प्रायश्चित्त काण्ड
[१]
द्वादशो ऽध्यायः
अथ आचारकाण्डे त्रिभिर् अध्यायैर् यावन्त आचाराः प्रतिपादिताः प्रायश्चित्तकाण्डे चाष्टभिर् अध्यायैर् यानि प्रायश्चित्तान्य् अभिहितानि तेभ्यो ऽतिरिक्तानां परिशिष्टानां केषांचिद् आचाराणां प्रायश्चित्तानां च विधानायायं द्वादशो ऽध्याय आरभ्यते ।
तत्रादौ दुःस्वप्नादिनिमित्तकं स्नानम् आह ।
दुःस्वप्नं यदि पश्येत् तु वान्ते तु क्षुरकर्मणि ।
मैथुने प्रेतधूमे च स्नानम् एव विधीयते ॥ १२।१ ॥
इति।
स्वप्नो द्विविधः । सुस्वप्नो दुःस्वप्नश् च । तत्र यो दर्शनकाले द्रष्टुः सुखं जनयन् भावि श्रेयश् च सूचयति स सुस्वप्नः । तस्योदाहरणं छन्दोगा आमनन्ति ।
[२] यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥ इति । (छुप् ५।२।८)
तद्वैपरीत्येन दर्शनकाले दुःखं जनयन् पुरुषस्य भावि चारिष्टं यः सूचयति स दुःस्वप्नः । एतस्य तूदाहरणं बह्वृचाः पठन्ति । तत्र हि मरणसूचकानि जागरणारिष्टानि बहून्य् अभिधाय अन्ते प्रत्यक्षदर्शनानीत्य् उपसंहृत्यानन्तरं स्वप्नारिष्टान्य् एवम् आम्नायन्ते ।
अथ स्वप्नाः । पुरुषं कृष्णं कृष्णदन्तं पश्यति स्वप्ने स एनं हन्ति वराह एनं हन्ति मर्कट एनम् आस्कन्दयत्य् आशु वायुर् एनं प्रवहति सुवर्णं खादित्वापगिरति मध्व् अश्नाति बिसानि भक्षयत्य् एकं पुण्डरीकं धारयति खरैर् वराहैर् युक्तो याति कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणाभिमुखो व्रजति ।
[३] इत्यादि । स्वप्नाध्यायविदश् च स्वप्नस्य भाविसूचकं वचनम् आहुः ।
आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् ।
विष्ठानुलेपो रुदितं मृतं च स्वप्ने त्व् अगम्यागमनं च धन्यम् ॥
कृष्णाम्बरधरा नारी कृष्णगन्धानुलेपना ।
अवगूहति यं स्वप्ने मृत्युं तस्य विनिर्दिशेत् ॥ इति ।
एतत् सर्वम् अभिप्रेत्य स्वप्नाधिकरणे भगवान् बादरायणः सूत्रयामास- “सूचकश् च हि श्रुतेर् आचक्षते च तद्विदः” इति (ब्र्सु ३।२।४) । तत्र भाव्यरिष्टसूचके दुःस्वप्ने दृष्टे सति प्रातर् उत्थाय तन्निमित्तकं स्नानं कर्तव्यम् । तथा भुक्ते ऽन्ने वान्ते सति तदैव स्नातव्यम् । तथा क्षौरमैथुनप्रेतधूमाघ्राणेषु च स्नानम् आचरेत् । एवं दुर्जनस्पर्शनादाव् अपि स्नानं द्रष्टव्यम् । तद् आह यमः ।
[४] अजीर्णे ऽभ्युदिते वान्ते श्मश्रुकर्मणि मैथुने ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानम् एव विधीयते ॥ इति ।
वृद्धपराशरो ऽपि ।
दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि ।
चितियूपश्मशानानां स्पर्शने स्नानम् आचरेत् ॥ इति ।
मैथुने तु स्नानम् ऋतुकालविषयम् । तद् आह शातातपः ।
ऋतौ हि गर्भशङ्कित्वात् स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु यदा गच्छेत् शौचं मूत्रपुरीषवत् ॥ इति ।
वमनादौ विशेषम् आह मनुः ।
वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ (म्ध् ५।१४४)
[५] इति । भुक्त्वान्नम् अनन्तरं वान्तः आचामेद् इत्य् अर्थः ॥ १२।१ ॥
अथ प्रायश्चित्तिनः पुनःसंस्कारनिमित्तान्य् आह ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च ।
पुनःसंस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ १२।२ ॥
इति।
अयं च संस्कारो व्रतचरणानन्तरभावी । तत्र वचनानि तु पूर्वाध्याय एव प्रायश्चित्तप्रसङ्गाद् उदाहृतानि ॥ १२।२ ॥
आद्यसंस्कारवत् पुनःसंकारे ऽप्य् अजिनादिप्राप्ताव् अपवदति ।
अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ १२।३ ॥
इति।
अजिनादिवद् वपनम् अपि निवर्तन्ते । तद् आह विष्णुः- “सर्वेष्व् एतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् । [६] वपनमेखलादण्डभैक्षचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि” इति (विध् ५१।४–५) । व्रतानि सौम्यप्राजापत्यादीनि मधुमांसाञ्जनादिवर्जनानि च ।
॥ १२।३ ॥
पूर्वाध्यायादौ अमेध्यरेतोगोमांसविण्मूत्रप्राशने चान्द्रायणम् इत्य् उक्तम् (११।१) तत् कामकारविषयम् । अत एव तत्र बालापत्यसहभोजनम् अस्माधिर् उदाहृतम् । अत्र त्व् अकामतो विण्मूत्रादिभोजने प्रायश्चित्तम् आह ।
विण्मूत्रभोजी शुद्ध्यर्थं प्राजापत्यं समाचरेत् ।
पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर् भवेत् ॥ १२।४ ॥
इति।
प्राजापत्यं चरित्वा पश्चात् पञ्चगव्येनैव स्नानं कृत्वा तत् पञ्चगव्यं प्राश्य शुद्धो भवति । एतच् च पुनःसंस्कारात् प्राग् एव कर्तव्यम्, “प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात्” (विध् ५१।४) इति विष्णुवचनात् । जले तु विण्मूत्रोपहते कूर्मपुराणोक्तं द्रष्टव्यम् ।
अपो मूत्रपुरीषाद्यैर् दूषिताः प्राशयेद् यदा ।
तदा सान्तपनं कृच्छ्रं व्रतं पापविशोधनम् ॥ इति । (कूपु १।२।३३।३८)
॥ ४ ॥
चतुर्षु वर्णेषु यः को ऽपि स्वात्मघातार्थम् उद्यम्य कथंचिद् घातात् प्राग् एव निवर्तते तस्य प्रायश्चित्तं प्रश्नपूर्वकम् आह ।
जलाग्निपतने चैव प्रव्रज्यानाशकेषु च ।
प्रत्यावसितवर्णानां कथं शुद्धिर् विधीयते ॥ १२।५ ॥
प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च ।
वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः ॥ १२।६ ॥
ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे ।
सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥ १२।७ ॥
गोद्वयं दक्षिणां दद्यात् शुद्धिं स्वायंभुवो ऽब्रवीत् ।
मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति ॥ १२।८ ॥
इति।
जलाग्न्यादयः पञ्च मरणहेतवः । नदीतटाकादिप्रवेशेणाग्निप्रवेशेन भृगुपतनेन महाप्रस्थानगमनेनानाशकेन च म्रियन्ते । तत्र जलादिमरणं त्रिविधम् । विहितं प्रतिषिद्धम् [८] अनुज्ञातं च । विहितं च द्विविधम् । काम्यतपोरूपं प्रायश्चित्ततपोरूपं च । तत्र तपोरूपं कूर्मपुराणे नर्मदामाहत्म्ये प्रदर्शितम् ।
अग्निप्रेवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले वानाशके वापि नासौ मर्त्यो ऽभिजायते ॥ इति । (कूपु १।२।३९।४९)
तत्रैव प्रयागमहात्म्ये ऽभिहितम् ।
गङ्गायमुनयोर् मध्ये कारीषाग्निं विशेत् तु यः ।
अहीनाङ्गो ह्य् अरोगश् च पञ्चेन्द्रियसमन्वितः ॥
यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
[९] जलप्रवेशं यः कुर्यात् सङ्गमे लोकविश्रुते ।
राहुग्रस्ते यदा सोमे विमुक्तः सर्वपातकैः ॥
सोमलोकम् अवाप्नोति सोमेन सह मोदते ॥ इति । (कूपु १।१।३७।६–७)
तद् एतत् प्रायश्चित्तरूपं मरणम् । क्रोधादिना यज् जलादिमरणं तत् प्रतिषिद्धम् । तथा चाशौचप्रकरणे “क्रोधात् प्रायम्” इत्यादिस्मृतिवाक्यम् उदाहृतम् । प्रबलरोगग्रस्तस्य यज् जलादिमरणं न तद् विहितम् । नापि प्रतिषिद्धम् । किं तु शास्त्रेण केवलम् अनुज्ञातम् । तत्र तस्मिन्न् एव प्रकरणे “दुश्चिकित्स्यैर् महारोगैः” इत्यादिवाक्येनोदाहृतम् । तत्राभ्यनुज्ञातस्यैच्छिकत्वात् तस्य फलालब्धिमात्रं केवलं भवति । न त्व् असौ प्रायश्चित्ती । यो ऽपि प्रायश्चित्तार्थं मर्त्तुम् उद्यम्य ततो निवर्तते तस्यापि पूर्वपापं न निवर्तते इत्य् एतावद् एव । न तु तेन कर्तव्यं किंचित् [१०] प्रायश्चित्तान्तरम् अस्ति । एवं च सति प्रतिषिद्धम् एव परिशिष्यते । तत्रापि मर्तुम् उद्यम्य मृतस्य दुर्मरणत्वे ऽपि न तत्रेदं प्रायश्चित्तम् । तत्कर्तुर् एवाभावात् । यस् तूद्यम्य मरणान् निवर्तते तस्येदं प्रायश्चित्तम् ।
ननु – तस्यापीदं न युक्तम्, आत्महत्यायाः शास्त्रनिषिद्धत्वेन तन्निवृत्तेः शास्त्रीयत्वात् ।
बाढम् । न हि वयं निवृत्तैनिमित्तम् इदं प्रायश्चित्तं ब्रूमः । किं तु निषिद्धाचरणोद्यम् अनिमित्तम् । उद्यममात्रस्य निमित्तत्वाद् एव प्रायश्चित्तस्य स्वल्पत्वम् उपपद्यते ।
जलाग्न्यादिषु मर्तुम् उद्यम्य ततो निवृत्ताः “प्रत्याविअसिताः” । तादृशानां चतुर्णां वर्णानां पृथक् पृथक् प्रायश्चित्तं वक्तव्यम् इति प्रश्नवाक्यस्यार्थः । तत्र क्षत्रियस्य प्राजापत्यद्वयम् । वैश्यस्य तीर्थयात्रा । शूद्रस्य वृषभसहितगोदशकदानम् । ब्राह्मणस्य वनगमनादिव्रतम् । आत्महननोद्यमेन ब्राह्मणत्वम् अपगतम् । चण्डालत्वम् आयातम् । पुनर् व्रताचरणेन चण्डालत्वनिवृत्तौ पुनः पूर्वसिद्धं ब्राह्मण्यं प्रतिपद्यते । तद् आह वृद्धपराशरः ।
अनाशकान् निवृत्तस् तु चातुर्वर्ण्यव्यवस्थितः ।
चण्डालः स तु विज्ञेयो वर्जनीयः प्रयत्नतः ॥
[११] लुप्तधर्मास् तु चण्डालाः परिव्राजकतापसाः ।
तेभ्यो जातान्य् अपत्यानि चण्डालैः सह वासयेत् ॥
जलाग्निपतने चैव प्रव्रज्यानाशके तथा ।
प्रत्यावसितवर्णानां प्रायश्चित्तं कथं भवेत् ॥
ब्राह्मणानां प्रसादेन तीर्थाभिगमनेन च ।
गवां च शतदानेन वर्णाः शुध्यन्ति ते त्रयः ॥
ब्राह्मणस्य प्रवक्ष्यामि गत्वारण्यं चतुष्पथम् ।
सशिखं वपनं कृत्वा त्रिसंध्यम् अवगाहनम् ॥
सावित्र्यष्टसहस्रं तु जपेच् चैव दिने दिने ।
मुच्यते सर्वपापेभ्यो ब्राहमणत्वं च गच्छति ॥
भैक्षार्थी विचरेद् ग्रामं गृहान् सप्त वने वसन् ।
तां च भिक्षां समश्नीयाद् अब्दार्धेन विशुध्यति ॥ इति ।
अत्रैव व्रतान्तराण्य् आह वसिष्ठः ।
जीवन्न् आत्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् ।
त्रिरात्रं वाप्य् उपवसेन् नित्यं स्निग्धेन वाससा ।
प्राणान् आत्मनि संयम्य त्रिः पठेद् अघमर्षणम् ॥
अपि वैतेन कल्पेन गायत्रीं परिवर्तयेत् ।
अपि वाग्निम् उपसमाधाय कूष्माण्डैर् जुहुयाड् घृत ॥ (वध् २३।१९–२१)
[१२] इति । तत्र जपहोमौ विद्वद्विशेषेण विकल्पनीयौ । द्वादशरात्रत्रिरात्रौ त्व् अविद्वद्विषयशक्ताशक्तभेदेन व्यवस्थापनीयौ ।
मूलवचने प्रव्रज्याशब्देन पूर्वं महाप्रस्थानगमनं व्याख्यातम् । अथ वा परिव्रज्या तेन विवक्ष्यते । तथा च सति परिव्रज्यातः प्रच्युतस्य ब्राह्मणस्य प्रायश्चित्तम् उक्तं भवति । तद् इदं श्रद्धालोः पुनरुपनयनादिपुरःसरं पारिव्रज्यं जिघृक्षोर् वेदितव्यम् । यस् तु पुनः पारिव्रज्यं न जिघृक्षति तस्य मरणान्तं राजदासत्वादिकम् । यत् त्व् अत्र नारदः,
राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो द्विजः ।
न तस्य प्रतिमोको ऽस्ति न विशुद्धिः कथंचन ॥ (न्स्म् ५।३५)
इति, तत् क्षत्रियवैश्यपरम् । यद् आह कात्यायनः,
प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजातयः ।
निर्वासं कारयेद् विप्रं दास्यं क्षत्रविशौ नृपः ॥
[१३] इति । दक्षः ।
पारिव्रज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासेयेत् ॥ इति । (दस्म् ७।३४)
याज्ञवल्क्यः ।
प्रव्रज्यावसितो राज्ञो दासः स्यात् मरणान्तिकम् । इति । (य्ध् २।१८३)
॥ १२।५–८ ॥
अथाचारकाण्डशेषत्वेन स्नानभेदान् आह ।
स्नानानि पञ्च पुण्यानि कीर्तितानि मनीषिभिः ।
**आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यम् एव च ॥ १२।९ ॥ **
इति ॥ ९ ॥
आग्नेयादीनाम् उपदिष्टानां पञ्चानां क्रमेण स्वरूपं विविनक्ति ।
आग्नेयं भस्मना स्नानम् अवगाह्य तु वारुणम् ।
आपो हिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥ १२।१० ॥
यत् तु सातपवर्षेण तत् स्नानं द्वियम् उच्यते ।
तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः ॥ १२।११ ॥
[१४] इति । भस्मस्नानं द्विविधम् । पादादिकं मूर्धादिकं च । तत्र पादादिकं विरक्तविषयम्, संहारक्रमत्वात् । तच् च कूर्मपुराणे दर्शितम् ।
आग्नेयं भस्मनापादमस्तकाद् देहधूलनम् । इति । (कूपु १।२।१८।१३)
मूर्धादि लिङ्गपुराणे दर्शितम् ।
ईशानेन शिरोदेशं मुखं तत् पुरुषेण तु ।
उरोदेशम् अघोरेण गुह्यं वामेन सुव्रताः ॥
सद्येन पादौ सर्वाङ्गं प्रणवेन तु शोधयेत् । इति । (लिङ्पु १।२६।३७–३८)
जलावगाहनरूपं तु वारुणस्नानं प्रथमाध्याये “संध्यां स्नानं जपो होमः” (पर्स्म् १।३९) [१५] इत्य् अत्र प्रपञ्चितम् । तच् च त्रिःकृत्वो ऽभ्यस्तेषु स्नानेषु कर्तव्यम् । तत्प्रकारश् च बौधायनेन दर्शितः ।
भुवि मूर्ध्नि तथाकाशे मूर्ध्न्य् आकाशे तथा भुवि ।
आकाशे भुवि मूर्ध्नीति मन्त्रस्नानं विधीयते ॥ इति । (ब्ध् १।२।१०।२१)
सायंकाले गोषु मार्गेष्व् आगच्छन्तीषु वायुना समुत्थिते गोपादरजस्य् अवस्थानं वायव्यम् । आतपयुक्तेन वर्षोदकेन देहस्याप्लावनं दिव्यस्नानम् । तद् इदं पूर्वोक्तेभ्यः प्रशस्तम् । एतेन यौगिकसारस्वते अपि द्वे स्नाने उपलक्ष्येते । यौगिकं योगेन विष्णुचिन्तनम् । तद् आह व्यासः ।
ब्राह्मम् आग्नेयम् उद्दिष्टं वायव्यं दिव्यम् एव च ।
वारुणं यौगिकं तद्वत् षोढा स्नानं समासतः ।
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ॥
[१६] आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ।
यत् तु सातपवर्षेण तत् स्नानं दिव्यम् उच्यते ॥
वारुणं चावगाहस् तु मानसं त्व् आत्मवेदनम् ।
यौगिकं स्नानम् आख्यातं योगाद् विष्णुविचिन्तनम् ॥ इति ।
विद्वदाशिषा संपादितं सारस्वतं स्नानम् । तद् आह बृहस्पतिः ।
वायव्यं गोरजः प्रोक्तम् अस्तं गच्छति गोपतौ ।
विद्वत्सरस्वतीप्राप्तं स्नानं सारस्वतं स्मृतम् ॥ इति । (ब्ēस्म् ३।४९)
विद्वदुक्तिप्रकारम् आह व्यासः ।
स्वयम् एवोपपन्नाय विनयेन द्विजातये ।
तज्ज्ञः संपादयेत् स्नानं शिष्याय च सुताय च ॥
दाक्षायणमयैः कुम्भैर् मन्त्रवज् जाह्नवीजलैः ।
कृतमङ्गलपुण्याहैः स्नानम् अस्तु तदर्थिनाम् ॥ (व्यास्म् १।१४–१५)
आदौ यावत् प्रभासे बहुगुणसलिले मधमे पुष्करे वा ।
गङ्गाद्वारे प्रयागे कनखलसलिले भद्रकर्णे गयायाम् ॥
[१७] राहुग्रस्ते च सोमे दिनकरसहिते सन्निहत्यां विशेषात् ।
एतैर् विख्याततीर्थैस् त्रिभुवनविदितैः स्नानम् अच्छिद्रम् अस्तु ॥
इति स्नानानि । एतेषु सप्तसु स्नानेषु वारुणं मुख्यम् इतराणि षड् स्नानानि गौणानि । मुख्यगौणभेदेन शङ्खवचनम् आचारकाण्ड एवोदाहृतम् । तत्र गौणस्नानान्य् अशक्तविषयाणि । तद् उक्तं कूर्मपुराणे ।
अप्रायत्ये समुत्पन्ने स्नानम् एव समाचरेत् ।
ब्राह्मादीनि तथाशक्तौ स्नानान्य् आहुर् मनीषिणः ॥ इति । (कूपु १।२।१८।११)
॥ १२।१०–११ ॥
वारुणस्नाने तर्पणस्य पूर्वभावित्वं वस्त्रनिष्पीडनस्योत्तरभावित्वम् उपपत्तिपुरःसरं विदधाति ।
स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह ।
वायुभूतास् तु गच्छन्ति तृष्णार्ताः सलिलार्थिनः ॥ १२।१२ ॥
निराशास् ते निवर्तन्ते वस्त्रनिष्पीडने कृते ।
तस्मान् न पीडयेद् वस्त्रम् अकृत्वा पितृतर्पणम् ॥ १२।१३ ॥
इति।
स्नातुं गच्छन्तं ये ऽनुगच्छन्ति ते सर्वे पूर्वं वस्त्रे निष्पीडिते [१८] सति निराशाः गच्छन्ति – इत्य् एवोपपत्तिः । अस्मिन्न् अर्थे योगियाज्ञवल्क्यादिस्मृत्यन्त्रवचनानि पूर्वम् एवोदाहृतानि ॥
॥ १२।१२–१३ ॥
तर्पणवेलायां तिलाः पाणितले विलोमप्रदेशे पात्रान्तरे वा स्थापनीयाः न तु सलोम्नि पाणिपृष्ठे – इत्य् अभिप्रेत्य तत्र स्थापने प्रत्यवायम् आह ।
रोमकूपेष्व् अवस्थाप्य यस् तिलैस् तर्पयेत् पितॄन् ।
पितरस् तर्पितास् तेन रुधिरेण मलेन च ॥ १२।१४ ॥
इति।
अस्मिन्न् अर्थे देवलवचनं पूर्वम् एवोदाह्र्तम् ॥ १२।१४ ॥
स्नानवेलायां केशधूननादि प्रतिषेधति ।
अवधूनोति यः केशान् स्नात्वा यस् तूत्सृजेन् मलम् ।
आचामेद् वा जलस्थो ऽपि स बाह्यः पितृदैवतैः॥ १२।१५ ॥
[१९] इति । स्नात्वेत्य् एतत् पदं काकाक्षिवद् उभयतः संबध्यते । तथा च सति यः स्नानानन्तरम् आर्द्रान् केशान् अवधुनुयात् यश् च स्नानानन्तरम् आर्द्रवस्त्रो मलमूत्रे विसृजेत् यश् च नद्यादाव् अस्नानकाले जलमध्ये स्थित्वा आचामेत्, स त्रिविधो ऽपि पुरुषः पितृभिः दैवतैश् च बाह्यः कृतः । पैतृकं दैविकं चानुष्ठानम् अनुष्ठातुम् अनर्ह इत्य् अर्थः ॥ १२।१५ ॥
आचमनकाले शिरःप्रावरणादीनि निषेधति ।
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखो ऽपि वा ।
विना यज्ञोपवीतेन आचान्तो ऽप्य् अशुचिर् भवेत् ॥ १२।१६ ॥
इति।
वस्त्रेण शिरः कण्ठं वा प्रवृत्य नाचामेत् । तथा मुक्तकच्छो वा मुक्थशिखो वा यज्ञोपवीतरहितो वा नाचामेत् ॥ १२।१६ ॥
आचमने नियमान्तरम् आह ।
जले स्थलस्थो नाचामेत् जलस्थश् च बहिःस्थले ।
उभे स्पृष्ट्वा समाचान्त उभयत्र शुचिर् भवेत् ॥ १२।१७ । इति ।
यो हि पद्भ्यां जलम् अस्पृष्ट्वा शुद्धस्थल एवोपविश्य ईषत्प्रह्वो जल एव बिन्दून् पातयन्न् आचामति स जलस्थलयोर् उभयोर् न शुध्यति । यश् च तद्वैपरीत्येन जले पादद्वयम् अवस्थाप्य स्थले बिन्दून् पातयन्न् आचामति, सो ऽपि नोभयत्र शुद्ध्यति । अतस् तथा नाचान्तव्यम् । किं त्व् एकेन पादेन स्थलम् [२०] अपरेण जलं स्पृष्ट्वा समाचामेत् । तथा चोभयत्र शुध्यति । एतच् च स्नात्वा य आर्द्रवस्त्रस् तद्विषयम् ॥ १२।१७ ॥
द्विराचमननिमित्तान्य् आह ।
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ १२।१८ ॥
इति।
आचमनप्रतिनिधित्वेन श्रोत्रस्पर्शे निमित्तान्य् आह ।
क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ १२।१९ ॥
इति।
श्रोत्रस्पर्शस्य शुद्धिहेतुत्वम् अर्थवादपुरःसरम् उपपादयति ।
प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस् तथा ।
विप्रस्य दक्षिणे कर्णे सन्तीति मनुर् अब्रवीत् ॥ १२।२० ॥
अग्निर् आपश् च वेदाश् च सोमसूर्यानिलास् तथा ।
सर्व एव तु विप्रस्य श्रोत्रे तिष्ठन्ति दक्षिणे ॥ १२।२१ ॥
इति।
[२१]
अरुणोदयात् पूर्वं स्नानं निषेधति ।
भास्करस्य करैः पूतं दिवा स्नानं प्रशस्यते ।
अप्रशस्तं निशि स्नानं राहोर् अन्यत्र दर्शनात् ॥ १२।२२ ॥
इति।
ग्रहणस्नाने रात्रिस्नानस्य प्रतिप्रसवं विवक्षित्वा राहोर् अन्यत्र दर्शनाड् इत्य् उक्तम् ॥ १२।२२ ॥
स्नानदृष्टान्तेन दानादीनाम् अपि प्रतिप्रसवम् आह ।
स्नानं दानं जपो होमः कर्तव्यो राहुदर्शने ।
अन्यदा त्व् अशुची रात्रिस् तस्मात् तां परिवर्जयेत् ॥ १२।२३ ॥
इति।
यद्य् अपि रात्रौ दानादिप्रतिषेधो न मूलवचने प्रस्तुतः [२२] तथापि शास्त्रान्तरसिद्धं प्रतिषेधं हृदि निधायायं प्रतिप्रसव इति द्रष्टव्यम् । अन्यदा राहुदर्शनरहिते काले रात्रिः स्नानादिष्व् अशुचिः तस्मात् स्नानादिकं चिकीर्षुस् तां रात्रिं परिवर्जयेत् ॥ १२।२३ ॥
सोमग्रहणकालस्य दानाद्यर्हत्वम् उपपादयति ।
मरुतो वसवो रुद्रा आदित्याश् चैव देवताः ।
सर्वे सोमे प्रलीयन्ते तस्माद् दानन्तु तद्ग्रहे ॥ १२।२४ ॥
इति।
राहुदर्शन इव खलयज्ञादाव् अपि रात्रिदानम् अभ्यनुजानाति ।
खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा ।
शर्वर्यां दानम् अस्त्य् एव नान्यत्रैवं विधीयते ॥ १२।२५ ॥
इति।
पुनर् अपि राहिदर्शनं दृष्टान्तत्वेनोदाहृत्य पुत्रजन्मादाउ रात्रिदानम् अभ्यन्जानाति ।
पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि ।
राहोश् च दर्शने दानं प्रशस्तं नान्यदा निशि ॥ १२।२६ ॥
[२३] इति । अत्ययकर्म मरणम् । तस्मिन् प्रस्तुते सति गोदानतिलपात्रादिदानं निश्य् अपि कर्तव्यम् ॥ १२।२६ ॥
“नान्यदा निशि” इत्य् अयं निषेधो दान इव स्नाने ऽप्य् अस्तीत्य् अभ्युपेत्य पूर्वपश्चिमयामयोः स्नानस्य प्रतिप्रसवम् आह ।
महानिशा तु विज्ञेया मध्यस्थं प्रहरद् वयम् ।
प्रदोषपश्चिमौ यामौ दिनवत् स्नानम् आचरेत् ॥ १२।२७ ॥
इति।
निशि निषेधो महानिशाविषयः । महानिशाशब्दश् च द्वितीयतृतीययामाव् अभिधत्ते । तथा च सति प्रथमचतुर्थयामौ दिनवत् स्नानादियोग्यौ । तस्मात् तत्र स्नानादिकम् आचरेत् । एतच् चापद्विषयम् । अन्यथा “भास्करस्य करैः” (पर्स्म् १२।२२) इत्य् अनेन विरुध्येत् । काम्यनैमित्तिके स्नाने तु महानिशायाम् अप्य् अनिषिद्धे । तद् आह देवलः ।
महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।
तस्यां स्नानं न कुर्वीत काम्यनैमित्तिकाद् ऋते ॥ इति ॥ १२।२७ ॥
[२४]
रात्रौ स्नानस्य निमित्तं राहुदर्शनं पूर्वम् उक्तम् । इदानीं निमित्तान्तरम् आह ।
चैत्यवृक्षश् चितिर् यूपश् चण्डालः सोमविक्रयी ।
एतांस् तु ब्राह्मणः स्पृष्ट्वा सवासा जलम् आविशेत् ॥ १२।२८ ॥
इति।
चितेर् योग्यं श्मशानस्थानं चैत्यम् । तत्र समारोपितो वृक्षः चैत्यवृक्षः । चित्यादयः प्रसिद्धाः । तेषां स्पर्शनं स्नाननिमित्तम् । तद् यदि कथंचित् रात्रौ संपद्यते तदा रात्राव् अपि स्नातव्यम् इत्य् अभिप्रायः ॥ १२।२८ ॥
स्नानस्य निमित्तान्तरम् आह ।
अस्थिसंचयनात् पूर्वं रुदित्वा स्नानम् आचरेत् ।
अन्तर्दशाहे विप्रस्य ह्य् ऊर्ध्वम् आचमनं भवेत् ॥ १२।२९ ॥
इति।
“प्रथमे ऽह्नि” (व्यास्म् ५९) इत्यादिशास्त्रैर् विहितानां [२५] दिनानां मध्ये यदास्थिसंचयनं क्रियते ततः पूर्वस्मिन् काले रोदनं स्नाननिमित्तम् । अस्थिसंचयनाद् ऊर्ध्वं रोदनं त्व् आचमनस्यैव निमित्तम्, न तु स्नानस्य ॥ १२।२९ ॥
ननु – सोमग्रहणे रात्राव् अपि स्नातव्यम् इत्य् उक्तं तद् अयुक्तम्, उदकस्य शुद्ध्यभावात् । तद् आह पैठीनसिः ।
_ अपेयं तु तदा तोयं रात्रौ मध्यमयामयोः ।_
_ स्नानं चैव न कर्तव्यं तथैवाचमनक्रिया ॥ इति ।_
तस्माद् रात्रौ स्नानं कथम् अभ्युपगम्यते — इत्य् आशङ्क्य सोमग्रहादिव्यतिरिक्तविषयेयम् अशुद्धिर् इत्य् आह ।
सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे ।
सोमग्रहे तथैवोक्तं स्नानदानादिकर्मसु ॥ १२।३० ॥
इति।
सोमग्रहस्योपलक्षणत्वात् संक्रान्त्यादिष्व् अपि नास्त्य् [२६] अशुद्धिदोषः ॥ १२।३० ॥
सोमग्रहादीनां यथा उदकप्राशस्त्यहेतुत्वं तथा कुशानाम् अप्य् आह ।
कुशैः पूतं तु यत् स्नानं कुशेनोपस्पृशेद् द्विजः ।
कुशेन चोद्धृतं तोयं सोमपानसमं भवेत् ॥ १२।३१ ॥
इति।
कुशैर् मार्जनं कृत्वा मन्त्रस्नानं क्रियते तत् कुशपूतं स्नानम् । कुशान् अनामिकायां धृत्वा यद् आचमनं तत् कुशोदकोपस्पर्शनम् । संध्यावन्दनादौ मार्जनार्थं कुशाग्रैर् उद्धृतं बिन्दुजातं कुशोद्धृततोयम् । तत् तोयं सोमपानवत् प्रशस्तम् ॥ १२।३१ ॥
अथ कृत्स्नवेदाध्ययनं कर्तुम् अशक्तस्यैकदेशाध्ययनम् अभ्यनुज्ञातुम् अध्ययनाभावं निन्दति ।
अग्निकार्यात् परिभ्रष्टाः संध्योपासनवर्जिताः ।
वेदं चैवानधीयानास् सर्वे ते वृषलाः स्मृताः ॥ १२।३२ ॥
इति।
उभयोः सम्ध्ययोर् ब्रह्मचारिभिः समिदाधानम् अग्निकार्यम् । तेन गृहस्थानाम् औपासनम् अप्य् उपलक्ष्यते । अग्निकार्यादिरहितानां वृषलत्वं शूद्रादिसमानत्वम् ॥ १२।३२ ॥
[२७]
एकदेशाध्ययनम् अभ्यनुजानाति ।
तस्माद् वृषलभीतेन ब्राह्मणेन विशेषतः ।
अध्येतव्यो ऽप्य् एकदेशो यदि सर्वं न शक्यते ॥ १२।३३ ॥
इति।
न चाध्ययनन्यायेनाग्निकार्यसंध्योपासनयोर् अप्य् एकदेशानुष्ठानं शङ्कनीयम्, प्रयासरहितत्वेन तयोर् अशक्त्यसंभवात्, क्वचित् तद्वर्जनस्य नास्तिक्यालस्यादिमूलत्वात् । वृषलभीतेन वृषलत्वाद् भीतेनेत्य् अर्थः ॥ १२।३३ ॥
अथ शूद्रान्नं प्रतिषेधति ।
शूद्रान्नरसपुष्टस्याप्य् अधीयानस्य नित्यशः ।
जपतो जुहव्तो वापि गतिर् ऊर्ध्वा न विद्यते ॥ १२।३४ ॥
इति।
अध्ययनजपहोमास् तावद् अशेषपापक्षयहेतुतया पवित्रताम् आपादयन्तीति धर्मशास्त्रेषु डिण्डिमः [नियमः] । तथा च मनुः ।
वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ॥ (म्ध् ११।२४५)
[२८] इति । बृहस्पतिर् अपि ।
यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥ इति ।
वसिष्ठो ऽपि ।
यथाग्निर् वायुनाध्मातो हविषा चैव दीप्यते ।
एवं जप्यपरो नित्यं ब्राह्मणः संप्रदीप्यते ॥ इति । (वध् २३।१६)
चतुर्विंशतिमते ऽपि ।
वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च ।
ऋताव् ऋतौ प्रयुञ्जानः पुनाति दशपूरुषम् ॥ इति ।
यस् तु नैरन्तर्येण शूद्रान्नं भुञ्जानः तद्रसेन पुष्टो भवति तं पुरुषं यथोक्ता अध्ययनादयो ऽपि न पावयितुं क्षमाः तस्मात् शूद्रान्नं यत्नेन वर्जयेद् इत्य् आशयः ॥ १२।३४ ॥
शूद्रान्नं दृष्टान्तीकृत्य तद्वच् छूद्रअसंपर्कादीन् प्रतिषेधति ।
शूद्रान्नं शूद्रसंपर्कः शूद्रेण तु सहासनम् ।
शूद्राज् ज्ञानागमश् चैव ज्वलन्तम् अपि पातयेत् ॥ १२।३५ ॥
इति।
शूद्रान्नं व्याख्यातम् । एकस्मिन् गृहे शूद्रेण सहवासः [२९] शूद्रसंपर्कः । कृष्यादिकं कारयतां कृषीवलैः शूद्रैः सह कदाचिद् एकस्मिन् शकटादाव् उपवेशनं सहासनम् । पुराणश्रवणादिजातधर्माधर्मविवेकात् प्राज्ञात् वाग्मिनः शूद्राद् धर्माधर्मप्राप्तिर् ज्ञानागमः । एते शूद्रान्नादयः ज्वलन्तं ब्रह्मवर्चसेन विख्यातम् अपि पुरुषं नरके पातयन्ति । तस्मात् ते वर्जनीयाः ॥ १२।३५ ॥
वर्ज्यान्तरम् आह ।
यः शूद्र्या पाचयेन् नित्यं शूद्री च गृहमेधिनी ।
वर्जितः पितृदेवेभ्यो रौरवं याति स द्विजः ॥ १२।३६ ॥
इति।
यो विप्रः केनचिन् निमित्तेन परस्थलादौ निवसन् स्वकीयम् एवान्नं शूद्रस्त्रिया पाचयेत् यस्य च ग्रामे निवसतो ऽपि ऊढानूढा वा शूद्रा गृहिणी भवति द्विविधो ऽपि स विप्रो हव्यकव्ये ऽनुष्ठातुम् अयोग्यः सन् नरकम् आप्नोति ॥ १२।३६ ॥
शूद्रान्नवत् सूतकान्नं निन्दति ।
मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनः ।
अहं तन् न विजानामि कां कां योनिं गमिष्यति ॥ १२।३७ ॥
[३०] गृध्रो द्वादश जन्मानि दश जन्मानि सूकरः ।
श्वयोनौ सप्तजन्मा स्याद् इत्य् एवं मनुर् अब्रवीत् ॥ १२।३८ ॥
इति।
मृताशौचे जाताशौचे वा अशौचिनो ऽन्नम् अन्यो यो विप्रो दशस्व् अपि दिनेषु भुक्त्वा शरीरं पुष्णाति सो ऽयं मृतसूतकपुष्टाङ्गो विप्रः बहुषु कष्टयोनिषु जायते । कां कां योनिं गमिष्यतीत्य् एतत् न जाने इत्य् उक्त्वा योनीनाम् अतिकष्टत्वं वर्णितम् । न तु स्वज्ञानं प्रकटीकृतम् । अन्यथा गृध्रादिजन्मोदाहरणं व्यहन्येत । न च – गृध्रादिवाक्ये मनुर् अब्रवीद् इत्य् अभिधानात् तत्पूर्वकं स्वाजानम् उपवर्णितम् इति शङ्कनीयम्, तद्वर्णने प्रयोजनाभावात् । मनुशब्दोदाहरणं प्रामाण्यदाऋढ्यार्थम् । तथा च सति शूद्रान्नसूतकान्नयोः कष्टत्वस्यात्यन्तं प्रमितत्वात् । तद् उभयं सर्वथा वर्जनीयम् इत्य् उक्तं भवति ।
॥ १२।३७–३८ ॥
शूद्रार्थे होमानुष्ठानं प्रतिषेधति ।
दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद् धविः ।
**ब्राह्मणस् तु भवेत् शूद्रः शूद्रस् तु ब्राह्मणो भवेत् ॥ १२।३९ ॥ **
[३१] इति । यो विप्रः शूद्राद् दक्षिणाम् आदाय तदीयं हविः शान्तिपुष्ट्यादिसिद्धये वैदिकैर् मन्त्रैर् जुहोति तस्य ब्राह्मणस्यैव तत्र प्रत्यवायः । शूद्रस् तु होमफलं लभेद् इति ।
॥ १२।३९ ॥
अथ भोजनकाले मौनं विदधाति ।
मौनव्रतं समाश्रित्य आसीनो न वदेद् द्विजः ।
भुञ्जानो हि वदेद् यस् तु तद् अन्नं परिवर्जयेत् ॥ १२।४० ॥
इति।
यस् तु मौनेन भोक्तव्यम् इति व्रतं तपोरूपेण स्वीकृत्य वर्तते स भोक्तुम् आसीन उत्थानपर्यन्तं किम् अपि वचनं न वदेत् । यदि प्रमादाद् भोजनमध्ये किंचिद् वाक्यं वदेत् तदानीम् अवशिष्टम् अन्नं परित्यजेत् न तु भुञ्जीत ॥ १२।४० ॥
भोजनपात्रेण जलपानं निषेधति ।
अर्धे भुक्ते तु यो विप्रः तस्मिन् पात्रे जलं पिबेत् ।
हतं दैवं च पित्र्यं च आत्मानं चोपघातयेत् ॥ १२।४१ ॥
इति।
कांस्यादिपात्रे प्रक्षिप्तम् अन्नं भुक्त्वा भोजनसमाप्तेः प्राग् एव तत् पात्रं उद्धृत्य जलं यः पिबेत् तेनानुष्ठितं हव्यं कव्यं च देवान् पितॄन् न तर्पयेत् । तेन दोषेण स्वात्मानं नरके पातयित्वोपघातयेत् ॥ १२।४१ ॥
[३२]
पङ्क्त्युच्छिष्टकारित्वं प्रतिषेधति ।
भुञ्जानेषु तु विप्रेषु यो ऽग्रे पत्रं विमुञ्चति ।
स मूढः स च पापिष्ठो ब्रह्मघ्नः स कलूच्यते ॥ १२।४२ ॥
इति।
एकपङ्क्त्युपविष्टेषु भुञ्जानेषु सत्सु तन् मध्ये कश्चिद् इतरभोजनसमाप्तेः पूर्वम् एव स्वपात्रं परित्यज्य भोजनान्ते चुलकं पीत्वोत्तिष्ठति तस्य निन्दातिमहती । तदर्थम् एव मूढादिशब्दाः प्रयुक्ताः ॥ १२।४२ ॥
श्राद्धकाले भोजनपात्रचलनात् पूर्वं स्वस्तिवाचनं निषेधति ।
भाजनेषु न तिष्ठत्सु स्वस्ति कुर्वन्ति ये द्विजाः ।
न देवास् तृप्तिम् आयान्ति निराशाः पितरस् तथा ॥ १२।४३ ॥
इति।
अस्नातभोजनादिकं निषेधति ।
अस्नात्वा नैव भुञ्जीत अजप्त्वाग्निम् अहूय च ।
पर्णपृष्ठे न भुञ्जीत रात्रौ दीपं विना तथा ॥ १२।४४ ॥
इति।
यद्य् अपि स्नानजपहोमानां भोजनकालात् प्राचीनकाले [३३] विहितत्वाद् अस्नातभोजनादिकं न प्रसक्तं तथापि कदाचित् केनचिन् निमित्तेन स्वस्वकालेष्व् अननुष्ठितेषु यदि भोजनकालः प्राप्तः स्यात् तदा स्नानादिकम् अकृत्वा भोजनं न कुर्वीत । तथा पत्रावल्यां भुञ्जानः पत्राणाम् अन्तर्भागे भुञ्जीत, न तु पृष्टभागे । तथा रात्राव् अन्धकारे न भुञ्जीत ॥ १२।४४ ॥
अथापहारादिना धनार्जनं प्रतिषेधति ।
गृहस्थस् तु दयायुक्तो धर्मम् एवानुचिन्तयेत् ।
पोष्यवर्गार्थसिद्ध्यर्थं न्यायवर्ती सुबुद्धिमान् ॥ १२।४५ ॥
न्यायोपार्जितवित्तेन कर्तव्यं ह्य् आत्मरक्षणम् ।
अन्यायेन तु यो जीवेत् सर्वकर्मबहिष्कृतः ॥ १२।४६ ॥
इति।
गृहस्थः पुत्रमित्रकलत्रादयः सर्वथा रक्षणीया इत्य् अनया दयया युक्तो ऽपि पोष्यवर्गपोषणरूपस्यार्थस्य सिद्धये धर्मम् एव शास्त्रीयम् एव याजनादिरूपं द्रव्यार्जनोपायं चिन्तयेत् । एवं च सति न्यायवर्ती सन् परलोकविषयप्रधानत्वेन बुद्धिमान् भवति । तस्मात् न्यायोपार्जितेनैव याजनादिसाध्येन वित्तेनात्मनः कुटुम्बस्य च रक्षणं कर्तव्यम् । यस् त्व् [३४] अन्यायेन चौर्यापलापादिना लब्धेन वित्तेन जीवत् स दैवे पित्र्ये च कर्मण्य् अनर्हो भवति । यत् तु मनुवचनम्,
वृद्धौ च मातापितरौ सती भार्या सुतः शिशुः ।
अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥ (म्ध् ११।११)
इति, तद् आपद्विषयम् ॥ १२।४५–४६ ॥
अथ पुण्यवस्तुदर्शनं विधत्ते ।
अग्निचित् कपिला सत्त्री राजा भिक्षुर् महोदधिः ।
दृष्टमात्राः पुनन्त्य् एते तस्मात् पश्येत् तु नित्यशः ॥ १२।४७ ॥
इति।
इष्टकाचयनसंस्कृतेनाग्निना युक्तो ऽग्निचित् । कपिला कपिलवर्णा धेनुः । सत्त्री द्वादशाहम् आरभ्य सहस्रसंवत्सरपर्यन्तेषु सत्त्रेषु यस्य कस्यचित् सत्त्रस्यानुष्ठाता । शास्त्रीयेण मार्गेण प्रजानां पालको राजा । चतुर्थाश्रमस्य यथावत् पालको भिक्षुः । महोदधिर् लवणसमुद्रादिः । एते दृष्टाः सन्तो द्रष्टारं पुनन्ति । कुशहिरण्यादयो द्रष्टव्यविशेषाः पुनन्तो ऽपि धारणादिकम् अपेक्षन्ते । न तु दर्शनमात्रेण पुनन्ति । अतस् तद्वैलक्षण्याय दृष्टमात्राः इत्य् उक्तम् ॥ १२।४७ ॥
रक्षणमात्रेण शुद्धिप्रदान् पदार्थान् आह ।
[३५] अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम् ।
तिलान् कृष्णाजिनं छागं गृहे चैतानि रक्षयेत् ॥ १२।४८ ॥
इति।
“यो ऽश्वत्थः शमीगर्भः” (तैत्ब्र् १।२।८।८) इत्यादिभिर् मन्त्रैः संस्कृतो वह्निम् अन्येनोपयुक्तेः काष्ठविशेषो ऽरणिः । सुमणिः पद्मरागादिः ॥ १२।४८ ॥
अथ गोचर्मदानं विधातुं गोचर्मनिरूपणम् आह ।
गवां शतं सैकवृषं यत्र तिष्ठत्य् अयन्त्रितम् ।
तत् क्षेत्रं दशगुणितं गोचर्म परिकीर्तितम् ॥ १२।४९ ॥
इति।
एकेन वृषेण सहितं गोशतं सैकवृषम् । तच् च गोशतं नियन्त्रणरहितं विश्रामाय यावन्तं भूप्रेदेशम् आक्रम्यावतिष्थते तावद् भूप्रदेशो दशगुणितः सन् गोचर्मशब्देनाभिधाइयते । मनुस् तु प्रकारान्तरम् आह ।
तिर्यग्यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाङ्गुलः ॥
वितस्तिद्वितयं हस्तम् इति स्वायंभुवो ऽब्रवीत् ।
दशहस्तेन दण्डेन त्रिंशद् दण्डं निवर्तनम् ॥
पञ्च चाभ्यधिकं कृत्वा एतत् गोचर्म कीर्तितम् ॥ इति । (म्ध् १२।७–८)
वृद्धमनुः ।
[३६] सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् ।
तान्य् एव दश गोचर्म दाता पापैः प्रमुच्यते ॥ इति । (म्ध् १२।१०)
॥ १२।४९ ॥
पापक्षयकामिनां गोचर्मदानं विधत्ते ।
ब्रह्महत्यादिभिर् मर्त्यो मनोवाक्कायकर्मजैः ।
एतद् गोचर्मदानेन मुच्यते सर्वकिल्बिषैः ॥ १२।५० ॥
इति।
मनोवाक्कायकर्माणि व्यापारस् तेभ्यो जातानि मनोवाक्कायकर्मजानि । न चैतेषां त्रयाणाम् अल्पाधिकभावेन व्यवस्थितानां साधारणो निवृत्तिहेतुर् अयुक्त इति वाच्यम्, अत्यन्तावृतानां मानसानाम् ईषदावृतानां वाचिकानां सकृत्कृतानां कायिकानां च समत्वसंभवात् ॥ १२।५० ॥
[३७] दानस्य फलातिशयहेतुं पात्रविशेषम् आह ।
कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः ।
यद् दानं दीयते तस्मै तद् दानं शुभकारकम् ॥ १२।५१ ॥
इति।
विशेषत इति पदं कुटुम्बित्वादिभिस् त्रिभिः पात्रातिशयविशेषणैः प्रत्येकं संबन्ध्यते । तथा च सति यस्य महत् कुटुम्बं दारिद्र्यं चाधिकं बहुवेदपाठेन श्रोत्रियत्वम् अतिशयितं तादृशाय दीयमानं शुभस्य फलातिशयस्य कारकं भवति ॥ १२।५१ ॥
परकीयभूम्यपहरणे प्रत्यवायाधिक्यम् आह ।
वापीकूपतडागाद्यैर् वाजपेयशतैर् मखैः ।
गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥ १२।५२ ॥
इति।
वाप्यादीनाम् एकैकस्य शुद्धिहेतुत्वं शास्त्रान्तरेषु प्रसिद्धम् । तादृशैर् बहुभिर् अपि न शुध्यतीत्य् उक्तेः प्रत्यवायाधिक्यं प्रतीयते । न च सर्वात्मना शुद्धिर् नास्तीत्य् एवंपरम् इदं [३८] वचनम् । तथा सति सुवर्णस्तेयधर्मेषु संभावितशुद्धिषु मध्ये तत्पाठानुपपत्तेः ॥ १२।५२ ॥
अथ रजस्वलाविषये कंचिद् विशेषम् आह ।
अष्टादशदिनाद् अर्वाक् स्नानम् एव रजस्वला ।
अत ऊर्ध्वं त्रिरात्रं स्याद् उशना मुनिर् अब्रवीत् ॥ १२।५३ ॥
इति।
रजोदर्शनम् आरभ्य चतुर्थे दिवसे स्नाता स्त्री पुनस् तत आरभ्य अष्टादशदिनाद् अर्वाग् रजस्वला भवति चेत् तदा स्नानम् एवाचरेत् । न तु त्रिरात्राशौचं कुर्यात् अष्टादशदिनाद् ऊर्ध्वं रजोदर्शने त्रिरात्राशौचं कर्तव्यम् ॥ १२।५३ ॥
रजस्वलाप्रसङ्गेन बुद्धिस्थानां चाण्डालादीनां व्यवधाने देशपरिमाणम् आह ।
युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् ।
चाण्डालसूतिकोदक्यापतितानाम् अधः क्रमात् ॥ १२।५४ ॥
इति।
अधः क्रमाद् विपरीतक्रमाद् इत्य् अर्थः । ततश् चैवं योजनीयम् । पतितस्य व्यवधानम् एकेन युगेन । उदक्याया युगद्वयेन । सूतिकाया युगत्रयेण । चाण्डालस्य युगचतुष्टयेनेति । युगपरिमाणं लोकव्यवहाराद् अवगन्तव्यम् ॥ १२।५४ ॥
[३९]
उक्तव्यवधानाभावे शुद्धिम् आह ।_
ततः सन्निधिमात्रेण सचैलं स्नानम् आचरेत् ।
स्नात्वावलोकयेत् सूर्यम् अज्ञानात् स्पृशते यै ॥ १२।५५ ॥
इति।
मात्रशब्देन स्पर्शो व्यावर्त्यते । स्पर्शाभावे स्नानम् एव । स्पर्शो ऽपि अकामकृते स्नानं सूर्यावलोकनं च । कामकृते द्वैगुण्यं शुद्ध्यन्तरं वा द्रष्टव्यम् । सङ्कटादिषु सत्य् अपि सन्निधौ स्पर्शाभावे स्नानाभावः, यथासंभवव्यवधानस्य संवर्तेनाभ्युपगतत्वात्,
संकटे विषमे चैव दुर्गे चैवे विशेषतः ।
हट्टपट्टनमार्गे च संभवं तु यथा भवेत् ॥ इति । (संस्म् १८९)
॥ १२।५५ ॥
अथ तडागादौ पशुवत् मुखेन जलपानं निषेधति ।
विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः ।
तोयं पिबति वक्त्रेण श्वयोनौ जायते ध्रुवम् ॥ १२।५६ ॥
इति।
“स्नानानि पञ्च पुण्यानि” (पर्स्म् १२।९) इत्यारभ्य [४०] “श्वयोनौ जायते ध्रुवम्” (पर्स्म् १२।५६) इत्य् एतदन्तेन ग्रन्थसन्दर्भेण यो ऽयम् आचारशेषः प्रतिपादितः तस्य सर्वस्य प्रपञ्चः पूर्वकाण्डे प्रायेण कृत इति नात्र पुनः प्रपञ्च्यते । न चैवं सति पुनरुक्तिः शङ्कनीया । मूलवचनेषु तत्र संगृहीतार्थस्यात्र विवृतत्वात् ॥ १२।५६ ॥
अथ प्रायश्चित्तकाण्डशेषः ।
तत्र केनचिन् निमित्तेन शपथम् उल्लङ्घितवतः प्रायश्चित्तम् आह ।
यस् तु क्रुद्धः पुमान् ब्रूयाज् जायायास् तु अगम्यताम् ।
पुनर् इच्छति चेद् एनां विप्रमध्ये तु श्रावयेत् ॥ १२।५७ ॥
श्रान्तः क्रुद्धस् तमोन्धो वा क्षुत्पिपासाभयार्दितः ।
दानं पुण्यम् अकृत्वा तु प्रायश्चित्तं दिनत्रयम् ॥ १२।५८ ॥
उपस्पृशेत् त्रिषवणं महानद्युपसंगमे ।
**चीर्णान्ते चैव गां दद्याद् ब्राह्मणान् भोजयेद् दश ॥ १२।५९ ॥ **
इति । यः केनचिन् निमित्तेन क्रुद्धः सन् स्वभार्याया अगम्यतां प्रतिजानीयात् – “अतः परं त्वां न गमिष्यामि । त्वं मम माता भगिनीति” । पुनर् अपि कालान्तरे क्रोधोपशमे सति एनां गन्तुं यदीच्छति [४१] तदा पर्षदग्रे स्वकीयं पापं विनिवेदयेत् ।
“अहं शपथप्रतिज्ञावेलायां ग्रामान्तरगमनेन गृहव्यापारेण वा श्रान्त आसम् । मदीये वचस्य् उल्लङ्घिते सति क्रुद्धो ऽभूवम् । तस्या अपराधाभावे ऽपि तमसा भ्रान्त्या अन्धः परामर्शरहितो ऽभूवम् । क्षुधा पिपासया राजादिभयेन वा पीषित आसम् । अत एवमादिदोषप्रयुक्तम् इदम् अगम्यताप्रतिज्ञानम् । न तु विवेकपूवकम् । तस्माद् अस्य पापस्य प्रायश्चित्तम् अनुगृह्णन्तु भवन्त”
इति । यस् तु दानं करिष्यामीति शपथपूर्वं प्रतिज्ञाय तयैवाशया समागताय ब्राह्मणाय किम् अपि न प्रयच्छति, तथा काशीयात्रादिकं संकल्प्य यथा कथंचित् किंचित् दूरं गत्वा पश्चाद् अश्रद्धां प्राप्तस् तत् पुण्यं न करोति तेष्व् एतेषु त्रिषु निमित्तेषु विप्रैर् निर्दिष्टम् इदं प्रायश्चित्तम् आचरितव्यम् । द्वयोर् महानद्योः सङ्गमे गत्वा त्रिषवणस्नानपूर्वकं त्रिरात्रोपवासं कुर्यात् । चतुर्थदिने गां दद्यात् दश् ब्राह्मणांश् च भोजयेत् । एतेष्व् आद्यनिमित्तेषु वर्णभेदेन प्रायश्चित्तम् आह यमः ।
स्वभार्या तु यदा क्रोधाद् अगम्येति च यो वदेत् ।
प्राजापत्यं चरेद् विप्रः क्षत्रियो दिवसान् नव ॥
षड्रात्रं तु चरेद् वैश्यस् त्रिरात्रं शूद्र आचरेत् ॥ इति । (यस्म् ६।१३)
“एतस्य कार्यस्याकरणे चतुर्षु वर्णेषु अन्यतमं हतवान् [४२] अस्मि” – इति शपथं कृत्वा यस् तत् कार्यं न करोति तस्य प्रायश्चित्तं यम एव आह ।
विप्रस्य वधसंउयुक्तं कृत्वा तु शपथं नृपः ।
ब्रह्महा यावकान्नेन व्रतं चान्द्रायणं चरेत् ॥
क्षत्रियस्य पराकं तु प्राजापत्यं चरेद् द्विजः ।
वृषलस्य त्रिरात्रं तु व्रतं शूद्रहणश् चरेत् ॥
केचिद् आहुर् अपापं तु वृषलस्य वधं मृषा ।
नैतन् मम मतं यस्मात् तद्धस्तेन भवत्य् असौ ॥ इति । (यस्म् ६।१६–१८)
मनुर् अप्य् अनृतप्रायश्चित्तम् आह ।
वाग्दैवतैस् तु चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥
[४३] कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन च ॥ इति । (म्ध् ८।१०५–०६)
प्रजापतिः ।
अनृती सोमपः कुर्यात् त्रिरात्रं परमं तपः ।
पूर्णाहुतिं वा जुहुयात् सप्तवत्या घृतेन तु ॥ इति ।
प्रतिश्रुत्यानृतोक्तौ हारीत आह ।
प्रतिश्रुत्यानृतं ब्रूयान् मिथ्या सत्यम् अथापि वा ।
स तप्तकृच्छ्रसहितं चरेच् चान्द्रायणं व्रतम् ॥ इति ।
ब्रह्मचारिविषये गर्ग आह ।
त्रिरात्रम् एकरात्रं वा अनृतोक्तौ व्रतं चरेत् ।
मासं भुक्त्वा ब्रह्मचारी पुनःसंस्कारम् आचरेत् ॥
[४४] अभ्यासे चैन्दवं प्रोक्तं नैष्ठिको द्विगुणं चरेत् ।
वनस्थस् त्रिगुणं कुर्याद् यतिः कुर्याच् चतुर्गुणम् ॥
मांसाशने ऽनृतोक्तौ च शवनिर्हरणे तथा ॥ इति ।
क्वचित् तु निमित्तविशेषे अनृतम् अपि बुद्धिपूर्वं वक्तव्यम् । तद् आह याज्ञवल्क्यः ।
वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् ।
तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ इति । (यस्म् २।८३)
सत्याभिभाषणे गुरुतरपापस्य वर्णिवधस्य निमित्तता प्रसज्ज्येत । तत् पापं मा भूद् इति स्वल्पपापम् अनृतम् अपि वक्तव्यम् । तस्य शुद्धये सारस्वतश् चरुर् निर्वाप्यः । वर्णिवधवद् आत्मवधप्राप्ताव् अपि अनृतं वदेत् । तद् आह व्याघ्रः ।
यत्रोक्ताव् आत्मनः पीडा नितान्तं तु भवेद् यदि ।
तत्र वक्तव्यम् अनृतं व्याघ्रस्य वचनं यथा ॥ इति ॥
॥ १२।५७–५९ ॥
[४५]
दुर्ब्राह्मणगृहभोजने प्रायश्चित्तम् आह ।
दुराचारस्य विप्रस्य निषिद्धाचरणस्य च ।
**अन्नं भुक्त्वा द्विजः कुर्याद् दिनम् एकम् अभोजनम् ॥ १२।६० ॥ **
इति । दुराचारत्वं विहिताननुष्ठानम् । यो विप्रो विहितं नानुतिष्ठति निषिद्धं त्व् आचरति तस्य गृहे भुक्त्वा दिनम् एकम् उपवसेत् ॥ १२।६० ॥
तदशक्तौ प्रायश्चित्तान्तरम् आह ।
सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः ।
भुक्त्वान्नं मुच्यते पापाद् अहोरात्रान्तरान् नरः॥ १२।६१ ॥
इति । एकस्मिन् दिने सकृद् असकृद् वा दुर्ब्राह्मणगृहे भोजनेन यत् कृतं पापं तस्य सदाचारविप्रस्य वेदान्तिगृहे वा भोजनेन शुद्धिः । यद् वा एकस्मिन् दिने संप्राप्तं यत् पिपीलिकावधादिक्षुद्रपापजातं तत् सर्वं विशिष्टान्नभोजनेन विशुध्यति । पवित्रगृहान्नभोजनेन पापविशुद्धिं बौधायनो ऽप्य् आह ।
[४६] भैक्ष्याहारो ऽग्निहोत्रिभ्यो मासेनैकेन शुध्यति ।
यायावरवनस्थेभ्यो दशभिः पञ्चभिर् दिनैः ॥
एकाहधनिनो ऽन्नेन दिनेनैकेन शुध्यति ।
कपोतव्रतनिष्ठस्य पीत्वापः शुध्यते त्रिभिः ॥ इति । (ब्ध् ४।५।२७–२८)
॥ ६१ ॥
मरणकालोपहतेः प्रायश्चित्तम् आह ।
ऊर्ध्वोच्छिष्टम् अधोच्छिष्टम् अन्तरिक्षम् ऋतौ तथा।
कृच्छ्रत्रयं प्रकुर्वीत अशौचमरणे तथा॥ १२।६२ ॥
इति।
मरणकाले वान्त्यादिकम् ऊर्ध्वोच्छिष्टं मूत्रादिकम् अधोच्छिष्टम् । तयोर् अन्यतरद् यदा संपद्यते तदा संस्कर्ता पुत्रादिर् धनादिना प्रत्याम्नायेन प्राजापत्यत्रयं कुर्यात् । मचकादौ मरणम् अन्तरिक्षमृतिः । रजस्वलासूतिकामरणम् अशौचमरणम् । तस्मिन् द्विविधे ऽपि मरणे कृच्छ्रत्रयं कुर्यात् ॥ १२।६२ ॥
प्राजापत्यकृच्छ्रस्य चतुरः प्रत्याम्नायान् आह ।
[४७] कृच्छ्रं देव्ययुतं चैव प्राणायामशतद्वयम् ।
पुण्यतीर्थे ऽनार्द्रशिरःस्नानं द्वादशसंख्यया ॥ १२।६३ ॥
द्वियोजने तीर्थयात्रा कृच्छ्रमेकं प्रकल्पितम् । इति ।
देवी गायत्री । तस्या अयुतसंख्याको जपो देव्ययुतम् । स एकः प्रत्याम्नायः । प्राणायामानां शतद्वयं द्वितीयः प्रत्याम्न्यायः । अनार्द्रं शिरो यस्यासाव् अनार्द्रशिरास् तस्य स्नानम् अनार्द्रशिरःस्नानम् । सकृत् स्नात्वा तदङ्गानुष्ठानं च विधाय केशान् शोषयित्वा ततो द्वितीयं स्नानम् आचरेत् । एवंविधं स्नानद्वादशकं पुण्यतीर्थे कृतं तृतीयः प्रत्याम्नायः । पुण्यतीर्थम् उद्दिश्य योजनद्वयगमनं चतुर्थः । तथोदकवासादयो ऽपि प्रत्याम्नाया अवगन्तव्याः । तद् उक्तं चतुर्विंशतिमते ।
कृच्छ्रो ऽयुतं च गायत्र्या उदवासस् तथैव च ।
धेनुप्रदानं विप्राय समम् एतच् चतुष्टयम् ॥
तिलहोमसहस्रं तु वेदस्याध्यायम् एव च ।
विप्रा द्वादश वा भोज्याः पावकेष्टिस् तथैव च ॥
अन्यानि वा पवित्राणि समान्य् आहुर् मनीषिणः । इति ॥ १२।६३ ॥
अथ रेतःस्खलनप्रायश्चित्तम् आह ।
[४८] गृहस्थः कामतः कुर्याद् रेतःस्खलनं भुवि ॥ १२।६४ ॥
सहस्रं तु जपेद् देव्याः प्राणायामैस् त्रिभिः सह । इति ।
अकामकृते याज्ञवल्क्य आह ।
यन् मे ऽद्य रेत इत्य् आभ्यां स्कन्नं रेतो ऽभिमन्त्रयेत् ।
स्तनान्तरे भ्रुवोर् मध्ये तेनानासिकया स्पृशेत् ॥ इति । (य्ध् ३।२७८)
“यन् मे ऽद्य रेतः” (तैता १।३०।२) इत्य् एकस्या ऋचः प्रतीकम् इदम् । “पुनर् माम् ऐत्व् इन्द्रियम्” (तैता १।३०।२) इत्य् उपरितनो मन्त्रस् ताभ्यां मन्त्राभ्याम् अनासिकया रेत आदाय स्तनयोर् भ्रुवयोर् वा मध्यम् उपस्पृशेत् । यतीनां वनवासिनां च प्रत्नोत्सर्गे कण्वोक्तं द्रष्टव्यम् ।
यत्नोत्सर्गं गृही कृत्वा वारुणीभिर् उपस्पृशेत् ।
वानप्रस्थो यतिश् चैव चरेच् चान्द्रायणव्रतम् ॥
[४९] इति । स्वप्ने तु काश्यप आह ।
सूर्यस्य त्रिर् नमस्कारं स्वप्ने सिक्त्वा गृही चरेत् ।
वानप्रस्थो यतिश् चैव त्रिः कुर्याद् अघमर्षणम् ॥ इति । (काश्स्म् ६।११)
ब्रह्मचारिणं प्रति मनुर् आह ।
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ इति । (म्ध् २।१८१)
भयादौ प्रजापतिर् आह ।
भये रोगे तथा स्वप्ने सिक्त्वा शुक्रम् अकामतः ।
आदित्यम् अर्चयित्वा तु पुनर् माम् इत्य् ऋचं जपेत् ॥ इति । (प्रस्म् ३।१९)
नैष्ठिकस्य हारीत आह ।
उपकुर्वाणस् तु यत् कुर्यात् कामतो ऽकामतो ऽपि वा ।
तद् एव द्विगुणं कुर्याद् ब्रह्मचारी च नैष्ठिकः ॥ इति ॥ १२।६४ ॥
अथ ब्रह्मवधस्य महापतकस्य प्रयश्चित्तम् आह ।
[५०] चतुर्विद्योपपन्नस् तु विधिवद् ब्रह्मघातके ॥ १२।६५ ॥
समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् । इति ।
ऋग्वेदादयश् चतस्रो वेदाश् चतुर्विद्याः । ताभिर् उपपन्नस् तदध्ययनानुष्ठानवान् । एतेन “चातुर्वैद्यो विकल्पी च” (अङ्स्म् ३।१९) इत्यादिर् अङ्गिरसा प्रोक्ता सर्वा परिषद् उपलक्ष्यते । समुद्रे दाशरथिना बद्धः सेतुः समुद्रसेतुः । तद्यात्रां ब्राह्मणघातके पुरुषे यथाविध्यनुष्ठेयत्वेन निर्दिशेत् ॥ १२।६५ ॥
विधिवद् इत्य् उक्तम् । को ऽसौ विधिर् इत्याकाङ्क्षया तदितिकर्तव्यताम् आह ।
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाचरेत् ॥ १२।६६ ॥
वर्जयित्वा विकर्मस्थान् छत्रोपानद्विवर्जितः । इति ।
चतुर्णां वर्णानां यानि कर्माणि शास्त्रविहितानि तेभ्यो विरुद्धानि विकर्माणि तेषु तात्पर्येण तिष्ठन्तीति विकर्मस्थाः । तान् वर्जयित्वा यथाशास्त्रं वर्तमानाच् चातुर्वर्ण्यात् सेतुबन्धमार्गे भिक्षां चरेत् । छत्रोपानद्विवर्जित इति न केवलं भिक्षावेलायाम् । किं तु मार्गगमने ऽपि द्रष्टव्यम् ॥ १२।६६ ॥
[५१]
भिक्षमाणेन वक्तव्यम् उक्तिप्रकारम् आह ।
अहं दुष्कृतकर्मा वै महापातककारकः ॥ १२।६७ ॥
गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः । इति ।
पापप्रख्यापनस्य प्रायश्चित्ताङ्गत्वात् प्रतिभिक्षागृहम् अहं दुष्कृतकर्मेत्यादिवाक्येन स्वपापं प्रख्यापयेत् । अप्रख्यापने बाधम् आह अङ्गिराः ।
कृत्वा पापं न गूहेत गूह्यमानं विवर्धते । इति । (अङ्स्म् १।४७)
दुष्कृतकर्मा, महापातककारको, ब्रह्मघातक इति पदत्रयस्य महासामान्यावान्तरसामान्यतद्विशेषवाचित्वाद् अपुनरुक्तिः ॥ १२।६७ ॥
अध्वश्रान्तस्यावस्थातुं देशविशेषम् आह ।
गोकुलेषु वसेच् चैव ग्रामेषु नगरेषु च ॥ १२।६८ ॥
तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु वा । इति ।
बहूनां गवां ग्रामे स्थापयितुम् अशक्यत्वेनारण्ये स्थापनाय कल्पितो व्रजप्रदेशो गोकुलम् । यत्र व्याघ्रादिभयात् ग्रामाद् बहिर् निवासो ऽशक्यः । तत्र ग्रामे नगरे वा प्रविश्य [५२] गोशालादेवायतनादौ पुण्यप्रदेशे निवसेत् । असति तु व्याघ्रादिभ्यो भये तपोवनादिषु निवसेत् । नदीप्रस्रवणेभ्यो ऽन्यानि तीर्थानि पम्पासरोवरादीनि ॥ १२।६८ ॥
न केवलं भिक्षागृहेष्व् एव पापप्रख्यापनम् । किं तु निवासस्थानेष्व् अपीत्य् आह ।
एतेषु ख्यापयन्न् एनः पुण्यं गत्वा तु सागरम् ॥ १२।६९ ॥
दशयोजनविस्तीर्णं शतयोजनम् आयतम् ।
रामचन्द्रसमादिष्टनलसंचयसंचितम् ॥ १२।७० ॥
सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति । इति ।
यथोकप्रकारेण पापप्रख्यापनपुरःसरं यात्रां कृत्वा सेतौ दृष्टे सति तत् पापक्षयः
॥ १२।६९–७० ॥
सेतुदर्शनानन्तरकर्तव्यम् आह ।
सेतुं दृष्ट्वा विशुद्धात्मा त्व् अवगाहेत सागरम् ॥ १२।७१ ॥
[५३] इति । स्पष्टो ऽर्थः ॥ १२।७१ ॥
सेतुं द्रष्टुम् अश्क्नुवतो भूपतेः पक्षान्तरम् आह ।
यजेत वाश्वमेधेन राजा तु पृथिवीपतिः । इति ।
अश्वमेधे ऽप्य् अशक्तस्य तदुपासनं वेदितव्यम् । तथा च तैत्तिरीयब्राह्मणे श्रूयते- “सर्वं वा एतेन पाप्मानं देवा अतरन्न् अपि वा एतेन ब्रह्महत्याम् अतरन् सर्वं पाप्मानं तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनम् एवं वेद” इति (त्स् ५।३।१२।१।२) । तदुपासनं च “उषा वा अश्वस्य” (त्स् ७।६।२५।१) [५४] इत्यादौ वाजसनेयिब्राह्मणे तैत्तिरीयब्राह्मणे च प्रपञ्चितम् ॥ १२।७२ ॥
सेतुयात्रां समाप्य पुनः प्रत्यागतस्य कर्तव्यम् आह ।
पुनः प्रत्यागतो वेश्मवासार्थम् उपसर्पति ॥ १२।७२ ॥
सपुत्रः सह भृत्यैश् च कुर्याद् ब्राह्मणभोजनम् ।
गाश् चैवैकशतं दद्याच् चतुर्विद्येषु दक्षिणाम् ॥ १२।७३ ॥
ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते । इति ।
ब्राह्मणानां प्रसादो नाम – विपापो विशुद्धस् त्वम् असीत्य् एवमाद्युक्तिः । इदं च व्रतं गुणविहीनस्य ब्राह्मणस्य वधे द्रष्टव्यम् । अस्मिन्न् एव विषये व्रतान्तरम् आह याज्ञवल्क्यः ।
पात्रे धनं वा पर्याप्तं दत्वा शुद्धिम् अवाप्नुयात् । इति । (य्ध् ३।२५०)
विद्यातपोयुक्ते पात्रे गोभूहिरण्यादिकं जीवनोपायपर्याप्तं दद्यात् । वाशब्देन सर्वस्वं सपरिच्छेदं वा गृहं दद्यात् । तद् आह मनुः ।
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ इति । (म्ध् ११।७६)
अपुत्रस्य सर्वस्वदानं पुत्रवतः सपरिच्छदं गृहदानम् इति व्यवस्था ॥ १२।७२–७३ ॥
अथान्यमुनिप्रणीतानां व्रतविशेषाणां व्यवस्थां वर्णयामः । तत्र याज्ञवल्क्यः ।
शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात् ॥ इति । (य्ध् ३।२४३)
स्वव्यापादितब्राह्मणशिरःकपालध्वजवान्, “कृत्वा शवशिरोध्वजम्” (म्ध् ११।७२) इति मनुस्मरणाच् च, “ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालम् आदाय तीर्थान्य् अनुसंचरेत्” (शास्म् ५।२६) [५६] इति शातातपस्मरणाच् च । एतद् उभयं पाणिनैव ग्राह्यम्, “खट्वाङ्गकपालपाणिः” (ग्ध् २२।४) इति गौतमस्मरणात् । खट्वाङ्गशब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते । भिक्षार्थं त्व् अन्येद् एव मृत्कपालं ग्राह्यम्, “मृण्मयकपालपाणिर् भिक्षायै ग्रामं प्रविशेत्” (ग्ध् २२।६) इति गौतमस्मरणात् । तथा शङ्खो ऽपि- “ब्रह्महा परिषदानुमतः खट्वाङ्गी गर्दभाजिनो मृण्मयपात्रपतितशिष्टान्नभोजी स्वकर्म विख्यापयन् चरेद् भैक्ष्यम् एककालाहारः । शून्यागारनदी-[५७]-पर्वतवृक्षमूलगुहानिकेतनः स एवं द्वादशे वर्षे शुद्धिम् आप्नोति” इति (शङ्स्म् १६।९) । वनादिवासिना तेन भवितव्यम् । यथाह मनुः ।
ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।
कृतवापनो वा निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा सर्वभूतहिते रतः ॥ इति । (म्ध् ११।७२, ७८)
“कृतवापनो वा” इति वाशब्देन जटाधारणेन सह विकल्पो ऽवगम्येत् । अत एव संवर्तः- “ब्रह्महा द्वादशाब्दानि वालवासा जटी ध्वजी” इति (संस्म् १०९) । लोहितमृण्मयखण्डशरावेण भिक्षा ग्राह्या । तथा च आपस्तम्बः- [५८] “लोहितकेन मृण्मयकण्डशरावेण भिक्षायै ग्रामं प्रविशेत्” इति (आप्ध् १।९।२४।१४) । अत्र मृष्टं लभ्यत इति संकल्पम् अकृत्वा भैक्ष्यम् आचरेत् । तद् आह वसिष्ठः- “सप्तागाराण्य् असंकल्पितानि चरेद् भैक्ष्यम् एककालाहारः” इति (वध् २१।९) । इदं च भैक्ष्यम् अशक्तविषयम् । तथा च संवर्तः ।
ब्रह्मघ्नस् तु गच्छेद् वनवासी जटी ध्वजी ।
वन्यान्य् एव फलान्य् अश्नन् सर्वकामविवर्जितः ॥
भिक्षार्थी विचरेद् ग्रामं वन्यैर् यदि न जीवति ।
चातुर्वर्ण्यं चरेद् भैक्ष्यं खट्वाक्गी संयतः पुनः ॥
भैक्ष्यं चैव समादाय वनं गच्छेत् ततः पुनः ।
वनवासी ह्य् अपः स्पृश्येत् सदाकालम् अतन्द्रितः ॥
ख्यापयन्न् आत्मनः पापं ब्रह्मघ्नः पापकृत्तमः ।
अनेन तु विधानेन द्वादशाब्दं व्रतं चरेत् ॥ (संस्म् १०९–१२)
[५९] इति । नियमान्तराण्य् आह यमः ।
अथ वै ब्रह्महत्यायां खट्वाङ्गी मितभोजनी ।
मृण्मयेन कपालेन स्वकर्म श्रावयंस् तथा ॥
ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।
शोचन् विनिन्दन्न् आत्मानं संस्मरन् ब्राह्मणं च तम् ॥
चरेद् व्रतं यथोद्दिष्टं देवब्राह्मणपूजकः ।
एवं दृढव्रतो नित्यं सत्यवादी जितेन्द्रियः ॥
सप्तागाराण्य् अपूर्वाणि यान्य् असंकल्पितानि च ।
संचरेत् तानि शनकैर् विधूमे भुक्तिवर्जिते ॥
ब्रह्मघ्ने देहि मे भिक्षाम् एनो विख्याप्य संचरेत् ।
एककालं चरेद् भैक्ष्यम् अलब्ध्वोपवसेद् दिनम् ॥
एवं संचरमाणस् तु ब्रह्महत्यां ब्रुवन् सदा ।
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ इति । (यस्म् ६।२१–२६)
ब्रह्मचर्यादिनियमम् आह गौतमः- “खट्वाङ्गकपालपाणिर् वा द्वादशसंवत्सरान् ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत् कर्माचक्षानः । [६०] यथोपक्रामेत् संदर्शनाद् आर्यस्य । स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शी शुध्येत्” इति (ग्ध् २२।४–६) । काश्यपो ऽपि ।
पवित्रपाणिर् दण्डी च पङ्कदन्तो रजस्वलः ।
तीर्थवासी कुशाच्छादी जटिलो ब्रह्महा भवेत् ॥ इति । (काश्स्म् ३।१४)
इयं विशुद्धिर् अकामकृतब्राह्मणवधविषया । तथा च मनुर् एतद् द्वादशवार्षिकम् उपक्रम्य बहूनि व्रतान्य् अभिधायान्ते निगमयति ।
इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ इति । (म्ध् ११।८९)
आवृत्तब्रह्मवधे चतुर्थात् प्राग् व्रतम् अप्य् आवर्तनीयम् । तद् आहतुर् मनु-देवलौ ।
वधेः प्राथमिकाद् अस्माद् द्वितीये द्विगुणं चरेत् ।
तृतीये त्रिगुणं चैव चतुर्थे नास्ति निष्कृतिः ॥
[६१] इति ।
यत् स्याद् अनभिसंधाय पापं कर्म सकृत्कृतम् ।
तस्येयं निष्कृतिर् दृष्टा धर्मविद्भिर् मनीषिभिः ॥ इति ।
तद् एतद् देवलेन सकृदनुष्ठानस्य सकृत्कृतपापविषयत्वाभिधानात् । “प्रतिनिमित्तं नैमित्तिकम् आवर्तनीयम्” इति न्यायाच् चावृत्तौ द्वैगुण्यादिसिद्धिः । यस् तु न साक्षाद् ब्राह्मणं हन्ति किं तु तिरस्कारादिद्वारात् तन्निमित्तताम् आपद्यते तं प्रति सुमन्तुर् आह ।
तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि ।
निर्गुणः सहसा क्रोधाद् गृहक्षेत्रादिकारणात् ॥
त्रैवार्षिकं व्रतं कुर्यात् प्रतिलोम सरस्वतीम् ।
गच्छेद् वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥
[६२] इति । निर्निमित्तं भर्त्सने स एव आह ।
अत्यर्थं निर्गुणो विप्रो ह्य् अत्यर्थं निर्गुणोपरि ।
क्रोधाद् वै म्रियते यस् तु निर्निमित्तं तु भर्त्सितः ॥
वत्सरत्रितयं कुर्यात् ततः कृच्छ्रं विशुद्धये ॥ इति ।
यदा पुनर् निमित्ती अत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणः तद् एकवर्षम् एव ब्रह्महत्याव्रतं कुर्यात्,
केशश्मश्रुनखादीनाम् अकृत्वा वपनं वने ।
ब्रह्मचर्यं चरन् विप्रो वर्षेणैकेन शुध्यति ॥
इति तेनैवाभिधानात् । यथा हन्ता प्रायश्चित्ती यथा वा निमित्ती तथैवानुमन्त्रादयो ऽपि प्रायश्चित्तभाजः । तथा च पैठीनसिः ।
हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः ।
प्रोत्साहकः सहायश् च तथा मार्गोपदेशकः ॥
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणः ।
उपेक्षकः शक्तिमांश् चेद् दोषवक्तानुमोदकः ॥
[६३] अकार्यकारिणस् तेषां प्रायश्चित्तं प्रकल्पयेत् ।
तथा शक्त्यनुरूपं च दण्डं तेषां प्रकल्पयेत् ॥ इति ।
एतेषां मध्ये यो यो वधस्य प्रत्यासन्नस् तस्य तस्याधिकं प्रायश्चित्तम् । विप्रकृष्टस्य तदपेक्षया न्यूनं प्रायश्चित्तं प्रकल्पनीयम् । साक्षात्कर्तुर् अपि वयोविशेषे प्रायश्चित्तस्य ह्रासो भवति । तद् आह यमः ।
अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति व्याधितश् च तथा स्त्रियम् ॥ इति । (यस्म् ६।४१)
क्वचित् कर्तुः प्रतिनिधिम् आह स एव ।
अपूर्णैकादशाब्दस्य चतुर्वर्षाधिकस्य च ।
प्रायश्चित्तं चरेद् ब्राता पितान्यो वाथ बान्धवः ॥ (यस्म् ६।३)
[६४] इति । यत् तु तेनैवोकम्,
अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं च नेष्यते ॥ (यस्म् ६।४)
इति, तत् प्रायश्चित्ताल्पत्वाभिप्रायम् । न पुनः सर्वात्मना तदभावप्रतिपादनपरम्,
पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः । (विध् १।४६)
इति विष्नुना बालस्य पादाभिधानेन बालतरस्य ततो ऽप्य् अल्पत्वावगमात् । यद् वा मा भूद् बालतरस्य पापम्, वचनेन साक्षान् निवारणात् । न ह्य् अस्ति वचनस्यातिभारः । यत् तु पुनर् मध्यमाङ्गिरोवचनम्,
गवां सहस्रं विधिवत् पात्रेभ्यः प्रतिपादयेत् ।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव सः ॥ (अङ्स्म् २।३६)
[६५] इति, तच् च
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् । (यस्म् ३।२५२)
इत्य् एतद्वाक्यविहितद्विगुणव्रताचरणाशक्तस्य वेदितव्यम्, प्रायश्चित्तस्यातिगुरुत्वात् । यद् अपि शङ्खवचनम्- “प्रमाप्य द्वादश् संवत्सरान् षट् त्रीन् सार्धं संवत्सरं च व्रतान्य् आदिशेत् । तेषाम् अन्ते गोसहस्रं तस्यार्धम् अर्धं च दद्यात् । सर्वेषां वर्णानाम् आनुपूर्व्येण” इति, तद् आचार्यादिहननविषयम् । तथा च दक्षः ।
समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
आचार्ये शतसाहस्रं सोदर्ये दत्तम् अक्षयम् ॥
समद्विगुणसाहस्रम् आनन्त्यं च यथाक्रमम् ।
दाने फलविशेषः स्यात् हिंसायां तद्वद् एव हि ॥ इति । (दस्म् ३।२५–२६)
यत् पुनर् आपस्तन्बेनोक्तम्- “विप्रहारण्ये कुटीं कृत्वा वाग्यतः शविशिरोध्वजः शाणीपक्षः आत्मन्य् उपरि जान्वाच्छादयेत्” (आप्ध् १।९।२४।११) [६६] इत्य् उपक्रम्य, “हत्वा श्रोत्रियं वा एतद् एव व्रतम् ओत्तमाद् उच्छ्वासाच् चरेत् । नास्मिंल् लोके प्रत्यापत्तिर् विद्यते” (आप्ध् १।९।२४–२५) इति, तन् मातापित्राचार्यादिविषयम् । तथा च भविष्यत्पुराणे,
मातरं पितरं हत्वा सोदर्यं भ्रातरं तथा ।
गुरुं हत्वा श्रोत्रियं च ……………………… ॥
इत्य् उपक्रम्य अस्यैव प्रायश्चित्तस्य विधानात् । शाणीपक्षः शाणसूत्रमयवस्त्रैकदेशः । आ उत्तमाद् उच्छ्वासात् आ मरणात् । प्रत्यापत्त्तिः व्यवहारः । अत्राशक्तस्य शङ्ख आह- “प्रमाप्य द्वादशसंवत्सरान् षट् त्रीन् सार्धं संवत्सरं च व्रताण्य् आदिशेत् । तेषाम् अन्ते गोसहस्रं तदर्धं तस्यार्धम् अर्धं च दद्यात् । सर्वेषां वर्णानाम् आनुपूर्व्येण” इति । “एतद् एव व्रतम् ओत्तमाद् उच्छ्वासाच् चरेत्” इति अत्रासमर्थो द्वादशवार्षिकव्रचर्यानन्तरं गोसहस्रदानं कुर्यात् । तत्राप्य् अशक्तस्य षड्वार्षिकव्रतचर्यानन्तरम् अर्धं गवां सहस्रम् । तत्राप्य् अशक्तस्य त्रिवार्षिकव्रचर्यानन्तरं सार्धशतद्वयं [६७] गवाम् । तत्राप्य् अशक्तस्य सार्धसंवत्सरव्रचर्या । अनन्तरं पञ्चविंशत्युत्तरशतम् इति सर्ववर्णानां शक्त्यनुसारेण आनुपूर्व्येण क्रमेण द्वादशवारिषिकादिगोसहस्रादीनां समुच्चयो भवति । एतच् च पूर्वोक्तविषय एव कल्पनीयम् । प्रायश्चित्तस्यातिगुरुत्वात् ।
ननु – द्वादशवार्षिकादिव्रतचतुष्टयं गोसहस्रादिदानचतुष्टयसहितम् अभिधाय, “सर्वेषां वर्णानाम् आनुपूर्व्येण” इत्य् अभिधानात् ब्राह्मणादिवर्णचतुष्टयस्य क्रमेण व्रतचतुष्टयविधानं किम् इति न स्यात् ।
मैवम् –
पर्षद् या ब्राह्मणानां तु सा राज्ञां द्विगुणा भवेत् ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥ (अङ्स्म् ३।१६)
इति । तथा,
शूद्रो वा ब्राह्मणं हत्वा प्रायश्चित्तचतुष्टयम् ।
इति यथाक्रमम् अङ्गिरो-भविष्यत्पुराणवचनाभ्यां ब्राह्मणापेक्षया इतरवर्णानाम् अधिकप्रायश्चित्तविधानात् । तस्माद् अस्मदुक्तैव व्यवस्था ज्यायसी इति ।
ननु – एवं वचनान्तरं साक्षित्वेनोदाहृत्य यत्र विशेषव्यवथोच्यते तत्र सास्तु । यत्र त्व् अन्तरेणैव वचनान्तरं व्यवस्थोच्यते तत्र स्वकपोलकल्पिता कथं श्रद्धेया – इति चेत् ।
मैवम्, स्मृतिकारैर् एव कल्पनीयाभिधानात् । तथा च देवलः ।
[६८] जातिशक्तिगुणापेक्षं सकृद् बुद्धिकृतं तथा ।
अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥ इति ।
यद् इदं द्वादशवार्षिकं ब्रह्महत्याव्रतं तद् द्वादशे वर्षे संपूर्णे वा समापनीयम् अर्वाग् वा ब्राह्मणत्राणादिनिमित्तलाभे । तथा च शङ्खः- “द्वादशे वर्षे शुद्धिम् आप्नोति । अन्तरा वा ब्राह्मणं मोचयित्वा । गवां द्वादशानां परित्राणात् । सद्य एवाश्वमेधावभृथस्नानाद् वा पूतो भवति” इति । एवं च सति यद् याज्ञवल्क्येनोक्तम्,
ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य वा ।
तथाश्वमेधावभृथस्नानाद् वा शुद्धिम् आप्नुयात् ॥
दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः ॥
आनीय विप्रसर्वस्वं हृतं घातित एव वा ।
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि न दुष्यति ॥ (य्ध् ३।२४४–४६)
इति, न तद् व्रतान्तराभिप्रायम् । किं तु समाप्तिकथनाभिप्रायम् । व्रतान्तराणि तु मनुर् आह ।
लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः ।
प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ॥
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥
जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् ।
ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥
[७०] हविष्यभुग् वानुचरेत् प्रतिस्रोतः सरस्वतीम् ।
जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् ॥ इति । (म्ध् ११।७३–७७)
एते सर्वे पक्षाः कामकाराकामकारविद्वदविद्वद्विषयत्वेन व्यवस्थापनीयाः । कामकृतात्यन्ताभ्यासे तु याज्ञवल्क्य आह ।
लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम् ।
मज्जान्तं जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥ (य्ध् ३।२४७)
[७१] इति । तत्राष्टौ मन्त्रान् आह वसिष्ठः ।
लोमानि मृत्योर् जुहोमि लोमभिर् मृत्युं वासये । इति प्रथमाम् ।
त्वचं मृत्योर् जुहोमि त्वचा मृत्युं वासये । इति द्वितीयाम् ।
लोहितं मृत्योर् जुहोमि लोहितेन मृत्युं वासये । इति तृतीयाम् ।
मांसं मृत्योर् जुहोमि मांसेन मृत्युं वासये । इति चतुर्थीम् ।
मेदो मृत्योर् जुहोमि मेदसा मृत्युं वासये । इति पञ्चमीम् ।
स्नायुं मृत्योर् जुहोमि स्नाय्वा मृत्युं वासये । इति षष्ठीम् ।
[७२] अस्थीनि मृत्योर् जुहोमि अस्थिभिर् मृत्युं वासये । इति सप्तमीम् ।
मज्जानं मृत्योर् जुहोमि मज्जाभिर् मृत्युं वासये । इति षष्टमीम् । (वध् २०।२६)
इति । मरणान्तिकस्येदृशस्य सर्वस्य व्रतस्य कामकारविषयत्वं मध्यमाङ्गिरा आह ।
प्राणान्तिकं च यत् प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत् कामकारविषयं विज्ञेयं नत्र संशयः ॥
यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य शुद्धिर् निर्दिष्टा भृग्वग्निपतनाद् ऋते ॥ इति ।
यत् तु सुमन्तुनोक्तम्- “ब्रह्महा संवत्सरं कृच्छ्रं चरेत् । अधःशायी त्रिषवणस्नायी कर्मावेदको भैक्ष्याहारो दिव्यनदीपुलिनसङ्गमाश्रमगोष्ठपर्वतप्रस्रवणतपोवन-विहारी स्यात् स्थानवीरासनी । संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसर्पींषि ब्राह्मण्ēभ्यो ददन् पूतो भवति” [७३] इति, तद् अपहन्तुर् मूर्खस्य धनवतो जातिमात्रव्यापादने द्रष्टव्यम् । यत् पुनर् वसिष्ठवचनम्- “द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेत्” (वस्म् २३।३८) इति, तन् मनोऽवसितब्रह्महत्यस्य तदैवओपरतजिघांसस्य वेदितव्यम् । यत् पुनः षट्त्रिंशन्मतवचनम्,
षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ।
चान्द्रायणं प्रकुर्वीत पराकद्वयम् एव च ॥
इति, तद् अप्रत्यानेयपुंस्त्वस्य सप्रत्ययवधे द्रष्टव्यम् । अप्रत्ययवधे तु बृहस्पतिर् आह ।
अरुणायाः सरस्वत्याः सङ्गमे लोकविश्रुते ।
शुध्येत् त्रिषवणस्नायी त्रिरात्रोपोषितो द्विजः ॥
[७४] इति । एतानि द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रियादेस् तु द्विगुणादिकम् । यद् आह अङ्गिराः ।
पर्षद् या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥ इति ।
प्रजापतिर् अपि ।
द्विगुणं त्रिगुणं चैव चतुर्गुणम् अथापि च ।
क्षत्रविट्शूद्रजातीनां ब्राह्मणस्य वधे व्रतम् ॥ इति ।
यत् तु चतुर्विंशतिमतवचनम्,
प्रायश्चित्तं यद् आम्नातं ब्राह्मणस्य महर्षिभिः ।
पादोनं क्षत्रियः कुर्याद् अर्धं वैश्यः समाचरेत् ॥
शूद्रः समाचरेत् पादम् अशेषेष्व् अपि पाप्मसु ॥
इति, तत् प्रातिलोम्यानुष्ठितचतुर्विधसाहसव्यतिरिक्तविषयम् । मूर्धावसिक्तादीनाम् अपि दण्डवत् प्रायश्चित्तं समूहनीयम् । दण्डतारतम्यम् आह याज्ञवल्क्यः ।
दण्डप्रण्यनं कार्यं वर्णजात्युत्तराधरैः । इति । (य्ध् २।२०६)
एवं च सति मूर्धावसिक्तस्य ब्राह्मनवधे ब्राह्मणाद् अतिरिक्तं क्षत्रियाद् ऊनम् अध्यर्धद्वादशवार्षिकं भवति । [७५] अनयैव दिशा प्रातिलोम्योत्पन्नानां अपि प्रायश्चित्तम् ऊहनीयम् । तथोत्तमाश्रमिणाम् अपि प्रयश्चित्ततारतम्यम् अङ्गिरसा दर्शितम् ।
गृहस्थोक्तानि पापानि कुर्वन्त्य् आश्रमिणो यदि ।
शौचवच् छोधनं कुर्युर् अर्वाक् ब्रह्मनिदर्शनात् ॥ इति ।
प्रक्रान्तप्रायश्चित्तस्य मध्ये विपत्ताव् अपि पापक्षयो भवति । तथा च हारीतः ।
प्रायश्चित्ते ऽध्यवसिते कर्ता यदि विपद्यते ।
पूतस् तद् अहर् एव स्याद् इह लोके परत्र च ॥ इति । (हार्स्म् २१।९)
व्यासो ऽपि ।
धर्मार्थं यतमानस् तु न चेत् शक्नोति मानवः ।
प्राप्तो भवति तत् पुण्यम् अत्र मे नास्ति संशयः ॥ इति । (व्यास्म् ३।४१)
वधोद्यमे ऽपि वधप्रायश्चित्तं कर्तव्यम् । तद् आह याज्ञवल्क्यः ।
चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । (य्ध् ३।२५२)
[७६] इति । यथावर्णम् इत्य् अनुवर्तते । अत एव स्मृत्यन्तरम् ।
अहत्वापि यथावर्णं ब्रह्महत्याव्रतं चरेत् । इति । (शास्म् १।२६)
॥ १२।७२–७३ ॥
सवनस्थस्त्रीवधस्य महापातकत्वम् अभिप्रेत्य प्रायश्चित्तम् आह ।
सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥ १२।७४ ॥
इति । आहिताग्नेर् जाया पतिव्रता सवनस्था । अत एव अङ्गिराः ।
आहिताग्नेर् द्विजाग्र्यस्य हत्वा पत्नीम् अनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्याद् आत्रेयीघ्नस् तथैव च ॥ इति । (अङ्स्म् ३।१९)
॥ १२।७४ ॥
[७७]
ब्रह्महत्यायाः प्रायश्चित्तम् अभिधाय मद्यपानस्य प्रायश्चित्तम् आह ।
मद्यपश् च द्विजः कुर्यान् नदीं गत्वा समुद्रगाम् ।
चान्द्रायणे ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ॥ १२।७५ ॥
अनडुत्सहितां गां च दद्याद् विप्रेषु दक्षिणाम् । इति ।
पनसादिजन्यं मदकारणं द्रवद्रव्यं मद्यम् । तद् आह पुलस्त्यः ।
पानसं द्राक्षमाधूकं खात्जूरं तालम् ऐक्षवम् ।
मधूत्थं सैरिम् आरिष्टं मैरेयं नारिकेलजम् ॥
[७८] समानानि विजानीयान् मद्यान्य् एकादशैव तु । इति । (पुल्स्म् १।१२–१३)
एकादशानाम् अन्यतमस्य मद्यस्य पाने महानदीतीरे चान्द्रायणं चरित्वा ब्राह्मणभोजनं कृत्वा दक्षिणां दद्यात् । तद् एतत् कामकारविषयम् । अकामकारे तु बृहस्पतिर् आह ।
पीत्वा प्रमादतो मद्यम् अतिकृच्छ्रं चरेद् द्विजः ।
कारयेत् तस्य संस्कारं शक्त्या विप्रांस् तु भोजयेत् ॥ इति । (बृस्म् ४।२३)
तद् एतन् मद्यपानप्रायश्चित्तं ब्राह्मणस्यैव, न क्षत्रियवैश्ययोः, मद्यपानस्य ब्राह्मणं प्रत्य् एव निषेधात्,
यक्षरक्षःपिशाचान्नं मद्यमांससुरासवम् ।
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥
इति स्मरणात् । [७९] बृहद्विष्णुर् अपि ।
माधूकम् ऐक्षवं सैरं तालं खार्जूरपानसम् ।
मधूत्थं चैव माध्वीकं मैरेयं नारिकेलजम् ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु । इति ।
राजन्यवैश्ययोस् तु मद्यपानम् अनुजानाति वृद्धयाज्ञवल्क्यः ।
कामाद् अपि च राजन्यो वैश्यो वापि कथंचन ।
मद्यम् एव सुरां पीत्वा न दोषं प्रतिपद्यते ॥ इति ।
व्यासो ऽपि ।
उभौ मध्वासवक्षीबौ उभौ चन्दनचर्चितौ ।
एकपङ्क्त्यशितौ दृष्टौ मे केशवार्जुनौ ॥
[८०] इति । उपनयनात् पूर्वं मध्यपाने तत्प्रायश्चित्तं पित्रादिभिः कर्तव्यम् । तद् आह जातूकर्ण्यः ।
अनुपेतस् तु यो बालो मद्यं मोहात् पिबेद् यदि ।
तस्य कृच्छ्रत्रयं कुर्यात् माता भ्राता तथा पिता ॥ इति ॥ १२।७५ ॥
मद्यपानस्य प्रायश्चित्तम् उक्त्वा सुरापानस्य प्रायश्चित्तम् आह ।
सुरापानं सकृत् कृत्वा अग्निवर्णां सुरां पिबेत् ॥ १२।७६ ॥
स पावयेद् अथात्मानम् इह लोके परत्र च । इति ।
पिष्टादिजन्यो द्रवद्रव्यविशेषो सुरा । तथा च मनुः ।
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ इति । (म्ध् ११।९४)
तत्र पैष्ट्यां सुराशब्दो मुख्यः, गौडीमाध्व्योर् गौणः, पुलस्त्येनैकादशसु मद्येषु गौडीमाध्व्याव् अनुक्रम्य, [८१] “सुरायाः सकृत्पाने गौडीमाध्व्योर् अमुख्यसुरयोर् असकृत्पाने चाग्निसमानवर्णोत्पत्तिपर्यन्तं संतप्ताम् अत्युष्णां सुरां पीत्वा ब्राह्मणो म्रियेत” (पुल्स्म् १।१४) इत्य् अभिधानात् । तथा च बृहस्पतिः ।
सुरापाने कामकृते ज्वलन्ती चैव तां मुखे ।
क्षिपेत् तया विनिर्दग्धो मृतः शुद्धिम् अवाप्नुयात् ॥ इति । (बृस्म् ४।२५)
गौडीमाध्व्योर् अभ्यासेन मत्या अमत्या वा पाने तया मरणं व्याघ्र आह ।
मत्या मद्यम् अमत्या वा पुनः पीत्वा द्विजोत्तमः ।
ततो ऽग्निवर्णां तां पीत्वा मृतः शुध्येत् स किल्बिषात् ॥ इति ।
कामकृते सकृत् पैष्टीपाने मूलवचनोक्तं मरणं द्रष्टव्यम् । अकामकृते तु याज्ञवल्क्य
आह ।
वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि ॥ इति । (य्ध् ३।२५४)
एतच् च वर्षत्रयपिण्याकादिभक्षणं छर्दनविषयम् । [८२] तथा च वर्षत्रयव्रतं प्रकृत्य व्यास आह ।
एतद् एव व्रतं कुर्यात् मद्यपः छर्दने कृते ।
पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥ इति । (व्यास्म् २।५१)
यत् तु मनुनोक्तम्,
कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ (म्ध् ११।९२)
इति, तत् तालुमात्रसंयोगे द्रष्टव्यम् । यद् अपि देवलेनोक्तम्- “सुरापाने ब्राह्मणो रूप्यताम्रसीसानाम् अन्यतमम् अग्निकल्पं पीत्वा शरीरपरित्यागात् पूतो भवति” इति, यद् अपि मनुनोक्तम्,
[८३] गोमूत्रम् अग्निवर्णं वा पिबेद् उदकम् एव वा ।
पयो घृतं वामरणात् गोशकृद्रसम् एव च ॥ (म्ध् ११।९१)
इति, तद् उभयं मूलवचनेन समानविषयम् । वेदविदं प्रत्य् अङ्गिरा आह ।
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।
समत्वं ब्राह्मणैर् गच्छेद् इत्य् एषा वैदिकी श्रुतिः ॥ इति ।
सकृद्गौणसुरापाने अङ्गिरा आह ।
भूमिप्रदानं यः कुर्यात् सुरां पीत्वा द्विजोत्तमः ।
पुनर् न च पिबेज् जातु संस्कृतः स विशुध्यति ॥ इति ।
यत् तु सुमन्तुनोक्तम्- “ब्राह्मणस्य सुरापस्य षण्मासान् अनुद्वृतसमुद्रोदकस्नानम् । सावित्र्यष्टसहस्रं जुहुयात् प्रत्यहम् । त्रिरात्रम् उपवासः । तप्तकृच्छ्रेण पूतो भवति । अश्वमेधावभृथस्नानेन च” [८४] इति, तत् पूर्वोक्तबृहस्पतिसवविषय एव द्रष्टव्यम् । यत् पुनर् बृहस्पतिनोक्तम्,
गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् ।
तप्तकृच्छ्रं पराकं च चान्द्रायणम् अनुक्रमात् ॥ (बृस्म् ४।६१)
इति, तद् अनन्यैषधसाध्यव्याध्युपशमार्थपाने वेदितव्यम्, प्रायश्चित्तस्याल्पत्वात् । अत एव हेतोः संकल्पमात्रविषयत्वे वा योजनीयम् ॥ १२।७६ ॥
अथ सुवर्णस्तेयप्रायश्चित्तम् आह ।
अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयम् ॥ १२।७७ ॥
गच्छेन् मुसलम् आदाय राजाभ्याशं वधाय तु ।
हतः शुद्धिम् अवाप्नोति राज्ञासौ मुक्त एव च ॥ १२।७८ ॥
कामतस् तु कृतं यत् स्यान् नान्यथा वधम् अर्हति । इति ।
अत्र सुवर्णशब्दः परिमांअविशेषोपेतहेमवचनः । स च परिमाणविशेषो याज्ञवल्क्येन दर्शितः ।
[८५] जालसूर्यमरीचिस्थं त्रसरेणुरजः स्मृतम् ।
ते ष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥
गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषः ते सुवर्णस् तु षोडश ॥ इति । (य्ध् १।३६२–६३)
उक्तपरिमाणविशिष्टं ब्राह्मणसुवर्णं यो ऽपहरति स स्वविशुद्धये स्वयम् एव राजकर्तृकं मरणं संपादयितुं प्रहारसाधनं मुसलम् आदाय राजसमीपं गच्छेत् । गत्वा चेदृशं मां प्रहरेति निवेदयेत् । ततो राजकर्तृकात् सुसलसाधनाद् वधाद् अयं विशुद्ध्यतीति । अथ मुसलप्रहारेण न मृतस् तदा राज्ञा मुक्तः शुद्धिं प्राप्नोत्य् एव । तथा च संवर्तः ।
ततो मुसलम् आदाय सकृद् धन्यात् तु तं स्वयम् ।
यदि जीवति स स्तेनस् ततः स्तेयाद् विमुच्यते ॥ इति । (संस्म् १२०–२१)
अथ वा – ऽमुक्त एव च इति पक्षान्तरम् एव व्याख्येयम् । यत्र स्तेनेन ये पोष्यास् तदीयपुत्रमित्रकलत्रादयो बहवः सन्ति तत्र स्तेने मृते बहवो विनश्यन्तीति मत्वा कृपालुना राज्ञा [८६] धनदण्डादिपुरःसरं स्तेनो ऽप्रहतो मुच्येत तदापि विशुद्ध्यत्य् एवेति ।
ननु – एवं सति “अघ्नन्न् एनस्वी राजा” (ग्ध् १२।४५) इति गौतमवचनात् राजा प्रत्यवायी स्यात् ।
न, तस्य पोष्यवर्गादिकृपानिमित्तत्वेन स्तेनव्यतिरिक्तविषये ऽप्य् उपपत्तेः ।
ननु – ब्राह्मणवधस्यातिगर्हितत्वात् “मुक्त एव” इत्य् अयं पक्षस् तद्विषयत्वेन कुतो न व्याख्यायते ।
मनुवचनविरोधाद् इति ब्रूमः । तथा च मनुः ।
सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान् मां भवान् अनुशास्त्व् इति ॥
गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् ।
वधेन शुद्ध्यति स्तेनो ब्राह्मणस् तपसैव वा ॥ इति । (म्ध् ११।९९–१००)
अत्र वधपक्षो नामधारकमात्रविप्रविषयः । तपःपक्षस् तु सवनस्थत्वादिगुणोपेत-ब्राह्मणविषयः । न च – तादृशस्य स्तेयम् असंभावितम् – इति शङ्कनीयम्, कदाचित् क्वचिच् चत्तगततामसवृत्त्या लोभातिशयोदये सति तत्संभवात् । एवं च सति “मुक्त एव” इति पक्ष एतद्विषयत्वेनापि योजयितुं शक्यते । यच् चौर्यं कामकृतं स्यात् तत्रायम् उक्तो वधो द्रष्टव्यः । अन्यथा [८७] प्रामादादिकचौर्ये वधं नार्हति । न च – लोभैकमूलस्य चौर्यस्य प्रामादिकत्वम् असंभावितम् – इति शङ्कनीयम् । यदा वस्त्रप्रान्तग्रथितं सुवर्णं सुवर्णत्वेनाज्ञात्वापहरति अपहृत्य चान्यस्मै ददाति नाशयति वा न पुनः स्वामिने प्रत्यर्पयति तदा संभवत्य् एवाकामतो ऽप्य् अपहारः । तादृशो ऽपहारे सवनस्थब्राह्मणवत् तपसा शुद्धिर् द्रष्टव्या । तपसो विशेषस् तु मनुना दर्शितः ।
तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् ।
वालवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ इति । (म्ध् ११।१०१)
सुवर्णात् न्यूनपरिमाणेषु हेमसु व्रतभेदाः षाट्त्रिंशन्मते दर्शिताः ।
बालाग्रमात्रे ऽप्रहृते प्राणायामं समाचरेत् ।
लिक्षामात्रे ऽपि च तथा प्राणायामत्रयं बुधः ॥
राजसर्षपमात्रे च प्राणायामचतुष्टयम् ।
गायत्र्यष्टसहस्रं च जपेत् पापविशुद्धये ॥
गौसर्षपमात्रे तु सावित्रीं वै दिनं जपेत् ।
यवमात्रसुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥
सुवर्णकृष्णलं ह्य् एकम् अपहृत्य द्विजोत्तमः ।
कुर्यात् सान्तपनं कृच्छ्रं तत्पापस्यापनुत्तये ॥
[८८] अपहृत्य सुवर्णस्य माषमात्रं द्विजाधमः ।
गोमूत्रयावकाहारस् त्रिभिर् मासैर् विशुद्ध्यति ॥
सुवर्णस्यापहरणे वत्सरं यावकं पिबेत् ।
ऊर्ध्वं प्राणान्तिकं ज्ञेयम् अथ वा ब्रह्महव्रतम् ॥ इति ।
वत्सरं यावकाशनं किंचिन् न्यूनसुवर्णापहारविषयम् । सुवर्णापहारे द्वादशवार्षिकविधानात् । यत् तु चतुर्विंशतिमते ऽभिहितम्,
आत्मतुल्यं सुवर्णं वा दद्याद् इष्ट्वाथ वा क्रतुम् ।
षडब्दं वा चरेत् कृच्छ्रं जपयज्ञपरायणः ॥
तीर्थानि भ्रमते विद्वान् ततः स्तेयात् प्रमुच्यते ।
तत्रात्मतुल्यसुवर्णदानम् अत्यन्तधनिकविषयम् । क्रतुर् धनिकश्रोत्रियविषयम् । स्तेयप्रायश्चित्तं सर्वत्र अपहृतं धनं स्वामिने दत्वैव कार्यम्,
स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः ।
स्वामिने ऽपहृतं देयं हर्ता त्व् एकादशाधिकम् ॥
इति स्मरणात् । यदा त्व् अशक्त्या राजा हन्तुम् अप्रवृत्तः तदा वसिष्ठोक्तं द्रष्टव्यम्- [८९] “स्तेनः प्रकीर्णकेशो राजानम् अभियाचेत । ततस् तस्मै राजा औदुम्बरं शस्त्रं दद्यात् । तेनात्मानं प्रमापयेत् । मरणात् पूतो भवति” इति (वध् २०।३१) । औदुम्बरं ताम्रमयम् । यदा सुवर्णम् अपहृत्य तद् भुक्त्वा तदानीम् एवानुतापेन प्रत्यर्पयेत् तदा आपस्तम्बोक्तं द्रष्टव्यम्- “चतुर्थकालमिताशनेन त्रिवर्षम् अवस्थानम्” इति (आप्ध् १।९।२५।१३) । मानसापहारे तु सुमन्तुर् आह- “सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति” इति (=वध् २०।४१) । गुरुश्रोत्रिययागस्थत्वादिबहुगुणोपेतब्राह्मणद्रव्यस्य भूयसो ऽसकृदपहारे वसिष्ठोक्तं द्रष्टव्यम्- “निष्कालको घृताभ्यक्तो गोमयाग्निना पादप्रभृति आत्मानं प्रमापयेत् । मरणात् पूतो भवतीति विज्ञायते” (वस्म् २०।४२) [९०] इति । इत्थं सुवर्णस्तेयप्रायश्चित्तम् अभिहितम् । गुरुतल्पगप्रायश्चित्तं दशमाध्याये “मातरं यदि गच्छेत् तु भगिनीम्” (पर्स्म् १०।८) इत्य् अत्र प्रपञ्चितम् ॥
अथ पतितसंसर्गप्रयश्चित्तम् ।
यस् तु पतितैर् ब्रह्महदिभिः सह संवत्सरं संसर्गं कृत्वा स्वयम् अपि पतितस् तस्य प्रायश्चित्तं मनुर् आह ।
यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यत् संसर्गस्य विशुद्धये ॥ इति । (म्ध् ११।१८१)
आचार्यस् तु कलियुगे संसर्गदोषाभावम् अभिप्रेत्य संसर्गप्रायश्चित्तं नाभ्यधात् । अत एव स्मृत्यन्तरे कलौ वर्ज्यानाम् अनुक्रमणे “संसर्गदोषः पापेषु” (संस्म् १।५३) इत्य् उक्तम् ।
॥ १२।७७–७८ ॥
संसर्गदोषस्य पातित्यापादकत्वाभावे ऽपि पापमात्रापादकत्वम् अस्तीत्य् आह ।
आसनात् शयनाद् यानात् संभाषात् सहभोजनात् ॥ १२।७९ ॥
संक्रामन्ति हि पापानि तैलबिन्दुर् इवाम्भसि ।
[९१] इति । यथा तैलबिन्दुर् अम्भसि प्रक्षिप्तः सर्वत्र व्याप्नोति तथा पतितसंसर्गकृतं पापं संसर्गिणं पुरुषं व्याप्नोति ॥ १२।७९ ॥
संसर्गदोषव्याजेन पूर्वम् अनुक्तप्रायश्चित्तानां सर्वेषां साधारणानि प्रायश्चित्तान्य् आह ।
चान्द्रायणं यवकं च तुलापुरुष एव च ॥ १२।८० ॥
गवां चैवानुगमनं सर्वपापप्रणाशनम् । इति ।
तुलापुरुषः कृच्छ्रविशेषः । तत्स्वरूपम् उपरिष्टाद् वक्ष्यामः । यत्र यत्र च प्रतिपदोक्तं प्रायश्चित्तं नोपलभ्यते तत्र सर्वत्र पापगौरवलाघवानुसारेण चान्द्रायणादीन्य् आवृत्तान्य् अनावृत्तानि वानुष्ठेयानि । ततः सर्वाणि पापानि नश्यन्तीति सिद्धम् ॥ १२।८० ॥
इत्थं प्रायश्चित्तकाण्डे नवभिर् अध्यायैः प्रकीर्णकादीनां महापातकान्तानां पापानां यानि प्रायश्चित्तान्य् आचार्येणाभिहितानि तानि व्याचक्षाणैर् अस्माभिस् तत्प्रसङ्गापतितानि स्मृत्यन्तराण्य् उदाहृत्य व्यवस्थापितानि ।
अनुदाहृतस्मृतिवचनव्यवस्था ।
[९२]
अथ यानि पूर्वम् अनुदाहृतानि तान्य् उदाहृत्य व्यवस्थापयामः ।
तत्रातिपातकस्वरूपम् ।
तत्र विष्णुप्रोक्तां पापानुक्रमणिकाम् आश्रित्य तदानुपूर्व्यात् प्रायश्चित्तवचनान्य् उदाह्रियन्ते । तत्र विष्णुर् आदाव् अतिपातकम् अनुक्रम्य तत्स्वरूपम् एवं निर्दिदेश- “मातृगमनं दुहितृगमनं स्नुषागमनम् इत्य् अतिपातकानि” इति (विध् ३४।१) । तेषां त्रयाणां दशमाध्याये “मातरं यदि गच्छेत् तु” (पर्स्म् १०।८) इत्य् अस्मिन् प्रकरणे प्रायश्चित्तानि निर्णीतानि ।
महापातकस्वरूपम् ।
अतिपातकानन्तरं महापातकम् अनुक्रम्य तत्स्वरूपनिर्देश एवं क्र्तः- “ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनम् इति महापातकानि । तत्संयोगश् च” इति (विस्म् ३५।१–२) । तत्र गुरुदारगमनव्यतिरिक्तानां चतुर्णां द्वादशाध्याये “चतुर्विद्ये” (पर्स्म् १२।६४) [९३] इत्यादिना, “सर्वपापप्रणाशनम्” (पर्स्म् १२।८१) इत्यन्तेन ग्रन्थेन प्रायश्चित्तान्य् उक्तानि । गुरुदारगमनस्य तु दशमाध्याये “पितृदारान् समारुह्य” (पर्स्म् १०।११) इत्य् अत्र प्रायश्चित्तम् अभिहितम् ।
अनुपातकस्वरूपम् ।
महापातकानन्तरम् अनुपातकम् अनुक्रम्य तत्स्वरूपम् एवं निर्दिष्टम्-
यागस्थस्य क्षत्रियस्य वधः वैश्यस्य रजस्वलायाश् चान्तर्वत्न्याश् चातिगोराया अविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानीति । कूटसाक्ष्यं सुहृवध इत्य् एतौ सुरापानसमौ । ब्राह्मणभूम्यपहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदाराभिगमनसदृशम् । पितृमातृस्वसृगमनं च श्रोत्रियर्त्विगुपाध्याय-मित्रपत्न्यभिगमनं च । [९४] स्वसुः सख्याः सगोत्राया उत्तमवर्णायाः कुमार्या रजस्वलायाः शरणागतायाः प्रव्रजिताया निक्षिप्तायाश् च । (विध् ३६।१–७)
इति ।
अथ् अनुपातकप्रायश्चित्तम् ।
तत्र प्रायश्चित्तं विष्णुर् एवाह ।
अनुपातकिनस् त्व् एते महापातकिनो यथा ।
अश्वमेधेन शुद्ध्यन्ति तीर्थानुसरणेन वा ॥ इति । (विध् ३६।८)
तत्राश्वमेधः सार्वभौमराजविषयः, “राजा सार्वभौमो ऽश्वमेधेन यजेत” इति श्रुतेः । तीर्थस्नानम् इतरविषयम् । तच् च साधारणप्रायश्चित्तम् । यत्र प्रतिपदोक्तं प्रायश्चित्तं नास्ति नोपलक्ष्यते वा तत्रेदं साधारणं द्रष्टव्यम् । यागस्थक्षत्रवधस्य तादृशवैश्यवधस्य च षष्ठाध्याये “वैश्यं वा क्षत्रियं वापि” (पर्स्म् ६।१७) इत्य् एतस्य व्याख्यानप्रसङ्गे प्रायश्चित्तं दर्शितम् । तथा [९५] चान्तर्वत्न्या अत्रिगोत्रायाश् च वधे तत्रैव प्रायश्चित्तम् अभिहितम् । अविज्ञातगर्भवधे प्रायश्चित्तं चतुर्थाध्याये “गर्भपातं च या कुर्यात्” (पर्स्म् ४।१७) इत्य् अस्मिन् प्रसङ्गे वर्णितम् । शरणागतावधः परिशिष्यते । मनुस् त्व् अन्यान्य् अपि ब्रह्महत्यासमान्य् आह ।
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश् चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ इति । (म्ध् ११।५५)
याज्ञवल्क्यश् चापराण्य् आह ।
गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम् ॥ (य्ध् ३।२२८)
[९६] इति । अत्र शरणागतवधादिषु पादन्यूनं ब्रह्महत्याव्रतम् अवगन्तव्यम् । समशब्दस्य “राजसमो मन्त्री” इत्यादाव् ईषन्नूने प्रयोगदर्शनात् । मनुस् त्व् अधीतत्यागादीनां सुरापानसमत्वम् आह ।
ब्रह्मोज्झं वेदनिन्दा च कूटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ इति । (म्ध् ११।५६)
तत्र ब्रह्मोज्झस्य प्रायश्चित्तं वसिष्ठ आह- “ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् उपयुञ्जीत वेदम् आचार्यात्” इति (वध् २०।१२) । इदं च प्रायश्चित्तं प्रामादिकाध्ययन-त्यागविषयम् । नास्तिकतया तत्त्यागे पादन्यूनं सुरापानव्रतम् इति मनोर् मतम् । यद्य् अपि वसिष्ठेनोक्तम्- [९७] “गुरोर् अलीकनिर्बन्धे कृच्छ्रं द्वादशरात्रं चरित्वा सचैलं स्नात्वा गुरुप्रसादात् पूतो भवति” (वध् २१।२८) इति, तद् एतद् अमतिपूर्वे सकृदनुष्ठाने वेदितव्यम् । विष्णुनानुक्रान्तस्य कौटसाक्ष्यस्य द्वादशवार्षिकं प्रायश्चित्तम् । तथा च तद्व्रतानुवृत्तौ शङ्ख आह ।
कौटसाक्ष्यं तथा कृत्वा निक्षेपम् अपहृत्य च ।
एतद् एव व्रतं कुर्यात् त्यक्त्वा च शरणागतम् ॥ इति । (शङ्स्म् १७।५)
यत्र साक्ष्यनृतवदनेन वर्णिनो वधप्राप्तिः तद्विषयम् इदम् । अपरम् अपि ब्रह्महत्यासमं विष्णुर् दर्शयति ।
आक्रुष्टस् ताडितो वापि धनैर् वा विप्रयोजितः ।
यम् उद्दिश्य त्यजेत् प्राणांस् तम् आहुर् ब्रह्मघातकम् ॥ (विध् ३।४६)
[९८] इति । आक्रोशनादिनिमित्ताभावे मृतस्यैव हत्यादोषः, न तूद्देश्यस्य । तथा च स्मृत्यन्तरम्।
अकारणं तु यः कश्चिद् द्विजः प्राणान् परित्यजेत् ।
तस्यैव तत्र दोषः स्यान् न तु यं परिकीर्तयेत् ॥ इति ।
याज्ञवल्क्यो ऽपि सुरापानसमान्य् उदाजहार ।
निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचो ऽनृतम् ।
रजस्वलामुखास्वादः सुरापानसमानि तु ॥ इति । (य्ध् ३।२२९)
एवमादिषु सर्वत्र येन साम्यम् उच्यते तदीयं प्रायश्चित्तं किंचिन् न्यूनम् अनुष्ठेयम् । सा च न्यूनता निमित्तगौरवलाघवानुसारिणी कल्पनीया । सुवर्णस्तेयसमे तु ब्राह्मणभूम्यपहरणे मरणान्तिकप्रयश्चित्तेषु न्यूनत्वकल्पनासंभवात् द्वादशवार्षिकादिव्रतानि यथायोगं कल्पनीयानि । याज्ञवल्क्यो ऽन्यानि सुवर्णस्तेयसमान्य् आह ।
अश्वरत्नमनुषस्त्रीभूधेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ (य्ध् ३।२३०)
[९९] इति । मनुर् अपि ।
निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ इति । (म्ध् ११।५७)
पितृव्यपत्न्यादिगमनानां गुरुतल्पसमानानां दशमाध्याये “मातृष्वसृगमे चैवम्” (पर्स्म् १०।९) इत्य् अस्मिन् प्रकरणे प्रपञ्चितम् ।
उपपातकस्वरूपम् ।
अनुपातकानन्तरं विष्णुर् उपपातकम् अनुक्रम्य तत्स्वरूपम् एवं निर्दिदेश ।
अनृतवचनम् उत्कर्षे । राजगामि च पैशुनम् । गुरोश् चालीकनिर्बन्धः । वेदनिन्दा । अधीतस्य च त्यागः । अग्निमातृपितृसुतदाराणां च । अभोज्यान्नाभक्ष्यभक्षणम् । परस्वहरणम् । परदाराभिगमनम् । अयाज्ययाजनम् । विकर्मणा जीवनम् । असत्प्रतिग्रहः । क्षत्रियविट्शूद्रगोवधः । अविक्रेयविक्रयः । [१००] परिवित्तितानुजेन ज्येष्ठस्य । परिवेदनं च । तस्य च कन्यादानम् । याजनं च । व्रात्यता । भृतकाध्यपनम् । भृतकाध्ययनादानम् । सर्वाकरेष्व् अधीकारः । महायन्त्रप्रवर्तनम् । द्रुमगुल्मलतौषधीनां हिंसा । स्त्रिया जीवनम् । अभिचारः । मूलकर्मसु च प्रवृत्तिः । आत्मार्थं च क्रियारम्भः । अनाहिताग्निता । स्तेयम् । देवर्षिपितॄणाम् ऋणस्यानपक्रिया । असच्छास्त्रधिगमनम् । नास्तिकता । कुशीलता । [१०१] मद्यपस्त्रीनिषेवणम् । इत्य् उपपातकानि । (विध् ३७।१–३६)
इति । याज्ञवल्क्यस् तु विष्णुनानुक्तान्य् अपि कानिचिद् उपपातकानि ऋणानपक्रियादीन्य् उदाजहार ।
गोवधो व्रात्यता स्तैन्यम् ऋणानां चानपक्रिया ।
अनाहिताग्नितापण्यविक्रयः परिवेदनम् ॥
भृताद् अध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥
स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
[१०२] नास्तिक्यं व्रतलोपं च सुतानां चैव विक्रयः ॥
धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस् तटाकारामविक्रयः ॥
कन्यासंदूषणं चैव परिवेदकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥
[१०३] आत्मनो ऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥
इन्धनार्थं द्रुमच्छेदः स्त्रीहिंसौषधजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥
शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥
असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता ।
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥ इति । (य्ध् ३।२३४–४२)
यद्य् अपि “अनृतं च समुत्कर्षे” (म्ध् ११।५५) इत्य् एतन् मनुना ब्रह्महत्यासमेषु पठितं याज्ञवल्क्येन सुरापानसमेषु विष्णुना उपपातकेषु तथापि विषयभेदेन त्रैविध्यं वक्तुं शक्यत्वान् न किंचिद् अपि साङ्कर्यम् । विषयभेदस् तूच्यते । द्वेष्यं पुरुषं राजभृत्यादिभिर् मारयितुं तस्मिन्न् अविद्यमानम् अपि महान्तम् [१०४] अपराधम् आरोप्यानृतं चेद् ब्रूयात् तद् ब्रह्महत्यासमम्, वधपर्यवसायित्वात् । यस् तु लाभपूजाखातिकामो राजसभादौ स्वस्मिन् अविद्यमानम् अपि चतुर्वेदाभिज्ञत्वं प्रकटयितुम् अनृतं ब्रूते तत् सुरापानसमम्, अतिगर्हितत्वात् । यस् तु सुखगोष्ठ्यादौ परोपकारम् अन्तरेण वृथानृतं ब्रूते तस्यैतद् उपपातकम् । तत्राद्ययोः प्रायश्चित्तं पूर्वम् एवोक्तम् । तृतीये तु कामकृते याज्ञवल्क्य आह ।
मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृते ऽपि च ॥ इति । (य्ध् ३।२७९)
अकामकृते तु मनुनोक्तं द्रष्टव्यम् ।
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।
पीत्वापो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥ इति । (म्ध् ५।१४५)
राज्ञो ऽग्रे साक्षात् परम्परया वा परदोषकथनं राजगामि पैशुन्यम् । गुराव् अलीकनिर्बन्धो द्विविधः । तत्र राजगृहादौ स्वयं समर्थः सन् असमर्थस्य गुरोर् द्रव्यलाभाद्युपरोधकारणं निर्बन्धं करोति चेत् सोयम् अलीकनिर्बन्धो ब्रह्महत्यासमत्वेन मनुनोक्तः । यत्र वाक्पारुष्यादिमात्रेण गुरोर् अप्रियम् उपजायते [१०५] सो ऽयम् अलीकनिर्बन्ध उपपातकम् । वेदनिन्दा त्रिविधा । बुद्धार्हतादिशास्त्राण्य् अभ्यस्य वेदानाम् अप्रामाण्यप्रतिपादने निर्बन्ध एका निन्दा । सेयं याज्ञवल्क्येन ब्रह्महत्यासमेषूपवर्णिता । सत्याम् अपि वेदप्रामान्यबुद्धौ जल्पवितण्डादिहेतुशास्त्र-व्यसनितया श्रुतिस्मृत्युक्तस्यानुष्ठानस्यावज्ञा द्वितीया निन्दा । एतद् एवाभिप्रेत्य मनुर् आह ।
यो ऽवमन्येत ते तूभे हेतुशास्त्राश्रयात् द्विजः ।
स साधुभिर् बहिष्कार्यो नाश्तिको वेदनिन्दकः ॥ इति । (म्ध् २।११)
सेयं निन्दा सुरापानसमेषु मनुनोदाहृता । यस् तु वैदिकं कर्मानुतिष्ठन्न् अपि नात्यन्तं तत्फले श्रद्धत्ते “किम् अनेन भविष्यति जनापवादभयाद् एव केवलम् अनुतिष्ठामि” इत्य् एवं निन्दन्ति सेयं निन्दोपपातकेषु पठ्यते ।
एवम् अध्ययनत्यागादेर् एकैकस्य बहुविधस्यानुक्रान्तस्य गौरवलाघवे पर्यालोच्यावान्तरभेदः कल्पनीयः । “अग्निमातृपितृसुतदाराणाम्” (विध् ३७।६) इत्य् अत्रापि त्याग इति पदम् अन्वेति । अनुक्रान्तानाम् उपपातकानां पूर्वोक्तेभ्यो ऽतिपातकमहापातकानुपातकेभ्यो ऽल्पत्वाद् उपपातकत्वम् । तद् उक्तं स्मृत्यन्तरे ।
[१०६] महापातकतुल्यानि पापान्य् उक्तानि यानि तु ।
तानि पातकसंज्ञानि तन्न्यूनम् उपपातकम् ॥ इति ।
अथ उपपातकस्य साधारणं प्रायश्चित्तम् ।
तस्य चोपपातकजातस्य साधारणं प्रायश्चित्तं विष्णुर् आह ।
उपपातकिनस् त्व् एते कुर्युश् चान्द्रायणं नराः ।
पराकम् अथ वा कुर्युर् यजेयुर् गोसवेन च ॥ इति । (विध् ३७।३५)
अत्रैतेषाम् आवृत्तानां सङ्घाते गोसवो द्रष्टव्यः । एकैकस्य च शक्तं प्रति पराकः अशक्तं प्रति चान्द्रायणम् । याज्ञवल्क्यो ऽपि साधारणं प्रायश्चित्तम् आह ।
उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथ वा पुनः ॥ इति । (य्ध् ३।२६५)
एवम् इत्य् अनेन पदेन प्रकृतं गोवधव्रतम् अतिदिश्यते, अतिदेशस्योपदेशान् न्यूनविषयत्वात् । गोव्रताङ्गानि गोचर्मादीनि कानिचिद् विषयान्तरेषु निवर्तन्ते । एतच् च व्रतचतुष्टयम् अकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु,
[१०७] एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ (म्ध् ११।११७)
इति मनुनोक्तं त्रैमासिकं द्रष्टव्यम् । एतच् च साधारणप्रायश्चित्तं प्रतिपदोक्तप्रायश्चित्ताभावे तदनुपलम्भे वा द्रष्टव्यम् ।
प्रतिपदोक्तप्रायश्चित्तानि ।
प्रतिपदोक्तानि प्रायश्चित्तानि यथासंभवम् उदाहरामः । तत्र गुरोर् अलीकनिर्बन्धोपपातकस्य प्रायश्चित्तं विष्नुर् आह- “समुत्कर्षे ऽनृते गुरोर् अलीकनिर्बन्धे तदाक्षेपणे च मासं पयसा वर्तेत” इति (विध् ५४।५४) । अग्नित्यागे स एवाह- “वेदाग्न्युत्सादी त्रिषवणस्नाय्य् अधःशायी संवत्सरं सकृद्भैक्षेण वर्तेत” इति (विध् ५४।१३) । वसिष्ठो ऽपि- “यो ऽग्नीन् अपविध्येत् स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधानं कारयेत्” (विध् २१।२७) [१०८] इति । मनुर् अपि ।
अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥
अग्निहोत्र्य् अपविध्याग्नीन् मासाद् ऊर्ध्वं तु कामतः ।
कृच्छ्रं चान्द्रायणं चैव कुर्याद् एवाविचारयन् ॥ इति । (म्ध् ११।१२९–३०)
हारीतः- “संवत्सरोत्सन्ने ऽग्निहोत्रे चान्द्रायणं कृत्वा पुनर् आदध्यात् । द्विवर्षोत्सन्ने सान्तपनं चान्द्रायणं च कुर्यात् । त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रम् अभ्यस्य पुनर् आदध्यत्” इति (हार्स्म् ३।१९–२१) । शङ्खो ऽपि- “अभ्युत्सादी सांवत्सरं प्राजापत्यं चरेत् गां च दद्यात्” इति (शङ्स्म् ११।२३) । भरद्वाजो- “द्वादशाहातिक्रमे त्र्यहम् उपवासः । मासातिक्रमे द्वादशाहम् उपवासः । संवत्सरातिक्रमे मासोपवासः । पयोभक्षणं च” [१०९] इति । एतत् सर्वम् आलस्याद् अग्नित्यागविषयतया यथायोगम् ऊहनीयम् । यत् तु भरद्वाजगृह्ये ऽभिहितम्- “प्राणायामशतम् आ दशरात्रं कुर्यात् । उपवासः स्याद् आ विंशतिरात्रम् । अत ऊर्ध्वम् आ षष्टिरात्रं तिस्रो रात्रीर् उपवसेत् । अत ऊर्ध्वम् आ संवत्सरात् प्राजापत्यं व्रतं चरेत् । अत ऊर्ध्वं कालबहुत्वे दोषबहुत्वम्” इति, तत् प्रमादाद् अग्नित्यागविषयम् । नास्तिक्यात् त्यागे तु व्याघ्र आह ।
यो ऽग्निं त्यजति नास्तिक्यात् प्राजापत्यं चरेद् द्विजः ।
अन्यत्र पुनराधानं दानम् एव तथैव च ॥ इति ।
प्राजापत्यस्योपलक्षणत्वात् त्यागकालस्य गौरवलाघवानुसारेण व्रतान्तराण्य् ऊहनीयानि । व्रतान्तरकर्तव्यम् आह जातूकर्ण्यः ।
अतीतकालं जुहुयाद् अग्नौ विप्रो यवान् अयम् ।
नष्टे ऽग्नौ विधिवद् दद्यात् कृत्वाधानं पुनर् द्विजः ॥ इति ।
एतच् चौपासनाग्निविषयम् । दारत्यागे शातातप आह- [११०] “कौमारदारत्यागी मासं पयोभक्षः शुध्यति” इति (शास्म् १।२७) । अभोज्याभक्ष्यभक्षणप्रायश्चित्तं त्व् एकादशाध्याये प्रपञ्चितम् ।
अथ परस्वहरणप्रायश्चित्तम् ।
तत्र परस्वहरणे मनुर् आह ।
धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥
मनुष्याणांतु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानां च शुद्धिश् चान्द्रायणं स्मृतम् ॥
द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मनः ।
चरेत् सान्तपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ॥
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
[१११] चैलचर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयः कांस्योपलानां च द्वादशाहं कणान्नता ॥
कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश् चैव त्र्यहं पयः ॥ इति । (म्ध् ११।१६२–६८)
एतेषां विषयाणां मध्ये धान्यस्य परिमाणविशेषेण व्रतविशेषः स्मृत्यन्तरे ऽभिहितः ।
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिके वधः । इति ।
यत् तु जाबालिनोक्तम्,
तिलधान्यान्नवस्त्राणां शय्यानाम् आमिषस्य च ।
संवत्सरार्धं कुर्वीत व्रतम् एतत् समाहितः ॥
इति, तद् एतद् अकामकृतविषयम्, अल्पत्वात् । भक्ष्यस्य तु सकृद्भोजनपर्याप्तिकस्यापहारे पैठीनसिर् आह- “भक्ष्यभोज्यान्नस्योदरपूरणमात्रहरणे त्रिरात्रं पञ्चगव्याहारः” इति । यानि तु मनूक्तेषु विषयेषु व्रतान्तराण्य् अन्यैर् मुनिभिर् [११२] दर्शितानि तेषु व्रतेषु यानि समानि न तत्र विवादः । न्यूनानाम् अकामकारविषयत्वम् अधिकानां तु कामकृताभ्यासविषयत्वम् इति विवेकः । तत्र वचनानि-
द्रव्याणाम् अल्पसाराणां सान्तपनम् । भक्ष्यभोज्ययानशय्यासनमूलपुष्प-फलानां हरणे पञ्चगव्यपानम् । तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्र-चर्मामिषाणां त्रिरात्रम् उपवसेत् । मणिमुक्ताप्रवालानां ताम्ररजतायःकांस्यानां द्वादशाहं कणान् अश्नीयात् । कार्पासकीट-जोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत । द्विशफैकशफहरणे त्रिरात्रम् उपवसेत् । पक्षिगन्धौषधिरज्जुवैदलानाम् अपहरणे दिनम् उपवसेत् ।
दत्वैवापहृतं द्रव्यं धनिकस्याभ्युपायतः ।
प्रायश्चित्तं ततः कुर्यात् कल्मषस्यापनुत्तये ॥ इति । (विध् ५२।७–१४)
जाबालिः ।
अश्वगोभूमिकन्याश् च हृत्वा चान्द्रायणं चरेत् ।
अपहृत्य पशून् क्षुद्रान् प्राजापत्यं समाचरेत् ॥
गुडकार्पासधान्यानि सर्पिर् लवनम् एव च ।
पक्वान्नम् औषधं तैलं शय्यां वास उपानहौ ॥
[११३] कांस्यापस्ताम्रसीसं वा कृच्छ्रं कृच्छ्रार्धम् एव च ।
उदके फलमूलेषु पुष्पपर्णसुगन्धिषु ॥
मृद्भाण्डमधुमांसेषु कृच्छ्रपादो विधीयते ।
व्यापादनापहारेषु सन्तोष्य स्वामिनं ततः ॥
पापं निवेद्य विप्रेभ्यः प्रायश्चित्तेन युज्यते ।
अपहृत्य तु वर्णानां धनं विप्रः प्रमादतः ॥
प्रायश्चित्तं च यत् प्रोक्तं ब्राह्मणानुमते चरेत् ।
राजस्वस्यापहरणे रमणीनां जनस्य च ॥
धनापहरणे चैव कुर्यात् संवत्सरव्रतम् ॥ इति ।
परदारगमनस्य तु प्रायश्चित्तं दशमाध्याये ऽभिहितम् ।
अयाज्ययाजनप्रायश्चित्तम् ।
अयाज्ययाजने मनुर् आह ।
[११४] व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥ इति । (म्ध् ११।१९७)
यत् तु प्रचेतसा शूद्रयाजकादीन् अनुक्रम्योक्तम्- “एते पञ्चतपोऽभ्रावकाशजलशयनाद्य् अनुष्ठेयुः क्रमेण ग्रीष्मवर्षाहेमन्तेषु । मासं गोमूत्रयावकम् अश्नीयुः” इति, तत् कामकृताभ्यासविषयम् । यत् तु यमेनोक्तम्,
पुरोधाः शूद्रवर्णस्य ब्रह्मणो यः प्रवर्तते ।
स्नेहाद् अर्थप्रसङ्गाद् वा तस्य कृच्छ्रं विशोधनम् ॥ (यस्म् ६।९)
इति, तद् अशक्तविषयम् । यत् तु गौतमेनोक्तम्- “निषिद्धमन्त्रप्रयोगे सहस्रानुवाकं जपेत्” (ग्ध् २२।३३) [११५] इति, तत् कामतो ऽभ्यासविषयम् । यत् तु पैठीनसिनोक्तम्- “शूद्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति । प्राणायामसहस्रेषु दशकृत्वो ऽभ्यस्तेषु” इति, तद् अकामतो ऽभ्यासविषयम् । असत्प्रतिग्रहे याज्ञवल्क्य आह ।
गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम् ।
गायत्रीजाप्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ॥ इति । (य्ध् ३।२९०)
अत्र जपसंख्या मनुना दर्शिता ।
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ इति । (म्ध् ११।१९४)
एतच् च दातृद्रव्ययोर् उभयोः सत्त्वे वेदितव्यम् । अन्यतरस्यासत्त्वे तु षट्त्रिंशन्मते
दर्शितम् ।
पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः ।
ऐन्दवेन मृगारेष्ट्या कयाचिन् मितर्विन्दया ॥
देव्या लक्षजपेनैव शुध्यन्ते ऽसत्प्रतिग्रहात् । इति ।
यत् तु वृद्धहारीतवचनम्,
राज्ञः प्रतिग्रहं कृत्वा मासम् अप्सु सदा वसेत् ।
षष्ठे काले पयोभक्षः पूर्णे मासे प्रमुच्यते ॥
तर्पयित्वा द्विजान् कामैः सततं नियतव्रतः ॥ (वृहार्स्म् ११।७१–७२)
इति, तद् आपदि कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । अल्पद्रव्यपरिग्रहे हारीतः- “मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्” इति (हार्स्म् २१।३) ।
षट्त्रिंशन्मते ऽपि ।
भिक्षामात्रे गृहीते तु पुण्यं मन्त्रम् उदीरयेत् । इति ।
चतुर्विंशतिमते ऽपि ।
प्रतिषिद्धेषु सर्वेषु षष्ठांशं परिकल्पयेत् । इति ।
दानार्थम् इति शेषः । विकर्मणा जीवने तु चान्द्रायणम् । तथा च नटादीन् विकर्मणा जीविनो ऽनुक्रम्य यम आह ।
एतेषाम् एव सर्वेषां प्रत्यापत्तिस् तु मृग्यताम् ।
भक्ष्यान्नम् उपयुञ्जानो द्विजश् चान्द्रायणं चरेत् ॥ इति । (यस्म् ६।१३)
नारदो ऽपि ।
[११७] कर्मणा गर्हितेनैव यद् वित्तं समुपार्जितम् ।
तस्य त्यागेन शुद्ध्यन्ति धर्मस्यान्वेषणेन वा ॥
अप्सु प्रास्येत तद् द्रव्यम् अन्यायेन यद् आगतम् ।
उपयुक्तानुशिष्टं च देयं वा ब्रह्मवादिने ॥ इति । (न्स्म् १४।७–८)
क्षत्रियादिवधस्य प्रायश्चित्तं षष्ठाध्याये वर्णितम् । गोवधस्य त्व् अष्टमनवमाध्याययोस् तत् प्रपञ्चितम् ।
अविक्रेयविक्रयप्रायश्चित्तम् ।
अविक्रेयविक्रयस्य चतुर्विंशतिमते दर्शितम् ।
सुराया विक्रयं कृत्वा चरेत् सौम्यचतुष्टयम् ।
लाक्षालवणमांसानां चरेच् चान्द्रायणत्रयम् ॥
मध्वाज्यतैलसोमानां चरेच् चान्द्रायणद्वयम् ।
पयः पायसापूपानां चरेच् चान्द्रायणव्रतम् ॥
दध्याज्येक्षुरसानां च गुडखण्डादिविक्रये ।
सर्वेषां स्नेहपक्वानां पराकं तु समाचरेत् ॥
[११८] सिद्धान्नविक्रये विप्रः प्राजापत्यं समाचरेत् ।
उपवासं तु तक्रस्य नक्तं काञ्जिकविक्रये ॥
पूगीफलानि मञ्जिष्ठा द्राक्षा खर्जूरम् एव च ।
एतेषां विक्रये कृच्छ्रं पनसस्य दिनत्रयम् ॥
कदली नारिकेलं च नागरं बीजपूरकम् ।
एतेषां पादकृच्छ्रः स्याज् जम्बीरादेस् तथैव च ॥
कस्तूरिकादिगन्धानां विक्रये कृच्छ्रम् आचरेत् ।
कर्पूरादेस् तदर्धं स्याद् दिनं हिंग्वादिविक्रये ॥
तिलानां विक्रयं कृत्वा प्राजापत्यं समाचरेत् ।
यज्ञार्थं कृषिजातांश् च दानलब्धांश् च विक्रयेत् ॥
रक्तपीतानि वस्त्राणि कृष्णाजिनम् अथापि वा ।
एतेषां विक्रये कृच्छ्रं गर्गस्य वचनंयथा ॥
गोविक्रयं द्विजः कुर्याल् लाभार्थं धनमोहितः ।
प्राजापत्यं प्रकुर्वीत गजानाम् ऐन्दवं स्मृतम् ॥
खराश्वाजाविकानां च करभाणां च विक्रये ।
[११९] पराकं तत्र कुर्वीत नृणां द्विगुणम् आचरेत् ॥
नारीणां विक्रयं कृत्वा चरेच् चान्द्रायणं व्रतम् ।
द्विगुणं पुरुषाणां च व्रतम् आहुर् मनीषिणः ॥
चान्द्रायणं प्रकुर्वीत एकाहं वेदविक्रये ।
अङ्गानां तु पराकं स्यात् स्मृतीनां कृच्छ्रम् आचरेत् ॥
इतिहासपुराणानां चरेत् सान्तपनं द्विजः ।
रहस्यपञ्चरात्राणां कृच्छ्रं तत्र समाचरेत् ॥
गाथानां नीतिशास्त्राणां प्राकृतानां तथैव च ।
सर्वासाम् एव विद्यानां पादकृच्छ्रं समाचरेत् ॥ इति ।
हारीतो ऽपि-
गुडतिलपुष्पमूलफलपक्वान्नविक्रये सौम्यायनम् । लाक्षालवणमधु-मांसतैलक्षीरदधितक्रगन्धचर्मवाससाम् अन्यतमविक्रये [१२०] चान्द्रायणम् । तथोर्णाकेशकेसरभूधेनुवेश्मशस्त्रविक्रये च । मत्स्यमांसस्नाय्वस्थिशृङ्गनखशङ्खशुक्तिविक्रये तप्तकृच्छ्रम् । हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगौरिकक्षारलवणमणिमुक्ताप्रवाल-वैणवमृन्मयेषु च । आरामतटाकोदपानपुष्करिणीसुकृतविक्रये त्रिषवण-स्नाय्य् अधःशायी चतुर्थकालाहारो दशसहस्रं जपेद् गायत्रीं संवत्सरेण पूतो भवति । हीनमानोन्मापनसङ्कीर्णविक्रये च । इति । (हार्स्म् ४।४–१०)
ईदृशेष्व् एकविषयबहुव्रतेषु असकृत्पूर्वमुक्तया नीत्या यथायोगं व्यवस्था कल्पनीया ।
परिवित्त्यादीनां चतुर्णां प्रायश्चित्तं चतुर्थाध्याये वर्णितम् ।
अथ व्रात्यप्रायश्चित्तम्
व्रात्यो नाम सावित्रीपतितः । तस्य प्रायश्चित्तं मनुर् आह ।
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ (म्ध् ११।१९१)
[१२१] इति । वसिष्ठो ऽपि- “पतितसावित्रिक उद्दालव्रतं चरेत् । द्वौ मासौ यावकेन वर्तयेत् मासं पयसार्धमासम् आमिक्षया अष्टरात्रं घृतेन षड्रात्रम् अयाचितं हविष्यं भुञ्जीत त्रिरात्रम् अब्भक्षो ऽहोरात्रम् उपवसेत् । अश्वमेधावभृथं वा गच्छेत् । व्रात्यस्तोमेन वा यजेत” इति (वध् ११।७६–७९) । तत्र मानवम् आपद्विषयम् । उद्दालकव्रतं त्व् अनापद्विषयम् । यत् तु यमेनोक्तम्,
सावित्री पतिता यस्य दशवर्षाणि पञ्च च ।
सशिखं वपनं कृत्वा व्रतं कुर्यात् समाहितः ॥
एकविंशतिरात्रं च पिबेत् प्रसृतियावकम् ।
हविषा भोजयेच् चैव ब्राह्मणान् सप्त पञ्च च ॥
ततो यावकशूद्धस्य तस्योपनयनं स्मृतम् । (यस्म् ५।२७–२९)
इति, तन् मनुसमानविषयम् । यस्य पित्रादयो ऽप्य् अनुपनीताः तस्य आपस्तम्बोक्तं द्रष्टव्यम्-
अथ यस्य पिता पितामह इत्य् अनुपेतौ स्यातां ते ब्रह्महसंस्तुताः । तेषाम् अभ्यागमनं भोजनं [१२२] विवाहम् इति च वर्जयेत् । तेषाम् इच्छतां प्रायश्चित्तम् । यथा प्रथमे ऽतिक्रमे ऋतुर् एवं संवत्सरः । अथोपनयनम् । ततः संवत्सरम् उदकोपस्पर्शनम् । प्रतिपूरुषं संख्याय संवत्सरान् यावन्तो ऽनुपेताः स्युः । सप्तभिः पावमानीभिः ऽयद् अन्ति यच् च दूरकऽ इत्य् एताभिर् यजुःपवित्रेण सामपवित्रेणाङ्गिरसेनेति । अथ वा व्याहृतिभिर् एव । अथाध्याप्यः । अथ यस्य प्रपितामहादेर् नानुस्मर्यत उपनयनं ते श्मशानसंस्तुताः । तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत् । तेषाम् इच्छतां प्रायश्चित्तम् । [१२३] द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेद् अथोपनयनं तत उदकोपस्पर्शनम् । पावमान्यादिभिः ।
इति । (आप्ध् १।१।१।३२–२।८)
भृतकाध्ययनाध्यापनप्रायश्चित्तम् ।
भृतकाध्ययनाध्यापनयोर् हारीत आह ।
भृतकाध्यापनं कुर्वन् भृतकाध्यापितश् च यः ।
अनुयोगप्रदानेन त्रीन् पक्षांस् तु पयः पिबेत् ॥ इति ।
द्रुमादिहिंसायां मनुर् आह ।
फलदानां तु वृक्षाणां छेदने जप्यम् ऋक्शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥
कृष्टजानाम् औषधीनां जातानां च स्वयं वने ।
वृथालम्भे ऽनुगच्छेद् गां दिनम् एकं पयोव्रतः ॥ इति । (म्ध् ११।१४२–४४)
एतच् च यज्ञार्थवृक्षच्छेदनादिव्यतिरिक्तविषयम् । अत एव याज्ञवल्क्यो ऽपि वृथेति विशिनष्टि ।
वृक्षगुल्मलथावीरुच्छेदने जप्यम् ऋक्शतम् ।
स्याद् ओषधिवृथाच्छेदी क्षीराशी गोऽनुतो दिनम् ॥ (य्ध् ३।२७६)
[१२४] इति । यत् तु हारीतेनोक्तम्- “स्थावरस्रीसृपादीनां वधे यस्येदं प्राणम् इत्य् एतयाज्यं हुत्वा तिलपात्रं ब्राह्मणाय दद्यात्” (हार्स्म् २१।४५) इति, तद् अश्चत्थादिपुण्यस्थावरविषयम् । महाफलप्रदस्य पनसनारीकेलादिवृक्षजातस्य छेद्नावृत्तौ शङ्ख शङ्ख आह ।
संवत्सरव्रतं कुर्याच् छित्वा वृक्षं फलप्रदम् । इति । (शंस्म् १७।४९)
दृष्टार्थत्वे न दोषः, “फलपुष्पोपगान् पादपान् न हिंस्यात् । कर्षणकार्यार्थम् उपहन्यात्” इति स्मरणात् ।
अथ नास्तिक्यप्रायश्चित्तम्
नास्तिक्यं तु वाचिकं चेत् तद् उपपातकम् । यथाहुः पौराणिकाः ।
नास्तिकास् त्रिविधाः प्रोक्ता धर्मज्ञैस् तत्त्वदर्शिभिः ।
क्रियादुष्टो मनोदुष्टो वाग्दुष्टश् च तथैव च ॥
[१२५] उपपातकस् क्रियादुष्टो वाग्दुष्टः पातकः स्मृतः ।
अभ्यासात् तु क्रियादुष्टो महापातक इष्यते ॥ इति ।
तत्रोपपातकनास्तिक्ये वसिष्ठ आह- “नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन् नास्तिक्यात्” इति (वध् २१।२९) । यत् तु शङ्खेनोक्तम्- “नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसीत्य् एते पञ्च संवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः” इति, तद् एतत् महापातकनास्तिक्यविषयम् ।
व्रतलोपप्रायश्चित्तम्
व्रतलोपिनो ऽवकीर्णिव्रतं याज्ञवल्क्य आह ।
अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति । इति । य्ध् ३।२८०)
मनुर् अपि ।
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
स्थालीपाकविधानेन यजेत निरृतिं निशि ॥
[१२६] हुत्वाग्निं विधिवद् धोमम् अन्ततश् च सं मेत्य् ऋचा ।
वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतीः ॥
एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारान् चरेद् भैक्ष्यं स्वकर्म परिकीर्तयन् ॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणम् अब्देन स विशुध्यति ॥ इति । (म्ध् ११।११८–२३)
वसिष्ठो ऽपि- “ब्रह्मचारी चेत् स्त्रियम् उपेयाद् अरण्ये चतुष्पथे लौकिके ऽग्नौ रक्षोदैवतं गर्दभं पशुम् आलभते । नैरृतं वा चरुं निर्वपेत् । [१२७] तस्य जुहुयात् – कामाय स्वाहा, कामकामाय स्वाहा, निरृतये स्वाहा, रक्षोदेवताभ्यः स्वाहा” इति (वध् २३।१–३) । तत्र श्रोत्रियस्य पशुर् अश्रोत्रियस्य चरुर् इति द्रष्तव्यम् । शङ्खस् तु वर्णभेदेन व्रतविशेषम् आह- “गुप्तायां वैश्यायाम् अवकीर्णः संवत्सरं त्रिषवणम् अनुतिष्ठेत् क्षत्रियायां द्वे वर्षे । ब्राह्मण्यां त्रीणि वर्षाणि” इति । यद् अप्य् अङ्गिरसोक्तम्,
अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
चीरवासास् तु षण्मासान् तथा मुच्येत किल्बिषात् ॥
इति, तद् ईषद्व्यभिचारिणीविषयम् । अत्यन्तव्यभिचारिणीषु पुनः शङ्ख आह- [१२८] “स्वैरिण्यां ब्राह्मण्याम् अवकीर्णः षड्रात्रम् उपोषितो गां दद्यात् । क्षत्रियायाम् उपोषितस् त्रिरात्रं घृतपात्रं दद्यात् । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयित्वा यवसभारं च गोभ्यो दद्यात् । वृषलाम् अवकीर्णः सचैलस्नात उदकुम्भं ब्राह्मणाय दद्यात् । गोष्व् अवकीर्णः प्राजापत्यं चरेत् । रण्डायाम् अवकीर्णः पलालभारं सीसमाषं च दद्यात्” इति । अत्र च “ब्राह्मणस्यार्धं क्षत्रियः” इति न्यायो नास्ति किं तु समानम् एव त्रयाणां वर्णानाम् । तद् आह शाण्डिल्यः ।
अवकीर्णी द्विजो राजा वैश्यश् चापि खरेण तु ।
इष्ट्वा भैक्षाशिनो नित्यं शुध्यन्त्य् अब्दात् समाहिताः ॥ इति ।
अभ्यासे कण्व आह ।
प्रथमे दिवसे रात्राव् अवकीर्णी गर्दभेन तु ।
यजेद् एवं यथाभ्यासम् अब्देनैकेन शुध्यति ॥
[१२९] इति । तत्र विशेषम् आह गौतमः- “तस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपात्रः सप्त गृहान् भैक्षं चरेत् कर्माचक्षाणः” इति (ग्ध् २४।९३) । अवकीर्णिलक्षणम् आह जातूकर्ण्यः ।
स्कन्दितं व्रतिना रेतो येन स्याद् ब्रह्मचारिणा ।
कामतो ऽकामतः प्राहुर् अवकीर्णीति तं बुधाः ॥ इति ।
यतिवनस्थयोस् त्व् अधिकं व्रतम् आह शाण्डिल्यः ।
वानप्रस्थो यतिश् चैव स्कन्दने सति कामतः ।
पराकत्रयसंयुक्तम् अवकीर्णिव्रतं चरेत् ॥ इति ।
यतेः पुनर् गार्हस्थ्यस्वीकारे संवर्त आह ।
संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद् यति ।
स कुर्यात् कृच्छ्रम् अश्रान्तः षण्मासान् प्रत्यनन्तरम् ॥ (संस्म् १५९)
[१३०] इति । वृद्धपराशरो ऽपि ।
यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः ।
अनाशकनिवृत्तश् च गार्हस्थ्यं च चिकीर्षति ॥
चरेत् षाण्मासिकं कृच्छ्रं नियतात्मा समाहितः ।
चरेत् त्रीणि च कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥
जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिम् आप्नुयात् ॥ इति ।
तत्र ब्राह्मणस्य् षाण्मासिककृच्छ्रः क्षत्रियस्य चान्द्रायणत्रयम्, वैश्यस्य कृच्छ्रत्रयम् इति व्यवस्था । अत्र षाण्मासिकादिव्रतत्रयं ब्राह्मणस्यैव सकृ(द)भ्यासाद्यपेक्षया व्यवस्थापनीयम् इत्य् अन्ये । व्रतान्तरलोपे ऽप्य् अवकीर्णिव्रतम् अतिदिशति मनुः ।
अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ (म्ध् २।१८७)
[१३१] इति । यत् तु याज्ञवल्क्य आह ।
भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः ।
कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम् ॥
उपस्थानं ततः कुर्यात् सं मा सिञ्चत्व् अनेन तु । इति । (य्ध् ३।२८१–८२)
होममन्त्रौ तु- “कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकामाय स्वाहा । कामावपन्नो ऽस्म्य् अवपन्नो ऽस्मि कामकामाय स्वाहेति” (ग्ध् २५।९–१०) इति । एतच् च गुरुशुश्रूषादिकार्यव्यग्रतयाकरणे द्रष्टव्यम् ।
सुतादिविक्रयप्रायश्चित्तम्
सुतादिविक्रये उपपातकसाधारणोक्तं प्रायश्चित्तं योज्यम् । यत् तु शङ्खेनोक्तम्- “देवगृह-प्रतिश्रयोद्यानारामसभाप्रपातटाकपुण्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रं चरेत्” [१३२] इति, यच् च वृद्धपराशरेणोक्तम्,
विक्रीय कन्यकां गां च कृच्छ्रं सान्तपनं चरेत् ।
इति, तद् आपद्य् अकामतो द्रष्टव्यम् । यत् तु चतुर्विंशतिमते ऽभिहितम्,
नारीणां विक्रयं कृत्वा चरेच् चान्द्रायणव्रतम् ।
द्विगुणं पुरुषस्यैव व्रतम् आहुर् मनीषिणः ॥
इति, तत् तत्रैव कामतो द्रष्टव्यम् । यत् तु पैठीनसिर् आह- “आरामतटाकोदपानपुष्करिणीसुकृत-सुतविक्रये त्रिषवणस्नाय्य् अधःशायी ब्रह्मचारी चतुर्थकालाहारः सम्वत्सरेण पूतो भवति” इति, तद् अभ्यासविषयम् ॥
कन्यादूषणप्रायश्चित्तम्
कन्यादूषणे उपपातकसाधारनप्रायश्चित्तं विज्ञेयम् । यत् तु शङ्ख आह- “कन्यादूषी सोमविक्रयी च कृच्छ्राब्दं चरेयाताम्” इति, यच् च हारीतः-
कन्यादूषी सोम्विक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्रह्मघ्नो मित्रघ्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिर् इत्य् एते पञ्चतपो ऽभ्रावकाशजलशयनाद्य् अनुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु । मासं गोमूत्रयावकम् अश्नीयुः । (हार्स्म् २।४–५)
इति, तत् प्रातिलौम्येन कन्यादूषणे द्रष्टव्यम् ॥
अथ द्यूतादिव्यसनप्रायश्चित्तम्
द्यूतादिव्यसनेष्व् अप्य् उपपातकसाधारणोक्तं प्रयश्चित्तं योज्यम् । यत् तु बौधायनः संवत्सरव्रतम् आह ।
अथाशुचिकराणि । द्यूतम् अभिचारो ऽनाहिताग्नेर् उञ्छवृत्तिता समावृत्तस्य भैक्षचर्या तस्य चैव गुरुकुले वास ऊर्ध्वं चतुर्भ्यो [१३४] मासेभ्यो यश् च तम् अध्यापयति । नक्षत्रनिर्देशनं चेति । तेषां तु निर्वेशः । द्वादश मासान् द्वादशार्धमासान् द्वादश द्वादशाहान् द्वादशषडहान् द्वादश त्र्यहान् द्वादशाहं षडहं त्र्यहम् एकाहम् इति अशुचिकर्निर्वेशः । (ब्ध् २।१।२।१५–१७)
इति, तद् अभ्यासविषयम् । यद् अप्य् आह प्रचेताः ।
अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर् गरदो ऽग्निदश् च रथगजारोहणवृत्तिः रङ्गोपजीवी कूटपणिकः शूद्रोपाध्यायो वृषलीपतिर् भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर् ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारको ऽपत्यविक्रयी मनुष्यपशुविक्रेता चेति । तान् उद्धरेत् समेत्य न्यायतो ब्राह्मणो व्यवस्थया सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिषवणम् [१३५] उपस्पृस्युः । तस्यान्ते देवपितृतर्पणं गवाह्निकं चेत्य् एवं व्यवहार्याः ।
इति, तद् अभ्यासविषयम् ॥
अनाश्रमवासे प्रायश्चित्तम्
अनाश्रमवासे हारीतेन प्रायश्चित्तम् उक्तम्- “अनाश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाश्रमम् उपेयात् । द्वितीये ऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रम् अत ऊर्ध्वं चान्द्रायणम्” इति ।
शूद्रसेवाप्रायश्चित्तम्
शूद्रसेवायां बौधायन आह- “समुद्रसंयानम् । ब्राह्मणन्यासापहरणम् । सर्वापण्यैर् व्यवहरणम् । भूम्यनृतम् । शूद्रसेवनं च । शूद्राभिजननम् । तदपत्यत्वं च । तेषां च निर्वेशः । [१३६] चतुर्थकाले मितभोजिनः स्युर् अपो ऽभ्युपेयुः सवनानुकल्पम् । स्थानासनाब्यां विहरन्त एते त्रिभिर् वर्षैस् तद् अपहन्ति पापम्” (ब्ध् २।१।२।२–१०) इति, तद् बहुकालाभ्यासविषयम् ।
जातिभ्रंशकरपापप्रायश्चित्तम्
उपपातकानन्तरं जातिभ्रंशकराणि विष्णुनानुक्रान्तानि- “ब्राह्मणस्य रुजःकरणम् । अघ्रेयमध्ययोर् घ्रातिः । ज्यैह्म्यं पशुषु मैथुनाचरणं पुंसि च । इति जातिभ्रंशकराणि” इति । तेषु साधारणं प्रायश्चित्तं मनु-विष्णू आहतुः ।
जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ इति ।
(म्ध् ११।१२४; व्ध् ३७।७)
तत्र ब्राह्मणस्य रुजःकरणे प्रायश्चित्तम् एकादशाध्याये [१३७] ऽभिहितम् । पशुमैथुने तु दशमाध्याये ऽभिहितम् ।
सङ्करीकरणपापप्रायश्चित्तम्
जातिभ्रंशकरानन्तरं सङ्करीकरणान्य् अनुक्रान्तवान् विष्णुः- “ग्राम्यारण्यानां पशूनां हिंसा सङ्करीकरणम्” इति (विस्म् ३९।१) । तत्र साधारणं प्रायश्चित्तं स एवाह ।
सङ्करीकरणं कृत्वा मासम् अश्नीत यावकम् ।
कृच्छ्रातिकृच्च्छ्रम् अथ वा प्रायश्चित्तं तु कारयेत् ॥ इति । (विध् ३९।२)
प्रतिपदं तु षष्ठाध्याये ऽभिहितम् ॥
अपात्रीकरणपापप्रायश्चित्तम्
सङ्करीकरणानन्तरम् अपात्रीकरणम् अनुक्रान्तवान् विष्णुः- “निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनम् असत्यभाषणं शूद्रसेवनम् इत्य् अपात्रीकरणम्” इति (विस्म् ४०।१) । तस्य च साधारणं प्रायश्चित्तं मनुर् आह ।
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ।
शीतकृच्छ्रेण वा शुद्धिर् महासान्तपनेन वा ॥ (विध् ४०।२)
[१३८] इति ॥
मलिनीकरणपापप्रायश्चित्तम्
अपात्रीकरणानन्तरं मलिनीकरणम् अनुक्रान्तवान् विष्णुः- “पक्षिणां जलचराणां जलजानां च घातनम् । कृमिकीटानां च । मद्यानुगतभोजनम् । इति मलावहानि” इति (विध् ४१।१–४) । तत्र साधारणं प्रायश्चित्तं स एवाह ।
मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रम् अथ वा प्रायश्चित्तं विशोधनम् ॥ इति । (विध् ४१।५)
प्रायश्चित्तविशेषः
अथ प्रकीर्णकप्रायश्चित्तविशेषो ऽभिधीयते । तत्र शरणागतत्यागे मनुर् आह ।
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
संवत्सरं यवाहारस् तत् पापम् अपसेधति ॥ इति । (म्ध् ११।१९८)
पतितादिसंनिधाव् अध्ययने वसिष्ठ आह- “पतितचण्डालारावश्रवणे त्रिरात्रं वाग्यता [१३९] अनश्नन्त आसीरन् । सहस्रपरमां वाचम् अभ्यस्य ततः पूता भवन्तीति विज्ञायते” इति (विध् २३।३४–३५) । एतद् बुद्धिपूर्वकविषयम् । अबुद्धिपूर्वके तु षट्त्रिंशन्मते ऽभिहितम्- “चण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रम् अभोजनम्” इति । सर्पाद्यन्तरागमने तु यम आह ।
सर्पस्य नकुलस्याथ अजमार्जारयोस् तथा ।
मूषिकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥
पुरुषस्यैडकस्यापि शुनो ऽश्वस्य खरस्य च ।
अन्तरागमने सद्यः प्रायश्चित्तम् इदं शृणु ॥
त्रिरात्रम् उपवासश् च त्रिरहश् चाभिषेचनम् ।
ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥ इति । (यस्म् ६।४८–५०)
खरोष्ट्रयानारोहणादौ प्रायश्चित्तम् आह याज्ञवल्क्यः ।
[१४०] प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ इति । (य्ध् ३।२९१)
इदं चाकामकारविषयम् । कामकारे तु यम आह ।
खरोष्ट्रविषमा नारी समारुह्याथ वा पुमान् ।
यजने याजने कृच्छ्रम् अग्निश् चैव विनश्यति ॥
उष्ट्रयानं समारुह्य खरयानं च कामतः ।
सवासा जलम् आप्लुत्य प्राणायामेन शुध्यति ॥ इति । (= म्ध् ११।२०१)
मूत्रपुरीषप्रायश्चित्तम्
अप्सु मूत्रपुरीषादिकरणे मनुर् आह ।
विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिवेश्य तु ।
सचैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ॥ इति । (म्ध् ११।२०३)
इदम् अकामकारविषयम् । कामकारे तु यम आह ।
[१४१] आपद्गतो विना तोयं शारीरं यो निषेवते ।
एकाहं क्षपणं कृत्वा सचैलं स्नानम् आचरेत् ॥ इति । (यस्म् ५।२६)
यच् चाह सुमन्तुः- “अप्स्व् अग्नौ वा मेहतस् तप्तकृच्छ्रं कायविशोधनम्” इति, तद् अनार्तपरतया योज्यम् ॥
कर्मलोपप्रायश्चित्तम्
श्रौतस्मार्तकर्मादिलोपे मनुर् आह ।
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ इति । (म्ध् ११।२०३)
अत्रोपवासस्य प्रतिपदोक्तेष्ट्यादिना समुच्चयः । पञ्चमहायज्ञाद्यकरणे बृहस्पतिर् आह ।
अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते प्रत्यहं गृही ।
अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति ॥
आहिताग्निर् उपस्थानं न कुर्याद् यज्ञकर्मणि ।
ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धम् आचरेत् ॥ इति । (ब्स्म् २।१३–१४)
वैषम्यदानप्रायश्चित्तम्
एकपङ्क्त्युपविष्टानां वैषम्येण दानादौ यमः ।
[१४२] न पङ्क्त्यां विषमं दद्यान् न याचेन् न च दापयेत् ।
प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस् ततः ॥ इति ।
पतितादिसंभाषणे तु गौतमः- “न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन वा सह संभाषेत” इति (ग्ध् ९।१९–२१) । अशुचेत् भोजने शातातप आह ।
मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचम् आत्मनः ।
मोहाद् भुक्त्वा त्रिरात्रं स्याद् बुद्ध्वा सान्तपनं चरेत् ॥ इति । (शास्म् २।६४)
वृद्धशातातपो ऽपि ।
मूत्रयित्वा व्रजन् मार्गं स्मृतिभ्रंशाज् जलं पिबेत् ।
अहोरात्रोषितः स्नात्वा जुहुयात् सर्पिषाहुतीः ॥ (वृशास्म् १३–१४)
[१४३] इति । व्याघ्रो ऽपि ।
अस्पृश्यस्पर्शनं कृत्वा यदा भुङ्क्ते गृहाश्रमी ।
अकामतस् त्रिरात्रं स्यात् षड्रात्रं कामतश् चरेत् ॥
यतिश् चैव वनस्थश् च कुर्यातां तौ तद् एव तु ॥ इति ।
उशना अपि ।
चण्डाल्श्वपचैः स्पृष्टो विण्मूत्रोच्छिष्ट एव च ।
त्रिरात्रेण विशुद्धः स्याद् भुक्तोच्छिष्टः षड् आचरेत् ॥ इति ।
बृहस्पतिर् अपि ।
अस्नात्वा तु यदा भुङ्क्ते पिण्डं दत्वा पितुर् व्रती ।
स्पृष्ट्वा शवम् उदक्यां वा चण्डालं सूतिकां तथा ॥
अकामतस् त्रिरात्रं स्याद् बुद्ध्या सान्तपनं चरेत् ॥ इति ।
ब्रह्मसूत्रं विना मूत्रपुरीषादिकरणे स्मृत्यन्तरे प्रायश्चित्तम् उक्तम् ।
विना यज्ञोपवीतेन यद्य् उच्छिष्टो भवेद् द्विजः ।
प्रायश्चित्तम् अहोरात्रं गायत्र्यष्टशतं तु वा ॥ इति ।
इदं च कामकारविषयम् । अकामतस् तु ।
पिबतो मेहतश् चैव भुञ्जतो ऽनुपवीतिनः ।
प्राणायामत्रयं षट्कं नक्तं च त्रितयं क्रमात् ॥
[१४४] इति । भोजनान्तरम् आचमनम् अकृत्वासनाद् उत्थाने प्रायश्चित्तम् आश्वमेधिके ऽभिहितम् ।
यद्य् उत्तिष्ठत्य् अनाचान्तो भुक्तवान् आसनात् ततः ।
सद्यःस्नानं प्रकुर्वीत सो ऽन्यथाप्रयतो भवेत् ॥ इति ।
अपाङ्क्तेयपङ्क्तौ भोजने मार्कण्डेय आह ।
अपाङ्क्तेयस्य यः कश्चित् पङ्क्तौ भुङ्क्ते द्विजोत्तमः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ इति ।
नीलीरक्तवस्त्रधारणे त्व् आपस्तम्ब आह ।
नीलीरक्तं यदा वस्त्रं ब्राह्मणो ऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
रोमकूपैर् यदागच्छेद् रसो नील्यास् तु कस्यचित् ।
[१४५] त्रिवर्णेषु च सामान्यं तप्तकृच्छ्रं विशोधनम् ॥
पालनं विक्रयश् चैव तद्वृत्त्या तूपजीवनम् ।
पतितस् तु भवेद् विप्रः त्रिभिः कृच्छ्रैर् विशुध्यति ॥
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।
वृथा तस्य महायज्ञा नीलीसूत्रस्य धारणात् ॥
नीलीमध्ये तु गच्छेद् वा प्रमादाद् ब्राह्मणः क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
नीलीदारु यदा भिन्द्याद् ब्राह्मणस्य शरीरकम् ।
शोणितं दृश्यते तत्र द्विजश् चान्द्रायणं चरेत् ॥
स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥
नीलीरक्तेन वस्त्रेण भोक्ता भुञ्जीत किल्बिषम् ॥ (आप्स्म् ६।१–८)
[१४६] भृगुर् अपि ।
स्त्रीधृता शयने नीली ब्राह्मणस्य न दुष्यति ।
नृपस्य वृद्धवैश्यस्य पर्ववर्ज्यं हि धारणात् ॥
कम्बले पट्टसूत्रे च नीलीरागो न दुष्यति । इति ।
ब्रह्मतरुनिर्मितखट्वाद्यारोहणे शङ्खः ।
अध्यास्य शयनं यानम् आसनं पादुके तथा ।
द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥
क्षत्रियस् तु रणे ऽदत्वा पृष्ठं प्राणपरायणः ।
संवत्सरं व्रतं कुर्याच् छित्त्वा पिप्पलपादपम् ॥
द्वौ विप्रौ ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ ।
अन्तरेण यदा गच्छेत् कृच्छ्रं सान्तपनं चरेत् ॥
होमकाले तथा दोहे स्वाध्याये दारसंग्रहे ।
अन्तरेण यदा गच्छेत् द्विजश् चान्द्रायणं चरेत् ॥ (शंस्म् १७।४८–५१)
[१४७] इति । दुःस्वप्नारिष्टदर्शनादौ स एवाह ।
दुःस्वप्नारिष्तदर्शनादौ घृतं हिरण्यं च दद्यात् । इति ।
तीर्थयात्राम् अन्तरेण देशान्तरगमने देवलः प्रायश्चित्तम् आह ।
सिन्धुसौराष्ट्रसौवीरान् तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गाश् च गत्वा संस्कारम् अर्हति ॥ इति । (देव्स्म् ६१)
सूर्योदयादिकालशयने प्रायश्चित्तम् आह यमः ।
सूर्योदये तु यः शेते सूर्याभ्युदित उच्यते ।
अस्तं गते तु यः शेते सूर्यनिर्मुक्त उच्यते ॥
ब्रह्मस्तेनाव् उभौ सम्यग् अहोरात्रोषितौ शुची ।
गायत्र्या दशसाहस्रं कुर्याद् एकाह्निकं पृथक् ॥ इति ।
मनुर् अपि ।
तं चेद् अभ्युदियात् सूर्यः शयानं कामकारतः ।
निम्लोचेद् वाप्य् अविज्ञानात् जपन्न् उपवसेद् दिनम् ॥ (म्ध् २।२२०)
[१४८] इति । गौतमस् तु ब्रह्मचारिणो विशेषम् आह- “सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद् अहर् अभुञ्जानो ऽभ्यस्तम् इतश् च रात्रिं जपेत् सावित्रीम्” इति (ग्ध् २३।२१) । यतिवनस्थयोर् विशेषम् आह वसिष्ठः ।
वनस्थश् च यतिश् चैव सूर्येनाभ्युदितौ यदि ।
ब्रह्मकूर्चाशिनौ भूत्वा जपेतां प्रणवं त्व् अहः ॥ इति । (वध् २८।४१)
दण्डकमण्डल्वादिनाशे प्रायश्चित्तम् आह पैठीनसिः- “नष्टे दण्डकाष्ठे भक्षं दत्वा ब्राह्मणाय तदह्र् उपवसेत् । अन्यं प्रयच्छेद् गुरुः । कमण्डलाव् अप्य् एवम् एव । नष्टायां मेखलायां त्रिवृतम् आचरेत्” इति । संध्याग्निकार्यलोपे संवर्तः ।
संध्याम् आपदि नोपास्ते अग्निकार्यं यथाविधि ।
सावित्र्यष्टसहस्रं तु जपेत् स्नात्वा समाहितः ॥ इति । (संस्म् २।२७)
स्वशकृन् निरीक्षणे प्रायश्चित्तम् आह यमः ।
[१४९] प्रत्य् आदित्यं न मेहेत न पश्येद् आत्मनः शकृत् ।
दृष्ट्वा सूर्यं निरीक्षेत गाम् अग्निं ब्राह्मणं तथा ॥ इति । (यस्म् ५।१३)
भोजनकाले ऽशुचित्वे वृद्धशातातपः ।
यदा भोजनकाले तु अशुचिर् भवति द्विजः ।
भूमौ निक्षिप्य तं ग्राम्स्ं स्नात्वा विप्रो विशुध्यति ॥
भक्षयित्वा तु तं ग्रासम् अहोरात्रेण शुध्यति ।
अशित्वा सर्वम् एवान्नं त्रिरात्रेण् विशुध्यति ॥ इति । (वृशास्म् १६–१७)
श्राद्धे निमन्त्रितस्य कालातिक्रमे यम आह ।
केतनं कारयित्वा तु यो ऽतिपातयते द्विजः ।
ब्रह्महत्याम् अवाप्नोति शूद्रयोनौ प्रजायते ॥
एतस्मिन्न् एनसि प्राप्ते ब्राह्मणो नियतव्रतः ।
यतिचान्द्रायणं चीर्त्वा ततश् चान्द्रायणं चरेत् ॥ इति । (यस्म् ५।१४–१५)
क्षत्रियाद्युपसंग्रहणे हारीत आह- “क्षत्रियाभिवादने ऽहोरात्रम् उपवसेत् । वैश्यस्यापि । शूद्रस्याभिवादने त्रिरात्रम् उपवासः । तथा शय्यारूढ-[१५०]-पादुकोपान्दारोपित-पादोच्छिष्टान्धकारस्थश्राद्धकृज्जपदेवतापूजाभिरताभिवादने त्रिरात्रम् उपवासः स्यात् । अन्यत्र निमन्त्रितेनान्यत्र भोजने ऽपि त्रिरात्रम् उपवासः” इति (हार्स्म् २१।७–१२) ॥
अभिशंसनप्रायश्चित्तम्
मिथ्याभिशंसने प्रायश्चित्तम् आह याज्ञवल्क्यः ।
महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥ इति । (य्ध् ३।२८५)
जपश् च शुद्धवतीनां कार्यः । तथा च वसिष्ठः- “ब्राह्मणम् अनृतेनाभिशंस्य पतनीयेनोपपतनीयेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयेत् । अश्वमेधावभृथं वा गच्छेत्” (वध् २३।३९) [१५१] इति । हारीतो ऽपि ।
अनृताभिशंसनाक्रोशे गुरूणां पैशुनेषु च ।
एकविंशतिरात्रं तु पिबेद् ब्राह्मीं सुवर्चलाम् ॥ इति । (हार्स्म् २१।३)
शङ्खलिखितौ- “नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिश्ंसन इत्य् एते पञ्चसंवत्सरान् ब्राह्मणगृहे भैक्ष्यं चरेयुः । संवत्सरं धौतं भैक्ष्यम् अश्नीयुः । षण्मासं वा गा अनुगच्छेयुः” इति । एतेषां वचनानां यथायोगं व्यवस्था द्रष्टव्या ॥
अभिशस्तप्रायश्चित्तम्
अभिशस्तप्रायश्चित्तम् आह याज्ञवल्क्यः ।
अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा ।
निर्वपेत् तु पुरोषाशं वायव्यं पशुम् एव वा ॥ (य्ध् ३।२८७)
[१५२] इति । यत् तु वसिष्ठवचनम्- “एतेनैवाभिशस्तो व्याख्यातः” (वध् २३।३७) इति, तत् तदैवाकृतप्रायश्चित्तस्य द्रष्टव्यम् । यत् तु पैठीनसिनोक्तम्- “अनृतेनाभिशस्तः कृच्छ्रं चरेत् । मासं पातकेषु । महापातकेषु द्विमासम्” इति, तद् अपि वसिष्ठेन समानविषयम् ।
तद् एवं विष्णुनानुक्रान्तानाम् अतिपातकादीनां प्रकीर्णकान्तानां दशिविधानां पापानां सामान्यतो विशेषतश् च प्रायश्चित्तानि प्रतिपादितानि ॥
अथ रहस्यप्रायश्चित्तान्य् अभिधीयन्ते
यत् पापं कर्तृव्यतिरिक्तेनान्येन केनचिद् अपि न ज्ञातं तद् रहस्यम् । तस्य प्रायश्चित्तम् अपि रहस्य् एव कर्तव्यम् । तथा च हारीतः- [१५३] “अथ ब्राह्मणस्य श्रुतधर्मशास्त्रस्य रहस्यम् अनुक्रमिष्यामः । रहस्ये रहस्यं प्रकाशे प्रकाशम्” इति (हार्स्म् ३०।१–२) । यमः- “रहस्ये रहस्यं प्रकाशे प्रकाशम् । रहस्यकृते रहस्यम् एव कर्तव्यम् । प्रकाशकृते प्रकाशम् एव कर्तव्यम्” इति । रहस्यत्वाद् नास्ति परिषदनुमत्यपेक्षा । तद् आहतुर् बृहस्पति-याज्ञवल्क्यौ ।
विख्यातदोषः कुर्वीत पर्षदो ऽनुमतं व्रतम् ।
अनभिख्यातदोषस् तु रहस्यव्रतम् आचरेत् ॥ (य्ध् ३।३०१)
[१५४] इति ।
न च – विनापरिषदं व्रतज्ञानाभाव – इति शङ्कनीयम्, शास्त्रज्ञस्य तद्विज्ञानसंभवात् । इतरेणापि बुद्धिमता विद्वद्गोष्ठ्यां केनचिद् व्याजेनावगन्तुं शक्यत्वात् । यदि तदभिज्ञानाय परिषदो ऽग्रे पापं प्रकटीकुर्यात् तदा प्रायश्चित्तं बहुलं भवति ।
द्विविधा ह्य् अशुद्धिः पापेन जन्यते ।+++(5)+++ ऐहिक्यामुष्मिकी च । तयोर् ऐहिकी शिष्टैः सह व्यवहारं वारयति । आमुष्मिकी तु नरकं प्रापयति । तत्र प्रकटपापेषु द्विविधाशुद्धिसद्भावात् तन्निवृत्तये प्रायश्चित्तबाहुल्यम् अपेक्षितम् । रहस्ये त्व् ऐकिकाशुद्ध्यभावाद् आमुष्मिकमात्राशुद्धिः स्वल्पेनापि जपहोमादिना निवर्तते । अत एव मनुः प्राजापत्यादिव्रतानां जपादीनां च व्यवस्थाम् आह ।
एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः ।
अनाविष्कृतपापांस् तु मन्त्रैर् होमैश् च शोधयेत् ॥ इति । (म्ध् ११।२२६)
तत्र रहस्यानां साधारणं प्रायश्चित्तं स एवाह ।
वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ॥
[१५५] यथैधस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।
तथाज्ञानकृतं पापं कृत्स्नं दहति वेदवित् ॥
सव्याहृतिप्रणवकाः प्राणायामास् तु षोडश ।
अपि भ्रूणहणं मासात् पुनन्त्य् अहर् अहः कृताः ॥ इति । (म्ध् ११।२४५–४८)
वसिष्ठः ।
यद्य् अकार्यशतं साग्रं कृतं वेदश् च धार्यते ।
सर्वं तत् तस्य वेदाग्निर् दहत्य् अग्निर् इवेन्धनम् ॥ इति । (वध् २७।१)
चतुर्विंशतिमते ।
कृतैश् च क्रियमाणैश् च करिष्यद्भिर् न संशयः ।
ब्रह्म प्रतिष्ठेत्य् एतावद् अनुवाकौ जपेद् द्विजः ॥
[१५६] इति । यमः ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं स जपेन् नित्यं महापातकनाशिनीम् ॥
विराज्ं द्विगुणं जप्त्वा तदह्नैव विशुध्यति ।
वामदेव्यं त्रिर् आवर्त्य तदह्नैव विशुध्यति ॥
पौरुषं सूक्तम् आवर्त्य मुच्यते सर्वकिल्बिषात् ।
वृषभं शतशो जप्त्वा तदह्नैव विशुध्यति ॥
वेदम् एकगुणं कृत्वा तदह्नैव विशुध्यति ।
रुद्रैकादशकं जप्त्वा तदह्नैव विशुध्यति ॥ इति ।
विष्णुः-
अथातः सर्ववेदपवित्राणि भवन्ति । येषां जपैश् च होमैश् च द्विजातयः पापेभ्यः पूयन्ते । [१५७] अघमर्षणम् । देवकृतम् । शुद्धवत्यः । तरत्समन्दीयम् । कूष्माण्ड्यः । पावमान्यः । दुर्गाः सावित्रि । अभिषङ्गाः । पदस्तोमाः । सामानि । व्याहृतयो भारुण्डानि । चन्द्रसाम । पुरुषव्रते सामनी । अब्लिङ्गम् । बार्हस्पत्यम् । गोसूक्तम् । वाक्सूक्तम् । अश्वसूक्तम् । मध्वर्चं सामनी चेन्द्रशुद्धे । शतरुद्रीयम् । अथर्वशिरः । त्रिसुपर्णम् । महाव्रतम् । नारायणीयम् । पुरुषसूक्तं च ।
त्रीण्य् आज्यदोहानि रथन्तरं च
अग्नेर् व्रतं वामदेव्यं बृहच् च ।
[१५८] एतानि जप्तानि पुनन्ति जन्तून्
जातिस्मरत्वं लभते यदीच्छेत् ॥ (विस्म् ५६।१–२७)
[१५९] इति । चतुर्विंशतिमते ।
पावमानीस् तथा कौत्सं पौरुषं सूक्तम् एव च ।
जप्त्वा पापैः प्रमुच्येत पवित्रं मधुच्छन्दसम् ॥
मण्डलब्राह्मणं रुद्रं शुक्रियो मोक्षकस् तथा ।
वामदेव्यं बृहत्साम जप्त्वा पापैः प्रमुच्यते ॥
यज्ञायज्ञीयम् आदित्यं ज्येष्ठमास च राजनम् ।
पारुच्छेपं च सामानि जप्त्वा मुच्येत् किल्बिषात् ॥
अथर्वशिरसं चैव पौरुषं सूक्तम् एव च ।
नीलरुद्रं तथैवैन्द्रं जप्त्वा पापैः प्रमुच्यते ॥
आथर्वणाश् च ये केचित् मन्त्राः कामविवर्जिताः ।
ते सर्वे पापहन्तारो याज्ञवल्क्यवचो यथा ॥
सिंहे मे मन्युर् इत्य् एतद् अनुवाकं जपेद् द्विजः ।
जप्त्वा पापैः प्रमुच्येत बौधायनवचो यथा ॥
ऋग्वेदम् अभ्यसेद् यस् तु यजुःशाखाम् अथापि वा ।
सामानि सरहस्यानि अथर्वाङ्गिरसस् तथा ॥
ब्राह्मणानि च कल्पांश् च षडङ्गानि तथैव च ।
[१६०] आख्यानानि तथान्यानि जप्त्वा पापैः प्रमुच्यते ॥
इतिहासपुराणानि देवतास्तवनानि च ।
जप्त्वा पापैः प्रमुच्येत धर्मस्थानैस् तथा परैः ॥ इति ।
बौधायनः ।
विधिना शास्त्रदृष्टेन प्राणायामान् षडाचरेत् ।
यद् उपस्थकृतं पापं पद्भ्यां वा यत् कृतं भवेत् ॥
बाहुभ्यां मनसा वाचा श्रोत्रत्वक्घ्राणचक्षुषा ।
सायंसंध्याम् उपस्थाय तेन तस्मात् प्रमुच्यते ॥ इति । (ब्ध् २।४।७।१८)
मनुः ।
महापातकिनश् चैव शेषाश् चाकार्यकारिणः ।
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥
यत् किंचिद् एनः कुर्वन्ति मनोवाक्कर्मभिर् जनाः ।
तत् सर्वं निर्णुदन्त्य् आशु तपसैव तपोधनाः ॥ (म्ध् ११।२३९–४१)
[१६१] इति । कूर्मपुराणे ऽपि ।
जपस् तपस् तीर्थसेवा देवब्राह्मणपूजनम् ।
ग्रहणादिषु कालेषु महापातकशोधनम् ॥
पुण्यक्षेत्राभिगमनं सर्वपापप्रणाशनम् ।
देवताभ्यर्चनं नॄणाम् अशेषाघविनाशनम् ॥
अमावास्यां तिथिं प्राप्य यः समाराधयेद् भवम् ।
ब्राह्मणान् भोजयित्वा च सर्वपापैः प्रमुच्यते ॥
कृष्णाष्टम्यां महादेवीं तथा कृष्णचतुर्दशीम् ।
संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥
त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।
इष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
द्वादश्यां शुक्लपक्षस्य सर्वपापैः प्रमुच्यते ॥
उपोषितश् चतुर्दश्यां कृष्णपक्षे समाहितः ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
प्रत्येकं तिलसंउक्तान् दद्यात् सप्तोदकाञ्जलीन् ॥
[१६२] स्नात्वा नद्यां तु पूर्वाह्णे मुच्यते सर्वपातकैः ॥ इति । (कूपु १।२।३३।९७–१०८)
पैठीनसिः ।
सर्वपापप्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् ।
पुनस् तपस्वी भवति पङ्क्तिपावनपावनः ॥ इति ।
चतुर्विंशतिमते ।
मृगारेष्टिः पवित्रेष्टिस् त्रिहविः पावमान्य् अपि ।
इष्टयः पापनाशिन्यो वैश्वानर्या समन्विताः ॥ इति ।
कूर्मपुराणे ।
अस्मिन् कलियुगे घोरे लोकाः पापानुवर्तिनः ।
भविष्यन्ति महाबाहो वर्णाश्रमविवर्जिताः ॥
नान्यत् पश्यामि जन्तूनां मुक्त्वा वाराणसीं पुरीम् ।
सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥ इति । (कूपु १।१।२८।९–१०)
इति साधारणप्रायश्चित्तानि ।
अथ प्रतिपदोक्तानि प्रायश्चित्तानि
तत्र याज्ञवल्क्यः ।
[१६३] त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् ।
अन्तर्जले विशुध्येत गां दत्वा च पयस्विनीम् ॥ इति । (य्ध् ३।३०२)
शङ्खलिखिताव् अपि- “ब्रह्महा त्रिरात्रोपोषितो ऽन्तर्जले ऽघमर्षणं त्रिर् आवर्तयेत्” इति । एतच् च कामकारविषयम् । अकामकारविषये तु यमः- “एवं ब्रह्महत्यासुरापानसुवर्णस्तेय-गुरुतल्पेषु प्राणायामैः श्रान्तो ऽघमर्षणं जपेत्” इति । बौधायनः ।
ग्रामात् प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य स्नातः शुचिर् उदकान्ते स्थण्डिलम् उपलिप्य सकृत् क्लिन्नवासाः सकृत् पूतेन पाणिना आदित्याभिमुखो ऽघमर्षणस्वाध्यायम् अधीयीत । प्रातः शतं माध्याह्ने शतम् अपराह्णे शतम् अपरिमितं वा । उदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्यो ऽज्ञानकृतेभ्यश् चोपपातकेभ्यः सप्तरात्रात् प्रमुच्यते । [१६४] द्वादशरात्राद् भ्रूणहननं गुरुतल्पगमनं सुवर्णस्तैन्यं सुरापानम् इति च वर्जयित्वा । एकविंशतिरात्रात् तान्य् अप्य् अतितरति । इति । (ब्ध् ३।५।२–७)
मनुर् अपि ।
अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥ इति । (म्ध् ११।२५८)
बृहद्विष्णुर् अपि- “ब्रह्महत्यां कृत्वा प्राचीम् उदीचीं वा दिशम् उपप्रभूतेनेन्धनेनाग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रम् आज्याहुतीर् जुहुयात् तद् एतस्मात् पूतो भवति” इति । एतानि कामाकामकारादिभेदेन व्यवस्थापनीयानि । सुरापाने यम आह- [१६५] “सुरापः कण्ठमात्रम् उदकम् अवतीर्य सुतसोमात् प्रभृतिम् आदायोङ्कारेणाभिमन्त्र्य पिबेत् । ततो ऽप्सु निमग्नो मानस्तोकीयं जपेत्” इति । याज्ञवल्क्यः ।
त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः । इति । (य्ध् ३।३०४)
मनुः ।
कौत्सं जप्त्वाप इत्य् एतद् वासिष्ठं च प्रतीत्य् ऋचम् ।
माहित्रं शुद्धवत्यश् च सुरापो ऽपि विशुध्यति ॥
मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः ।
सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा नम इत्य् ऋचम् ॥
महापातकसंयुक्तो ऽनुगच्छेद् गाः समाहितः ।
अभ्यस्याब्दं पावमानीर् भैक्षाहारो विशुध्यति ॥ (म्ध् ११।२४९, २५६–५७)
[१६६] इति । वसिष्ठः ।
सुरां पीत्वाप्सु निर्मज्य त्रिः पठेद् अघमर्षणम् ।
यथाश्वमेधावभृथस् तादृशं मनुर् अब्रवीत् ॥ इति । ९वध् २६।८)
अत्र ज्ञानाज्ञानाभ्यासानभ्यासैर् व्यवस्था द्रष्टव्या । सुवर्णस्तेये शातातपः ।
मद्यं पीत्वा गुरुदारांश् च गत्वा
स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा ।
भस्मच्छन्नो भस्मशय्यां शयानो
रुद्राध्यायी मुच्यते सर्वपापैः ॥ इति । (शास्म् १।७१)
यमः- “ब्राह्मणः सुवर्णस्तेयं कृत्वा हिरण्यं शालायां प्रक्षिप्याप्सु स्नातो ग्रीवामात्रम् उदकं हिरण्यवर्णाभिश् चतसृभिर् आत्मानम् अभ्युक्ष्य त्रीन् प्राणायामान् कृत्वा तद् एतस्मात् पापात् पूतो भवति” [१६७] इति । बृहस्पतिः ।
सकृज् जप्त्वास्यवामीयं शिवसंकल्पम् एव वा ।
अपहृत्य सुवर्णं वा क्षणाद् भवति निर्मलः ॥ इति ।
याज्ञवल्क्यः ।
ब्राह्मणः स्वर्णहारी तु रुद्रजापी जले स्थितः । इति । (य्ध् ३।३०४)
जपश् चैकादशकृत्वा आर्यः । तद् आह अत्रिः ।
एकादश गुणान् वापि रुद्रान् आवर्त्य धर्मवित् ।
महापापैर् अपि स्पृष्टो मुच्यते नात्र संशयः ॥ इति ।
गुरुतल्पे याज्ञवल्क्यः ।
सहस्रशीर्षाजापि च मुच्यते गुरुतल्पगः ।
गौर् देया कर्मणो ऽस्यान्ते पृथग् एभिः पयस्विनी ॥ इति । (य्ध् ३।३०५)
यमो ऽपि- “अथ गुरुतल्पगमनं कृत्वाघमर्षणम् अन्तर्जले त्रिर् आवर्त्य तद् एतस्मात् पापात् पूतो भवति” [१६८] इति । मनुर् अपि ।
हविष्यान्तीयम् अभ्यस्य न तमं ह इतीति च ।
जप्त्वा च पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ इति । (म्ध् ११।२५१)
संसर्गी येन सह संसर्गं करोति स तदीयम् एव प्रायश्चित्तं कुर्यात्, “स तस्यैव व्रतं कुर्यात्” इति पूर्वम् एवोक्तत्वात् ॥
अथोपपातकरहस्यप्रायश्चित्तानि
तत्र यमः ।
दशप्रणवसंयुक्तैः प्राणायामैश् चतुःशतैः ।
मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥ इति ।
याज्ञवल्क्यो ऽपि ।
प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ (य्ध् ३।३०६)
[१६९] इति । मनुर् अपि ।
एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।
अवेत्य् ऋचं जपेद् अब्दं यत् किंचेदम् इतीति च ॥ इति । (म्ध् ११।२५२)
अत्र सकृदभ्यासादिभेदेन व्यवस्था द्रष्टव्या ॥
अथ व्रतलक्षणानि
तत्र सर्वव्रतस्य साधारणान्य् अङ्गानि याज्ञवल्क्य आह ।
ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता ।
अहिंसास्तेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥
स्नानमौनोपवादेज्यास्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषाशौचाक्रोधाप्रमादिताः ॥ इति । (य्ध् ३।३१३–१४)
अत्र ब्रह्मचर्यं सर्वेन्द्रियनिग्रहः । उपस्थनिग्रहो लिङ्गनिरोधः । तयोर् गोबलीवर्दन्यायेन पुनरुक्तिः । अकल्कत्वम् अकुटिलत्वम् । [१७०] इति । मनुर् अपि ।
अहिंसां सत्यम् अक्रोधम् आर्जवं च समाचरेत् ।
त्रिर् अह्नि त्रिर् निषायां च सवासा जलम् आविशेत् ।
स्त्रीशूद्रपतितांश् चैव नाभिभाषेत कर्हिचित् ॥
स्थानासनाभ्यां विहरेद् अशक्तो ऽधः शयीत वा ।
ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥
सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः ।
सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ॥ इति । (म्ध् ११।२२२–२५)
तत्र प्राजाप्तयव्रतलक्षणम् आह हारीतः ।
त्र्यहं सायं त्र्यहं प्रातस् त्र्यहम् अध्याद् अयाचितम् ।
परं त्र्यहं वायुभक्षः एष कृच्छ्रः प्रजापतेः ॥ इति ।
मनुर् अपि ।
त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।
त्र्यहं परं तु नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ (म्ध् ११।२११)
[१७१] इति । अस्यैवाधिकारिभेदेन प्रयोगान्तरम् आह वसिष्ठः ।
अहः प्रातर् अहर् नक्तम् अहर् एकम् अयाचितम् ।
अहः पराकं तत्रैकम् एवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर् धर्मभृतां वरः ।
बालवृद्धातुराणां च शिशुकृच्छम् उवाच ह ॥ इति । (वध् २३।४२–४३)
एतद् उभयम् अपि प्राजापत्यकृच्छ्रं दर्शयति याज्ञवल्क्यः ।
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ॥
यथा कथंचित् त्रिगुणः प्राजापत्यो ऽयम् उच्यते ॥ (य्ध् ३।३१९–२०)
[१७२] इति । एकभक्तेन दिवैव सकृद् भोजनेन । नक्तेन रात्रौ सकृद्भोजनेन । अयाचितेन न विद्यते याचितं यस्मिन् भोजने तद् अयाचितम् तेन । अत्र कालविशेषाप्रतीतेर् दिवा रात्रौ वा सकृद्भोजनेन । उपवासेन चैकेन एकस्मिन् दिने ऽनशनेन च पादकृच्छ्रो भवति । अयम् एव पादकृच्छ्रः स्वस्थानविवृद्ध्या वा दण्डकलितवद् आवृत्त्या वा यथा कथंचित् त्रिगुणः त्रिर् अभ्यस्तः प्राजापत्य इत्य् उच्यते इत्य् अर्थः । एकभक्तादिषु ग्राससंख्या आपस्तम्बेन दर्शिता ।
सायं द्वाविंशतिर् ग्रासाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विंशतिर् अयाच्याः परं निरशनं स्मृतम् ॥ इति ।
तत्परिमाणम् अपि तेनैवोक्तम् ।
कुक्कुटाण्डप्रमाणं तु यथा वास्यं विशेत् सुखम् । इति ।
चतुर्विंशतिमते तु प्रकारान्तरेण संख्या श्रूयते ।
प्रातस् तु द्वादश ग्रासाः सायं पञ्चदशैव तु ।
अयाचिते च द्वाव् अष्टौ परं वै मारुताशनः ॥ इति ।
अत्र शक्त्यपेक्षया व्यवस्था द्रष्टव्या । आपस्तम्बस् तु चतुरः पादकृच्छ्रान् कृत्वा तेषां वर्णभेदेन व्यवस्थाम् आह ।
[१७३] त्र्यहं निरशनं पादः पादश् चायाचितं त्र्यहम् ।
सायं त्र्यहं तथा पादः पादः प्रातस् तथा त्र्यहम् ॥
प्रातः पादं चरेच् छूद्रः सायं वैश्यस्य दापयेत् ।
अयाचितं तु राजन्ये त्रिरात्रं बृह्मणे स्मृतम् ॥ इति ।
अर्धकृच्छ्रपादोनकृच्छ्रयोर् अपि स्वरूपं स एवाह ।
सायं प्रातर् दिनार्धं स्यात् पादोनं नक्तवर्जितम् । इति ।
अयम् अर्थः । अयाचितोपवासत्र्यहद्वयानुष्ठाने नार्धकृच्छ्रो भवति । नकत्र्यहव्यतिरिक्तत्र्यहत्रयानुष्ठानेन पादोनकृच्छ्रो भवति । अर्धकृच्छ्रप्रकारो ऽपि तेनैवोक्तः ।
सायं प्रातस् तथैवोक्तं दिनद्वयम् अयाचितम् ।
दिनद्वयं तु नाश्नीयात् कृच्छ्रार्धं तद् विधीयते ॥
[१७४] इति । अत्रापि शक्त्यपेक्षया व्यवस्था द्रष्टव्या । यत् तु जपहोमादिबह्वङ्गसहितं प्राजापत्यकृच्छ्रं गौतमेनाभिहितम्
हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात् । अथापरं त्र्यहं नक्तं भुञ्जीत । अथापरं त्र्यहं न कंचन याचेत । अथापरं त्र्यहम् उपवसेत् । तिष्ठेद् अहनि, रात्राव् आसीत । क्षिप्रकामः । सत्यं वदेत् । अनार्यैर् न संभाषेत । रौरवयौधाजपे नित्यं प्रयुञ्जीत । अनुसवनम् उदकोपस्पर्शनम् आपोहिष्ठेति तिसृभिः पवित्रवतीभिर् मार्जयीत । हिरण्यवर्णाः शुचयः पावका इत्य् अष्टाभिः । अथोदकतर्पणम् । ॐ नमो हमाय मोहमाय संहमाय धुन्वते तापमाय पुनर्वसवे । नमो नमो [१७५] मौञ्जायोर्म्याय वसुविन्दाय सर्वविन्दाय नमो नमः पाराय सुपाराय महापाराय पारदाय पारयिष्णवे । नमो नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने । नमो नमः सूर्यायादित्याय । नमो नमो नीलग्रीवाय शितिकण्ठाय । नमो नमः कृष्णाय पिङ्गलाय । नमो नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे । नमो नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपाय । नमो नमो दीप्ताय दीप्तरूपिणे । नमो नमस् तीक्ष्णाय तीक्ष्णरूपिणे । नमो नमः सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे । [१७६] नमो नमश् चन्द्रललाटाय कृत्तिवाससे पिनाकहस्ताय नमो नम इति । एतद् एवादित्योपस्थानम् । एता एवाज्याहुतयः । द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयात् । अग्नये स्वाहा सोमाय स्वाहा अग्नीषोमाभ्याम् इन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये अग्नये स्विष्टकृते इति । अन्ते ब्राह्मणभोजनम् ॥ इति । (ग्ध् २७।२–२९)
हविष्यानित्याद्य् उपवसेद् इत्यन्तेन प्राजापत्यस्य स्वरूपम् उक्तम् । तिष्ठेद् इत्यादिना तस्यैवेतिकर्तव्यतोच्यते । अहनि तिष्ठेद् इत्यन्तेन भोजनाद्यविरुद्धकालेषु अहर् उत्थित एव स्यात् । रात्राव् आसीतेत्यन्तेन निद्राया आवश्यकत्वात् ताम् आसीन एव सेवेतेत्य् उक्तं भवति । क्षिप्रकामो ऽपि भवेत् । शीघ्रं शुद्धः स्याम् इति संजातकामो ऽपि भवेद् इत्य् अर्थः । अथ वा शीघ्रं शुद्धिकामो ऽहनि तिष्ठेद् रात्राव् आसीतेत्य् अर्थः ।
[१७७] एवं सत्यं वदेद् इत्याद्यङ्गकलापे क्षिप्रकाम इति अधिकारिविशेषणम् अनुषञ्जनीयम् । अनेन यः शनैः शनैः शुद्धो भवामीति मन्यते तस्य नायं नियम इति अवगम्यते । रौरवयौधाजपे सामनी । नमो हमायेत्यादयस् त्रयोदश् मन्त्रास् तर्पणसूर्योपस्थानाज्यहोमेषु द्रष्टव्याः । अथ वा संप्रदानविभक्त्यन्ताः षट्पञ्चाशन् मन्त्राः । तर्पणम् अनुसवनं कर्तव्यम्, स्नानाङ्गत्वात् तर्पणस्य । तथा च भृगुः ।
नित्यं नैमित्तिक्ं काम्यं त्रिधं स्नानम् उच्यते ।
तर्पणं त्रिविधस्याङ्गम् एष एव विधिः सदा ॥ इति ।
आदित्योपस्थानाज्यहोमौ तु प्रतिदिनं सकृत् सकृत् कार्यौ, “अथोदकतर्पणम् आदित्योपस्थानम् आज्यहोमश् च” इत् वक्तव्ये, “एतद् एवादित्य्पस्थानम् । एता एवाज्याहुतयः” इति पृथग्योगकरणात् । शिष्टं स्पष्टम् । एतद् हारीताद्युक्त-[१७८]-जपहोमाद्यङ्गरहितप्राजापत्यद्वयस्थाने वेदितव्यम्, बहुप्रयाससाध्यत्वेनातिगुरुत्वात् । अथ वा येषां शूद्रादीनां मन्त्राधिकारो नास्ति तेषां जपहोमादिरहितं प्राजापत्यं वेदितव्यम् । अत एवोक्तम् अङ्गिरसा ।
तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥ इति ।
येषां ब्राह्मणादीनां जपहोमादिष्व् अधिकारस् तेषां गौतमोक्तं वेदितव्यम् ॥
अथातिकृच्छ्रः
तस्य लक्षणम् उक्तं चतुर्विंशतिमते ।
एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेन् नित्यम् अतिकृच्छ्रं चरन् द्विजः ॥ इति ।
एकभक्तनक्तायाचितदिवसेषु नवस्व् एकैकं ग्रासम् अश्नीयात् त्र्यहं चोपवसेत् । एवं चातिकृच्छ्रो भवतीत्य् अर्थः । यत् तु याज्ञवल्क्येनोक्तम्,
अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः । (य्ध् ३।३२०)
[१७९] इति – अयम् एव प्राजापत्यकृच्छ्रः एकभकनक्तायाचितदिवसेषु नवसु पाणिपूरान्नभोजनयुक्तो ऽतिकृच्छ्रो भवतीत्य् अर्थः – तद् एतद् अशक्तविषयम् । पाणिपूरान्नस्य ग्रासपरिमिताद् अन्नाद् अधिकपरिमाणत्वात् ॥
अथ कृच्छ्रातिकृच्छः
तस्य लक्षणं याज्ञवल्क्येनोक्तम् ।
कृच्छ्रातिकृच्छ्रः पयसा दिवसान् एकविंशतिम् । इति । (य्ध् ३।३२१)
विष्णुर् अपि- “कृच्छ्रातिकृच्छ्रः पयसा दिवसान् एकविंशतिक्षपणम्” इति (विध् ४६।१३) । यत् तु गौतमः- “अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः” (ग्ध् २७।३२) इति, –एकभक्तनक्तायाचितदिवसेषु यो भोजनकालः तस्मिन्न् एव काले केवलम् उदकेन वर्तनं कृच्छ्रातिकृच्छ्रो भवतीति – तद् एतच् छक्तविषयम् । अतिकृच्छ्रकृच्छ्रातिकृच्छयोर् अपि प्राजापत्यकृच्छ्रोक्तेतिकर्तव्यता द्रष्टव्या, [१८०] “एतेनैव कृच्छ्रातिकृच्छ्रौ व्याख्यातौ” (ग्ध् २७।३१) इति गौतमस्मरणात् । पराकलक्षणम् आह यमः ।
द्वादशाहं निराहारो यथात्मा संशितव्रतः ।
कृच्छ्रः प्राकमामैष सर्वपापप्रणाशनः ॥ इति ।
पर्णकृच्छ्रलक्षणम् आह याज्ञवल्क्यः ।
पर्ण्ōदुम्बरजाजीवबिल्वपत्रकोशोदकैः ।
प्रत्येकं पर्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ (य्ध् ३।३१७)
[१८१] इति । पलाशोदुम्बरारविन्दबिल्वपर्णानाम् एकैकेन क्वथितम् उदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्न् अहनीति । पर्णकृच्छ्रस्य लक्षणान्तरम् आह यमः ।
एतान्य् एव समस्तानि त्रिरात्रोपोषितः शुचिः ।
क्वाथयित्वा पिबेद् अद्भिः पर्णकृच्छ्रो विधीयते ॥ इति ।
यदा पलाशादिपत्राण्य् एकीकृत्याम्भसा क्वाथियित्वा त्रिरात्रोपवासान्ते क्वथितं तत् पिबेद् तदा पर्णकृच्छ्रो भवतीत्य् अर्थः । फलकृच्छ्रादीनां स्वरूपम् आह मार्कण्डेयः ।
फलैर् मासेन कथितः फलकृच्छ्रो मनीषिभिः ।
श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पदाक्षरैर् अपरस् तथा ॥
मासेनामलकैर् एवं श्रीकृच्छ्रम् अपरं स्मृतम् ।
पत्रैर् मतः पत्रकृच्छ्रः पुष्पैर् तत्कृच्छ्र उच्यते ॥
मूलकृच्छ्रः स्मृतो मूलैस् तोयकृच्छो जलेन तु ॥ इति ।
यदा बिल्वादिफलान्य् अम्भसा क्वाथयित्वा मासम् एकं तद् अम्भः पिबति तदा फलकृच्छ्रो भवति । यदा बिल्वपद्माक्षमूलानाम् अन्यतमस्य क्वाथं मासं पिबेत् तदा पत्रपुष्पमूलकृच्छ्राणि भवन्ति । [१८२] वारुणस्त्रीकृच्छ्रयोर् लक्षणम् आह यमः ।
ब्रह्मचारी जितक्रोधो मासे ऽप्य् उदकसक्तुकान् ।
पिबेच् च नियताहारः कृच्छ्रं वारुणम् उच्यते ॥
त्र्यहं पिबेत् तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं वै यावकेनैव स्त्रीकृच्छ्रं ह्य् एतद् उच्यते ॥ इति । (यस्म् ५।३१)
सौम्यकृच्छ्रस्वरूपम् आह याज्ञवल्क्यः ।
पिण्याकाचामतक्राम्ब्य्सक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश् च कृच्छ्रः सौम्यो ऽयम् उच्यते ॥ इति । (य्ध् ३।३२२)
आचाम् ओदननिःस्रावः । पिण्याकादीनां पञ्चानाम् एकैकं प्रतिदिनम् उपभुज्य षष्ठे ऽहन्य् उपवसेत् । एष सौम्यकृच्छ्रः । यत् तु जाबालेन चतुरहव्यापी सौम्यकृच्छ्र इत्य् उक्तम्,
[१८३] पिण्याकं सक्तवस् तक्रं चोदकसक्तवः ।
त्रिरात्रम् उपवासश् च तुलापुरुष उच्यते ॥ इति ।
सो ऽयम् अष्टदिवससाध्यः । याज्ञवल्क्यस् तु पञ्चदशदिवससाध्यम् आह ।
एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् ।
तुलापुरुष इत्य् एव ज्ञेयः पञ्चदशाहिकः ॥ इति । (य्ध् ३।३२३)
एषां प्रकृतानां पिण्याकादीनां पञ्चद्रव्याणाम् । यमस् त्व् एकविंशतिदिवससाध्यम् आह ।
आचामम् अथ पिण्याकं तक्रं चोदकसक्तुकान् ।
[१८४] त्र्यहं त्र्यहं प्रभुञ्जानो वायुभक्षस् त्र्यहद्वयम् ॥
एकविंशतिरात्रस् तु तुलापुरुष उच्यते ॥
इति, तद् एतत् त्रयं पापतारतम्यविषयतया व्यवस्थापनीयम् । अत्रेतिकर्तव्यताम् आह हारीतः ।
अथातस् त्रिणयनोक्तस्य तुलापुरुषस्य कल्पं व्याख्यास्यामः ।
अयाज्ययाजनं कृत्वा प्राश्य मूत्रपुरीषयोः ।
अप्रतिग्राह्यम् आदाय याजयित्वा विनिन्दितान् ॥
विनायकोपसृष्टस्य महाव्याधिहतस्य च ।
एतत् कृच्छ्रं तुलापूर्षं महापातकनाशनम् ॥
स्वर्गद्वारम् इदं पुण्यं महादेवेन निर्मितम् ।
आचामम् अथ पिण्याकं तक्रं चोदकसक्तुकान् ॥
त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षस् त्र्यहद्वयम् ।
वाचा कायेन मनसा कृतानि विविधानि च ॥
[१८५] आचामस् तानि निर्हन्ति नवश्राद्धं च सूतकम् ।
तैक्ष्ण्यं च दारुणं चैतत् केशकीटहतं च यत् ॥
आखोर् मूत्रपुरीषं च ब्रह्महस्पृष्टम् एव च ।
पिण्याकस् तानि निर्हन्ति अस्थि भित्त्वा तु यत् स्थितम् ॥
आहारेषु च ये दोषाः स्नेहदोषाश् च ये क्वचित् ।
खरोष्ट्रमुखसंस्पृष्टम् उग्रसंस्पृष्टम् एव च ॥
तक्रेण तानि निर्हन्ति यच् चान्यत् श्वावलोकितम् ।
कानकाश्वतिलागावो भूमिर् आच्छादनं स्त्रियः ॥
सर्वं पुनाति धर्मात्मा गूढं चोदकसक्तुभिः ॥
ब्रह्महत्यां भ्रूणहत्यां स्वर्णस्तेयं सुरापानं गुरुदाराभिगमनं कन्यादूषणं क्लीबाभिगमनम् उदक्याभिगमनं वायुभक्षः पुनाति ।
[१८६] गन्धोशीरमयौ कार्यौ पुरुषौ पलसंमितौ ।
नदीमृत्तिकया वापि पुरुषौ द्वौ च कारयेत् ॥
महापशुर् येन शरेण विद्धो
यद् वा शस्त्रम् उभयतो यच् च लक्ष्यम् ।
तेनायसीं सुकृतां कारयित्वा
प्रादेसमात्राम् उभयतो जातशिक्याम् ॥
सौवर्णीं राजतीं वापि तुलां देवीं तु कारयेत् ।
तस्यालाभे तुला कार्या यथा वाप्य् उपपद्यते ॥
यः पुरुषः पिङ्गलो बभ्रुर् हलमुसलचक्रपाणिस्तमह (?) पिङ्गलं चक्रहलमुसलशूलवज्रपाणिम् आवाहयामि । स्वत एहि सूत एहि स्वयाम एहि नाग एहि कृष्णाजिन एहि । [१८७] स्वागतम् अनु स्वागतम् । भगवते तुलापुरुषाय महादेवायेदम् आसनम् इदं पाद्यम् इदम् आचमनीयम् इदं गन्धमाल्यधूपदीपनैवेद्यं प्रतिगृहाण प्रसीद देव तुभ्यं नमः । अक्रुद्धः सुमना भव । अथ तुलाम् अभिमन्त्रयेत् । ऋषिसत्यं ब्रह्मसत्यं देवसत्यं अन्तःसत्यं तेन सत्येन सत्यवादिनि ।
देशानां संपदं ब्रूहि कं देशं वर्धयिष्यसि ।
बीजानां संपदं ब्रूहि किं बीजं वर्धयिष्यसि ।
राज्ञां च संपदं ब्रूहि कं नृपं वर्धयिष्यति ॥
अस्माकं संपदं ब्रूहि किम् अस्माकं भविष्यति ।
यदा तु गुरुम् आत्मानम् असकृत् तुलया धृतम् ।
परं चैव लघुं मन्येत् तदा कर्म समारभेत् ॥
अग्नये पृथिव्यधिपतये स्वाहा । वायवे ऽन्तरिक्षाधिपतये स्वाहा । [१८८] सूर्याय दिवोऽधिपतये स्वाहा । सोमाय नक्षत्राधिपतये स्वाहा । वासुकये नागाधिपतये स्वाहा । कुबेराय यक्षाधिपतये स्वाहा । इन्द्राय देवाधिपतये स्वाहा । ब्रह्मणे त्रैलोक्याधिपतये स्वाहा । देव्यै भगाधिपतये स्वाहा । सालकटङ्कटाय स्वाहा । कूष्माण्डराजपुत्राय स्वाहा । विनायकाय स्वाहा । महाविनायकाय स्वाहा । महामहाविनायकाय स्वाहा । वक्रतुण्डाय गाणानां पतये स्वाहा । धर्माय स्वाहा । अधर्माय स्वाहा । तुलायै स्वाहा । [१८९] तुलापुरुषाय स्वाहा । देव्यै पुनरागमनाय स्वाहा । सकृच् चरितिवा शुचिः पुत्र्यः कर्मण्यो भवति । द्वितीयं चरित्वा गाणपत्यं प्राप्नोति । त्रिश् चरित्वा महादेवस्यावसथं प्राप्नोति । आषाढ्यां कार्त्तिक्यां वा फाल्गुन्यां वा पुण्ये नक्षत्रे एषा विहितो धर्मः ॥ इति ।
(हार्स्म् २८।६१–११५)
अथ कृच्छ्राः
वारुणकृच्छ्रः
तत्र वारुणकृच्छ्रम् आह यमः ।
ब्रह्मचारी जितक्रोधो मासे ऽप्य् उदकसक्तुकान् ।
पिबेच् च नियताहारः कृच्छ्रं वारुणम् उच्यते ॥ इति ।
अथाघमर्षनकृच्छ्रः
अघमर्षणकृच्छ्रम् आह विष्णुः- “अथ कृच्छ्राणि भवन्ति । त्र्यहं नाश्नीयात् । [१९०] प्रत्यहं च त्रिषवणं स्नानम् आचरेत् । मग्नस् त्रिर् अघमर्षणं जपेत् । दिवा स्थितस् तिष्ठेत् । रात्राव् आसीत । कर्मणो ऽन्ते पयस्विनीं दद्यात् । इत्य् अघमर्षणम्” इति (विध् ४६।१–९) । शङ्खस् तु प्रकारान्तरेणाघमर्षणकृच्छ्रम् आह ।
त्र्यहं त्रिषवणस्नायी मौनी स्याद् अघमर्षणम् ।
मनसा त्रिः पठेद् अप्सु न भुञ्जीत दिनत्रयम् ॥
वीरासनं सदा तिष्ठेत् गा च दद्यात् पयस्विनीम् ।
अघमर्षणम् इत्य् एतद् व्रतं सर्वाघसूदनम् ॥ इति । (शङ्स्म् १८।१–२)
अथ यज्ञकृच्छ्रः
तत्राह अङ्गिराः ।
युक्तस् त्रिषवणस्नायी संयतो मौनम् आस्थितः ।
प्रातःस्नानस्मारम्भं कुर्याज् जप्यं च नित्यशः ॥
[१९१] सावित्रीं व्याहृतीश् चैव जपेद् अष्टसहस्रकम् ।
ओंकारम् आदितः कृत्वा रूपे रूपे तथान्ततः ॥
भूमौ वीरासने युक्तः कुर्याज् जप्यं सुसंयतः ।
आसीनश् च स्थितो वापि पिबेद् गव्यं पयः सकृत् ॥
गव्यस्य पयसो ऽलाभे गव्यम् एव भवेद् दधि ।
दध्नो ऽभावे भवेत् तक्रं तक्राभावे तु यावकम् ॥
एषाम् अन्यतमं यद् यद् उपपद्येत तत् पिबेत् ।
गोमूत्रेण समायुक्तं यावकं चोपयोजयेत् ॥
एकाहेन तु कृच्छ्रो ऽयम् उक्तस् त्व् अङ्गिरसा स्वयम् ।
सर्वपापहरो दिव्यो नाम्ना यज्ञ इति स्मृतः॥
एतत् पातकयुक्तानां तथा चाप्य् उपपातकैः ।
महद्भिश् चापि युक्तानां प्रायश्चित्तम् इदं शुभम् ॥ इति ।
अथ देवकृच्छ्रः
देवकृतं कृच्छ्रं दर्शयति यमः ।
यवागूं यावकं शाकं क्षीरं दधि घृतं तथा ।
त्र्यहं त्र्यहं तु प्राश्नीयाद् वायुभक्षः परं त्र्यहम् ॥
[१९२] कृच्छ्रं देवकृतं नाम सर्वकल्मषनाशनम् ।
मरुद्भिर् वसुभी रुद्रैर् आदित्यैश् चरितं व्रतम् ॥
व्रतस्यास्य प्रभावेन विरजस्का हि ते ऽभवन् ॥ इति ।
अथ यावककृच्छ्रः
यावककृच्छ्रम् आह शङ्खः ।
गोपुरीषयवाभ्यासो मासम् एकं समाहितः ।
व्रतं तु यावकं कुर्यात् सर्वपापनुत्तये ॥ इति । (शङ्स्म् १८।१०)
देवलो ऽपि- “यवानाम् अप्सु साधितानां सप्तरात्रं पक्षं मासं वा पाशनं यावकः । एतेन यावकपायसौदकानि व्याख्यातानि । यावकपायसौदकानि प्राजापत्यविधानेन व्याख्यातानि भवन्ति ॥ इति ।
अथ प्रसृतियावककृच्छ्रः
अथ प्रसृतियावकः । तत्र हारीतः-
य आत्मकृतैः कर्मभिर् गुरुम् आत्मानं पश्येत् आत्मार्थं प्रसृतियावकं श्रपयेत् । ततो ऽग्नौ [१९३] जुहुयात् । तद् एव बलिकर्म । शृतं चाभिमन्त्रयेत् ।
यवो ऽसि धान्यराजो वा वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रम् ऋषिभिः स्मृतम् ॥
घृतं यवा मधु यवा आपोहिष्ठामृतं यवाः ।
सर्वं पुनन्तु मे पापं यन् मया दुष्कृतं कृतम् ॥
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मीं कालकर्णीं च सर्वं पुनीत मे यवाः ॥
मातापित्रोर् अशुश्रूषां यौवने कारितां तथा ।
श्वसूकरावलीढं च उच्छिष्टोपहतं च यत् ॥
सुवर्णस्तेयं व्रात्यत्वं बालत्वाद् आत्मनस् तथा ।
ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ॥
श्रप्यमाणे रक्षां कुर्यात् । नमो रुद्राय भूताध्पतये द्यौः सावित्री मानसोकेति पात्रे त्रिर् निषिच्य “ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः [१९४] स्वाहा” इत्य् आत्मनि जुहुयात् । त्रिरात्रम् एवार्थार्थी । पापकृत् षड्रात्रं पीत्वा पूतो भवति । सप्तरात्रं महापातकी । द्वादशरात्रं पीत्वा सर्वं पुरुषकृतं पापं निर्दहति । निःसृतानां यवानाम् एकविंशतिरात्रं पीत्वा गणान् पश्यति । गणाधिपतिं पश्यति । विद्यां पश्यति । विद्याधिपतिं पश्यति । यो ऽश्नीयाद् यावकं पक्वं गोमूत्रे सकृद् दधिक्षीरसर्पिः प्रमुच्यते सो ऽहंसः क्षणाद् इत्य् आह भगवान् मैत्रावरुणिः । इति । (हार्स्म् २८।३२–४८)
इत्थं प्राजापत्यादिव्रतानि निरूपितानि ।
अथ व्रतग्रहणप्रकारः
तत्र विष्णुः ।
सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् ।
ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥
[१९५] दिनान्ते नखरोमादीन् प्रवाप्य स्नानम् आचरेत् ।
भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥
मलापकर्षणं कार्यं बाह्यशौचोपसिद्धये ।
दन्तधावनपूर्वेण पञ्चगव्येन संयुतम् ॥
व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने ।
आचम्यातः परं मौनी द्यायन् दुष्कृतम् आत्मनः ॥
मनःसंतापनं तीव्रम् उद्वहेच् छोकम् अन्ततः । इति । (विध् ३।२१–२५)
बहिः ग्रामान् निष्क्रम्येत्य् अर्थः । पूर्वेद्युर् निशामुखे व्रतं परिषदुद्दिष्टप्रकारेण संकल्प्य परेद्युस् त्रिषवणस्नानप्रातर्होमाद्यङ्गसहितं व्रतम् अनुष्ठातुम् आरभेत् । प्रातर्होमाद्यङ्गानि च जाबालेन दर्शितानि ।
आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः ।
आज्येनैव हि शालाग्नौ जुहुयाद् आहुतीः पृथक् ॥
श्राद्धं कुर्याद् व्रतान्ते च गोहिरण्यादिदक्षिणाम् ॥ इति ।
यमो ऽपि ।
पश्चात्तापो निर्वृत्तिश् च स्नानं चाङ्गतयोदितम् ।
नैमित्तिकानां सर्वेषां व्रतानां विधिपूर्वकम् ॥
[१९६] गात्राभ्यङ्गं शिरो ऽभ्यङ्गं ताम्बूलम् अनुलेपनम् ।
व्रतस्थो वर्जयेत् सर्वं यच् चान्यद् बलरागकृत् ॥ इति । (यस्म् ६।१४)
गृहीतस्य व्रतस्यासमापने प्रत्यवायम् आह छागलेयः ।
पूर्वं व्रतं गृहीत्वा तु नाचरेत् कामतो हि यः ।
जीवन् भवति चाण्डालो मृतः श्वा चाभिजायते ॥ इति ॥
अथ प्रत्याम्नायाः
अथ पूर्वोक्तानां व्रतानां केनचिन् निमित्तेनानुष्ठानाशक्तौ यथायोगं प्रत्याम्नाया उच्यन्ते । तत्र प्राजापत्यस्य प्रत्याम्नायाश् चतुर्विंशतिमते दर्शिताः ।
कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
तिलहोमसहस्रं तु वेदपारायणं तथा ॥
विप्रा द्वादश वा भोज्याः पावकेष्टिस् तथैव च ।
अथ वा पावमानेष्टिः समान्य् आहुर् मनीषिणः ॥ इति ।
स्मृत्यन्तरे ऽपि ।
[१९७] कृच्छ्रो ऽयुतं तु गायत्र्या उदवासस् तथैव च ।
धेनुप्रदानं विप्राय समम् एतच् चतुष्टयम् ॥ इति ।
स्मृत्यन्तरे ऽपि ।
प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् द्विजोत्तमः ।
धेनोर् अभावे दातव्यं मूल्यं तुल्यं न संशयः ॥ इति ।
मूल्यं च यथाशक्ति देयम् । अत एव ब्रह्मपुराणे ।
गवाम् अभावे निष्कं स्यात् तदर्धं पादम् एव वा । इति ।
यत्र यावत्सङ्ख्यया प्राजापत्यान्य् आवर्तनीयानि भवन्ति तत्र तावत्संख्यया गोदानान्य् आवर्तनीयानि । तद् अपि चतुर्विंशतिमते दर्शितम् ।
जन्मप्रभृति पापानि बहूनि विविधानि च ।
अर्वाक् तु भ्रूणहत्यायाः षडब्दं कृच्छ्रम् आचरेत् ॥
प्रत्याम्नाये गवां देयं साशीति धनिना शतम् ।
तथाष्टादशलक्षाणि गायत्र्या वा जपेद् बुधः ॥ इति ।
ननु – उक्तरीत्या द्वादशवार्षिकस्य प्राजापत्यस्य [१९८] प्रत्याम्नायत्वेन षट्त्रिशल्लक्षसंख्याको गायत्रीजपः प्राप्नोति । कोटिसंख्याकस् तु चतुर्विंशतिमत एव स्मर्यते ।
गायत्र्यास् तु जपन् कोटिं ब्रह्महत्यां व्यपोहति ।
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ॥
पुनाति हेमकर्तारं गायत्रीलक्षसप्ततिः ।
गायत्र्याः षष्टिभिर् लक्षैर् मुच्यते गुरुतल्पगः ॥ इति ।
तथा च सति परस्परविरोधः स्यात् – इति चेत् ।
एवं तर्ह्य् अनयैवानुपपत्त्या कोटिजपो ऽपि न प्रत्याम्नायः । किं तु द्वादशवार्षिकव्रतसमानविषयतया विकल्प्यते इति कल्पनीयम् । चान्द्रायणादीनां प्रत्याम्नायास् तत्रैव दर्शिताः ।
चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस् तथैव च ।
मित्रविन्दा पशुश् चैव कृच्छ्रं मासत्रयं तथा ॥
तिलहोमायुतं चैव पराकद्वयम् एव च ।
गायत्र्या लक्षजप्यं च समान्य् आह बृहस्पतिः ॥
नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् ।
इष्टीनां पशुबन्धानाम् अभावे चरवः स्मृताः ॥
पराकतप्तकृच्छ्राणां स्थाने कृच्छ्रत्रयं चरेत् ।
व्रतहोमादिकं वापि कल्पयेत् पूर्वकल्पवत् ॥
[१९९] इति । यस् तु तपस्य् असमर्थः धान्यसमृद्धश् च स कृच्छ्रादिव्रतानि ब्राह्मणभोजनेन संपादयेत् । तद् अपि तत्रैवोक्तम् ।
कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणम् अहर् अहस् त्रिंशद् एवाम् तृतीये
चत्वारिंशच् च तप्ते त्रिगुणनगुणिता विंशतिः स्यात् पराके ।
कृच्छ्रे सन्तापनाख्ये भवति षडधिका विंशतिः सैव हीना
द्वाभ्यां चान्द्रायणे स्यात् तपसि कृशबलो भोजयेद् विप्रमुख्यान् ॥ इति ।
अहर् अहर् इति सर्वत्र संबध्यते । तृतीयः कृच्छ्रातिकृच्छ्रः । यत् तु प्राजापत्यप्रत्याम्नायत्वेन “विप्रा द्वादश वा भोज्याः” इति पूर्वम् उदाहृतम्, तन् निर्धनविषयम्, धनिकस्य प्रतिदिनं पञ्च पञ्चेति द्वादशसु दिवसेषु षष्टिब्राह्मणभोजनविधानात् । अत एव स्मृत्यन्तरे ।
प्राजापत्यं चरेद् विप्रो यद्य् अशक्तङ् कथंचन ।
अहानि पञ्च विप्राग्र्यान् भोजयेत् सम्यग् ईप्सितान् ॥ इति ।
सान्तपनादीनां गोदानप्रत्याम्नायस् तत्रैव चतुर्विंशतिमते दर्शितः ।
[२००] प्राजापत्ये तु गाम् एकां दद्यात् सान्तपने द्वयम् ।
पराके तप्तकृच्छ्रे च तिस्रस् तिस्रस् तु गास् तथा ॥
अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा ।
यथाविभवसारेण दानं दद्याद् विशुद्धये ॥ इति ।
यत् तु स्मृत्यन्तरे चान्द्रायणस्य गोदानत्रयम् अभिहितम्,
प्राजापत्ये तु गाम् एकाम् अतिकृच्छ्रे द्वयं स्मृतम् ।
चान्द्रायणे पराके च तिस्रस् ता दक्षीनास् तथा ॥
इति, तन् निर्धनविषयम् । यतोक्तगोदानादाव् अशक्तो गोभ्यस् तृणं दद्यात् । तथाह कण्वः ।
एकम् अध्ययनं कुर्यात् प्राजापत्यम् अथापि वा ।
दद्याद् वा दशसाहस्त्रं गवां मुष्टिं विचन्क्षणः ॥ इति ।
अध्ययनजपादीनां पुरुषविशेषेण व्यवस्था चतुर्विंशतिमते दर्शिता ।
धर्मनिष्ठास् तपोनिष्ठाः कदाचित् पापम् आगताः ।
जपहोमादिकं तेभ्यो विशेषेण विधीयते ॥
[२०१] नामधारकविप्रा ये मूर्खा धर्मविवर्जिताः ।
कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्याद् विशेषतः ॥
धनिना दक्षिणा देया प्रयत्नविहिता तु या ।
एवं नरविशेषेण प्रायश्चित्तानि दापयेत् ॥ इति ।
अनयैव दिशा स्मृत्यन्तरे प्रसिद्धास् तीर्थयात्रादिप्रत्याम्नाया यथायोगम् उन्नेयाः । अत एव देवलः ।
अभिगम्य च तीर्थानि पुण्यान्य् आयतनानि च ।
नरः पापात् प्रमुच्येत ब्राह्मणानां तपस्विनाम् ॥
सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः ।
सर्वम् आयतनं पुण्यं सर्वे पुण्या वनाश्रयाः ॥
अथ गङ्गा-सरस्वती-यमुना-नर्मदा-विपाशा-वितस्ता–कौशिकी–नन्दा–विरजा–चन्द्रभागा–सरयूः-उत्पथवर्ती-सिन्धुः-कृष्णा-वेणी-शोणा-तापी-पारावती–पाषाणकी-गोमती-गण्डकी-बाहुदा-पम्पा-देविका-कावेरी-ताम्रपर्णी-चर्मण्वति-वेत्रवती-गोदावरी-तुङ्गभद्रा-सुचक्षुररुणा-[२०२] चेति महानद्यः पुण्यतमाः । गङ्गाद्वारं कनखलं शक्रावतारं सौकरं प्रयागो गङ्गासागरम् इति एतानि गङ्गायास् तीर्थानि । प्लाक्षं प्रस्रवणं वृद्धकन्यकं सारस्वतम् आदित्यतीर्थं बदरीपाञ्चालं वैजयन्तं पृथूदकं नैमिषं विनशनं चमसोद्भेदं प्रभास इति सारस्वततीर्थानि । कावेरीसङ्गमं सरस्वतीसङ्गमं गन्धमादनम् इति सामुद्राखतीर्थानि पुण्यतमानीति । पुष्करं मूर्धकं गयाशिरः कुरुक्षेत्रम् इति पुण्यक्षेत्राणि । वाराणसी महाभैरवं देवदारुवनं प्राचीनबर्हिः केदारं मध्यममहालयं कुमारमहालयं रुद्रावतारं वङ्गलं विष्णुशिवं महाकालं पुरुषोत्तमं जम्बुमार्गं चेत्य् एतान्य् आयतनानि । हिमवान् उदयो महेन्द्रो विदुरः शतशृङ्गः श्रीपर्वतो देवपर्वतो नीलपर्वतो विन्ध्यपर्वतः पारियात्रश् चेति पर्वताः पुण्यतमाः पापं नाशयन्ति । अन्यानि क्षेत्रायतन-पर्वत-आश्रम-तीर्थानि पुण्यतमानि भवन्ति । [२०३] इति । विश्वामित्रः ।
कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्युदयकारणम् ।
प्रकाशे च रहस्ये चाप्य् अनुक्ते संशये ऽस्फुटे ॥
प्राजापत्यं सान्तपनं शिशुकृच्छ्रः पराककः ॥ इति ।
जमदग्निः ।
तीर्थे तु पादः कृच्छ्रं स्यान् नद्याम् अर्धफलं लभेत् ।
द्विगुणं तु महान्द्यां सङ्गमे त्रिगुणं भवेत् ॥ इति ।
तथा च नारदः ।
अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ।
महासान्तपनं शोध्ये तप्तकृच्छ्रस् तु पावनः ।
जपोपवासकृच्छ्रस् तु ब्रह्मकूर्चस् तु शोधनः ॥
एते व्यस्ताः समस्ता वा प्रत्येकं द्व्येकतो ऽपि वा ।
पातकादिषु सर्वेषु उपपातकेषु च यत्नतः ॥
[२०४] कार्याश् चान्द्रायणयुता केवला वा विशुद्धये ।
उपवासस् त्रिरात्रं वा मासः पक्षस् तदर्धकम् ॥
षडहो द्वादशाहानि कार्या शुद्धिः फलैर् विना ।
उपपातकयुक्तानाम् अनादिष्टेषु चैव हि ॥
शक्तिजातिगुणान् दृष्ट्वा सकृद् बुद्धिकृतं लघु ।
अनुबन्धादिकं दृष्ट्वा कल्प्यं सर्वं यथागमम् ॥
प्रकाश उक्तं यत् किंचिद् विंशो भागो रहस्यके ।
त्रिंशद्भागः षष्टिभागः कल्प्यो जात्याद्यपेक्षया ॥ इति । (न्स्म् १३।२१–२७)
इति कृच्छ्रप्रत्याम्नाया निरूपिताः
इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक-
श्रीवीरबुक्कभूपालसाम्राज्यधुरन्दरस्य
माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां
**द्वादशाध्याये प्रायश्चितप्रकरणम् ॥ **
[२०५]
अथ कर्मविपाको निरूप्यते
यद्य् अपि लोके कर्मशब्दः सुकृतदुष्कृतयोः साधारणः तथाप्य् अत्र प्रायश्चित्तस्य प्रकृतत्वात् तन्निवर्त्यतया दुष्कृतस्यैव बुद्धिस्थत्वात् तत्रैव पर्यवस्यति । वेशेषेण पचनं विपाकः फलदशा । कर्मणां विपाकः कर्मविपाकः । स च विपाकस् त्रिविधः जन्म चायुर् बोगश् चेति । एतत् सर्वं पतञ्जलिर् योगशास्त्रे सूत्रयामास- “सति मूले तद्विपाको जात्याउर्भोगाः” इति (योगसू २।१३) । अस्य सूत्रस्यायम् अर्थः — अविद्यास्मितारागद्वेषाभिनिवेशात्मकाः पञ्च क्लेशाः कर्मणां मूलम्, “क्लेशमूलः कर्माशयः” (योग्सू २।१२) इत् सुत्रितत्वात् । सति तस्मिन् पञ्चक्लेशात्मके मूले तानि कर्माणि विपच्यन्ते । दग्धक्लेशबीजस्य तु जीवन्मुक्तस्य न संचितानि कर्माणि फलम् आरभन्ते, ज्ञानाग्निना भस्मसात्कृतत्वात् । यथा वितुषो व्रीहिर् न प्ररोहति तद्वत् । तस्य तुषस्थानीयं क्लेशपञ्चकम् उपजीव्यैव कर्माणि जन्मादित्ररूपेण विपच्यन्ते । तत्र जन्म कृम्यादि,
[२०६] पतितं याजयित्वा तु क्रिमियोनौ प्रजायते । (ब्र्पु २१७।४०)
इत्यादिस्मरणात् । आयुः पञ्चदशवर्षादिकम्,
तत्र जीवति वर्षाणि दश वा पञ्च वा द्विजः । (ब्र्पु २१७।४०)
इत्य् अभिधानात् । भोगो यमयातनादिः,
यमलोके तु ते घोरां लभन्ते परियातनाम् । (ब्र्पु १२५।१३७)
इत्यादिस्मरणात् ।
तम् एतं जात्यायुर्भोगलक्षणं विपाकं सामान्यविशेषशास्त्रोदाहरणेन बहुधा प्रपञ्चयिष्यामः ।
ननु – नायं विपाको विधातुं प्रतिषेद्धुं वा शक्यते अननुष्ठेयत्वाद् अवर्जनीयत्वाच् च । अत एवैतस्मिन् विधिप्रतिषेधपरे शास्त्रे तन्निरूपणम् अन्युक्तम् ।
नायं दोषः, प्रायश्चित्तर्थवादत्वेन तदुपयोगात् । अर्थवादस् तु विहिते प्रवर्तकत्वेन प्रतिषिद्धान् निवर्तकत्वेन च विधिप्रतिषेधैकवाक्यतां भजते – इति न्यायविदां मर्यादा ।
अत्र च प्राजापत्याद्यनुष्ठानरूपस्य प्रायश्चित्तस्य क्लेशात्मकत्वात् [२०७] रागतः प्रवृत्तिर् न संभवतीति तत्र प्रवृत्तिसिद्धये प्ररोचना कर्तव्या ।
ननु – विहितेष्व् अग्निष्टोमादिषु स्वर्गादिविपाकोपवर्णनेन प्ररोचयितुं शक्यते, स्वर्गादीनाम् अनुकूलफलत्वात् । क्षयरोगादीनां तु प्रतिकूलफलत्वेन तदुपवर्णनं न प्ररोचनायोपयुक्तम् ।
विषम उपन्यासः । तत्र हि स्वर्गादिसाधने प्ररोचनम् उत्पादनीयम् । न त्व् अत्र क्षयरोगादिसाधने प्ररोचनम् उत्पद्यते । किं तर्हि क्षयरोगादिनिवर्तके प्रायश्चित्ते । तन्निवृत्तिश् चानुकूलं फलम् ।
ननु – एवम् अपि क्षयरोगादिनिवृत्तिरूप एव प्रायश्चित्तात्मकस्य कर्मणो विपाकः प्ररोचकत्वेन वक्तव्यः । न तु ब्रह्महत्यादिविपाकः, तस्याप्ररोचकत्वात् ।
मैवम् । द्विविधा हि ब्रह्महत्यादयः । संचिता संचेष्यमाणाश् च । तत्र संचेष्यमाणेषु प्रतिषेधविषयेषु ब्रह्महत्यादिषु क्षयरोगाद्युपन्यासः ब्राह्मणावगोरणादौ शतयातनादिवत् तन्निवर्तकार्थवादत्वेनान्वेति । संचितेषु प्रतिकूलं फलं श्रुत्वा तत उद्विजमानस् तन्निवृत्त्युपायम् आकाङ्क्षति । अत उद्वेगप्रयोजकतया प्रायश्चित्ते ऽपि प्रवर्तक्त्वं भवतीति प्रवर्तकनिवर्तकद्विविधार्थवादत्वेन अयं कर्मविपाकोपन्यास उपयुज्यते । [२०८]
तद् एवं संचितसंचेष्यमाणयोर् उपयोगः । आरब्धफलेषु प्रतिकूलफलस्य प्रत्यक्षदर्शनाद् एवोद्वेगः सिध्यति । प्रवर्तकं तु व्याध्यादिनिवृत्तिरूपस्य प्रायश्चित्तविपाकस्योपवर्णनम् । अतः क्षयरोगादिरूपस् तन्निवृत्तिरूपश् च विपाको ऽत्र निरूप्यते । तत्र सामान्येन पापकर्मविपाकः शिवधर्मोत्तरे ऽभिहितः ।
अथातः पततां पुंसाम् अधर्मः परिकीर्तितः ।
नरकार्णवे महाघोरे पातनात् पापम् उच्यते ॥ इति ।
विष्णुधर्मोत्तरे ऽपि ।
अतिवाहिकसंज्ञस् तु देहो भवति भार्गव ।
केवलं तन् मनुष्याणां मृत्युकाल उपस्थिते ॥
याम्यैर् नरैर् मनुष्याणां तच्छरीरं भृगूत्तम ।
नीयते याम्यमार्गेण नान्येषां प्राणिनां द्विज ॥
मनुष्याः प्रतिपद्यन्ते स्वर्गं नरकम् एव वा ।
नैवान्ये प्राणिनः केचित् सर्वे ते फलभोजिनः ॥
शुभानाम् अशुभानां च कर्मणां भृगुनन्दन ।
संचयः क्रियते लोके मनुष्यैर् एव केवलम् ॥
[२०९] तस्मान् मनुष्यस् तु मृतो यमलोकं प्रपद्यते ।
नान्यः प्राणी महाभाग फलयोनौ व्यवस्थितः ॥
याम्यलोकं प्रपन्नस्य पुरुषस्य तथा यमः ।
योनीश् च नरकाश् चैव निरूपयति कर्मणा ॥ इति । (विधु २।१०२।२–७)
ब्रह्मपुराणे ऽपि ।
कर्मणा मनसा वचा ये धर्मविमुखा नराः ।
यमलोके तु ते घोरां लभन्ते परियातनाम् ॥
इहाल्पम् अपि कृत्वा तु नरः कर्माशुभात्मकम् ।
प्राप्नोति नरकं घोरं यमलोकेषु यातनाम् ॥ इति । (ब्र्पु १२५।१३६–४२)
विष्णुपुराणे ऽपि ।
पापकृद् याति नरकं प्रायश्चित्तप्राङ्मुखः ।
पापानाम् अनुरूपाणि प्रायश्चित्तानि यद् यथा ॥
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ इति । (विपु ४।५।२१–२२)
विष्णुधर्मोत्तरे ।
प्रायश्चित्तैः क्षयं याति पापं कृतम् असंशयम् ।
[२१०] प्रायश्चित्तविहीना ये राजभिश् चाप्य् अदण्डिताः ।
नरकं प्रतिपद्यन्ते तिर्यग्योनिं तथैव च ॥
मनुष्यम् अपि चासाद्य भवन्तीह तथाङ्किताः ।
प्रायश्चित्तम् अतः कार्यं कल्मषस्यापनुत्तये ॥ इति । (विधु २।७०।३–५)
भविष्योत्तरे ऽपि ।
देवतिर्यङ्मनुष्याणाम् अधर्मनिरतात्मनाम् ।
धर्मराजः स्मृतः शास्ता सुघोरैर् विविधैर् वधैः ॥
नियमाचारसक्तानां प्रमादात् स्खलितात्मनाम् ।
प्रायश्चित्तैर् गुरुः शास्ता न तु तैर् इष्यत्ते यमः ॥
पारदारिकचौराणाम् अन्यायव्यवहारिणाम् ।
नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट् ॥
तस्मात् कृतस्य पापस्य प्रायश्चित्तं समाचरेत् । इति ।
ब्रह्मपुराणे ।
ततश् च यातनादेहं क्लेशेन प्रतिपद्यते ।
तत्कर्मजं यातनार्थम् अमातापितृसंभवम् ॥
[२११] तत्प्रमाणवयोवस्थासंस्थानैः प्राक्तनं यथा ।
विहाय सुमहागुप्तं शरीरं पाञ्चभौतिकम् ॥
अन्यत् शरीरम् आदत्ते यातनार्थं स्वकर्मजम् ।
तन्मात्रगुणसंयुक्तं नानात्मीयं स्वकर्मजम् ॥
दृढं शरीरम् आप्नोति सुखदुःखोपभुक्तये ।
तेन भुक्त्वा स्वकर्माणि पापकर्ता नरो भृशम् ॥
सुखानि धार्मिको ऽदुष्ट इहानीतो यमक्षयात् ॥ इति । (ब्र्पु २१४।२८–३२)
मनुस् तु मानसादिकर्मविशेषेण विपाकविशेषम् आह ।
चातुर्वर्ण्यस्य कृत्स्नो ऽयम् उक्तो धर्मस् त्वयानघ ।
कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ॥
स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥
शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।
कर्मजा गतयो नॄणाम् उत्तमाधममध्यमाः ॥
[२१२] तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥
परद्रवेष्व् अभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ॥
पारुष्यम् अनृतं चैव पौशुन्यं चापि सर्वशः ।
असंबद्धप्रलापश् च वाङ्मयं स्याच् चतुर्विधम् ॥
अदत्तानाम् उपादानं हिंसा चैवाविधनतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥
मानसं मनसैवायम् उपभुङ्क्ते शुभाशुभम् ।
वाचैव वाक्कृतं कर्म कायेनैव तु कायिकम् ॥
शरीरजैः कर्मदोषैर् याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् ॥ इति । (म्ध् १२।१–९)
हारीतो ऽपि ।
सर्वाभक्ष्यभक्षणम् अभोज्यभोजनम् अपेयपानम् अगम्यागमनम् अयाज्ययाजनम् असत्प्रतिग्रहणं परदाराभिगमनं द्रव्याहरणं प्राणिहिंसा चेति शारीराणि । पारुष्यम् अनृतं विवादः श्रुतिविक्रयश् चेति [२१३] वाचिकानि । परोपतापनं पराभिद्रोहः क्रोधो लोभो मोहो ऽहङ्कारश् चेति मानसानि । तद् एतान्य् अष्टादश नैरयाणि कर्माणि यस्मिन् यस्मिन् वयसि करोति यः स तस्मिन् तस्मिन् वयसि शारीरवाचिकमानसानि प्राप्नोति । एवं ह्य् आह ।
यस्यां यस्याम् अवस्थायां यत् करोति शुभाशुभम् ।
तस्यां तस्याम् अवस्थायां तत् तत् फलम् अवाप्नुयात् ॥
शरीरेणैव शारीरं वाङ्मयेन तु वाचिकम् ।
मानसं मनसैवायम् उपभुक्ते शुभाशुभम् ॥ इति ।
(हार्स्म् ३२।१३–१८)
आत्मन ईश्वररूपत्वं प्रतिपाद्याह याज्ञवल्क्यः ।
यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते ।
ईश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यते ॥
करणैर् अन्वितस्यापि पूर्वज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम् ॥
अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवो ऽयं भवयोनिशतेषु च ॥
[२१४] अनन्ताश् च यथा भावाः श्रीरेषु शरीरिणाम् ।
रूपाण्य् अपि तथैवेह सर्वयोनिषु देहिनाम् ॥
विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते ।
इह चामुत्र चैकेषां भावस् तत्र प्रयोजनम् ॥
प्रद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायते ऽन्त्यासु योनिषु ॥
पुरुषो ऽनृतवादी च पिशुनः परुषस् तथा ।
संबद्धप्रलापी च मृगपक्षिषु जायते ॥
अदत्तानाननिरतः परदारोपसेवकः ।
हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते ॥ इति । (य्ध् ३।१२९–३६)
सत्त्वादिगुणविशेषेण विपाकविशेषं स एवाह ।
आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः ।
धर्मकृद् वेदविद् याति सात्त्विको देवयोनिताम् ॥
असत्कार्यरतो धीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु म्र्तो जन्माधिघच्छति ॥
[२१५] निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा ।
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥
रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह ।
भावैर् अनिष्टैः संयुक्तः संसारं प्रैपद्यते ॥ इति । (य्ध् ३।१३७–४०)
मनुर् अपि ।
सत्त्वं रजस् तमश् चेति त्रीन् विद्याद् आत्मनो गुणान् ।
यैर् व्याप्येमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥
यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥
सत्त्वं ज्ञानं तमो ऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥
तत्र यत् प्रीतिसंयुक्तं किंचिद् आत्मनि लक्षयेत् ।
प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ॥
[२१६] यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः ।
तद् रजो ऽप्रतिपं विद्यात् सततं हारि देहिनाम् ॥
यत् तु स्यान् मोहसंयुक्तम् अव्यक्तं विषयात्मकम् ।
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥
त्रयाणाम् अपि चैतेषां गुणानां यः फलोदयः ।
अग्र्यो मधो जघन्यश् च तम् प्रवक्ष्याम्य् अशेषतः ॥
वेदाद्भ्यासस् तत्पो ज्ञानं शौचम् इन्द्रियनिग्रहः ।
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥
आरम्भरुचिता धैर्यम् असत्कार्यपरिग्रहः ।
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥
आरम्भरुचिता धर्यम् असत्कार्यपरिग्रहः ।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥
लोभः स्वप्नो ऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥
त्रयाणाम् अपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥
[२१७] यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जते ।
तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥
येनास्मिन् कर्मणा लोके ख्यातिम् इच्छति पुष्कलाम् ।
न च शोचत्य् असम्पत्तौ तद् विज्ञेय तु राजसम् ॥
यत् सर्वेणेच्छति ज्ञातुं यन् न लज्जति चाचरन् ।
येन तुष्यति चात्मास्य तत् सत्त्वगुणलक्षणम् ॥
तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथाक्रमम् ॥
येन यांस् तु गुणेनैषां संसारान् प्रतिपद्यते ।
तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥
देवत्वं सात्त्विका यान्ति समुष्यत्वं हि राजसाः ।
तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ॥
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥
स्थावराः कृमिकीटाश् च मत्स्याः सर्पाः सरीसृपाः ।
पशवश् च शृगालाश् च जघन्या तामसी गतिः ॥
[२१८] हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः ।
सिंहा व्याघ्रा वराहाश् च मध्यमा तामसी गतिः ॥
चारणाश् च सुपर्णाश् च पुरुषाश् चैव दाम्भिकाः ।
रक्षांसि च पिशाचाश् च तामसेषूत्तमा गतिः ॥
झल्ला मल्ला नटाश् चैव पुरुषाः शस्त्रवृत्तयः ।
द्यूतपानप्रसक्ताश् च जघन्या राजसी गतिः ॥
राजानः क्षत्रियाश् चैव राज्ञां चैव पुरोहिताः ।
वादयुद्धप्रधानाश् च मध्यमा राजसी गतिः ॥
गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये ।
तथैवाप्सरसः सर्वा राजसेषूत्तमा गतिः ॥
तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः ॥
तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः ॥
यज्वान ऋषयो वेदा देवा ज्योतींषि वत्सराः ।
पितरश् चैव साध्याश् च द्वितीया सात्त्विकी गतिः ॥
[२१९] ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च ।
उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥
एष सर्वः समुद्दिष्टस् त्रिप्रकारस्य कर्मणः ।
त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ इति । (म्ध् १२।२४–५१)
अथ प्रेतत्वादिहेतुभ्यो नानाविधेभ्यः पापविशेषेभ्यो योनिविशेषा अभिहिता विष्णुधर्मोत्तरे ।
असहिष्णुतयान्यस्य गुणानां कारणं विना ।
महत् पापं समुत्पन्नं तद् अस्य प्रेतकारणम् ॥
ब्रह्मस्वहारिणश् चैते पापाः प्रेतत्वम् आगताः ।
परदाररताः केचित् स्वामिद्रोहरताः परे ॥
मित्रद्रोहरताः केचिद् देशे ऽस्मिन् भृशदारुणे ।
स्वकर्मबिश् च्युताः सर्वे जायन्ते प्रेतयोनिषु ॥ इति । (विधु २।७०।२३–२५)
पद्मपुराणे ।
अयाज्ययाजकश् चैव याज्यानां च विवर्जकः ।
[२२०] विरतो विष्णुविद्यासु स प्रेतो जायते नरः ॥
सामान्यदक्षिणां लब्ध्वा गृह्णात्य् एको विमोहितः ।
नास्तिक्यभावनिरतः स प्रेतो जायते नरः ॥ इति । (पद्पु ४५।५०–५३)
स्कान्दे चमत्कारखण्डे ।
यो भवेन् मानवः क्षुद्रस् तथा पैशुन्यकारकः ।
ब्राह्मणान्वयसंभूतो वृथामांसाशनश् च यः ॥
प्राणिनां हिंसको नित्यं स प्रेतो जायते नरः ॥
अकृत्वा देवकार्यं यस् तथा च पितृतर्पणम् ।
यो ऽश्नाति भृत्यवर्गेभ्यो ऽदत्वा प्रेतः स जायते ॥
परदाररतश् चैव परवित्तापहारकः ।
परापवादसंतुष्टः स प्रेतो जायते नरः ॥
कन्यां यच्छति वृद्धाय नीचाय धनलिप्सया ।
कुरूपाय कुशीलाय स प्रेतो जायते नरः ॥
देवस्त्रीगुरुवित्तानि गृहीत्वा न प्रयच्छति ।
[२२१] विशेषाद् ब्राह्मणेन्द्राणां स प्रेतो जायते नरः ॥
दीयमानस्य वित्तस्य ब्राह्मणेभ्यस् तु पापकृत् ।
विघ्नम् आचरते यस् तु स प्रेतो जायते नरः ॥
शूद्रान्नेनोद्रस्थेन ब्राह्मणो म्रियते यदि ।
त्रिकालज्ञो वेदवेदी धर्मज्ञो ऽथ षडङ्गवित् ॥
चतुर्वेद्य् अपि यो विप्रः स प्रेतो जायते नरः ।
शास्त्रकर्ता ग्रन्थकर्ता यद्य् अपि स्यात् षडङ्गवित् ॥
कुलदेशोचितं कर्म यस् त्यक्त्वान्यत् समाचरेत् ।
कामाद् वा यदि वा मोहात् स प्रेतो जायते नरः ॥
उच्छिष्टस्य विशेषेण अन्तरिक्षमृतस्य च ॥
विषाग्निजलमृत्यूनां तथा चैवात्मघातिनां ।
प्रेतत्वं जायते नूनं सत्यम् एतन् न संशयः ॥ इति ।
अग्निपुराणे ।
मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा ।
लोभात् त्यजति यस् त्व् एतान् स प्रेतो जायते नरः ॥
कुज्योनिः कुत्सितो वैद्यः कुज्ञानी च कुदेशिकः ।
शूद्रानुग्रहकर्ता च स प्रेतो जायते नरः ॥
निन्दको द्विजदेवानां गीतवाद्यरतः सदा ।
वृद्धं बालं गुरुं विप्रान् यो ऽवमत्य भुनक्ति वै ॥
कन्यां ददाति शुल्केन स प्रेतो जायते नरः ।
[२२२] न्यासापहर्ता मित्रध्रुक् परपाकरतः सदा ॥
निर्दोषं सुहृदं भार्यां ऋतुकाले न याति यः ।
न सहेत यज्ञस् तेषां स प्रेतो जायते नरः ॥
हस्त्यश्वरथयानानि मृतशय्यासनानि च ।
कृष्णाजिनं तु गृह्णाति अनापदि तु यो द्विजः ॥
तथोभयमुखीं दोलां सशैलां मेदिनीं द्विजः ।
कुरुक्षेत्रे च यद् दानं चाण्डालात् पतितात् तथा ॥
मासिके च नवश्राद्धे भुञ्जन् प्रेतान्नम् एव च ।
भूमिकन्यापहर्ता च स प्रेतो जायते नरः ॥ इति । (अग्पु २०१।४१–४८)
उमामहेश्वरसंवादे ।
अपहृत्य च सर्वस्वं देवस्वं च तथा परम् ।
दत्तपहारदानाच् च पैशाच्यं याति वै नरः ॥
योनिकार्यं च यो देवि आहितेन तु कारयेत् ।
सो ऽपि याति पिशाचत्वं स्वामिद्रोहेण मानवः ॥
[२२३] स्वामिद्रव्यं गृहीत्वा तु न यजेन् न ददाति च ।
आत्मनः पोषको मूढः पिशाचत्वं स गच्छति ॥
मठाधिपत्यं यो देवि कुरुते मदमोहितः ।
विनाशयेन् मठद्रव्यं निर्माल्यं यश् च भक्षति ॥
परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥
अधर्मं धर्मम् इत्य् आहुर् ये तु मोहवशं गताः ।
हर्तारः परदाराणां चौर्येण बलतो ऽपि वा ॥
अरण्ये निर्जले देशे भवन्ति ब्रह्मराक्षसाः ॥ इति ।
मनुः ।
संयोगं पतितैर् गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ (म्ध् १२।६०)
गुरुं त्वंकृत्य हुंकृत्य विप्रं निर्जित्य वादतः ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥
[२२४] ये ब्राह्मणान् प्रद्विषन्ति गर्हित्वा ते हि राक्षसाः ।
आचार्यम् ऋत्विजश् चैव गुरुं चैव तपस्विनम् ॥
मुनींश् चाप्य् अवमन्यन्ते ते भवन्तीह राक्षसाः ॥ इति ।
वामनपुराणे ।
चण्डालाद् अन्त्यजाद् वापि प्रतिगृह्णाति दक्षिणाम् ।
याजको याज्यमानस् तु सो ऽश्मान्तः स्थलकीटकः ॥ (वापु ६१।२७)
स्कान्दे रेवाखण्डे ।
बुभुक्षितेषु भृत्येषु य एको ऽश्नाति मानवः ।
श्वयोनिं स समासाद्य चण्डालो जायते नरः ॥
वेदोक्तं यः परित्यज्य धर्मम् अन्यं समाचरेत् ।
दशवर्षसहस्राणि श्वयोनौ जायते ध्रुवम् ॥
वेदार्थनिन्दका ये च ये च ब्राह्मणनिन्दकाः ।
इह जन्मनि शूद्रास् ते मृताः श्वानो भवन्ति हि ॥ इति । (स्क्पु रेव् ३०।३७–३९)
ब्रह्मपुराणे ।
यदि पुत्रसमं शिष्यं गुरुर् जह्याद् अकारणम् ।
आत्मनः कामकारेण सो ऽपि हिंस्रः प्रजायते ॥
[२२५] पितरं मातरं चैव यस् तु पुत्रो ऽवमन्यते ।
सो ऽपि विप्रो मृतो जन्तुः पूर्वं जायेत गर्दभः ॥
गर्दभत्वं तु संप्राप्य दश वर्षाणि जीवति ।
संवत्सरं तु कुम्भीरस् ततो जायेत मानवः ॥
ज्येष्ठं पितृसमं चापि भ्रातरं यो ऽवमन्यते ॥
सो ऽपि मृत्युम् अवाप्नोति क्रौञ्चयोनौ च जायते ।
आशापहर्ता तु नरः कृमियोनौ प्रजायते ॥
विश्वासहर्ता तु नरो मीनो जायेत दुर्मतिः ।
उपस्थिते विवाहे तु यज्ञे दाने महोत्सवे ॥
मोहात् करोति यो विघ्नं स मृतो जायते कृमिः ।
कृतघ्नः स मृतो विप्रो यमस्य विषयं गतः ॥
यमस्य विनयैः क्रूरैर् वधं प्राप्नोति दारुणम् ।
यातनाः प्राप्य तत्रस्थस् ततो बह्वीः समा द्विजाः ॥
ततो दंशः क्र्तघ्नश् च संसारं प्रतिपद्यते ।
जलप्रवर्षणं यस् तु भिन्द्यान् मत्स्यो भवेत् तु सः ॥
[२२६] अयोनिगो वृको हि स्याद् उलूकः क्रयवञ्चनात् ।
प्रतिश्रुत्य द्विजेभ्यश् चाप्य् अदत्वा मधुको भवेत् ॥
लभेद् देवलको राजन् योनिं चण्डालसंज्ञिताम् ।
मृतस्यैकदशाहे तु भुञ्जन् श्वा चाभिजायते ॥ इति । (ब्र्पु २१८।४८–८३)
गरुडपुराणे ।
कौट्साक्ष्यप्रदाः पापा अमेध्यकृमयश् चिरम् ।
भूत्वा भवन्ति सर्पास् ते पिशाचास् तदनन्तरम् ॥
गुरुमित्रद्रुहः पापा ये च स्वामिद्रुहो जनाः ।
द्विजशिष्यद्रुहश् चैव कृतघ्ना नास्तिकास् तथा ॥
त्यागिनो बान्धवानां च त्यागिनः शरणार्थिनाम् ।
अमेध्यकृमयः पापा मृगव्याधा भवन्ति च ॥
उरुरोगगणोपेता जायन्ते शम्बुका जले ।
चन्द्रार्कग्रहणे भुक्त्वा जायते कुञ्जरो नरः ॥ (गपु २८१।५–९)
[२२७] इति । शिवधर्मोत्तरे ।
विप्रः पञ्चमहायज्ञान् अकृत्वा यो ऽन्नम् अश्नुते ।
विड्वराहो भवेन् नित्यं क्रव्याशी व्याध एव च ॥
द्विजस् त्व् एकशफानां च विक्रयाज् जायते मृगः ।
मत्सरी विट्कृमिश् चैव अवज्ञाकार्य् अथ कृमिः ॥ इति ।
वायुसंहितायाम् ।
खरो वै बहुयाजित्वात् काको ऽमन्त्रितभोजनात् ।
अपरीक्षितभोजी स्याद् वानरो विजने वने ॥
अविद्यां यः प्रयच्छेत बलीवर्दो भवेत् तु सः ।
अन्नं पर्युषितं विप्रे दत्वा वै कुब्जतां व्रजेत् ॥ इति ।
उमामहेश्वरसंवादे ।
अग्निहोत्रं भवेद् यस्य न कुर्यात् तस्य रक्षणम् ।
पर्वातिक्रमकारी तु मृगत्वं याति ब्राह्मणः ॥
[२२८] वेदोपजीविकाः पापाः स्त्रीलोलाः सततं च ये ।
भवन्ति चेह काकाः स्युश् चिरं विड्भुज एव च ॥
पायसं कृसरं चैव हवींषि मधुराणि च ।
अदत्वा चाग्निविप्रेभ्यः प्रासणाद् भुजगो भवेत् ॥ इति ।
नारदपुराणे ।
भर्तुः सौख्येन या नारी सौख्ययुक्ता न जायते ।
सा श्येनी जायते राजन् त्रीणि वर्षाणि पञ्च च ॥
वाचा चाक्रोशिका या तु संनिरुध्य पतिं ह्रिया ।
अकार्यं कारयेत् पापा सा नारी वल्गुली भवेत् ॥
भर्तुर् अर्थे हि या वित्तं विद्यमानं न यच्छति ।
जीवितं वा वरारोहे विष्ठायां जायते कृमिः ॥
कृमियोनिविनिर्मुक्ता काष्ठकीटा भवेत् तु सा ।
स साधयन्ति कार्याणि प्रभूणां ये विचेतसः ॥
भूत्वा वेदनभोक्तारो जायन्ते मूलतां हि ते ॥ इति । (नापु ३१।९–१४)
वृद्धगौतमः।
मौल्याद् वेदोपदेष्टा च व्याघ्रो भवति मानवः ।
जम्बुको जायते जन्तुर् अननुज्ञातपाठकः ॥
शूद्रात् पठति चाण्डालो ब्रह्मद्रव्योपजीवकः ॥
[२२९] इति । याज्ञवल्क्यो ऽपि ।
परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायते ऽन्त्यासु योनिषु ॥
पुरुषो ऽनृतवादी च पिशुनः पुरुषस् तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥
अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश् चाविधानेन स्थावरेषु प्रजायते ॥ इति ।
अथ नानाविधनिषिद्धकर्मशेषफलानि
तत्र उमामहेश्वरसंवादे ।
श्वपाकपुल्कसादीनां कुत्सितानां अचेतसाम् ।
कुलेषु ते ऽभिजायन्ते गुरुवृद्धावमानिनः ॥
गुरुणा ह्य् अननुज्ञातो यो वेदाभ्यासम् आचरेत् ।
स तु जातिविहीनेषु जायते भुवि मानवः ।
अधर्मं धर्मम् इत्य् आहुर् ये तु मोहवशंगताः ॥
ते च कालकृतोद्योगाः संभवन्तीह मानुषे ।
निर्होमा निर्वषट्कारास् ते भवन्ति नराधमाः ॥
[२३०] इति । स्कान्दे नागरखण्डे ।
प्राप्नुवन्ति कुदेशे च जन्म ये हेतुवादकाः ।
स्वामिद्रोहरता ये च कुकुले जन्म चाप्नुयुः ॥
अदत्वा ये तथाश्नन्ति पितृदेवद्विजातिषु ।
दुर्भिक्षे जनतापे च कुदेशे जन्म चाप्नुयुः ॥
ये च कुर्वन्ति दम्पत्योर् विवादं सानुरागयोः ।
विरूपा भ्रममाणाश् च सर्वलोकविवर्जिताः ॥
दरिद्रा जायया भ्रष्टा भवन्ति विगतायुषः ।
कन्यादाने च विघ्नं यो विक्रयं यः करोति वा ॥
स कन्याः केवलाः सूते न पुत्रं केवलं क्वचित् ।
जायन्ते ताश् च बन्धक्यो विधवा दुर्भगास् तथा ॥ इति ।
प्रभासखण्डे ऽपि ।
यैर् न दत्तम् नरिः किंचित् तेषां चिह्नं दरिद्रता ।
जायन्ते रोगिणो रौद्रा हिंस्राः कुब्जाश् च वामनाः ॥
अपुत्राः कलहाक्रान्ताः परदारोपसेवकाः ।
महारजनकर्माणः कुचेलाः कुश्रीरिणः ॥
[२३१] कुदम्भाश् चपला लुब्धा मूर्खा निष्ठुरभाषिणः ।
दानहीना भवन्त्य् एते देवब्रह्मस्वभक्षकाः ॥ इति ।
स्कान्दे रेवाखण्डे ।
पिता माता गुरुर् भ्राता अन्यो वा विकलेन्द्रियः ।
भवन्ति नादृता यैस् तु ते भवन्ति नराधमाः ॥
इह मानुषलोके ऽस्मिन् दीनान्धास् ते भवन्ति च ।
ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः ॥
ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः ।
तत्र वर्षशतस्यान्ते इह मानुषतां गताः ॥
[२३२] दुश्चर्मा दुर्भगश् चैव दरिद्रः संप्रजायते ।
जायते गृध्रसीयुक्तः परभार्योपसेवकः ॥
गद्गदो ऽनृतवादी स्यात् मूकश् चैव गवाम् ऋते ।
अन्नं पर्युषितं विप्रे ददन् वै कुब्जतां व्रजेत् ॥
मात्सर्याद् अपि जात्यन्धो द्वेषाच् च बधिरो भवेत् ।
अदत्वा भक्ष्यम् अश्नाति अनपत्यो भवेच् च सः ॥ इति ।
गऊडपुराणे ।
अवमत्य च ये यान्ति भगवत्कीर्तनं नराः ।
बाधिर्यम् उपयान्त्य् आशु ते वै जन्मनि जन्मनि ॥
पश्यन्तो भगवद्द्वारं तामसास् तत्परिच्छदम् ।
अकृत्वा तत्प्रणामादि ये यान्ति पुरुषाधमाः ॥
जत्यन्धाद् ते ऽभिजायन्ते ऽप्य् अङ्गहीनापरिग्रहाः ।
पङ्गवः पादहीनाश् च कुष्ठिनो भुवि ये नराः ॥
विष्णुच्छाया ध्रुवं तैस् तु लङ्घिता स्यान् न संशयः ।
तथा च भगवद्धाम्नश् छायाम् आक्रमते तु यः ॥
[२३३] अरण्ये जायते पङ्गुः स वै रोगादिपीडितः ॥ इति । (गर्पु २८१।१३–१७)
विष्णुधर्मोत्तरे ऽपि ।
पिशुनः पूतिनासः स्यात् सूचकः पूतिवक्त्रकः ।
खल्वाटो मत्सरी राम नास्तिको वेदनिन्दकः ॥
भूय एव समाप्नोति तथा नास्तिकतां द्विजः ।
घूर्णिकस् तैलिकश् चैव अन्धो भवति मानवः ॥
प्रतिकूलं गुरोर् यस् तु सो ऽपस्मारी च जायते ।
मिष्टाश्य् एको महाभाग वातगुल्मी प्रजायते ॥
भगभक्षस् तु कुण्डाशी दीर्घरोगी च पीडकः ।
गुरुस्वामिद्विकाक्रोशं वेदनिन्दां तथैव च ।
श्रुत्वा भवति दुर्बुद्धिर् बधिरो मान्वाधमः ॥
देवदत्तेन दीप्पेन कृत्वा कर्म सुदुर्मतिः ।
जायते बुद्बुदाक्षो वा नेत्ररोगयुतो ऽपि वा ॥
तथैव दीनरूपश् च तेन पापेन कर्मणा ।
[२३४] हीनवर्णस् तदा लोके भवत्य् अत्यन्तदुर्मतिः ॥
विरूप एव भवति तथाविक्रेयविक्रयी ।
विनापराधेन तथा कृत्वा पत्न्यधिवेदनम् ॥
स राजभयम् आप्नोति व्यवहारे तथैव च ।
मूलकर्म तथा कृत्वा वशीकरणकारणात् ॥
द्वेष्यो भवति लोके ऽस्मिन् जायते नात्र संशयः ।
परिवेत्ता तथा लोके सर्वव्याधिसमन्वितः ॥
अयाज्ययाकश् चैव जायते वर्णसंकरः ।
वेदविक्रयिको मूर्खः कितवश् चैव जायते ॥
नास्तिकस् तु दरिद्रः स्यात् सर्वकर्मविवर्जितः ।
अतिमानप्रवृत्तस् तु जायते कुत्सिते कुले ॥
श्वपाकपुल्कसादीनां कुत्सितानाम् अचेतसाम् ।
कुलेषु ते ऽभिजायन्ते गुरुवृद्धापवादकाः ॥
श्वभ्रे तु मरणं लिके विषैः स्थावरजाङ्गमैः ।
दंष्ट्रिभ्यश् च निखिभ्यश् च चण्डालाद् ब्राह्मणात् तथा ॥
[२३५] गृहाधःपतनाच् चैव द्रुमाधःपतनात् तथा ।
गोभ्यश् च मरणं लोके विज्ञेयं पापकर्मणाम् ॥
ताडितस् ताड्यते लोके हारितो हार्यते तथा ।
हत्वा वधम् आप्नोति नात्र कार्या विचारणा ॥
यद् यत् परस्याचरति तत् तद् अस्योपजायते ।
प्राप्नोति यादृशीं बाधां कर्मणा स्वकृतेन यः ॥
तस्यापि तादृशी बाधा ज्ञेया जन्मनि जन्मनित् ।
तस्मात् सर्वप्रयत्नेन प्रबाधां विवर्जयेत् ॥ इति । (विधु २।१०७।६–३०)
महाभारते ऽपि ।
ये नास्तिका निष्क्रियाश् च गुरुशास्त्रातिलङ्घिनः ।
अधर्मज्ञा गताचारास् ते भवन्ति गतायुषः ॥
कुशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः ।
अल्पायुषो बवन्तीह नरा निरयगामिनः ॥
लोष्टमर्ती तृणच्छेदी नखखादी च यो नरः ।
नित्योच्छिष्टः सूचकश् च नेहायुर् विन्दते महत् ॥
आयुर् अस्य निकृन्तामि प्रज्ञाम् अस्याददे तथा ।
[२३६] य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति ।
यश् चानधायकाले ऽपि मोहाद् अभ्यसते द्विजः ॥
प्रत्यादित्यं प्रत्यनलं प्रतिगां च प्रतिद्विजम् ।
ये मेहयन्ति पथि च ते भवन्ति गतायुषः ॥ इति ।
शिवधर्मोत्तरे ।
देवद्रव्योपजीवी च स भवेद् अवबाहुकः ।
देवद्रव्यं स्वयं येन भुक्तं यस्य सदा भवेत् ॥
रसज्ञाविधुरः कुब्जः कण्डूः सर्वाङ्गदुखितः ।
देवस्पर्शं नरः कृत्वा परप्रत्ययकारणात् ॥
मिथ्याचारं चरेत् पश्चाद् बुद्बुदास्यो नरो भवेत् ।
देवदासोदनं भुक्त्वा बृहद्गुल्मी च वै क्रमात् ॥
सर्वाङ्गकुष्ठी तिमिरी नरो भवति पापतः ।
दीपं देवगृहाद् धृत्वा पङ्गुश् चान्दो भवेन् नरः ।
मूर्च्छी भ्रमी सुरद्वेष्टा पक्षपाती ज्वरी भवेत् ॥
देवावमन्ता भवति सर्वदा मैथुने रतः ।
सदापहृतसर्वस्वः कुत्सितः काममोहितः ॥
[२३७] इति । वृद्धगौतमः ।
देवद्रव्योपजीवी हृद्रोगी । प्रतिज्ञाय ब्राह्मणस्यादानाद् अल्पायुः । पत्नीबहुत्वे सत्य् एकारामः क्लीबः । स्वामिना धर्मे नियुक्तस् तदनुष्ठानाशक्तो जलोदरी । दुर्बलबाधे बलवताम् उपेक्षायाम् अङ्गहीनः । व्यवहारपक्षपाती जिह्वारोगी । स्वयं प्रवर्तितधर्मानुष्ठानच्छेदने प्रतिपन्नेष्टवियोगः । स्वयम् अग्रभुक् शूलरोगी । परिक्षीणमित्रबन्धुस्वामिस्वजनावमन्ता परिभूतवृत्तिः । अतिथिं पश्यन्न् अश्नतः कपालपट्टिका । सूर्याप्रकाशे प्रतिश्रयादानाद् इष्टवियोगः । छद्मना गुरुस्वामिमित्रम् उपचरतः प्राप्तार्थपरिभ्रांशः । विस्रम्भापहारी सर्वदुःखाश्रयः । गोदुःखकारी गोनासः । गोनिर्दयश् चिपिटनासः । पथनाशको निस्तेजस्कः सभायाम् । गलगण्डी महदधिक्षेपी । पुण्याक्षेपी [२३८] वक्रनासः । शिष्टचीर्णधर्मदूषकः केकराक्षः । साधुजनदेवतपस्विद्विजगुरुज्ञानयोगद्वेष्टा वक्रास्यः । तटाकारामभेत्ता नेत्राङ्गहीनः । कृतघ्नः सर्वारम्भविकलः । परस्वाभिलाषी क्षयरोगी स्यात् । चोररककः –
व्यवहारेष्व् अमध्यस्थश् चौरवृत्तिपरश् च यः ।
वाणिज्यलाभो नो तस्य देशान्तरगतस्य च ॥
व्याधिः स्यात् प्राणसंदेहो मृतिस् तत्रैव पापिनः ॥ इति ।
उमामहेश्वरसंवादे ।
अकृत्वा खलयज्ञं तु यस् तु धान्यं प्रवेशयेत् ।
मरुदेशे भवेद् वृक्षः फलपुष्पविवर्जितः ॥
दिव्यं वर्षसहस्रं तु दुरात्मा कर्षको भवेत् ।
तस्यान्ते मानुषो भूत्वा कदाचित् कालपर्ययात् ॥
दरिद्रो व्याधितो मूर्खो ह्य् अकुलीनस् तु जायते ।
यस् तु क्षुद्रेण भावेन स्नेहविच्छेदकारकः ॥
सो ऽनपत्यत्वम् आप्नोति तस्य पापस्य कारणात् ।
न शृण्वन्ति गुरोर् वाक्यं वेदवाक्यं च ये नराः ॥
सर्वेषां चैव नास्तिक्यं तेन ते यान्ति मूकताम् ।
प्रार्थयित्वा तु यो गां वै सवत्सां क्षीरसंयुताम् ॥
[२३९] आत्मना पिबति क्षीरं तेनासौ याति चान्धताम् ॥
प्रस्रवं ष्ठीवनं वह्नौ कृत्वा सर्वाङ्गदाहयुक् ।
उदरे शूलसंयुक्तो जयते मनुजाधमः ॥ इति ।
शिवधर्मोत्तरे ।
मुखकृष्णव्रणी श्वित्री गरदो मत्तको भवेत् ।
जिह्वावक्त्रव्रणी ह्य् अन्यदुःखकारी भवेन् नरः ॥
अपकारं तु यः कुर्याद् उपकर्तुर् भवेन् नरः ।
श्वासकासी ज्वरी सर्वगात्ररोगी मृतप्रजः ॥
मृतपुत्रो ऽप्य् अबन्धुः स्याद् यो द्वेष्टि परसन्ततिम् ।
परवित्तविनाशाय करोति स विसर्पवान् ॥
अकारणाद् धर्मपत्नीत्यागी स्याच् च जलोदरी ।
वेश्यां कुलवधूं कृत्वा वर्तते यो नराधमः ॥
भक्तं भोक्तुम् अशक्तश् च मण्डपानेन जीवति ।
परेषां चेतसः क्लेशकारी भवति मानवः ॥
क्षयी ज्वरी प्रमेही च गुल्मी दाही भगन्दरी ।
रजस्वलान्त्यचण्डालपापिष्ठपतितैः सह ॥
व्यवहारी पुष्पवत्यां भुक्त्वा कुष्ठी ज्वरी भवेत् ।
अनपत्यो दरिद्रश् च विश्वस्तस्य विषप्रदः ॥
[२४०] निषिद्धवस्तुभोगेन मोहयेद् यः परान् पुमान् ।
परोपदिष्टज्ञानेन भवेद् उन्मत्तको ऽपि वा ॥
ऋणं दत्वाधिकां वृद्धिं यो गृह्णातीह मानवः ।
स भूत्वा धनिनां वंशे व्रजेद् देशान्तरं ततः ॥
वाणिज्यलाभस् तत्रापि नास्ति तस्य नरस्य वै ।
अमुख्यमुख्यकारी यः स ज्वरी श्वासकासवान् ॥
सर्वाङ्गरोगी पापात्मा द्वेष्टा मृतसमाङ्गभाक् ॥ इति ।
उमामहेश्वरसंवादे ।
मृष्टान्नेन य आत्मानं पोषयन्ति नराधमाः ।
बालानां वीक्ष्यमाणानाम् अददन्न् अत्ति निस्पृहः ॥
न हुतं न तपस् तप्तं न दत्तं किं च ब्राह्मणे ।
आत्मैव पोषितो येन तत् पापं कथयाम्य् अहम् ॥
यत्र देशे त्व् अनावृष्टिर् यत्र वायुसमुद्भवः ।
तस्मिन् देशे क्षुधार्त्ताश् च जायन्ते पापकर्मिणः ॥ इति ।
पद्मपुराणे ।
यस् तु विप्रत्वम् उत्सृज्य क्षत्रधर्मं निषेवते ।
ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥
[२४१] वैश्यकर्मा च यो विप्रो लोभमोहव्यपाश्रयः ।
स द्विजो वैश्यताम् एति शूद्रकर्म करोति यः ॥
स्वधर्मप्रच्युतो विप्रः स हि शूद्रत्वम् आप्नुयात् ।
क्षत्रियो वा महाबाहो वैश्यो वा धर्मचारिणौ ॥
स्वानि कर्माण्य् अपाकृत्य शूद्रकर्म निषेवते ।
स्वस्थानाच् च परिभ्रष्टो जायते वर्णसंकरः ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा याति तादृशः ।
शूद्रान्नेनोदरस्थेन म्रियते यदि पुत्रक ॥
ब्राह्मणः शूद्रताम् एति नास्ति तत्र विचारणा ॥ इति । (पद्पु ५।२६।७–१३)
मार्कण्डेयपुराणे ।
ब्राह्मणः क्षत्रियो वैश्यः स्ववर्णे पाणिसंग्रहम् ।
अकृत्वा त्व् अन्यजापाणेः पतन्ति नृप सम्ग्रहात् ॥
यश् च यस्यास् तु हीनायाः कुरुते पाणिसंग्रहम् ।
अकृत्वा वर्णसंयोगं सो ऽपि तद्वर्णभाग् भवेत् ॥
[२४२] इति ।
**अथ विशेषेण कर्मविपाकः **
तत्र हिंसाविशेषाद् योनिविशेषः । तत्र मनुः ।
यां यां योनिं च जीवो ऽयं येन येनेह कर्मणा ।
क्रमशो याति लोके ऽस्मिंस् तत् तत् सर्वं निबोधत ॥
बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात् ।
संसारान् प्रतिपद्यन्ते महापातकिनस् त्व् इमान् ॥
श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिम् ऋच्छति ॥ इति । (म्ध् १२।५३–५५)
नन्दिपुराणे ।
नरकेषु क्रमेणैव ब्रह्महा पात्यते नरः ।
कल्पं कल्पं ततश् चान्ते स्थावरश् च प्रजायते ॥
तृणगुल्मलतावल्लीवीर्द्द्रुमविभेदतः ।
तृणभेदास् त्व् अगणिता गुल्मभेदास् तथा मताः ।
लताभेदाश् च निःसंख्या वल्लीभेदास् तथैव च ॥
वीरुद्भेदास् त्व् असंख्याता असंख्या द्रुमजातयः ।
तेषां च देशभेदेन पुनः कष्टत्वम् इष्यते ॥
[२४३] ततः केनापि कालेन नानास्थावरयोनितः ।
कर्म भुक्त्वा क्रमेणैव भवन्ति च सरीसृपाः ॥
वृक्षवल्कलभेदेन देशभेदेन वाप्य् अथ ।
सरीसृपादिभेदेन तत्र भुक्त्वा तु पापकम् ॥
मृगेषु जायते मर्त्यो भेदैर् अगणितैस् ततः ।
तत्रापि भुक्त्वा स्वं कर्म जायते पशुयोनिषु ॥
तत्रापि भौतिकं भोगं भुक्त्वान्ते गोत्वम् आप्य तु ।
मुच्यते पशुजन्माच् च ततो जायेत मानुषे ॥
तत्रापि नियमो नास्ति श्वपाकाद्येषु जायते ।
विप्रान्तेषु मनुष्येषु जायते पातकी नरः ॥ इति ।
शिवधर्मोत्तरे ऽपि ।
एवं पापविशुद्धाश् च सावशेषेण कर्मणा ।
ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥
तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु ।
निष्क्रान्ताः कीटयोनिभ्यः क्रमाज् जायन्ति पक्षिणः ॥
संक्लिष्टाः पक्षिभावेन जायन्ते मृगयोनिषु ।
मृगदुःखम् अतिक्रम्य जान्यन्ते पशुयोनिषु ॥
[२४४] पशुयोनिं समासाद्य पुनर् जायन्ति मानुषाः ।
एवं योनिषु सर्वासु परिभ्राम्य क्रमेण तु ॥
कालान्तरवशाद् यान्ति मानुष्यम् अतिदुर्लभम् ।
उत्तमं चापि मानुष्यं प्राप्यन्ते पुण्यगौरवात् ॥
विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ।
ततो मानुषतां प्राप्य व्याधिभिस् तत्र पीड्यते ॥
कुष्ठरोगेण घोरेण ब्रह्महत्यां प्रयोजयन् । इति ।
मार्कण्डेयपुराणे ।
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।
कृमिः स्त्रीवधकर्ता च बालहा चोपजायते ॥
वृषस्य वृषणौ छित्त्वा षण्ढत्वं प्राप्नुयान् नरः ।
परिहृत्य ततो भूयो जन्मनामेकविंशतिम् ॥
कृमिकीटपतङ्गेषु स्थितस्तेयचरेषु च ।
गोत्रं प्राप्य च चण्डालपुलकसादि जुगुप्सितम् ॥
[२४५] पङ्ग्वन्धो बधिरः कुष्ठी यक्ष्मणा च प्रपीडितः ।
मुखरोगाक्षिरोगैर् वा रोगैर् अन्यैश् च बाध्यते ॥
अपस्मारी च भवति शूद्रत्वं चैव गच्छति ।
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ॥
विद्यापहारिणां चैव निदेशभ्रांशिनां गुरौ ॥ इति । (मार्पु १५।१८–३६)
ब्रह्मपुराणे ।
यस् तु रौद्रसमाचारः सर्वभूतभयंकरः ।
हस्ताभ्यां यदि पद्भ्यां वा रज्ज्वा दण्डेन वा पुनः ॥
लोष्टैः स्तम्भैर् उपायैर् वा जन्तूंस् ताडयते ऽनिशम् ।
हिंशार्थी निकृतप्रज्ञ उद्वेजनकरः सदा ॥
[२४६] एवं शीलसमाचारो निरयं प्रतिपद्यते ।
स चेन् मनुष्यतां गच्छेद् यदि कालविपर्ययात् ॥
वधबन्धपरिक्लिष्टः कुले जायेत सो ऽधमे ।
लोकद्वेष्टाधमः पुंसां स्वयं कर्मकृतैः फलैः ॥ इति ।
अथ हिंस्रकर्मशेषफलानि
तत्र हिंस्रकर्मविशेषफलानि शङ्खलिखिताभ्यां दर्शितानि- “अत ऊर्ध्वं बहूनि वर्षसहस्राणि यमविषये कुम्भीपाकरौरवादिषु स्थानेषु दुःखान्य् अनुभूयेह जातानाम् इमानि लक्षणानि भवन्ति । तद् यथा ब्रह्महा कुष्ठी गोघ्नश् चान्धो ऽनेकरोगिणश् च” इति ।
यमः ।
अशुद्धानां तु पापानां पतितानां च कर्मभिः ।
उत्तीर्णानां च तिर्यक्त्वाद् देहे भवति लक्षणम् ॥
इह दुश्चरितैः केचित् केचित् पूर्वकृतैस् तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥
द्विजघ्नं कुष्ठिनं विद्यात् कुनखं स्वर्णहारकम् ।
व्यङ्गाश् चाधर्मिणश् चैव जायन्ते प्राणिहिंसकाः ॥
[२४७] इति । हारीतः- “कुनखी भ्रूणहा । ब्रह्मघ्नः कुष्ठी । परदुःखदायिनो नित्यान्धाः । परार्तिरता दीर्घरोगिणः । दृष्ट्यपहर्तारो ऽन्धाः । श्रोत्रापहर्तारो बधिराः । वाचोपहर्तारो मूकाः । एवं ह्य् आह ।
यद् अङ्गं पीड्यते येन तेन हीनो ऽभिजायते ।
नाकृत्वा लभते किंचित् शुभं वा यदि वाशुभम्” ॥ इति । (हार्स्म् २४।७३–८०)
कश्यपः ।
क्षयी स्यात् क्षेत्रहरणे अर्शवान् नृवधे ऽपि च ।
जलोदरयुतः स स्यात् स्वनारीणां च हिंसकः ॥
कर्णभेत्ता कर्णशूली ओष्ठरोग्य् ओष्ठनाशकः ।
दन्तपातनकर्ता च दन्तरोगी भवेत् सदा ॥
उरःस्तम्भाद् उरःस्थम्भी अक्षिरोग्य् अक्षिनाशकः ।
पदा तु यद् ताडयति विसर्पी स भवेन् नरः ॥
[२४८] पीडाम् अप्रियकर्ता च धनुर्व्याधिर् धनुर्ग्रहात् ।
पादकीली स भवति पादहन्ता च यो भवेत् ॥
स गद्गदी दारयति यो वृक्षान् अतिविस्तृतान् ।
शूलेन शूली भवति यस् तु हिंस्याद् दृढान् पशून् ।
नक्तान्ध्यं जायते तस्य यो गवां नयनद्वये ॥
करोति शूलप्रक्षेपं पूर्वभावप्रचोदितः ॥ इति । (काश्स्म् ३।४०–४६)
व्यासो ऽपि ।
पितृहा याति पैशाच्यं जात्यन्धो मातृघातकः ।
प्राण्यङ्गं मृगशावं च हत्वा वन्ध्यो मृतप्रजाः ॥
असाध्यरोगी बालघ्नः क्षयी स्यात् सर्वजीवहा ।
गात्रकृच्छ्री व्रणी श्वित्री विसर्पी परघातकः ॥
नेत्ररोगी भवेत् तस्य यो ऽन्येषां दृष्टिघातकः ।
परेषां रसनाछेदी जिह्वास्य व्रणवान् भवेत् ॥
[२४९] कृतघ्नः स्फुटिताक्षो वा तृतीयज्वरसंयुतः ।
चातुर्थकोष्णशीतोष्णज्वरी स्यात् सततं ज्वरी ॥
ग्रामे वने वा जन्तूनां श्वभिर् यो भीतिम् अर्पयेत् ।
भयोद्वेगकरो ऽन्येषां पाषाणेनाथ घातकः ॥
तलघाती च संभूतः कुलेषु धनिनां नरः ।
गत्वा देशान्तरं तेषां तत्र रोगो महान् भवेत् ॥ इति । (व्यास्म् ६।१७–२२)
वृद्धगौतमः ।
वृक्षच्छेत्ता वृथा यस् तु स नाडीव्रणवान् भवेत् । इति ।
वायुपुराणे ।
भवेत् स्फुटितपादस् तु यो निहन्याद् वनस्पतीन् ।
प्राणिहिंसापरो जन्तुघाती वा मृतसन्ततिः ॥
मुधे कृष्णव्रणी श्वित्री वन्ध्यो वा स्याद् विसर्पवान् ।
वल्मीकं तु खनित्वा यो हन्ति वायुभुजो नरः ॥
गजचर्मी ज्वरी च स्याद् आज्ञया पूर्वकर्मणः ।
भ्रूणहा स्विन्नहस्तः स्याद् ग्रहणीवान् अपत्यहा ॥
[२५०] इति । विष्णुधर्मोत्तरे ।
यं किंचिद् घातयित्वा तु प्राणिनं भृगुनन्दन ।
मांसं भुक्त्वा तु धर्मज्ञ भवतीह गदातुरः ॥ इति । (विधु २।१०८।४)
इति हिंसाशेषकर्मफलानि
अथापेयपानाभक्ष्यभक्षणकर्मविशेषाद् योनिविशेषः
तत्र शिवधर्मोत्तरे ।
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
सुरापः प्राप्यते योनिं पूर्वकर्मानुसारतः ॥ इति ।
उमामहेश्वरसंवादे ।
मद्यव्यसनिनो ये च ये मद्यं सेवयन्ति च ।
शालां तु कारयेद् यस् तु मद्यपानं ददाति यः ॥
मद्यविक्रयिणो ये च मद्यं ये क्रीणयन्ति च ।
पिबन्ति ये नरा देवि सर्वे ते समभागिनः ॥
ते शौण्डिका वा चण्डाला लुब्धका मत्स्यघातकाः ।
दासत्वेनैव सुश्रोणि जायन्ते पुरुषाधमाः ॥
[२५१] तिर्यञ्चो ऽपि स्मुत्पन्ना यथा मृत्युम् उपागताः ।
मद्यपानरता ये च शृणु तेषां गतिं शुभे ॥
षष्टिवर्षसहस्राणि कृमिर् भूत्वा महीतले ।
कृमियोनिक्षये भूते पापं तु कथयाम्य् अहम् ॥
श्वानयोनिशतं गच्छेज् जम्बुके पञ्चविंशतिम् ।
मद्यपानरता ये तु कां गतिं यान्ति सुव्रते ॥
शूद्रस्य चेदृशं पापं मद्यपानरस्तस्य च ।
विप्रस्य कथयिष्यामि मद्यपस्य दुरात्मनः ॥
काको भूत्वा चिरं देवि विष्ठाभक्षस् तु जीवति ।
वर्षाणां द्वादशे लक्ष्ये स जीवेत् पापकर्मकृत् ॥
स्वे मांसे परमांसेन यो देही वृद्धिम् इच्छति ।
तस्य योनिशतं गत्वा शरीरं व्याधितं भवेत् ॥
यासु योनिषु जायन्ते नरा मांसस्य भक्षकाः।
व्याधिरोगशतैर् युक्ता जायन्ते तासु कर्मणा ॥
[२५२] इति । मनुः ।
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ इति । (म्ध् १२।५६)
विष्णुर् अपि- “अभोज्यानां भोनजे अभक्ष्यभक्षणे च कृमिः” इति (विध् ४४।११) । वृद्धगौतमः ।
विप्रवृत्तिविलोपेन दुर्दुरः सप्तजन्मसु ।
निषिद्धान्नं तु यो भुङ्क्ते कमठः सो ऽभिजायते ॥
कीटाशी शीतलान्नाशी मत्स्याशी याचितान्नभुक् ।
आमन्त्रणं विना भुक्त्वा परान्नं काकतां व्रजेत् ॥ इति ।
अथापेयपानादिकर्मशेषफलानि
तत्र हारीतः- “सुरापो बद्धिजिह्वः । अभक्ष्यभक्षः श्यावदन्तः । (हार्स्म् २४।६८–६९) । [२५३] इति । स्कान्दे रेवाखण्डे ।
पापशेषात् तु भवति सुरापः श्यावदन्तकः । इति ।
शिवधर्मोत्तरे- “अभक्ष्यभक्षी गण्डमाली” इति । शङ्खलिखितौ- “अभक्ष्यभक्षी गण्डमाली” इति । काश्यपः- “सुरापो लोलजिह्वः” इति (काश्स्म् १३।१९) ।
**अथ स्तेयकर्मविशेषाद् योनिविशेषाः **
तत्र मनुः ।
लूताहिसरठानां च तिरश्चाम् चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥
संयोगं पतितैर् गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥
[२५४] मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधानि च रत्नानि जायते लोहकर्तृषु ॥
धान्यं हृवा भवत्य् आखुः कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥
मांसं गृध्रो वसां मद्गुस् तैलं तैलपकः खगः ।
चीरीवाकस् तु लवणं बलाका शकुनिर् दधि ॥
कौशेयं तित्तिरिर् हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥
चुच्चुन्दरी शुभान् गन्धान् पत्रं शाकं तु बर्हिणः ।
श्वावित् कृतान्नं विविधम् अकृतान्नं तु शल्यकः ॥
बको भवति हृत्वाग्निं गृहकारी ह्य् अपस्करम् ।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥
वृको मृगेभं व्याघ्रो ऽश्वं फलपुष्पं तु मर्कटः ।
स्त्रीम् ऋक्षस् तोकको वारि यानान्य् उष्ट्रः पशून् अजः ॥
यद् वा तद् वा परद्रव्यम् अपहृत्य ब्लान् नरः ।
[२५५] अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥
स्त्रियो ऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः ।
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥ इति । (म्ध् १२।५७–६९)
याज्ञवल्क्यः ।
हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हृत्वा गन्धाञ् चुच्छिन्दरी शुभान् ॥
मूषको धान्यहारी स्याद् यानम् उष्ट्रः फलं कपिः ।
जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम् ॥
मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा ।
श्वित्री वस्त्रं श्वा रसं च चीरी लवणहारकः ॥
प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ इति । (य्ध् ३।२१३–१६)
मार्कण्डेयपुराणे ।
न्यासापहर्ता नरकाद् विमुक्तो जायते कृमिः ।
धान्यं यवांस् तिलान् माषान् कुलित्थान् सर्षपाञ् चणान् ॥
[२५६] सस्यान्य् अन्यानि वा हृत्वा मोहाज् जन्तुर् अचेतनः ।
संजायते महावक्त्रो मूषको वज्रसंनिभः ॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।
हृत्वा दुग्धं तु मार्जारो जायते नरकाच् च्युतः ।
तिलपिण्याकसंमिश्रम् अन्नं हृत्वा तु मूषकः ॥
घृतं हृत्वा तु नकुलः काको मुहुर् अजामिषम् ।
श्येनो मार्गामिषं हृत्वा चीरी लवणहारकः ॥
चोरयित्वा पयश् चापि बलाका संप्रजायते ।
यस् तु चोरयते तैलं तैलपायी स जायते ।
मधु हृत्वा नरो दंशो घृतं हृत्वा पिपीलिका ॥
चोरयित्वा तु निष्पावान् जायते गृहगोलकः ।
आसनं चोरयित्वा तु तित्तिरत्वम् अवाप्नुयात् ॥
अयो हृत्वा तु पापात्मा वायसः संप्रजायते ।
[२५७] हृते कांस्ये च हारीतः कपोतो रौप्यजे हृते ॥
जीवञ्जीवकतां याति रक्तवस्त्रापहारकः ॥
चुच्छुन्दरी शुभान् गन्धान् सस्यं हृत्वा शशो भवेत् ।
षण्ढः पलालहरणे काष्ठहृत् घुणकीटकः ॥
पुष्œआपहृद् दरिद्रश् च पङ्गुर् यानापहारकः ।
शाकहर्ता च हारीतस् तोयहर्ता च चातकः ॥
भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ।
तृणगुल्मलथावल्लीत्वक्सारतरुतां क्रमात् ॥ इति । (मार्पु १५।६–३२)
गौतमः ।
अनृतवाक् स्खलितजिह्वो मुहुर् मुहुः संलग्नवाक् । [२५८] जलोदरो दारत्यागी । कूटसाक्षी श्लीपदी उच्छूनजङ्घाचरणः । विवाहविघ्नकर्ता छिन्नोष्ठः । अवगूरणश् छिन्नहस्तः । मातृध्नो ऽन्धः । स्नुषागामी वातवृषणः । चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्रः । कन्यादूषकः षण्ढः । पर्युषितभोजी कृमिः । ईर्ष्यालुर् मशकः । पित्रोर् विवदमानो ऽपस्मारी । न्यासापहार्य् अनपत्यः । रत्नापहारी अत्यन्तदरिद्रः । विद्याविक्रयी पुरुषमृगः । वेदविक्रयी द्वीपी । बहुयाजको जलप्लवः । अयाज्ययाजको वराहः । अनिमन्त्रितभोजी वायसः । मृष्टैकभोजी वानरः । इतस् ततो ऽश्नन् मार्जारः । कक्षवनदाही खद्योतः । दारकाचार्यो मुखविगन्धः । अदत्तादायी बलीवर्दः । मत्सरी भ्रमरः । अग्न्युत्सादी मण्डलकुष्ठी । शूद्रावार्यः श्वपाकः । गोहर्ता सर्पः । स्नेहापहारी क्षयी । अन्नापहार्य् अजीर्णी । ज्ञानापहारी [२५९] मूकः । जलापहारी मत्स्यः । क्षीरहारी बलाकः । परद्रव्यापहारी परप्रेष्यः । इति । (ग्ध् २०।४–३८ ??)
शङ्खलिखितौ ।
वेश्यापहारी अद्रिसर्पः । परजलापहारी शिशुमारः । सस्यापहारी कपोतः । कव्यापहारी वायसः । ताम्रापहारी वल्गुलः । अपूपापहारी प्रेतः । शास्त्रापहारी जडः । छत्रापहारी कारण्डवः । गन्धापहारी पतङ्गः । ध्वजापहारी कृकलासः । शाकापहारी पशुः । शय्यापहार्य् अशयनः । पुष्पापहारी दुर्गन्धी । फलापहार्य् अफली । दीपापहारी कौशिकः । भूम्यपहारी नकुलाहिबिडालाखूनाम् अन्यतमः इति ।
[२६०] यद् वा तद् वापि पारक्यं स्वल्पं वा यदि वा बहु ।
हृत्वा वै योनिम् आप्नोति तत् तद् भोगानुरूपतः ॥ इति ।
अथ स्तेयकर्मशेषफलानि
तत्र विष्णुधर्मोत्तरे ।
मणिमुक्ताप्रवालानि रत्नानि विविधानि च ।
अपहृत्य नरा राम जायन्ते हेमकर्तृषु ॥
यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
प्राप्नोति भृतुशार्दूल मानुष्ये भारवाहिताम् ॥
धान्यचोरो ऽङ्गहीनः स्याद् अत्यङ्गो मिश्रहृद् भवेत् ।
व्याधितश् चान्नहर्ता स्यान् मूको वागपहारकः ॥
वस्त्रापहारी श्वित्री स्यात् पङ्गुश् चाश्वापहारकः ।
अन्धो दीपापहारी स्यात् काणो निर्वापको भवेत् ॥
दरिद्रः परवित्तघ्नश् चोन्मत्तश् च तथाग्निदः ॥
पङ्गुर् एव तथा ज्ञेयः सर्व्यानापहारकः ।
[२६१] अन्धश् च जायते लोके गां हृत्वा च नराधमः ॥
वस्त्रभोज्यापहर्तारो तथा नग्नबुभुक्षितौ ।
रत्नापहारी भवति तथा कुष्ठी नराधमः ॥ इति । (विधु २।१०७।२–९)
वायुपुराणे ।
वातव्याधियुतः स्तेयी तथा कुष्ठी नरो भवेत् ।
ब्राह्मणस्वर्णहारी च प्रमेही जायते नरः ॥
प्रस्विन्नपाणिपादः स्याद् आहरेद् यो रसादिकम् ।
अन्नचोरो भवेद् यस् तु सो ऽकस्माज् जायते कृशः ॥
स्वरोपघाती वाक्यं च हृत्वा मर्त्यः प्रजायते ॥ इति । (वाय्पु २।३१।२५–२७)
उमामहेश्वरसंवादे ।
धान्यचौरस् तु हीनाङ्गस् तृणहर्ता तु वा पुनः ।
परद्रव्यापहारी च भृत्यानां वृत्तिजीवकः ॥
अन्नं क्षेत्रं गृहं वापि परद्रव्यं हरन्ति ये ।
सुवर्णमणिमुक्तानि वस्त्राण्य् आभरणानि च ॥
[२६२] आसनानि विचित्राणि धनधान्यम् उपस्करम् ।
ये हरन्ति नरा नित्यं परद्रव्याणि मोहिताः ॥
इहलोकमृतानां च तेषाम् एष विधिः स्मृतः ।
नग्ना दीनाः क्षुधार्ताश् च कुचैला दुःखिताः सदा ॥
बन्धुभिः परिभूताश् च भोग्यभोगविवर्जिताः ।
तांस् तु ते प्रार्थयन्तीह दासवृत्तिम् उपागताः ॥
ये हरन्ति च तूर्याणि वाद्यानि विविधानि च ।
तेन पापेन ते देवि तिर्यक्त्वं यान्ति मानवाः ॥
हृत्वानद्धादिवाद्यानि झल्लरीपटहानि च ।
तेन पापेन ते मूढा बाधिर्यं यान्ति मानवाः ॥
कांस्यकं मुरजं वंशं वीणां तुम्बुरुकं तथा ।
ये हरन्ति च पापेन पिशाचास् ते भवन्ति च ॥
पटहं लेपनं चैव तथा संपुटिकाश् च येत् ।
[२६३] हरन्ति पुष्करं ये तु तेन ते यान्ति मूकताम् ॥
प्रासादेषु च ये देवि हरन्ते दीपकान् नराः ।
गृहेषु चैव विप्राणां तेन ते यान्ति चान्धताम् ॥ इति ।
शङ्खलिकितौ ।
सुवर्णस्तेयी कुनखी । वस्त्रापहारी श्वित्री । हिरण्यापहारी दद्रुणः । तैजसापहारी मण्डली । स्नेहापहारी क्षयामयी । अजीर्णवान् अन्नापहारी । वागपहारी मूकः । गृध्रो देवद्रव्योपजीवकः । पाण्डुरोगी दीपहारी । ब्राह्मणवृत्तिघ्नश् च दरिद्रः । कर्मफलविशेषेण कुब्जषण्ढपङ्गुदरिद्राश् च जायन्ते । इति ।
यमः ।
द्रव्यौषधापहर्ता च दीर्घरोगित्वम् आप्नुयात् ।
धान्यचोरो व्रणी च स्यात् कासी भक्तापहारकः ॥
गलगण्डी गणद्रव्यहर्ता भवति मानवः ।
[२६४] विधृतिर् बलहर्ता च श्येनो मांसापहारकः ॥ इति । (यस्म् ५।३–५)
स्कान्दे रेवाखण्डे ।
मानकूटं तुलाकूटं कूटसाक्ष्यं वदन्ति ये ।
नरके ते ऽन्धतामिस्रे प्रपच्यन्ते नराधिप ॥
शतसाहस्रिकं कालम् उषीत्वा तत्र ते नराः ।
इह शत्रुगृहे बद्धा भ्रमन्ते कालम् ईप्सितम् ॥
कुनखी स्वर्णहरणान् मूकः पुस्तकहारकः ।
फलान्य् आहरतो ऽपत्यं म्रियते नात्र संशयः ॥ इति ।
अथागम्यागमनकर्मविशेषाद् योनिविशेषः
तत्र स्कान्दे रेवाखण्डे ।
गुरुदाराभिमर्शी च कृकलासो भवेद् ध्रुवम् ।
राज्ञीगामी भवेद् उष्ट्रो वृश्चिको वृषलीपतिः ॥
[२६५] इति । गौतमः- “चाण्डालीपुल्कसीगमने ऽजगरः । प्रव्रजितागमने मरुपिशाचः । शूद्रागमने दीर्घकीटः । सवर्णाभिगामी दरिद्रः । गोगामी मण्डूकः” इति ।
मार्कण्डेयपुराणे ।
परदाराभिगमने रक्तद्रोणस् तु जायते ।
श्वसृगालेभगृध्रेषु क्रमाज् जातिषु जायते ॥
भ्रातृभार्या च दुर्बुद्धिर् यो धर्षयति पापकृत् ।
पुंस्कोकिलत्वम् आप्नोति स पापो नरकाच् च्युतः ॥
सखिभार्यां गुरोर् भार्यां राजभार्यां च पापकृत् ।
प्रधर्षयित्वा कामात्मा सूकरो जायते नरः ॥
शूद्रश् च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।
तस्याम् अपत्यम् उत्पाद्य काष्ठान्तः कीटको भवेत् ॥
सूकरः कृमिको मद्गुश् चण्डालश् च प्रजायते ॥ (मार्œउ १५।९–१६)
[२६६] इति । ब्रह्मपुराणे ।
सखिभार्यां गुरोर् भायां राजभार्यां तथैव च ।
प्रधर्षयति कामाद् यो मृतो जायेत सूकरः ॥
सूकरः पञ्चवर्षाणि दश वर्षाणि वै वृकः ।
पिपीलिका तु मासांस् त्रीन् कीटः स्यान् मासम् एव तु ॥
एतान् आसाद्य संसारान् कृमियोनौ प्रजायते ।
तत्र जीवति मासांश् च कृमियोनौ चतुर्दश् ॥
ततो ऽध्रमक्षयं कृत्वा ततो जायेत वै वृकः ।
श्वा सृगालस् ततो गृध्रो व्यालः काको बकस् तथा ॥
भ्रातृभार्यां तु पापात्मा यो रोचयति मोहितः ।
कोकिलत्वम् अवाप्नोति सो ऽपि संवत्सरं द्विजः ॥
मनसापि गुरोर् भार्यां यः शिष्यो याति पापकृत् ।
उग्रान् स याति संसारान् अधर्मेणेह चेतसा ॥
श्वयोनौ तु स संभूतस् त्रीणि वर्षाणि जीवति ।
तत्रापि निरयं प्राप्तः कृमियोनौ प्रजायते ॥
[२६७] कृमिभावम् अनुप्राप्य वर्षम् एकं तु जीवति ।
ततस् तु निरयं प्राप्तो ब्रह्मयोनौ प्रजायते ॥
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।
ततः संप्राप्य निधनं जायते सूकरः पुनः ॥
श्वा ततो जायते मूढः कर्मणा तेन भो द्विजाः ॥
श्वा भूत्वा कृकलासस् तु जायते मानवस् ततः ।
तत्रापत्यं समुत्पाद्य ततो जायेत मूषकः ॥ इति । (ब्र्पु २१७।६६–८०)
नारदपुराणे ।
चिन्तयेद् वीक्षयेद् वापि जननीं वा सुतां च वा ।
वधूं वा भ्रातृदारान् वा गुरुभार्यां नृपस्त्रियम् ॥
[२६८] स याति नरकं घोरं संचिन्त्य श्वपचीम् अपि ।
दृष्ट्वा हि प्रमदा ह्य् एता यः क्षोभं व्रजते नरः ॥
तस्य पुण्यं कृतं सर्वं वृथा भवति नान्यथा ।
पुण्यस्य संक्षयात् पापी पाषाणश् च भवेद् ध्रुवम् ॥ इति ।
व्यभिचारिणीम् प्रति वराहपुराणे ।
ततः शुनी भवेत् पश्चात् सूकरी च ततः परम् ।
कर्मक्षये ततः पश्चान् मानुषी कुत्सिता भवेत् ॥
न च सौख्यम् अवाप्नोति तेन दुःखेन दुःखिता । इति । (वाम्पु २०२।७१–७२)
तृणगुल्मलतानां च क्रव्याददंष्ट्रिणाम् अपि ।
क्रूरकर्मरतानां च क्रमशो गुरुतल्पगः ॥
हिंस्रा भवन्ति क्रव्यादाः क्रमशो ऽभक्ष्यभक्षिणः ।
परस्परादिनो मत्स्याः प्रेत्यान्त्यस्त्रीनिषेवकाः ॥ (वाम्पु २०२।३०–३१)
[२६९] इति । अगम्यागमनकर्मविशेषात् फलविशेषः पद्मपुराणे ।
उदरव्याधियुक्तस् तु तथा गुर्वङ्गनागमे ।
आचार्यभार्यागमने भगन्दरयुतो भवेत् ॥
तथा पापेन महता गुल्मी स्याद् अन्त्यजागमे ॥ इति ।
विष्णुधर्मोत्तरे ।
षण्ढश् च जायते लोके दारातिक्रमकारकः ।
परपुंसि प्रसक्ता च तस्य भार्या तथा भवेत् ॥
कुष्ठी भवति धर्मज्ञ अपहृत्य तथा स्त्रियम् ।
लिङ्गव्याधिम् अवाप्नोति वियोनौ मैथुने रतः ॥
गां गत्वा तु द्विजश्रेष्ठ लिङ्गनाशम् अवाप्नुयात् ।
दृष्ट्वा परस्त्रियं नग्नां नरो दुष्टेन चेतसा ॥
जात्यन्धत्वम् अवाप्नोति परलोके न संशयः ।
अवकीर्णी च भवति लिङ्गव्याधिसमन्वितः ॥
प्रकीर्णमैथुनो जन्तुः क्लीबो भवति वै द्विज ॥ इति । (विधु २।७०।४१–४६)
शङ्खलिखितौ- “पर्वमैथुनी प्रमेही । पुरुषव्याधिपीडितः । परदारगाम्य् अगुप्तदारः । गोष्व् अवकीर्णी दुश्चर्मा । [२७०] खराभिगामी मूत्रमेही । सगोत्राभिगामी मद्यपस्त्रीगामी च श्लीपदी । मातृपितृभगिनीगाम्य् अबीजी । स्वदाराद् अन्यत्र दीव्यतः केशाल्पत्वम् । गुरुतल्पगो दुश्चर्मा । चण्डाल्यवकीर्णी कन्यादूषी सगोत्राभिगाम्य् अबीजी । धर्मपत्न्याम् आस्ये प्रवर्तकः खल्वाटः । मातृभगिनीगाम्य् अवकीर्णी श्लीपदी वध्री मधुमेही च” इति । वृद्धबौधायनः ।
गां गत्वा मधुमेही स्यान् मूत्रकृच्छ्री चतुष्पदम् ।
मधुमेहि खराश्वादिगामी भवति मानुषः ॥
सवर्णागमने रक्तः पितृहा पाण्डुरोग्य् अथ ।
अन्त्यजागमने मर्त्यो जायते नात्र संशयः ॥ इति ।
वृद्धगौतमः ।
धर्मपत्नी गुरोर् गत्वा वृश्चिको भुजगस् तथा ।
पक्षिदंष्ट्रिमृगव्यालक्रव्यादो ऽपि ततो ऽसकृत् ॥
तथा मानुष्यतां प्राप्तः क्षयी कुष्ठी च वा भवेत् ।
महोदरी प्रमेही च दुश्चर्मापि भगन्दरी ॥
ज्वरातिसारी दाही च पाददाही कृमिव्रणी ।
गत्वा तु मातृभगिनीं दारेषु मधुमेहवान् ॥
[२७१] कन्यागाम्य् अश्मरी शूली प्रमेही मूत्रकृच्छ्र्य् अपि ।
कन्यां च गोत्रजां गत्वा बाहुहीनो भवेन् नरः ॥
सगोत्रां च सवर्णां च गत्वा स्यात् श्लीपदी नरः ।
मातरं च स्वसारं च गत्वा श्लीपद्य् अजीवकः ॥
अनस्थिप्राणिपादः स्यात् श्वश्रूगः सखिम्भार्यगः ।
मूत्रकृच्छ्री तथाजिह्वी स्नुषागो मुष्कवृद्धिमान् ॥
रजस्वलाभिगामी च चण्डालीगमने रतः ।
दाहज्वरी भवेन् मर्त्यः अन्त्यजन्मसु गुल्मवान् ॥
गत्वा तपस्विनीं नारींगुर्विणीं मूत्रकृच्छ्र्य् अपि ।
स्याद् आमयावी भवति विधवागो ऽश्मरीयुतः ॥
प्रमेही मूत्रकृच्छ्री च शूली मर्त्यो ऽभिजायते ।
परदाराभिगामी च प्रमेही गुरुदारगः ॥
दासीगामी क्रूरकर्मा सदा कामरतो भवेत् ।
स्वजातिपरनारीगः कुष्ठी मर्त्यो ऽभिजायते ॥
वक्त्रमैथुनकर्ता च खल्वाटो जायते नरः ।
गत्वा तु महिषीं राज्ञः षण्ढो भवति मानवः ॥
[२७२] नेत्ररोगी भवेत् प्रेक्ष्य नितरां परयोषितः ।
बहुत्वे योषिताम् एकपत्नीगः खञ्जतां व्रजेत् ॥
स्वदारेभ्यो ऽन्यतो दीव्यन्न् अल्पकेशो भवेन् नरः ।
पुंश्चल्यो योषितो बालरण्डाः स्युर् बधिरास् तथा ॥
दास्यो वा दीर्घरोगिण्यो दृष्टिहीना भवन्ति ताः ॥ इति ।
ब्रह्मपुराणे ।
परदारेषु य चापि चक्षुर् द्रष्टुं प्रयुञ्जते ।
तेन दुष्टस्वभावेन क्लीबत्वम् उपयान्ति वै ॥
पशूंश् च ये विव्रजन्ति ये चैव गुरुतल्पगाः ।
प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः ॥ इति । (ब्र्पु २१७।६४–६५)
तेद् एवं कानिचिच् छास्त्राण्य् उदाहृत्य कियान् अपि कर्मविपाको निरूपितः । अनयैव दिशा विपाकान्तराण्य् उन्नेयानि । न हि निःशेषेण केनचिद् उदाहर्तुं शक्यन्ते । तद् उक्तं विष्णुधर्मोत्तरे ।
उक्तास् तवेमास् तु मया तिरश्चां
या योनयो यानि च लक्षण्नि ।
शक्यानि कार्त्स्न्येन मया न वक्तुं
या योनयश् चैव नराधमानाम् ॥ (विधु २।७२।६७)
[२७३] इति । अशक्तिश् च कर्मानन्त्यात् । यद्य् अप्य् अतिपातकादीनि प्रकीर्णकान्तानि पापानि दशविधत्वेन विष्णुना सङ्कलितानि तथाप्य् अतिपातकादिजात्युपाधाव् एव तत्सङ्कलनम् । पापव्यक्तीनां तु स्वरूपतो देशकालकर्त्रवस्थादिभेदाच् च नेयत्ता । यदा कर्मणाम् एवेयत्ता नास्ति तदा तद्विपाकानाम् इयत्ता दूरापास्ता । एकैकस्य कर्मणो बहुविधविपाकवत्त्वस्मरणात् । उदाहृताश् च बहुविपाकाभिधायिकाः श्वसूकरेत्यादिस्मृतयः । तथापि तेषां निःशेषकथनं मनसापि चिन्तयितुम् अशक्यम् । अतो दिङ्मात्रं प्रदर्शितम् ।
एतच् च विपाकाभिधानं संचेष्यमाणेभ्यः पुरुषं निवर्तयत् संचितेषु चोद्वेगं जनयन् निषेधेषु प्रायश्चित्तविधिषु चार्थवादतयान्वेतीति पूर्वम् अभिहितम् । तत्र निषेधा आचारकाण्डे प्रपञ्चिताः । प्रायश्चित्तविधयश् च प्रायश्चित्तकाण्डे । तानि च प्रायश्चित्तानि संचितविषयाणि । प्रारब्धे तु विचारणीयम् । किं प्रायश्चित्तम् अस्ति उत नेति । तत्र तावद् अस्तीति केचिद् आहुः ।
उदाहरन्ति च वचनम् –
पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।
तच्छान्तिर् औषधैर् दानैर् जपहोमार्चनादिभिः ॥
[२७४] इति ।
ननु – नैतद् युक्तिसहम् । तथा हि, निषिद्धस्य कर्मणः प्रायश्चित्तनिवर्तनीयत्वम् । यदा फलम् आरब्धं तदैव कर्मत्वदशाम् अतीत्य फलत्वदशायां प्रविष्टम् । न च फलस्य प्रायश्चित्तं क्वचित् प्रसिद्धम् अस्ति ।
नायं दोषः, फल्त्वदशायाम् अपि कर्मत्वस्यात्यान्तिकनिवृत्त्यभावात् । अन्यथा पापकर्मणः फलम् इति व्यवहारानुपपत्तेः । अथ वा प्रायश्चित्तसदसद्भावः शास्त्रैकसमधिगम्यः । शास्त्रं चेत् फलस्यापि प्रायश्चित्तं ब्रूते किं तव छिद्यते । उदाहृतं च शास्त्रम् “तच्छान्तिर् औषधैः” इत्यादि । तस्माद् आरब्धफलस्याप्य् अस्त्य् एव प्रायश्चित्तम् ।
अपरे पुनर् मन्यन्ते । नास्त्य् एवारब्धफलस्य प्रायश्चित्तम् । कुनखित्वादिनिवृत्त्यदर्शनात् । यद्य् आरब्धफलं प्रायश्चित्तान् निवर्तते [२७५] तदा नैसर्गिकम् अपि कुनखित्वादिकं प्रायश्चित्तान् निवर्तेत । न त्व् एवम् उपलभामहे । यथा मुक्तस्येषोर् लक्ष्यवेधो ऽप्रतिसमाधेयः तथा प्रारब्धफलं न प्रतिसमाधातुं शक्यम् । एतद् एवाभिप्रेत्य भगवान् बादरायणः सूत्रयामास- “अनारब्धकार्य एव तु पूर्वे तदवधेः” इति (ब्र्सू ४।१।१५) । अस्यायम् अर्थः – ये सुकृतदुष्कृते तत्त्वज्ञाननिवर्त्यत्वेन पूर्वयोर् अधिकरणयोः प्रकृते, ते अनारब्धकार्ये एव । न त्व् आरब्धफलयोः सुकृतदुष्कृतयोर् निवृत्तिः । कुतः । तदवधेः । “तस्य तावद् एव चिरम्” (छुप् ६।१४।२) इति श्रुताव् उत्पन्नज्ञानस्यापि मोक्षं प्रति शरीरपातावधिश्रवनाद् इति । एवं – तर्हि तच्छान्तिर् इत्यादेः का गतिः – इति चेत्,
उच्यते – न ह्य् अत्र प्रायश्चित्तम् अभिधीयते, तत्प्रकरणे पाठाभावात् । चिकित्साप्रकरणे हि इदं पठितम् । तथा च चिकित्वा यथा [२७६] रोगनिवृत्तेर् दृष्ट उपायः तथा दानादिर् अप्य् अदृष्ट उपायः । तथा सति चिकित्सावद् दानादेर् नात्र प्रायश्चित्तत्वम् । किं तु रोगनिवर्तकं किंचित् प्रबलं सकृतापूर्वम् उत्पादयन्ति दानादयः । तच् च सुकृतप्रवृत्तान्य् अपि फलानि प्रतिबध्य स्वफलं प्रयच्छति । प्रतिबद्धश् च फलशेषः स्वप्नादौ जन्मान्तरे वोपभुज्यते । एतत् सर्वम् उपपुराणे पराशरेण प्रपञ्चितम् ।
शरीरारम्भकं कर्म योगिनो ऽयोगिनि ऽपि च ।
विना फलोपभोगेन नैव नश्यत्य् असंशयम् ॥
वर्तमानशरीरेण संपन्नं कर्म देहिनः ।
इह वामुत्र वाज्ञस्य ददाति स्वफलं शुक ॥
इहैव फलदं कर्म प्रारब्धं प्रतिबध्य च ।
फलं ददाति स्वप्ने वा जाग्रत्काले ऽथ वानघ ॥
निवृत्तप्रतिबन्धं तु प्रारब्धं कर्म सत्तम ।
निरुद्धांशफलं स्वप्ने ददाति स्थिरम् उत्तमम् ॥
निरुद्धांशसमो भोगो यथोद्भूतश् च जाग्रति ।
तथा निरुद्धं तेनैव सह कर्म ददाति वै ॥
एवं निरुद्धभोगं तु स्वप्ने जाग्रति वा फलम् ।
[२७७] आरब्धस्यानुगुण्येन भुङ्क्ते देही न संशयः ॥
अत्युत्कटैर् इहत्यैस् तु पुण्यपापैः शरीरभृत् ।
प्रारब्धं कर्म विच्छिद्य भुङ्क्ते तत्तत्फलं बुधः ॥
प्रारब्धशेषं विच्छिन्नं पुनर् देहान्तरेण तु ।
भुङ्क्ते देही ततो भूङ्क्ते तल् लङ्घयति कः पुमान् ॥
अवश्यम् अनुभोक्तव्यं युगपद् वा क्रमेण वा ।
श्वसूकरखरोष्ट्रादिविरुद्धैर् विग्रहैर् अपि ।
भोक्तव्यस्य फलस्यैव शुक कर्माणि च क्रमात् ॥
कारणानि भवनीह चक्रवत् परिवर्तने ।
आरभन्ते क्रमेणैव तेषां नाशस् तु भोगतः ॥
संचितेषु समस्तेषु प्रबलं कर्म देहिनः ।
फलम् आरभते देहम् अपि तत्साधनं बुधः ॥
दुर्घटं सकलं शक्तिर् माया माहेश्वरी जडा ।
घटयत्य् अत्र संदेहो नास्ति सा तादृशी गतिः ॥ इति ।
प्रबलेन कर्मणा प्रारब्धफलस्य प्रतिबन्धाङ्गीकारे नैसर्गिकाः कुनखित्वादयो ऽपि क्वचित् प्रतिबध्येरन् – इति चेत्, [२७८] प्रतिबध्यन्तां नाम । यत्र प्रतिबन्धो न दृश्यते तत्र दौर्बल्यं कल्पनीयम् । प्रबलस्य तु वरशापाभ्यां जन्मान्यथाभावो ऽपि क्वचित् स्मर्यते । तथा च स्कन्दपुराणे व्याघ्र ईश्वरेण गणेश्वरत्वं प्राप्त इत्य् अभिहितम् । यदा जातस्य देहस्यापि प्रबलेन निमित्तेनान्यथाभावो ऽस्ति तदा किम् उ वक्तव्यं कौनख्यादेर् अन्यथाबाव इति ।
एवं च सति रोगशान्त्यादिप्रतिपादकानि सर्वाणि शास्त्राणि प्रारब्धभोगाविरोधेनानुगृहीतानि भविष्यन्ति । रोगशान्तिश् [२७९] चौषधादिसाध्या । तत्रौषधान्य् आयुर्वेदप्रसिद्धानि । दानानि च बौधायनकल्प-ब्रह्माण्डपुराणादिभ्यो ऽवगन्तव्यानि । जपस् तु शौनकादिप्रोक्तऋग्विधानसामविधानादौ बहुधा प्रपञ्चितः । तथा च ऋग्विधाने स्मर्यते ।
ऋतस्येति जपेत् सूक्तं त्र्ययुतं विष्णुमन्दिरे ।
अश्वत्थे माघमासे च मूत्ररोगो विनश्यति ॥
वयो शुक्रो जपेत् सूक्तम् अश्वत्थे त्र्ययुतं तु चेत् ।
नानाविधो वातरोगो विनश्यति न संशयः ॥
वारुणं वा जपेत् सूक्तम् अयुतं धात्रिमूलके ।
तापादिव्याधिनाशे तु सुखी पश्चात् स्थितो भुवि ॥
कद्रुद्राय जपेद् सूक्तं शीतज्वरविनाशनम् ।
लिङ्गं स्पृष्ट्वायुतं धीमान् आरोग्यं शीघ्रतस् तथा ॥
इमा रुद्राय तवसे जपेत् सूक्तं शिवालये ।
उष्णज्वरविनाशाय अयुतं नात्र संशयः ॥
[२८०] इमां रुद्राय सूक्तं तु जपेच् चेच् छिवमन्दिरे ।
कासशूलादिरोगघ्नम् अयुतं नात्र संशयः ॥
ईङ्खयन्ती जपेत् सूक्तं लक्षं बिल्वे शिवे ऽपि वा ।
कुष्ठनाशो भवेच् छीघ्रं माघमासे न संशयः ॥
हंसमन्त्रं जपेद् धीमान् त्र्ययुतं विष्णुमन्दिरे ।
अर्घ्यं दद्यात् कुष्ठरोगी सुवर्णसमताम् इयात् ॥
जपेच् चित्रं देवमन्त्रं शिरोरोगो विनश्यति ।
आयुर्वृद्ध्यादिकं पश्चाद् अयुतं विष्णुमन्दिरे ॥
अमीवहा स्वप्रयुक्तं जपेत् सूक्तं शिवालये ।
त्र्ययुतं चेत् कुष्ठरोगी स्वर्णवर्णं प्रयाति सः ॥
मित्रस्येति जपेत् सूक्तम् अपस्मारो विनश्यति ।
महापातकयुक्तो ऽपि नीरोगो भूतले स्थितः ॥
उद् असौ कुक्षिशूली तु जपेत् सूक्तं शिवालये ।
अयुतं माघमासे तु मुच्यते नात्र संशयः ॥
[२८१] सूर्यो नो दिवः सूक्तं प्रत्यहं प्रजपेद् दश ॥
बदर्यां च त्रिवर्षं तु क्षयादिव्याधिनाशनम् ॥ इति । (ऋग्वि १०१–५१)
त एते जपा ऋग्विधाने शौनकेन प्रोक्ताः । होमं च तत्र स एवाह ।
ततश् च चित्रमन्त्रेण होमं कुर्यात् सहस्रकम् ।
अर्केण त्रिमधुं कृत्वा शिरोरोगो विनश्यति ॥
सप्तम्यां रवियुक्तायां जलमध्ये यदा दश ।
करवीरैस् तु गायत्र्या होमं कुर्यात् सहस्रकम् ॥
व्याधिनाशो भवेच् छीघ्रं मृत्युं जयति सः पुमान् ॥ इति । (ऋग्वि १६९–७१)
बौधायनो ऽपि ।
असाध्यव्याधिना ग्रस्त उग्रेण प्राणहारिणा ।
आ ते रुद्रेति सूक्तेन प्रत्यृचं वाग्यतः शुचिः ॥
पूर्वम् आज्याहुतीर् हुत्वा उपस्थाय च शङ्करम् ।
हविःशेषेण वर्तेत एकोत्तरम् अतन्द्रितः ॥
पूर्णे मासे जयेन् मृत्युं रोगेभ्यश् च विमुच्यते ।
होमकर्मण्य् अशक्तानां जपस् तद्द्विगुणो भवेत् ॥
[२८२] इति । तैत्तिरीयकशाखायां च द्वितीयकाण्डे रोगनिवृत्त्यर्था होमा बहुधोपवर्णिताः ।
तत्र तावत् प्रथमप्रश्ने काम्यपशुप्रकरणे प्रथ्मानुवाके “वायव्यं श्वेतम् आलभेत” (त्स् २,१,१,१) इति श्वेतपश्वालम्भनानुवृत्तौ श्रूयते “वायवे नियुत्वत आलभेत ज्योगामयावी” (त्स् २।१।१।३) इति । ज्योगामयावी दीर्घरोगी । वायोर् अश्वा नियुतः तद्वते नियुत्वते । फलं च वाक्यशेषे श्रुतम्- “स एवास्मिन् प्राणापानौ दधात्य् उत यदीतासुर् भवति जीवत्य् एव” इति (त्स् २।१।१।४) । स एव नियुत्वान् वायुर् एव । अस्मिन् दीर्घरोगवति इतासुर् गतप्राणः ।
द्वितीयानुवाके श्रूयते- “यो वरुणगृहीतः स्यात् स एवं वारुणं कृष्णम् एकशितिपादम् आलभेत” (त्स् २।१।२।१) [२८३] इति । वरुणगृहीतो जलोदराख्यव्याधिगृहीत इत्य् एके । अज्ञातरोगग्रस्त इत्य् अन्ये । एकः शितिः श्वेतः पादो यस्य स एकशितिपात् । “स एवैनं वरुणपाशाद् विमुञ्चति” (त्स् २।१।२।२) इति फलम् । स एव वरुण एव । वरुणपाशाद् उक्तरोगात् ।
तस्मिन्न् एवानुवाके “आग्नेयं कृष्णग्रीवम् आलभेत सौम्यं बभ्रुं ज्योगामयावी” इति (त्स् २।१।२।७) । बभ्रुः पिङ्गलवर्णः । तत्फलं तु- “अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम् उत यदीतासुर् भवति जीवत्य् एव” इति (त्स् २।१।२।७) ।
चतुर्थानुवाके “यदि बिभीयाद् दुश्चर्मा भविष्यामीति सोमा पौष्णं श्यामम् आलभेत” इति (त्स् २।१।४।३) । कण्डूत्यादिभिश् चिह्नैर् भविष्यद्रोगं निश्चितवतः तस्माद् भयं संभवत्य् एव । तत्फलं तु “न दुश्चर्मा भवति” (त्स् २।१।४।३) [२८४] इति ।
षठानुवाके “प्राजापत्यं तूपरम् आलभेत यस्यावज्ञातम् ज्योगामयेत” इति (त्स् २।१।६।३) । तूपरः शृङ्गहीनः पशुः । तत्फलं तु “स एवैनं तस्मात् स्रामान् मुञ्चति” इति (त्स् २।१।६।५) । स एव प्रजाप्तिर् एव । तस्मात् स्रामाद् अस्पष्टाद् दीर्घरोगात् ।
नवमानुवाके “मैत्रं श्वेतम् आलभेत वारुणं कृष्णं ज्योगामयावी” इति (त्स् २।१।९।३) । तत्फलं तु “साकाद् एवैनं वरुणपाशान् मुञ्चति उत यदीतासुर् भवति जीवत्य् एव” इति (त्स् २।१।९।३) । एवम् एते रोगनिवर्तकाः पशवः प्रथमप्रश्ने ऽभिहिताः । तथा द्वितीयप्रश्ने काम्येष्टिप्रकरणे प्रथमानुवाके श्रूयते “अग्नये सुरभिमते पुरोडाशम् अष्टाकपालं निर्वपेद् यस्य गावो वा पुरुषा वा प्रमीयेरन् यो वा विभीयात्” (त्स् २।२।२।३–४) [२८५] इति । भयप्रतियोगी तु रोगात्मकः पूतिगन्धो ऽवगन्तव्यः, वाक्यशेषे “पूतिगन्धस्यापहत्यै” (त्स् २।२।२।४) इति तत्फलसंकीर्तनात् । तृतीयानुवाके “अग्नये पवमानाय पुरोडाशम् अष्टाकपालं निर्वपेद् अग्नये पावकाग्नये शुचये ज्योगामयावी” इति (त्स् २।२।४।२) । तत्फलं तु “यद् अग्नये पवमानाय निर्वपति प्राणम् एवास्मिंस् तेन दधाति । यद् अग्नये पावकाय वाचम् एवास्मिंस् तेन दधाति । यद् अग्नये शुचये आयुर् एवास्मिंस् तेन दधाति । उत यदीतासुर् भवति जीवत्य् एव” इति (त्स् २।२।४।२–३) । तथा तत्रैव श्रुतम् “एताम् एव निर्वपेच् चक्षुष्कामः” इति (त्स् २।२।४।३) । चक्षुष्कामो नेत्ररोगग्रस्तः, “यद् अग्नये शुचये चक्षुर् एवास्मिंस् तेन दधात्य् उत यद्य् अन्धो भवति प्रैव पश्यति” (त्स् २।२।४।३–४) [२८६] इति तत्फलश्रवणात् ।
अनयैव दिशा वाक्यान्तराण्य् अप्य् उदाहरणीयानि । ऋग्वेदयजुर्वेदाश्रितौ जपहोमौ प्रदर्शितौ सामवेदाश्रिताव् अपि सामवेदपर्यालोचनया प्रदर्शनीयौ ।
अर्चनानि तु शैववैष्णवाद्यागमादिषु प्रसिद्धानि । अर्चनादिभिर् इत्य् आदिशब्देनार्घ्यध्यानयोगप्राणायामादयो दृष्टादृष्टोपाया व्याधिनिवर्तका अवगन्तव्याः । ते च योगशास्त्रादौ प्रसिद्धाः । अस्माभिर् ग्रन्थविस्तरभयान् नात्र लिख्यन्ते ।
न च – उक्तेषु जपादिष्व् अनुष्ठितेष्व् अपि क्वचित् फलसंवाददर्शनात् न विस्रम्भप्रवृत्तिर् इति शङ्कनीयम्, औषधेष्व् अप्य् अस्य न्यायस्य समानत्वात् । तत्रापि मा भूद् विस्रब्ध – इति चेत्, हन्तैवम् आयुर्वेदो दत्तजलाञ्जलिः स्यात् ।
अथ मन्यसे प्रयुज्यमानेष्व् औषधेषु कस्माच् चिद्दोषान् निवर्त्यदोषप्रबलत्वाद् वा निवर्तकौषधप्रयोगस्याभ्यासो ऽपेक्षितः – इति । तर्हि जपादिष्व् अपि तुल्यम् एतद् उत्तरम् । “सकृत् कृते कृतः शास्त्रार्थः” इति न्यायस् त्व् अदृष्टफलेष्व् एवावगन्तव्यो न दृष्टफलेषु । अत एवावघातादिष्व् आवृत्तिः परिकल्प्यते । न खल्व् अनिष्पन्नेषु तण्डुलेषु सकृन्मुसलप्रहारेणावघातविधेश् चरितार्थतां मीमांसका [२८७] मन्यन्ते । तत्र यथा तण्डुलनिष्पत्तिपर्यन्तो ऽवघाताभ्यासः एवम् अत्रापि रोगनिवृत्तिपर्यन्तो जपाद्यभ्यासो द्रष्टव्यः ।
यत् तु क्वचिज् जपादीनाम् अल्पसंख्याश्रवणं तद् अल्पदोषविषयतया व्यवस्थापनीयम् । एवं च सति न क्वापि विसंवादः ।
अयं च व्याधिपरीकारन्यायः सर्वेष्व् अपि अनिष्टेषु प्रारब्धफलेषु कर्मसु योजनीयः । यदि जपादीनां प्रायश्चित्तत्वम् अङ्गीकृत्य प्रारब्धकर्मनिवृत्तिर् अभ्युपेयते यदि वा तदनङ्गीकारेण फलमात्रप्रतिबन्धः सर्वथापि विहिते जपादौ विस्रम्भेण प्रवृत्तिः सिध्यति ।
यदा भोगैकनिवर्त्यत्वशङ्कायुक्तेष्व् अपि प्रारब्धफलेष्व् ईदृशप्रतीकारविस्रम्भः तदानरब्धफलेषु कर्मसु प्रायश्चित्तप्रवृत्तिविस्रम्भो ऽस्तीति किम् उ वक्तव्यम् । तस्माद् यथोक्तेषु प्रायश्चित्तेषु निःसंदिग्धतयैव प्रवर्तितव्यम् इत्य् अशेषम् अतिमङ्गलम् ॥
_ तद् एवम् अयं भगवान् पराशराचार्यः काण्डद्वयेन व्यवहारसूचनसहितम् आचारप्रायश्चित्तप्रपञ्चम् अभिधाय शास्त्रम् उपसंहरति –_
एतत् पाराशरं शास्त्रं श्लोकानां शतपञ्चकम् ॥ १२।८१ ॥
द्विनवत्या समायुक्तं धर्मशास्त्रस्य संग्रहः ॥
इति।
पराशरेण कस्यचिद् उपपुराणस्यापि निर्मितत्वात् तस्य च ज्ञानप्रधानत्वात् तद्व्यवच्छेत्तुम् एतद् इत्य् उक्तम् । “अथातो हिमशैलाग्रे” (पार्स्म् १।१) [२८८] इत्य् आरभ्य प्रणीतो द्वादशध्यायात्मको ग्रन्थसन्दर्भः प्रकृतत्वाद् एतच्छब्देन परामृश्यते । अस्य शास्त्रस्य कलिधर्मविषये प्रामाण्यातिशयं पूर्वोक्तम् अनुस्मारयितुं पराशरसंबन्धोपवर्णनम् । शास्त्रश्अब्दो ऽत्र विधायकं वचनम् आचष्टे, शासनाच् छास्त्रम् इति तद्व्युत्पत्तेः ।
ननु – शंसनाच् छास्त्रम् इत्य् अपि तद्व्युत्पत्तिर् अस्ति । तद् उक्तं पुराणे,
शासनाच् छंसनाच् चैव शास्त्रम् इत्य् अभिधीयते ॥ इति ।
बाढम् । सा व्युत्पत्तिर् मोक्षशास्त्रविषया, तस्य सिद्धब्रह्मतत्त्वाख्यानरूपत्वात् । अत्र त्व् अनुष्टेयार्थकथनात् पूर्वोक्तैव । तद् एवाभिव्यञ्जयितुं धर्मशास्त्रस्येत्य् उक्तम् । वचनान्तराणाम् आवापोद्वापनिवृत्तये संख्याभिधानम् । मन्वादिस्मृतिवद् ग्रन्थबाहुल्याभावात् केषांचिद् धर्माणाम् अनुक्तिम् आशङ्क्य तद्व्यवच्छेदाय सङ्ग्रह इत्य् उक्तम् ।
अस्य शास्त्रस्यार्थानुष्ठानप्रधानत्वात् पाठस्य स्वर्गं प्रति अकिंचित्करत्वम् आशङ्क्य वेदाध्ययनवत् स्वर्गसाधनत्वम् आह ।
यथाध्ययनकर्माणि धर्मशास्त्रम् इदं तथा ॥ १२।८२ ॥
अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना । इति ।
[२८९]
निगदव्याख्यातम् एतत् ।
ननु – व्यासेन कलिधर्माणां पृष्टत्वा, “कलौ पाराशराः स्मृताः” (पर्स्म् १।२४) इति पराशरेणोत्तरितत्वाच् च पराशरोक्ताः सर्वे कलिधर्मा एवेति वक्तव्यम् । किं च, “शेषं मुनिविभाषितम्” (पर्स्म् १।३४) इति इतरमुन्युक्तकलिनिषेधानाम् अप्य् अभ्युपगतिः स्पष्टं लक्ष्यते । अतो मूलोक्ताघसङ्कोचादीनां मूलोन्नीतदूरयात्रादीनाम् अस्मिन् युगे प्रवृत्ताव् अप्रवृत्तौ च विरोधो जागरूकः । न च बाहुल्यमात्रेण स्मृतेः कलिधर्मविषयत्वं किं न स्या – इति वाच्यम्, विभाजकनिमित्ताभावात्, निषेधवचनानां निमित्तत्वे कृष्यादिकस्यापि अननुष्ठेयत्वापत्तेः, संन्यासाद्याश्रमकृष्यादिव्यतिरिक्तापद्वृत्तिः सेतुयात्राव्यतिरिक्तदूरयात्रादीनाम् अग्राह्यत्वापत्तेः, आचारस्य तथात्वे अतिप्रसङ्गापत्तेः, स्मृतिवैयर्थ्यापत्तेश् च – इति चेत् ।
अत्रोच्यते — [२९०] कलौ पराशरोक्तं तद्वचनोन्नीतं च सर्वम् अप्य् अनुष्ठेयम् एव । नानुष्ठेयं किंचिद् अप्य् अस्ति । किं त्व् अनुष्ठाने विशेषो विज्ञायते, समन्वयबलात् । तथा हि – निषेधाश् च युगप्रयुक्तानुपपत्तिमूलकाः । अन्यथा विध्युत्पत्तिवैयर्थात् । अनुपपत्तिश् च दृष्टादृष्टा चेति द्विविधा । तत्र दृष्टानुपपत्तिमूलकानाम् अनुष्ठानम् अननुष्ठानं चानिन्दितम् । यत्र अनन्यथासिद्धिप्रतिप्रसवविधिर् उन्नीयते तत्र दृष्टानुपपत्तिः कल्प्यते । “दूराध्वोपगतं श्रान्तम्” (पर्स्म् १।४१), “यतिहस्ते जलं दद्यात्” (पर्स्म् १।५३), “वैश्वदेव उपस्थितम्” (पर्स्म् १।४१), “चातुर्वर्ण्याश्रमागतम्” (पर्स्म् २।१), “एकपिण्डास् तु दायादाः” (पर्स्म् ३।७), “देशान्तरमृतः कश्चित्” (पर्स्म् ३।१०), “ब्रह्मचारी गृहे येषाम्” (पर्स्म् ३।१८), “सव्रतः सत्त्रपूतश् च” (पर्स्म् ३।२१), [२९१] “आहिताग्निश् च यो द्विजः” (पर्स्म् ३।२१), “राज्ञश् च सूतकं नास्ति” (पर्स्म् ३।२२), “यस्य चेच्छति पार्थिवः” (पर्स्म् ३।२२), “संप्रणीतः श्मशानेषु” (पर्स्म् ८।२२), “दासनापितगोपालकुलमित्रार्धसीरिणः” (पर्स्म् ११।२१), “यजेत वाश्वमेधेन” (पर्स्म् १२।७१), इत्याद्यन्यथानुपपत्त्या दूरयात्राविधिर् उन्नेयः । “एकाहाच् छुध्यते विप्रः” (पर्स्म् ३।४) इत्य् अघसङ्कोचविधिर् यायावरविषयत्वेन वा औपासनोक्तापवादप्रतिप्रसवविषयत्वेन वा अन्यथासिद्धिः । “नष्टे मृते प्रव्रजिते” (पर्स्म् ४।२८) पुनर् उद्वाहविधिः परिवेदाद्यक्रमविवाहविषयत्वेन अन्यथासिद्धिः । “क्षेत्रजश् चैव” (पर्स्म् ४।२२) [२९२] इत्यादि क्षेत्रजादिपुत्रभेदप्रदर्शनं कुण्डगोलकप्रदर्शनवत् प्रायश्चित्तार्थत्वेन अन्यथासिद्धम् ।
न च – दत्तौरसयोर् अपि तथा स्यात् – इति वाच्यम् । ऋतुगमनप्रशंसनेन वैपरीत्यनिन्दनेन च औरसस्येव लक्षणप्रणयनेन दत्तस्यापि विध्यभिप्रायविषयत्वप्रतिपादनात् दत्तौरसकथनं न प्रायश्चित्तरूपम् इति स्पष्टीकृतम् । “संसर्गम् आचरेद् विप्रः” (पर्स्म् **) इत्यादि संसर्गप्रायश्चित्तं लोकविलक्षणयाजनादिविषयत्वेन अन्यथासिद्धम् । “आसनात् शयनात् यानात्” (पर्स्म् १२।७९) इति तु पातित्यमात्रापादकत्वेन अन्यथासिद्धम् ।
अन्यत्र गोवधादौ अदृष्टानुपपत्तिः कल्प्यते । तेषाम् अनुष्ठानं निन्दितम् । यत्र प्रत्यक्षो ऽपूर्वविधिर् दृश्यते कृष्यादौ तस्य अननुष्ठानं निन्दितम् । तदितरविषयत्वेनैव निषेधानां प्रवृत्तत्वात् । पूर्वोक्तानन्यथासिद्धविधिविषयाणाम् अप्य् एवम् एव द्रष्टव्यम् । तेषाम् अपि स्वस्वविषयेषु प्रत्यक्षापूर्वविधित्वात् । एतदभिप्रायेणैव सर्वम् अपि व्याख्यानं संगच्छत इति सर्वं समञ्जसम् ॥
अध्यायाचारकाण्डानभिहितसमयाचारभेदान् द्वितीये
काण्डे ऽध्यायाष्टके ऽपि क्वचिद् अनभिहितान् निष्कृतीनां प्रभेदान् ।
अध्याये द्वादशे ऽस्मिन्न् अकथयद् अनघः शक्तिसूनुर् मुनीन्द्रः
तं शिष्टानुग्रहार्थं सुविवृतम् अकरोन् माधवाचार्यवर्यः ॥ १ ॥
अध्याये ऽत्रावशिष्टं समुदितम् उभयोः काण्डयोर् द्वादशे स्यात्
प्रायश्चित्तं यद् अस्मिन्न् अनुपदम् अवदत् पातकादौ रहस्ये ।
अन्यत् सौम्यादिकृच्छ्रं सुविहितफलदं कर्मणो यो विपाकः
सर्वं भावोपलक्ष्यं स्मृतिहृदयविदा व्याकृतं माधवेन ॥ २ ॥
**इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तिक-श्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य **
**माधवामात्यस्य कृतौ पराशरव्याख्यायां **
माधवीयायां द्वादशो ऽध्यायः समाप्तः ।
समाप्तम् इदं प्रायश्चित्तकाण्डम्