्यम् औपनिधिकम् । निक्षेपस्थापनविधिम् आह मनुः ।
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्य् आप्ते निक्षेपं निःक्षिपेद् बुधः ॥ इति । (म्ध् ८।१७९)
बृहस्पतिर् अपि ।
स्थानं गृहं स्थलं चैव तद् ऋणं विविधान् गुणान् ।
सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन् निधिम् ॥ इति ।
तस्य निक्षेपस्य पुनर् द्वैविध्यम् आह नारदः ।
स पुनर् द्विविधः प्रोक्तः साक्षिमान् इतरस् तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥
[२८१] इति । बृहस्पतिर् अपि ।
ससाक्षिकं रहो दत्तं द्विविधं तद् उदाहृतम् ।
पुत्रवत् परिपाल्यं तु विनश्यत्य् अनवेक्षया ॥
स्थापितं येन विधिना येन यच् च विभावितम् ।
तथैव तस्य दातव्यम् अदेयं प्रत्यनन्तरम् ॥ इति ।
स्थापकेतरस्य यस्य स्थापिते द्रव्ये स्वाम्यम् अस्ति स इह प्रत्यन्तर इत्य् उच्यते । मनुर् अपि ।
यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।
स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ॥ इति । (म्ध् ८।१८०)
दायो दानं स्थपनम् इति यावत् । ग्रहो ग्रहणम् । पालयितुः फलम् आह बृहस्पतिः ।
ददतो यद् भवेत् पुण्यं हेमरूप्याम्बरादिकम् ।
तत् स्यात् पालयतो न्यासं तथैव शरणागतम् ॥ इति ।
भक्षकस्य दोषस् तेनैव दर्शितः ।
भर्तृद्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।
दोषो भवेत् तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥ इति ।
दैवाद्युपघाते तु न दोषः स्याद् इत्य् आह बृहस्पतिः ।
द्वैवराजोपघातेन यदि तन्नाशम् आप्नुयात् ।
ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥
[२८२] इति । गर्हीतुर् इति शेषः । राजशब्देनासमाधेयनिमित्तम् उपलक्ष्यते । अत एव कात्यायनः ।
अराजदैविके चापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सहभाण्डेन दातुर् नष्टं तद् उच्यते ॥ इति ।
नारदो ऽपि ।
ग्रहीतुः सह सो ऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन् न चेत् तज् जिह्मकारितम् ॥ इति ।
दैवग्रहणं तस्करोपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।
न दाप्यो ऽपहृतं तं तु राजदैविकतस्करैः । इति । (य्ध् २।६६)
मनुर् अपि ।
चौरैर् हृतं जलेनोढम् अग्निना दग्धम् एव च ।
न दद्याद् यदि तस्मात् स न संहरति किंचन ॥ इति । (म्ध् ८।१८९)
यदि तस्माद् धनात् स्तोकम् अपि स गृह्णाति तदा दद्याद् इत्य् अर्थः । तथा च स एव ।
[२८३] समुद्रे नाप्नुयात् किंचिद् यदि तस्मान् न संहरेत् ॥ इति । (म्ध् ८।१८८)
क्वचिद् येन केनचिद् धेतुना नष्टम् अपि ग्रहीता मूलद्वारेण न दाप्य इत्य् आह कात्यायनः ।
ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्वोपायविनाशे ऽपि ग्रहीता नैव दाप्यते ॥ इति ।
उपेक्षादिना नाशे तु बृहस्पतिर् आह ।
भेदेनोपेक्षया न्यासं गृहीत्वा यदि नाशयेत् ।
न दद्याद् याच्यमानो वा दाप्यः स्यात् सोदयं भवेत् ॥ इति ।
कात्यायनो ऽपि ।
न्यासादिकं परद्रव्यं प्रक्षिप्तं समुपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥ इति ।
अत्र विशेषम् आह व्यासः ।
भक्षिते सोदयं दाप्यः समं दाप्य उपेक्षिते ।
किंचिद् ऊनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥ इति ।
याचनानन्तरम् अदत्तस्य पश्चाद् दैवराजोपघाते स्थापकाय मूल्यमात्रं देयम् । तथा च व्यासः ।
याचनानन्तरं नाशे दैवराजकृते ऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यात् अन्यथा दण्डम् अर्हति ॥
[२८४] इति । मूलमात्रम् इति शेषः । प्रत्यर्पणविलम्बमात्रापराधे सवृद्धिकदापनायोगात् । याचनानन्तरम् अदाने दण्डम् आह नारदः ।
याच्यमानस् तु यो दातुर् निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञो भवति नष्टे दाप्यश् च तत्समम् ॥ इति ।
यः पुनः स्थापकाननुज्ञया निक्षेपम् उपभुङ्क्ते तस्य दण्डम् आह स एव ।
यत्रार्थं साधयेत् तेन निक्षेप्तुर् अननुज्ञया ।
तत्रापि दण्ड्यः स भवेत् तं च सोदयम् आवहेत् ॥ इति ।
याज्ञवल्क्यो ऽपि ।
आजीवन् स्वेच्छया दण्ड्यो दापस् तं चापि सोदयम् ॥ इति । (य्ध् २।६७)
अत्र दण्डो ऽपि सम एव ग्राह्यः । तद् आह मनुः ।
[२८५] निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।
तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥ इति । (म्ध् ८।१९२)
बृहस्पतिर् अपि ।
ग्रहीता निह्नुते यत्र साक्षिभिः शपथेन वा ।
विभाव्य दापयेन् न्यासं तत्समं विनयेन् नृपः ॥ इति ।
स्थापकस्यानृतवादित्वे दण्डम् आह मनुः ।
निक्षेपो यः कृतो येन यामांश् च कुलसंनिधौ ।
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥ इति । (म्ध् ८।१९४)
ससाक्षिकनिक्षेपो साक्षिवचनविरुद्धं वदन् दण्ड्यः । असाक्षिके तु बृहस्पतिर् आह ।
रहो दत्ते निधौ यत्र विसंवादः प्रवर्तते ।
विभावकं तत्र दिव्यम् उभयोर् अपि च स्मृतम् ॥ इति ।
ग्रहीतृस्थापकयोर् अनृतवादित्वे दण्डम् आह मनुः ।
निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च ।
सर्वैर् उपायैर् अन्विच्छेच् छपथैश् चैव वैदिकैः ॥
[२८६] यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते ।
ताव् उभौ चोरवच् छास्यौ दाप्यौ वा तत्समं दमम् ॥ इति । (म्ध् ८।१९०–९१)
निक्षिप्तं द्रव्यम् अकाले ददतो द्विगुणो दण्डः । तद् आह कात्यायनः ।
ग्राह्यस् तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद् दण्डं द्विगुणं च प्रदाप्यते ॥ इति ।
यद् भयाद् उपनिधिर् अन्यस्य हस्ते न्यस्तस् तद् भयातीते काले स ग्राह्यः । तद् भयातीते ऽपि काले स्वयम् एव नार्पणीयः, “सकृद् याचितम् अर्पयेत्” इति बृहस्पतिस्मरणात् । तद् भये वर्तमाने स्वयम् एव दीयमानं कालहीनं तद् दानं दौष्ट्येनैवेति तद् ददतो ऽपि दण्डो युक्तः । यस् तु बलावष्टम्भेन निक्षेपं न ददाति तं राजा निगृह्य दापयेद् इत्य् आह मनुः ।
तेषां न दद्याद् यदि तु तद् धिरण्यं यथाविधि ।
इमं निगृह्य दाप्यः स्याद् इति धर्मस्य धारणा ॥
[२८७] निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
कुर्याद् विनिर्णयं राजा अक्षिण्वन् न्यासधारिणम् ॥ इति । (म्ध् ८।१९६)
अक्षिण्वन् अतादयन् । निक्षेप्तरि मृते प्रत्यनन्तरधने न दोष इत्य् आह नारदः ।
स्वयम् एव तु यो दद्यान् मृतस्य प्रत्यनन्तरे ।
न स राज्ञा नियोक्तव्यो न निक्षेप्तुस् तु बन्धुभिः ॥ इति ।
यदा तु स्वयम् एव न ददाति तदा प्रत्यनन्तरं प्रत्य् आह ।
अच्छलेनैव वान्विष्येत् तम् अर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ इति ।
निक्षेपे ऽभिहितं धर्मं याचितादिष्व् अतिदिशति नारदः ।
एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ इति ।
याज्ञवल्क्यो ऽपि ।
[२८८] याचितान्वाहित्न्यासनिक्षेपादिष्व् अयं विधिः ॥ इति । (य्ध् २।६७)
याचितम् उत्सवादिषु परकीयम् अलंकाराद्यर्थं याचित्वा स्वसमीपम् आनीतम् । अन्वाहितं स्वस्मिन् स्थितं परधनं धनिकान्तरस्थतया कृतम् । न्यासनिक्षेपौ पूर्वम् एवाभिहितौ । बृहस्पतिर् अपि ।
अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।
एष एवोदितो धर्मस् तथा च शरणागते ॥ इति ।
शिल्पिन्यासो नामाङ्गुलीयकादिकरणाय स्वर्णकारादिहस्ते न्यस्तं सुवर्णादिकम् । अनेन याचितस्य शिल्पिहस्तन्यस्तस्य दैवराजोपघातेन विनाशे स्वर्णकारप्रभृतयः तन् न दाप्याः इत्य् उक्तं भवति । अत्रापवादम् आह कात्यायनः ।
यैश् च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।
तदूर्ध्वं स्थापयेच् छिल्पी दाप्यो दैवहते ऽपि तम् ॥ इति ।
नैर्माल्याद्यर्थं रजकादिहस्तन्यस्तवस्तादिविषये ऽप्य् आह स एव ।
न्यासदोषाद् विनाशः स्याच् छिल्पिनं तन् न दापयेत् ।
दापयेच् छिल्पिदोषात् तत् संस्कारार्थं यद् अर्पितम् ॥
[२८९] इति । यत्र तन्त्वादिकं वस्त्रार्थं कुविन्दादौ न्यस्तं खण्डपटादिदशायां नष्टं परिपूर्णदशायां वा कुविन्दादिना दीयमानं स्वामिना न गृहीतं नष्टं च तत्राप्य् आह स एव ।
शिल्पेनापि च यत् कर्म नष्टं यद् भृतकस्य तत् ।
पर्याप्तं दित्सतस् तस्य विनश्येत् तद् अगृह्णतः ॥ इति ।
शिल्पेन प्राच्यवनादिना विकलं नष्टं भृतकस्य शिल्पिन एव तन् नष्टम् । पुनर् वेतनग्रहणम् अन्तरेणैव वानादिक्रियां कुर्यद् इत्य् अर्थः । यदि स्वामी पुनस् तन्त्वादिकं नार्पयति तदा पुनर् वानाद्यभावे ऽपि वेतनं शिल्पिने दत्तं दाता न लभते । पर्याप्तं परिपूर्णं वस्त्रादिकम् अदित्सतो धृतकस्य यः स्वामी तस्य दीयमानम् अगृह्णतस् तत्पर्याप्तं विनश्येत् । याचितक्विषये विशेषस् तेनैवोक्तः ।
यदि तत्कर्यम् आदिश्य कालं परिनियम्य वा ।
याचितो ऽर्धकृते तस्मिन् प्राप्ते च न तु दाप्यते ॥
[२९०] इति । यत् कार्यं दीर्घकालसाध्यं तत् कार्यार्थं यदि याचितः, यदि वा संवत्सरपर्यन्तं दीयताम् इत्य् एवं कालं परिनियम्य याचेत, तच् च कार्यमध्ये प्रिनियतकालस्य मध्ये वा प्रतियाच्यमानो याचितकं न ददाति, असौ न सोदयं दाप्यः । याचितकमात्रम् एवासौ कृते कार्ते परिनियतकालात्यये वा दद्यात् । यदि तदापि न ददाति तदा दैवादितो विनाशे मूल्यं देयम् इत्य् आह स एव ।
प्राप्तकाले कृते कार्ये न दद्याद् याचितो ऽपि सन् ।
तस्मिन् नष्टे मृते वापि ग्रहीता मूल्यम् आवहेत् ॥ इति ।
क्वचिद् अप्राप्ते ऽपि काले याचितकं दाप्य इत्य् आह स एव ।
अथ कार्यविपत्तिस् तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वेस(चैव?)काले तु दाप्यस् त्व् अर्धकृते ऽपि तत् ॥ इति ।
इति निक्षेपप्रकरणम्
अथ अस्वामिव्रिक्रयः
तस्य स्वरूपम् आह नारदः ।
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते ऽसमक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥ इति ।
बृहस्पतिर् अपि ।
[२९१] निक्षेपान्वाहितन्यासहृतयाचितबन्धकम् ।
उपांशुजनविक्रीतम् अस्वामी सो ऽभिधीयते ॥ इति ।
अस्वामिना कृतो व्यवहारो निवर्तते इत्य् आह कात्यायनः ।
अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् । इति ।
नारदो ऽपि ।
अस्वामिना कृतो यस् तु क्रयो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारेषु नित्यशः ॥ इति ।
ततश् चास्वामिविक्रीतं द्रव्यं स्वामी गृह्णीयात् इति । तथा च नारदः ।
द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् । इति ।
तदवाप्तिश् च राज्ञे निवेदयित्वैव, अन्यथा दण्डविधानात् । तथा च याज्ञवल्क्यः ।
हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ (य्ध् २।१७२)
[२९२] इति । यदा पुनः परहस्ताद् अवाप्तुम् असमर्थः स्वामी, तदा त्व् आह स एव ।
नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् ।
देशकालातिपत्तौ वा गृहीत्वा स्वयम् अर्पयेत् ॥ इति । (य्ध् २।१६९)
विनष्टम् अपहृतं वा स्वकीयद्रव्यम् अधिगन्तुर् अपहर्तुर् वा हस्ते दृष्ट्वा अधिगन्तारम् अपहर्तारं राजपुरुषादिभिर् ग्राहयेत् । राजपुरुषाद्यानयनार्थं देशकालातिक्रमश् चेद् भवति तदा स्वयम् एव गृहीत्वा राज्ञे समर्पयेद् इत्य् अर्थः । यदा पुनः क्रयाद् ऊर्द्वम् एव स्वकीयं द्रव्यं क्रेतुर् हस्ते पश्यति तदाप्य् आह स एव ।
स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते ।
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥ इति । (य्ध् २।२६८)
स्वामी स्वसंबन्धि द्रव्यम् अन्यविक्रीतं यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामिविक्रयस्य परस्वत्वहेतुत्वाभावात् । क्रेतुः पुनर् अप्रकाशिते गोपिते क्रये दोषो भवति । हीनाद् द्रव्यागमोपायहीनात्, रह एकान्ते, हीनमूल्ये अल्पतरेण द्रव्येण अधिकमूल्यक्रये च, वेलाहीने रात्र्यादौ कृते क्रये च स चोरो भवति । तस्करवद् दण्ड्यो भवतीत्य् अर्थः । यथोक्तं मनुना ।
[२९३] द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् ।
प्रकाशे क्रयतः सिद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥ इति ।
बृहस्पतिनापि अज्ञानतो ज्ञानतश् च क्रेतुर् निर्दोषता सदोषता च दर्शिता ।
येन क्रीतं तु मूल्येन प्राग् राज्ञे विनिवेदितम् ।
न तत्र विद्यते दोषः स्तेनः स्याद् उपविक्रयात् ॥ इति ।
येन क्रेत्रा हीनमूल्येन क्रयात् प्राग् एव राज्ञे विनिवेदितम् । न तत्र दोषः । उपविक्रयशब्दस्यार्थस् तेनैव दर्शितः ।
अन्तर्गृहे बहिर् ग्रामान् निशायाम् असतो जनात् ।
हीनमूल्यं च यत् क्रीतं ज्ञेयो ऽसाव् उपविक्रयः ॥ इति ।
असतो जनाच् चण्डालादेर् इत्य् अर्थः । असद्ग्रहणं स्वाम्यननुज्ञातदासाद्युपलक्षणार्थम् । अत एव नारदः ।
[२९४] अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ।
हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥ इति ।
तद्दोषभाक् चोरदोषभाग् इत्य् अर्थः । कथं स्वामी विक्रीतद्रव्यविप्रतिपत्तौ प्रमाणेन साधयेद् इत्य् आह कात्यायनः ।
नाष्टिकस् तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् । इति ।
नाष्टिको नष्टधनः । तद्धनं नष्टधनम् । ज्ञातृभिः साक्ष्यादिभिः । स्वकम् आत्मीयं प्रकुर्वीत साधयेद् इत्य् अर्थः । कथं साधयेद् इत्य् अपेक्षिते आह याज्ञवल्क्यः ।
आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।
पञ्चबन्धो दमस् तस्य राज्ञे तेनाविभाविते ॥ इति । (य्ध् २।१७१)
आगमस् तु स्मृत्यन्तराभिहितो द्रष्टव्यः ।
लब्धं दानक्रयप्राप्तं शौर्यं वैवाहिकं तथा ।
[२९५] बान्धवाद् अप्रजाद् यत् तु षड्विधस् तु धनागमः ॥ इति ।
कृतस्वकीयस्य धनस्य स्वकीयत्वानपगतिर् अपि दानप्रभावेन साधनीयेत्य् आह कात्यायनः ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् । इति ।
अथैतत् दत्तं विक्रीतं च न भवतीति प्रमाणैः प्रसाध्य स्वकीयं धनं नाष्टिको विक्रेत्रादेः सकाशाल् लभत इत्य् अर्थः । अत्र विषये विशेषम् आह बृहस्पतिः ।
पूर्वस्वामी तु तद् द्रव्यं यद् आगत्य विचारयेत् ।
तत्र मूलं दर्शनीयं क्रेतुः शुद्धिस् ततो भवेत् ॥ इति ।
मूलं विक्रेता । विक्रेतृदर्शनानन्तरं व्यासः ।
मूले समाहृते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नाष्टिकस्य तदा भवेत् ॥ इति ।
यदा तु मूलत्वेन दर्शितो विक्रेता न किंचिद् उत्तरं ददाति तदा त्व् आह बृहस्पतिः ।
विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।
क्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात् स्वामिने धनम् ॥
[२९६] इति । नारदो ऽपि ।
विक्रेता स्वामिने यत् स्वं क्रेत्रे मूल्यं च यत् कृतम् ।
दद्याद् दण्डं तथा राज्ञे विधिर् अस्वामिविक्रये ॥ इति ।
यदा तु मूलभूतो विक्रेता देशान्तरं गतः तदा कात्यायन आह ।
मूलानयनकालश् च देयो योजनसंख्यया ।
प्रकाशं च क्रयं कुर्यात् साक्षिभिर् ज्ञातिभिः स्वकैः ॥
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ।
प्रसाधिते क्रये राज्ञा वक्तव्यः स न किंचन ॥ इति ।
अयम् अर्थः – यस् तु क्रेता कालविलम्बेनापि मूलं दर्शयितुं न शक्नोति क्रयप्रकाशनं च करोति स नराधमः । न स राज्ञां दण्ड्यः । तस्माच् च नाष्टिको धनं लभत इति । तद् उक्तं मनुना ।
अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितम् ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ (म्ध् ८।२०२)
[२९७] इति । क्रेतुः सकाशाद् धनग्रहणम् अर्धं मूल्यं दत्वैव । तथा च कात्यायनः ।
वणिग् वीथीपरिगतं विज्ञातं राजपूरुषैः ।
अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥
स्वामी दत्वार्ध्मूल्यं तु प्रघ्णीयात् स्वकं धनम् ।
अर्धं द्वयोर् अपहृतं तत्र स्यात् व्यवहारतः ॥ इति ।
अविज्ञाताश्रयाद् अविज्ञातस्थानकाद् इत्य् अर्थः । क्रयप्रकाशनमूलानयनपक्षयोः सति संभवे मूलानयनपक्ष एव ग्राह्यः । तद् उक्तं कात्यायनेन ।
यदा मूलम् उपन्यस्येत् पुनर् वादी क्रयं वदेत् ।
आहरन् मूलम् एवासौ न क्रयेण प्रयोजनम् ॥
असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् ॥ इति ।
यदा मूलदर्शनं क्रयप्रकाशनं वा न करोति तदा दण्ड्य इत्य् आह स एव ।
अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥ इति ।
नाष्टिकविप्रयोगम् आह स एव ।
यदि स्वं नैव कुरुते ज्ञातिभिर् नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चोरवद् दण्डम् अर्हति ॥
[२९८] इति । प्रसङ्गो ऽतिप्रसङ्गः । दण्डपरिमाणम् आह याज्ञवल्क्यः ।
आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।
पञ्चबन्धो दमस् तत्र राज्ञे तेनाविभाविते ॥ इति । (य्ध् २।१७१)
विवाद्यस्य धनस्य पञ्चमो ऽंशो यस्मिन् मूले बध्यते स पञ्चबन्धः । एतद् अल्पापराधविषयम् । महापराधे तु व्यासः ।
वादी चोन्मार्गगं द्रव्यं साक्षिभिर् नैव भावयेत् ।
दाप्यः स्यात् द्विगुणं दण्डं क्रेता तद् द्रव्यम् अर्हति ॥ इति ।
यत् तु प्रकाशिते क्रये क्रेतुः स्वत्वप्रतिपादकं मरीचिवचनम्,
वणिग् वीथीपरिगतं विज्ञातं राजपुरुषैः ।
दिवा गृहीतं यत् क्रेत्रा स शुद्धो लभते धनम् ॥
इति, तद् एवं नाष्टिकेनासाधितद्रव्यविषयम्, अन्यथा “अथ मूलम् अनाहार्यम्” इति प्रत्युदाहृतमनुवचनविरोधप्रसङ्गात् । यदा क्रेता [२९९] साक्ष्यादिभिः क्रयं न विभावयति नाष्टिको ऽपि स्वकीयत्वं तदा निर्णयम् आह बृहस्पतिः ।
प्रमाणहीनवादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन स्वयं कुर्याद् विनिर्णयम् ॥ इति ।
पुरुषयोर् नाष्टिकक्रेतृपुरुषयोः साधुत्वाद्यपेक्षया विवादास्पदं धनं समन्यूनाधिकत्वेन् विभज्य इदं तवेति राजा निर्णयं कुर्यात् ।
ननु – मानुषप्रमाणाभावे ऽपि दिव्यस्य विद्यमानत्वात् प्रमाणहीनो वाद एव न संभवति – इति चेत् ।
उच्यते । अस्मिन्न् एवास्वामिविक्रयविवादे दिव्याभावाभिधानात् । तथा च कात्यायनः ।
प्रकाशं न क्रयं कुर्यात् साधुभिर् ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥ इति ।
किं च,
[३००] अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् ।
पश्चाद् आत्मविशुद्ध्यर्थं क्रयं क्रेता स्वबन्धुभिः ॥
इति वचनेन साक्षीतरप्रमाणाभावो ऽवगम्यते । यत् तु कात्यायनेनोक्तम्,
अलेख्यासाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।
इति, तद् दिव्यनिषेधकस्मृत्यभावविषयम् इति मन्तव्यम् । सप्रमाणके ऽपि वादे क्रेतृनाष्टिकयोः अर्थहानिम् आह कात्यायनः ।
अर्धं द्वयोर् अपहृतं तत्र स्याद् व्यवहारतः ।
अविज्ञातक्रयो दोषस् तथा वा परिपालनम् ॥
एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुधैः ।
अविज्ञात्स्थानकृतं क्रेतृनाष्टिकयोर् द्वयोः ॥ इति ।
अविज्ञातस्थानकात् क्रयो अविज्ञातक्रयः । अथ वा परमार्थतो ऽयं स्वामी इत्य् अविज्ञानात् क्रयो ऽविज्ञातक्रयः । मरीचिर् अपि ।
[३०१] अविज्ञातनिवेशत्वाद् यत्र मूलं न विद्यते ।
हानिस् तत्र समा कल्प्या क्रेतृनाष्टिकयोर् द्वयोः ॥ इति ।
अस्वामी विक्रेतुर् इव स्वाम्यदत्तम् उपभुञ्जानस्यापि दण्डम् आह नारदः ।
उद्दिष्टम् एव भोक्तव्यं स्त्री पशुर् वसुधापि वा ।
अनर्पितं तु यो भुङ्क्ते भुक्तभोगं प्रदापयेत् ॥
अनिर्दिष्टं तु यद् द्रव्यं वासः क्षेत्रं गृहादिकम् ।
स्वबलेनैव भुञ्जानश् चोरवद् दण्डम् अर्हति ॥
अनड्वाहं तथा धेनुं नवं दासं तथैव च ।
अनिदिष्टं तु भुञ्जानो दद्यात् पणचतुष्टयम् ॥
दासी नौका तथा धुर्यो बन्धकं नोपयुज्यते ।
उपभोक्ता तु तं द्रव्यं पण्येनैव विशोधयेत् ॥
दिवसे द्विपणं दासीं धेनुम् अष्टपणं तथा ।
त्रयोदशम् अनड्वाहम् अश्वं भूमिं च षोडश ॥
नौकाम् अश्वं च धनुं च लाङ्गलं कार्मिकस्य च ।
बलात्कारेण यो भुङ्क्ते दाप्यश् चाष्टपणं दिने ॥
[३०२] उलूखले पणार्धं तु मुसलस्य पणद्वयम् ।
शूर्पस्य च पणार्धं तु द्वे पणे मुनिर् अब्रवीत् ॥ इति ।
इति अस्वामिविक्रयाख्यं पदं समाप्तम्
अथ संभूयसमुत्ताहाख्यं पदम् उच्यते
तस्य स्वरूपं नारद आह ।
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
तत् संभूयसमुत्थानं व्यवहारपदं स्मृतम् ॥ इति ।
तत्राधिकारिणो दर्शयति बृहस्पतिः ।
कुलीनदक्षानलसैः प्राज्ञैर् नाणकवेदिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात् सहक्रियाम् ॥ इति ।
क्रियां कृषिवाणिज्यशिल्पक्रतुसङ्गीतसैन्यात्मिकाम् । नाणकविज्ञानी वाणिज्यक्रियायाम् उपयुज्यते । आयव्ययज्ञानमात्रं कर्षकक्रियायाम् । सङ्गीतादिशिल्पक्रियायां प्राज्ञत्वम् उपयुज्यते । क्रतुक्रियायां तु कुलीनत्वप्राज्ञत्वशुचित्वानि । सैन्यक्रियायां शूरत्वमात्रम् । दक्षत्वानलसत्वे तु सर्वत्रोपयुजेते । अत एवादक्षादीन् निषेधति स एव ।
[३०३] असक्तालसरोगार्तमन्दभाग्यनिराश्रयैः ।
वाणिज्याद्याः सहैतैस् तु कर्तव्या बुधैः क्रियाः ॥ इति ।
ये तु संभूयवाणिज्यादिक्रियां कुर्वन्ति ते द्रव्यानुसारेण लाभभाजः । तथा च बृहस्पतिः ।
प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकर् अंशैर् लाभस् तेषां तथाविधः ॥ इति ।
लाभवद् एव व्यव्यादिर् अपि तथैवेत्य् आह स एव ।
समो न्यूनाधिको वांशो येन क्षिप्तस् तथैव सः ।
व्ययं दद्यात् कर्म कुर्याल् लाभं गृह्णीत चैव हि ॥ इति ।
द्रव्यानुसारेण लाभ इत्य् अस्यापवादम् आह याज्ञवल्क्यः ।
समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ इति । (य्ध् २।२५९)
संविदा समयेन । पुरुषविशेषानुसारेण कृतौ कल्पितौ [३०४] लाभालाबौ ज्ञेयौ । न तु द्रव्यानुसारेण इत्य् अर्थः । संभूयकारिणां कर्तव्यम् आह व्यासः।
समक्षम् असमक्षं वावञ्चयन्तः परस्परम् ।
नानापण्यानुसारात् ते प्रकुर्युः क्रयविक्रयौ ॥
अगोपयन्तो भाण्डानि शुल्कं दद्युश् च ते ऽध्वनि ।
अन्यथा द्विगुणं दाप्याः शुल्कस्थानात् बहिःस्थिताः ॥ इति ।
नारदो ऽपि ।
भाण्डपिण्डव्ययोद्धारभारसाराद्यवेक्षणम् ।
कुर्युस् ते ऽव्यभिचारेण समये स्वे व्यवस्थिताः ॥ इति ।
संभूयकारिणां परस्परं विवादे निर्णयप्रकारम् आह बृहस्पतिः ।
[३०५] परीक्षकाः साक्षिणश् च त एवोक्ताः परस्परम् ।
संदिग्धे ऽर्थे ऽवञ्चनार्था न चेद् विदेवेषसंयुताः ॥
यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥ इति ।
दैवराजकृतद्रव्यहानिविषये ऽप्य् आह स एव ।
क्षयहानिर् यदा तत्र दैवराजकृताद् भवेत् ।
सर्वेषाम् एव सा प्रोक्ता कल्पनीया यथांशतः ॥ इति ।
क्षयायैव हानिः क्षयहानिः । अ तूपचयार्थं व्ययः । प्रातिस्विकदोषेण द्रव्यनाशे स एवाह ।
अनिर्दिष्टो वार्यमाणः प्रमादाद् यस् तु नाशयेत् ।
तेनैव तद् भवेद् देयं सर्वेषां समवायिनाम् ॥ इति ।
अनिर्दिष्टः समवाय्यननुज्ञातः । चोरादिभ्यः । पालयितुर् लाभाधिक्यम् अस्तीत्य् आह कात्यायनः ।
चोरतः सलिलाद् अग्नेर् द्रव्यं यस् तु समाहरेत् ।
तस्यांशो दशमो देयः सर्वद्रव्येष्व् अयं विधिः ॥ इति ।
समाहरेत् स्वशक्त्या परिपालयेद् इत्य् अर्थः । बृहस्पतिर् अपि ।
[३०६] दैवराजभयाद् यस् तु स्वशक्त्या परिपालयेत् ।
तस्यांशं दशमं दत्वा गृह्णीयुस् ते ततः परम् ॥ इति ।
यस् तु समवायिभिः प्रयुक्तं धनं समवायिभिः सह प्रतिपादनादिना न साधयति तस्य लाभहानिर् इति । तद् आह बृहस्पतिः ।
समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् ।
न याचते च यः कश्चिल् लाभात् स परिहीयते ॥ इति ।
सर्वानुमतः सर्वेषां कार्यं एक एव कुर्यात् तद् आह स एव ।
बहूनां संमतो यस् तु दद्याद् एको धनं नरः ।
करणं कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥ इति ।
करणं लेख्यादिकम् । संभूयकारिणाम् ऋत्विजां कर्तव्यम् आह मनुः ।
ऋत्विजः समवेतास् तु यथा सत्रे निमन्त्रिताः ।
कुर्युर् यथार्हं ते कर्म गृह्णीयुर् दक्षिणां तथा ॥ इति ।
तथेति कर्मानुसारेण दक्षिणां गृह्णीयुर् इत्य् अर्थः । तथा च स एव ।
संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।
अनेन विधियोगेन कर्तव्यांशकल्पना ॥ (म्ध् ८।२११)
[३०७] इति । इयं चांशकल्पना “तस्य द्वादशशतं दक्षिणा” इत्य् एवं क्रतुसंबन्धित्वमात्रतया विहितायां दक्षिणायाम् एव । नर्त्विग्विशेषोल्लेखेन विहितायाम् । अत एवोक्तं तेनैव ।
रथं हरेत वाध्वर्युर् ब्रह्माधाने च वाजिनम् ।
होता वाति हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ॥ इति । (म्ध्८।२०९)
दक्षिणांशप्रकल्पनाम् आह स एव ।
सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशास् तु पादिनः ॥ इति । (म्ध् ८।२१०)
सर्वेषां षोडशर्त्विजां मध्ये मुख्याश् चत्वारो होत्रध्वर्युबर्ह्मोद्गातारस् ते गोशतस्य अर्धिनः । सर्वेषां भागपरिपूरणोपपत्तिवशायाताष्टचत्वारिंशद्रूपार्धेनार्धभाजः । अपरे **[३०८] **मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारस् तदर्धिनः धनमुख्यांशस्यार्धेन चतुर्विंशतिरूपेणार्धभाजः । ये पुनस् तृतीयिनो ऽछावाकनेष्टाग्नीध्रप्रहर्तारस् ते तृतीयिनो मुख्यांशस्य षोडशभागरूपगृतीयांशभाजः । ये तु पादिनो ग्रावस्तोतृनेतृपोतृसुभ्रह्मण्यास् ते मुख्यभागस्य चतुर्थांशेन द्वादशगोरूपेणांशभाजः । मुख्यानां चतुर्णां मिथो विभागः समत्वेनैव । एवम् एव तदनन्तरादीनां अपि मिथो विभागः । तथा च कात्यायनसूत्रम्- “द्वादश द्वादशद्येभ्यः षट् षट् द्वितीयेभ्यश् चतस्रश् चतस्रः तृतीयेभ्यस् तिस्रस् तिस्र इतरेभ्यः” इति । स्वकीयकर्मकलापांशकर्तृत्वानुसारेण भागो देय इत्य् आह मनुः ।
ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयो ऽंशः सहकर्तृभिः ॥ इति । (म्ध् ८।२०६)
सहकर्तृभिः संभूयकारिभिर् इत्य् अर्थः । कृतकर्मांशानुसारेण दक्षिणां दद्याद् इत्य् उक्तं तस्य क्वचिद् अपवादम् आह स एव ।
[३०९] दक्षिणासु प्रदत्तासु स्वकर्म परिहापयन् ।
कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥ इति । (म्ध् ८।२०७)
अन्येन स्वस्वगणवर्तिनां मध्ये प्रत्यासन्नेन । कर्ममध्ये ऋत्विङ्मरणे नारद आह ।
ऋत्विजां व्यसने ऽप्य् एवम् अन्यस् तत् कर्म विस्तरेत् ।
लभते दक्षिणाभागं स तस्मात् संप्रकल्पितम् ॥ इति ।
संभूयकारिणां कृषिकराणां कर्तव्यम् आह बृहस्पतिः ।
वाह्यवाहकबीजाद्यैः क्षेत्रोपकरणेन च ।
ये समाः स्युस् तु तैः सार्धं कृषिः काया विजानता ॥ इति ।
वाह्यं लाङ्गलादिः । वाहको बलिवर्दादिः । क्षेत्रेषु वर्जनीयम् आह स एव ।
पर्वते नगराभ्याशे तथा राजपथस्य च ।
उषरं मुषिकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥ इति ।
वाह्येषु विवर्जनीयान् आह स एव ।
[३१०] कृशातिवृद्धं क्षुद्रं च रोगिणं प्रपलायिनम् ।
काणं खञ्जं विनादद्यात् वाह्यं प्राज्ञः कृषीवलः ॥ इति ।
प्रातिस्विकदोषात् फलहानौ विशेषम् आह स एव ।
वाह्यबीजात्ययाद् यस्य क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥ इति ।
वाह्यबीजग्रहणं कृषिसाधनानाम् उपलक्षणार्थम् । संभूयकारिणां शिल्पिनां लाभविभागम् आह स एव ।
हेमकारादयो यत्र शिल्पं संभूय कुर्वते ।
कर्मानुरूपं निर्वेशं लभेरंस् ते यथांशतः ॥ इति ।
निर्वेशो भृतिः । कात्यायनो ऽपि ।
शिल्पाकरज्ञकुशला आचार्यश् चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयुस् ते यथांशतः ॥ इति ।
हर्म्यादिनिर्माणकृतां मध्य मुख्यभागम् आह बृहस्पतिः।
हर्म्यं देवगृहं वापि धार्मिको यत् पुराणि च ।
संभूय कुर्वतां तेषां प्रमुखो द्व्यंशम् अर्हति ॥ इति ।
शिल्पिनां स्वरूपम् आह स एव ।
[३११] हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।
संस्कर्ता तु कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥ इति ।
कुप्यं हेमरूप्यव्यतिरिक्तत्रपुसीसादिकम् । स्तेनान् प्रय् आह स एव ।
स्वाम्याज्ञया तु यच् चोरैः परदेशात् समाहृतम् ।
राज्ञे दत्वा तु षड्भागं भजेयुस् ते यथांशतः ॥
चतुरो ऽंशान् भजेन् मुख्यः शूरस् त्र्यंशम् अवाप्नुयात् ।
समर्थस् तु हरेद् द्व्यंशं शेषास् त्व् अन्ये समांशिनः ॥ इति ।
परदेशाद् वैरिदेशाद् इत्य् अर्थः । प्रबलवैरिदेशाद् आहृतधनविषयम् एतत् । दुर्बलवैरिदेशाद् आहृतविषये त्व् आह कात्यायनः ।
परराष्ट्राद् धनं यस्य चोरैश् चेद् आज्ञयाहृतम् ।
राज्ञे दशांशम् उद्धृत्य विभजेरन् यथाविधि ॥
चौराण्ं मुख्यभूतस् तु चतुरो ऽंशांस् तथा हरेत् ।
शूरो ऽंशांस् त्रीन् समर्थो द्वौ शेषास् त्व् एकैकम् एव च ॥ इति ।
हानिर् अप्य् एवम् एवेत्य् आह स एव ।
तेषां चेत् प्रसृतां यो यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद् दत्तं वहेयुस् ते यथांशतः ॥ इति
नर्तकानां भागकल्पनाप्रकारम् आह स एव ।
[३१२] नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः ।
तालज्ञो लभते ह्य् अर्धं गायनास् तु समांशिनः ॥
प्रमुखा द्व्यंशम् अर्हन्ति सो ऽयं संभूयकुर्वताम् ॥ इति ।
शिल्पिनां मुख्यः प्रोक्तः । स एष धर्मो भागद्वयरूपो नर्तकादीनां संभूयकर्वतां मध्ये मुख्यस्योदाहृतः । अयम् एव विभागः पूर्वम् अकृतसमवायानां संभूयकारिणां द्रष्तव्यः । तथा च स एव ।
वणिजां कर्षणानां च चोराणां शिल्पिनां तथा ।
अनिन्यम्यांशकर्तॄणां सर्वेषाम् एव निर्णयः ॥ इति ।
इति संभूयसमुत्तानाख्यं पदं समाप्तम्
**अथ संभूयसमुत्थानोपसंहारपूर्वकं दत्ताप्रदानिकाख्यं **
व्यवहारपदम् उच्यते
तत्र बृहस्प्तिः ।
एषाखिलेनाभिहिता संभूयोत्ताननिष्कृतिः ।
अदेयदेयदत्तानाम् अदत्तानां च कथ्यते ॥ इति ।
अदेयं दानानर्हम्, देयं दानार्हम्, दत्तं स्थिरम् अनिविअर्तनीयम्, अदत्तम् अनिवर्तनीयम् । इत्य् एवं चतुर्विधानाम् अदेयादीनां स्वरूपं कथ्यत इत्य् अर्थः । अत एव नारदः ।
दत्वा द्रव्यम् असम्यग् यः पुनर् अदातुम् इच्छति ।
दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥
[३१३] अदेयम् अथ देयं च दत्तं चादत्तम् एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥ इति ।
अदेयस्वरूपभेदान् आह बृहस्पतिः ।
सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् ।
प्रतिश्रुतम् अथान्यस्य न देयं त्व् अष्टधा स्मृतम् ॥ इति ।
सामान्यम् अनेकस्वतन्त्रस्वामिकं रथादि । नारदो ऽपि ।
अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपं पुत्रदारं च सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ इति ।
अन्वाहितादिवत् स्त्रीधनम् अप्य् अदेयम् । अत एव दक्षः ।
सामान्यं याचितं न्यास आधिर् दाराश् च तद् धनम् ।
अन्वाहितं च निक्षेपं सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि न देयानि नववस्तूनि पण्डितैः ।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥ इति ।
अदेयानि प्रतिग्रहे च दण्डो मनुना ऽभिहितः ।
[३१४] अदेयं यश् च गृह्णाति यश् चादेयं प्रयच्छति ।
ताव् उभौ चोरवच् छास्यौ दण्ड्यौ चोत्तमसाहसम् ॥ इति ।
अदेयग्रहणम् अदत्तस्याप्य् उपलक्षणम् । अत एव नारदः ।
गृह्णात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति ।
दण्डनीयाव् उभाव् एतौ धर्मज्ञेन महीक्षिता ॥ इति ।
किं तर्हि देयम् इत्य् अपेक्षिते स एवाह ।
कुटुम्बभरणाद् द्रव्यं यत् किंचिद् अतिरिच्यते ।
तद् देयम् उपरुद्ध्यन् यत् अदद् दोषम् अवाप्नुयात् ॥ इति ।
भर्तव्यं कुटुम्बम् उपरुद्ध्येत्य् अर्थः । कात्यायनो ऽपि ।
सर्वस्वं गृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥ इति ।
याज्ञवल्क्यो ऽपि ।
स्वं कुटुम्बाविरोधेन देयं दारसुताद् ऋते । (य्ध् २।१७५)
[३१५] इति । अत्र सुतस्यादेयत्वम् एकपुत्रविषयम् । तस्यापि दाने कृते सन्तानविच्छेदापत्तेः । अत एवैकस्य पुत्रस्य दानं निषेधति वसिष्ठः- “न त्व् एकं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा । स हि सन्तानाय पूर्वेषाम्” इति (वध् १५।३–४) । तथा कात्यायनो ऽपि ।
अतश् च सुतदाराणां वशित्वं त्व् अनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ इति ।
एवमादीनी सुत्रस्यादेयत्वप्रतिपादकानि वचनान्य् एकपुत्रविषयाणीत्य् अवगम्यते । अनेकपुत्रेष् अपि मातापितृवियोग सहनक्षम एव देयः,
विक्रयं चैव दानं च न नेयाः स्युर् अनिच्छवः ।
दाराः पुत्राश् च सर्वस्वम् आत्मन्य् एव तु योजयेत् ॥
इति कात्यायनस्मरणात् । न नेयाः स्युर् अनिच्छव इत्य् अनापद्विषयम्,
आपत्काले ऽपि कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥
इति तान् एवाधिकृत्य तेनैवोक्तत्वात् । पुत्रस्य प्रतिग्रहप्रकारविशेषो वसिष्ठेन दर्शितः- [३१६] “पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि च निवेद्य निवेशनस्य मध्ये व्याहृतिभिर् हुत्वादूरबान्धवम् असंनिकृष्टम् एव गृह्णीयात्” इति (वध् १५।६) । अदूरबान्धवं संनिकृष्टमातुलादिबान्धवम् । असंनिकृष्टसंनिकृष्टभातृपुत्रादिव्यतिरिक्तम् एव । स्थावरविषये देयं द्रव्यम् आह प्रजापतिः ।
सप्तागमाद् गृहक्षेत्राद् यद् यत् क्षेत्रं प्रचीयते ।
पित्र्यं वाथ स्वयं प्राप्तं तद् दातव्यं विवक्षितम् ॥ इति ।
सप्तभ्य आगमेभ्यो यत् प्रचीयते समधिकं स्यात् तद् दातव्यत्वेन विवक्षितम् इति । स्वयं प्राप्तं द्रव्यम् अविभक्तधनैर् भ्रातृभिर् अननुज्ञातम् अप् देयम् “स्वेच्छदेयं स्वयं प्राप्तम्” इति बृहस्पतिवचनात् । यत् तु तेनैवोक्तम्,
विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ऽप्य् अनीशः सर्वत्र दानाधमन्विक्रये ॥
[३१७] इति । तद् अविभक्तस्थावरविषयम् सप्तानधिकस्थावरविषयं वा, सप्ताधिकस्यैव देयत्वेनाभिधानात् । किंचिद् भर्त्रा भार्ययानुज्ञातम् एव देयम् । किंचिन् मुख्येनापि भ्रात्राद्यनुज्ञातम् एव देयम् । किंचिद् दासेन स्वार्जितम् अपि स्वाम्यनुज्ञातम् एव देयम् । तथा च स एव ।
सौदायिकं क्रमायातं शौर्यप्राप्तं च यद् भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिम् अवाप्नुयात् ॥ इति ।
सौदायिकं विवाहलब्धम् । क्रमायातं पितामहादिक्रमायातम् । स्त्रीज्ञात्यनुमतं सावशेषं देयम्,
वैवाहिके क्रमायाते सर्वं दानं न विद्यते ।
इति तेनैवोक्तत्वात् ।
**इत्थं देयादेयस्वरूपं निरूपितम् **
**अथ दत्तादत्तयोस् तु स्वरूपं निरूप्यते **
तत्र दत्तं सप्तविधम् अदत्तं षोडशात्मकम् । तथा च नारदः ।
दत्तं सप्तविधं प्रोक्तम् अदत्तं षोडशात्मकम् ॥
पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुकानुग्रहार्थं च दत्तं दानविदो विदुः ॥
अदत्तं तु क्षयक्रोधशोकावेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासछलयोगतः ॥
[३१८] बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलाभेच्चया च यत् ॥
अपात्रे पात्रम् इत्य् उक्ते कार्ये चाधर्मसंहिते ।
यद् दत्तं स्याद् अविज्ञानाद् अदत्तम् इति तत् स्मृतम् ॥ इति ।
पण्यस्य क्रीतद्रव्यस्य मूल्यम् । भृतिर् वेतनं कृतकर्मणे दत्तम् । तुष्ट्या बन्दिचारणादिभ्यो दत्तम् । स्नेहाद् दुहित्रादिभ्यो दत्तम् । प्रत्युपकारतः उपकृतवते प्रत्युपकाररूपेण दत्तम् । स्त्रीशुल्कं परिणयनार्थं कन्याज्ञातिभ्यो दत्तम् । अनुग्रहार्थम् अदृष्टार्थे दत्तम् । तद् एतत् पण्यमूल्यादिसप्तविधं दत्तम् एव न प्रत्याहरणीयम् । तथा च याज्ञवल्क्यः ।
देयं प्रतिश्रुतं चैव दत्वा नापहरेत् पुनः । इति । (य्ध् २।१७६)
भयेन बन्दिग्रहादिभ्यो दत्तम् । क्रोधेन पुत्रादिविषयकोपनिर्यातनायान्यस्मै दत्तम् । पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम् । रुगन्वितैः असाध्यरोगपीडितैश् च यद् दत्तम् । उत्कोचेन कार्यप्रतिबन्धनिरासार्थम् अधिकृतेभ्यो दत्तम् । परिहारेनोपहासेन दत्तम् । द्रव्यव्यत्यासेन दत्तम् एकः स्वं द्रव्यम् अन्यस्मै ददाति अन्यो ऽपि तस्मै ददाति इति [३१९] दानव्यत्यासेन दत्तम् । अन्यस्मै दातव्यम् अन्यस्मै दानम् । छलयोगतः शतदानम् अभिसंधाय सहस्रम् इति परिभाव्य दत्तम् । बालेनाप्राप्तषोडशवर्षेण दत्तम् । मूढेन लोकवेदानभिज्ञेन दत्तम् । अस्वतन्त्रेण पुत्रदासादिना दत्तम् । उन्मत्तेन वातिकाद्युन्मादग्रस्तेन अपवर्जितं दत्तम् । अयं मदीयम् इदं कर्म करिष्यतीति प्रतिलाभेच्छया प्रतिलाभम् अकुर्वाणाय दत्तम् । अयोग्याय योग्योक्तिमात्रेण यथा अचतुर्वेदाय चतुर्वेदो ऽहम् इत्य् उक्ते दत्तम् । यज्ञं करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तम् । एवं षोडशप्रकारम् अपि दत्तं पुनः प्रत्याहरणीयत्वाद् अदत्तम् इत्य् उच्यते । तथा च कात्यायनः ।
कामक्रोधास्वतन्त्रार्तक्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच् च यद् दत्तं तत् पुनर् हरेत् ॥
या तु कार्यस्य सिद्ध्यर्थम् उत्कोचा स्यात् प्रतिश्रुता ।
तस्मिन्न् अपि प्रसिद्धे ऽर्थे न देया स्यात् कथंचन ॥
अथ प्राग् एव दत्ता स्यात् प्रतिदाप्यः स तां बलात् ।
दण्डं चैकादशगुणम् आहुर् गार्गीयमानवाः ॥ इति ।
उत्कोचस्वरूपम् आह स एव ।
[३२०] स्तेनसाहसिकोदृत्तपारदारिकसंगमात् ।
दर्शनोद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥
प्राप्तम् एतैस् तु यत् किंचिद् उत्कोचाख्यं तद् उच्यते ।
न दाता तत्र दण्ड्यः स्यान् मध्यस्थश् चैव दोषभाग् ॥ इति ।
मध्यस्थ उक्तानुवादकः । चकाराद् ग्राहकः समुच्चीयते । ताव् उभौ दोषभाजौ दण्डनीयाव् इत्य् अर्थः । आर्तदत्तस्य दत्तत्वं धर्मकार्यव्यतिरिक्तविषयम् । तथा च स एव ।
स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।
अदत्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥ इति ।
मनुर् अपि सोपाधिकदानादेर् निवर्तनीयताम् आह ।
योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यस्य वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ इति । (म्ध् ८।१६५)
योग उपधिः । अदेयदानतत्प्रतिग्रहयोर् दण्डो नारदेनोक्तः ।
[३२१] गृह्णात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति ।
अदेयदायको दण्ड्यस् तथादत्तप्रतीच्छकः ॥ इति ।
इति दत्ताप्रदानिकम्
अथ वेतनस्यानपाकर्माख्यं विवादपदम् उच्यते
तस्य स्वरूपम् आह नारदः ।
भृत्यानां वेतन्स्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ इति ।
वेतनं कर्ममूल्यम् । तस्यानपाकर्म भृत्यायासमर्पणं समर्पितस्य परावर्तनं वा । तत्र समर्पणे विशेषम् आह नारदः ।
भृत्याय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्ये ऽवसाने च कर्मणो यद् विनिश्चितम् ॥ इति ।
एतावद् अहं तव कर्मकरणाय दास्यामीति भाषाया अभावे विशेषम् आह स एव ।
भृताव् अनिश्चितायां तु दशभागम् अवाप्नुयुः ।
लाभं गोवीर्यशस्यानां वणिजो ऽथ कृषीवलाः ॥
[३२२] इति । गोवीर्यं पाल्यमानगवादिप्रभवं पयःप्रभृति । यदि कर्मस्वामी भृत्याय दशमं भागं न प्रयच्छति तदासौ राज्ञा दाप्य इत्य् आह याज्ञवल्क्यः ।
दाप्यस् तु दशमं भागं वाणिज्यपशुशस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥ इति । (य्ध् २।१९४)
यत् तु बृहस्पतिनोक्तम्,
त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः ।
इति, तद् आयाससाध्याकृष्टक्षेत्रकर्तृविषयम् । तत्रापि त्रिभागपञ्चभागौ व्यवस्थया विकल्पितौ वेदितव्यौ । तथा च स एव ।
भक्ताच्छादभृतः सीराद् भागं गृह्णीत पञ्चकम् ।
जतशस्यो त्रिभागं तु प्रगृह्णीयात् तथाभृतः ॥ इति ।
अशनाच्छादानाब्यां भृतः कृषीवलः क्षेत्रजातशस्यात् पञ्चमं भागं गृह्णीयात् । ताभ्याम् अभृतस् तृतीयं भागम् इत्य् अर्थः । एतावद् दास्यामीति परिभाषायां सत्याम् अपि क्वचित् ततो न्यूनं स्वामिबुद्धिपरिकल्पितं वेतनम् देयम् । क्वचित् ततो ऽप्य् अधिकं देयम् । तद् आह याज्ञवल्क्यः ।
[३२३] देशं कालं च यो ऽतीयाल् लाभं कुर्याच् च यो ऽन्यथा ।
तदा तु स्वामिनः छन्दो ऽधिकं देयम् कृत ऽधिके ॥ इति । (य्ध् २।१९५)
यः स्वाम्याज्ञाम् अन्तरेण वाणिज्यादिलाभसाधनदेशकालातिक्रमं करोति लाभं च बहुतरव्ययकरणाद् अल्पं करोति तस्मै स्वामी स्वेच्छानुसारेण किंचिद् दद्यात् । यस् तु स्वातन्त्र्येण बहुलाभं करोति तस्मै परिभाषितमूल्याद् अधिकं देयम् इत्य् अर्थः । अनेकभृत्यकर्तृकर्मणि वेतनार्पणप्रकारम् आह स एव ।
यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।
उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम् ॥ इति । (य्ध् २।१९६)
यदा पुनर् एकं कर्म नियतवेतनम् उभाभ्यां बहिभिर् वा क्रियमाणम् उभयोर् अप्य् असाध्यं चेद् उभाभ्याम् एवापरिसमापितम् तदा यो यावत् कर्म करोति तस्मै तत्कर्मानुसारेण मध्यस्थकल्पितं वेतनं देयम् । न पुनः समम् । साध्ये उभाभ्यां कर्मणि परिसमापिते तु यथाश्रुतं यथावत् परिभाषितं तावद् उभाभ्यां देयम् । न पुनः प्रत्येकं कृत्स्नं वेतनं देयम् । नापि कर्मानुरूपं परिकल्प्य देयम् । भृत्यानां कर्तृत्वम् आह नारदः ।
[३२४] कर्मोपकरणं तेषां क्रियां प्रति यथाहितम् ।
आप्तभावेन तद् रक्ष्यं न जैह्म्येन कदाचन ॥ इति ।
तेषां कर्मस्वामिनां कर्मोपकरणं लाङ्गलादि । क्रियाम् उद्दिश्य यस्मिन् भृत्ये निहितं तेन सर्वदा निःशाठ्येन रक्ष्यम् इत्य् अर्थः । बृहस्पतिर् अपि ।
भृतकस् तु न कुर्वीत स्वामिना शाठ्यम् अन्व् अपि ।
भृतिहानिं समाप्नोति तदा वादः प्रवर्तते ॥ इति ।
यस् तु भृतिं स्वीक्र्त्य कर्म न करोति तं प्रत्य् आह स एव ।
गृहीतवेतनः कर्म न करोति यदा मृतः ।
समर्थश् चेद् दमं दाप्यो द्विगुणं तच् च वेतनम् ॥ इति ।
अगृहीतवेतनविषये याज्ञवल्क्य आह ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ (य्ध् २।१९३)
[३२५] इति । समं यावता वेतनेन भृत्यत्वम् अङ्गीकृतं तावद् एव स्वामिने दद्यान् न तु राज्ञे दण्डम् इत्य् अर्थः । यद् वा अत्राङ्गीकृतवेतनं दत्वा बलात् कारयितव्यः । तद् आह नारदः ।
कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणः द्विगुणां भृतिम् आप्नुयात् ॥ इति ।
प्रतिश्रुत्येति प्रारम्बस्याप्य् उपलक्षणार्थम् । तद् आह कात्यायनः ।
कर्मारम्भं तु यः कृत्वा सर्वं नैव तु कारयेत् ।
बलात् कारयितव्यो ऽसाव् अकुर्वन् दण्डम् अर्हति ॥ इति ।
दण्डपरिमाणम् आह वृद्धमनुः ।
प्रतिश्रुत्य न कुर्याद् यः स कार्यः स्याद् बलाद् अपि ।
स चेन् न कुर्यत् तत् कर्म प्राप्नुयाद् द्विशतं दमम् ॥ इति ।
द्विशतं कार्षापणद्विशतम् इत्य् अर्थः । यत् तु मनुवचनम्,
[३२६] भृत्यो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं तस्य वेतनम् ॥ (म्ध् ८।२१५)
इति, तद् अर्धावशेषितविषयम् । किंचिन्मात्रावशेषे तु दण्डवर्जवेतनादानम् । तद् आह स एव ।
यथोक्तम् आर्तः स्वस्थो वा यस् तु कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥ इति । (म्ध् ८।१७)
यस् तु कालविशेषावधिकं कर्म प्रतिज्ञाय कालात् पूर्वम् एव कर्म त्यजति तं प्रत्य् आह नारदः ।
काले ऽपूर्णे त्यजन् कर्म भृतेर् नाशम् अवाप्नुयात् ।
स्वामिदोषाद् अकरणे यावद् भृतिम् अवाप्नुयात् ॥ इति ।
स्वामिदोषात् पारुष्यकरणादिस्वामिदोषात् । नारदः ।
[३२७] भाण्डं व्यसन् आगच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नष्टं स्याद् दैवराजकृताद् ऋते ॥ इति ।
वाहकदोषतः भृतकदोषतः । वृद्धमनुः ।
प्रमादान् नाशितं दाप्यः समं द्विर् द्रोहनाशितम् ।
न तु दाप्यो हृतं चोरैर् दग्धम् ऊढं जलेन वा ॥ इति ।
द्रोहनाशितं तीव्रप्रहारादिना द्रोहेण नाशितम् । द्विर् दाप्यो द्विगुणं दाप्य इत्य् अर्थः । प्रस्थानविघ्नकं भृत्यं प्रत्य् आह कत्यायनः ।
विघ्नयन् वाहको दाप्यः प्रस्थाने (?) द्विगुणाम् भृतिम् । इति ।
वृद्धमनुः ।
यः कर्मकाले संप्राप्ते न कुर्याद् विघ्नम् आचरेत् ।
उद्धृत्व्यान्यस् तु कार्यः स्यात् स दाप्यो द्विगुणां भृतिम् ॥ इति ।
याज्ञवल्क्यः ।
[३२८] अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः ।
प्रस्थानविघन्कृच् चैव प्रदाप्यो द्विगुणां भृतिम् ॥
प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिम् अर्थपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ॥ इति । (य्ध् २।१९७–९८)
अराजदैविकं न विद्यते राजदैविकं यस्य भाण्डस्य तद् यदि प्रज्ञाहीनतया वहकेन नाशितं तदा तन्मूल्यानुसारेण तद्भाण्डं दापनीयः । यस् तु प्रस्थानलग्नसमय एव स्वाभ्युपात्तं कर्म त्यजन् प्रस्थानविघ्नं करोति तदासौ द्विगुणां भृतिं दाप्यः । यस् तु भृत्यान्तरोपादानावसरसंभवे स्वाङ्गीकृतं कर्म त्यजति असौ भृत्यः सप्तमं भागं दाप्यः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश् चतुर्थं भागं दाप्यः । अर्धपथे त्यजन् सर्वां भृतिं दापनीयः । यस् तु स्वामी भृत्यं स्वयम् [३२९] एव कर्म त्याजयति पूर्वोक्तप्रदेशेषु असाव् अपि पूर्वोक्तसप्तमभागादिकं दापनीयः । एतच् चाव्याधितादिविषयम्, व्याधितस्यापराधाभावात् । यदा पुनर् व्याधितो व्याध्यपगमे ऽन्तरितदिवसान् परिगणय्य पूरयति तदा लभेतैव सर्वां भृतिम् । तद् आह मनुः ।
आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः ।
सुदीर्घस्यापि कालस्य तल् लभेतैव वेतनम् ॥ इति । (म्ध् ८।२१६)
त्याजकस्य स्वामिनश् चतुर्थभागादिदापनम् अविक्रीतभाण्डविषयम् । विक्रीते तु भाण्डे विशेषो वृद्धमनुनाभिहितः ।
पथि विक्रीय तद् भाण्डं वणिग् भृत्यं त्यजेद् यदि ।
अथ तस्यापि देयं स्याद् भृतेर् अर्धं लभेत सः ॥ इति ।
आसेधेन प्रतिबद्धभाण्डविषये राजाद्यपहृतभाण्डविषये चाह कात्यायनः ।
यथा च पथि तद् भाण्डम् आसिद्ध्येत ह्रितेत वा ।
यावान् अध्वा गतस् तेन प्राप्नुयात् तावतो भृतिम् ॥ इति ।
भाटकस्वीकृतेन यानादिना भाण्डनेतारं प्रत्य् आह नारदः ।
[३३०] अनयन् भाटयित्वा तु भाण्डवान् यानवाहने ।
दाप्यो भृतेश् चतुर्भागं सर्वाम् अर्धपथे त्यजन् ॥
अनयन् वाहको ऽप्य् एवं भ्र्तिहानिम् अवाप्नुयात् ॥ इति ।
यः शकटादिकं भाटयित्वा तद् एवोपकारशून्यम् आदाय देशान्तरं गच्छति भाटकं च न प्रयच्छति तं प्रत्य् आह वृद्धमनुः ।
यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति ।
भाण्डं न दद्यात् परतो दाप्यः स्यात् सो ऽपि भाटकम् ॥ इति ।
भाटककार्योपाधिपरिक्रयमूल्यम् आरूढस्यापि अकृतोपकारस्यापि स्वकृते कृत्ये समनन्तरम् अनर्पितहस्त्यश्वादेः समर्पणपर्यनं भाटकानिवृत्तिर् इत्य् आह कात्यायनः ।
हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ।
निर्ययेत् कृतकृत्यः सन् स्त्रीवत् दाप्यः स भाटकम् ॥
[३३१] गृहवार्यार्पणादीनि गृहीत्वा भाटकेन यः ।
स्वामिनो नार्पयेद् यावत् तावद् दाप्यः स भाटकम् ॥ इति ।
वारिशब्देन तदाधारो लक्ष्यते । उपकारशब्देन तदाधारो लक्ष्यते । परभूमौ गृहनिर्माणाय भाटकदातारं प्रत्य् आह नारदः ।
परभूमौ गृहं कृत्वा स्तोमं दत्वा वसेत् तु यः ।
स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठानि चेष्टकाम् ॥ इति ।
तथा स्तोमो भाटकम् । स्तोमाप्रदाने प्राह स एव ।
स्तोमाद् विना वसित्वा तु परभूमाव् अनिश्चितः ।
निर्गच्छंस् तृणकाष्ठादि न गृह्णीयात् कथंचन ॥
यान्य् एव तृणकाष्ठानि त्व् इष्टकाविनिवेशिताः ।
विनिर्गच्छंस् तु तत् सर्वं भूमिस्वामिनि वेदयेत् ॥
[३३२] इति । अनिश्चिततृणकाष्ठादिग्रहणपरिभाषायाम् इत्य् अर्थः । परिभाषिते तु यथा परिभाषा तथेति । वेदयेत् निवेदयेद् इत्य् अर्थः । भाटकं दत्वा दर्व्याद्यर्पणार्थं गृहीतमणिकादिपात्रभेदनादाव् अप्य् आह स एव ।
स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् ।
ग्रहीतुर् आवहेद् भग्नं नष्टं वान्यत्र संप्लवात् ॥ इति ।
संप्लवः परस्परसंघर्षः । तेनाल्पकेन कार्त्स्न्येन वा भिन्नं पूर्ववत् कृत्वा भाण्डं वा तन्मूल्यं वा स्वामिने देयम् । संप्लवाद् अन्यत्र भेदे तु भाटकग्रहीतुर् एव तद् इत्य् अर्थः । कृतकर्मणे भृत्याय वेतनादातारं प्रत्य् आह बृहस्पतिः ।
कृते कर्मणि यः स्वामी न दद्याद् वेतनं भृते ।
राज्ञा दापयितव्यः स्याद् विनयं चानुरूपतः ॥ इति ।
रुग्णं भृत्यं पथि त्यजतो दण्डम् आह कात्यायनः ।
त्यजेत् पथि सहायं यो श्रान्तं रोगार्तम् एव च ।
प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ॥ इति ।
पण्यस्त्री तदुपभोक्तृविषये त्व् आह नारदः ।
[३३३] शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् शुल्कदातापि शुल्कहानिम् अवाप्नुयात् ॥ इति ।
एतद् अव्याधितादिविषयम् । व्याधितविषये तु स्मृत्यन्तरम् ।
व्याधिता संभ्रमा व्यग्रा राजधर्मपरायणा ।
आमन्त्रिता च नागच्छेद् अवाच्या वडवा स्मृता ॥ इति ।
अत्यन्तावश्यकेषु कार्येषु जातसंभ्रमा संभ्रमपदेन उक्ता । तत्रैव व्याकुला व्यग्रा । वडवा दासी । दासीग्रहणम् अत्र पण्यस्त्रीप्रदर्शनार्थम् । उपभोक्तारं प्रत्य् आह नारदः ।
अप्रयच्छन् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् ।
अक्रमेण तु संगच्छेद् घातयेद् वा नखादिभिः ॥
अयोनौ यः समाक्रामेद् बहुभिर् वा विवासयेत् ।
शुल्कं त्व् अष्टगुणं दाप्यो विनयं तावद् एव तु ॥ इति ।
पण्यस्त्रियास् त्व् अपराधे दण्डादिकं मत्स्यपुराणे ऽभिहितम् ।
[३३४] गृहीत्वा वेतनं वेश्या लोभाद् अन्यत्र गच्छति ।
तां दमं दापयेद् दद्याद् इतरस्यापि भाटकम् ॥ इति । (मत्स्पु २३।७)
अत्र निर्णयम् आह नारदः ।
वेश्याप्रधाना ये तत्र कामुकास् तद्गृहोषिताः ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥ इति ।
इत्थं अभ्येत्याश्रुश्रूषाख्यविवादपदान्तर्गतवेतनस्यानपाकर्माख्यं विवादपदं मनूक्तोद्देशक्रमानुसारेणाभिहितम् ।
इति वेतनस्यानपाकर्माख्यं विवादपदम् अभिहितम्
**अथेदानीम् अभ्युतेयाशुश्रूषाख्यं विवादपदम् अहिभीयते **
तस्य स्वरूपं नारद आह ।
अभ्युपेत्य च शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥ इति ।
आज्ञाकरणं शुश्रूषा । शुश्रूषकश् च पञ्चप्रकारः । तथा च स एव ।
[३३५] शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरः शेषा दासास् त्रिपञ्चकाः ॥
शिष्यान्तेवासिभृतकाः चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकरा ज्ञेया दासास् तु गृहजादयः ॥
सामान्यम् अस्वतन्त्रत्वं तेषाम् आहुर् मनीषिणः ।
जातकर्मकरस् तूक्तो विशेषो वृत्तितस् तथा ॥
कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकरे स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥
इच्छतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥ इति ।
तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । अधिकर्मकृत् [३३६] कर्मकुर्वताम् अधिष्ठाता । अशुचिस्थानम् उच्छिष्टप्रक्षेपार्थं गर्तादिकम् । अवस्करः गृहसंमार्जितपांस्वादिनिचयत्यागस्थानम् । भृतकश् च त्रिविधः । तद् उक्तं तेनैव ।
उत्तमः कार्य्कर्ता च मध्यमस् तु कृषीवलः ।
अधमो भारवाही स्याद् इत्य् एवं त्रिविधो भृतः ॥ इति ।
दासस्वरूपम् अपि तेनैव दर्शितम् ।
गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अन्नाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धे प्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश् स्मृताः ॥ इति ।
गृहजातः स्वगृहे दास्यां जातः । क्रीतो मूल्येन । लब्ध प्रतिग्रहादिना । दायागतो रिक्थग्राहित्वेन प्राप्तः । अन्नाकालभृतः दुर्भिक्षे दासत्वाय पोषितः । आहितः स्वामिना [३३७] धनग्रहणेनाधीनतां नीतः । ऋणमोक्षितः ऋणमोचनप्रत्युपकारतया दासत्वम् अभ्युपगतः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे विजितः दासत्वपणके द्यूतादौ जितः । तवाहम् इत्य् उपगतः तव दासो ऽस्मीति स्वयम् एवागतः । प्रव्रज्यावसितः प्रव्रज्यातश् च्युतः । कृतः कृतकालः एतावत्कालं त्वं मद्दास इत्य् उपगत इति । भक्तदासः सर्वकालं भक्तार्थे एव दासत्वम् अभ्युपगतः । वडवया गृहदास्या आहृतः तल्लोभेन ताम् उद्वाह्य दासत्वेन प्रविष्टः । यः आत्मानं विक्रीणीते असाव् आत्मविक्रेता । एवं पञ्चदशप्रकाराः । यत् तु मनुनोक्तम्,
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैतृको दण्डदासश् च सप्तैते दासयोनयः ॥ (म्ध् ८।४१५)
इति, तत् तेषां दासत्वप्रतिपादनार्थम् । न तु परिसंख्यार्थम् । अत्र शिष्याणां कर्मकृतौ विशेषो नारदेनोक्तः ।
आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् ।
तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥ इति ।
विद्या चात्र त्रयी । तद् उक्तं बृहस्पतिना ।
[३३८] विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच् च प्रचोदिताम् ॥ इति ।
अन्तेवासिनाम् अपि कर्मकृतौ विशेषस् तेनैवोक्तः ।
विज्ञानम् उच्यते शिल्पं हेमरूप्यादिसंस्कृतिः ।
नृत्यादिकं च तत्प्राप्तं कुर्यात् कर्म गुरोर् गृहे ॥ इति ।
नारदो ऽपि ।
स्वं शिल्पम् इच्छन् वा हर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥ इति ।
आचार्यस्यापि कर्तव्यम् आह स एव ।
आचार्यः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥ इति ।
अन्यकर्मकारकम् आचार्यं प्रत्य् आह कात्यायनः ।
यस् तु न ग्राहयेच् छिल्पं कर्माण्य् अन्यानि कारयेत् ।
प्राप्नुयात् साहसं पूर्वं तस्माच् छिष्यो निवर्तते ॥ इति ।
प्रैभाषितकालात् प्राग् एव विद्याप्राप्ताव् अपि तावत् कालं वसेद् इत्य् आह नारदः ।
[३३९] शिक्षितो ऽपि कृतं कालम् अन्तेवासी समापयेत् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥ इति ।
याज्ञवल्क्यो ऽपि ।
कृतशिल्पो ऽपि निवसेत् कृतकालं गुरोर् गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥ इति । (य्ध् २।१८४)
दुष्टं प्रत्य् आह नारदः ।
शिक्षयन् तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धं च सो ऽर्हति ॥ इति ।
वधो ऽत्र ताडनादिः । परिभाषितकालसंपूर्तौ कर्तव्यम् आह नारदः ।
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तते ॥ इति ।
भृतकानाम् अपि भृतिकृतः कालकृतश् च विशेषो बृहस्पतिना दर्शितः ।
यो भुङ्क्ते परदासीं तु स ज्ञेयो वडवाभृतः ।
कर्म तत्स्वामिनः क्र्याद् यथान्नेन भृतो नरः ॥
बहुधार्थभृतः। प्रोक्तस् तथा भागभृतो ऽपरः ।
हीनमध्योत्तमत्वं च सर्वेषाम् एव चोदितम् ॥
[३४०] दिनमासार्धषण्मासत्रिमासाब्दभृतस् तथा ।
कर्म कुर्यात् प्रतिज्ञातं लभते परिभाषितम् ॥ इति ।
अर्थभृतस्य बहुधात्वं समर्थाल्पत्वमहत्वाभ्यां द्रष्टव्यम् । ते चाल्पत्वमहते शक्त्यनुसारतो द्रष्टव्ये । तथा च नारदः ।
भृत्यस् तु त्रिविधो ज्ञेयः उत्तमो मध्यमो ऽधमः ।
शक्तिभक्तानुसाराभ्यां तेषां कर्माश्रया भृतिः ॥ इति ।
भागभृतस्य द्वैविध्यम् आह बृहस्पतिः ।
द्विप्रकारो भागभृतः कृषणो जीवितः स्मृतः ।
जातसस्यात् तथा क्षीराल् लभते तु न संशयः ॥ इति ।
अधिकर्मकृतस्य स्वरूपम् आह नारदः ।
अर्थेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।
सो ऽधिकर्मकृतो ज्ञेयः स न कौटुम्बिकः स्मृतः ॥ इति ।
एवं निरूपितेभ्यः शिष्यान्तेवासिभ्यः भृतकादिकर्म करेभ्यो दासानां भेदं दासशब्दव्युत्पत्तिदर्शनमुखेनाह कात्यायनः ।
स्वतन्त्रस्यात्मनो दानाद् दासत्वं दारवद् भृगुः ।
[३४१] इति । अयम् अर्थः । यथा भर्तुः संभोगार्थं स्वशरीरदानाद् दारत्वं तथा स्वतन्त्रस्यात्मनो दानाद् दासत्वम् – इति भृगुर् आचार्यो मन्यते इति । तेन चात्यन्तपारार्थ्यदर्शनम् आसाद्य शुश्रूषकाः दासाः । पारार्थ्यमात्रम् आसाद्य शुश्रूषकाः कर्मकरा इत्य् उक्तं भवति । दासत्वं च ब्राह्मणव्यतिरिक्तेष्व् एव त्रिषु वर्णेषु विज्ञेयम्, “दास्यं विप्रस्य न क्वचित्” इति तेनैवोक्तत्वात् । तेष्व् अपि दास्यम् आनुलोम्येनैवेत्य् आह स एव ।
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्तराम् ॥ इति ।
प्रातिलोम्येन दासत्वप्रतिषेधः स्वधर्मपरित्यागिभ्यो पतितेभ्यो ऽन्यत्र द्रष्टव्यः । तथा च नारदः ।
वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥
[३४२] इति । दारवद् दासता मतेति वचनात् ब्राह्मणस्य सवर्णं प्रति दासत्वम् आह कात्यायनः ।
असवर्णे तु विप्रस्य दासत्वं नैव कारयेत् । इति ।
यदि ब्राह्मणः स्वेच्छया दास्यं भजते तदासौ नाशुभं कर्म कुर्याद् इत्य् आह स एव ।
श्रुताध्ययनसंपन्नं तदूनं कर्म कामतः ।
तत्रापि नाशुभं किंचित् प्रकुर्वीत द्विजोत्तमः ॥ इति ।
ऊनं हीनम् अपि कर्म कामतो वेतनग्रहणम् अन्तरेण स्वेच्छया प्रहितार्थम् । क्षत्रियवैश्यविषये स्वामिनः कर्तव्यम् आह मनुः ।
क्षत्रियं चैव वैश्यं च ब्राह्मणो ऽवृत्तिकर्शितौ ।
बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयेत् ॥ इति । (म्ध् ८।४११)
यस् तु द्विजातिं बलाद् दास्यं कर्म कारयति तस्य दण्डम् आह स एव ।
[३४३] दास्यं तु कारयेन् मोहाद् ब्राह्मणः संस्कृतान् द्विजान् ।
अनिच्छतः प्राभवत्वाद् राज्ञा दण्ड्यः शतानि षट् ॥ इति । (म्ध् ८।४१२)
प्रभवतो भावः प्राभवत्वं तस्माद् इति । शूद्रं तु यथाकथम् अपि दास्यं कारयेद् इत्य् आह स एव ।
शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव च ।
दास्यायैव हि सृष्टो ऽसौ स्वयम् एव स्वयंभुवा ॥ इति । (म्ध् ९।४१३)
पञ्चदशप्रकाराणां दासानां मध्ये गृहजातक्रीतलब्धदायागतानां चतुर्णां दासत्वं स्वामिप्रसादाद् एव मुच्यते, नान्यथेत्य् आह नारदः ।
तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥ इति ।
आत्मविक्रेतुर् अपि दासत्वं स्वामिप्रसादाद् अन्यतो नापैतीत्य् आह नारदः ।
[३४४] विक्रीणीते ऽस्वतन्त्रः सन् य आत्मानं नराधमः ।
स जघन्यतमस् तेषां सो ऽपि दास्यान् न मुच्यते ॥ इति ।
प्रव्रज्यावसितस्यापि दास्यमोक्षो नास्तीत्य् आह स एव ।
राज्ञ एव हि दासः स्यात् प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथंचन ॥ इति ।
याज्ञवल्क्यो ऽपि ।
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । इति । (य्ध् २।१८३)
प्रव्रजावसितस्य दासत्वं ब्राह्मणेतरविषयम् । ब्राह्मणस् तु निर्वास्य इत्य् आह कात्यायनः ।
[३४५] प्रव्रज्यावसिता ये तु त्रयो वर्णा द्विजातयः ।
निर्वासं कारयेद् विप्रं दासत्वं क्षत्रियं विशः ॥ इति ।
निर्वासनप्रकारम् आह नारदः ।
पारिव्रज्यं गृहित्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ॥ इति ।
प्रव्रज्यावसितात्मविक्रेतृव्यतिरिकानाम् अन्नाकालभृतादीनां दास्यापनयनप्रकारम् आह स एव ।
अन्नाकालभृतो दास्यान् मुच्यते गोद्वयं ददत् ।
तद्भक्षितं यद् दुर्भिक्षे न तत् शुध्येत कर्मणा ॥
भक्तस्योत्क्षेपणेनैव भक्तदासः प्रमुच्यते ।
आहितो ऽपि धनं दत्वा स्वामी यद्य् एनम् उद्धरेत् ॥
[३४६] स्वपर्याप्तम् ऋणं दत्वा तदृणात् स विमुच्यते ।
तवाहम् इत्य् उपगतो युद्धे प्राप्तः पणे जितः ॥
प्रतिशीर्षप्रदानेन मुच्येरंस् तुल्यकर्मणा ।
कृतकालव्यपगमात् कृतको ऽपि विमुच्यते ॥
निग्रहाद् वडवायास् तु मुच्यते वडवाहृतः ॥ इति ।
स्वामिनः प्राणरक्षणाद् अपि गृहजातादयः सर्वे दास्यान् मुच्यन्त इत्य् आह नारदः ।
यश् चैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥ इति ।
दासाभासानां मोचनम् आह याज्ञवल्क्यः ।
बलाद् दासीकृतश् चोरैर् विक्रीतश् चापि मुच्यते । इति । (य्ध् २।१८२)
चकाराद् आहितो दत्तश् च गृह्यते । नारदो ऽपि ।
चोरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास् ते दासत्वं तेषु निष्यते ॥ इति ।
यत् त्व् एकस्य पूर्वं दास्यम् अङ्गीकृत्य परस्यापि दासत्वम् अङ्गीकरोति असाव् अपरेण विसर्जनीय इत्य् आह स एव ।
तवाहम् इति वात्मानं यो ऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥ इति ।
दासविमोक्षणेति कर्तव्यताम् आह स एव ।
स्वदासम् इच्छेद् यः कर्तुम् दासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षताभिः सपुष्पाभिर् मूर्धन्य् अद्भिर् अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखस् तु तथोत्सृजेत् ॥
ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नो ऽथ प्रतिग्राह्यो भवत्य् अभिमतः सताम् ॥ इति ।
इत्य् अभ्युपेत्याश्रुश्रूषाख्यं विवादपदं समाप्तम्
[३४८]
अथ संविद्व्यतिक्रमाख्यविवादपदस्य विधिर् उच्यते
तस्य लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम् ।
पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ इति ।
समयस्यानपाकर्म अव्यतिकर्मः समयपरिपालनम् । तद्व्य्तिक्रममाणं विवादपदं भवतीत्य् अर्थः । तदुपयोगिनम् अर्थम् आह बृहस्पतिः ।
वेदविद्याविदो विप्रान् श्रोत्रियांश् चाग्निहोत्रिणः ।
आहृत्य स्थापयेत् तत्र तेषां वृत्तिं प्रकल्पयेत् ॥ इति ।
याज्ञवल्क्यो ऽपि ।
राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु ।
त्रैविद्यान् वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥ इति । (य्ध् २।१८५)
ब्राह्मणान् त्रैविद्यान् वेदत्रयसंपन्नान् वृत्तिमत् भूरि हिरण्यादिसंपन्नं कृत्वा स्वधर्मो वर्णाश्रमश्रुतिस्मृतिविहितो भगवद्भिर् अनुष्ठीयताम् इति तान् ब्रूयात् । वृत्तिसंपत्तिश् च बृहस्पतिना दर्शिता ।
[३४९] अनाच्छेद्यकरास् तेभ्यः प्रदद्याद् गृहभूमयः ।
भुक्तभाव्याश् च नृपतिर् लेखयित्वा स्वशासने ॥ इति ।
अनाच्छेद्यकरा अग्राह्यकराः भुक्ता भाव्यास् तु न विश्रुतकराः । आगामिनृपतिभिर् अग्राह्यकरा या भूमयस् ताः स्वशासने लिखित्वा तेभ्यो दद्याद् इत्य् अर्थः ।
तेषां कर्तव्यम् आह बृहस्पतिः ।
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस् ते संदिग्धे ऽर्थे च निर्णयम् ॥ इति ।
याज्ञवल्क्यो ऽपि ।
निजधर्माविरोधेन यस् तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ इति । (य्ध् २।१८६)
श्रौतस्मार्तधर्मानुपमर्देन गोत्राचारेक्षणदेवगृहपालनादिरूपो यो धर्मः समयान् निष्पन्नो भवेत् सो ऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्माविरोधेनैव यावत् पथिकभोजनं देयम् । अस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया [३५०] इत्य् एवंरूपः समयनिष्पन्नः सो ऽपि रक्षणीयः । एवं राजनियुक्तसमुदायविशेषस्य कर्तव्यविशेषो ऽभिहितः । ग्रामादिसर्वसमुदायानां तु सादारणकार्यम् आह बृहस्पतिः ।
ग्रामश्रेणीगणानां च सङ्केतः समयक्रिया ।
बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ॥
वाटदोरमये भाधा सर्वसाधारणी स्मृता ।
तत्रोपशमनं कार्यं सर्वेणैकेन केनचित् ॥ इति ।
चकारेण पाषण्डनैगमादीनां चोपसंग्रहः । ततश् च ग्रामश्रेणीगणपाषण्डनैगमादीनाम् उपद्रवकाले धर्मकार्ये च यां पारिभाषिकीं समयक्रियां विना उपद्रवो दुःपरिहरः, धर्मकार्यं च दुःसाध्यं सा पारिभाषिकी समयक्रिया सर्वैर् मिलितैः कार्या । वाटो वृकः । वाटचोरेभ्यो भये प्राप्ते तदा चोरोपशमनं सर्वैः संभूय कर्तव्यम् इत्य् अर्थः । धर्मकार्ये तु विशेषः तेनैवोक्तः ।
सभा प्रपा देवगृहं तडागाराम् असंस्कृतिः ।
तथानाथदरिद्राणां संस्कारो यजनक्रिया ॥
कुलायनं निरोधश् च कार्यम् अस्माभिर् अंशतः ।
यत् त्व् एवं लिखितं पत्रं धर्म्या सा समयक्रिया ॥
[३५१] पालनीया समस्तैस् तु यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डः तस्य निर्वासनं पुरात् ॥ इति ।
यजनक्रिया सोमयागादिकर्तृभ्यो दानम् । कुलायनं दुर्भिक्षादिपीडितवृथागमनम् । तस्मिन् गते सति यत् संविधानं विधेयं तद् एव तच्छब्देनोच्यते । निरोधः दुर्भिक्षाद्यपगमपर्यन्तं धारणम् । अंशतः गृहक्षेत्रपुरुषादिप्रयुक्तसंगृहीतधनेनाढ्यकत्वेन वा स्थितेन कार्यम् इति । एवं कृता समयक्रिया न केवलं समुदायिभिः पालनीया । किं तु राज्ञापीत्य् आह नारदः ।
पाषण्डनैगमश्रेणिपूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥ इति ।
पाषण्डा वेदबाह्या वेदोक्तलिङ्गदारिणो अतिरिक्ता वा सर्वे लिङ्गिनः । तेषाम् मध्ये अभिचरणाद्याः समयाः सन्ति । नैगमाः सार्थिका वणिग्प्रभृतयः । तेषु **[३५२] **संचुकसंदेशहरपुरुषतिरस्कारिणो दण्ड्या इत्य् एवमादयो बहवः समया विद्यन्ते । अथ वा नैगमा आप्तप्रणीतत्वेन वेदप्रामाण्यम् इच्छन्ति ये पाशुपतादयः, पण्यशिल्पोपजीविनः कुविंदादयः तास्व् इयम् अनयैव श्रेण्या विक्रेयम् इत्यादिकाः समयाः सन्ति युगा हस्त्यश्वारोहकादयः । व्रातगणशब्दयोर् अर्थः कात्यायनेन दर्शितः ।
नानायुधधरा व्राताः समवेतास् तु कीर्तिताः ।
कुलानां तु समूहो यः गणः स परिकीर्तितः ॥ इति ।
पूगे व्राते चान्योन्यम् उत्सृज्य समरे न गन्तव्यम् इत्यादयः सन्ति समयाः । गणे च पञ्चमे ऽहनि पञ्चमे वा अब्दे कर्णवेधः कर्तव्य इत्यादिसमयाः । दुर्गे धान्यदिकं गृहीत्वा अन्यत्र यास्यता न तद् विक्रेयम् इत्य् आस्ते समयः । जनपदे तु क्वचिद् विक्रेतुर् हस्ते क्वचित् क्रेतृहस्ते शुल्कग्रहणम् इत्यादिको ऽस्त्य् अनेकविधः समयः । तत् समयजातं यथा न भ्रश्यति न च व्यतिवर्तेर तथा राजा कुर्याद् इत्य् अर्थः । समुदाये तु पुरुषविषये विशेषम् आह बृहस्पतिः ।
[३५३] कोशेन लेख्यक्रियया मध्यस्थैर् वा परस्परम् ।
विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्य् अनन्तरम् ॥ इति ।
मध्यस्थैः प्रतिभूभिः । कार्याणि समूहकार्याणि । कात्यायनो ऽपि ।
समूहानां तु यो धर्मस् तेन धर्मेण ते सदा ।
प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ॥ इति ।
समूहकार्यकारिषु हेयोपादेयान् विभजति बृहस्पतिः ।
विद्वेषिणो व्यसनिनः शालीनालसभीरवः ।
वृद्धा लुब्धाश् च बालाश् च न कार्याः कार्यचिन्तकाः ॥
शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश् च कर्तव्यास् तु महत्तमाः ॥ इति ।
ते च कियन्तः कर्तव्या इत्य् अपेक्षिते स एवाह ।
[३५४] द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ॥ इति ।
यः समूहहितवादिनां वचनातिक्रमं करोति तस्य दण्डम् आह याज्ञवल्क्यः ।
कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ इति । (य्ध् २।१८८)
कात्यायनो ऽपि ।
युक्तियुक्तं च यो हन्याद् यः कार्यानवकाशदः ।
अयुक्तं चैव यो ब्रूयात् स दाप्यः पूर्वसाहसम् ॥ इति ।
बृहस्पतिर् अपि ।
यस् तु साधारणं हिंस्यात् क्षिपेत् त्रैविद्यम् एव वा ।
संवित्क्रियां विहन्याच् च स निर्वास्यः ततः पुरात् ॥ इति ।
समूहिनाम् अप्य् अधर्मेण द्वेषादिना कार्यकरणे दण्डम् आह स एव ।
[३५५] बाधां कुर्युर् यदैकस्य संभूता द्वेषसंयुआः ।
राज्ञा सर्वे गृहीतार्थाः शास्याश् चैवानुबन्धतः ॥ इति ।
अनुबन्धतो ऽनुसारतः न यथा समयं जह्युः । मुख्यानाम् औद्दण्ड्यं राजा निवारयेद् इत्य् आह स एव ।
मुख्यैः सहसमूहानां विसंवादो यदा भवेत् ।
तदा विचारयेद् राजा स्वमार्गे स्थापयेच् च तान् ॥ इति ।
यस् तु मुख्यः समूहद्रव्यादिकम् अपहरति तस्य दण्डम् आह याज्ञवल्क्यः ।
गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेत् तु यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥ इति । (य्ध् २।१८७)
मर्मोद्घाटकादीनां पुरान् निर्वासनम् एव दण्डम् आह बृहस्पतिः ।
अरुन्तुदः सूचकश् च भेदकृत् साहसी तथा ।
श्रेणिपूगनृपद्वेष्टा क्षिप्रं निर्वास्यते तदा ॥
[३५६] पुरश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्दिग्दमं परित्यागं प्रकुर्युः पापकारिणः ॥
तैः कृतं यत् स्वधर्मेण निग्रहानुग्रहं नृणाम् ।
तद् राज्ञाप्य् अनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥ इति ।
निसृष्टार्था अनुज्ञातकार्या इत्य् अर्थः । पाषण्ड्यादिसर्वसमूहेषु यथा राज्ञा वर्तितव्यं तद् आह नारदः ।
यो धर्मः कर्म य चैषाम् उपस्थानविधिश् च यः ।
यच् चैषां वृत्युपादानम् अनुमन्येत् तत् तथा ॥
प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत् ।
दोषवत् करणं यत् स्याद् अनाम्नायप्रकल्पितम् ।
प्रवृत्तम् अपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥ इति ।
धर्मो जटावत्वादि । कर्म प्रातःपर्युषितभिक्षाटनादि । उपस्थानविधिः समूहकार्यार्थे पटहादिध्वनिम् आकर्ण्य मण्डपादौ मेलनम् । वृत्युपादानं जीवनार्थं तापसवेषपरिग्रहः । [३५७] राज्ञः प्रतिकूलम् आधिकारिकशूद्रकर्तृकं त्रैवर्णैकविवादे धर्मविवेचनम् । तस्य च प्रतिकूलत्वम् उक्तं स्मृत्यन्तरेण ।
यस्य राज्ञः तु कुरुते शूद्रो धर्मविवेचनम् ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोषं च नश्यति ॥ इति ।
प्रकृत्यवमतं स्वभावत एव यद् अननुज्ञातं पाषण्ड्यादिषु ताम्बूलभक्षणाद्यर्थानां बाधकं रसवादादिकम् । मिथः सङ्घातकरणम् उपस्थानविधेः पूर्वं पृथक् पृथग् अवान्तरस्तोमकरणम् आहितकलशादिकम् । परस्परोपतापः राजपुरुषाश्रयणेनान्योन्यम् अर्थापहरणादिः । दोषवत् करणं श्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषाण्ड्यादिभिः प्रकल्पितम् । संविल्लङ्घने दण्डम् आह मनुः ।
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्टाद् विप्रवासयेत् ॥
विगृह्य दापयेद् एनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्णिष्कान् शतमानं च राजतम् ॥
[३५८] एवं दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ इति । (म्ध् ८।२१९–२१)
सत्येन शपथेन । एतेषां निर्वासनचतुःसुवर्णषट्निष्कशतमानरूपाणां जातिविद्यागुणाद्यपेक्षया व्यवस्था कल्पनीया । समूहपूजार्थं राज्ञा समर्पितं द्रव्यं समूहाय यो न ददाति तं प्रत्य् आह याज्ञवल्क्यः ।
समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥
समूहकर्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् अस्मै नार्पयेत् स्वयम् ॥ इति । (य्ध् २।१८९–९०)
समूहकार्यप्रहितेनार्पितं च धनं सर्वे समूहिनो विभज्य गृह्णीयुः । तथा च बृहस्पतिः ।
ततो लभ्येत यत् किंचित् सर्वेषाम् एव तत् समम् । इति ।
विभज्य ग्रहणम् अणुद्रव्यविषयम् । यस् तत्पक्षविषये स एवाह ।
[३५९] षाण्मासिकं वत्सरं वा विभक्तव्यं यथांशतः ।
देयं बधिरवृद्धान्धस्त्रीबालातुररोगिषु ॥
सान्तानिकादिषु तथा धर्म एष सनातनः ॥ इति ।
राज्ञः प्रसादलब्धं वंटणम् अपि सर्वेषां समम् इत्य् आह स एव ।
यत् तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।
राज्ञः प्रसादलब्धं च सर्वेषां तत् समाहितम् ॥ इति ।
एतद् अभक्षितविषयम् । भक्षिते तु कात्यायन आह ।
गणम् उद्दिश्य यत् किंचित् कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैर् एव तद् भवेत् ॥ इति ।
ये तु समुदायं प्रसाद्य तदन्तर्गता ये च समुदायक्षोभादिना ततो बहिर्भूताः तान् प्रत्य् आह स एव ।
गणिनां शिल्पिवर्गाणां गताः स्युर् ये तु मध्यताम् ।
प्राक्तनस्याधमर्णस्य समांशाः सर्व एव ते ॥
[३६०] तथैव भोजनैर् भाव्यं दानधर्मक्रियासु च ।
समूहस्थो ऽंशभागी स्यात् प्रगतस् त्व् अंशभाग् अभाक् ॥ इति ।
संविद्व्यतिक्रमाख्यं विवादपदम्
अथ् क्रीतानुशयः कथ्यते
तत्स्वरूपं नारदेनोक्तम् ।
क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीतानुशय इत्य् एतद् विवादपदम् उच्यते ॥ इति ।
क्रीत्वानुशयानुत्पत्त्यर्थं क्रेता क्रयात् प्राग् एव सम्यक् परीक्षेत । तथा च स एव ।
क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्षाभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥ इति ।
परीक्षाभिमतं क्रीतं तद्दोषदर्शने ऽपि ग्रहीतुर् एव भवति न विक्रेतुः । तथा च बृहस्पतिः ।
परीक्षितं बहुमतं गृहीत्वा न पुनस् त्यजेत् ।
[३६१] इति । तत्कालपरीक्षितस्य पुनर् अर्पणाभावः सावधिविषयः । तत्र सद्यः परीक्षणस्य विहितत्वात् । तथा च व्यासः ।
चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च ।
वस्त्ररूप्यहिरण्यानां सद्य एव परीक्षणम् ॥ इति ।
क्रीतानां पण्यानां द्रव्यविशेषेण परीक्षणकालावधिम् आह स एव ।
त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यम् एव तु ।
मणिमुक्ताप्रवालानां सप्ताहात् स्यात् परीक्षणम् ।
द्विपदाम् अर्धमासं स्यात् पुंसां तद्द्विगुणं स्त्रियाः ॥
दशाहात् सर्वबीजानाम् एकाहाल् लोहवाससाम् ।
अतो ऽर्वाक् पण्यदोषस् तु यदि संज्ञायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यम् अवाप्नुयात् ॥ इति ।
यथोक्तपरीक्षाकालातिक्रमे तु न प्रतिदेयम् इत्य् आह कात्यायनः ।
अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद् विभावितम् ।
क्रीतं तत् स्वामिने देयं पण्यं काले ऽन्यथा न तु ॥
[३६२] इति । अविज्ञातं परीक्षया तत्त्वतो ऽपरिज्ञातं यस्य द्रव्यस्य तद् यावत् परीक्षाकालः उक्तः तस्मिन् काले प्रतिदेयम् । अन्यथा तत्कालातिक्रमे दुष्टतया परिज्ञातम् अपि क्रीतं तत्स्वामिने न देयम् इत्य् अर्थः । पण्यानां देशकालवशाद् उपचयापचयौ प्रथमतो ज्ञातव्याव् इत्य् आह नारदः ।
क्षयं वृद्धिं च जानीयात् पण्यानाम् आगमं तथा । इति ।
अश्वादिपण्यानाम् अस्मिन् काले अस्मिन् देशे च वृद्धिर् भविष्यतीति जानियात् तथा आगमनं कुलीनत्वादिज्ञानार्थम् उत्पादकजन्मभूयादिकं च जानीयाद् इत्य् अर्थः । एवं सम्यक् परीक्ष्य गुणदोषदर्शनादिकालम् अन्तरेण नानुशयः कार्य इत्य् आह याज्ञवल्क्यः ।
क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाग्क् ॥ (य्ध् २।२५८)
[३६३] इति । परीक्षितपण्यानां क्रयकालोत्तरकालम् । परिमाणतो ऽर्घकृतां वृद्धिम् अपश्यता क्रेत्रानुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयम् अपश्यता नानुशयितव्यम् । क्षयवृद्धिकालपरिज्ञाने पुनः क्रेतुर् विक्रेतुर् अनुशयो भवतीति व्यतिरेकाद् उक्तं भवति । पण्यदोषतद्वृद्धिक्षयकारणत्रितयाभावे ऽनुशयकालाभ्यन्तरे ऽपि यद्य् अनुशयं करोति तदा पण्यषड्भागं दण्डनीयः । अनुशयकारणसद्भावे ऽप्य् अनुशयकालातिक्रमेण यो ऽनुशयं करोति सो ऽप्य् एवं दण्डनीयः ।
एतच् चोपभोगाविनश्वरवस्तुविषयम् । उपभोगेन विनश्वरवस्तिविषये प्रत्यर्पणे ऽवधिम् आह नारदः ।
क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥ इति ।
द्वितीयादिदिवसप्रत्यर्पणे तु विशेषस् तेनैवोक्तः ।
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् ।
द्विगुणं तु तृतीये ऽह्नि परतः केतुर् एव च ॥ इति ।
परतो ऽनुशयो न कर्तव्य इत्य् अर्थः । यत् तु पुनर् मनुनोक्तम्,
[३६४] क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ॥
इति, तद् उपभोगेनाविनश्वरगृहक्षेत्रयानशयनादिविषयम्, तत्रैव दशाहादेर् उक्तत्वात् । तथा च कात्यायनः ।
भूमेर् दशाहे विक्रेतुर् आयस् तत्क्रेतुर् एव च ।
द्वादशाहः सपिण्डानाम् अपि चाल्पम् अतः परम् ॥ इति ।
अविनश्वरेषु स्थिरार्घेषु अनुशयकालातिक्रमेणानुशयं कुर्वतो मनुनोक्तो दण्डो वेदितव्यः ।
परेण तु दशाहस्य न दद्यान् नाप् दापयेत् ।
आददानो ददच् चैव राज्ञा दण्ड्यः शतानि षट् ॥ इति ।
बीजादिव्यतिर्क्तोपभोगः । वासोविषये ऽपि नारदः ।
परिभुक्तं च यद् वासः क्लिष्टरूपं मलीमसम् ।
सदोषम् अपि तत् क्रीतं विक्रेतुर् न भवेत् पुनः ॥ इति ।
इति क्रीतानुशयः
[३६५]
अथ विक्रीयासंप्रदानम्
तस्य स्वरूपं नारदेनोक्तम् ।
विक्रीय पण्यं मूल्येन क्रेत्रे यन् न प्रदीयते ।
विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥ इति ।
पण्यद्वैविध्यम् उक्तं तेनैव ।
लोके ऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥
षड्विधस् तस्य तु बुधैः दानादानविधिः स्मृतः ।
गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥ इति ।
गणिमं संख्येयं कमुकफलादि । तुलिमं तुलयाधाप्यं हेमचन्दनादि । मेयं व्रीह्यादि । क्रियया वाहनदोहनादिक्रियोपलक्षितम् अश्वमहिष्यादि । रूपतः पण्याङ्गनादि । श्रिया पद्मरागादि । तद् एतत् षट्प्रकारम् अपि पण्यं विक्रीयाप्रयच्छन् सोदयं दाप्य इत्य् आह याज्ञवल्क्यः ।
गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति ।
सोदयं तस्य दाप्यो ऽसौ दिग्लाभाम् वा दिगागते ॥ (य्ध् २।२५४)
[३६६] इति । गृहीतमूल्यं पण्यं विक्रेता यदि प्रार्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति तच् च पण्यं यदि क्रयकाले बहुमूल्यं सत् कालान्तरे स्वल्पमूल्येनैव लभ्यते तदा सोदयं वृद्ध्या सहितं विक्रेक्ता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्यस्योदयो नास्ति किं तु क्रयकाले यवद् एव यतो मूल्यस्य यत् पण्यम् इति प्रतिपन्नं तावद् एव तदा तत् पण्यम् आदाय तस्मिन् देशे विक्रीणानस्य यो लाभस् तेनोदयेन सहितं द्विकं त्रिकम् इत्यादिना प्रतिपादितवृद्धिरूपोदयेन सहितं दापनीयः । यथाह नारदः ।
अर्घश् चेद् अवहीयेत सोदयं पण्यम् आवहेत् ।
स्थायिनाम् एष नियमो दिग्लाभो दिग्विचारिणाम् ॥ इति ।
यदा त्व् अर्घमहत्वेन पण्यस्य न्यूनभावस् तदा तस्मिन् पण्ये वस्त्रगृहादिके य उपभोगः तदाच्छादनमुखनिवासादिरूपो विक्रेतुः तत्सहितं पण्यसमौ दाप्यः । यथाह नारदः ।
[३६७] विक्रीय पण्यं मूल्येन क्रेत्रे यन् न प्रयच्छति ।
स्थावरस्योदयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ इति ।
क्षयशब्देन गतभोग उक्तः । यद्य् अपि तस्य दानम् अशक्यं तथापि तदनुगुणद्रव्यं देयम् । जङ्गमानां तु तत्कर्मनिमित्तं मूल्यं दाप्यः । यदा त्व् असौ क्रेता देशान्तरात् पण्यग्रहणार्थम् आगतस् तदा तत्पण्यम् आदाय देशान्तरे विक्रीतस्य यो लाभस् तेन सहितं पण्यं विक्रेता क्रेत्रे दापनीयः । विष्णुस् तु विक्रेतुर् दण्डम् अप्य् आह- “गृहीतमूल्यं यः पण्यं क्रेतुर् नैव दद्यात् तस्यासौ सोदयं दाप्यो राज्ञा चापि पणशतं दण्ड्यः” इति । यस् तु विक्रीयानुशयवशान् न समर्पयति यश् च क्रीत्वानुश्यवशान् न गृह्णाति तं प्रत्य् आह कात्यायनः ।
क्रीत्वा प्राप्तं न गृह्णीयाद् यो न दद्याद् अदूषितम् ।
स मूल्याद् दशमभागं तु दत्वा स्वं द्रव्यम् आप्नुयात् ॥
अप्राप्ते ऽर्थे कृच्छ्रकाले कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहात् तु परतो ऽनुशयो न तु ॥ इति ।
अदूषितं जलादिनेति शषः । दोह्यवाह्यादिपण्यस्य दोहनादिनेति शेषः । दोह्यवाह्यादिपणस्य दोहनादिकालो [३६८] ऽर्थक्रियाकालः । तस्मिन् प्राप्ते सति अग्रहणे अदाने वा कृती दशमभागं प्रदापयेत् । किं तु तम् अदत्वैव स्वं द्रव्यम् अवाप्नुयात् । एष धर्मो दशाहात् प्राग् वेदितव्यः । ततः परम् अनुशयो न कर्तव्यः । विक्रीयासंप्रयच्छतो ऽपि विक्रीतं पण्यं विक्रेतृपार्श्वे स्थितं तस्य यदि दैवादिना नाशः स्यात् तदा विक्रेतुर् एव हानिर् इत्य् आह याज्ञवल्क्यः ।
दैवराजोपघातेन पण्यए दोषम् उपागते ।
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥ इति । (य्ध् २।२५६)
याचितस्येति विशेषणेन अयाचिते न विक्रेतुर् हानिर् इत्य् अर्थाद् अवगम्यते । नारदो ऽपि ।
उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥
[३६९] इति । यथा याचितस्याप्रयच्छतो विक्रेतुर् हानिः तथा दीयमानपण्यम् अगृह्णतः क्रेतुर् अपीत्य् आह स एव ।
दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।
स एवास्य भवेद् दोषो विक्रेतुर् यो ऽप्रयच्छतः ॥
याज्ञवल्क्यो ऽपि ।
विक्रीतम् अपि विक्रेयं पूर्वं क्रेतर्य् अगृह्णति ।
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥ इति । (य्ध् २।२५५)
यस् तु निर्दोषं पण्यं दर्शयित्वा सदोषं विक्रीणीते यश् चान्यहस्ते विक्रीय तद् अन्यस्मै तत् प्रयच्छति तयोः समानो दण्ड इत्य् आह नारदः ।
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावद् एव च ॥
अन्यहस्ते च विक्रीय तथान्यस्मै प्रयच्छति ।
सो ऽपि तद्द्विगुणं दाप्यो विनयं तावद् एव तु ॥ इति ।
एतद् बुद्धिपूर्वकविषयम्।
[३७०] ज्ञात्वा सदोषं पण्यं यो विक्रीणीते ऽविचक्षणः ।
तद् एव द्विगुणं दाप्यस् तत्समं विनयं तथा ॥
इति बृहस्पतिणोक्तत्वात् । अबुद्धिपूर्वके तु क्रेतुः अपरावर्तनम् एव । अत एव एवंविधक्रयपरावर्तणं स एवाह ।
मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।
अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर् भवेत् ॥ इति ।
अत एवंविधनियमो दत्तमूल्ये क्रये द्रष्टव्यः । अदत्तमूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रोः समया ऋते प्रवृत्तौ वा न कश्चिद् दोषः । तथा च नारदः ।
दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।
अदत्ते ऽन्यत्रे समयान् न विक्रेतुर् अतिक्रमः ॥ इति ।
यत्र पुनर् वाङ्मात्रेण क्रयो मा भूद् इति विक्रेतृहस्ते क्रेत्रा यत् किंचिद् द्रव्यं दत्तं तत्र क्रेतुर् दोषवशेन क्रयासिद्धौ आह व्यासः ।
सत्यंकारं च यो दत्वा यथाकालं न दृश्यते ।
पण्यम् एव निसृष्टं तद् दीयमानम् अगृह्णतः ॥
[३७१] इति । अत्र पण्यद्रव्यस्योत्सर्गः सत्यंकारद्रव्यस्योत्सर्गो ऽभिमतः । अस्मिन्न् एव विषये विक्रेतृदोषवशेन क्रयासिद्धौ आह याज्ञवल्क्यः ।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् । इति ।
क्रीत्वानुशयानुत्पत्त्यर्थं कतिपयपण्यानां विक्रयानर्हत्वम् आह मनुः ।
नान्यद् अन्येन संसृष्टरूपं विक्रयम् अर्हति ।
न चासारं न च न्यूनं न दूरे न तिरोहितम् ॥ इति । (म्ध् ८।२०३)
इति क्रयविक्रयानुशयाख्यं विवादपदम्
[३७२]
अथ स्वामिपालविवादविधिः
तत्र तु तदभिधानप्रतिज्ञा मनुना कृता ।
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥ इति । (म्ध् ८।२२९)
विवादं विवादापनोदम् इत्य् अर्थः । स्वामिपालयोः कर्तव्यम् आह नारदः ।
उपानयेद् गाः गोपालः प्रत्यहं रजनीक्षये ।
चीर्णा पीताश् च ता गावाः सायाह्ने प्रत्युपानयेत् ॥ इति ।
गोग्रहणं पशुमात्रोपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।
यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा । इति । (य्ध् २।१६४)
यावन्तः प्रातः समर्प्तिआः तावन्तः सायं प्रत्यर्पणीया इत्य् अर्थः । गवादिपरिपालकस्य भृतिपरिमाणम् आह नारदः ।
[३७३] गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे संदोहो वाष्टमे ऽहनि ॥ इति ।
प्रतिसंवत्सरं वत्सतरी द्विहायनी गौः भृतिः भृतके कल्पनीया । द्विशते तु सवत्सा गौः । अष्टमे दिवसे दोहश् च भृतित्वेन कल्पनीय इत्य् अर्थः । संदोहः सर्वदोहः,
तया धेनुभृतः क्षीरं लभेतैवाष्टमे ऽखिलम् ।
इति बृहस्पतिस्मरणात् । इयं च भृतिकल्पना परिभाषितभृतिविशेषाभाविविषये । परिभाषिते तु भृतिविशेषे स एव देयः । मनुस् तु प्रकारान्तरेण भृतिम् आह ।
गोपः क्षीरभृतो यस् तु स दुह्याद् दशतो वराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥ इति । (म्ध् ८।२३१)
दशतो दशदोग्ध्रीणां मधे वराम् उत्कृष्टआं गां स्वीकृत्य तत्क्षीरं क्षीरभृतो गृह्णीयात् । क्षीरशून्यानां तु क्षीरमूल्यतो भृतिः कल्पनीया । यद्य् असौ द्रव्यान्तरेण भृतः न तत्रैषा भृतिर् इत्य् अर्थः । यस् त्व् एवं परिकल्पितं वेतनं गृहीत्वा पशून् [३७४] पालयन् भृत्यः स्वदोषेण पशून् मारेयेद् विनाशयति वा तं प्रत्य् आह याज्ञवल्क्यः ।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः । इति । (य्ध् २।१६४)
प्रमादग्रहणं पालकदोषोपलक्षणार्थम् । प्रमादश् च मनुना स्पष्टीकृतः ।
नष्टं विनष्टं कृमिभिः श्वहस्तं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ इति । (म्ध् ८।२३२)
प्रसह्य चोरैर् अपहृतो न दाप्यः । तथा च स एव ।
विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ इति । (म्ध् ८।२३३)
व्यासो ऽपि ।
पालग्रहे ग्रामघाते तथा राष्ट्रस्य विप्लवे ।
यत् पणष्टं हृतं वा स्यान् न पालेष्व् अत्र किल्बिषम् ॥ इति ।
एतत् पुरुषकारकरणे वेदितव्यम् । पुरुषकाराकरणे तु भवत्य् एव किल्बिषी । पुरुषकारस्य स्वरूपं नारदेन दर्शितम् ।
[३७५] कृमिचोरव्याघ्रभयाद् दरीश्वभ्राच् च पालयेत् ।
व्यायच्छेच् छक्तितः क्रोशेत् स्वामिने तु निवेदयेत् ॥ । इति ।
व्यायच्छेत् निवारणार्थं प्रयतेतेत्य् अर्थः । यः प्रस्तुतार्थं न यतते तं प्रत्य् आह स एव ।
अव्यायच्छन्न् अविक्रोशन् स्वामिने वानिवेदयन् ।
वोढुम् अर्हति गोपस् तां विनयं चैव राजनि ॥ इति ।
विनयप्रमाणम् आह याज्ञवल्क्यः ।
पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिनो द्रव्यम् एव च ॥ इति । (य्ध् २।१६५)
अर्धत्रयोदशपणः सार्धद्वादशकार्षापणः । पालदोषम् आह मनुः ।
[३७६] अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति ।
यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥ इति । (म्ध् ८।२३५)
अनायति, उपद्रवनिराकरणाय अनागच्छतीत्य् अर्थः । याम् अजाविकजातीयाम् । एतत् सुगमस्थलस्थविषयम् । दुर्गमस्थलविषये तु न दोष इत्य् आह स एव ।
तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।
याम् उत्प्लुत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥ इति । (म्ध् ८।२३६)
अवरुद्धानां पालकेन एकत्र स्थापितानाम् इत्य् अर्थः । दैवमृतानां पुनः कर्णादिकं दर्शनीयम् । तथा च मनुः ।
कर्णौ चर्म च वालांश् च बस्त्यस्थिस्नायुरोचनम् ।
पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्गानि दर्शयेत् ॥ (म्ध् ८।२३४)
[३७७] इति । स्मृत्यन्तरम् अपि ।
कर्णौ चर्म च वालांश् च शृङ्गस्नाय्वस्थिरोचनम् ।
पशुस्वामिषु दद्यात् तु मृतेष्व् अङ्गानि दर्शयेत् ॥ इति ।
गोप्रचारभूमिम् आह याज्ञवल्क्यः ।
ग्रामेच्छया गोप्रचारो भूमी राजेच्छयापि वा । इति । (य्ध् २।११६)
ग्रामेच्छया ग्रामाल्पत्वमहत्वापेक्षया राजेच्छया वा गवां तृणादिभक्षणार्थं कुयान् अपि भूभागो ऽकृष्टः कल्पनीयः । गवां प्रचारस्थानासनसौकर्यार्थं ग्रामक्षेत्रयोर् अन्तरम् आह स एव ।
धनुःशतं परीणाहो ग्रामे केत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥ इति । (य्ध् २।१६७)
ग्रामक्षेत्रयोर् अन्तरं धनुःशतपरिमितम् । सर्वदैवविधिना शस्यं कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शते अन्तरे शस्यम् । नगरस्य च बहुजनसंकीर्णस्य चतुःशतपरिमिते अन्तरे शस्यं कार्यम् इति । [३७८] तत्र पशुनिवारणाय वृतिर् अपि कल्पनीयेत्य् आह कात्यायनः ।
आजातेष्व् एव शस्येषु कुर्याद् आवरणं सदा ।
दुःखेन विनिवार्यन्ते लब्धस्वादुरसा मृगाः ॥ इति ।
नारदो ऽपि ।
पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।
न लङ्घयेत् पशुर् वाश्वो न भिन्द्यात् यां च सूकरः ॥ इति ।
एवं च पशुनिवारणे कृते ऽपि ताम् अतिक्रम्य शस्यादि विनाशे सति मनुर् आह ।
पथि क्षेत्रे परिवृते ग्रामान्तीये ऽथ वा पुनः ।
सपालः शतदण्डार्हो विपालान् वारयेत् पशून् । इति ।
पथि क्षेत्रे परिवृते सति तां वृतिम् अतिक्रम्य शत्यघाते सपालः पशुकार्ये पणशतदण्डार्थः । एवं ग्रामान्तीये ग्रामसमीपवर्तिनि क्षेत्रे परिवृते सति तां वृतिम् अतिक्रम्य शस्यघाते स पालः [३७९] शतपणदण्डार्हः । तत्पशुपालकः शतदण्डेन दण्डनीय इत्य् अर्थः । विपालं पालकरथितं पशुं क्षेत्रिको लगुडादिना निवारयेत् । नारदो ऽपि ।
उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः ।
पालः शास्यो भवेत् तत्र न चेच् छक्त्या निवारयेत् ॥ इति ।
अनावृतक्षेत्रघातविषये स एवाह ।
ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे ।
अनावृतं चेत् तन्नाशे न पालस्य व्यतिक्रमः ॥ इति ।
विवीतशब्देन तृणकाष्ठस्मृद्धः परपरिगृहीतः प्रदेश उच्यते । व्यतिक्रमनिषेधेनार्थाद् दण्डाभावः सूचितः । तद् अनेन अपरिवृते पालस्य दण्डाभावः सूचितः । मनुस् तु साक्षाद् दण्डं विषेधति ।
[३८०] तत्राप्रिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ इति । (म्ध् ८।२३८)
एतद् अदीर्घकालप्रचारविषयम् । दीर्घकालप्रचारे तु दण्डम् अर्हति । अत एवाल्पकालप्रचारे दोषाभावम् आह विष्णुः- “पथि ग्रामप्रान्ते च न दोषो ऽल्पकालम्” इति (विध् ३।१५) । दण्डपरिमाणं तु पशुविशेषेण दर्शितं याज्ञवल्क्येन ।
माषान् अष्टौ तु महिषी शस्यघातस्य कारिणी ।
दण्डनीया तदर्थं तु गौस् तदर्धम् अजाविकम् ॥
भक्षयित्वोपविष्टानां यथोक्तान् द्विगुणो दमः ।
समम् एषां विवीते ऽपि खरोष्ट्रं महिषीसम ॥ इति । (य्ध् २।१५९–६०)
परशस्यघातकारिमहिषीस्वामी प्रतिमहिष्य् अष्टौ माषान् दण्डनीयः । चतुरो माषान् गोस्वामी । मेषस्वामी द्वौ द्वौ माषौ । एषाम् एव पशूनां शस्यभक्षणाद् आरभ्य यावच् छयनम् अनिवारितानां स्वामी यथोक्तदण्डान् द्विगुणं दण्डनीयः ।
[३८१] विवीतस्य तृणाद्युपघाते पशुस्वामी शस्यक्षेत्रोपघातवद् दण्डनीयः । खरोष्ट्रस्वामी महिषीस्वामिवद् दण्डनीयः । एतद् अज्ञानविषयम् ।
पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा ।
तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥
इति स्मृत्यन्तरोक्तं वेदितव्यम् । माषाश् चात्र ताम्रिकपणस्य विंशतितमो भागः,
माषो विंशतितमो भागः पणस्य परिकीर्तितः \
इति नारदस्मरणात् । भक्षयित्वोपविष्टसवत्सविषये यथोक्ताच् चतुर्गुणो दण्डः । तद् उक्तं स्मृत्यन्तरे ।
वत्सानां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः । इति ।
यत् पुनर् नारदेनोक्तम्,
माषं गां दापयेद् दण्डं द्वौ माषौ महिषं तथा ।
तथाजाविकवत्सानां दण्डः स्याद् अर्धमाषिकः ॥
[३८२] इति तन्मुहूर्तमात्रभक्षणविषयम् । अत एवाहतुः शङ्खलिखितौ- “रात्रौ चरन्ती गौः पञ्च माषान् । दिवा त्रीन् । मुहूर्ते माषम् । दण्डं ग्रासे” इति । आतुरपशुविषये तु न दण्ड इत्य् आह नारदः ।
राजग्रहगृहीतो वा वज्राशनिहतो ऽपि वा ।
अपि सर्पेण वा दष्टो वृक्षाद् वा पतितो भवेत् ॥
व्याघ्रादिभिस् हतो वापि व्याधिभिर् वाप्य् उपद्रुतः ।
न तत्र दोषः पालस्य न च दोषो ऽस्ति गोमिनाम् ॥ इति ।
अनातुरेष्व् अपि केषुचित् पशुषु दण्डाभावम् आह स एव ।
गौः प्रसूता दशाहं च महोक्षो वाजिकुञ्जरौ ।
निवर्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥
[३८३] इति । मनुर् अपि ।
अनिर्दशाहां गां सुतां वृषान् देवपशूंस् तथा ।
सपालान् वा विपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥ इति । (म्ध् ८।२४२)
वृषा महोक्षाः । अथ वा वृषोत्सर्गविधानेनोत्सृष्टाः । याज्ञवल्क्यो ऽपि ।
महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ इति । (य्ध् २।१६६)
आगन्तुकः स्वयूथात् परिभ्रष्टः । आदिशब्देन मृतवत्सादयो गृह्यन्ते । अत एव उशनाः ।
[३८४] अदण्ड्या मृतवत्सा च खंजा रोगवती कृशा ।
अदण्ड्यागन्तुकी गौश् च सूतिका चाभिसारिणी ॥
अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च ॥ इति ।
परशस्यविनाशे न केवलं स्वामी दण्डनीयः अपि तु शस्यम् अपि दापनीयः । तथा च बृहस्पतिः ।
शस्यान् निवारयेद् गास् तु चीर्णे दोषद्वयं भवेत् ।
स्वामी शतदमं दाप्यः पालस् ताडनम् अर्हति ॥
शदश् च सदमं चीर्णे समूले कार्षभक्षिते ॥ इति ।
अत एव नारदः ।
समूलशस्यनाशे तु तत्स्वामी प्राप्नुयाच् छतम् ।
वधेन गोपो मुच्येत दण्डं स्वामिनि पातयेत् ॥ इति ।
तत्स्वामी शस्यस्वामी शदश् च सामन्तादिभिः परिकल्पितो देयः । तथा च स एव ।
[३८५] गोभिस् तु भक्षितं शस्यं यो नरः प्रतियाचते ।
सामन्तानुमते देयं धान्यं यत् तत्र भक्षितम् ॥ इति ।
यस् तु उशनसा शदयाचननिषेधो ऽर्थात् कृतः ।
गोभिर् विनाशितं धान्यं यो नरः प्रतियाचते ।
पितरस् तस्य नाश्नन्ति नाश्नन्ति त्रिदिवौकसः ॥ इति ।
स ग्रामादिसमीपस्थानावृतक्षेत्रविषयः ।
इति स्वामिपालाख्यं विवादपदम्
**अथ सीमाविवादनिर्णयः **
तत्र तावत् सीमा चतुर्विधा । जनपदसीमा ग्रामसीमा गृहसीमा क्षेत्रसीमा च इति । सा च यथाक्रमं पञ्चलक्षणा । तद् उक्तं नारदेन ।
ध्वजिनी मत्स्यनी चैव नैधानी भयवर्जिता ।
राजशासननीता च सीमा पञ्चविधा स्मृता ॥ इति ।
द्वजिनी वृक्षादिलक्षिता । मत्स्यिनी जललिङ्गान्विता । नैधानी निखाततुषाङ्गारादिमती । भवर्जिता **[३८६] **सर्थिप्रत्यर्थिपरस्परविषयापत्तिनिर्मिता । राजशासननीता ज्ञातृचिह्नाद्यभावे राजेच्छया निर्मिता । तथा च व्यासः ।
ग्रामयोर् उभयोः सीम्नि वृक्षा यत्र समुन्नताः ।
समुच्छिर्ता ध्वजाकारा ध्वजिनी सा प्रकीर्तिता ॥
स्वच्छन्दगा बहुजला मत्स्यकूर्मसमन्विता ।
प्रत्यक्प्रवाहिनी यत्र सा सीमा मत्स्यनी मता ॥
तुषाङ्गारकपालैस् कुम्भैर् आयतनैस् तथा ।
सीमात्र चिह्निता कार्या नैधानी सा निगद्यते ॥ इति ।
वृक्षाश् च न्यग्रोधादयः । तद् आह मनुः ।
[३८७] सीमावृक्षांस् तु कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीसालतालांश् च क्षीरिणश् चैव पादपान् ॥ इति । (म्ध् ८।२४६)
प्रत्यक्प्रवाहिनीत्य् अनेन वाप्यादीनि प्रकाशचिह्नान्य् उपलक्ष्यन्ते । तानि च बृहस्पतिना दर्शितानि ।
वापीकूपतडागानि चैत्यारामसुरालयाः ।
स्थलनिम्ननदीस्रोतःशरगुल्मनगादयः ॥
प्रकाशचिह्नान्य् एतानि सीमायां कारयेत् सदा ॥ इति ।
तुषाङ्गारकपालैर् इति करीषादीनां गुप्तलिङ्गानाम् अप्य् उपलक्षणम् । तानि च तेनैव दर्शितानि ।
करीषास्थितुषाङ्गारशर्कराश्मकपालिकाः ।
सिकतेष्टकगोवालकार्पासास्थीनि भस्म च ॥
प्रक्षिप्य कुम्भेष्व् एतानि सीमान्तेषु निधापयेत् ॥ इति ।
तानि च सीमालिङ्गानि स्थविरैर् बालानां दर्शनीयानि । तथा च बृहस्पतिः ।
[३८८] ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् ।
वार्धिके च शिशूनां ते दर्शयेयुस् तथैव च ॥
एवं परम्पराज्ञाते सीमाभ्रान्तिर् न जायते ॥ इति ।
एवं निरूपितैर् लिङ्गैर् सीमाविवादनिर्णयं कुर्याद् इत्य् आह मनुः ।
एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ।
पूर्वभुक्त्या च सततम् उदकस्यागमेन च ॥
यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवाइनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ इति । (म्ध् ८।२५२–५३, २५८)
प्रथमं तावद् अर्थिप्रत्यर्थिप्रदर्शितैः लिङ्गैः सीमाविवादनिर्णयः । अथात्राप्य् अविश्वासस् तदा लिङ्गविषयकात् सीमाविषयकाद् वा साक्षिप्रत्ययान् निर्णयः । यदा साक्षिनाम् अभावस् तदा सामन्तैर् विनिर्णय इत्य् अर्थः, [३८९] “तेषाम् अभावे सामन्ताः” इति कात्यायनेनोक्तत्वात् । के पुनः सामन्ताः इत्य् अपेक्षिते स एवाह ।
संसक्तकास् तु सामन्तास् तत्संसक्तास् तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः ॥ इति ।
विप्रतिपन्नसीमकस्य क्षेत्रस्य चतसृषु दिक्षु संनिहितग्रामादिभोक्तारः संसक्ताः । एत एव सामन्तशब्दाभिधेयाः । यदा पुनर् अदुष्टसंसक्तका न सन्ति तदा संसक्तसंसक्ततत्संसक्तैः निर्णयः कार्यः । तद् आह स एव ।
स्वार्थसिद्धौ च दुष्टेषु सामान्तेष्व् अर्थगौरवात् ।
तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्यास् त्व् अविदुष्टास् तु राज्ञा धर्मं विजानता ॥
[३९०] तेषाम् अभावे सामन्ता मौलवृद्धोद्धृतादयः ।
स्थावरे षट्प्रकारे ऽपि कार्या नात्र विचारणा ॥ इति ।
वृद्धादिलक्षणं तेनैवोक्तम् ।
निबध्यमानं यैर् दृष्टं तत् कार्यं सुगुणान्वितैः ।
वृद्धा वा यदि वावृद्धास् ते च वृद्धाः प्रकीर्तिताः ॥
ये तत्र पूर्वं सामन्ताः पश्चाद् दिशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः परिकीर्तिताः ॥
उपश्रवणसंभोगभयस्थानोपचिह्निताः ।
उद्धरन्ति पुनर् यस्माद् उद्धृतास् ते ततः स्मृताः ॥ इति ।
साक्षिप्रभृत्युद्धृतपर्यन्तानाम् अभावे मनुर् आह ।
सामन्तानाम् अभावे तु मौलानां सीमसाक्षिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥
[३९१] व्याधान् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥ इति । (म्ध् ८।२५९–६०)
अन्यांश् चेति चकारेण सीमाकर्षका उपलक्ष्यन्ते । तथा च याज्ञवल्क्यः ।
सीम्नोप् विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।
गोपाः सीमाकृषाणा ये सर्वे च वचगोचराः ॥
नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् ॥ इति । (य्ध् २।१५०–५१)
नारदो ऽपि ।
ग्रामसीमासु च बहिर् ये च स्युः कृषिजीविनः ।
गोपाः शाकुनिका व्याधा ये चान्ये वनगोचराः ॥ इति ।
ते च शपथैः शापिता एव निर्णयं ब्रूयुः । तथा च बृहस्पतिः ।
[३९२] शापिताः शपथैः स्वैः स्वैर् ब्रूयुः सीमाविनिर्णयम् ।
दर्शयेयुश् च लिङ्गानि तत् प्रमाणम् इति स्थितिः ॥ इति ।
स्वैः स्वैर् इति,
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
इत्यादिलोकव्यवस्थया प्रतिपादितैः इत्य् अर्थः । मनुर् अपि ।
ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥
ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥ इति । (म्ध् ८।२५४–५५)
सीमासाक्षिणां तु लक्षणम् आह बृहस्पतिः ।
आगमं च प्रमाणं च भोगं कामं च नाम च ।
भूभागलक्षणं चैव ये विदुस् ते ऽत्र साक्षिणः ॥ इति ।
यदा पुनश् चिह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि तदा निर्णयोपायम् आह याज्ञवल्क्यः ।
[३९३] सामन्ता वा समग्रामाश् चत्वारो ऽष्टौ दशापि वा ।
रक्तस्रग्वसनाः सीमां नययुः क्षितिधारिणः ॥ इति । (य्ध् २।१५२)
सामन्ता वेति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्याद्यभिप्रायम् । समग्रामाः प्रत्यासन्नग्रामीणाः चत्वारो ऽष्टौ दश वेत्य् एव समसंख्याका रक्तस्रग्विणो रक्ताम्बरधरा मूर्ध्न्य् आरोपितक्षितिखण्डाः सीमां प्रदर्शयेयुः । स्वैः स्वैः शपथैः शापिताः सन्तः सीमां नयेयुः । तथा च मनुः ।
शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिताः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥ इति । (म्ध् ८।२५६)
नयेयुर् इति बहुवचनम् अपि अविवक्षितम्, एकस्यापि सीमाप्रदर्शकस्य बृहस्पतिना दर्शितत्वात् ।
ज्ञातृचिह्नैर् विना साधुर् एको ऽप्य् उभयसंमतः ।
रक्तमाल्याम्बरधरो मृदम् आदाय मूर्धनि ॥
सत्यव्रतः सोपवासः सीमानं दर्शयेन् नरः ॥ इति ।
यत् तु नारेदेनोक्तम्,
[३९४] नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥ इति ।
तद् उभयानुमतधर्मविद्व्यतिरिक्तविषयम् । स्थलादिचिह्नाभावे ऽपि साक्षिसामन्तादीनां सीमाज्ञान उपायविशेषम् आह नारदः ।
निम्नगापहृतोत्सृष्टनष्टचिह्नाउ भूमिषु ।
तत्प्रदेशानुमानाच् च प्रमाणाद् भोगदर्शनात् ॥ इति ।
निम्नगया नद्या अपहारेणोत्सृष्टानि नष्टानि स्वस्थानाच् च्युतानि यासु मर्यादाभूमिषु तत्र तत्र देशानुमानात् दृष्टस्वचिह्नानां प्राचीनप्रदेशानुभावात् प्रयोगात् ग्रामाद् आरभ्य सहस्रदण्डपरिमितं क्षेत्रम् अस्य ग्रामस्य पश्चिमो भाग इत्य् एवंविधात् परिमाणात्, भोगदर्शनात् प्रत्यर्थिसमक्षम् अविप्रतिपन्नाया अस्मार्तकालोपलक्षितभुक्तेर् वा निश्चिनुयुर् इत्य् अर्थः । एतेषां साक्षिसामन्तप्रभृतीनां सीमासङ्क्रमणदिनाद् आरभ्य यावत् त्रिपक्षं यदि [३९५] राजदैविकव्यसनं नोत्पद्यते तदा तत्पर्दर्शनात् सीमानिर्णयः । तथा च कात्यायनः ।
सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपञ्चसप्ताहं दैवराजकम् इष्यते ॥ इति ।
यस् तत्र निषेधः स्मृत्यन्तरे ऽभिहितः,
वाक्पारुष्ये महीवादे दिव्यानि परिवर्जयेत् ।
इति, स उक्तलक्षणपुरुषाभावविषय इत्य् अविरोधः । कथं तर्ह्य् अत्र निर्णय इत्य् अपेक्षिते आह नारदः ।
यदा तु न स्युर् ज्ञातारः सीमायाश् च न लक्षणम् ।
तदा राजा द्वयोः सीमाम् उन्नयेद् इष्टतः स्वयम् ॥ इति ।
इष्टतः इच्छातः । याज्ञवल्क्यो ऽपि ।
अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता । इति । (य्ध् २।१५३)
ज्ञातॄणां सामन्तादीनां चिह्नानां वृक्षादीनाम् अभावे राजैव सीम्नः प्रवर्तयिता । ग्रामद्वयमध्यवर्तिनीं विवादास्पदीभूतां भुवं समं प्रविभज्य उभयोर् ग्रामयोः समर्प्य तन्मध्ये सीमालिङ्गानि कारयेत् । तदा तस्या भूमेर् यत्रैवोपकारातिशयो दृश्यते तदा तस्यैव ग्रामस्य सकला भूः समर्पणीया । तथाह मनुः ।
[३९६] सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥ इति । (म्ध् ८।२६५)
अविषह्यायां ज्ञातृज्ञापकशून्यायाम् इत्य् अर्थः । ऋणादिनिर्णयवत् सीमानिर्णयो नावेदनानन्तरम् एव कार्यः । किं तु प्रकाशितेषु सेत्वादिषु । तद् आह स एव ।
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।
ज्येष्ठे मासे नयेत् सीमां सप्रकाशेषु सेतुषु ॥ इति । (म्ध् ८।२४५)
ग्रामग्रहणं नगरादेर् अप्य् उपलक्षणार्थम् । अत एव कात्यायनः ।
[३९७] सीमान्तवासिसामन्तैः कुर्यात् क्षेत्रादिनिर्णयम् ।
ग्रामसीमादिषु तथा तद्वन् नगरदेशयोः ॥ इति ।
यदा रागलोभादिवशात् सीमासाक्षिणो निर्णयं न कुर्युः तदा दण्डनीया इत्य् आह स एव ।
बहूनां तु गृहीतानां न सीमानिर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दाप्यास् तूत्तमसाहसम् ॥ इति ।
एतज् ज्ञानविषयम् । अज्ञानविषये तु नारदः ।
अथ चेद् अनृतं ब्रूयुः सामन्ताः सीमनिर्णये ।
सर्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम् ॥
सामन्तात् परतो ये स्युस् तत्संसक्ता मृषोदितैः ।
संसक्तसक्तसक्तास् तु विनेयाः पूर्वसाहसम् ॥
मौलवृद्धादयस् त्व् अन्ये दण्डं दाप्याः पृथक् पृथक् ।
विनेयाः प्रथमेनैव साहसेन व्यवस्थिताः ॥ इति ।
साक्षिणां मिथो वैमत्याभिधाने दण्डम् आह कात्यायनः ।
कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् । इति ।
सीमाचङ्क्रमणकर्तॄणाम् अपि दण्डम् आह स एव ।
[३९८] यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्यास् तु द्विशतं दमम् ॥ इति ।
आज्ञानाद् अनृतवचने साक्ष्यादीन् दण्डयित्वा पुनर् विचारः प्रवर्तयितव्यः । तथा च कात्यायनः ।
अज्ञानोक्तान् दण्डयित्वा पुनः सीमां विचारयेत् ।
त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमील्य कारयेत् सीमाम् एवं धर्मविदो विधुः ॥ इति ।
नद्युत्सृष्टक्षेत्रविषये निर्णयम् आह बृहस्पतिः ।
अन्यग्रामात् समाहृत्य दत्तान्य् अस्य यदा मही ।
महानद्याथ वा राज्ञा कथं तत्र विचारणा ॥
नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।
अन्यथा न भवेल् लाभो नराणां राजदैवकः ॥
क्षयोदयौ जीवनं च दैवराजवशान् नृणाम् ।
तस्मात् सर्वेषु कार्येषु तत्कृतं न विचालयेत् ॥
ग्रामयोर् उभयोर् यत्र मर्यादा कल्पिता नदी ।
कुरुते दानहरणं भाग्याभाग्यवशान् नृणाम् ॥
[३९९] एकत्र कूलपातं तु भूमेर् अन्यत्र संस्थितिम् ।
नदीतीरे प्रकुरुते तस्य तां न विचालयेत् ॥ इति ।
एतद् अव्युप्तशस्यतीरविषयम् । उप्तशस्यविषये तु स एवाह ।
क्षेत्रशस्यं समुल्लङ्घ्य भूमिच्छिन्ना यदा भवेत् ।
नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेच् च ताम् ॥ इति ।
तां सशस्यां भूमिं पूर्वस्वामी यावद् उप्तशस्यफलप्राप्तिस् तावल् लभेतेत्य् अर्थः । फलप्राप्तेर् ऊर्ध्वं तु पूर्ववचनविषयसमानता । राजदत्तविषये क्वचिद् अपवादम् आह स एव ।
या राज्ञा क्रोधलोभेन छलान्यायेन वा हृता ।
प्रदत्तान्यस्य तुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥ इति ।
एतच् च स्वत्वहेतुप्रमाणवत् क्षेत्रविषयम् । प्रमाणाभावे तु स एवाह ।
प्रमाणरहितां भूमिं भुञ्जानो यस्य या हृता ।
गुणाधिकाय वा दत्ता तस्य तां न विचालयेत् ॥ इति ।
गृहादिविषये निर्णयस् तेनैव दर्शितः ।
निवेशकालाद् आरभ्य गृहवार्यापणादिकम् ।
येन यावद् यथा भुक्तं तस्य तन् न विचालयेत् ॥
[४००] वातायनं प्रणालीश् च तथा निर्यूहवेदिकाः ।
चतुःशालं स्यन्दिनिकां प्राङ्निविष्टां न चालयेत् ॥ इति ।
वातायनं गवाक्षः । प्रणाली काष्टादिमयो जलनिर्गमोपायः । निर्यूहो गृहकोणो नागदन्तको वा । वेदिका रथ्यादिप्रदेशसंस्कृता उन्नता भूमिः । चतसृणां शालानां समाहारश् चतुःशालम् । तस्मात् स्यन्दनिका वृष्टिजलनिपातः ।
निवेशकालाद् ऊर्ध्वं प्रातिवेश्यानिष्टकारि वातायनादिकं न कार्यम् इत्य् आह कात्यायनः ।
निवेशसमयाद् ऊर्ध्वं नैते योज्याः कदाचन ।
दृष्टिपातं प्रणालीं च न कुर्यात् परवेश्मसु ॥ इति ।
दृष्टिपातो गवाक्षः । परवेश्मसु परवेशमाभिमुख्येन । बृहस्पतिर् अपि ।
वर्चःस्थानं वह्निचयं गर्तोच्छिष्टाम्बुसेचनम् ।
अत्यारात् परकुड्यस्य न कर्तव्यं कथंचन ॥ इति ।
अरत्निद्वयम् उत्सृज्य कर्तव्यम् इत्य् आह कात्यायनः ।
विण्मूत्रोदकचक्रं च वहिनिश्वभ्रनिवेशनम् ।
अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥ इति ।
अवस्कारादिभिश् चतुष्पथादिकं न रोधयेद् इत्य् आह नारदः ।
[४०१] अवस्करस्थलश्वभ्रभ्रमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थानराजमार्गान् न रोधयेत् ॥ इति ।
बृहस्पतिः ।
यान्त्य् आयान्ति जना येन पशवश् चानिवारिताः ।
तद् उच्यते संसरणं न रोद्धव्यं तु केनचित् ॥ इति ।
यस् तु संसरणे स्वभ्रादिकं करोति तस्य दण्डम् आह स एव ।
यस् तत्र संसरे श्वभ्रं वृक्षारोपणम् एव वा ।
कामात् पुरीषं कुर्याच् चेत् तस्य दण्डस् तु माषकः ॥ इति ।
राजमार्गे तु पुरीषकर्तुर् दण्डम् आह मनुः ।
समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि ।
स द्वौ कार्षापनौ दद्याद् अमेध्यं चाशु शोधयेत् ॥
[४०२] आपद्गतो ऽथ वा वृद्धो गर्भिणी बालएव वा ।
परिभाषणम् अर्हन्ति तच् च् शोध्यम् इति स्थितिः ॥ इति । (म्ध् ९।२८२–८३)
अमेध्यादिना तडागादिषु दोषं कुर्वतां दण्डम् आह कात्यायनः ।
तडागोद्यानतीर्थानि यो ऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम् ॥
दूषयन् सिद्धतीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम् ॥ इति ।
मर्यादाभेदनादौ दण्डम् आह याज्ञवल्क्यः ।
मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ इति । (य्ध् २।१५५)
अनेकक्षेत्रव्यवच्छेदिका साधारणी भूर् मर्यादा । तस्याः प्रकर्षेण भेदने सीमानम् अतिलङ्घ्य कर्षणे क्षेत्रस्य तथा निन्दितप्रदर्शनेन हरणे यथाक्रमेणधोत्तममध्यमसाहसा [४०३] दण्डा वेदितव्याः । क्षेत्रग्रहणं गृहारामाद्युपलक्षणार्थम् । अज्ञानात् क्षेत्रादिहरणे अधम एव दण्डो वेदितव्यः । अत एव मनुः ।
गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥ (म्ध् ८।२६४)
[४०४] इति । ये तु बलाद् अपह्रियमाणक्षेत्रादिभूमयस् तेषाम् उत्तमो दण्डः प्रयोक्तव्यः । उत्तमसाहसं यथा,
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् एको दण्ड उत्तमसाहसः ॥
इति स्मरणात् । यत् तु शङ्खलिखिताभ्यां सीमातिक्रमणे दण्डाधिक्यम् उक्तम् “सीमाव्यतिक्रमे त्व् अष्टसहस्रम्” इति, तत् समग्रसीमातिक्रमविषयम् । सीमासंधिषूत्पन्नवृक्षातिविषये कात्यायनः ।
सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥ इति ।
अन्यक्षेत्रे जातवृक्षादिविषये स एव ।
अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंस्थिता ।
स्वामिनं तं विजानीयाद् यस्य क्षेत्रे तु संस्थिता ॥ इति ।
परक्षेत्रे प्रार्थनया क्रियमाणसेतुकूपादिकं क्षेत्रस्वामिना न निषेद्धव्यम् । तद् आह याज्ञवल्क्यः ।
[४०५] न निषेध्यो ऽल्पबाधस् तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वलप्क्षेत्रो बहूदकः ॥ इति । (य्ध् २।१५६]
यत् स्वल्पबाधकं महोपकारकं क्षेत्रादिकं च भवति तत् क्षेत्रं स्वामिना न निषेद्धव्यम् । यत् पुनर् बहुबाधकं स्वल्पोपकारकं च तन् निषेद्धव्यं भवति । नारदो ऽपि ।
परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिबध्यते ।
महागुणो ऽल्पबाधश् चेद् वृद्धिर् इष्टा क्षये सति ॥ इति ।
सेतुश् च द्विविधः । तथा च स एवाह ।
[४०६] सेतुस् तु द्विविधो ज्ञेयः खेयो बन्ध्यस् तथैव च ।
तोयप्रवर्तनात् खेयो बन्ध्यः स्यात् तन्निवर्तनात् ॥ इति ।
सेत्वादिसंस्कारविषये नारदः ।
पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत्फलभाग् भवेत् ॥
मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत् ॥ इति ।
क्षेत्रस्वामिनम् अनभ्युपगम्य तदभावे राजानं वा सेत्वादिप्रवर्तने याज्ञवल्क्यः ।
स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिनो भोगः तदभावे महीपतेः ॥ इति । (य्ध् २।१५७)
प्रार्थनार्थदानेन वा लब्धानुज्ञः सन्न् एव परक्षेत्रे सेतुं प्रवर्तयेद् इत्य् अस्य तात्पर्यम् । न तु सेतुप्रवर्तकस्य **[४०७] **फलभाक्त्वनिषेधे तात्पर्यम्, तस्याप्रसक्तत्वात् । अथ वा दृष्टलाभफलभोक्तृत्वनिषेधे तात्पर्यम् अस्तु । कात्यायनो ऽपि ।
अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतडागानां संस्कर्ता लभते न तु ॥
व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस् तु तद्गतं लभते व्ययम् ॥ इति ।
क्षेत्रस्वामिपार्श्वे क्षेत्रम् इदम् अहं कर्षामीतीदम् अङ्गीकृत्य पश्चाद् यो न कर्षति अन्येन वा न कर्षयति तं प्रत्य् आह याज्ञवल्क्यः ।
फालाहतम् अपि क्षेत्रं न कुर्याद् यो न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रम् अन्येन कारयेत् ॥ इति । (य्ध् २।१५८)
यद्य् अपि फालाहतम् ईषद् धलेन विदारितं न सम्यग् बीजावापार्हं तथाप्य् अकृष्टक्षेत्रस्य फलं यावद् यत्रोत्पत्त्यर्हं सामन्तादिकल्पितं [४०८] तावद् असौ स्वामिने दापनीयः । तच् च क्षेत्रं पूर्वकर्षकाद् आच्छिद्यान्येन तत् कारयेत् । बृहस्पतिर् अपि ।
क्षेत्रं गृहीत्वा यः कश्चिन् न कुर्यान् न च कारयेत् ।
स्वामिने स शदं दाप्यो राज्ञे दण्डं च तत्समम् ॥ इति ।
स्वामिने कियान् शदो देय इत्य् अपेक्षिते स एवाह ।
चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।
सुसंस्कृते तु षष्ठं स्यात् परिकल्प्य यथाविधि ॥ इति ।
चिरावसन्ने चिरकालम् अकृष्टे क्षेत्रे कर्षामीति स्वीकृत्योपेक्षिते यावत्फल्म् अनुपेक्षिते लभ्यते तस्य दशमं भागं दाप्यः । कृष्यमाणे सुचिरावसन्ने स्वीकृत्योपेक्षिते त्व् अष्टमं भागं दाप्यः । सुसंस्कृते क्षेत्रे उपेक्षिते तु षष्ठं भागं दाप्य इत्य् अर्थः । अशक्तप्रेतनष्टक्षेत्रविषये नारदः ।
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥
[४०९] कृष्यमाणेषु क्षेत्रेषु क्षेत्रिकः पुनर् आव्रजेत् ।
खिलोपचारं तत् सर्वं दत्वा क्षेत्रम् अवाप्नुयात् ॥ इति ।
खिलोपचारः खिलमञ्जनार्थो व्ययः । तस्येयत्तावधारणार्थं विचारं तस्याह स एव ।
संवत्सरेणार्धाखिलं खिलं स्याद् वत्सरैस् त्रिभिः ।
पञ्चवर्षावसन्नं तु क्षेत्रं स्याद् अटवीसमम् ॥ इति ।
यदा पुनः खिलोपचारं स्वामी न ददाति तदाप्य् आह कात्यायनः ।
अशक्तितो न दद्याच् चेत् खिलार्थे यः कृतो व्ययः ।
तदष्टभागहीनं तु कर्षकः फलम् आप्नुयात् ॥
वर्षान् अष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ॥ इति \
इति सीमाविवादनिर्णयः समाप्तः
अथ दण्डपारुष्यम्
तत्स्वरूपं नारदेनोक्तम् ।
परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादीनाम् उपक्षेपैर् दण्डपारुष्यम् उच्यते ॥
[४१०] इति । परगात्रेषु स्थावरजङ्गमादेर् अनेकद्रव्येषु । हस्तपादायुधादिभिर् इत्य् आदिग्रहणाद् ग्रावादिभिः । द्रोहो हिंसनम् । तथा भस्मादिभिः भस्मरजःपङ्कपुरीषाद्यैः उपघातः संस्पर्शरूपं मनोदुःखोत्पादनम् । तद् उभयं दण्डपारुष्यम् । तस्य त्रैविध्यम् आह स एव ।
तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् ।
अवगूरणनिःशङ्खपातनक्षतदर्शनैः ॥
हीनमध्योत्तमानां तु द्रव्याणाम् अनतिक्रमात् ।
त्रीण्य् एव साहसान्य् आहुस् तत्र कण्टकशोधनम् ॥ इति ।
निःशङ्कपातनं निःशङ्कप्रहरणम् । त्रीण्य् एव साहसानि साहसीकृतानि दण्डपारुष्याणीत्य् अर्थः । दण्डपारुष्ये पञ्च प्रकारा विधयस् तेनैवोक्ताः ।
विधिः पञ्चविधस् तूक्तः एतयोर् उभयोर् अपि ।
पारुष्ये सति संरम्भाद् उत्पन्ने क्षुब्धयोर् द्वयोः ॥
[४११] स मान्यते यः क्ष्मते दण्डभाग् यो ऽतिवर्तते ।
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ॥
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ।
द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यो ऽधिकम् ॥
स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वोत्तरः ।
पारुष्यदोषावृतयोर् युगपत् संप्रवृत्तयोः ॥
विशेषश् चेन् न लक्ष्येत विनयः स्यात् समस्तयोः ।
श्वपाकषण्ढपाषण्डव्यङ्गेषु बधिरेषु च ॥
हस्तिपव्रात्यदासेषु गुर्वाचार्यान्तिकेषु च ।
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥
यम् एव ह्य् अतिवर्तेत नीचः सन्तं जनं नृषु ।
स एव विनयं कुर्यान् न तद्विनयभाङ् नृपः ॥
[४१२] मला ह्य् एते मनुष्याणां धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ इति ।
यस् तु पश्चात् प्रवृत्तस्यापराधाभावो बृहस्पतिना दर्शितः ।
आकृष्टस् तु समाक्रोशान् ताडितः प्रतिताडयन् ।
हत्वापराधिनं चैव नापराधी भवेन् नरः ॥ इति ।
यो ऽपि पश्चात् प्रवृत्तस्य दण्डः कात्यायनेन दर्शितः ।
अभीषणेन दण्डेन प्रहरेद् यस् तु मानवः ।
पूर्वं वा पीडितो वाथ स दण्ड्यः परिकीर्तितः ॥ इति ।
सो ऽपि पूर्व्प्रवृत्तदण्डाद् अल्पदण्डार्थः । दण्डपारुष्यसंदेहे निर्णयकारणम् आह याज्ञवल्क्यः ।
असाक्षीकहते चिह्नैर् युक्तिभिश् चागमेन च ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृतो भयात् ॥ इति । (य्ध् २।२१२)
यदा कश्चिद् रहस्य् अनेनाहं ताडितः इति राज्ञे निवेदयति तदा चिह्नैस् तद्गात्रगतश्रमादिभिः **[४१३] **कारणप्रयोजनपर्यालोचनरूपाभिर् युक्तिभिर् आगमेन जनप्रवादेन च शब्दाद् दिव्येन च कूटचिह्नकरणसंभावनाभयात् परीक्षा कार्येत्य् अर्थः । राजशासनद्रव्यविशेषेण दण्डविशेषम् आह स एव ।
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥
समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च ।
हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥ इति । (म्ध् २।२१३–१४)
अमेधशब्देन श्लेष्मनखकर्णादिदूषिकाशुक्रोच्छिष्हादिकं गृहते । पुरीषादिस्पर्शे कात्यायनः ।
छर्दिमूत्रपुरीषाद्यैः पादादौ च चतुर्गुणः ।
षड्गुणः कायमध्ये तु मूर्ध्नि त्व् अष्टगुणः स्मृतः ॥
[४१४] इति । आदिशब्देन वसाशुक्रासृङ्मज्जानो गृह्यन्ते । ताडनार्थं हस्तोद्यमने ताडने च दण्डम् आह स एव ।
उद्गूर्णे तु हस्तस्य कर्यो द्वादशको दमः ।
स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु ॥ इति ।
याज्ञवल्क्यो ऽपि ।
उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ इति । (य्ध् २।२१६)
हस्ते पादे वा ताडनार्थम् उद्यते सति यथाक्रमं दशविंशतिपणकौ दमौ । परस्परवधार्थं शस्त्रे उद्यते सति सर्वेषां वर्णानां मध्यमसाहसो दण्ड इत्य् अर्थः । काष्ठादिभिस् ताडने स एव ।
[४१५] शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः ।
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शने ऽसृजः ॥ इति । (य्ध् २।२१८)
त्वगादिभेदे दण्डम् आह मनुः ।
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसच्छेदे शतं निष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥ इति । (म्ध् ८।२८४)
पादाद्याकर्षणादौ याज्ञवल्क्यः ।
पादकेशांशुककरोल्लुञ्चनेषु पणान् दश ।
पिण्डाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥
करपददतो भङ्गे छेदने कर्णनसयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥
[४१६] चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥
एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः ॥ इति । (य्ध् २।२१७–२१)
अवमत्य केशं गृहीत्वा यो झटित्य् आकर्षति असौ दशपणं दण्ड्यः स्यात् । यः पुनर् अंशुकेनावेष्ट्य गाढम् आपीड्याकृष्य पादेन घट्टयति असौ शतपणान् दण्ड्यः । करपाददन्तानां प्रत्येकं भङ्गे कर्णनासिकयोश् च छेदने मृतकल्पहते च मध्यमसाहसो दण्डः । गमनभोजनभाषणनिरोधे नेत्रप्रतिभेदने ग्रीवाहस्तव्रणभङ्गे मध्यमसाहसो दण्डः । मिलित्वैकस्याङ्गभङ्गं कुर्वतां बहूनाम् एकस्यापराधे यो दण्ड उक्तः तत्र तस्माद् द्विगुणो दण्डः प्रत्येकं वेदितव्यः इत्य् अर्थः । कात्यायनो ऽपि ।
[४१७] कर्णोष्ठघ्राणपादादिजिह्वानासाकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥
मनुष्याणां पशूनां च दुःखाय प्रहते सति ।
यथा यथा भवेद् दुःखं दण्डं कुर्यात् तथा तथा ॥ इति ।
प्रातिलोम्येन प्रहारे दण्डम् आह याज्ञवल्क्यः ।
विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ इति । (य्ध् २।२१५)
ब्राह्मणपीडाकरम् अब्राह्मणस्य क्षत्रियादेर् अङ्गं करचरण्डिकं छेत्तव्यम् । ब्राह्मणग्रहणम् उत्तमवर्णोपलक्षणार्थम् । अत एव मनुः ।
येन केनचिद् अङ्गेन हिंस्याद् चेच् छ्रेष्ठम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥ (म्ध् ८।२७९)
[४१८] इति । उद्गूर्णे वधार्थम् उद्यते शस्त्रादिके प्रथमसाहसो वेदितव्यः । शूद्रस्य तत्रापि छेदनम् एव हस्तादेः । तद् आह मनुः ।
पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।
पादेन प्रहरन् कोपात् पादछेदनम् अर्हति ॥ इति । (म्ध् ८।२८०)
उद्गूरणार्थं शस्त्रादिसंस्पर्शे प्रथमसाहसास् अर्धदण्डो वेदितव्यः । भस्मादिस्पर्शने तु पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणो दमः । यथाह याज्ञवल्क्यः ।
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ इति । (य्ध् २।२०७)
वाक्पारुष्योक्तन्यायेन दण्डः कल्पनीयः । कात्यायनः ।
वाक्पारुष्ये यथैवोक्तः प्रतिलोमानुलोमतः ।
तथैव दण्डपारुष्ये पात्यो दण्डो यथाक्रमम् ॥ इति ।
तत्रापि शूद्रविषये विशेषम् आह मनुः ।
अवनिष्ठीवतो दर्पात् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥
[४१९] केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् ।
पादयोर् दाढिकायां च ग्रीवायां च वृषणेषु च ॥
सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः ।
कट्यां कृताङ्को निर्वास्यः स्फिचं चास्यावकर्तयेत् ॥ इति । (म्ध् ८।२८१–८३)
अङ्गछेदनादौ विशेषम् आह कात्यायनः ।
देहेन्द्रियविनाशे तु यदा दण्डं प्रकल्पयेत् ।
तदा तुष्टिकरं देयं समुत्थानं च पण्डितैः ॥ इति ।
तुष्टिकरं व्रणतुष्टिकरम् । समुत्थानं व्रणारोपणम् । तन्निमित्तकश् च व्ययो व्रणगुरुत्वानुसारेण पण्डितैर् औषधार्थं व्ययार्थं च कल्पितमानं व्रणारोपणं देयम्,
[४२०] समुत्थानं व्ययं चासौ दद्याद् आव्रणरोपणम् ।
इति तेनैवोक्तत्वात् । बृहस्पतिर् अपि ।
अङ्गावपीडने चैव छेदने पीडने तथा ।
समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ॥ इति ।
याज्ञवल्क्यो ऽपि ।
कलहापहृतं देयं दण्डश् च द्विगुण्स् तथा ।
दुःखम् उत्पदयेद् यस् तु स समुत्थानकं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ इति । (य्ध् २।२२१–२२)
ग्राम्यपशुपीडायां दण्डम् आह विष्णुः- “ग्राम्यपशुघाते कार्षापणं दण्ड्यः । पशुस्वामिने तु तन्मूल्यं दद्यात्” इति । मूल्यदानं तु मृतपशुविषयम् । मरणाभावे तु समुत्थानव्ययं दद्यात् । तथा च स एव- “सर्वे च पुरुषपीडाकराः समुत्थानव्ययं दाप्या ग्राम्यपशुपीडाकराश् च” [४२१] इति । प्राणिघातनिमित्तको दण्डः क्वचिद् अशक्यप्रतिकारविषये नास्तीत्य् आह मनुः ।
छिन्ननास्य भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥ इति । (म्ध् ८।२९१–९२)
शक्यप्रतिकारोपेक्षकस्य दण्डम् आह स एव ।
यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥ (म्ध् ८।२९३)
[४२२] इति । प्राजकः शकटादिनेता । वैगुण्यं नाम वैकल्यं वेतनलाघवार्थं स्वाम्यनुमतम् । यत्र समर्थप्राजकदोषेण प्राणिहिंसा तत्र न स्वामिनो दण्डः किं तु प्राजकस्यैवेत्य् आह स एव ।
प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति । इति । (म्ध् ८।२९४)
आप्तः समर्थ इत्य् अर्थः । पश्वभिद्रोहे दण्डम् आह याज्ञवल्क्यः ।
दुःखे च शोणितोत्पादे शाखाङ्गछेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥
लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च ।
महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥ इति । (य्ध् २।२२५–२६)
क्षुद्रपशूनाम् अजाविप्रभृतीनां दुःखोत्पादने शोणितोत्पादने । शाखाशब्देन शृङ्गादिकं लक्ष्यते । अङ्गानि करचरणादीनि । तेषां छेदे वा यथाक्रमं द्विपणप्रभृतिर् दण्डः । [४२३] द्विपनचतुष्पणषट्पणाष्तपण इत्यादिरूपः । तेषां लिङ्गछेदने मृत्युकरणे वा मध्यमसाहसो दण्डः मूल्यदानं च । महापशूनां गोगजवाजिप्रभृतीनाम् एतेषु स्थानेषु पूर्वोक्तदणाद् द्विगुणदण्दो वेदितव्यः इत्य् अर्थः । कार्षापणशतदण्ड इत्य् अनुवृत्तौ विष्णुर् अपि- “पशूनां पुंस्त्वोपघातकारी तथा गजाश्वोष्ट्रगोघाते ऽप्य् एकपादः । मांसविक्रयी च पशुमूल्यं दद्यात् । आरण्यपशुघाती पञ्चाशतं कार्षापणात् । पक्षिघाती मत्स्यघाती च दश कार्षापणात् । कीटोपघाती कार्षापणम्” इति । कात्यायनो ऽपि ।
[४२४] द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् ।
सर्पमार्जारनकुलश्वसूकरवधे नृणाम् ॥ इति ।
मनुर् अपि ।
गोकुमारीदेवपशून् अक्षमं वृषभं तथा ।
वाहयन् साहसं पूर्वं प्राप्नुयाद् उत्तमं वधे ॥
मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चासत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥
[४२५] गर्दभाजाविकानां तु दण्डः स्यात् पञ्चमाषिकः ।
माषिकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ इति । (म्ध् ८।२९६–९८)
राज्ञो दण्डदानवत् स्वामिनः प्रतिरूपकं मूल्यं वा दद्याद् इत्य् आह कात्यायनः ।
प्रमापणे प्राणभृतां दद्यात् तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीन् मनुः ॥ इति ।
स्थावरप्राणिपीडाकारिणां दण्डम् आह मनुः ।
वनस्पतीनां सर्वेषाम् उपभोगो यथ यथा ।
तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥ (म्ध् ८।२८५)
[४२६] इति । फलपुष्पोपभोगतारतम्यानुरोधेनोत्तममध्यमादयो दण्डाः कल्पनीयाः । तथा च दण्ड्य इत्य् अनुवृत्तौ विष्णुः- “फल्पभोगद्रुमछेदी तूत्तमं साहसम् । पुष्पोपभोगद्रुमछेदी मध्यमं साहसम् । वल्लीगुल्मलताछेदी कार्षापणशतम् । तृणछेद्य् एकम् । सर्वे च तत्स्वामिनां तदुत्पत्तिम्” इति । फलपुष्पोपभोगद्रुमछेदकादयः छिन्नद्रुमस्वामिनां तदुत्पत्तिं पुनः प्रतिरोपितद्रुमफलादिभोगकालपर्यन्तं दाप्या इति शेषः । अत्र विशेषम् आह याज्ञवल्क्यः ।
प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर् द्विगुणो दमः ॥
[४२७] चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे ऽथ विश्रुते ॥
गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् ।
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ इति । (य्ध् २।२२७––२९)
प्ररोहिशाखिनां वटादीनां शाखाछेदने स्कन्धछेदने च यथाक्रमं विंशतिपणाद् दण्डाद् आरभ्य पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दण्डो द्विगुणः । विंशतिपणचत्वारिंशत्पणाशीतिपणा इत्य् एवंरूपः । अप्ररोहिशाखिनाम् आम्रादीनाम् उपजीव्यद्रुमाणां पूर्वोक्तेषु स्थानेषु चैत्यादिस्थानेषूत्पन्नानां वृक्षाणां शाखादिछेदने अश्वत्थपलाशादीनां शाखादिछेदने पूर्वोक्ताद् दण्डाद् द्विगुणो दण्डः । गुल्मा मालत्यादयः । गुच्छाः कुरण्डकादयः । क्षुपाः करवीरादयः । लता द्राक्षातिमुक्तादयः । प्रतानाः काण्डप्ररोहरहिताः । ओषध्यः फलपाकान्ताः शालिप्रभृतयः । वीरुधो गुडूचिप्रभृतयः । एतेषु स्थानेषु वकर्तने पूर्वोक्ताद् दण्डाद् अर्धदण्डो वेदितव्यः । कुड्याभिघाते गृहे कण्टकादिप्रक्षेपणे च दण्डम् आह याज्ञवल्क्यः ।
[४२८] अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥
दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ इति । (य्ध् २।२२३–२४)
मुद्गरादिना कुड्यस्याभिघाते विदारणे द्वैधीकरणे यथाक्रमं पञ्चपणो दशपणो विंशतिपणश् च दण्डः । अवपातने पुनस् त्रयो दण्डाः समुच्छिताः । कुड्यसंपादनार्थं धनम् अपि देयम् । परगृहे कण्टकादिप्रक्षेपणे षोडशपणो दण्डः । विषभुजङ्गादिप्रक्षेपणे मध्यमसाहसो दण्ड इत्य् अर्थः ।
इति दण्डपरुष्यम्
अथ वाक्पारुष्यम्
तस्य लक्षणं नारदेनोक्तम् ।
देशजातिकुलादीनाम् आक्रोशन्यङ्गसंयुतम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥ इति ।
कलहप्रिया गौडा इति देशाक्रोशः । अतिलोलुपा ब्राह्मणा इति जात्याक्रोशः । क्रूरचित्ता वैश्वामित्रा इति कुलाक्रोशः । [४२९] आक्रोश उच्चैर् भाषणं न्यङ्गम् अवद्यं तदुभययुक्तं यद् उद्वेगजननर्थं वाक्यं तद् वाक्पारुष्यम् इत्य् अर्थः । तस्य त्रैविध्यम् आह स एव ।
निष्टुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् ।
गौरवानुक्रमात् तस्य दण्डो ऽप्य् अत्र क्रमाद् गुरुः ॥
साक्षेपं निष्टुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् ।
पातनीयैर् उपक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥ इति ।
कात्यायनो ऽपि ।
यस् त्व् असत्संज्ञितैर् अङ्गैः परस्याक्षिपति क्वचित् ।
अमूलैर् वाथ मूलैर् वा निष्ठुरा वाक् स्मृता बुधैः ॥
न्यग्भावकरणं वाचा क्रोधात् तु कुरुते यदा ।
वृत्तेर् देशकुलानां वाप्य् अश्लिला सा बुधैः स्मृता ॥
महापातकयोक्त्री च रागद्वेषकरी च या ।
जातिभ्रंशकरी वाथ तीव्रा सा प्रथिता तु वाक् ॥ इति ।
प्रथममध्यमोत्तमभेदेन त्रैविध्यम् आह बृहस्पतिः ।
देशग्रामकुलादीनां क्षेपः पापेन योजनम् ।
इष्टं विना तु प्रथमं वाक्पारुष्यं तद् उच्यते ॥
[४३०] भगिनीमातृसंबन्धम् उपपातकशंसनम् ।
पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥
अभक्ष्यापेयकथनं महापातकदूषणम् ।
पारुष्यम् उत्तमं प्रोक्तं तीव्रं मर्माभिघट्टनम् ॥ इति ।
निष्ठुराक्रोशे दण्डम् आह याज्ञवल्क्यः ।
सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥ इति । (य्ध् २।२०४)
सत्येनासत्येनान्यथास्तोत्रेण न्यूनाङ्गादीनां तर्जनीतर्जनं यः करोति असाव् अरधाधिकद्वादशपणं दण्डनीयः । एतत् समवर्णगुनविषयम् । तथा च बृहस्पतिः ।
समजातिगुणानां तु वाक्पारुष्ये परस्परम् ।
विनयो ऽभिहितः शास्त्रे पणान् अर्धत्रयोदश ॥ इति ।
यत् तु मनुवचनम्,
[४३१] काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ (म्ध् ८।२७४)
इति, तद् अपि दुर्वृत्तविषयम् । मात्राद्याक्षेपकं प्रत्य् आह मनुः ।
मातरं पितरं जायां भ्रातरं श्वश्रुरं गुरुम् ।
अक्षारयन् शतं दाप्यः पन्थानं वाददद् गुरोः ॥ इति । (म्ध् ८।२७५)
एतच् चापराधिषु मात्रादिषु जायायां वा निरपराधायां वेदितव्यम् । स्वस्राद्याक्षेपे दण्डम् आह बृहस्पतिः ।
क्षिपन् स्वस्रादिकं दद्यात् पञ्चाशत्पणिकं दमम् । इति ।
प्रातिलोम्यानुलोम्याभ्याम् आक्रोशे दण्डम् आह मनुः ।
शतं ब्राह्मण्म् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥
पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशत् शूद्रे द्वादशको दमः ॥ (म्ध् ८।२६७–६८)
[४३२] इति । बृहस्पतिर् अपि ।
वैश्यस्य क्षत्रियाक्रोशे दण्डनीयः प्रदो भवेत् ।
तदर्धं क्षत्रियो वैश्यम् क्षिपन् विनयम् अर्हति ॥
शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः ।
बृहत्त्वे द्विगुणं तत्र शास्त्रविद्भिर् उदाह्र्तम् ॥
वैश्यम् आक्षारयन् शूद्रो दाप्यः स्यात् प्रथमं दमम् ।
क्षत्रियं मध्यमं चैव विप्रम् उत्तमसाहसम् ॥ इति ।
बाह्वादिछेदननिष्ठुराद्भिभाषणे याज्ञवल्क्यः ।
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस् तदर्धिकः पादनासाकर्णकरादिषु ॥
अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ इति । (य्ध् २।२०८–०९)
बाह्वादीनां विनाशे तव बाहू छ्नद्मीत्य् एवं वाचा प्रतिपादिते प्रत्येकं शतपरिमितो दण्डः । पादनासादिषु तु [४३३] वाचिके तदर्धिकः पञ्चाशत्पणादिको दण्डः । अशक्तस् त्व् एवं वदन् दशपणान् दण्डनीयः । शक्तः पुनः क्षीणशक्तिं एवं वदम् शतपणाद्यात्मकं दण्डं दत्वा तस्य क्षेमाय प्रतिभुवं दद्याद् इत्य् अर्थः । अश्लीलभाषणे दण्डम् आह स एव ।
अभिगन्तास्मि भगिनीं मातरं वा तवेति च ।
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् । इति । (य्ध् २।२०५)
तीव्राक्रोशे दण्डम् आह स एव ।
पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ इति । (य्ध् २।२१०)
मनुर् अपि ।
पापोपपापवक्तारो महापातकशंसकः ।
आद्यमध्योत्तमान् दण्डान् दद्युस् त्व् एते यथाक्रमम् ॥ (म्ध् ८।२६९)
[४३४] इति । त्रैविद्याद्यधिक्षेपे याज्ञवल्क्यः ।
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ इति । (य्ध् २।२११)
जातयः ब्राह्मणादयः । पूगाः संघाः । शूद्रम् अधिकृत्याहतुर् मनु-नारदौ ।
एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ।
नामजातिग्रहं चैषाम् अभिद्रोहेण कुर्वतः ।
निखेयो ऽयोमयः शङ्कुर् ज्वनण्न् ऽस्ये दशाङ्गुलः ॥ इति । (म्ध् ८।२७०–७१)
बृहस्पतिर् अपि ।
धर्मोपदेशं धर्मेण विप्राणाम् अस्य कुर्वतः ।
तप्तम् आसिञ्चयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ इति ।
क्वचिद् वाक्पारुष्यदण्डापवादम् आह स एव ।
सच्छूद्रस्यायम् उद्दिष्टो विनयोऽनपराधिनः ।
गुणहीनस्य पारुष्ये ब्राःमणो नापर्ध्नुयात् ॥ इति ।
इति वाक्पारुष्यम्
[४३५]
अथ स्तेयम्
तल्लक्षणम् आह मनुः ।
स्यात् साहसं त्व् अन्वयवत् प्रसभाम् कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं हृत्वापव्ययने यदि ॥ इति । (म्ध् ८।३३२)
अस्यार्थाह् – द्रव्यरकषक राजाध्यक्षादिसमक्षं बलावष्टम्भेन यत् परद्रव्यापहारादिकं क्रियते तत् साहसम् । स्तेयं पुनर् असमक्षं वञ्चयित्वा यत् परद्रव्यग्रहणं तद् इति । यत् तु राजाध्यक्षादिकम् आहृत्य न मयेदिअम् अपहृतम् इति भयान् निह्नुते तद् अपि स्तेयम् भवति । अत एव नारदः ।
उपायैर् विविधैर् एषां छेलयित्वापकर्षण्म् ।
सुप्तमत्तप्रमत्तेभ्या स्तेयम् आहुर् मनीडिणः ॥ इति तद् अप्य् क्षुद्रमध्योत्तमद्रव्या त्रिविधम् । तद् आह स एव ।
[४३६] तद् अपि त्रिविधं ज्ञेयं द्रव्यापेक्षं मनीषिभिः ।
क्षुद्रमध्यममुख्यानां द्रव्याणाम् अपहारतः ॥ इति ।
क्षुद्रमध्योत्तमद्रव्यान्य् आह हारीतः ।
मृद्भाण्डासनखट्वास्थितन्तुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नं च क्षुद्रं द्रव्यम् उदाहृतम् ॥
वासः कौशेयवर्जं तु गोवर्जं पशवस् तथा ।
हिरण्यवर्जं लोहं च मद्यव्रीहियवादिकम् ॥
हिरण्यरत्नकौशेयस्त्रीपुंसगजवाजिनः ।
देवब्राह्मणराज्ञां च विज्ञेयं द्रव्यम् उत्तमम् ॥ इति ।
तस्करज्ञानोपायाम् आह याज्ञवल्क्यः ।
ग्राहकैर् गृह्यते चोरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥
अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥
परद्रव्यगृहाणां च प्रच्छका गूढचारिणः ।
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥ (य्ध् २।२६६–६८)
[४३७] इति । ग्राहकै राजपुरुषैर् लोप्त्रेणापहृतभाजनादिना चौर्यचिह्नेन नष्टद्रव्यदेशाद् आरभ्य चोरपादानुसारेण वा चोरो ग्रहीतव्याः । पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः । अशुद्धवासक अप्रज्ञातस्थानवासी । जातिनिह्नवो नाहं शूद्र इति । नामनिह्नवो नाहं डित्थ इति । आदिग्रहणात् स्वदेशग्रामकुलाद्य् उपलक्ष्यते । नष्टद्रव्यविक्रयाः भिन्नभाजनजीर्णवस्त्राद्यनिर्ज्ञातस्वामिकविक्रयकारिणः । एवंविधलिङ्गैः पुरुषान् गृहीत्वा चोरो भवन्ति न वा इति सम्यक् परीक्षेत । न तावता स्तेनं निश्चिनुयात् । तद् आह नारदः ।
अन्यहस्तात् परिभ्रष्टम् अकामाद् उत्थितं भुवि ।
चोरेणापि परिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ॥
असत्याः सत्यसंकाशाः सत्याश् चासत्यसंनिभाः ।
दृश्यन्ते विविधा भावाः तस्माद् युक्तं परीक्षणम् ॥ इति ।
तस्करो ऽपि द्विविधः । तद् आह बृहस्पतिः ।
प्रकाशाश् चापर्काशाश् च् तस्करा द्विविधाः स्मृताः ।
प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास् ते सहस्रधा ॥
[४३८] नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः ।
दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥
अक्रियाकारिणश् चैव मध्यस्थाः कूटसाक्षिणः ।
प्रकाशतस्करा ह्य् एते तथा कुहकजीविनः ॥ इति ।
प्रतिरूपकाः प्रतिरूपकारा इत्य् अर्थः । तथा च नारदः ।
प्रकाशवञ्चकास् तत्र कूटमानतुलाश्रिताः ।
उत्कोचकाः सोपधिकाः कितवाः पण्ययोषितः ॥
प्रतिरूपकराश् चैव मङ्गलादेशवृत्तयः ।
इत्य् एवमादयो ज्ञेयाः प्रकाशास् तस्करा भुवि ॥ इति ।
अप्रकाशतस्कराणां स्वरूपम् आह बृहस्पतिः ।
संधिछेदः पान्थमुषो द्विचतुष्पदहारिणः ।
उत्क्षेपकाः सस्यहरा ज्ञेयाः प्रच्छन्नतस्कराः ॥ इति ।
व्यासो ऽपि ।
साधनाङ्गान्विता रात्रौ विचरन्त्य् अविभाविताः ।
अविज्ञातनिवासाश् च ज्ञेयाः प्रच्छन्नतस्कराः ॥
उत्क्षेपकः संधिभेत्ता पान्थ्-उद्ग्रन्थिकादयः ।
स्त्रीपुंसयोः पशुस्तेयी चोरा नवविधाः स्मृताः ॥ इति ।
उत्क्षेपको धनिनाम् नवधानम् अवधार्य तद्धनम् उत्कृत्य ग्राहकः । संधिबेत्ता गृहयोः सन्धौ स्थित्वा तत्रत्यभित्तिभेत्ता । [४३९] पान्थः यः कान्तारादौ पथिकानां प्रत्यक्षापहारकः । परीधानादिग्रथितं धनं ग्रहीतुं तद्ग्रन्थिं मोचयति स उद्ग्रन्थिकः । प्रकाशतस्कराणां नैगमादीनां दण्डम् आह बृहस्पतिः ।
संसर्गचिह्नरूपैश् च विज्ञाता राजपूरुषैः ।
प्रदाप्यापहृतं दण्ड्या दमैः शास्त्रप्रचोदितैः ॥
प्रच्छाद्य दोषं व्यामिश्रं पुनः संस्कृत्य विक्रयी ।
पण्यं तद्द्विगुणं दाप्यो वणिग् दण्ड्यश् च तत्समम् ॥
अज्ञातौषधिमन्त्रस् तु यश् च व्याधेर् अतत्त्ववित् ।
रोगिभ्यो ऽर्थं समादत्ते स दण्ड्यश् चोरवद् भिषक् ॥
कूटाक्षदेविनः क्षुद्रा राजभार्याहराश् च ये ।
गणका वञ्चकाश् चैव दण्ड्यास् ते कितवाः स्मृताः ॥
अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥
ज्योतिर्ज्ञानं तथोत्पातम् अविदित्वा तु ये नृणाम् ।
श्रावयन्त्य् अर्थलोभेन विनेयास् ते प्रयत्नतः ॥
दण्डजिनादिभिर् युक्तम् आत्मानं दर्शयन्ति ये ।
हिंसन्तश् छद्मना नॄणां वध्यास् ते राजपूरुषैः ॥
अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्रीबालकान् वञ्चयन्ति दण्ड्यास् ते ऽर्थानुसारतः ॥
[४४०] हेमरत्नप्रवालाद्यान् कृत्रिमान् कुर्वते तु ये ।
क्रेतुर् मूल्यं प्रदाप्यास् ते राज्ञा तद्द्विगुणं दमम् ॥
मध्यस्था वञ्चयन्त्य् एकं स्नेहलोभादिना यदा ।
साक्षिणश् चान्यथा ब्रूयुर् दाप्यास् ते द्विगुणं दमम् ॥ इति ।
अप्रकाशतस्कराणां संधिछिदासिकानां च दण्डम् आह स एव ।
संधिछेदकृतो ज्ञात्वा शूलम् आग्राहयेत् प्रभुः ।
तथा पान्थमुषो वृक्षे गलं बध्वावलम्बयेत् ॥
मनुष्यहारिणो राज्ञा दग्धव्यास् ते कटाग्निना ।
गोहर्तुर् नासिकां छिन्द्याद् बध्वा वाम्भसि मज्जयेत् ॥
उत्क्षेपकस् तु संदंशैर् भेत्तव्यो राजपूरुषैः ।
धान्यहर्ता दशगुणं दाप्यः स्याद् द्विगुणं दमम् ॥ इति ।
ग्रन्थिभेदकस्य दण्डम् आह मनुः ।
अङ्गुलीर् गन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥ (म्ध् ९।२७७)
[४४१] इति । अङ्गुलीः तर्जन्यङ्गुष्ठौ । अत एव नारदः ।
प्रथमे ग्रन्थिभेदानाम् अङ्गुल्यङ्गुष्ठयोर् वधः ।
द्वितीये चैव यच् छेषं तृतीये वधम् अर्हति ॥ इति ।
बन्दिग्राहीदानां दण्डम् आह याज्ञवल्क्यः ।
बन्दिग्राहान् तथा वाजिकुञ्जराणां च हारिणः ।
प्रसह्य घातकांश् चैव शूलान् आरोपयेन् नरः ॥ इति । (य्ध् २।२७३)
अयम् अङ्गुलिछेदनादिप्राणान्तिको दण्ड उत्तमसाहसप्राप्तियोग्यद्रव्यविषयः,
[४४२] वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गछेद इत्य् उक्तः दण्ड उत्तमसाहसे ।
इति नारदस्मरणात् । क्षुद्रमध्यमोत्तमद्रव्येषु प्रथममध्यमोत्तमसाहसरूप-दण्डनियमो नारदेन दर्शितः ।
साहसेषु य एवास्ते त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ इति ।
जात्यादिभेदेन दण्डतारतम्यम् आह मनुः ।
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद् धि सः ॥ इति । (म्ध् ८।३३७–३८)
दान्यं दशभ्य कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥
सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।
रत्नानां चैव सर्वेषां शताद् अभ्यधिकं वधः ॥
[४४३] पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥
पुरुषाणां कुलीनानां हरणे नारीणां च विशेषतः ।
रत्नानां चैव मुख्यानां हरणे वधम् अर्हति ॥ इति । (म्ध् ८।३२०–३२३)
यस्मिन्न् अपहारे यो दण्ड उक्तः स शूद्रकर्तृके ऽष्टगुणः, वैश्यकर्तृके षोडशगुणः, क्षत्रियकर्तृके द्वात्रिंशद् गुणः, ब्राह्मणकर्तृके चतुःषष्टिगुणः शतगुणो वा अष्टाविंशत्युत्तरशतगुणो वा । शेषेषु स्वल्पमूल्येषु मूल्याद् एकादशगुणं दण्डं कल्पयेत् । क्षुद्रद्रव्याणां माषात् न्यूनमूल्यानां मूल्यात् पञ्चगुणो दण्डः । तथा च नारदः ।
काष्टभाण्डतृणादीनां मृण्मयानां तथैव च ।
वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥
शाकानाम् आर्द्रमूलानां हरणे फलमूलयोः ।
पक्वान्नानां कृतान्नानां मत्स्यानाम् आमिषस्य च ।
सर्वेषाम् अल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥ इति ।
यत् पुनर् मनुनोक्तम्,
[४४४] सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥
वेणुवैणवभाण्डानां लवणानां तथैव च ।
वेणुवैणवभाण्डानां लवणानां तथैव च ।
मृन्मयानां च हरणे मृदो भस्मन एव च ॥
अजानां पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश् चैव यच् चान्यत् पशुसंभवम् ॥
अन्येषां चैवमादीनां मद्यानाम् ओदनस्य च ।
पक्वान्नानां च सर्वेषां तन्मूल्याद् द्विगुणो दमः ॥ (म्ध् ८।३२६–२९)
इति, तद् अल्पप्रयोजनविषयम् । स्वल्पप्रयोजनद्रव्यापहारे पान्थादीनां न दण्ड इत्य् आह मनुः ।
द्विजो ऽध्वगः क्षीणवृत्तिः द्वाव् इक्षू द्वे च मूलके ।
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥ (म्ध् ८।३४१)
चणकव्रीहिगोधूमयवानां मुद्गमाषयोः ।
अनिषिद्धैर् ग्रहीतव्यो मुष्टिर् एका पथि स्थितैः ॥
तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ इति ।
महापराधे ऽपि ब्राह्मणस्य न वधदण्ड इत्य् आह याज्ञवल्क्यः ।
[४४५] सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ।
महापराधिनम् अपि ब्राह्मणं नैव घातयेत् ॥ इति । (य्ध् २।२७९)
अपि तु ललाटे चिह्नं कृत्वा स्वदेशान् निर्वासयेत् । तथा च मनुः ।
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ इति । (म्ध् ९।२३७)
एतच् चाङ्कनादि प्रायश्चित्तम् अकुर्वतां दण्डोत्तरकालम् न तु प्रायश्चित्तं चिकीर्षताम् । तथा च मनुः ।
[४४६] प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे स्युः दाप्यास् तूत्तमसाहसम् ॥ इति । (म्ध् ९।२४०)
भक्तावकाशादिदानेन चोरोपकारिणं प्रत्य् आह याज्ञवल्क्यः ।
भक्तावकाशाग्न्युदकशस्त्रोपकरणव्ययान् ।
दत्वा चौरस्य वा हन्तुर् जानतो दम उत्तमः ॥ इति । (य्ध् २।२७६)
कात्यायनो ऽपि ।
चोराणां भक्तदा ये स्युस् तथाग्न्युदकदायकाः ।
क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च ॥
समदण्डाः स्मृता ह्य् एते ये च प्रच्छदयन्ति तान् ।
[४४७] इति । चोरोपेक्षिणं प्रय् आह नारदः ।
शक्ताश् च य उपेक्षन्ते ते ऽपि तद्दोषभागिनः ।
उत्क्रोशतां जनानां तु ह्रियमाणे धने तथा ॥
श्रुत्वा ये नाभिधावन्ति ते ऽपि तद्दोषभागिनः । इति ।
चोरादर्शने द्रव्यप्राप्त्युपायम् आह याज्ञवल्क्यः ।
घातिते ऽपहृते दोषो ग्रामभर्तुर् अनिर्गते ।
विवीतभर्तुस् तु पथि चोरोद्धर्तुर् अवीतके ॥
स्वसीम्नि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः क्रोशाद् दशग्राम्य् अथ वा पुनः ॥ इति । (य्ध् २।२७१–७२)
अयम् अर्थः । यदा ग्राममध्ये ऽपि वधो द्रव्यहरणं वा जायते तदा ग्रामपतेर् एव चोरोपेक्षादोषः । तत्परिहारार्थं ग्रामपतिर् एव चोरं गृहीत्वा राज्ञे समर्पयेत् । तद् अशक्तौ धनिने हृतं दद्यात् । यदि स्वग्रामाच् चोरपदं निर्गतं न दर्शयति । दर्शने तु तत्पदं यत्र प्रविशति तद्विषयाधिपतिर् एव चोरं धनं चार्पयेत् । तथा च नारदः ।
[४४८] गोचरे यस्य मुष्येत तेन चौरः प्रयत्नतः ।
ग्राह्यो दाप्यो ऽथ वा द्रव्यं पदं यदि न निर्गतम् ॥
निर्गतं पुनर् एतस्मान् न चेद् अन्यत्र याति तत् ।
सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥ इति ।
विवीते त्व् अपहारे विवीतस्वामिन एव दोषः । यदा त्व् अध्वन्य् एव तद् हृतं भवति अविवीतके वा विवीताद् अन्यक्षेत्रे तदा चोरोद्धर्तुर् मार्गपालस्य दिक्पालस्य चापराधः । यदा पुनर् ग्रामाद् बहिः सीमान्तपर्यन्ते क्षेत्रे दोषो जायते तदा तद्ग्रामवासिन एव दद्युर् यदि सीम्नो बहिश् चोरपदं न निर्गतम् । निर्गते पुनर् यत्र तत् प्रविशति स एव ग्रामश् चोरार्पणादिकं कुर्यात् । यदा त्व् अनेकग्राममध्ये क्रोशमात्राद् बहिः प्रदेशे मोषादिकं जायते चोरपदं च जनसंमर्दाद् भग्नं तदा पञ्चग्रामी दशग्रामी वा दद्यात् । विकल्पस् तु प्रत्यासत्त्याद्यपेक्षया व्यवस्थितः । यदा दापयितुम् अशक्तो राजा तदा स्वयं दद्यात् । तथा च गौतमः- [४४९] “चोरहृतम् अवजित्य यथास्थानं गमयेत् । स्वकोशाद् वा दद्यात्” इति । स्तेयसंदेहे निर्णयोपायम् आह वृद्धमनुः ।
यदि तस्मिन् दाप्यमाने भवेन् मोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर् वापि साधयेत् ॥ इति ।
चोरवधप्रकारविशेषम् आह नारदः ।
यांस् तत्र चोरान् गृह्णीयात् तान् विताड्याभिबन्ध्य च ।
अवकृष्य च सर्वत्र हन्याच् चित्रवधेन तु ॥ इति ।
इति स्तेयप्रकरणम्
अथ साहसम्
तत्स्वरूपं नारदेनोक्तम् ।
सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ इति ।
ननु – साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणेभ्यो न व्यतिरिच्यते, तेषां तदवान्तरविशेषत्वात् । तथा च बृहस्पतिः ।
[४५०] मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चैव साहसं तु चतुर्विधम् ॥ इति ।
तत् कथं पृथग् अस्य व्यवहारपदता ।
सत्यम् । तथापि बलदर्पावष्टम्भोपाधिस् तेभ्यो भिद्यते इति दण्डातिरेकार्थं पृथग् अभिधानम् । मनुष्यमारणरूपस्य साहसस्य तेभ्यो ऽतिरेकात् तदर्थं वा पृथग् अभिधानम् । तस्य च त्रैविध्यम् आह नारदः ।
तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपावमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥
वासः पास्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥ इति ।
त्रिविधे ऽपि साहसे दण्डम् आह स एव ।
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर् दृष्टः पञ्चशतावरः ॥
उत्तमे साहसे दण्डः सहस्रावर इष्यते ।
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ॥
तदङ्गछेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥
[४५१] इति । परद्रव्यापहरणरूपे साहसे दण्डम् आह याज्ञवल्क्यः ।
तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ।
यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ इति । (य्ध् २।२३०–३१)
साहसविशेषेषु दण्डम् आह याज्ञवल्क्यः ।
अर्घ्याक्रोशातिक्रमकृत् भ्रातृभार्याप्रहारदः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥
सामन्तकुलिकादीनाम् अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः ॥
स्वच्छन्दं विधवागामी विक्रुष्टे नाभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशन् ॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्न् अयोग्यो योगकर्मकृत् ।
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
[४५२] साधारणस्यापलापी दासीगर्भविनाशकृत् ॥
पितृपुत्रस्वसृभ्रातृदम्पत्याचार्यऋत्विजाम् ।
एषाम् अपतितान्न्योन्यत्यागी च शतदण्डभाक् ॥ (य्ध् २।२३२–३७)
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥
विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥
विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥
क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥ इति । (य्ध् २।२७७–८२)
अविज्ञातकर्तृके साहसे साहसिकज्ञानोपायम् आह बृहस्पतिः ।
[४५३] हतः संदृश्यते यत्र घातकस् तु न दृश्यते ।
पूर्ववैरानुमानेन ज्ञातव्यः स महीबुजा ॥
प्रतिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः ।
प्रष्टव्या राजपुरुषैः सामादिभिर् उपक्रमैः ॥
विज्ञेयो ऽसाधुसंसर्गाच् चिह्नाद् गूढैश् च लक्षणैः ।
एषोदिता घातकानां तस्कराणां च भावना ॥ इति ।
याज्ञवल्क्यो ऽपि ।
अविज्ञातहतस्यापि कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश् चास्य प्रपुंसि रताः पृथक् ॥
स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह ।
मृत्युदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥ इति । (य्ध् २।२८०–८१)
उक्तज्ञानोपायासंभवे तु कात्यायनः ।
विना चिह्नैस् तु यत् कार्यं साहसाख्यं प्रवर्तते ।
शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥
[४५४] इति । साहसिकवधे विशेषम् आह व्यासः ।
ज्ञात्वा तु घातकं सम्यक् ससहायं सबान्धवम् ।
हन्याच् चित्रवधोपायैर् उद्वेजनकरैर् नृपः ॥ इति ।
बृहस्पतिर् अपि ।
प्रकाशवधका ये तु तथा चोपांशुघातकाः ।
ज्ञात्वा सम्यग् धनं हृत्वा हन्तव्या विविधैर् वधैः ॥ इति ।
एतद् ब्रह्मघ्नक्षत्रियादिविषयम् । तद् आह बौधायनः- “क्षत्रियादीनां ब्राह्मणव्धे वधः सर्वस्वहरणं च । तेषाम् एव तुल्यापकृष्टवधे यथाबलम् अनुरूपं दण्डं प्रकल्पयेत्” इति (ब्ध् १।१०।१८।१९–२०) । बहूनाम् एकघातार्थे प्रवृत्तानां दोषानुरूपदण्डाभिधानार्थम् आह कात्यायनः ।
एकं चेद् बहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघाती तु यस् तेषां स घातक इति स्मृतः ॥ इति ।
यो मर्मघातकः स एव वधानुरूपदण्डभाग् भवतीत्य् अर्थः । तथा च घातकव्यतिरिक्तानाम् अपि दण्डस् तेनैवोक्तः ।
[४५५] आरम्भकृत् सहायश् च तथा धर्मानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥
युद्धोपदेशकश् चैव तद्विनाशप्रवर्तकः ।
उपेक्षाकारकश् चैव दोषवक्तानुमोदकः ॥
अनिषेद्धा क्षमो यः स्यात् सर्वे तत्कार्यकारिणः ।
यथाशक्त्य् अनुरूपं तु दण्डं तेषां प्रकल्पयेत् ॥ इति ।
अनुरूपं दोषानुरूपम् । मर्महन्तुर् दोषभागित्वं द्वयोर् दर्शयति स एव ।
आरम्भकृत् सहायश् च दोषभाजौ तदर्धतः । इति ।
एवं मार्गानुदेशकानां कालान्तरे ऽपि दोषलाघवम् ऊह्यम् । साहससदृशापराधेष्व् अपि दण्डम् आह याज्ञवल्क्यः ।
वसानस् त्रीन् पणान् दण्ड्यो नेजकस् तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ इति । (य्ध् २।२३८)
अवक्रयः एतावत् कालम् उपभोगार्थं वस्त्रं दास्यामि त्वं [४५६] मह्यम् एतावद् धनं देहीति समयं कृत्वा वस्त्रप्रदानं नेजकस्य नियमातिक्रमे दण्डप्राप्त्यर्थं नियमम् आह मनुः ।
शाल्मलीफलके श्लक्ष्णे नेनिज्यात् नेजकः शनैः ।
न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥ इति । (म्ध् ८।३९६)
प्रमादान् नाशने नारदः ।
मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः ।
द्विः पादस् त्रिस् तृतीयांशश् चतुर्धौते ऽर्धम् एव च ॥
अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षयः ॥ इति ।
अष्टपणक्रीतस्य सकृद् धौतस्य वस्त्रस्य नाशने एकपणन्यूनं मूल्यं देयम् । द्विर्धौतस्य पणद्वयोनं त्रिर्धौतस्य त्रिपणोनं चतुर्धौतस्य पणचतुष्टयम् । ततः परं प्रतिनिर्णेजनम् अवशिष्टं मूल्यं शिष्टपादापचयेन यावज्जीर्णं देयम् । जीर्णस्य नाशने [४५७] त्व् इच्छातो मूल्यदानं कल्पनीयम् इत्य् अर्थः । पितापुत्रविरोधे साक्ष्यादीनां दण्डम् आह स एव ।
पितापुत्रविरोधे तु साक्षिणस् त्रिपणो दमः ।
अन्तरेण तयोर् यः स्यात् तस्याप्य् अष्टगुणो दमः ॥ इति । (य्ध् २।२३९)
पितापुत्रयोः कलहे यः साक्ष्यम् अङ्गीकरोति न पुनः कलहं वारयति स पणत्रयं दण्ड्यः । यश् च तयोः सपणे विवादे पणदाने प्रतिभूर् भवति कलहं वा वर्धयति स तु त्रिपणाद् अष्टगुणं चतुर्विंशतिपणं दण्डनीय इत्य् अर्थः । अन्येष्व् अपि तत्सदृशापराधेषु दण्डम् आह स एव ।
तुलाशासनमानानां कूटकृन् नाणकस्य च ।
एभिस् तु व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥
अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥
भिषङ् मिथ्या चरन् दण्ड्यस् तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राजपुरुषेषूतमं दमम् ॥
अबध्यं यश् च बध्नाति बद्धं यश् च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥
[४५८] मानेन तुलया वापि यो ऽंशम् अष्टकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥
भेषजस्नेहलवणगन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन् हीनं पणान् दण्ड्यस् तु षोडश ॥
मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥
समुद्रपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं चापि नयतो दण्डकल्पना ॥
हीने पणे तु पञ्चाशत् पणे तु शतम् उच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ तु वृद्धिमान् ॥
संभूय कुर्वताम् अर्घं सबाधं कारुशिल्पिनाम् ।
अर्घस्य ह्रासं वृद्धिं वा जानतां दम उत्तमः ॥
संभूय वणिजा पण्यम् अनर्घेणोपरुन्धताम् ।
विक्रीणतां च विहितो दण्ड उत्तमसाहसः ॥
राजनि स्थाप्यते यो ऽर्घः प्रयहं तेन विक्रयः ।
क्रयो वा निःस्रवस् तस्माद् वणिजां लाभकृत् स्मृतः ॥
स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥
[४५९] पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घो ऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च ॥ इति । (य्ध् २।२४०–५३)
तुला तोलनदण्डः । प्रस्थादि परिमाणम् । नाणकं मुद्राचिह्नितं द्रम्मनिष्कादि । एतेषां कूटकृद् देशप्रसिद्धपरिमाणाद् अन्यथाकृत् । न्यूनत्वम् आधिक्यं वा द्रम्मादेर् अव्यवहारिकमुद्रितत्वं वा ताम्रादिगर्भत्वं वा करोति । यश् च त्रपुसीसादिरूपैस् तैर् व्यवहरति ताव् उभौ प्रत्येकम् उत्तमसाहसं दण्डनीयौ । यः पुनर् नाणकपरीक्षकः सम्यग् एव कूटम् इति ब्रूते असम्यग् वा सम्यग् इति सो प्य् उत्तमसाहसं दण्डनीयः । यः पुनर् वैद्यः आयुर्वेदानभिज्ञ एव जीवनार्थं चिकित्साज्ञो ऽहम् इति तिर्यङ्मनुष्यराजपुरुषेषु चिकित्सां करोति स यथाक्रमं प्रथममध्यमोत्तमसाहसं दण्डनीयः । यो ऽप्य् अनपराधिनं राजाज्ञया विना बध्नाति बद्धं तया विना मुञ्चति व्यवहारार्थम् आहूतम् अनिर्वृत्तव्यवहारं चोत्सृजति सो ऽपि उत्तमसाहसं दण्डनीयः । यो ऽपि वणिग् व्रीहिकार्पासादेः पण्यस्याष्टमांशं कूटमानेन कूटतुलया वापहरति [४६०] असौ पणानां द्विशतं दण्डनीयः । अपह्रियमाणद्रव्यस्य पुनर् वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्पनीये । भेषजम् औषधद्रव्यम् । स्नेहो घृतादिः । गन्धद्रव्यम् उशीरादि । एतेष्व् असारद्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः । न विद्यते बहुमूल्या जातिर् यस्मिन् मृच्चर्मादिके तद् अजाति तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसंचारणेन बहुमूल्यजातीयसादृश्यसंपादने विक्रेयस्यापादितसादृश्यस्य मृच्छर्मादेः पण्यस्याष्टगुणो दण्डः । समुद्रकस्य करण्डकादेः परिवर्तनं व्यत्यासः । यो ऽन्यद् एव मुक्तानां पूर्णं करण्डकं दर्शयित्वा अन्यद् एव स्फटिकानां पूर्णं हस्तलाघवात् समर्पयति यश् च सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयम् आधिं वा नयति तस्यैवं दण्डकल्पना । कृत्रिमकस्तूरिकादेर् मूल्यभूते पणे हीने न्यूने न्यूनपणमूल्ये इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये तु शतं द्विपणमूल्ये तु द्विशतो दण्डः । एवं मूल्यवृद्धौ दण्डवृद्धिर् उन्नेया । राजनिरूपतार्घस्य ह्रासं वृद्धिं वापि जानन्तो वणिजः मिलित्वा कारुशिल्पिनां कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां पीडाकरम् अर्घान्तरं लाभलोभात् कुर्वन्तः पणसहस्रं दण्डनीयाः । ये पुनर् देशान्तराद् आगतं पण्यं हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महार्घेण वा विक्रीणते तेषाम् उत्तमसाहसो दण्डः । [४६१] राजनि संनिहिते ऽपि सति यस् तेणार्घो निरूप्यते तेनार्घेण क्रयो वा विक्रयो वा कार्यः । निःस्रवः निर्गतः स्रवः अवशेषः । तस्माद् राजनिरूपिताद् अर्घात् यो निःस्रवः स एव वणिजां लाभकारी न पुनः स्वछन्दपरिकल्पिताद् अर्घात् । अर्घकरणे विशेषम् आह मनुः ।
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथ वा गते ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थपनं नृपः ॥ इति । (म्ध् ८।४०२)
स्वदेशपण्ये शतपणमूल्ये पञ्चकं लाभार्थं गृह्णीयात् । पारदेश्ये तु दशपणं लाभं गृह्णीयात् यस्य पणग्रहणदिवस एव विक्रयः । यः पुनः कालान्तरे विक्रीणीते तस्य कालोत्कर्षवशाल् लाभोत्कर्षः कल्प्यः । देशान्तराद् आगते पण्ये देशान्तरगमनप्रत्यागमन-भाण्डग्रहणशुल्कादिस्थानेषु प्रयुक्तम् अर्थं परिगणय्य पण्यमूल्येन सह मेलयित्वा यथा शतपणमूल्ये दशपणो लाभः संपद्यते तथा केतृविक्रेत्रोर् अनुग्रहकार्य् अर्घो राज्ञा स्थापनीयः ।
इति साहसप्रकरणम्
[४६२]
अथ स्त्रीसंग्रहणम्
तस्य त्रैविध्यम् आह बृहस्पतिः ।
पापमूलं संग्रहणं त्रिप्रकारं निबोधत ।
बलोपाधिकृते द्वे तु तृतीयम् अनुरागजम् ॥
अनिच्छया त्व् अपकृतं मत्तोन्मत्तकृतं तथा ।
प्रलये यत् तु रहसि बलात्कारकृतं तु तत् ॥
छद्मना गृहम् आनीय दत्वा वा मदकारणम् ।
संयोगः क्रियते यत् तु तद् उपाधिकृतं विदुः ॥
अन्योन्यम् अनुरागेण दूतसंप्रेषणेन वा ।
कृतं रूपार्थलोभेन ज्ञेयं तद् अनुरागजम् ॥ इति ।
पुनर् अपि त्रैविध्यम् आह स एव ।
तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।
अपाङ्गप्रेक्षणं हास्यं दूतसंप्रेषणं तथा ॥
स्पर्शो भूषणं वस्त्राणां प्रथमः संग्रहः स्मृतः ।
प्रेषणं गन्धमाल्यानां धूपम्ध्वान्नवाससाम् ॥
[४६३] संभाषणं रहसि च मध्यमं संग्रहं विदुः ।
एकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ॥
एतत् संग्रहणं प्रोक्तम् उत्तमं शास्त्रवेदिभिः ॥ इति ।
योषित्संग्रहणज्ञानोपायम् आह याज्ञवल्क्यः ।
पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥
नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् ।
अदेशकालसंभाषा सहैकस्थानम् एव च ॥ इति । (य्ध् २।२८३–८४)
स्तीपुंसयोर् मिथुनीभावः संग्रहणम् । तत्र प्रवृत्तः परभार्यया सह केशाकेशिक्रीडनेन सद्य अभिनवैः कामजैः कररुहदशनादिकृतव्रणलिङ्गैः द्वयोः संप्रतिपत्या वा ग्राह्यः । यो ऽपि परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनशिरोरुहादिस्पर्शने साभिलाष इव करोति निर्जनदेशे जनाकीर्णे ऽप्य् अन्धकाराकुले अकाले संलापं करोति परभार्यया सहैकत्र मञ्चकादौ तिष्ठति सो ऽपि ग्राह्यः । मनुर् अपि ।
स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥ (म्ध् ८।३५८)
[४६४] दर्पाद् वा यदि वा मोहाच् छ्लाघया वा स्वयं वदेत् ।
पूर्वं मयेयं भुक्तेति तच् च संग्रहणं स्मृतम् ॥ इति ।
तत्र दण्डम् आह याज्ञवल्क्यः ।
सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ इति । (य्ध् २।२८६)
चतुर्णाम् अपि वर्णानां बलात्कारेण सजातीयगुप्तपरभार्यागमने साशीतिपणसहस्रो दण्डः । यदा त्व् आनुलोम्येन हीनवर्णगुप्तपरभार्यागमनं तदा मध्यमसाहसो दण्डः । यदा पुनः सवर्णाम् अगुप्ताम् आनुलोम्येन गुप्तां वा व्रजति तदा मनुना विशेष उक्तः ।
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः सहस्रं तु भवेद् दमः ॥ इति । (म्ध् ८।३७८, ३८३)
एतद् गुरुसखिभार्यादिव्यतिरिक्तविषयम्, तत्र दण्डान्तरविधानात् । तद् आह नारदः ।
[४६५] माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनं तस्य नान्यो दण्डो विधीयते ॥ इति ।
प्रतिलोम्येन उत्कृष्टस्त्रीगमने क्षत्रियादेर् वधः । एतद् गुप्ताविषयम् । अन्यत्र धनदण्डः । तथा च मनुः ।
उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥
ब्राह्मणीं यद्य् अगुप्तांतु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ इति । (म्ध् ८।३७७, ३७६)
शूद्रस्यागुप्तोत्कृष्टस्त्रीगमने लिङ्गछेदनसर्वस्वहरणे गुप्तागमने तु वधसर्वस्वापहारौ । तथा च स एव ।
[४६६] शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तैकाङ्गसर्वस्वी गुप्तं सर्वेण हीयते ॥ इति । (म्ध् ८।३७४)
अत्रैव विषये बृहस्पतिर् अपि ।
सहसा कामयेद् यस् तु धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद् गर्दभेन तु ॥ इति ।
शूद्रस्येत्य् अनुवृत्तौ गौतमः- “आर्यस्त्र्यभिगमने लिङ्गोद्धारः सर्वस्वहरणं च” इति (ग्ध् १२।२) । नार्याः पुनर् हीनवर्णगमने नासादिकर्तनम् । अयं वधाद्युपदेशो राज्ञः तस्यैव पालनाधिकारात् न द्विजातिमात्रस्य, “ब्राह्मणः परीक्षार्थम् अपि शस्त्रं नाददीत” (आप्ध् १।१०।२९।६) [४६७] इति शस्त्रग्रहणस्य निषेधात् । यदा तु राज्ञो निवेदने कालातिपातशङ्का तदा द्विजातिमात्रस्यापि वधादिकारो ऽस्त्य् एव,
शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।
नाततायिवधे दोषो हन्तुर् भवति कश्चन ॥
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ इति । (म्ध् ८।३४८, ३५१)
इति शस्त्रग्रहणाभ्यनुज्ञानात् । क्षत्रियवैश्ययोर् अन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्रपञ्चशतपणात्मकौ दण्डौ । तद् आह मनुः ।
वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥ इति । (म्ध् ८।३८२)
साधारणस्त्रीगमने दण्डम् आह याज्ञवल्क्यः ।
अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ इति । (य्ध् २।२९०)
उक्तलक्षणा वर्णस्त्रियो दास्यः । ता एव स्वामिना शुश्रूषाहानिव्युदासार्थं गृह एव स्थातव्यम् इत्य् एवं [४६८] पुरुषान्तरभोगतो निरुद्धाः अवरुद्धाः । नियतपुरुषपरिग्रहाः भुजिष्याः । यदा दास्यो ऽवरुद्धा भुजिष्या वा भवेयुः तासु तासु । चशब्दाद् वेश्यास्वैरिणीनाम् अपि साधारनस्त्रीणां भुजिष्याणां ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्व् अपि गच्छन् पञ्चाशत्पणं दण्डनीयः, परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतद् एवाभिप्रेत्य नारदो ऽपि ।
स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्या अपि हि नोपेया यत् ताः परपरिग्रहाः ॥ इति ।
निष्कासिनी स्वाम्यवरुद्धा दासी । अनवरुद्धदास्याद्यभिगमने याज्ञवल्क्यः ।
प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्य् अकामासौ चतुर्विंशतिकः पृथक् ॥ इति । (य्ध् २।२९१)
पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु च शुल्कदानम् अन्तरेण बलात्कारेणाभिगच्छतो दशपणो दण्डः । अनिच्छन्तीम् एकां गच्छतां बहूनां प्रत्येकं चतुर्विंशतिपाणात्मको दण्डः । कन्याहरणे दण्डम् आह याज्ञवल्क्यः ।
[४६९] अलंकृतां हरन् कन्याम् उत्तमं ह्य् अन्यथाधमम् ।
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥
सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः ॥ इति । (य्ध् २।२८७–८८)
अलंकृता विवाहाभिमुखी तां कन्याम् अपहरन् उत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णाम् अपहरन् प्रथमसाहसं दण्डनीयः । उत्तमवर्णजां कन्याम् अपहरतः क्षत्रियादेर् वध एव । आनुलोम्येन सकामाम् अपहरन् न दण्डभाक् भवति । अकामाम् अपहरन् प्रथमसाहसं दण्डनीयः । कन्यादूषणे तु दण्डम् आह स एव ।
दूषणे तु करछेद उत्तमायां वधः स्मृतः ।
शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने ॥
पशून् गच्छन् शतं दाप्यो हीनस्त्रीं गां च मध्यमम् ॥ इति । (य्ध् २।२८८–८९)
यद्य् अकामां कन्या बलात्कारेण नखक्षतादिना दूषयति तदा तस्य करछेदः । उत्तमाया दूषणे वधः । कन्यायाः यदि कश्चिद् विद्यमानान् एवापस्मारराजयक्ष्मादिदोषान् [४७०] प्रकाश्येयम् अकन्येति दूषयत्य् असौ शतं दाप्यः । मिथ्याभिशंसने तु पुनर् अविद्यमानदोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने पणशतं दाप्यः । तथा हीनां स्त्रियम् अन्त्यावसायिनीं गां च गच्छन् मध्यमसाहसं दण्डनीय इत्य् अर्थः । यदा पुनस् ताम् एव अङ्गुलीप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति तदा विशेषम् आह मनुः ।
अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥
सकामां दूषयंस् तुल्यो नाङ्गुलिछेदम् अर्हति ।
द्विशतं तु दमं दाप्यः प्रङ्गविनिवृत्तये ॥
कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।
शुल्कं च द्विगुणं दद्यात् शिफाश् चैवाप्नुयाद् दश ॥
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा छेदं खरेणोद्वहनं तथा ॥ इति । (म्ध् ८।३६७–७०)
यदा पुनर् उत्कृष्टजातीयां कन्यां सानुरागाम् अकामां गच्छति तदा तस्य क्षत्रियादेर् वधः । यदा सवर्णां सकामां [४७१] अभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् । अनिच्छति पितरि दण्डरूपेण राज्ञे दद्यत् । सवर्णाम् अकामां तु गच्छतो वध एव । तद् आह मनुः ।
उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ।
शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥
यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयांस् तुल्यो न वधं प्राप्नुयान् नरः ॥ इति । (म्ध् ८।३६६, ३६४)
चण्डाल्यादिगमने दण्डम् आह स एव ।
अन्त्याभिगमने त्व् अङ्क्यः कुबन्धेन प्रवासयेत् ।
शूद्रस् तथाङ्क्य एव स्याद् अन्त्य्स्यार्यागमे वधः ॥
अयोनौ गच्छतो योषां पुरुषं वापि मेहतः ।
चतुर्विंशतिको दण्डस् तथा प्रव्रजितासु च ॥ इति । (य्ध् २।२९४, २९३)
अन्त्या चाण्डाली । तां गच्छन्तं त्रैवर्णिकं प्रायश्चित्तानभिमुखं “सहस्रं त्व् अन्त्यजस्त्रियम्” (म्ध् ८।३८५) [४७२) इति । मनुवचनानुसारेण सहस्रं दण्डयित्वा कुत्सितवर्णेन भगाकारेणाङ्कयित्वा स्वराष्ट्रान् निर्वासयेत् । शूद्रः पुनश् चण्डालीं गच्छन्न् अङ्क्य एव । अन्त्यज इति पाठे चण्डाल एव भवति । चण्डालस्य तूत्कृष्टजातिस्त्रियाभिगमने वध एव । योषां मुखादाव् अभिगच्छतः पुरुषं वा मुखे मेहतः प्रव्रजितां गच्छतः चतुर्विंशतिपणो दण्डः । वञ्चनया स्त्रीसंग्रहणे दण्डम् आह बृहस्पतिः ।
छद्मनाकारयेद् यस् तु तस्य सर्वहरो दमः ।
अङ्कयित्वा भगाङ्केन पुरान् निर्वासयेत् ततः ॥ इति ।
इति स्त्रीसंग्रहणम्
अथ स्त्रीपुंसयोगाख्यं विवादपदम्
तस्य स्वरूपम् आह नारदः ।
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तद् विवादपदम् उच्यते ॥ इति ।
स्त्रीरक्षणम् आह मनुः ।
[४७३] अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या ह्य् आत्मनो वशे ॥
सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥
इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥
स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥
न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ॥
अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मे ऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ॥ इति । (म्ध् ९।२, ५–७, १०–११)
स्वैः पुरुषैः भर्तृभिः सर्वदा अस्वतन्त्राः कार्याः । विषये गीतादौ आसक्तास् ततो व्यावर्तनीयाः । अरक्षितास् तु दुश्चरितेन भर्तृपितृकुलयोः शोकं कुर्युः । तस्मात् कुलद्वयवृद्ध्यर्थं रक्ष्यास् ताः । यद्य् अपि प्रसह्यावरुध्य रक्षितुम् अशक्यास् [४७४] तथाप्य् अर्थसंग्रहादौ नियोजनेन पुरुषान्तरचिन्तनाव्सरस्याप्रदानेन रक्षेद् इत्य् अर्थः । बृहस्पतिर् अपि ।
सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।
शश्र्वादिभिर् गुरुस्त्रीभिः पालनीया दिवानिशम् ॥ इति ।
दोषरहितस्त्रीपरित्यागिनं प्रय् आह नारदः ।
अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ इति ।
दण्डेन स्थापयितुम् अशक्ये त्व् आह याज्ञवल्क्यः ।
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ इति । (य्ध् १।७६)
बुद्ध्वा स्त्रियं त्यजेद् इत्य् आह नारदः ।
अन्योन्यं त्यजतोर् आगः स्याद् अन्योन्यविरुद्धयोः ।
स्त्रीपुंसयोर् न चोढाया व्यभिचाराद् ऋते स्त्रियाः ॥ इति ।
विवाहसंस्काररहितयोर् हीनजातीयस्त्रीपुंसयोर् विरोधेनान्योन्यं त्यजतो दोषो नास्ति । विवाहसंस्कृतायास् तु व्यभिचाराद् एव त्यागो न विरोधमात्रेण । एतच् च स्वछन्दव्यभिचारिणीविषयम्,
[४७५] स्वच्छन्दगा तु या नारी तस्यास् त्यागो विधीयते ।
इति यमस्मरणात् । शिष्यगाद्या अपि संत्याज्याः । तथा च वसिष्ठः ।
चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा तथा ।
पतिघ्नी तु विशेषेण जुङ्गितोपगता तथा ॥ इति । (वध् २१।१९)
हारीतो ऽपि- “गर्भघ्नीम् अधमवर्णां शिष्यसुतगामिनीं पानव्यसनासक्तां धनधान्यविक्रयकरीं विवर्जयेत्” इति (हार्स्म् १३।२१) । विवर्जनं च व्यवहारपरित्यागः । तथा च वसिष्ठः- “व्यवाये तीर्थगमने धर्मेभ्यश् च निवर्तते” इति (वध् २१।९) । व्यवायः संयोगः । तीर्थगमनशब्देन स्मार्तं कर्म लक्ष्यते । धर्मशब्देन श्रौतम् । चशब्देन संभाषणादिकम् । व्याधितादीनां तु संभोगमात्रस्य त्याग इत्य् आह देवलः ।
व्याधितां स्त्रीप्रजां वन्ध्याम् उन्मत्तां विगतार्तवाम् ।
अदुष्टां लभते त्यक्तुं तीर्थान् न त्व् एव कर्मणः ॥
[४७६] इति । तीर्थात् संभोगाद् इत्य् अर्थः । तथा च नारदः ।
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकूलां च सर्वदा ।
कामतो नाभिनन्देत कुर्वन्न् एवं न दोषभाक् ॥
अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
पूर्वाशिनीं च या भर्तुः क्षिप्रं निर्वासयेद् गृहात् ॥
स्त्रीं धनभ्रष्टसर्वस्वां गर्भविध्वंसिनीं तथा ।
भर्तुश् च वधम् इच्छन्तीं स्त्रियं निर्वासयेत् पुरात् ॥ इति ।
बौधायनो ऽपि ।
अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
मृतप्रजां पञ्चदशे सद्यस् त्व् अप्रियवादिनीम् ॥ इति । (ब्ध्२।२।४।६)
संयोग इति शेषः ।
[४७७] भर्तुः प्रतिनिविशेन या भार्या स्कन्दयेद् ऋतुम् ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं निर्धमेद् गृहात् ॥ (ब्ध् ४।१।१२।२०)
अशुश्रूषाकरीं नारीं बन्धकीं पतिहिंसकम् ।
त्यजन्ति पुरुषाः प्राज्ञाः क्षिप्रम् अप्रियवादिनीम् ॥ इति ।
त्यागश् च वधप्रतिनिधित्वेन कार्यः । तथा च यमः ।
स्वछन्दव्यभिचारिण्याः विवस्वांस् त्यागम् अब्रवीत् ।
न वधं न च वैरूप्यं वधं स्त्रीणां विवर्जयेत् ।
न चैव स्त्रीवधः कुर्यान् न क्षैवाङ्गविकर्तनम् ॥ इति ।
स्त्रीणां वधं कुर्वन् तासां विवर्जनं कुर्याद् भर्ता न कर्णनासादिकर्तनम् इत्य् अर्थः । अन्ये च स्त्रीपुंधर्मा आचाराध्याये प्रचञ्चिता इति नात्र प्रपञ्चिताः ।
इति स्त्रीसम्ग्रहः
अथ दायभागाख्यं व्यवहारपदं कथ्यते
तल्लक्षणं नारदेनोक्तम् ।
विभागो ऽर्थस्य पैत्र्यस्य पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥
[४७८] इति । दायो नाम यद् धनं स्वामिसंबन्धाद् एव अन्यस्य स्वं भवति तद् उच्यते । स द्विविधः । अप्रतिबन्धः सप्रतिबन्धश् चेति । पितृधनं पितामहधनं वा अप्रतिबन्धो दायः । पुत्रादिधनं तु पित्रादीनां सप्रतिबन्धो दायः । तस्य विभागो दायविभाग इत्य् उच्यते । अत एव योगीश्वरः दायशब्देन पितृद्वारागतं मातृद्वारागतं च द्रव्यम् एवोच्यते इति । संग्रहकारश् च ।
पितृद्वारागतं द्रव्यं मातृद्वारागतं च यत् ।
कथितं दायशब्देन तद्विभागो ऽधुनोच्यते ॥ इति ।
विभागकालम् आह मनुः ।
ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं ऋक्थम् अनीशास् ते हि जीवतोः ॥ (म्ध् ९।१०४)
[४७९] इति । ऊर्ध्वं पितुर् इति पितृधनविभागकालः । मातुर् ऊर्ध्वम् इति मातृधनविभागकालः । ततश् चैतद् उक्तं भवति । पितुर् ऊर्ध्वं मातरि जीवन्त्याम् अपि पितृधनविभागः कार्यः । तथा मातुर् ऊर्ध्वं पितरि जीवते ऽपि मातृधनविभागः कार्य एव, अन्यतरधनविभागे उभयोर् ऊर्ध्वकालप्रतीक्षणानुपयोगाद् इति । तद् उक्तं संग्रहकारेण ।
पितृद्रव्यविभागस्य जीवन्त्याम् अपि मातरि ।
अस्वतन्त्रतयास्वाम्यं यस्मान् मातुः पतिं विना ॥
मातृद्रव्यविभागो ऽपि तथा पितरि जीवति ।
सत्स्व् अपत्येषु यस्मान् न स्त्रीधनस्य पतिः पतिः ॥ इति ।
अयम् अर्थः । पतिमरणे पितृभार्यायाः पत्युपरमात् पत्युर् धने यस्मात् अस्वातन्त्र्येण न स्वामित्वम् यस्माच् चापत्येषु विद्यमानेषु भार्याधनस्य भार्यामरणे ऽपि पतिर् न स्वामी तस्मात् तयोर् अन्यतरस्मिन् जीवत्य् अप्य् अन्यतरधनविभागो युक्त इति । एतेन जीवतोस् तत् तद् द्रव्यविभागेषु पुत्राणां न स्वातन्त्र्यम् इत्य् अर्थाद् उक्तं भवति । तथा च शङ्खः- “न जीवति पितरि पुत्रा रिक्थं भजेरन् । यद्य् अपि स्यात् पश्चाद् अधिगतं तैः अनर्हा एव पुत्राः । अर्थधर्मयोः अस्वातन्त्र्यात्” इति । अस्यायम् अर्थः । यद्य् अपि जन्मानन्तरम् एव पुत्राः पितृधने स्वामित्वं प्रतिपन्नाः तथापि पितरि जीवति तद्धनं न [४८०] विभजेरन् । यतो धर्मार्थयोर् अस्वातन्त्र्याद् विभागकरणे ऽनर्हाः । अर्थास्वातन्त्र्यम् नाम तदादानप्रदानओस् अस्वातन्त्र्यम् इति । तद् आह हारीतः- “जीवति पितरि पुत्राणाम् अर्थादानविसर्गाक्षेपेष्व् अस्वातन्त्र्यम्” इति (हार्स्म् १७।२१) । अर्थादानम् अर्थोपभोगः । विसर्गो व्ययः । आक्षेपो भृत्यादेः शिक्षार्थम् अधिक्षेपादिः । धर्मास्वातन्त्र्यं पृथगिष्टापूर्तादाव् अप्रवृत्तिः । यत् तु देवलेनोक्तम्,
पितर्य् उपरते पुत्रा विभजेरन् पितुर् धनम् ।
अस्वाम्यं हि भवेत् तेषां निर्दोषे पितरि स्थिते ॥ इति ।
तद् अप्य् अस्वातन्त्र्यप्रतिपादनपरम्, पितृधने पुत्राणां जन्मना स्वाम्यस्य लोकसिद्धत्वात् ।
ननु – शास्त्रैकसमधिगम्यस्य स्वत्वस्य कथं लोकसिद्धता । शास्त्रसिद्धत्वं च, “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्धम् । क्षत्रियस्य विजितम् । निर्विष्टं वैश्यशूद्रयोः” (ग्ध् १०।३९–४२) [४८१] इति गौतमवचनाद् अवगम्यते । अप्रतिबन्धो दायो ऋक्थं न सप्रतिबन्धो दायः । संविभागः सप्रतिबन्धो दायः । अनन्यपूर्वस्य जलतृणकाष्ठादेः स्वीकारः परिग्रहः । निध्यादिप्राप्तिर् अधिगमः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ब्राह्मणस्य प्रतिग्रहादिना यल् लब्धं तद् अधिकम् असाधारणम् । क्षत्रियस्य विजयदण्डादिलब्धं यत् तद् असाधारणम् । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तद् असाधारणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यद् लब्धं तद् असाधारणम् । एवम् अनुलोमप्रतिलोमजानां स्वस्वविहिताश्वसारथ्यादिना यल् लब्धं तद् अधिकम् इत्य् अर्थः । अत्रैव संग्रहकारो न्यायम् आह ।
वर्तते यस्य यद् धस्ते तस्य स्वामी स एव तु ।
अन्यस्वम् अन्यहस्तेषु चौर्याद् यैः किं न वर्तते ॥ इति ।
अन्यस्वस्यान्यहस्ते स्थितस्य दर्शनेन तस्यैव स्वामितापत्तेः । अतः शास्त्रैकसमधिगम्यं स्वत्वत्वम् । किं च यदि यस्यान्तिके यद् धनं दृष्टं तस्य स एव स्वामी तर्हि अस्य स्वम् अनेनापहृतम् इति न ब्रूयात्, यस्यैवान्तिके दृष्टं तस्य स्वामित्वात् । स्वत्वस्य लौकिकत्वे**,**
[४८२] यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥ इति । (म्ध् ८।३४०)
याजनादिना अदत्तादायिनः सकाशाद् द्रव्यम् अर्जयतो दण्डविधानम् अनुपपन्नं स्यात् । तस्माच् छास्त्रैकसमधिगम्यं स्वत्वम् इति ॥
मैवम्, लौकिकम् एव स्वत्वं लौकिकार्थक्रियासाधनत्वात्, व्रीह्यादिवत् । आहवनीयादीनां वैदिकादीनाम् अपि लौकिकपाकादिसाधनत्वम् अस्तीत्य् अनैकान्तिको हेतुः – इति चेत् ।
न । न हि तेषाम् आहवनीयादिरूपेण पादादिसाधनत्वं किं तर्हि लौकिकाग्न्यादिरूपेणेत्य् अस्ति वैषम्यम् । किं च पामराणाम् अपि स्वत्वव्यवहारदर्शनात् स्वत्वस्य लौकिकत्वम् अवगम्यते । यत् तु गौतमवचनम्- “स्वामी रिक्थक्रयसंविभागेषु” (ग्ध् १०।३९) इत्याद्य् अनुपन्नम् इत्य् उक्तम् ॥
तन् न । प्रतिग्रहाद्युपायकस्य स्वत्वस्य लौकिकत्वे स्थिते ब्राह्मणादीनां प्रतिग्रहाद्युपायनियमार्थत्वात् शास्त्रस्य । यद् अप्य् उक्तम् अन्यस्य स्वम् अन्येनापहृतम् – इति न ब्रूयाद् इति, तद् असत्, स्वत्वहेतुभूतक्रयादिसंदेहात् स्वत्वसंदेहोपपत्तेः । यद् अपि चोक्तम् “यो ऽदत्तादायिनः” [४८३] इति अदत्तादायिनः सकाशाद् याजनादिना द्रव्यम् अर्जयितुर् दण्डविधानम् अनुपपन्नम् इति । तद् अप्य् असत्, प्रतिग्रहादिनियतोपायकस्यैव स्वत्वस्य लौकिकत्वात् नियमातिक्रमेण द्रव्यम् अर्जयतो दण्डविधानम् उपपद्यते । एवम् “तस्योत्सर्गेण शुध्यन्ति” इति प्रायश्चित्तविधानम् अपि । एवं च स्वत्वस्य लौकिकत्वे असत्प्रतिग्रहादिलब्धं धनं तत्पुत्रादीनां दायत्वेन स्वम् इति विभाज्यम् । न तेषां दोषसंबन्धः,
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ (म्ध् १०।११५)
इति मनुस्मरणात् ।
इदम् अत्र चिन्तनीयम्: विभागात् स्वं स्वय वा विभागः इति ।
अत्रायं पूर्वपक्षः । विभागात् स्वं जन्मनैव स्वत्वे उत्पन्नमात्रस्य पुत्रस्यापि स्वं साधारणम् इति द्रव्यसाध्येष्व् आधानादिषु पितुर् अधिकारविधिर् न स्यात् । किं च,
भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ इति ।
प्रीतिदानवचनम् अप्य् अनुपन्नं स्यात् । यद् अपि –
[४८४] मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥
पितृप्रसादाद् भुज्यन्ते वस्त्राण्य् आभरणानि च ।
स्थावरं तु न भुज्येत प्रसादे सति पैतृके ॥
इति, तत् पितामहोपात्तस्थावरविषयम् । तस्मात् स्वामिनाशाद् विभागाद् वा स्वत्वं न जन्मनैव ।
राद्धान्तस् तु । जन्मनैव स्वत्वं लोके प्रसिद्धम् । विभागशब्दश् च बहुस्वामिकधनविषये लोके प्रसिद्धो नान्यदीयधनविषयो न प्रहीणविषयः । किं च “उत्पत्त्यैवार्थं स्वामित्वाल् लभेतेत्य् आचार्याः” इति गौतमवचनाज् जन्मनैव स्वत्वम् अवगम्यते । यद् उक्तम्- “मनिमुक्ताप्रवालानाम्ऽ इत्यादिवचनं पितामहोपात्तस्थावरविषयम् इति, तद् अयुक्तम् । “न पिता न पितामहः” इति वचनात्, पितामहस्य हि स्वार्जितम् अपि धनं पुत्रपौत्रयोः सतोर् अदेयम् इति वचनम् जन्मना स्वत्वं गमयतीति । यद् अप्य् उक्तम्: अर्थसाध्येष्व् आधानादिषु पितुर् अनधिकार इति, तद् अयुक्तम्, वचनाद् एवाधिकारावगमात् । यद् अपि चोक्तम् जन्मनैव स्वत्वे “भर्त्रा प्रीतेन यद् दत्तम्” इत्यादि विष्णुवचनं नोपपद्यते इति, तद् अप्य् अयुक्तम्, साधारण्ये ऽपि द्रव्यस्य वचनाद् एव [४८५] प्रीतिदाने पितुर् अधिकारोपपत्तेः । स्थावरादौ तु स्वार्जिते ऽपि पुत्रादिपारतन्त्र्यम् एव,
स्थावरं द्विपदं चैव यद्य् अपि स्वयम् अर्जितम् ।
असंभूय सुतान् सर्वान् न दानं न च विक्रयः ॥
ये जाता ये ऽप्य् अजाताश् च ये च गर्भे व्यवस्थिताः ।
वृत्तिं च ते ऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥
इत्यादिवचनात् । आपदादौ तु स्वातन्त्र्यम् अस्त्य् एव,
एको ऽपि स्थावरे कुर्याद् दानाधमनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्मार्थेषु विशेषतः ॥
इति स्मरणात् ।
तस्मात् सुष्टूक्तं जन्मनैव स्वत्वम् इति ।
प्रकृतम् अनुसरामः । अपरम् अपि विभागकालम् आह याज्ञवल्क्यः ।
विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ इति । (य्ध् २।११४)
यदा पिता विभागं कर्तुम् इच्छति तदा पुत्रान् आत्मनः सकाशाद् इच्छया विभजेत् । इच्छया विभागप्रकारः “ज्येष्ठं वा श्रेष्ठभागेन” इति । श्रेष्ठभागः सोद्धारविभागः उद्धारप्रकारः स्मृत्यन्तरे दर्शितः ।
[४८६] ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ इति । (म्ध् ९।११२)
अथ वा – सर्वे ज्येष्ठादयः पुत्राः समांशभाजः कार्याः स्युः । अथ च विषमो भागः स्वार्जितद्रव्यविषयः । क्रमागते तु सर्वेषाम् अपि समस्वाम्यात् समांशः स्यात्, पितुर् इच्छया विषमविभागस्यायुक्त्वत्वात् । नारदो ऽपि कालान्तरम् आह ।
अत ऊर्ध्वं पितुः पुत्रा विभजेयुर् धनं समम् ।
मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ॥
निवृत्ते वापि रमणे पितर्य् उपरतस्पृहे ॥
[४८७] इति । शङ्खो ऽपि- “अकामे पितरि ऋक्थविभागो वृद्धे विपरीतचेतसि दीर्घरोगिणि च” इति । अस्यार्थः । अकामे विभागम् अनिच्छति पितरि अतिवृद्धे विपरीतचेतसि अप्रकृतिस्थे दीर्घरोगिणि अचिकित्स्यरोगग्रस्ते च पुत्राणाम् इच्छयैव विभागो भवतीत्य् अर्थः । दीर्घरोगग्रहणम् अतिकुपितादेर् उपलक्षणम् । अत एव नारदः ।
व्याधितः कुपितश् चैव विषयासक्तमानसः ।
अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥ इति ।
पित्रा समविभागकरणे विशेषम् आह याज्ञवल्क्यः ।
यदि कुर्यात् समा अंशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ इति । (य्ध् २।११५)
यदि स्वेच्छया पिता पुत्रान् समभागिनः करोति तदा अदत्तस्त्रीधनाः पत्न्यो ऽपि पुत्रसमांशभाजः कर्याः । दत्ते तु स्त्रीधने, “दत्ते त्व् अर्धं प्रकल्पयेत्” (य्ध् २।१४८) [४८८] इति, पुत्रांशाद् अर्धांशभाजो भवन्ति । पितुर् ऊर्ध्वं धर्मविवृद्ध्यर्थं विभागः कर्तव्य इत्य् आह प्रजापतिः ।
एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥ इति । (म्ध् ९।१११)
बृहस्पतिर् अपि ।
एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥ इति ।
पित्रोर् ऊर्ध्वं विभागे प्रकारनियमम् आह याज्ञवल्क्यः ।
[४८९] विभजेयुः सुताः पित्रोर् ऊर्ध्वम् ऋक्थम् ऋणं समम् ॥ इति । (य्ध् २।११७)
ननु – पित्रोर् ऊर्ध्वं विभागे ऽपि विषमविभागो मनुना दर्शितः, “ऊर्ध्वं पितुश् च मातुश् च” (म्ध् ९।१०४) इत्य् उपक्रम्य,
ज्येष्ठ एव तु गृह्णीय्त् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥
ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ इति ।
तथा –
उद्धारे ऽनुद्धृते तेषाम् इयं स्याद् अंशकल्पना ।
एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्थं ततो ऽनुजः ॥
अंशम् अंशं यवीयांस इति धर्म व्यवस्थितः ॥ इति । (म्ध् ९।१०५, ११२, ११६–२७)
गौतमो ऽपि- “विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथो गोवृषः । [४९०] काणः खोडः कूटः वण्डो मध्यमस्यानेकश् चेत् । अविर् धान्यायसी गृहम् अनोयुक्तं चतुष्पदां चैकैकं यवीयसः । समं चेतरत् सर्वम्” इति (ग्ध् २८।५–८) । अयम् अर्थः । सर्वस्मात् पितृधनाद् विंशतितमो भागो ज्येष्ठस्य । मिथुनं गोमिथुनं प्रसिद्धम् । उभयतोदतो ऽश्वाश्वतरगर्दभाः तेषां यथासंभवम् अन्यतराभ्यां युक्तो रथः । खोडो वृद्धः । कूटः शृङ्गविकलः । वण्डो विलोपितवालधिः । अविशेषितत्वा गवाश्वदीनां यथासंभवम् अन्यतरस्योद्धारः कर्तव्यो मध्यमस्य । यवीयसस् तु धान्यं व्रीह्यादि अयो लोहम् । अनोयुक्तं शकटयुक्तम् । चतुष्पदां गवादीनाम् एकैकं पृथक् पृथग् एवानुपूर्व्येण यवीयस उद्धारः । बृहस्पतिर् अपि ।
जन्मविद्यागुणैर् ज्येष्ठो द्व्यंशं दायादम् आप्नुयात् । इति ।
कात्यायनो ऽपि ।
यथा यथा विभागाप्तं धनं यागार्थताम् इयात् ।
तथा तथा विधातव्यं तद्विद्भिर् भागगौरवम् ॥
[४९१] इति । जीवद्विभागे ऽपि विषमविभागो नारदेनोक्तः ।
पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः ।
ज्येष्ठं श्रेष्ठविभागेन यथा वास्य मतिर् भवेत् ॥
पित्रैव तु विभक्ता ये समन्यूनाधिकैर् धनैर् ।
तेषां स एव धर्मः स्यात् सर्वस्य हि पिता प्रभुः ।
द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ॥
[४९२] इति । बृहस्पतिर् अपि ।
समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास् ते स्युर् अन्यथा ॥ इति ।
तस्माज् जीवद्विभागे अजीवद्विभागे च विषमविभागो ऽस्तीति कथं सुताः समम् एव विभजेरन्न् इति नियम्यते ।
मैवम् । सत्यं शास्त्रतो विषमविभागो ऽस्ति तथापि लोकविद्विष्टत्वाद् अनुबन्ध्यादिवत् नानुष्ठीयते । उक्तं च संग्रहकारेण ।
यथा नियोगधर्मो ऽयं नानुबन्ध्यावधो ऽपि वा ।
तथोद्दारविभागो ऽपि नैव संप्रति वर्तते ॥
[४९३] इति । आपस्तम्बो ऽपि- “जीवन् पुत्रेभ्यो दायं विभजेत् समम्” (आप्ध् २।६।१४।१) इति स्वमतम् उपन्यस्य, “ज्येष्ठो दायाद इत्य् एके” (आप्ध् २।६।१४।६) इत्य् एकीयमतेन कृत्स्नधनग्रहणं ज्येष्ठस्योपन्यस्य, “देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य । रथः पितुः परीभाण्डं च गृहे । अलंकारो भार्याया ज्ञातिधनं चेत्य् एके” (आप्ध् २।६।१४।७–९) इत्य् एकीयमतेनैवोद्धारविभागं दर्शयित्वा, “तच् छास्त्रविप्रतिषिद्धम्” (आप्ध् २।६।१४।१०) इति निराकृतवान्; तं च शास्त्रप्रतिषेधं स्वयम् एव दर्शितवान्- “मनुः पुत्रेभ्यो दायं व्यभजद् इत्य् अविशेषेण श्रूयते” (आप्ध् २।६।१४।११) [४९४] इति । तस्माद् विषमविभागः शास्त्रसिद्धो ऽपि लोकविरोधाच् छ्रुतिविरोधाच् च नानुष्ठेयः । इति समम् एव विभजेतन्न् इति न्यमो घटते ।
स्वयं द्रव्यार्जनसमर्थतया पितृद्रव्यम् अनिच्छतो ऽपि यत् किंचिद् दत्वा दायविभागः कर्तव्यः तत्पुत्रादीनां दायग्रहणेच्छानिवृत्यर्थम् इत्य् आह याज्ञवल्क्यः ।
शक्तस्यानीहमानस्य किंचिद् दत्वा पृथक् क्रिया । इति । (य्ध् २।११६)
पुत्राणां मातृधनविभागो दुहित्रभावे द्रष्टव्यः । तथा च स एव ।
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः । इति । (य्ध् २।११७)
मातृकृतर्णापाकरणावशिष्टं मातृधनं दुहितरो विभजेरन् । अतश् च मातृकृतर्णसमं न्यूनं च मातृधनं दुहितॄणां सद्भावे ऽपि पुत्रा एव विभजेरन् – इत्य् अर्थाद् अवगम्यते । अत्र गौतमेन विशेषो दर्शितः- [४९५] “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” इति (ग्ध् २८।२४) । ऊढानूढदुहितृसमवाये मतृधनम् अनूढानाम् एव । ऊढास्व् अपि सधननिर्धनदुहितृसमवाये निर्धनानाम् एवेत्य् अर्थः । पैतामहे पौत्राणां विभागे विशेषम् आह याज्ञवल्क्यः ।
अनेकपितृकाणां तु पितृतो भागकल्पना । इति । (य्ध् २।१२०)
यदा पितृतः अविभक्ता भ्रातरह् पुत्रान् उत्पाद्य मृताः तत्रैकस्य द्वौ पुत्रौ अन्यस्य त्रयः अपरस्य चत्वारः । तत्र पौत्राणां पैतामहे द्रव्ये यद्य् अपि जन्मनैव स्वत्वं पुत्रैर् अविशिष्टं तथापि पित्र्यंशं द्वाव् एकं त्रयो ऽप्य् एकं चत्वारो ऽप्य् एकं लभन्ते इत्य् अर्थः । एतद् एवाभिप्रेत्य बृहस्पतिर् अपि ।
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः । इति ।
तत्पुत्राः प्रमीतपितृकाणाम् एकैकस्य पुत्राः विषमसमाः न्यूनाधिकसंख्याः स्वं स्वं पैतृकं भागम् एव लभन्ते इत्य् अर्थः । यदा स्वसुतयोर् अविभक्तयोर् मध्ये कश्चिद् भ्राता मृतः तत्सुतस् तु पितामहाद् अप्य् अप्राप्तांशः पितामहो ऽपि नासीत् तदा त्व् आह कात्यायनः ।
अविभक्ते ऽनुजे प्रेते तत्सुतम् ऋक्थभाजिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥
[४९६] लभेतांशं स पित्र्यं तु पितृव्यात् तस्य वा सुतात् ।
स एवांशस् तु सर्वेषां भ्रातॄणां न्यायतो भवेत् ॥
लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् ॥ इति ।
लभेत तत्सुतो वा इत्य् अस्य अयम् अर्थः । तस्यापि विभाज्यधनस्वानिपौत्रस्य सुतो ऽपि पितुर् अभावे तद्भागं लभेत तत ऊर्ध्वं तत्सन्ततौ वृद्धप्रपितामहधनविभागकरणनिवृत्तिः इति । तथा च देवलः ।
अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्याद् आ चतुर्थाद् इति स्थितिः ॥
तावत् कुल्याः सपिण्डाः स्युः पिण्डभेदस् ततः परम् ॥ इति ।
जीवत्पितृकस्य पुनः पित्रा सह कथं पैतामहधनविभाग इत्य् आकाङ्क्षायाम् आह बृहस्पतिः ।
द्रव्ये पितामहोपात्ते जङ्गमे स्थावरे ऽपि वा ।
समम् अंशित्वम् आख्यातं पितुः पुत्रस्य चैव हि ॥ इति ।
याज्ञवल्क्यो ऽपि ।
भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥ इति । (य्ध् २।१२१)
भूः शालिक्षेत्रादिका । निबन्धः एकस्य पर्णभारस्य इयन्ति पर्णानि तथैकस्य क्रमुकफलभारस्य इयन्ति [४९७] क्रमुकफलानित्याद्युक्तलक्षणः । द्रव्यं सुवर्णरजतादि यत् पितामन्हेन प्रतिग्रहविजयादिलब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धम् इति विभागो ऽस्ति । यस्मात् सदृशं समानं स्वाम्यं तस्मान् न पितुर् इच्छयैव विभागो नापि पितुर् भागद्वयम् । ततश् च पितृतो भागकल्पनेत्य् एतत्स्वाम्ये समाने ऽपि वाचनिकम् । अतः,
द्वाविंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता । इति ।
एवमादिकं युगान्तरे विषमविभागप्रतिपादनतया स्थापितम् । स्वार्जितद्रव्यविषयं वा । पैतामहधनविषये तु न क्वापि विषमविभागः इति । तथा अविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधे ऽप्य् अधिकारो ऽस्तीति गम्यते । [४९८] पैतामहोपात्ते ऽपि क्वचित् पितुर् इच्छयैव स्वार्जितवद् विभागो भवतीत्य् आह मनुः ।
पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।
न तत्पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ इति । (म्ध् ९।२०९)
यत् पितामहार्जितं केनाप्य् अपहृतं यदि पितोद्धरति तदा स्वार्जितम् इव पुत्रैः सर्धम् अकामतः स्वयं न विभजेत् इति । एवं च सति पितामहोपार्जिते न स्वेच्छया विभाग इत्य् उक्तं भवति । बृहस्पतिर् अपि ।
पैतामहं हृतं पित्रा स्वशक्त्या यद् उपार्जितम् ।
विद्याशौर्यादिना प्राप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥ इति ।
कात्यायनो ऽपि ।
स्वशक्त्यापहृतं द्रव्यं स्वयम् आप्तं च यद् भवेत् ।
एतत् सर्वं पिता पुत्रैर् विभागं नैव दाप्यते ॥ इति ।
यत् परैर् अपहृतं क्रमायातं स्वशक्त्यैवोद्धृतं यन् नष्टं क्रमायातं यच् च विद्याशौर्यादिना स्वयम् एवार्जितं तत् सर्वं पिता विभागे पुत्रैर् न दाप्य इत्य् अर्थः । विभागोत्तरकालोत्पन्नस्य पुत्रस्य भागकल्पनाप्रकारम् आह याज्ञवल्क्यः ।
[४९९] विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । इति । (य्ध् २।१२२)
अयम् अर्थः । विभक्तेषु पुत्रेषु सवर्णायां भार्यायां जातः पुत्रः पित्रोर् विभागं भजते इति विभागभाक् – इति, मातृभागं चासत्यां दुहितरि “ताभ्य ऋते ऽन्वयः” (य्ध् २।११७) इत्य् उक्तत्वात् । असवर्णायां जातस् तु स्वांशम् एव पित्र्याल् लभते मातृकं तु सर्वम् एव । अत एव मनुः ।
ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हर्द् धनम् । इति । (म्ध् ९।२१६)
पित्रोर् इदं पित्र्यम्,
अनीशाः पूवजाः पित्रोः भ्रातृभागे विभक्तजाः ।
इति स्मरणात् । मातापित्रोर् भागे विभागात् पूर्वम् उत्पन्नो न स्वामी पित्रा सह पूर्वं विभक्तत्वात् । विभक्तजश् च भ्रातुर् धने न स्वामीत्य् अर्थः । विभागोत्तरकालं पित्रा स्वयम् अर्जितं विभागोत्तरकालम् उत्पन्नस्यैव । तथा च मनुः ।
पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्व्जाः स्मृताः ॥ इति ।
ये च विभक्ताः पुनः पित्रा सह संसृष्टास् तेषां विभागोत्तरकालम् उत्पन्नेन सह विभागो ऽस्तीत्य् आह मनुः ।
[५००] संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह । इति । (म्ध् ९।२१६)
अजीवद्विभागोत्तरकालं जातस्य पुत्रस्य भागकल्पनाम् आह याज्ञवक्यः ।
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् । इति । (य्ध् २।१२२)
पितरि मृते भ्रातृविभागसमये ऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तरकालम् उत्पन्नस्य विभागः दृश्याद् भ्रातृभिर् गृहीताद् आयव्ययविशोधितात् उपचयापचयाभ्याम् अवधारितपरिमाणात् शोधिताद् धनात् किंचिद् उद्धृत्य स्वांशसमो दातव्यः स्याद् इत्य् अर्थः ।
[५०१] एतच् च मृतभ्रातृभार्यायाम् अपि विभागसमये अस्पष्टगर्भायां विभागाद् ऊर्ध्वम् उत्पन्नस्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्यैव विभागः कर्तव्यः, “अथ ब्रातॄणां दायविभागो याश् चानपत्याः स्त्रियस् तासाम् आ पुत्रलाभात्” इति वसिष्टस्मरणात् (वध् १७।४०–४१) । विभक्तेभ्यः पितृभ्याम् अर्थदाने विभक्तजस्य पुत्रस्य निषेधाधिकारो नास्ति दत्तं च तेन न प्रत्याहर्तव्यम् इत्य् आह याज्ञवल्क्यः ।
पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् । इति । (य्ध् २।१२३)
अजीवद्विभागे मातुर् अंशकल्पनाम् आह याज्ञवल्क्यः ।
पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् । इति । (य्ध् २।१२३)
एतच् च स्त्रीधनस्य अप्रदाने वेदितव्यम् । दत्ते त्व् अर्धम् एव, [५०२] “दत्ते त्व् अर्धांशहारिणी” (य्ध् २।१४८) इति स्मरणात् । अत एव स्मृत्यन्तरम् ।
जनन्य् अस्वधना पुत्रैर् विभागे ऽंशं समं हरेत् । इति ।
अस्वधना प्रातिस्विकस्त्रीधनशून्या जननी पुत्रैर् विभागे क्रियमाणे पुत्रांशसमम् अंशं हरेद् इत्य् अर्थः । जननीग्रहणं सापत्न्यादेर् उपलक्षणार्थम् । तथा च व्यासः ।
असुतास् तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः ।
पितामह्यश् च सर्वास् ता मातृतुल्याः प्रकीर्तिताः ॥ इति ।
यत् तु कैश्चिद् उक्तं माताप्य् अंशं समं हर्द् इति जीवनोपयुक्तम् एव धनं माता स्वीकरोति इति,
तन् न, अंशसमशब्दयोर् आनर्थक्यप्रसङ्गात् ।
अथोच्येत बहधने जीवनोपयुक्तं गृह्णाति स्वल्पधने पुत्रसमांशम् इति ।
तद् अपि न, विधिवैषम्यप्रसङ्गात् । भिन्नमातृकाणां सवर्णानां समसंख्यानां विभागप्रकारम् आह व्यासः ।
[५०३] समानजातिसंख्या ये जातास् त्व् एकेन सूनवः ।
विभिन्नमातृकास् तेषां मातृभागः प्रशस्यते ॥ इति ।
बृहस्पतिर् अपि ।
यद्य् एकजाता बहवः समाना जातिसंख्याया।
स्वधनैस् तैर् विभक्तव्यं मातृभागेन धर्मतः ॥ इति ।
विषमसंख्यानां तु विभागं स एवाह ।
सवर्णलिङ्गसंख्या ये विभागस् तेषु शस्यते । इति ।
विभिन्नजातीनां पुत्राणां विभागप्रकारम् आह याज्ञवल्क्यः ।
चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजातिस् त्रिद्व्येकभागा विड्जास् तु द्व्येकभागिनः ॥ (य्ध् २।१२५)
[५०४] इति । वर्णशो ब्राह्मणात्मजाः ब्राह्मणादिवर्णस्त्रीषु ब्राह्मणेनोत्पन्ना ब्राह्मणमूर्धावसिक्ताम्बष्ठनिषादाः । यथाक्रमं प्रत्येकं चतुस्त्रिद्व्येकभागा भवेयुः । क्षत्रियादिवर्णस्त्रीषु क्षत्रियेणोत्पन्नाः क्षत्रियमाहिष्योग्रास् त्रिद्व्येकभागाः वैश्येन वैश्याशूद्रोत्पन्नौ वैश्यकरणौ द्व्येकभागिनौ शूद्रसैकैव भार्येति भिन्नजातीयपुत्राभावात् तत्पुत्राणां पूर्वोक्त एक एव विभागः । मनुर् अपि ।
ब्राह्मणस्यानुपूर्व्येण चतस्रस् तु यदि स्त्रियः ।
तासां पुत्रेषु जातेषु विभागे ऽयं विधिः स्मृतः ॥
[५०५] त्र्यंशं दायाद् धरेद् विप्रो द्वाव् अंशौ क्षत्र्यासुतः ।
वैश्याजः सार्धम् एवांशम् अंशं शूद्रासुतो हरेत् ॥
सर्वं वा ऋक्थजातं तद् दशधा प्रविभज्य तु ।
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥
चतुरो ऽंशान् हरेद् विप्रः त्रीन् अंशान् क्ष्त्रियासुतः ।
वैश्यासुतो हरेद् द्व्यंशम् एकं शूद्रासुतो हरेत् ॥ इति । (म्ध् ९।१४९, १५१–५३)
एतच् च प्रतिग्रहप्राप्तभूम्यत्रिक्तविषयम् । अत एव बृहस्पतिः ।
न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषां पिता दद्यान् मृते विप्रासुतो हरेत् ॥ इति ।
प्रतिग्रहविशेषणसामर्थ्यात् क्रयादिलब्धा भूः क्षत्रियादिसुतानाम् अपि भवत्य् एव शूद्रापुत्रस्य विशेषप्रतिषेधाच् च,
[५०६] शूद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति । इति ।
यत् तु मनुवचनम्,
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न ऋक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥ (म्ध् ९।१५५)
[५०७] इति, तत् प्रीतिदत्तधनसद्भावविषयं इत्य् अविरुद्धम् । आनुलोम्येन जातस्यैकपुत्रस्य ऋक्थग्रहणप्रकारम् आह देवलः ।
आनुलोम्य् एकपुत्रस् तु सर्वस्वभाग् भवेत् । इति ।
एतच् च निषादव्यतिरिक्तविषयम् । अत एवोक्तं तेनैव ।
निषाद एकपुत्रस् तु विप्रस्वस्य तृतीयभाक् ।
द्वौ सपिण्डः सकुल्यो वा स्वधादाता तु स्वं हरेत् ॥ इति ।
यत् तु मनुवचन,
यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥ (म्ध् ९।१५४)
इति, तद् अशुश्रूषुशूद्रापुत्रविषयम् । क्षत्रियेण वैश्येन वा शूद्रायाम् उत्पन्नः एकः पुत्रः अरधम् एव हरेत् न निषादवत् तृतीयम् अंशम् । तथा च विष्णुः- [५०८] “द्विजातीनां शौद्रस् त्व् एकः पुत्रो ऽर्धहरः । अपुत्रस्य ऋक्थस्य या गतिः सा भागार्धस्य” इति (विध् १८।३२–३३) । प्रत्यासन्नसपिण्डस्यान्यद् अर्धं भवतीत्य् अर्थः । अजीवद्विभागे केषुचिद् भ्रातृष्व् असंस्कृतेषु भगिनीषु वासंस्कृतासु तत्संस्कारः पूर्वसंकृतैर् भ्रातृभिः कर्तव्य इत्य् आह व्यासः ।
असंस्कृतास् तु ये तत्र पैतृकाद् एव ते धनात् ।
संस्कार्या भ्रातृभिः ज्येष्ठैः कन्यकाश् च यथाविधि ।
[५०९] इति । भगिनीसंस्कारे तु विशेषम् आह याज्ञवल्क्यः ।
असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश् च निजाद् अंशाद् दत्वा त्य् अंशं तुरीयकम् ॥ इति । (य्ध् २।१२४)
पितुर् ऊर्ध्वं विभजद्भिर् भ्रातृभिर् असंकृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः । भगिन्यश् चासंस्कृताः निजाद् अंशाद् यज्जातीया कन्यका तज्जातीयपुत्रभागात् तुरीयं चतुर्थं भागं दत्वा संस्कर्तव्याः । अनेन पितुर् ऊर्ध्वं दुहितरो ऽप्य् अंशभागिन्य इत्य् गम्यते । अत एव मनुः ।
स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः स्वं दद्युर् भ्रातरः पृथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ इति । (म्ध् ९।११८)
ब्राह्मणादयो भ्रातरः ब्राह्मण्यादिभ्यो भगिनीभ्यो स्वजातिविहितेभ्यो ऽंशेभ्यः स्वात् स्वाद् अंशाद् आत्मीयाद् भागाच् चतुर्थं चतुर्थं भागं दद्युः ।
एतद् उक्तं भवति । यदि कस्यचिद् ब्राह्मण्य् एव पत्नी पुत्रश् चैकः कन्या चैका तत्र पित्र्यं द्रव्यं द्वेधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयांशं कन्यायै दत्वा शेषं पुत्रो गृह्णीयात् । अथ द्वौ पुत्रौ कन्या चैका तदा पितृधनं त्रेधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयांशं कन्यायै दत्वा शेषं द्वौ पुत्रौ विभज्य गृह्णीतः । अथ त्व् एकः पुत्रः द्वे कन्ये तदा पित्र्यं [५१०] धनं त्रिधा विभज्य तत्रैकं भागं चतुर्धा विभज्य द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्वावशिष्टं सर्वं पुत्रो गृह्णाति । एवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च समविषमासु योजनीयम् ।
यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पित्र्यं द्रव्यं सप्तधा विभज्य क्षत्रियापुत्रभागान् त्रीन् चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यदा तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्यैका तत्र पित्र्यं धनम् एकादशधा विभज्य तेषु त्रीन् भागान् चतुर्धा विभज्य चतुर्थम् अंशं क्षत्रियाकन्यायै दत्वा शेषं सर्वं ब्राह्मणीपुत्रौ विभज्य गृह्णीयाताम् ।
एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यया वैषम्ये च सर्वत्रायं नियम इति मेधातिथेर् वियाक्यानम् । एतद् एव विज्ञानेश्वरयोगिनो ऽप्य् अभिप्रेतम् । भारुचिस् तु चतुर्भागपदेन विवाहसंस्कारमात्रोपयोगि द्रव्यं विवक्षितम् । अतो दायभाक्त्वम् असंस्कृतकन्यानां नास्तीति मन्यते । एतद् एव चन्द्रिकाकारस्याप्य् अभिप्रेतम् तद् आह- “यत एव न दायभागार्थम् ंशहरणं किं तु विवाहसंस्कारार्थम्” । अत एव देवलेनोक्तम् ।
कन्याभ्यश् च पितृद्रव्यं देयं वैवाहिकं वसु ।
[५११] इति । अत्र यद् युक्तियुक्तं तद् ग्राह्यम् । जीवद्विभागे तु यत् किंचित् पिता ददाति तद् एव लभते कन्याविशेषाश्रवणात् । पित्र्यधनाभावे नारदः ।
अविद्यमाने पित्र्ये ऽर्थे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्याः संस्काराः सङ्कोचो ऽत्र विवक्षितः ॥ इति ।
भ्रातॄणां भगिनीनां च संस्काराः जातकर्माद्याः पूर्वसंस्कृतैः भ्रातृभिः पितृधनाभावे ऽपि सावश्यकत्वेन कर्तव्याः । पैतृकद्रव्यविभागकाले स्वधृतालंकारादिकम् इति कन्यका प्राप्नोतीत्य् आह शङ्खः- “विभज्यमाने दाये कन्यालंकारम् एव हि । वैवाहिकं स्त्रीधनं च लभते” इति । मुख्यगौणपुत्राणां स्वरूपं दायग्रहणक्रमं चाह याज्ञवल्क्यः ।
[५१२] औरसो धर्मपत्नीजः तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥
गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥
[५१३] अक्षतायां क्षतायां वा जातः पौनर्भवः स्मृतः ।
दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत् ॥
क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः ।
दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥
उत्सृष्टो गृह्यते यस् तु सो ऽपगिद्धो भवेत् सुतः ।
पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ॥ (य्ध् २।१२८–३२)
[५१४] इति । एषां पुत्राणां द्वादशानां पुर्वस्य पूर्वस्याभावे उत्तर उत्तरः पिण्डदः श्राद्धदः अंशहरो धनहर इत्य् अर्थः । औरसपुत्रिकयोः समवाये औरसस्यैव धनहरणे प्राप्ते अपवादम् आह मनुः ।
पुत्रिकायां कृतायां तु यदि पुत्रो ऽनु जायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति । (म्ध् ९।१३४)
वसिष्ठो ऽपि क्वचिद् अपवादम् आह- [५१५] “तस्मिंश् चेत् प्रतिगृहीते औरस उत्पद्येत । चतुर्थभागभागी स्याद् दत्तकः” इति (वध् १५।९) । कात्यायनो ऽपि ।
उत्पन्ने त्व् औरसे पुत्रे चतुर्थांशहराह् सुताः ।
सवर्णा असवर्णा वा ग्रासाच्छादनभाजनाः ॥ इति ।
सवर्णाः क्षेत्रजदत्तकादयः । ते औरसे सत्य् अपि चतुर्थांशहराः । असवर्णाः कानीनगूढोत्पन्नसहोढपौनर्भवाः औरसे सति न चतुर्थांशहराः अपि तु ग्रासाच्छादनम् एव लभन्ते इत्य् अर्थः । यत् तु विष्णुनोक्तम्,
अप्रशस्तास् तु कानीनगूढोत्पन्नसहोढजाः ।
पौनर्भवश् च ते नैव पिण्डऋक्थांशभागिनः ॥ इति ।
तदौरसे सति चतुर्थांशनिषेधनपरम् एव । यच् च मनुनोक्तम्,
एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ (म्ध् ९।१६३))
[५१६] इति, तद् औरसप्रशंसापरम् एव न चतुर्थांशभागनिषेधपरम् । अन्यथा चतुर्थांशभाक्त्वप्रतिपादकवसिष्ठकात्यायनवचनयोर् आनर्थक्यप्रसङ्गात् । यद् अपि तेनैवोक्तम्,
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥ इति । (म्ध् ९।१६४)
तत्रेयं व्यवस्था । अत्यन्तगुणवत्त्वे चतुर्थांशभागित्वं प्रतिकूलत्वनिर्गुणत्वयोः षष्ठांशभागित्वं प्रतिकूलत्वमात्रे निर्गुणत्वमात्रे च पञ्चमांशभागित्वम् इति । यद् अपि हारीतेनोक्तम्- [५१७] “विभजिष्यमाण एकविंशं कानीनाय दद्यात् । विंशं पौनर्भवाय । एकोनविंशं द्व्यामुष्यायणाय । अष्टादशांशं च क्षेत्रजाय । सप्तदशांशं पुत्रिकापुत्राय । इतरद् औरसाय पुत्राय दद्यात्” इति, एतद् असवर्णनिर्गुणपुत्रविषयम् । यत् तु मनुना,
औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥ (म्ध् ९।१५९–६०)
इति षट्कद्वयम् अभिधाय पूर्वषट्कस्य दायादबान्धवत्वं उत्तरषऋकस्यादायादबान्धवत्वम् अभिहितम्, तद् अपि स्वपितृसापिण्ड्ये समानोदकानां संनिहितरिक्थहरान्तराभावे पूर्वषट्कस्य तद्रिक्थभागहरत्वम् उत्तरषट्कस्य् तु तन् नास्ति भान्दवत्वं पुनः [५१८] समानगोत्रत्वेन सपिण्डत्वेन वा उदकप्रदानादिकार्यकरत्व्ं षट्कद्वयस्यापि समम् एवेति व्याख्येयम् । पितृधनग्रहणं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम् अस्त्य् एव,
न भ्रातरो न पितरः पुत्रा ऋक्थहराः पितुः । (म्ध् ९।१८५)
इति औरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां ऋक्थहारित्वस्य मनुनैव प्रतिपादितत्वात् । द्व्यामुष्यायणस् तु जनयितुर् अपि ऋक्थं भजते । तथा च याज्ञवल्क्यः ।
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ ऋक्थी पिण्डदाता च धर्मतः ॥ इति । (य्ध् २।१२७)
यदा गुर्वादिना नियुक्तो देवरादिः स्वयम् अप्य् अपुत्रः सन्न् अपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति स द्विपितृको द्व्यामुष्यायणो द्वयोर् अपि ऋक्थहारी पिण्डदः । यदा स्वयं पुत्रवान् परपुत्रार्थम् एव परक्षेत्रे पुत्रम् उत्पादयति तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिनः । यथोक्तं मनुना ।
क्रियाभ्युपगमात् क्षेत्रं बीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥
फलं त्व् अनभिसंधाय क्षेत्रिना बीजिना तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् बलीयसी ॥ (म्ध् ९।५३, ५२)
[५१९] इति । अस्यार्थः । अत्रोत्पन्नम् अपत्यम् उभयोर् अपि भवतु – इति संविदं कृत्वा यत् क्षेत्रं स्वामिना बीजावापार्थं बीजिने दीयते तस्मिन् क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ स्वामिनौ । यदा तु तत्रोत्पन्नम् अपत्यम् अवयोर् अस्त्व् इति संविदम् अकृत्वा परक्षेत्रे बीनिना यद् अपत्यम् उत्पाद्यते तदपत्यं क्षेत्रिण एव न बीजिनः । यतो बीजाद् योनिर् बलीयसी । गवाश्वादिषु दृष्टत्वाद् इत्य् अर्थः । गुर्वादिनियोगो ऽपि वाग्दत्ताविषय एव, अन्यस्य नियोगस्य मनुना निषिद्धत्वात्-
देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥
विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथंचन ॥ (म्ध् ९।५९–६०)
पुत्रे नियोगाद् उत्पन्ने यथावद् विधवैव सा ॥ इति ।
एवं नियोगम् उपन्यस्य मनुः स्वयम् एव निषेधति ।
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥
अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥
[५२०] स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतनः ॥
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोगयत्य् अपत्यार्थं तं विगर्हन्ति साधवः ॥ (म्ध् ९।६४–६८)
[५२१] इति ।
ननु – अत्र विकल्पो ऽस्तु विधिप्रतिषेधयोर् उभयोर् दर्शनात् । अतो विनियोगस्य वाग्दत्तादिविष्यत्वम् अनुपपन्नम् इति चेत् ।
न, मनुनैव नियोगस्य तद्विषयत्वप्रतिपादनात् ।
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्य् अधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्र्सवात् सकृत् सकृद् ऋताव् ऋतौ ॥ इति । (म्ध् ९।६९–७०)
दत्तकादीनां न बीजिऋक्तभाक्त्वम् । तथा च मनुः ।
[५२२] गोत्रऋक्थे जनयितुर् न भजेद् दत्त्रिमः सुतः ।
गोत्रऋक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ इति । (म्ध् ९।१४२)
दत्त्रिमग्रहणं क्रीतोपलक्षणार्थम् । दत्तव्यतिरिक्तानां गौणपुत्राणाम् ऋक्थभाक्त्वप्रतिपादकानि वाक्यानि युगान्तरविषयाणि, कलौ युगे तेषां पुत्रत्वेन परिग्रहणस्य स्मृत्यन्तरे निषिद्धत्वात् ।
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।
देवरेण सुतोत्पत्तिः वानप्रस्थाश्रमग्रहः ॥
कलौ युगे त्व् इमान् धर्मान् वर्ज्यान् आहुर् मनीषिणः ॥ इति ।
शूद्रधनविभागे विशेषम् आह याज्ञवल्क्यः ।
जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् ।
मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् ॥
अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते ॥ (य्ध् २।१३३–३४)
[५२३] इति । कामतः पितुर् इच्छया भागं लभते । मृते पितरि यदि परिणीतापुत्रा भ्रातरः सन्ति तदा ते दासीपुत्रं स्वभागाद् अर्धभागिकं कुर्युः । अथ परिणीतापुत्रा दुहितरो वा तत्पुत्रा वा न सन्ति तदा तद्धनं दासीपुत्रो लभते । तत्सद्भावे अर्धम् एव । द्विजातीनां दास्याम् उत्पन्नस् तु पितुर् इच्छयाप्य् अंशं न लभते नाप्य् अर्धं दूरत एव कृत्स्नं जातो ऽपि दास्यां शूद्रेणेति विशेषणात् । किं त्व् अनुकूलश् चेज् जीवनमात्रं लभते इत्य् अभिप्रायः । अपुत्रदायग्रहणक्रमम् आह याज्ञवल्क्यः ।
पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥
एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ इति । (य्ध् २।१३५–३६)
औरसादयो द्वादशविधपुत्रा यस्य न सन्त्य् असाव् अपुत्रः । तस्य मृतस्य धनं पत्न्यादीनां पूर्वस्य पूर्वस्याभावे उत्तरोत्तरो गृह्णाति । अयं दायग्रहणक्रमः सर्वेषु मूर्धावसिक्तादिष्व् अनुलोमजेषु वर्णेषु च ब्राह्मणादिषु वेदितव्य इत्य् अर्थः । पत्नी विवाहादिसंस्क्र्ता नारी । सा प्रथमं पत्युर् धनं गृह्णाति । तद् आह बृहस्पतिः ।
कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु ।
असुतस्य प्रमीतस्य पत्नी तद्धनहारिणी ॥ इति ।
अत्र विशेषम् आह वृद्धमनुः ।
[५२४] अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत् पिण्डं कृत्स्नम् अंशं लभेत च ॥ इति ।
कृत्स्नम् अंशं जङ्गमस्थावरात्मकम् । तद् अयम् अपुत्रदायग्रहणक्रमः । द्वादशविधपुत्रशून्यस्य मृतस्य धनं पत्नी गृह्णाति । तथा च प्रजापतिः ।
जङ्गमं स्थावरं हेम कुप्यं धान्यम् अथाम्बरम् ।
आदाय दापयेच् छ्राद्धं माससंवत्सरादिकम् ॥
पितृव्यगुरुदौहित्रान् भर्तृश्वशुरमातुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धान् अप्य् अतिथींस् तथा ॥ इति ।
तदभावे दुहितरः समानजातीया असमानजातीयाश् च यथाभागं गृह्णीयुः । तथा च बृहस्पतिः ।
भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ।
अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ॥
सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।
तस्मात् पितृधनं त्व् अन्यः कथं गृह्णीत मानवः ॥ इति ।
ऊढानूढदुहितृसमवाये कात्यायन आह ।
पत्नी पत्युर् धनहरी या स्याद् अव्यभिचारिणी ।
तदभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥
[५२५] इति । ऊढास्व् अपि प्रतिष्ठिताप्रतिष्ठितदुहितृसमवाये अप्रतिष्ठितैव गृह्णाति । तद् आह गौतमः- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” इति (ग्ध् २८।२४) । न चैतद् गौतमवचनं मातृधनविषयम् एवेति मन्तव्यम्, पितृधने ऽप्य् अस्य समानत्वात् । दुहित्रभावे दौहित्रो धनहारी । तथा च विष्णुः ।
अपुत्रपौत्रसंताने दौहित्रा धनम् आप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मता ॥ इति ।
मनुर् अपि ।
अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥ (म्ध् ९।१३६)
[५२६] इति । न च – दुहित्रनन्तरं पितराव् इत्य् उपादानम् अनुपपन्नम्, दौहित्रस्य धनहारित्वेन वक्तव्यत्वाद् इति मन्तव्यम् । दुहितरश् चेति चशब्देन सुमुच्चयात् दौहित्राभावे पितरौ धनभाजौ । यद्य् अप्य् अत्र पित्रोर् धनग्रहणे क्रमो न श्रूयते तथापि पितराव् इत्य् अस्य विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातात् प्रत्यासत्त्यतिशयाच् च मातुर् एव पूर्वं धनग्रहणं युक्तम् इति केचिद् आहुः । अपरे त्व् अपुत्रधनं पत्न्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि तदभावे मातृगामि इति, वृद्धविष्णुवचनात्,
अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि च ।
तदभावे पिता माता भ्राता पुत्रश् च कीर्तिता ॥
इति, कात्यायनवचनाच् च- “पितैव पूर्वधनहारीत्य् आहुः । अत्र यद्य् उक्तं तद् ग्राह्यम् । पित्रोर् अभावे भ्रातरो धनभाजः” । तथा अ मनुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव च । इति । (म्ध् ९।१८५)
[५२७] भ्रातृष्व् अपि सोदर्याः प्रथमं धनभाजः तेषां प्रत्यासन्नत्वात् । अत एव मनुः ।
अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेएत् । इति । (म्ध् ९।१८७)
भ्रातॄणाम् अभावे भ्रातृपुत्रा इति पूर्ववद् अवगन्तव्यम् । भ्रातृभ्रातृपुत्रसमवाये ऽपि भ्रातृपुत्राणां धनसंबन्धो नास्ति, भ्रात्रभावे भ्रातृपुत्राणाम् अधिकारश्रवणात् । यदा त्व् अपुत्रे भ्रातरि मृते तद्भ्रातॄणाम् अविशेषेण धनसंबन्धे प्राप्ते भ्रातृधनविभागात् प्राग् एव यदि कश्चिद् भ्राता म्रियेत तत्पुत्राश् च सन्ति तदा तत्पुत्राणां पितृतो ऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभागो युक्तः । भ्रातृपुत्राणाम् अभावे गोत्रजा धनं गृह्णन्ति । गोत्रजाश् च पितामही सपिण्डाः समानोदकाश् च अतः प्रथमं पितामही धनं गृह्णाति । यत् तु,
मातर्य् अपि च वृत्तायां पितुर् माता धनं हरेत् । (म्ध् ९।२१७)
इति मात्रनन्तरं पितामह्या धनग्रहणे प्रापकं वचनम्, तद् अनपत्यस्य स्वर्यातस्य धनं पत्न्यभिगामि तदभावे मातृगामि तदभावे भ्रातृपुत्रगामि तदभावे सकुल्यगामि तदभावे बन्धुगामि सहाध्यायिगामि तदभावे ब्राह्मणधनवर्जं राजगामि ब्राह्मणधनं ब्राह्मण एव गृह्णीयाद् इति । तथा च,
[५२८] अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥
इत्यादि, क्रमप्रतिपादकबहुवचनविरोधात् पितामह्या धनसंबन्धमात्रप्रापकं न क्रमपरम् इत्य् अवगम्यते । पितामह्या अभावे पितामहः पितृव्यास् तत्पुत्राश् च यथाक्रमं धनं गृह्णन्ति । पितामहसन्तानाभावे प्रपितामही प्रपितामहतत्पुत्रास् तत्पुत्राश् चेति सप्तमपर्यन्तं गोत्रजा धनं गृह्णन्ति । सपिण्डानाम् अभावे समानोदका धनं गृह्णन्ति । समानोदकाश् च सपिण्डानाम् उपरि सप्त पुरुषाः जन्मनामज्ञानपर्यन्ता वा । तद् उक्तं बृहन्मनुना ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस् तु निवर्तेताचतुर्दशात् ॥
जन्मनामस्मृतेर् एके तत्परं गोत्रम् उच्यते ॥ इति ।
गोत्रजानाम् अभावे बान्धवा धनं गृह्णन्ति बान्धवाश् च त्रिविधो बौधायनेन दर्शिताः ।
आत्मपितृष्वसुः पुत्राः आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृषवसुः सुताः ।
पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ॥
मातुर् मातुलपुत्राश् च विज्ञेया मातृभान्धवाः ॥
[५२९] इति । बन्धुष्व् अपि यस् त्व् आसन्नतरः स एव पूर्वं गृह्णाति । अत एव बृहस्पतिः ।
बहवो ज्ञातयो यत्र सकुल्या बान्धवास् तथा ।
यस् त्व् आसन्नतरस् तेषां सो ऽनपत्यधनं हरेत् ॥ इति ।
बन्धूनाम् अभवे आचार्यः । आचार्याभावे शिष्यः । तद् आह मनुः ।
यो यो ह्य् अनन्तरः पिण्डात् तस्य तस्य धनं भवेत् ।
अत ऊर्ध्वं सकुल्यः स्याद् आचार्यः शिष्य एव च ॥ इति । (म्ध् ९।१८७)
आपतम्बो ऽपि- “सपिण्डाभावे आचार्यः आचार्याभावे अन्तेवासी” इति (आप्ध् १।६।१४।३) । शिष्याभावे सब्रह्मचारी तस्याभावे यः कश्चिच् छ्रोत्रियो गृह्णाति । तद् आह गौतमः- “श्रोत्रिया ब्राह्मणस्यानपत्यस्य ऋक्थं भजेरन्” इति (ग्ध् २८।४१) । तदभावे ब्राह्मणः । तद् आह मनुः ।
सर्वेषाम् अप्य् अभावे तु ब्राह्मणा ऋक्थभगिनः ।
त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥ [म्ध् ९।१८८)
[५३०] इति । ब्राह्मणधनं न कदाचिद् अपि राजगामि । क्षत्रियादिधनं तु सब्रह्मचारिपर्यन्तानाम् अभावे राजगामि । तद् उक्तं मनुना ।
अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ।
इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ॥ इति । (म्ध् ९।१८९)
नारदेनापि ।
ब्राह्मणार्थस्य तन्नाशे दायादश् चेन् न कश्चन ।
ब्राह्मणायैव दातव्यम् एनस्वी स्यान् नृपो ऽन्यथा ॥ इति ।
संग्रहकारेणापि ।
पितर्य् अविद्यमाने ऽपि धनं तत्पितृसन्ततेः ।
तस्याम् अविद्यमानायां तत्पितामहसन्ततेः ॥
असत्याम् अपि तस्यां तु प्रपितामहसन्ततेः ।
एवम् एवोपरितनां सपिण्डा ऋक्थभागिनः ॥
तदभावे ऽसपिण्डाः स्युर् आचार्यः शिष्य एव वा ।
सब्रह्मचारी सद्विप्रः पूर्वाभावे परः परः ॥
शूद्रस्यैकोदकाभावे राजा धनम् अवाप्नुयात् ।
आचार्यस्याप्य् अभावे तु तथा क्षत्रियवैश्ययोः ॥ इति ।
ननु – अनपत्यस्य धनं प्रथमम् एव पत्नी गृह्णातीत्य् एतद् अनुपपन्नम्, पत्नीसद्भावे ऽपि भ्रातॄणां धनग्रहणस्य पत्नीनां वा भरणमात्रस्य नारदेनोक्तत्वात् ।
[५३१] भ्रातॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेरन् धनं तस्य शेषास् ते स्त्रीधनं विना ॥
भरणं चास्य कुर्वीरन् स्त्रीणाम् आजीवनक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आछिन्द्युर् इतरासु तत् ॥ इति । (न्स्म् १३।२५–२६)
तन् न – “संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते” इति प्रक्रम्य “भ्रातॄणाम् अप्रजाः प्रेयात्” इत्यादिवचनस्य पठितत्वेन संसृष्टभ्रातृभार्याणाम् अनपत्यानां भरणमात्रम् संसृष्टभ्रातॄणां च तद्धनहारित्वम् अनेन वचनेन प्रतिपाद्यत इत्य् अवगमनात् । अथ वा “भ्रातॄणाम् अप्रजाः प्रेयात्” इत्यादिवचनस्य संसृष्टित्वेन,
संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते ।
अनपत्यो ऽंशभाग्यो ऽपि निर्बीजेष्व् इतरान् इयात् ॥ (न्स्म् १३।२४)
इत्य् अनेन पौनरुक्त्यप्रसङ्गात् । अथ वा अविभक्तविषयत्वम् अस्तु याज्ञवल्क्यवचनं तु विभक्तस्यासंसृष्टिनो भर्तुर् धनं पत्न्य् एव प्रहमं गृह्णातीत्य् एवंपरम् इत्य् अविरोधः । यत् तु मनुनोक्तम्,
पिता हरेद् अपुत्रस्य ऋक्थं भ्रातर एव वा । (म्ध् ९।१८५)
इति, यद् अपि कात्यायनेनोक्तम्,
[५३२] विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ॥
इति — मनुवचनं तावन् न क्रमप्रतिपादनपरम् भ्रातर एव वेति विकल्पश्रवणात्, कात्यायनवचनं तु पत्न्यां व्यभिचारिण्यां पित्रादेर् अनपत्यधनग्राहित्वप्रतिपादनपरम्,
भर्तुर् धनहरी पत्नी या स्याद् अव्यभिचारिणी ।
अपचारक्रियायुक्ता निर्लज्जा वार्थनाशिका ॥
व्यभिचाररता या च स्त्री धनं सा न चार्हति ॥
इति तेनैवोक्तत्वात् । धनं जीवनायोपकॢप्तं क्षेत्रांशं नार्हतीत्य् अर्थः । धारेश्वरस् तु अनपत्यधनं पत्नी गृह्णातीत्य् एवमादिवचनजातस्य प्रकारान्तरेण विषयव्यवस्थाम् आह । नियोगार्थिनी पत्नी अनपत्यस्य विभक्तस्य पत्युर् धनं गृह्णाति । तथा च मनुः ।
धनं यो बिभृत्याद् भ्रातुर् मृतस्य स्त्रियम् एव वा ।
सो ऽपत्यं भ्रातुर् उत्पद्य दद्यात् तस्यैव तद् धनम् ॥
कनीयाञ् ज्येष्थभार्यायां पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥ इति । (म्ध् ९।१४६, १२०)
विभक्तधने भ्रातरि मृते अपत्यद्वारेणैव पत्न्या धनसंबन्धः । नान्यथा । अविभक्तधने ऽपि तथेत्य् अभिप्रायः । गौतमो ऽपि [५३३]: “पिण्डगोत्रर्षिसंबन्धा ऋक्थं भजेरन् स्त्री चानपत्यस्य । बीजं वा लिप्सेत” इति (ग्ध् २८।२१–२२) । अयम् अर्थः – अनपत्यस्य ऋक्थं पिण्डगोत्रऋषिसंबन्धा भजेरन् स्त्री वा यदि बीजं लिप्स्यते इति । संग्रहकारो ऽपि ।
भ्रातृषु प्रविभक्तेषु संसृष्टेष्व् अप्य् असत्सु वा ।
गुर्वादेशनियोगस्था पत्नी धनम् अवाप्नुयात् ॥ इति ।
तद् अनुपपन्नम्, पत्नी दुहितर इत्य् अत्र नियोगाश्रवणात् ।
अश्रुतो ऽपि नियोगो गौतमादिवचनबलात् कल्प्यते इति युक्तम् इति चेत्,
तन् न, गौतमादिवचनानाम् अर्थान्तरपरत्वात् । तथा हि । तत्र यद् गौतमवचनम्- “पिण्डगोत्रर्षिसंबन्धा ऋक्थं भजेरन् स्त्री चानपत्यस्य । बीजं वा लिप्सेत” इति । तस्यायम् अर्थः । यदि बीजं लिप्सेत तदा पत्नी अनपत्यधनं गृह्णातीति । अपि तर्ह्य् अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा गृह्णीयुः । स्त्री वा गृह्णीयात् । सा स्त्री बीजं वा लिप्सेत संयता वा भवेद् इति । वाशब्दस्य पक्षान्तरवचनत्वेन यद्य् अर्थे प्रयोगाभावात् । यद् अपि धनं यो [५३४] बिभृयाद् इत्यादिमनुवचनं तद् अपि क्षेत्रजस्यैव धनसंबन्धं वक्ति न पत्न्या इति । संग्रहवचनम् अपि संयताया एव धनसंबन्धं वक्ति न तु देवरादिनियुक्तायाः । अन्यथा,
अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत् पिण्डं कृत्स्नम् अंशं लभेत च ॥ इति ।
तथा,
अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।
भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वम् आप्नुयुः ॥
इति मनु-कात्यायनवचनविरोधप्रसङ्गात् । तस्मास् अनपत्यस्य विभक्तस्यासंसृष्टिनो मृतस्य धनं पत्नी गृह्णातीत्य् एषैव व्यवस्था ज्यायसी । यत् तु स्त्रीणां धनसंबन्धाभवप्रतिपादकवचनम्,
यज्ञार्थं द्रव्यम् उत्पन्नं तत्रानधिकृतास् तु ये ।
अरिक्थभाजस् ते सर्वे ग्रासाच्छादनभजनाः ॥
यज्ञार्थं विहितं वित्तं तस्मात् तद्विनियोजयेत् ।
स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥
इति, तद् यज्ञार्थम् एव संपादितधनविषयम् । यद् अपि कात्यायनेनोक्तम्,
[५३५] अदायिकं राजगामि योषिद्भृत्यौर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस् तद् अर्पयेत् ॥
इति — अयम् अर्थः- स्त्रीणाम् अशनाच्छादनोपयुक्तं धनिनः श्राद्धाद्युपयुक्तं च मुक्त्वा अदायिकधनं राजगामि भवति । श्रोत्रियद्रव्यं तु योषिद्भृत्यौर्धवदैहिकम् अपास्य श्रोत्रियस्य न राज्ञ इत्य् अर्थः । — यद् अपि नरदेनोक्तम्,
अन्यत्र ब्राह्मणात् किंचिद् राजा धर्मपरायणः ।
तत् स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ (न्स्म् १३।५२)
इति, तद् उभयम् अप्य् अवरुद्धस्त्रीविषयं पत्नीशब्दश्रवणात् । यद् अपि च हारीतेनोक्तम्,
विधवा यौवनस्था चेत् पत्नी भवति कर्कशा ।
आयुषो रक्षणार्थं तु दातव्यं जीवनं तदा ॥
इति, तद् अपि शङ्कितव्यभिचारस्त्रीविषयम् । यद् अपि प्रजापतिवचनम्,
आढकं भर्तृहीनायाः दद्याद् आमरणान्तिकम् ।
[५३६] इति, यद् अपि स्मृत्यन्तरे-
अन्नार्थं तण्डुलप्रस्थम् अपराह्णे तु सेन्धनम् ।
इति, तद् एतद् वचनद्वयं हारीतवचनेन समानार्थम् । या च श्रुतिः- “तस्मात् स्त्रियो निरिन्द्रिया अदायादाः” इति, सा पात्नीवतग्रहे तत्पत्न्या अंशो नास्तीत्य् एवंपरा । इन्द्रियशब्दस्य “इन्द्रियं वै सोमपीथः” इति सोमे प्रयोगधर्शनात् । यत् तु पत्न्याः स्थावरग्रहणनिषेधकं बृहस्पतिवचनम्,
यद्विभक्ते धने किंचिद् आध्यादिविधिसंस्मृतम् ।
तज्जाया स्थावरं मुक्त्वा लभेत गतभर्तृका ॥
इति, तद् इतरदायादानुमतिम् अन्तरेण स्थावरविक्रयनिषेधपरम्, अन्यथा
जङ्गमं स्थावरं हेम रूप्यं धान्यरसाम्बरम् ।
आदाय दापयेच् छ्राद्धं माससंवत्सरादिकम् ॥
पितृव्यगुरुदौहित्रान् भर्तृस्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथींस् तथा ॥
इति अनेन विरोधप्रसङ्गात् । संसृष्टिनाम् विभागप्रकारम् आह मनुः ।
[५३७] विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥ इति । (म्ध् ९।२१०)
समानविभागविधानाद् एव विषमविभागनिराकरणसिद्धेः ज्यैष्ठ्यं तत्र न विद्यते इति पुनर् विषमविभागनिराकरणं विषमधनेन संसृष्टानां धनानुसारेण विषमविभागप्राप्त्यर्थम् । संसर्गः कैर् इत्य् अपेक्षिते बृहस्पतिः ।
विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः ।
पितृव्येणाथ वा प्रीत्या तत्संसृष्टः स उच्यते ॥ इति ।
यः पूर्वं पित्रादिना विभक्तः पुत्रादिः पुनः प्रीत्या तेन सह समापन्नः स संसृष्ट उच्यते । येन केनापि सहवासम् आपन्न इत्य् अर्थः । क्वचित् संसृष्टिनां विषमविभागकारणम् आह बृहस्पतिः ।
संसृष्टानां तु यः कश्चिद् विद्याशौर्यादिनाधिकम् ।
प्राप्नोति तत्र दातव्यो द्व्यंशः शेषाः समांशिनः ॥ इति ।
विद्यादिना प्राप्ते अधिके धने अंशद्वयं दातव्यं न सर्वस्मिन्न् इति । एतत् संसृष्टद्रव्यानुपरोधेनार्जिते ऽपि विभाज्यत्वप्राप्त्यर्थम् । अपुत्रस्य संसृष्टिनः ऋक्थग्राहिणं दर्शयति याज्ञवल्क्यः ।
[५३८] संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याच् चापहरेच् चांशं जातस्य च मृतस्य च ॥ इति । (य्ध् २।१३८)
अयम् अर्थः । संसृष्टिनो मृतस्यांशं विभागकाले ऽविज्ञातगर्भायां भार्यायां पश्चाद् उत्पन्नस्य पुत्रस्य इतरः संसृष्टी दद्यात् पुत्राभावे संसृष्ट्य् एवापहरेत् । न पत्न्यादिः । पत्नीनाम् अप्रत्तौर् दुहितॄणां च भरणमात्रम् । तद् आह नारदः ।
भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवनक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आछिन्द्युर् इतरासु तत् ॥
यदा दुहितरस् तस्याः पित्र्यो ऽंशो भरणे मतः ।
आ संस्काराद् धरेद् भागं परतो बिभृयात् पतिः ॥ इति ।
“सोदरस्य तु सोदरः” इति सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः संसृष्टिपश्चाद् उत्पन्नस्य पुत्रस्य दद्यात् । तदभावे स्वयम् एवापहरेत् न भिन्नोदरः । संसृष्टीति पूर्वोक्तस्यापवादः । संसृष्टिनो भिन्नोदरस्य सोदरस्यासंसृष्टिनः सद्भावे उभयोर् अपि विभज्य धनग्रहणम् इत्य् आह स एव ।
अन्योदर्यस् तु संसृष्टी नान्योदर्यो धरं हरेत् ।
असंसृष्ट्य् अपि वादद्यात् संसृष्टो नान्यमातृजः ॥ इति । (य्ध् २।१३९)
सापत्नभ्राता संसृष्टो अन्योदर्यधनं हरेत् न [५३९] त्व् असंसृष्टी । असंसृष्ट्य् अप्य् सोदरः धनम् आददीत । न पुनर् अन्योदर्यः संसृष्ट्य् एव । अत एव मनुः ।
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
सोदर्या विभजेयुस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥ इति । (म्ध् ९।२११–१२)
अयम् अर्थः । येषां संसृष्टिनां भिन्नोदराणां भ्रातॄणां मध्ये यः को ऽपि कनिष्ठो मध्यमो वा विभागकाले देशान्तरगमनादिना स्वांशाद् भ्रश्येत तस्य भागो न लुप्यते, पृथग् उद्धरणीयः । न संसृष्टिन एव गृह्णीयुः । किं तु तम् उद्धृतं भागम् असंसृष्टिनः सोदराः संसृष्टिनश् च भिन्नोदराः सनाभयो भगिन्यश् च देशान्तरगता अपि समागम्य संभूय न्यूनाधिकभावम् अन्तरेण विभजेयुः ।
अन्ये मन्यन्ते,
असंसृष्ट्य् अपि वा दद्यात् संसृष्टो नान्यमातृजः । (य्ध् २।१३९)
इत्य् अस्यायम् अर्थः । यत्र संसृष्टा भिन्नोदराः असंसृष्टाश् च सोदराः तत्रासंसृष्टा अप् सोदरा एव धनं गृह्णीयुः न तु [५४०] भिन्नोदराः संसृष्टा अपीति । यत् तु “येषां ज्येष्ठः” इत्यादिमनुवचनं संसृष्टानां भिन्नोदराणाम् असंसृष्टानाम् एकोदराणां च सर्वेषां धनग्रहणप्रतिपादकम् । तज् जङ्गमस्थावरात्मकोभयद्रव्यसद्भावविषयम् । अत एव प्रजापतिः ।
अन्तर्धनं तु यद् द्रव्यं संसृष्टानां च तद् भवेत् ।
भूमिं गृहं त्व् असंसृष्टाः प्रगृह्णीयुर् यथांशतः ॥ इति ।
अयम् अर्थः । संसृष्टानां भिन्नोदरभ्रातॄणाम् अन्तर्धनं गूढधनं द्रव्यं वा जङ्गमात्मकं यथांशतो भवेत् । सोदराणाम् असंसृष्टानां गृहक्षेत्रादिकं स्थावररूपं यथांशतो भवेत् – इति । याज्ञवल्क्यवचनं तु जङ्गमस्थावरयोर् अन्यतरसद्भावविषयम् इति । तत्र यद् युक्तं तद् ग्राह्यम् ।
यदा तु संसृष्टभिन्नोदराभावः तदा पिता पितृव्यो वा यः संसृष्टः स एव गृह्णीयात् । तथा च गौतमः- “संसृष्टिनि प्रेते संसृष्टो ऋक्थभाक्” इति (ग्ध् २८।२८) ।
यदा पिता पितृव्यो वा संसृष्टो न विद्यते तदा त्व् असंसृष्टभिन्नोदरो भ्राता गृह्णीयत् । तदभावे त्व् असंसृष्टपिता । तदभावे माता । तदभावे पत्नी । तद् आह शङ्खः- “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां तदभावे त्व् असंसृष्टः पिता तदभावे माता तदभावे ज्येष्ठा पत्नी” इति । [५४१] ज्येष्ठा गुणज्येष्ठा न तु पूर्वोढा । संसृष्टभ्रातृपुत्राणां पत्न्याश् च समवाये धनग्रहणप्रकारम् आह नारद ।
मृते पतौ तु भार्याः स्युर् अभ्रातृपितृमातृकाः ।
सर्वे सपिण्डाः स्वधनं विभजेयुर् यथांशतः ॥ इति ।
पत्युः भ्रातृपितृमतृभावविशिष्टा अभातृपितृमातृभार्याः सर्वे सपिण्डाः भ्रातृपुत्रादयः । तत्र भ्रातृपुत्राणां स्वपित्रंशतः भार्याणां भर्त्रंशतः संसृष्टधनस्य विभाग इत्य् अर्थः । पत्नीनाम् अभावे संसृष्टपुत्रांशं तद्भ्रातृभगिनी गृह्णाति । तथा च बृहस्पतिः ।
या तस्य भगिनी सा तु ततो ऽंशं लब्धुम् अर्हति ।
अनपत्यस्य धर्मो ऽयम् अभार्यापितृकस्य च ॥
इति पठित्वा पत्नीनाम् अभावे दुहिता गृह्णीतेत्य् आहुः । दुहितृभगिन्योर् अभावे,
अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् ।
[४५२] इति । उक्तप्रत्यासत्तिक्रमेण सर्वे सपिण्डादयो धनं गृह्णीयुः, प्रतिपक्षे दोषाणाम् अभावात् । अत एव बृहस्पतिः ।
मृतो ऽनपत्यो ऽअभार्यश् चेद् अभ्रातृपितृमातृकः ।
सर्वे सपिण्डास् तद् दायं विभजेयुर् यथांशतः ॥ इति ।
वानप्रस्थयतिनैष्ठिकब्रह्मचारिणां धनं को वा गृह्णातीत्य् अपेक्षिते आह याज्ञवल्क्यः ।
वानप्रस्थयतिब्रह्मचारिणाम् ऋक्थभागिनः ।
क्रमेणाचार्यसच्छिष्तधर्मभ्रात्रेकतीर्थिनः ॥ इति । (य्ध् २।१३७)
अत्र प्रातिलोम्यक्रमेण नैष्ठिकब्रह्मचारिणां धनं आचार्यो गृह्णाति न पित्रादिः । उपकुर्वाणकस्य धनं पित्रादय एव गृह्णन्ति । यतेस् तु धनम् अध्यात्मशास्त्रश्रवणधारणतदनुष्थानक्षमः सच्छिष्यो गृह्णाति, दुर्वृत्तस्य भागानर्हत्वात् । वानप्रस्थस्य धनं धर्मभ्रात्रैकतीर्थी गृह्णाति । धर्मभ्राता समानाचार्यकः । एकतीर्थी एकाश्रमी । धर्मभ्राता चासाव् एकतीर्थी च धर्मभ्रात्रेकतीर्थी ।
[५४३] अथ वा । वानप्रस्थयतिब्रह्मचारिणां धनम् आचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः क्रमेणैव गृह्णन्ति । पूर्वपूर्वाभावे उत्तरोत्तरो गृह्णातीत्य् अर्थः । यत् तु वसिष्ठेनोक्तम्- “अनंशास् त्व् आश्रमान्तरगताः” (वध् १७।५२) इति, तद् अन्याश्रमिणाम् अन्याश्रमिधनग्रहणनिषेधपरम् । न तु समानाश्रमिणां परस्परऋक्थग्रहणनिषेधपरम् ।
ननु – एतेषां धनसंबन्ध एव नास्ति कुतस् तद्विभागः, प्रतिग्रहादेर् धनार्जनोपायस्य निषिद्धत्वात्, “अनर्थनिचयो भिक्षुः” (ग्ध् ३।११) इति गौतमस्मरणाच् च ।
तत्र –
अह्नो मासस्य षण्णां वा तथा संवत्सरस्य च ।
अर्थस्य निच्यं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥
इति वानप्रस्थस्य धनसंयोगो ऽस्ति ।
कौपीनाच्छादनार्थं तु वासो ऽपि बिभृयाद् यतिः ।
योगसंभारभेदांश् च गृह्णीयात् पादुके तथा ॥
इत्येवमादिवचनाद् यतेर् अपि वस्त्रपुस्तकादिकं विद्यत एव । [५४४] नैष्ठिकस्यापि शरीरयात्रार्थं वस्त्रादिपरिग्रहो ऽस्त्य् एवेति तद्विभागो घटत एव । दायानर्हान् आह मनुः ।
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ इति । (म्ध् ९।२०१)
निरिन्द्रियाः व्याधिनः विकलेन्द्रियाः । नारदो ऽपि ।
पितृद्विट् पतितः षण्ढो यश् च स्याद् औपपातिकः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजाः कुतः ॥ इति ।
वसिष्ठो ऽपि- “अनंशास् त्व् आश्रमान्तरगताः” इति (वध् १७।५२) । याज्ञवल्क्यः ।
क्लीबो ऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगाद्या भर्तव्याः स्युर् निरंशकाः ॥ इति । (य्ध् २।१४०)
तज्जः पतितोत्पन्नः । आदिशब्देन मूकादयो गृह्यन्ते । एते निरंशकाः ऋक्थभाजो न भवन्ति । केवलम् [५४५] अशनाच्छादनदानेन भर्तव्याः पोषणीयाः । अभरणे तु प्रत्यवायम् आह मनुः ।
सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥ इति । (म्ध् ९।२०२)
अत्यन्तं यावज्जीवम् इत्य् अर्थः । पतितस्य भर्तव्यत्वाद्य् अपि नास्तीत्य् आह देवलः ।
तेषां पतितवर्ज्येभ्यो भक्तं वस्त्रं प्रदीयते । इति ।
पतितशब्देन तज्जातो ऽप्य् उपलक्ष्यते, “पतिततज्जवर्ज्यं बिभृयुः” इति बौधायनस्मरणात् । आश्रमान्तरगता अपि ते भर्तव्याः । अत एव वसिष्ठः- “अनंशास् त्व् आश्रमान्तरगताः । क्लीबोन्मत्तपतिताश् च भरणं क्लीबोन्मत्ताना”" इति (वध् १७।५२–५४) । अंशानर्हाणां पुत्रास् त्व् अंशभाजः । तद् आह देवलः ।
तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः । इति ।
निरंशकानां पुत्रा औरसाः क्षेत्रजाश् च क्लैब्यादिदोषवर्जिता भागहारिणो न दत्तकादयः । अत एव याज्ञवल्क्यः परिसंचष्टे ।
[५४६] औरसाः क्षेत्रजास् तेषां निर्दोषा भागहारिणः । इति ।
निरंशकानां दुहितरो यावद् विवाहं भर्तव्याः संस्कर्तव्याश् च पत्न्यश् च साधुवृत्तयो यावज्जीवं भर्तव्याः । तथा च स एव ।
सुताश् चैषां च भर्तव्या यावद् वै भर्तृसात्कृताः ।
अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ इति । (य्ध् २।१४१–४२)
अन्यान् अपि भागानर्हान् दर्शयति कात्यायनः ।
अक्रमोढासुतश् चैव सगोत्राद्यश् च जायते ।
प्रव्रज्यावसितश् चैव न ऋक्थं तेषु चार्हति ॥ इति ।
मनुर् अपि ।
अनियुक्तासुतश् चैव पुत्रिण्याप्तश् च देवरात् ।
उभौ तौ नार्हतो भागं जारजातककामजौ ॥ इति । (म्ध् ९।१४३)
स्त्रीधनविभागम् आह याज्ञवल्क्यः ।
पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥
[५४७] बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च ।
अप्रजायाम् अतीतायां बान्धवास् तद् अवाप्नुयुः ॥ इति । (य्ध् २।१४३–४४)
अध्यग्न्युपागतं विवाहकाले ऽग्निसंनिधौ मातुलादिभिर् दत्तम् । तथा च कात्यायनः ।
विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ इति ।
आधिवेदनिकम् अधिवेदननिमित्तम् अधिविन्नस्त्रियै दत्तम् । आद्द्यशब्देन अध्यावाहनिकऋक्थक्रयादिप्राप्तं च । तथा च मनुः ।
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ इति । (म्ध् ९।१९४)
षड्विधम् इति न्यूनसंख्याव्यवच्छेदार्थम्, नाधिकसंख्याव्यवच्छेदाय । अध्यावाहनिकप्रीतिदत्तयोः स्वरूपं कात्यायनेनोक्तम् ।
यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
[५४८] अध्यावाहनिकं नाम स्त्रीधनं तद् उदाहृतम् ॥
प्रीत्या दत्तं तु यत् किंचित् श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते ॥ इति ।
बन्धुदत्तं कन्याया मातृपितृभिर् दत्तम् । शुल्कं यद् गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनाद् अनु पश्चाद् दत्तम् । तद् उक्तं कात्यायनेन ।
गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत् किंचित् शुल्कं तत् परिकीर्तितम् ॥
विवाहात् परतो यत् तु लब्धं भर्तुः कुलात् स्त्रिया ।
अन्वाधेयं तु तद् द्रव्यं लब्धं पितृकुलात् तथा ॥ इति ।
पित्रादिभिः स्त्रीभ्यो दनदाने विशेषम् आह कात्यायनः ।
पितृमातृपतिभ्रातृज्ञातिभिः स्त्रीधनं स्त्रियै ।
यथाशक्त्या द्विसाहस्राद् दातव्यं स्थावराद् ऋते ॥ इति ।
यथाशक्ति स्थावरव्यतिरिक्तं धनं द्विसहस्रकार्षापणपर्यन्तं दातव्यम् इत्य् अर्थः । अयं च नियमः प्रत्यब्दादाने वेदितव्यः । अनिकाब्देषु तूपजीवनार्थं सकृद् एव दाने नायम् अवधिनियमः । नापि स्थावरपर्युदासः । तथा च बृहस्पतिः ।
[५४९] दद्याद् धनं च पर्याप्तं क्षेत्रांशं वा यद् इच्छति । इति ।
अत एव सौदायिके स्थावरे ऽपि यथेष्टविनियोगार्हत्वम् उक्तं तेनैव ।
ऊढया कन्यया वापि भर्तुः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यम् इष्यते ।
यस्मात् तदानृशंस्यार्थं तैर् दत्तम् उपजीवनम् ॥
विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥ इति ।
पतिदत्तस्थावरे तु विशेषम् आह नारदः ।
भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ इति ।
पित्रादिभिर् उपाध्यादिना दत्तं स्त्रीधनं न भवतीत्य् आह कात्यायनः ।
तत्र सोपाधि यद् दत्तं यच् च योगवशेन वा ।
पित्रा भ्रात्राथ वा पत्या न तत् स्त्रीधनम् इष्यते ॥ इति ।
उत्सवादौ धारणार्थं दत्तम् अलंकारादिकं सोपाधिदत्तम् । योगवशेन वञ्चनादिनेत्य् अर्थः । शिल्पादिप्राप्तम् अपि स्त्रीधनं न भवतीत्य् आह स एव ।
[५५०] प्राप्तं शिल्पैस् तु यद् दत्तं प्रीत्या चैव यद् अन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥ इति ।
अन्यतः सख्यादित इति यावत् । तद् एतत् स्त्रीधनं दुहितृदौहित्रतद्दुहितृपुत्ररहितायां स्त्रियाम् अतीतायां बान्धवा भर्त्रादयो गृह्णन्ति । अत्रैवं क्रमः । मातरि वृत्तायां प्रथमं दुहिता गृह्णाति । अत एवोक्तम् याज्ञवल्क्येन ।
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः ॥ इति । (य्ध् २।११७)
गौतमो ऽपि- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” इति (ग्ध् २८।२४) । दुहितॄणाम् अभावे दुहितुर् दुहितरो गृह्णन्ति । तद्दुहितॄणां प्रसूता चेद् इति याज्ञवल्क्यस्मरणात् । भिन्नमातृकाणां दौहित्राणां विषमाणां समवाये मातृतो भागकल्पना । तथा च गौतमः- “पितृमातृष्वसृवर्गे भागविशेषः” इति (ग्ध् २८।१७) । दुहितृदौहित्रीणां समवाये मनुः ।
[५५१] यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥ इति । (म्ध् ९।१९३)
दौहित्रीणाम् अप्य् अभावे दौहित्रा धनहारिणः । तथा च नारदः ।
मातुर् दुहितरो ऽभावे दुहितॄणां तदन्वयः । इति ।
दुहितृदुहितॄणाम् अभावे तदन्वयो दौहित्रो गृह्णातीत्य् अर्थः । दौहित्राणाम् अभावे तु,
विब्जजेरन् सुताः पित्रोर् ऊर्ध्वं ऋक्थम् ऋणं समम् । (य्ध् २।११७)
इत्यादियाज्ञवल्क्यवचनतः मातृऋणापाकरणतो ऽवशिष्टं मातृधनं पुत्रा गृह्णन्ति । यत् तु मनुनोक्तम्,
जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं ऋक्थं भगिन्यश् च सनाभयः ॥ (म्ध् ९।१९२)
इति, एतत् पुत्राणां दुहितॄणां च संभूय मातृऋकथग्राहित्वपरं न भवति । किं तु तेषां धनसंबन्धे प्राप्ते समविभागप्राप्त्यर्थं समशब्दश्रवणात् । यद् अपि शङ्खलिखिताभ्याम् उक्तम्- “समं सर्वे सहोदरा मातृकम् ऋक्थम् अर्हन्ति कुमार्यश् च” [५५२] इति, तद् अपि मनुवचनेन समानार्थम् । अथ वा एतद् वचनद्वयं भर्तुः कुललब्धस्त्रीधनविषयम् । अस्मिन्न् एव विषये बृहस्पतिः ।
स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत् समूढा तु लभते सा न मातृकम् ॥ इति ।
अपत्यानां पुमपत्यानाम् । यत् तु पारस्करेणोक्तम्,
अप्रत्तायास् तु दुहितुः स्त्रीधनं परिकीर्तितम् ।
पुत्रस् तु नैव लभते प्रत्तायां तु समांशभाक् ॥
इति, तद् अप्रतिष्ठितोढदुहितृविषयम् । अत एव मनुः ।
मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः । इति । (म्ध् ९।१३१)
यौतकं पितृकुललब्धम् । अनपत्यहीनजातिस्त्रीधनम् उत्तमजातीयसपत्नीदुहिता गृह्णाति । तदभावे तदपत्यम् । तद् उक्तम् मनुना ।
स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥ इति । (म्ध् ९।१९८)
ब्राह्मणी जात्युत्तमजात्युपलक्षणार्थम् । पुत्राणाम् अभावे पौत्रा गृह्णन्ति पौत्राणाम् अपि पितामह्यृणापाकरणे । “पुत्रपौत्रे ऋणं देयम्” इति अधिकारश्रवणात् । अस्तु ऋणापाकरणे ऽधकारः ।
ऋक्थभाक्त्वं कुत इति चेत्,
तन् न,
[५५५] प्रेतायां पुत्रिकायां तु न भर्ता द्रव्यम् अर्हति ।
अपुत्रायां कुमार्यां च भ्रात्रा तद् ग्राह्यम् इत्य् अपि ॥ इति ।
पुत्रिकायां पितुः पश्चाद् औरससद्भावे स एव गृह्णीयान् न भर्ता । यत् तु मनुवचनम्,
अपुत्रायां मृतायां तु पुत्रिकायां कथंचन ।
धनं तत् पुत्रिकाभर्ता हरेच् चैवाविचारयन् ॥ (म्ध् ९।१३५)
इति, तत् पश्चाद् उत्पन्नभ्रात्रभावे वेदितव्यम् । यत् तु क्वचिद् अनपत्यं स्त्रीधनं स्वस्रीयादीनां भवतीत्य् उक्तं बृहस्पतिना ।
मातृषवसा मतुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥
यदासाम् औरसो न स्यात् सुतो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्रीयाद्याः समाप्नुयुः ॥ इति ।
अस्यायम् अर्थः । ब्राह्मादिविवाहेषु भर्तुर् अभावे आसुरादिषु मातापितोर् अभावे मातृष्वस्रादीनां धनं यथाक्रमं मातृष्वस्रीयाद्या गृह्णीयुः । क्वचिज् जीवन्त्याः सप्रजाया अपि पत्न्या धनं भर्ता गृह्णीयुआद् इत्य् आह याज्ञवल्क्यः ।
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥ (य्ध् २।१४७)
[५५६] इति । संप्रतिरोधके बन्दिग्रहादौ स्वकीयद्रव्याभावे स्त्रीधनं गृहीत्वा पुनस् तस्मै न दद्यात् । प्रकारान्तरेण गृहीतं पुनर् दद्याद् एव । तथा च कात्यायनः ।
न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥
यदि चैकतरो ऽप्य् एषां स्त्रीधनं भक्षयेद् बलात् ।
सवृद्धिकं प्रदाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥
तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूलम् एव स दाप्यः स्याद् यद्य् असौ धनवान् भवेत् ॥ इति ।
देवलो ऽपि ।
वृत्तिर् आभरणं शुल्कं लाभश् च स्त्रीधनं भवेत् ।
भोक्ती तत् स्वयम् एवेदं पतिर् नार्हत्य् अनापदि ॥
वृथा मोक्षे च भोगे च स्त्रियै दद्यात् सवृद्धिकम् ॥ इति ।
विभाज्यद्रव्यम् आह कात्यायनः ।
पैतामहं च पित्र्यं च यच् चान्यत् स्वयम् अर्जितम् ।
दायादानां विभागे तु सर्वम् एव विभज्यते ॥ इति ।
पितृद्रव्योपजीवनेन स्वयम् अर्जितं यत् तद् एव विभजेत् तदनुपजीवनेनार्जितस्याविभाज्यत्वात् । एतत् त्रितयम् अपि ऋणावशिष्टं विभजेत् । तथा च स एव ।
[५५७] ऋणं प्रीतप्रदानं च दत्वा शेषं विभाजयेत् । इति ।
ऋणप्रदानार्थं धनाभावे पितृऋणम् अपि विभजेत्, “ऋक्थम् ऋणं समम्” इति वचनात् । ऋक्थम् ऋणम् इति व्चनादिनिवृत्त्यर्थं (?) शोध्यम् इत्य् आह स एव ।
ऋणम् एवंविधं शोध्यं विभागे बन्धुभिः सह ।
गृहोपस्करवाह्याश् च दोह्याभरणकर्मिणः ॥
दृश्यमाना विभज्यन्ते कोशं गूढम् अब्रवीद् भृगुः ॥ इति ।
अत्र कोशग्रहणम् इतरदिव्यप्रतिषेधार्थम् । तथा च स एव ।
शङ्काविश्वाससंधाने विभागे ऋक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥ इति ।
अविभाज्यद्रव्यम् आह याज्ञवल्क्यः ।
पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥
क्रमाद् अभ्यागतं द्रव्यं हृतम् अभ्युद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ (य्ध् २।११८–१९)
[५५८] इति । पितृद्रव्याविनाशेन यत् स्वयं कृष्यादिना उपार्जितं यच् च विद्यादिना लब्धं विवाहाच् च यल् लब्धं तद् भ्रात्रादीनां न भवेत् । यत् तु पित्रादिक्रमायातं चोरादिभिर् अपहृतं पित्रादिभिर् अनुद्धृतं द्रव्यं पुत्राणां मध्ये यः कश्चिद् इतराभ्यनुज्ञयोद्धरति तत् तस्यैव भवति । क्षेत्रं तु तुरीयांशम् एवोद्धर्ता गृह्णाति शेषं तु सर्वेषां समम् एव । तथा च शङ्खः ।
पूर्वनष्टां तु यो भूमिं यः कश्चिद् उद्धरेत् श्रमात् ।
यथाभागं लभन्त्य् अन्ये दत्वांशं तु तुरीयकम् ॥ इति ।
तथा विद्ययाध्यापनादिना लब्धम् अपि स्वस्यैव भवति । पितृद्रव्याविरोधेनेति सर्वत्र शेषः । अत एव मनुः ।
अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् ।
(दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ।)
स्वयम् ईहितलब्धं तन् नाकामो दातुम् अर्हति ॥ इति । (म्ध् ९।२०८)
श्रमेण कृष्यादिना । पितृग्रहणम् अविभक्तोपलक्षणार्थम् । व्यासो ऽपि ।
[५५९] विद्याप्राप्तं शौर्यधनं यच् च सौदायिकं भवेत् ।
विभागकाले तत् तस्य नान्वेष्टव्यं च ऋक्थिभिः ॥ इति ।
अविभाज्यविद्याधनस्य लक्षणम् आह कात्यायनः ।
परभक्तोपयोगेन प्राप्ता विद्यान्यतस् तु या ।
तया प्राप्तं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥
उपन्यस्तेषु यल् लब्धं विद्यया पणपूर्वकम् ।
विधाधनं तु तद् विद्याद् विभागे न नियोज्यते ॥
शिष्याद् आर्त्विज्यतः प्रश्नात् संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशासनाद् वादात् लब्धं प्राध्यापनाच् च यत् ॥
परं निरस्य यल् लब्धं विद्यातो ऽद्भुतपूर्वकम् ।
विद्याधनं तु तद् विद्यान् न विभाज्यं बृहस्पतिः ॥
शिल्पिष्व् अपि हि धर्मो ऽयं स्वस्थाद् यच् चाधिकं भवेत् ।
विद्याबलकृतं चैव याज्यतः शिष्यतस् तथा ॥
एतद् विद्याधनं प्राहुः सामान्यं यद् अतो ऽन्यथा ॥ इति ।
अनेन विद्याधनाद् अन्यथाभूतम् अविभक्तपित्रादिद्रव्योपयोगप्राप्तं तद् विभक्तानां सामान्यं साधारणम् इति यावत् । क्वचिद् विद्याप्राप्तम् अपि धनं विभाज्यम् इत्य् आह नारदः ।
[५६०] कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥ इति ।
कात्यायनो ऽपि ।
कुले विनीतविद्यानां भ्रातॄणां पितृतो ऽपि वा ।
शौर्यप्राप्तं तु यद् वित्तं विभाज्यं तद् बृहस्पतिः ॥ इति ।
अविभक्तस्य कुले पितृव्यादेः पितृतो ऽपि वा प्राप्तविद्यानां यद् धनं शौर्यादिनाप्राप्तं विद्ययैव प्राप्तं तद् विद्याधनं विभाज्यम् इति । पितृद्रव्यार्जितेनार्जिते विधाधने भागद्वयम् अर्जकस्याह वसिष्ठः- “येन चैषां यद् उपार्जितं स्याद् द्व्यंशम् एव लभेत” इति (वध् १७।५१) । यत् तु,
सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः ।
इति, तद् विद्येतरकृष्याद्युपार्जितधनविषयम् । अविभाज्यविद्याधने अर्जकेच्छया अंशम् आह गौतमः- “स्वयम् अर्जितं चैव वैद्येभ्यो वैद्यः कामं दद्यात्” इति । इच्छाभावे त्व् आह नारदः ।
वैद्यो वैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।
[५६१] पितृद्रव्यं समाश्रित्य न चेत् तेन तद् आहृतम् ॥
अवैद्याय सकामो ऽपि न दद्यात् । तद् आह कात्यायनः ।
नाविद्यानां तु वैद्येन देयं विद्याधनं क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद् धनम् ॥ इति ।
विद्यापाप्तधनवत् शौर्यादिप्राप्तम् अपि धनम् अविभाज्यम् इत्य् आह स एव ।
शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् ।
एतत् सर्वं विभागे तु विभाज्यं नैव ऋक्थिभिः ॥
ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तत् स्मृतम् ॥ इति ।
ध्वजाहृतस्य लक्षणं तेनैवोक्तम् ।
संग्रामाद् आहृतं यत् तु विद्राव्य द्विषतां बलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ॥ इति ।
बृहस्पतिर् अपि ।
पितामहपितृभ्यां च दत्तं मात्रा च यद् भवेत् ।
तस्य तन् नापहर्तव्यं शौर्यभार्याधनं तथा ॥ इति ।
शौर्यप्राप्तधनस्वरूपं च कात्यायनेन दर्शितम् ।
आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ॥
तत्र लब्धं तु यत् किंचिद् धनं शौर्येण तद् भवेत् ।
[५६२] इति । पित्रादिद्रव्योपजीवनेन विद्याप्राप्तधनवत् शौर्यप्राप्तधने ऽप्य् अर्जकस्य भागद्वयम् आह व्यासः ।
साधारणं समाश्रित्य यत् किंचिद् वाहनायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस् तत्र भागिनः ॥
तस्य भागद्वयं देयं शेषास् तु समभागिनः ॥ इति ।
अन्यद् अप्य् अविभाज्यम् आह मनुः ।
वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ इति । (म्ध् ९।२१९)
वस्त्रं पितृधृतं वस्त्रम् । पितृधृतं वस्त्रं पितुर् ऊर्ध्वं विभागे श्राद्धभोक्त्रे दातव्यम् । तथा च बृहस्पतिः ।
वस्त्रालंकारशय्यादि पितुर् यद् वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तद् अर्पयेत् ॥ इति ।
अन्यानि तु वस्त्राणि विभाज्यान्य् एव । पत्रम् अश्वशिबिकादिवाहनं तद् अपि यद् येनारूढं तत् तस्यैव । अनारूढं तु सर्वैर् विभाज्यम् । अलंकारो ऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव,
पत्यौ जीवति यत् स्त्रीभिर् अलंकारो घृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ (म्ध् ९।२००)
[५६३] इति तेनैव धृत इति विशेषेनोपादानात् । कृतान्नं तण्डुलमोदकादि । तद् अपि यथासंभवं भोक्तव्यं न विभाज्यम् । उदकं तदाधारः कूपादिः । सो ऽपि विषमः पर्यायेण भोक्तव्यो न मूल्यद्वारेण विभाज्यः । स्त्रियश् च दास्यो विषमाः पर्यायेण कर्म कारयितव्याः । तथा च बृहस्पतिः ।
एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे ।
बह्व्यः समांशतो देया दासानाम् अप्य् अयं विधिः ॥ इति ।
पित्रावरुद्धास् तु समा अपि न विभाज्याः । तथा च गौतमः- “स्त्रीषु संयुआस्व् अविभागः” इति (ग्ध् २८।४७) । योग इति श्रौतस्मार्ताग्निसाध्यम् इष्टं कर्म लक्ष्यते । क्षेमः इति लब्धपरीक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूर्तं कर्म लक्ष्यते । तद् उभयं पितृद्रव्यविरोधेनार्जितम् अप्य् अविभाज्यम् । तद् उक्तं लौगाक्षिणा \
क्षेमं पूर्तं यागम् इष्टम् इत्य् आहुस् तत्वदर्शिनः ।
अविभाज्ये च ते प्रोक्ते शयनासनम् एव च ॥
[५६४] इति । अथ वा योगक्षेमशब्देन छत्रचामरशस्त्रवाहनादिप्रभृतय उच्यन्ते । यत् तु उशनसा क्षेत्रस्याप्य् अविभाज्यत्वम् उक्तम्,
अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।
याज्यं क्षेत्रं च पत्रं च कृतान्नम् उदकं स्त्रियः ॥
इति, तत् प्रतिग्रहलब्धक्षेत्रं क्षत्रियासुतेन सार्धं ब्राह्मणीसुतेन अविभाज्यम् इत्य् एवंपरम्, “न प्रतिग्रहभूर् देया क्षत्रियादिसुताय च” इति स्मरणात् ।
अन्ये मन्यन्ते । वस्त्रादयो ऽपि विभाज्या एव । तथा च बृहस्पतिः ।
वस्त्रादयो ऽविभज्यायैर् उक्तं तैर् न विचारितम् ।
धनं भवेत् समृद्धानां वस्त्रालंकारसंश्रितम् ॥
मध्यस्थितम् अनाजीव्यं दातुं नैकस्य शक्यते ।
युक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥
विक्रीय वस्त्राभरणम् ऋणम् उद्ग्राह्य लेखितम् ।
कृतान्नं वा कृतन्नेन परिवर्त्य विभज्यते ॥
उद्धृत्य कूपवाप्यम्भस् त्व् अनुसारेण गृह्यते ।
[५६५] एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे ॥
बह्व्यः समांशतो देया दासानाम् अप्य् अयं विधिः ।
योगक्षेमवतो लाभः समत्वेन विभज्यते ॥
प्रचारश् च यथांशेन कर्तव्यो ऋक्थिभिः सह ॥ इति ।
तेन वस्त्रादीनाम् अविभाज्यत्वप्रतिपादकं मनुवचनम् उशनोवचनं चानादरणीयम् ।
तद् अनुपपन्नम् । विरोधे हि वचनानां विषयव्यवस्थाश्रयणं युक्तम्, न चान्यथाकरणम् । बृहस्पतिवचनानां तु अधृतवस्त्रादिविषयत्वम् । मन्वादिवचनस्य तु घृतवस्त्रादिविषयत्वं पूर्वम् एवोक्तम् इति विषयव्यवस्था घटते ।
विभागकाले केनचिद् वञ्चितं पश्चाद् उद्भावितं चेत् तत् सर्वे समं विभजेयुः । तथा च याज्ञवल्क्यः ।
अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते ।
तत् पुनस् ते समैर् अंशैः विभजेरन्न् इति स्थितिः ॥ इति । (य्ध् २।१२६)
समशब्दो विषमविभागनिरासार्थः । विभजेरन्न् इति बहुवचनेन येन दृष्टं तेनैव न ग्राह्यम् इति दर्शयति । [५६६] मनुर् अपि ।
ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद् दृश्येत यत् किंचित् तत् सर्वं समतां नयेत् ॥ इति । (म्ध् ९।२१८)
अपहृतद्रव्यवच् छाश्त्रोक्तानतिक्रमेण विषमभागतया विभक्तम् अपि समतां नयेत् । तथा च कात्यायनः ।
अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद् भवेत् ।
पश्चात् प्राप्तं विभज्येत समभागेन तद् भृगुः ॥ इति ।
एवं च सति वञ्चितद्रव्यस्य पश्चाद् दृष्टस्यैव विभागविधानात् पूर्वं विभक्तस्य पुनर् विभागो नास्तीत्य् अवगम्यते । यत् तु मनुनोक्तम्,
विभागे तु कृते किंचित् सामान्यं यत्र दृश्यते ।
नासौ विभागो विज्ञेयः कर्तव्यः पुनर् एव हि ॥
इति, तद् विभक्तद्रवेष्व् आयव्ययकरणाद् अर्वाग् वेदितव्यम्, अन्योन्यापहृतम् इत्यादिवचनानां निर्विषयापत्तेः । अत्रान्योन्यवञ्चने दोषो ऽप्य् अस्ति । तथा च श्रुतिः- “यो वै भागिनं भागान् नुदते चयते वैनं स यदि वैनं न चयते ऽथ पुत्रम् अथ पौत्रं चयते” इति । अयम् अर्थः । यो भागिनं भागार्हं भागान् नुदते भागाद् अपाकरोति भागं तस्मै न प्रयच्छतीति यावत् । अथ भागाच् च्युतः एनम् अपहारकं चयते नाशयति पापिनं करोतीति [५६७] यावत् । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति । यत् तु मनुनोक्तम्,
यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
सो ऽज्येष्ठः स्याद् अभागश् च नियन्तव्यश् च राजभिः ॥ (म्ध् ९।२१३)
इति, तत् स्वतन्त्रस्यापि ज्येष्ठस्य समुदायद्रव्यापहारे दोषो ऽस्ति किम् उतास्वतन्त्राणां यवीयसाम् इत्य् एवं प्रतिपादनपरम्, न तु ज्येष्ठस्यैव दोषप्रतिपादनपरम्, अन्यथा स्मृत्या श्रुतेः सङ्कोचापत्तेः । विभक्तानां कर्तव्यम् आह नारदः ।
यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न चेत् कार्येषु संमताः ॥
स्वभागान् यदि दद्युस् ते विक्रीणीयुर् अथापि वा ।
कुर्युर् यथेष्टं तत् सर्वम् ईशास् ते स्वधनस्य च ॥ इति ।
एकस्माज् जाता विभक्ता भ्रातरः परस्परानुमतिम् अन्तरेण धनसाध्येष्टापूर्तादिधर्मकारिणो भवेयुः । तथा विभिन्नोलूखलमुसलादिकर्मोपसर्जनद्रव्योपेताः स्युः । तथा च कार्येषु भ्रातरो यदि न संमताः तदा तान् अनादृत्य कार्यं कुर्युः । तथा विभक्ता [५६८] भ्रातरः स्वभागान् यदि दद्युर् विक्रीणीयुर् वा न दद्युर् वा तत् सर्वं यथेष्टं कुर्युः । यस्मात् ते विभक्ताः स्वधनस्येशाः स्वतन्त्राः स्वामिन इत्य् अर्थः । यत् तु बृहस्पतिवचनम्,
विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥
इति, तद् एवं व्याख्येयम् । अविभक्तेषु द्रव्येषु साधारणत्वाद् एकस्यानीश्वरत्वात् सर्वैर् अनुज्ञावश्यं कार्या । विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्युदासनसौकर्याय सर्वाभ्यनुज्ञा । न पुनर् एकस्यानीश्वरत्वेन । अतो विभक्तानुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्य् एवेति । यत् तु स्मृत्यन्तरम्,
स्वग्रामज्ञातिसामन्तदायादानुमतेन च ।
हिरण्योदकदानेन षड्भिर् गच्छति मेदिनी ॥
इति, तस्यायम् अभिप्रायः । तत्र ग्रामानुमतिः-
प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
इति स्मरणात्, व्यवहारप्रकाशनार्थम् एवापेक्ष्यते । न पुनर् ग्रामानुमतिम् अन्तरेण व्यवहारो न सिध्यतीति । सामन्तानुमतिर् अपि सीमाविप्रतिपत्तिनिरासार्थम् एव । दायादानुमतिर् अपि विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्यार्थम् एव । हिरण्योदकदानम् अपि विक्रये कर्तव्ये सहिरण्योदकं दत्वा दानरूपेण स्थावरविक्रयं कुर्याद् इत्य् एवमर्थम्,
[५६९] स्थावरे विक्रयो नास्ति कुर्याद् आधिम् अनुज्ञया ।
इति स्थावरविक्रयस्य निषिद्धत्वात्,
भूमिं यः प्रतिगृह्णाति यश् च भूमिं प्रयच्छति ।
ताव् उभौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥
इति दानप्रतिग्रहयोः प्रशस्तत्वाच् च । विभागापलापे निर्णयकारणम् आह याज्ञवल्क्यः ।
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥ इति । (य्ध् २।१४९)
ज्ञातयः पितृबन्धवः । बन्धवस् तु मातुलादयः । लेख्यं विभागपत्रम् । एभिर् विभागनिर्णयो ज्ञातव्यः । यौतकैः पृथक्कृतैर् गृहक्षेत्रैः । अन्यद् अपि विभागलिङ्गम् आह नारदः ।
विभागधर्मसंदेहे दायादानां विनिर्णयः ।
ज्ञातिभिर् भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥
भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥
दानग्रहणपश्वन्नगृहक्षेत्रप्रतिग्रहाः ।
विभक्तानां पृथक् ज्ञेया दानधर्मागमव्ययाः ॥
[५७०] येषाम् एताः लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥ इति ।
बृहस्पतिर् अपि ।
पृथगायव्ययधनाः कुसीदं च परस्परम् ।
वणिक्पथं च ये कुर्युर् विभक्तास् ते न संशयः ॥ इति ।
कुसीदवाणिज्यादिभिर् लिङ्गैर् विभागनिर्णयः साक्ष्याद्यभावे वेदितव्यः । तथा च स एव ।
साहसं स्थावरस्वाम्यं प्राग्विभागश् च रिक्थिनाम् ।
अनुमानेन विज्ञेयं न स्युर् यत्र च साक्षिणः ॥ इति ।
साहसादिसाधकलिङ्गान्य् अपि स एवाह ।
कुलानुबन्धव्याघातहोढं साहससाधकम् ।
स्वस्वभोगस्थावरस्य विभागस्य पृथग्धनम् ॥ इति ।
कुलानुबन्धः पूर्वपुरुषवैरानुबन्धः । व्याघातः परस्परस्य होढं बलाद् अपहृतं द्रव्यं तस्य दर्शनं स्वस्यात्मनो भोगः परस्परं पृथग् ग्रहणादेर् विभागलिङ्गत्वम् अविभक्तेषु निषिद्धत्वेनावगन्तव्यम् । तथा च याज्ञवल्क्यः ।
[५७१] भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्तेन तु स्मृतम् ॥ इति । (य्ध् २।५२)
साक्षिलेख्ययुक्तिभिर् निर्णयस्याशक्यत्वे,
युक्तिष्व् अप्य् असमर्थासु शपथैर् एव मर्दयेत् ।
इति प्राप्तं दिव्यं निषेधति वृद्धयाज्ञवल्क्यः ।
विभागधर्मसंदेहे बन्धुसाक्ष्यभिलेखितैः ।
विभागभावना कार्या न भवेद् दैविकी क्रिया ॥ इति । (य्ध् २।१४९)
कथं तर्हि तत्र निर्णय इत्य् आकाङ्क्षायाम् आह मनुः ।
विभागे यत्र संदेहो दायादानां परस्परम् ।
पुनर् विभागः कर्तव्यः पृथक् स्थानस्थितैर् अपि ॥ इति ।
यत्र संदेहो युक्तिभिर् अपि नापैति तत्र पुनर् विभागः कर्तव्य इत्य् अर्थः । यत् तु तेनैवोक्तम्,
सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददामीति त्रीण्य् एतानि सकृत् सकृत् ॥
इति, तद् युक्त्यादिभिर् निर्णेतुं शक्तौ सत्यां वेदितव्यम् । [५७२] स्वयंकृतस्य संदिग्धस्य विभागस्य पुनः प्रवर्तको राज्ञा दण्डनीय इत्य् आह बृहस्पतिः ।
स्वेच्छाकृतविभागो यः पुनर् एव विसंवदेत् ।
स राज्ञां शक्यते स्थाप्यः शासनीयो ऽनुबन्धतः ॥ इति ।
अनुबन्धतो निर्बन्धतः ।
इति दायविभागः
**अथ द्यूतसमाह्वयाख्ये विवादपदे निरूप्येते **
तयोः स्वरूपम् आह मनुः ।
अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ॥ इति । (म्ध् ९।२२३)
अप्राणिभिर् अक्षवध्रशलाकादिभिः । प्राणिभिः कुक्कुटादिभिः । तथा च नारदः ।
अक्षवधशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश् च पदं द्यूतसमाह्वयम् ॥
[५७३] इति । अक्षाः पाशकाः । वध्राश् चर्मपट्टिकाः । शलाका दन्तादिमयाः दीर्घचतुरस्राः । आद्यशब्देन कपर्दिकादयो गृह्यन्ते । तैः पणपूर्वकं यद् देवनं क्रीडनं क्रियते तद् द्यूतम्, वयोभिः कुक्कुटादिभिः च कारान् मल्लमेषादिभिश् च प्राणिभिर् या पणपूर्विका क्रीडा क्रियते स समाह्वय इत्य् अर्थः । बृहस्पतिर् अपि ।
अन्योन्यपरिगृहीताः पक्षिमेषवृषादयः ।
प्रहरन्ते कृतपणास् तं वदन्ति समाह्वयम् ॥ इति ।
द्यूतस्थानं सभिकेनाधिष्ठितं कार्यम् इत्य् आह स एव ।
सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना । इति ।
तत्र पक्षान्तरम् आह नारदः ।
अथ वा कितवो राज्ञे दत्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्याद् एवं दोषो न विद्यते ॥ इति ।
द्यूतसभाधिकारिणो वृत्तिम् आह याज्ञवल्क्यः ।
ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥ (य्ध् २।१९९)
[५७४] इति । परस्परसंप्रतिपत्त्या कितवपरिकल्पितपणो ग्लहः । तत्र तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धिर् यस्यासौ शतिकवृद्धिः । तस्मात् कितवात् पञ्चकं शतं सभिकः आत्मवृत्त्यर्थं गृह्णीयात् । पञ्चपणा आयो यस्मिन् शते तच् छतपञ्चकम् जितग्लहस्य विंशतितमं भागं गृह्णीयद् इति यावत् । कितवनिवासार्थं शाला सभा तत्राधिष्ठितः सभिकः । सभापतिस् तु कल्पिताक्षादिनिखिलक्रीडोपकरणः तदुपचितद्रव्योपजीवी । इतरस्माद् अपूर्णशतवृद्धेः कितवाद् दशकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयाद् इत्य् अर्थः । एवं स्थापितस्य सभिकस्य कृत्यम् आह स एव ।
स सम्यक्पालितो दद्याद् राज्ञे भागं यथाकृतम् ।
जितं तद् वाहयेत् जेत्रे दद्यात् सत्यं वचः क्षमी ॥ इति । (य्ध् २।२००)
यः कॢप्तवृत्तिर् द्यूताधिकारी राज्ञा धूर्तकितवेभ्यो रक्षितः स राज्ञे यथाप्रतिपन्नम् अंशं दद्यात् । जितं द्रव्यं पराजितसकाशाद् आदेधादिना उद्धृत्य जेत्रे दद्यात् । तथा क्षमी भूत्वा द्यूतकारिणां विश्वासार्थं सत्यं वचो दद्यात् । बृहस्पतिर् अपि ।
सभिको ग्राहकस् तत्र दद्याज् जेत्रे नृपाय च ।
[५७५] इति । पराजितकितवानां बन्धनादिना पणग्राहको भवेत् । पणग्रहणाद् अर्वाग् एव स्वकीयं पणं राज्ञे जेत्रे च यथाभागं दद्याद् इत्य् अर्थः । तथा च कात्यायनः ।
जेतुर् दद्यात् स्वकं द्रव्यं जितं ग्राह्यं त्रिपक्षकम् ।
सद्यो वा सभिकेनैव कितवात् तु न संशयः ॥ इति ।
यदा सभिको जेत्रे जितं द्रव्यं दापयितुं न शक्तः तदा राजा दापयेद् इत्य् आह याज्ञवल्क्यः ।
प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेद् अन्यथा न तु ॥ इति । (य्ध् २।२०१)
अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे द्यूते जितं पणं जेत्रे न दापयेद् इत्य् अर्थः । अत्र जयपराजयविप्रतिपत्तौ निर्णयकारणम् आह स एव ।
द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि । इति । (य्ध् २।२०२)
द्यूताख्यव्यवहाराणां द्रष्टारः कितवा एव राज्ञा नियोक्तव्याः न तु श्रुताध्ययनसंपन्ना इत्य् उक्तलक्षणाः । साक्षिणश् च त एव द्यूतकारा एव । विष्णुर् अपि ।
[५७६] कितवेष्व् एव तिष्ठेरन् कितवाः संशयं प्रति ।
य एव तत्र द्रष्टारस् त एवैषां तु साक्षिणः ॥ इति ।
साक्षिणां परस्परविरोधे राजा विचारयेद् इत्य् आह बृहस्पतिः ।
उभयोर् अपि संदिग्धौ कितवाः स्युः परीक्षकाः ।
यदा विद्वेषिणस् ते तु तदा राजा विचारयेत् ॥ इति ।
कूटद्यूतकारिणो दण्डम् आह याज्ञवल्क्यः ।
राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपाधिदेविनः । इति । (य्ध् २।२०२)
कूटैर् अक्षादिभिर् उपाधिभिर् मणिमन्त्रादीनाम् अतिवञ्चनेन ये दिव्यन्ति तान् श्वपदेनाङ्कयित्वा स्वराष्ट्रान् निर्वासयेद् इत्य् अर्थः । निर्वासने विशेषम् आह नारदः ।
कूटाक्षदेविनः पापान् राजा राष्ट्राद् विवासयेत् ।
कण्ठे ऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥ इति ।
दण्डने विशेषम् आह विष्णुः- “द्यूते कूटाक्षदेविनां करच्छेदः । उपाधिदेविनां संदंशच्छेदः” इति (विध् ५।१३५–३६) । अनियुक्तद्यूतकारिणो दण्डम् आह नारदः ।
[५७७] अनिर्दिष्टस् तु यो राज्ञा द्यूतं कुर्वीत मानवः ।
न शतं प्राप्नुयात् कामं विनयं चैव सो ऽर्हति ॥ इति ।
द्यूते विहितं कर्मजातं समाह्वये अतिदिशति याज्ञवल्क्यः ।
एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये । इति । (य्ध् २।२०३)
सभिकवृत्तिकल्पनादिलक्षणो धर्मः समाह्वये ऽपि विज्ञेय इत्य् अर्थः । प्राणिद्यूते प्राणिनां जयपराजयौ तत्स्वामिनोर् इत्य् आह बृहस्पतिः ।
द्वन्द्वयुद्धेन यः कश्चिद् अवसादम् अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस् तत्र परिकल्पितः ॥ इति ।
पणपरिकल्पनम् अपि कृताकृतम् इत्य् आह नारदः ।
परिहासकृतं यच् च यच् चाप्य् अविदितं नृपे ।
तत्रापि नाप्नुयात् काम्यम् अथ वानुमतं तयोः ॥ इति ।
काम्यः कामः पणः । यत् तु मनुनोक्तम्,
द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा ।
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ॥ (म्ध् ९।२२४)
[५७८] प्रकाशम् एतत् तास्कर्यं यद् देवनसमाह्वयौ ।
तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ॥ (म्ध् ९।२२२)
द्यूतं समाह्वयं चैव राजा राष्ट्रान् निवारयेत् ।
राजान्तकारिणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ (म्ध् ९।२२१)
कितवान् कुशीलवान् कौलान् पाषण्डान् अपि मानवान् ।
विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत् पुरात् ॥ (म्ध् ९।२२५)
इत्यादि, तत् सर्वं कूटाक्षदेवनविषयतया राज्ञाम् अध्यक्षसभिकरहितविषयतया वा योज्यम् । अत एव बृहस्पतिः ।
द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् ।
अभ्यनुज्ञातम् अन्यैस् तु राजभागसमन्वितम् ।
सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना ॥ इति ।
द्यूतसमाह्वयाख्ये विवादपदे निरूपिते
**प्रसक्तोद्देशक्रमानुरोधेन ऋणादानादिसमाह्वयान्तान्य् **
अष्टादश व्यवहारपदानि निरूपितानि
अथ बृहस्पतिना निरूपितं प्रकीर्णकाख्यं विवादपदम् अभिधीयते
तत्र लक्षणभेदौ नारदेन निरूपितौ ।
प्रकीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥
पुनः प्रमाणसंभेदः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणीगणधर्मविपर्ययाः ॥
पितापुत्रविवादश् च लोपे आश्रमिणाम् अपि ।
वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा ॥
न दृष्टं यच् च पूर्वेषु सर्वं तत् स्यत् प्रकीर्णकम् ॥ इति ।
प्रकीर्णके विवादे ये विवादा राजाज्ञोल्लङ्घनतदाज्ञाकरणतत्कर्मरक्षणादिविषयास् ते नृपसमवायिन एव । तत्र स्मृत्याचारव्यपेते मार्गे वर्तमानानाआं प्रतिकूलताम् आज्ञाय व्यवहारनिर्णयं नृप एव कुर्यात् । एवं वदता यो नृपाश्रयो व्यवहारस् तत् प्रकीर्णम् इत्य् उक्तं भवति । तत्र राजाज्ञाप्रतिघाते विशेषदण्डम् आह याज्ञवल्क्यः ।
[५८०] न्यूनं वाभ्यधिकं वापि लिखेद् यो राजशासनम् ।
पारदारिकचोरं वा मुञ्चतो दण्ड उत्तमः ॥ इति । (य्ध् २।२९५)
राजदत्तभूमेर् निबन्धनस्य वा परिमाणन्यूनत्वम् आधिक्यं वा प्रकाशयन् राजशासनं यो विलिखति यश् च पारदारिकं चोरं वा गृहीत्वा राज्ञे ऽनिवेद्य मुञ्चति ताव् उभाव् उत्तमसाहसं दण्डनीयौ । व्यासो ऽपि ।
न्यायस्थाने गृहीत्वार्थम् अधर्मेण विनिर्णयम् ।
करोत्य् उत्तरकार्याणि राजद्रव्यविनाशकः ॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ॥ इति ।
तत्कर्मकरणे दण्डम् आह याज्ञवल्क्यः ।
राजयानासनारोढुर् दण्ड उत्तमसाहसः । इति । (य्ध् २।३०३)
कात्यायनो ऽपि ।
राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः ।
अप्रियं चास्य यो वक्ता वधं तेषां प्रकल्पयेत् ॥ इति ।
राज्ञः कोशापहरणादौ दण्डम् आह मनुः ।
[५८१] राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् ।
घातयेद् विविधैर् दण्डैर् हरेत् सर्वस्वम् एव च ॥ इति । (म्ध् ९।२७५)
सर्वस्वापहारे ऽपि यद् यस्य जीवनोपकरणं तत् तस्य नापहर्तव्यम् इत्य् आह नारदः ।
आयुधान्य् आयुधीयानां बीजानि कृषिजीविनाम् ।
वेश्यास्त्रीणाम् अलंकारान् वाद्यातोद्यानि तद्विदाम् ॥
यच् च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणे ऽप्य् एतन् न राजा हर्तुम् अर्हति ॥ इति ।
ब्राह्मणस्य वधस्थाने मौण्ड्यम् आह मनुः ।
ब्राह्मणस्य वधो मौण्ड्यं पुरान् निर्वासनाङ्कने ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥ इति ।
कोपात् परस्परभेदेनादौ दण्डम् आह याज्ञवल्क्यः ।
द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा ।
विप्रचिह्नेन शूद्रस्य जीवतो ऽष्टशतो दमः ॥ इति । (य्ध् २।३०४)
यत् तु स्मृत्यन्तरे ऽभिहितम्,
द्विजातिलिङ्गिनः शूद्रान् चित्रदण्डेन घातयेत् ।
[५८२] इति, तद् वृत्त्यर्थं ब्राह्मणलिङ्गधारणे वेदितव्यम् । ब्रह्मणपीडाकारिणो दण्डम् आह मनुः ।
ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् ।
हन्याच् चित्रैर् वधोपायैस् तम् उद्वेगकरैर् नृपः ॥ इति । (म्ध् ९।२४८)
शूद्राणां प्रव्रज्यादौ दण्डम् आह कात्यायनः ।
प्रव्रजावसितं शूद्रं जपहोमपरं तथा ।
वधेन शमयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥
तीरितं चानुशिष्टं च यत्र क्वचन विद्यते ।
कृतं तद् धर्मतो ज्ञेयं न तत् प्राज्ञो निवर्तयेत् ॥ इति । (म्ध् ९।२३३)
तद् अर्थिप्रत्यर्थिनोर् अन्यतरवचनाद् व्यवहारस्य अधर्मतो वृतत्वाशङ्कायां पुनर् द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् । न पुनर् धर्मतो वृत्तत्वनिश्चये ऽपि राज्ञा लोभादिना प्रवर्तनीय इत्य् एवंपरम् । यत् पुनर् नृपान्तरेणापि न्यायापेतं कार्यं निवर्तितं तद् अपि सम्यक्परीक्षणेन धर्म्ये पथि स्थापनीयम्,
न्यायापेतं यद् अन्येन राज्ञाज्ञानकृतं भवेत् ।
तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥
इति स्मरणात् । अन्यायप्रगृहीतदण्डधनस्य गतिम् आह ।
राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ इति ।
अन्यायेन यो दण्डो राज्ञा लोभादिना गृहीतः तं त्रिंशद्गुणीकृतं वरुणायेदम् इति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यच् च दण्डरूपेण यावद् गृहीतम् अन्यायेन तत् तस्मै प्रतिदेयम्, अपहारदोषप्रसङ्गात् । इतरथा अन्यायदण्डग्रहणे पूर्वस्वामिनः सत्त्वविच्छेदापत्तेः इति । एवं शास्त्रोक्तमार्गेण व्यवहारदर्शिनो राज्ञः फलम् आह यमः ।
एवं धर्मप्रवृत्तस्य राज्ञो दण्डधरस्य च ।
यशो ऽस्मिन् प्रथथे लोके स्वर्गे वासस् तथाक्षयः ॥ इति ।
मनुर् अपि ।
एवं सर्वान् इमान् राजा व्यवहारान् समापयन् ।
व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ (म्ध् ८।४२०)
इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक-
श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरस्य माधवामात्यस्य कृतौ
पराशरस्मृतिव्याख्यायां माधवीयायां तृतीय्ं व्यवहारकाण्डम् समाप्तम्
समाप्तं चेदं व्यवहारकाण्डम्
समाप्ता चेयं पराशरस्मृतिस् तस्या व्याख्या च ॥