११

एकादशो ऽध्यायः

नीलनीरदनिभं निरन्तरं निर्जिताखिलनिशाचरं वयम् ।
मन्महे ऽमलविशाललोचनम् मारुतात्मजविभुं रघूद्वहम् ॥ १ ॥

दशमे ऽध्याये ह्य् उपपातकविशेषस्यागम्यागमनस्य प्रायश्चित्तम् अभिधाय तत्प्रसङ्गाद् गुरुतल्पादीनाम् अपि प्रायश्चित्तम् अभिहितम् । एकादशाध्याये त्व् अभोज्यभोजनस्य प्रायश्चित्तं प्राधान्येनोपवर्ण्यते । तच् चानुपातकम् इत्य् एके, सुरापानसमत्वेन मनुनोपवर्णनात् ।

ब्रह्मओज्झता वेदनिन्दा कूटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ (म्ध् ११।५६)

[३६४] इति । उपपातकम् इत्य् अपरे, मनुनैव,

आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा । (म्ध् ११।६४)

इत्यादिना कानिचिद् अनुक्रम्यान्ते,

नास्तिक्यं चोपपातकम् । (म्ध् ११।६६}

इति निगमनात् । अत्रायं निर्णयः – यस्मिन्न् अभक्ष्यविशेषे गर्हाधिक्यात् कामकृताद् अभ्यासाद् वा प्रायश्चित्तगौरवं स्मर्यते तस्याभक्ष्यस्य भक्षणम् अनुपातकम् । यत्र प्रायश्चित्ताल्पत्वं तद् उपपातकम् । यथा पूर्वत्रागम्यागमन्त्वोपाधिनैकाकारे ऽपि प्रायश्चित्ताल्पत्वात् पारदार्यम् उपपातकम् । मातृभगिन्यादिगमनं प्रायश्चित्तबाहुल्याद् अतिपातकम् इति विञ्णुनाभिहितम् । एवं सर्वत्र नामसाम्ये ऽपि गौरवलाघवाभ्यां तत्तदवान्तरविशेषो निश्चेतव्यः ।

तत्रादौ तावद् अमेध्यादिभोजने प्रायश्चित्तम् आह ।

अमेध्यरेतो गोमांसं चण्डालान्नम् अथापि वा ।
यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ॥ १ ॥

इति।

अमेध्यं विण्मूत्रादि । तदुपस्पृष्टस्यान्नस्य भोजनम् अमेध्यभोजनम् । न चात्र केवलस्यामेध्यस्य विप्रेण भोजनं क्वचित् संभवति । तदुपस्पृष्टान्नभोजनं तु संभाव्यते, बालापत्यसहभोजनस्य प्राचुर्येण लोके दर्शनात् । रेतोभोजनं तु गलयोन्यादिव्याधिग्रस्तेषु संभावितम् । तथा गोमांसचण्डालान्नभोजनं बन्दिगृहीतादिषु । तत्र सर्वत्र चान्द्रायणेन शुद्धिः । अथ वा, चतुर्विधं मेध्यम् । तद्विपरीतम् अमेध्यम् । तद् आह देवलः ।

वक्ष्यते ऽतः परं सर्वं मेध्यामेध्यसमुच्चयम् ।
शुचि पूतं स्वयं शुद्धं पवित्रं चेति केवलम् ॥
मेध्यं चतुर्विधं लोके प्रजानां मनुर् अब्रवीत् ।
दूषितं कश्मलं दुष्टं वर्जितं चेति लिङ्गतः ॥
चतुर्विधम् अमेध्यं च सर्वं व्याख्यास्यते पुनः ।
नवं वा निर्मलं वापि शुचीति द्रव्यम् उच्यते ॥
शुद्धं पवित्रभूतं च पूतम् इत्य् अभिधीयते ।
स्वयम् एव हि यद् द्रव्यं केवलं धन्यतां गतम् ॥
स्थावरं जङ्गमं वापि स्वयं शुद्धम् इति स्मृतिः ।
अन्यद् द्रव्यैर् अदुष्यं यत् तत् पवित्रम् इति स्मृतिः ॥
[३६६] अथ सर्वाणि धान्यानि द्रव्याण्य् आभरणानि च ।
अवर्ज्यं भक्षजातं वा शुचीन्य् एतानि केवलम् ॥

इत्यादिना चतुर्विधं मेध्यं निरूप्य दूषितादिचतुर्विधम् अमेध्यम् इत्थं निरूपितम् ।

शुच्य् अप्य् अशुचिसंस्पृष्टं द्रव्यं दूषितम् उच्यते ।
मानुषास्थिवसाविष्ठारेतोमूत्रार्त्तवानि च ॥
कुपूयं पूयम् इत्य् एतत् कश्मलं चाप्य् उदाहृतम् ।
स्वेदाश्रुबिन्दवः फेनं निरस्तं नखरोम च ॥
आर्द्रचर्मासृग् इत्य् एतद् दुष्टम् आहुर् द्विजातयः ।
व्यङ्गैः पतितचण्डालैर् ग्राम्यसूकरकुक्कुटैः ॥
श्वा च नित्यं विवर्ज्याः स्युः षड् एते धर्मतः समाः ।
दुर्वर्णकृमिका भूमिर् मत्तोन्मत्तरजस्वलाः ॥
मृतबन्धुर् अशुद्धश् च वर्ज्यते च स्वकालतः । इति ।

अत्र वर्णितेन चतुर्विधेनामेध्येनोपहतस्यान्नस्य शुद्धिम् अकृत्वा भोजने चान्द्रायणं चरेत् । रेतोमूत्रादिभक्षणे चान्द्रायणं बृहस्पतिर् अप्य् आह ।

[३६७] अलेह्यानाम् अपेयानाम् अभक्ष्याणां च भक्षणे ।
रेतोमूत्रपुरीषाणां शुद्धिश् चान्द्रायणं स्मृतम् ॥ इति ।

गोमांसादिभक्षणे चान्द्रायणं संवर्त आह ।

गोमांसं मानुषं चैव सूतिहस्तात् समाहृतम् ।
अभक्ष्यं तद् द्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ॥
श्वबिडालखरोष्ट्राणां कपेर् गोमायुकाकयोः ।
प्राश्य मूत्रं पुरीषं वा चरेच् चान्द्रायणव्रतम् ॥ इति । (संस्म् १९५, १९२)

मनुर् अपि ।

विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
प्राश्य मूत्रपुरीषाणि द्विजश् चान्द्रायणं चरेत् ॥ इति । (म्ध् ११।१५४)

शातातपो ऽपि- “गोमांसभक्षणे प्रायश्चित्तं पूर्वम् ऋषिभिः कृतम् । समयं नातिक्रामेत् । यद्य् अतिक्रामेत् ततश् चान्द्रायणं चरेत्” इति । वृद्धपराशरो ऽपि ।

अगम्यागमने चैव मद्यमोगांसभक्षणे ।
शुद्ध्यै चान्द्रायणं कुर्यात् नदीं गत्वा समुद्रगाम् ॥
चान्द्रायणे ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
अनडुत्सहितां गां च दद्याद् विप्रेषु दक्षिणाम् ॥

[३६८] इति । शङ्खलिखिताव् अपि- “शृगालकुक्कुटदंष्ट्रिक्रव्यादवानरखरोष्ट्रगजवाजि-विड्वराहगोमानुषमांसभक्षणे चान्द्रायणम्” इति । चाण्डालान्नभक्षणे चान्द्रायणम् अङ्गिरा आह ।

अन्त्यावसायिनाम् अन्नम् अश्नीयाद् यद्य् अकामतः ।
स तु चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥ इति । (अङ्स्म् ३।१६)

हारीतो ऽपि ।

चाण्डालान्नं प्रमादेन यदि भुञ्जीत यो द्विजः ।
ततश् चान्द्रायणं कुर्यात् मासम् एकं व्रतं चरेत् ॥ इति । (हार्स्म् २१।७)

यत् तु चतुर्विंशतिमते ऽभिहितम्,

विण्मूत्रभक्षणे विप्रश् चरेच् चान्द्रायणद्वयम् ।
श्वादीनां चैव विण्मूत्रे चरेच् चान्द्रायणत्रयम् ॥
श्वकाकोच्छिष्टगोच्छिष्टकृमिकीटादिभक्षणे ।
अमेध्यानां च सर्वेषां चरेच् चान्द्रायणत्रयम् ॥

इति, तद् एतद् अभ्यासविषयम् । मूलवचने चान्द्रायणरूपं कृच्छ्रं चरेद् इत्य् अभिप्रेत्य व्याख्यातम् । यदा तु – कृच्छ्रम् आचरेच् चान्द्रायणम् आचरेत् – इति विभज्य व्याख्यायते तदा कृच्छ्रशब्देन ऋषिकृच्छ्रतप्तकृच्छ्रप्राजाप्त्यानि तन्त्रेणाभिधीयन्ते । तत्र ऋषिकृच्छ्रम् आह अङ्गिराः ।

[३६९] अलेह्यानाम् अपेयानाम् अभक्ष्याणां च भक्षणे ।
रेतोमूत्रपुरीषाणाम् ऋषिकृच्छ्रं विशोधनम् ॥ इति । (अङ्स्म् ३।४१)

तप्तकृच्छ्रम् आह देवलः ।

रेतोमूत्रपुरीषाणां प्राशने ऽमतिपूर्वके ।
नाश्नीयात् तु त्र्यहं मत्या तप्तकृच्छ्रं चरेद् द्विजः ॥ इति ।

प्राजापत्यम् आह संवर्तः ।

विण्मूत्रभक्षणे विप्रः प्राजापत्यं समाचरेत् । इति । (संस्म् १८९)

तप्तकृच्छ्रस्य विषयविशेषस् तद्वचने एव स्पष्टः, “अमत्या त्र्यहोपवासः । तप्तकृच्छ्रं मत्या” इति तत्राभिधानात् । यत् तु प्राजापत्यकृच्छ्रं तत् भक्षितोद्गारितविषयम्, अल्पव्रतत्वात् । ऋषिकृच्छ्रं तु पूर्वोक्तचान्द्रायणद्वयेन समानविषयम् । अत्र सर्वत्र व्रतानुष्ठानानन्तरं पुनःसंस्कारः कर्तव्यः । तद् आह यमः ।

असुरामद्यपाने च कृते गोभक्षणे ऽपि वा ।
तप्तकृच्छ्रपरिक्लिष्टो मौञ्जीहोमेन शुध्यति ॥ इति ।

मनुर् अपि ।

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च ।
पुनःसंस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ (म्ध् ११।१५०)

[३७०] इति । विष्णुर् अपि- “विड्वराहग्रामकुक्कुटवानरगोमांसभक्षणे च । सर्वेष्व् एतेषु द्विजानां प्रायश्चित्तान्ते पुनःसंस्कारं कुर्यात्” इति (विध् ५१।३–४) । तत्र विशेषम् आह काश्यपः- “चीर्णान्ते प्राच्याम् उदीच्यां वा दिशि गत्वा यत्र ग्राम्यपशूनां शब्दो न श्रूयते तस्मिन् देशे ऽग्निं प्रज्वाल्य ब्रह्मासनम् आस्तीर्य प्राक्प्रणीतेन विधिना पुनःसंस्कारम् अर्हति” इति । यच् च बृहद्यमेनोक्तम्,

वराहैकशफानां च काककुक्कुटयोस् तथा ।
क्रव्यादानां च सर्वेषाम् अभक्ष्या ये च कीर्तिताः ॥
मांसमूत्रपुरीषाणि प्राश्य गोमांसम् एव च ।
श्वगोमायुकपीनां च तप्तकृच्छ्रं विशोधनम् ॥
उपोष्य द्वादशाहानि कूष्माण्डैर् जुहुयाद् घृतम् । इति ।

तत्र कामतः तप्तकृच्छ्रः । अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था । यत् तु उशनसोक्तम्,

[३७१] नरमांसं श्वमांसं च गोमांसं च तथैव च ।
भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥ (उश्स्म् ९।२५)

इति, तद् अकामविषयम् । यत् पुनः शङ्खेनोक्तम्,

भुक्त्वा चोभयतोदन्तान् तथैवैकशफान् अपि ।
औष्ट्रं गव्यं तथा भुक्त्वा षण्मासान् व्रतम् आचरेत् ॥ (शङ्द्म् १७।२८)

इति, तत् कामतो ऽत्यन्ताभ्यासविषयम् । यच् च स्मृत्यन्तरोक्तम्,

जग्ध्वा मांसं नराणां च विड्वराहं खरं तथा ।
गवाश्वकुञ्जरोष्ट्राणां सर्वान् पञ्चनखांस् तथा ॥
क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम् ।

इति, तद् अत्यन्तानविच्छिन्नाभासविषयम् । यद् अप्य् आङ्गिरसेनोक्तम्,

अभक्ष्याणाम् अपेयानाम् अलेह्यानां च भोजने ।
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥
पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः ।
एतेषाम् उदकं पीत्वा सप्तरात्रेण शुध्यति ॥ (अङ्स्म् ३।२७–२८)

[३७२] इति, तद् ईषदभ्यासविषयम् । यद् अपि मनुनोक्तम्,

भुक्त्वातोन्यतमस्यान्नम् अमत्या तु त्र्यहं क्षपेत् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ (म्ध् ४।२२२)

इति, अबुद्धिपूर्वे च्छर्दनासंभवे त्र्यहोपवासो द्रष्टव्यः । गोमांशभक्षणस्यावृत्त्यनावृत्त्योर् व्यवस्थितं व्रतम् आह प्रजापतिः ।

चान्द्रायणत्रयं कुर्याद् अभक्ष्यपशुभक्षणे ।
एकम् एव सकृद् भुक्त्वा चरेद् आह प्रजापतिः ॥ इति ।

मूलवचने चण्डालान्नम् इत्य् अनेन महापातक्यादीनाम् अप्य् उपलक्ष्यते । अत एव हारीतः ।

यद् अन्नं प्रतिलोमस्य शूद्रजस्योत्तमस्त्रियाम् ।
महापातकिनश् चैव यद् अन्नं स्त्रीकृतघ्नयोः ॥
आरूढपतितस्यैव सगोत्राभर्तुर् एव च ।
पाषण्डानाश्रितानां च यतेश् चैव तथैव च ॥
अतिकृच्छ्रं चरेद् भुक्त्वा प्रमादाद् ब्राह्मणः सकृत् ।
मत्या चान्द्रायणं कुर्याद् आमं चेद् अर्घम् एव च ॥
तद्धस्तभोजने वापि त्रिगुणं सहभोजने ।
चतुर्गुणं तद् उच्छिष्टे पानीये चार्धम् एव च ॥
[३७३] कृच्छ्राब्दपादम् उद्दिष्टम् अभ्यासाज्ञानभोजने ।
मत्याभ्यासे तथा कुर्यात् त्रिंशत् कृच्छ्रं द्विजोत्तमः ॥ इति । (हार्स्म् १९।३१–३५)

उत्तमस्त्री ब्राह्मणी तस्यां प्रातिलोम्येन शुद्राद् उत्पन्नश् चण्डालः । महापातकी ब्रह्महादिः । यद्य् अपि स्त्रीयत्योर् महापातक्यादिवद् दुष्टतवं नास्ति तथाप्य् अन्नदानाधिकाराभावात् तदीयम् अप्य् अन्नं पातक्यन्नवद् गर्हितम् एव । यस् तु परेणोपकृतः सन् स्वयं न प्रत्युपकरोति नाप्य् अनुमोदते प्रत्युतापद्गतस्यापकारित्वम् आपादयति स कृतघ्नः । उत्तमाश्रमम् आरुह्य तं परित्यज्याधमाश्रमे उन्मार्गे वा वर्तमान आरूढपतितः । यः समानगोराम् उद्वहति स सगोत्राभर्ता । वैदिककुल समुत्पन्नो वेदमार्गम् उत्सृज्य जैनबौद्धादिमार्गे वर्तमानः पाषण्डः । अनाश्रिताः सत्य् अपि सामर्थ्ये नास्तिक्येन कंचिद् अप्य् आश्रमं न प्राप्ताः । एतेषां सर्वेषाम् अन्ने समानं प्रायश्चित्तम् ॥ १ ॥

विप्रस्यामेध्यादिभोजने प्रायश्चित्तम् अभिधायेतरेषां वर्णानां तद् आह ।

[३७४] तथैव क्षत्रियो वैश्यो ऽप्य् अर्धं चान्द्रायणं चरेत् ।
शूद्रो ऽप्य् एवं यदा भुङ्क्ते प्राजापत्यं समाचरेत् ॥ २ ॥

इति।

तथैवेत्य् अतिदिष्टस्योपदिषाद् अल्पत्वेन क्षत्रियस्य पादोनं चान्द्रायणम् अवगन्तव्यम् । शूद्रो ऽप्य् एवम् इत्य् अनेनामेध्यादिभोजनसाम्यं निर्दिश्यते । न तु भोजनसाम्यम्, व्रतान्तरस्य तत्र विधानात् ॥ २ ॥

व्रतान्ते चतुर्भिर् वर्णैः कर्तव्यम् आह ।

पञ्चगव्यं पिबेत् शूद्रो ब्रह्मकूर्चं पिबेद् द्विजः ।
एकद्वित्रिचतुर्गा वा दद्याद् विप्राद्यनुक्रमात् ॥ ३ ॥

इति।

पञ्चगव्यब्रह्मकूर्चयोर् विधानम् उत्तरत्र वक्ष्यते । तत्र शूद्रस्यामन्त्रस्यामन्त्रकं पञ्चगव्यम् । इतरेषां समन्त्रकं ब्रह्मकूर्चम् । विप्रो गाम् एकां दक्षिणां दद्यात् । क्षत्रियो द्वे । वैश्यस् तिस्रः । शूद्रश् चतस्रः । गवाम् असंभवे सुवर्णं दद्याद् इत्य् अभिप्रेत्य वाशब्दः पठितः । तत्र सुवर्णस्य गोप्रत्याम्नायस्य परिमाणम् आह प्रजापतिः ।

[३७५] गवाम् अलाभे निष्कं वा निष्कार्धं पादम् एव वा । इति ॥ ३ ॥

विप्रस्य शूद्राद्यन्नभोजने प्रायश्चित्तम् आह ।

शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नम् एव च ।
शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ॥ ४ ॥
यदि भुक्तं तु विप्रेण अज्ञानाद् आपदापि वा ।
ज्ञात्वा समाचरेत् कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ॥ ५ ॥

इति।

अत्र शूद्रान्नस्य गर्हितता अङ्गिरसा प्रचञ्चिता ।

आहिताग्निस् तु यो विप्रः शूद्रान्नं प्रतिगृह्य तु ।
भोगात् तामसतां याति तिर्यग्योनिं च गच्छति ॥
यस् तु वेदम् अधीयानः शूद्रान्नम् उपभुञ्जति ।
शूद्रे वेदफलं याति शूद्रत्वं चापि गच्छति ॥
घ्रात्वा चैवोष्मणा चैव स्पृष्ट्वा च प्रतिगृह्य च ।
प्रशस्य स्वस्ति चेत्य् उक्त्वा भोक्तैव तु न संशयः ॥
[३७६] एते दोषा भवन्तीह शूद्रान्नस्य प्रतिग्रहे ।
अनुग्रहं तु वक्ष्यामि मनुना चोदितं पुरा ॥
आमं वा यदि वा पक्वं शूद्रान्नम् उपसाधयेत् ।
किल्बिषं बुञ्जते भोक्ता यश् च विप्रः पुरोहितः ॥
गुर्वर्थं ह्य् अतिथीनां तु भृत्यानां च विशेषतः ।
प्रतिगृह्य प्रदातव्यं न तु तृप्येत् स्वयं ततः ॥
शूद्रान्नरसपुष्टस्य अधीयानस्य नित्यशः ।
जपतो जुह्वतो वापि गतिर् ऊर्ध्वा न विद्यते ॥
षण्मासान् अथ यो भुङ्क्ते शूद्रस्यान्नं निरन्तरम् ।
जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते ॥
अकृत्वैव निवृत्तिं यः शूद्रान्नान् म्रियते द्विजः ।
आहिताग्निर् विशेषेण स शूद्रगतिभाग् भवेत् ॥ इति । (अङ्स्म् ३।७–१७)

व्यासो ऽपि ।

शूद्रान्नरसपुष्टस्य दित्सोर् अपि च नित्यशः ।
जपतो जुह्वतो वापि गतिर् ऊर्ध्वा न विद्यते ॥
[३७७] मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनः ।
अहम् एव न जानामि कां कां योनिं स गच्छति ॥
गृध्रो द्वादशजन्मानि दशजन्मानि सूकरः ।
श्वा चैव सप्तजन्मानि इत्य् एवं मनुर् अब्रवीत् ॥
शूद्रान्नेनोदरस्थेन यः कश्चिन् म्रियते द्विजः ।
स भवेत् सूकरो ग्राम्यस् तस्य वा जायते कुले ॥ इति । (व्य्स्म् ४।६३–६६)

आपस्तम्बो ऽपि ।

यस् तु भुञ्जीत शूद्रान्नं मासम् एकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं मृतः श्वा चाभिजायते ॥
[३७८] शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ।
शूद्राज् ज्ञानागमश् चैव ज्वलन्तम् अपि पातयेत् ॥
आहिताग्निस् तु यो विप्रः शूद्रान्नेन प्रवर्तयेत् ।
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयो ऽग्नयः ॥ इति । (आप्स्म् ८।७–९)

सुमन्तुर् अपि ।

राजान्नं तज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश् चर्मावकृन्तिनः ॥
कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ।
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥
पूयं चिकित्सिकस्यान्नं पुंश्चल्याश् चान्नम् इन्द्रियम् ।
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥
एतेभ्यो ऽन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः ।
तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥ (=म्ध् ४।२१८–२१)

[३७९] इति । तद् इदं गर्हितं शुद्रान्नम् अज्ञानाद् वापत्काले वा यो विप्रो भुङ्क्ते स ब्रह्मकूर्चम् आचरेत् । तस्य पावनत्वं बहुमन्त्रसंस्कृतत्वात् । यस् तु ज्ञात्वा शूद्रान्नं भुङ्क्ते स प्राजापत्यम् आचरेत् । तथा च मनुः ।

भुञ्जानो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ इति । (म्ध् ४।२२२)

न च – ब्रह्मकूर्चस्यैकोपवासरूपत्वात् त्र्यहक्षपणेन विरोधः – इति शङ्कनीयम्, तयोर्ः शक्ताशक्तविषयत्वात् । अत्र दिनत्रयोपवासं शङ्खलिखितो ऽप्य् आह ।

भुक्त्वा वार्धुषिकस्यान्नम् अवृत्तस्यासुतस्य च ।
शूद्रस्य तु तथा भुक्त्वा त्रिरात्रं स्याद् अभोजनम् ॥ इति । (शङ्स्म् ११।१८)

प्रजापतिश् चात्र व्यवस्थितानि व्रतान्य् आह ।

ब्राह्मणस्यैव शूद्रान्नम् अभोज्यं परिकीर्तितम् ।
सकृद् भुक्त्वा तदज्ञानाड् ब्रह्मकूर्चं सकृत् पिबेत् ॥
अभ्यासे च तद् अभ्यसेद् आमम् अन्नम् अगर्हितम् ।
मत्या त्रिरात्रं कुर्वीत कृच्छ्रम् अभ्यासतश् चरेत् ॥ इति ।

[३८२] नरबलिं संकल्प्य मनुष्यान् मारयितुम् अन्नमध्ये गूढं विषं प्रक्षिपन्तीत्य् अस्ति महती प्रसिद्धिः । तादृशेषु गृहेषु विषशङ्कासंभवात् शङ्कितम् अन्नम् इत्य् उच्यते । तत् तु न भोक्तुं योग्यम्,

विषं चोपविषं भुक्त्वा चरेच् चान्द्रायणव्रतम् ।

इति चतुर्विंशतिमते विषभोजननिन्दास्मरणात् । तथा केचित् श्रद्धालवः शूद्रादयः स्वगृहे श्रोत्रियो न भुङ्क्ते इत्य् अभिप्रेत्य श्रोत्रियान्तरगृहे द्रव्यं दत्वा भोजयन्ति । तादृशस्य श्रोत्रियान्तरस्य गृहे सिद्धम् अन्नं निन्द्यत्वेन शङ्कितम् । “प्रतिषिद्धान्नम्” गोघ्रातादि । तथा च याज्ञवल्क्यः ।

[३८३] अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥
गोघ्रातं शकुनोच्छिष्टं पदास्पृष्टं च कामतः ।
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ॥ इति । (य्ध् १।१६७–६८)

पात्रे पतितस्यान्नस्यार्धं भुक्त्वा शिष्टम् अन्नं कालान्तरे भोक्तुं यदि संगृह्यते तदा तद् अन्नं पूर्वोच्छिष्टम् इत्य् अभिधीयते । तेष्व् एतेष्व् सूतकान्नादिषु पूर्वोच्छिष्टान्तेषु पञ्चसु भुक्तेषु शूद्रान्नवद् ब्रह्मकूर्चकृच्छ्रौ वेदितव्यौ । सूतकान्ने ये वक्तव्यविशेषास् ते सर्वे ऽप्य् उपरिष्टाद् वक्ष्यन्ते । यत् त्व् अभोज्यान्ने सुमन्तुनोक्तम्- “अभिशस्तपतितपौनर्भव-पुंश्चल्यशुचिशस्त्रकारतैलिकचाक्रिकध्वजिसुवर्णकारलेखकलैङ्गिक-[३८४]-षण्डक-बन्धकगणकगणिकान्नानि चाभोज्यानि । सौनिकक्रव्यादनिषादबुरुडचर्मकारा अभोज्यान्ना अप्रतिग्राह्याश् च अशनप्रतिग्रहयोश् चान्द्रायणं चरेत्” इति, तत् कामकृताभ्यासविषयम् । यच् च शङ्खेनोक्तम्,

शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ।
चिकित्सकस्य क्रूरस्य तथा स्त्रीशूद्रजीविनः ॥
षण्ढस्य कुलटायाश् च तथा बन्धनरक्षिणः ।
अभिशस्तस्य चोरस्य अवीरायाः स्त्रियास् तथा ॥
[३८५] चर्मकारस्य वैणस्य क्लीबस्य पतितस्य च ।
कर्मारस्य तथा तक्ष्णो रजकस्य च वार्धुषेः ॥
कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च ।
गणान्नं गणिकान्नं च मृगजीविश्ववृत्तिनाम् ॥
सौनिकान्नं सूतिकान्नं भुक्त्वा मासं व्रती भवेत् ॥ (शङ्स्म् १७।३६–३८)

इति, एतच् च पूर्वेण समानविषयम्, मासव्रतस्य चान्द्रायणरूपत्वात् । यद् अपि बृहस्पतिनोक्तम् ।

शौण्डिकान्नं नटस्यान्नं क्लीबदण्डिकयोर् अपि ।
दुष्टान्नम् अपसृष्टान्नं सोमविक्रयिणस् तथा ॥
सौनिकान्नं सूतिकान्नं वार्धुषेः पतितस्य च ।
एतेषां ब्राह्मणो भुक्त्वा द्वादशाहं यवान् पिबेत् ॥ (बृस्म् १।३१–३२)

इति, यद् अपि शङ्खलिखिताभ्याम् उक्तम्- “अभिशस्तपतितरजकचाक्रिकतैलिकग्रामयाजकशूद्र-सांवत्सरिककुलटासुवर्णकारचर्मकारचित्रवृत्तिपोषकतन्तुवायरङ्गावतारिमानकूट-शौण्डिकवधजीवि-[३८६]-नृशंस्यात्मविक्रयिवार्धुषिकश्यावकनटवृत्तिव्रात्यतस्कर-गणान्नभोजनेष्व् अतिकृच्छ्रं चरेत्” इति, एतद् उभयं पूर्वोक्तविषये चान्द्रायणं कर्तुम् अशक्तं प्रति वेदितव्यम् । यद् अपि बृहस्पतिना दर्शितम्,

गान्धर्वो लोहकारश् च सौनिकस् तन्तवायकः ।
चक्रोपजीवी रजकः कितवस् तस्करस् तथा ॥
यजमानोपजीवी च शूद्राध्यापकयाजकौ ।
कुलटश् चित्रकर्मा च वार्धुषिश् चर्मविक्रयी ॥
समर्घं पण्यम् आहृत्य सम्हार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम यश् च वृद्ध्या प्रयोजयेत् ॥
वृथारामाश्रमाणां च भेदकः पुण्यविक्रयी ।
[३८७] विक्रयी ब्रह्मणो यश् च योनिसांकरिकश् च यः ॥
रङ्गोपजीवी कूटाशः कुहको गुरुगुप्तिकः ।
भिषक् च गरदश् चैव रूपाजीवी च सूचकः ॥
सौनिको वर्णिकश् चैव निषादेन समाः स्मृताः ।
कर्मणा तेषु यो मोहाद् ब्राह्मणो वर्तते सदा ॥
प्रायश्चित्ते तु चरिते व्यवहार्यो भवेत् स हि ।
एते ब्राह्मणचण्डालाः सर्वे ब्रह्महणः किल ॥
तस्माद् दैवे च पित्र्ये च वर्जितास् तत्त्वदर्शिभिः ।
एतेषाम् एव सर्वेषां प्रत्यापत्तिस् तु मृग्यताम् ॥
भैक्ष्यान्नम् उपभुञ्जाना द्विजश् चान्द्रायणं चरेत् ।
एतेषां ब्राह्मणो भुक्त्वा दत्वा कृत्वा प्रतिग्रहम् ॥
प्राजापत्येन शुध्येत् तु तस्मात् पापान् न संशयः । इति । (बृस्म् १।३०–३१?)

तत्र चान्द्रायणं पूर्वोक्तचान्द्रायणेन समानविषयम् । प्राजापत्यं तु तस्मिन्न् एव विषये वेदविदं प्रत्यवगन्तव्यम्, ब्राह्मण इति विशेषाभिधानात् । यच् चोक्तम् अङ्गिरसा,

[३८८] अभोज्यानां तु सर्वेषां भुक्त्वा चान्नम् उपस्कृतम् ।
अन्त्यावसायिनां भुक्त्वा पादकृच्छ्रेण शुध्यति ॥ इति । (अङ्स्म् ३।१९)

यद् अपि विष्णुनोक्तम्,

गणगणिकास्तेनगायनान्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत । तक्षान्नं चर्मकर्तुश् च । वार्धुषिककदर्यदीक्षितबद्धनिगडाभिशस्तषण्डानां च । पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोच्छिष्टभोजिनां च । अवीरास्त्रीस्वर्णकारसपत्नपतितानां च । पिशुनानृतवादिक्षतधर्मात्मरस-विक्रयिणां च । शौलूषतन्तुवायकृतघ्नरजकानां च । चर्मकारनिषाद-रङ्गावतारिवैणशस्त्रविक्रयिणां च । श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां च । **[३८९] **रजस्वलासहोपपतिवेश्मनां च । भ्रूणघ्नावेक्षितम् उदक्यासंस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवाघ्रातं च । कामतः पादस्पृष्टम् अवक्षतं च । मत्तक्रुद्धातुराणां च । अनर्चितं वृथामांसं च । पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने त्रिरात्रम् उपवसेत् । सर्वजलजमांसाशने च । इति । (विध् ५१।७–२२)

तत्र त्रिरात्रोपवासो ऽकामकृतसकृद्भोजनविषयः । तस्मिन्न् एव विषये मूलवचनोक्तब्रह्मकूर्चस् त्व् अशक्तं प्रति वेदितव्यः । सप्तरात्रपयोव्रतम् अकामकृताभ्यासविषयम् । शङ्कितप्रतिषिद्धान्नयोर् हारीत आह ।

मृतसूतकशूद्रान्नं सदोषेणापि संस्कृतम् ।
शङ्कितं प्रतिषिद्धान्नं विद्विषो ऽन्नम् अथापि वा ॥
यदि भुञ्जीत विप्रो यः प्रायश्चित्ती ध्रुवं भवेत् ।
एकरात्रोपवासश् च गायत्र्यष्टशतं जपेत् ॥
[३९०] प्राशयेत् पञ्चभिर् मन्त्रैः पञ्चगव्यं पृथक् पृथक् ।
एतेन शुध्यते विप्रो ह्य् अन्यैश् चाभोज्यभोजनैः ॥ इति । (हार्स्म् १३।१–३)

एतच् च ब्रह्मकूर्चवद् व्याख्येयम् । पूर्वोच्छिष्टे तु ब्रह्मकूर्चसमानं व्रतं स्मृत्यन्तरे दर्शितम् ।

स्वम् उच्छिष्टं तु यो भुङ्क्ते यो भुक्क्ते मुक्तभाजने ।
एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥ इति ॥ ५ ॥

पूर्वोच्छिष्टस्य पुनर् भोजने व्रताचरणम् अभिहितम् । तेनैव दृष्टान्तेन बालाद्युच्छिष्टस्याभोज्यत्वम् आशङ्क्य स्वपशुद्ध्या भोज्यत्वम् आह ।

बालैर् नकुलमार्जारैर् अन्नम् उच्छिष्टं यदा ।
तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्र संशयः ॥ ६ ॥

इति।

उच्छिष्टम् उच्छिष्टताम् आपादितम् । प्रोक्षितस्यान्नस्य भोजने श्रद्धाजडस्योच्छिष्टत्व-शङ्कानपायात् पुनर् व्रतम् आचरणीयम् [३९१] इति संश्यः स्यात् । अतो नात्र संशयः कर्तव्यः इत्य् उक्तम् । प्रोक्षणम् अकृत्वा भुक्ते सति पञ्चगव्यं पातव्यम् । तद् आह संवर्तः ।

श्वकाकोच्छिष्टगोच्छिष्टभक्षने तु त्र्यहं क्षपेत् ।
बिडालमूषकोच्छिष्टे पञ्चगव्यं पिबेत् द्विजः ॥ इति । (संस्म् १८९–९०)

शास्त्रीयपञ्चगव्यपाने यो ऽशक्तः तं प्रत्य् उक्तं स्मृत्यन्तरे ।

भुक्त्वोच्छिष्टं तु काकानां विशुद्ध्येत त्र्यहोषितः ।
भुक्त्वोच्छिष्टं बिडालादेः पञ्चगव्यं पिबेत् द्विजः ॥ इति ।

मनुः ।

बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नं च पिबेद् ब्राह्मीं सुवर्चलाम् ॥ (म्ध् ११।१५९)

[३९२] इति । विष्णुर् अपि ।

बिडालकाकनकुलाखूच्छिष्टभोजने ब्राह्मीं सुवर्चलां पिबेत् । श्वोच्छिष्टाशने दिनम् एकम् उपोषितः पञ्चगव्यं पिबेत् । पञ्चनखविण्मूत्राशने सप्तरात्रम् । आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत । ब्राह्मणः शुद्रोच्छिष्टभोजने त्रिरात्रम् उपवसेत् । [३९३] दिनम् एकं चोदके वसेत् । मधुमांसाशने प्राजापत्यं सप्तरात्रम् । वैश्योच्छिष्टभोजने पञ्चरात्रम् । राजन्योच्छिष्टभोजने त्रिरात्रम् । राजन्यः शूद्रोच्छिष्टाशि पञ्चरात्रम् । वैश्योच्छिष्टाशी त्रिरात्रम् । वैश्यः शूद्रोच्छिष्टाशी च । चण्डालान्नं भुक्त्वा त्रिरात्रम् उपवसेत् । सिद्धान्नं भुक्त्वा पराकम्” इति (विध् ५१।४६–५९) ।

उशना अपि ।

ब्राह्मणोच्छिष्टभोजने प्राणायामशतं कुर्यात् । क्षत्रियोच्छिष्टभोजने प्राणायामसहस्रम् । वैश्योच्छिष्टभोजने दशसहस्रं प्राणायामम् । मतिपूर्वं प्राजापत्यम् अतिकृच्छ्रं कृच्छ्रातिकृच्छ्रं च । शूद्रोच्छिष्टभोजने सप्तरात्रं यवागूपानम् । मतिपूर्वं चत् पराकः । एवं द्विजात्युच्छिष्टभोजने शूद्राणां च । ब्राह्मणोच्छिष्टानाम् अपां पाने षोडश् प्राणायामान् धारयेत् । [३९४] क्षत्रियाणां त्रिंशत् वैश्यानां चत्वारिंशत् । शूद्राणां कुशवारिपानं त्र्यहम् । बुद्धिपूर्वं चत् त्र्यहं चतुरहं पञ्चरात्रं सप्तरात्रं च पञ्चगव्यपानं क्रमेण । अन्त्यजानाम् उच्छिष्टभोजने बुद्धिपूर्वं महासान्तपनम् । अबुद्धिपूर्वे चान्द्रायण ॥ इति । (उश्स्म् ३।२०–३२)

मनुर् अपि ।

शुद्रोच्छिष्टाश् पीत्वापः कुशवारि पिबेत् त्र्यहम् ।
अभोज्यानां तु भुक्त्वान्नं स्त्रिईशूदोच्छिष्टम् एव च ॥
जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ इति । (म्ध् ११।१४८–५२)

जातूकर्ण्यो ऽपि ।

जम्बूककाकमार्जारश्वगोधानां गवाम् अपि ।
मत्योच्छिष्टं द्विजो भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥

[३९५] इति । याज्ञवल्क्यो ऽपि ।

विप्रार्धं क्षत्रियस्य स्यात् वैश्यानां च तदर्धकम् ।
तदर्धम् एव शूद्राणां प्रायश्चित्तं विदुर् बुधाः ॥ इति । (य्ध् ३।१९)

बृहद्विष्णुः- “ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत् । वैश्योच्छिष्टाशने पञ्चरात्रम् । राजन्योच्छिष्टाशने त्रिरात्रम् । ब्राह्मणोच्छिष्टाशने एकाहम्” इति (विध् ५१।५०–५३) । शङ्खलिखितौ- “ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिर् अभिमन्त्र्यापः पिबेत् । क्षत्रियोच्छिषाशने ब्राह्मीरसपक्वेन त्र्यहं क्षीरेण वर्तयेत् । वैश्योच्छिष्टभाजनं त्रिरात्रोपोषितो [३९६] ब्राह्मीं सुवर्चलां पिबेत् । शूद्रोच्छिष्टभोजने षड्रात्रम् अभोजनम्” इति । यमः ।

भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुध्यति ।
बूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण शुध्यति ॥
वैश्येन सह भुक्त्वान्नम् अतिकृच्छ्रेण शुध्यति ।
शूद्रेण सह भुक्त्वान्नं चान्द्रायणम् अथाचरेत् ॥ इति । (यस्म् ६।१–२)

आपस्तम्बः- “शूद्रोच्छिष्टभोजने तु सप्तरात्रम् अभोजनम् । स्त्रीणाम्” इति (आप्ध् १।९।२६।४–५) । शङ्खः ।

शूद्रोच्छिष्टाशने मासं पक्षम् एकं तथा विशः ।
क्षत्रियस्य तु सप्ताहं ब्राह्मणानां तथा दिनम् ॥ (शङ्स्म् १७।४२)

[३९७] इति । वृद्धयमः ।

माता वा भगिनी वापि भार्या वान्याश् च योषितः ।
न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥ इति । (यस्म् ६।९)

आपस्तम्बः ।

चण्डालपतितादीनाम् उच्छिष्टान्नस्य भक्षणे ।
चान्द्रायणं चरेद् विप्रः क्षत्रः सान्तपनं चरेत् ॥
षड्रात्रं च त्रिरात्रं च वर्णयोर् अनुपूर्वशः ।\ इति । (आप्स्म् ३।६३–६४)

वृद्धशातातपः ।

पीतशेषं तु यत् किंचिद् भाजने सुखनिःसृतम् ।
अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् ॥
पीतोच्छिष्टं तु पानीयं पीत्वा तु ब्राह्मणः क्वचित् ।
त्रिरात्रं तु व्रतं कुर्याद् वामहस्तेन वा पुनः ॥

[३९८] इति । शातातपः ।

शूद्रस्योच्छिष्टभोजी तु त्रिरात्रोपोषितः शुचिः ।
सुराभाण्डोदकं पित्वा छर्दितो घृतसेवकः ॥
अहोरात्रोपवासेन शुद्धिम् आप्नोति वै द्विजः ॥ इति । (शास्म् ५।७८)

षट्त्रिंशन्मते ।

दीपोच्छिष्टं तु यत् तैलं रात्रौ रथ्याहृतं तु यत् ।
अभ्यङ्गाच् चैव यच् छिष्टं भुक्त्वा नक्तेन शुध्यति ॥ इति ।

अत्र बालोच्छिष्टप्रसङ्गाद् उदाहृतेषु वचनेष्व् एकस्मिन् विषये श्रूयमाणानां बहूनां व्रतानाम् आवृत्तितारतम्यविषयत्वेन व्यवस्था वर्णनीया ॥ ६ ॥

भुक्तोच्छिष्टभोजने प्रायश्चित्तम् अभिधाय पङ्क्त्युच्छिष्टभोजने प्रायश्चित्तम् आह् ।

एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने ।
यद्य् एको ऽपि त्यजेत् पात्रं शेषम् अन्नं न भोजयेत् ॥ ७ ॥
मोहाद् भुञ्जीत यस् तत्र पङ्क्ताव् उच्छिष्टभाजने ।
प्रायश्चित्तं चरेद् विप्रः कृच्छ्रं सान्तपनं तथा ॥ ८ ॥

[३९९] इति । एको विप्रः सहसा स्वभोजने समाप्ते वा भोजनमध्ये येन केनचिद् विघ्नेन वा भोजनपात्रं परित्यज्य इतरेषु विप्रेषु भुञ्जानेष्व् एव सत्सु स्वयम् उत्थाय यदि गच्छेत् तदा विप्रान्तरैः स्वस्वपत्रेषु भुक्तावशिष्टम् अन्नं न भोक्तव्यम् । तद् इमं शास्त्रीयनिषेधम् अज्ञात्वा यो भुङ्क्ते स सान्तपनं चरेत् । निमित्तस्याल्पत्वाद् अत्र द्विरात्रसान्तपनं वेदितव्यम् । अस्मिन्न् एव विषये समानं व्रतं स्मृत्यन्तरे दर्शितम् ।

यस् तु भुङ्क्ते द्विजः पङ्क्ताव् उच्छिष्टायाम् कदाचन ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ इति । (अङ्स्म् ५।१)

वह्न्यादिव्यवधाने पङ्क्त्युच्छिष्टदोषो नास्ति । एतच् चाचारकाण्डे दर्शितम् ॥ ७–८ ॥

अभिनवक्षीरादिभोजने प्रायश्चित्तम् आह ।

पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने ।
पलाण्डुवृक्षनिर्यासदेवस्वकवकानि च ॥ ९ ॥
उष्ट्रीक्षीरम् अविक्षीरम् अज्ञानाद् भुञ्जते द्विजः ।
त्रिरात्रम् उपवासेन पञ्चगव्येन शुध्यति ॥ १० ॥

इति।

पीयूषम् अभ्नवं पयः । पयसो ऽभिनवत्वं प्रसवकालीनत्वम् इत्य् एके । दशाहान्तःपातित्वम् इत्य् अपरे । दशाहाद् ऊर्ध्वम् अपि [४०००] प्रसवप्रयुक्तरक्ताद्यार्द्रतासद्भावकालीनत्वम् इति केचित् । श्वेतशब्दो लशुनवृन्ताकाब्यां संबध्यते । तेन रक्तलशुनकृष्णवृन्ताकादौ नेदं प्रायश्चित्तम् इत्य् उक्तं भवति । गृञ्जनं पत्रविशेषः । यदीयं चूर्णं गायकाः कण्ठशुद्ध्यर्थं भक्षयन्ति । वेश्याश् च मदाद्यर्थम् । मूलविशेषो वा गाजरापरपर्यायः । पलाण्डुः स्थूलकन्दो लशुनविशेषः । वृक्षनिर्यासो हिङ्गुकर्पूरादिव्यतिरिक्तः, हिङ्गुवादीनां भोज्यत्वाभ्यनुज्ञानात् । देवतार्थम् उपकल्पिते क्षेत्रादाव् उत्पन्नम् अन्नं देवस्वम् । कवकं भूमौ छत्राद्याकारेणोत्पन्नं शिलीन्द्रशब्दवाच्यम् । पीयूषादिभोजी त्रिरात्रम् उपोष्य चतुर्थे दिवसे पञ्चगव्यं पिबेत् । मतिपूर्वे तु भोजने मनुर् आह ।

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ (म्ध् ५।१९)

[४०१] इति । अमतिपूर्वे स एवाह ।

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ इति । (म्ध् ५।२०)

तत्र सप्तरात्रात्मकं सान्तपनं वेदितव्यम्, “अबुद्धिपूर्वे सान्तपनं सप्तरात्रं वा” (ग्ध् २३।२५) इति गौतमेन सप्तरात्रोपवाससमविकल्पस्मरणात् । एवं च सति मूलवचनोक्तत्र्यहोपवासो भक्षितोद्गारितविषयो द्रष्टव्यः । चान्द्रायणं त्व् आवृत्तिविषयम् । “शेषेषूपवसेद् अहः” इत्य् एतत् कुसुम्भादिषु द्रष्टव्यम् । तथा च चतुर्विंशतिमते ।

पलाण्डुं श्वेतवृन्ताकं कुसुम्भं वनकुक्कुटम् ।
नालिकां बालपुष्पं च भुक्त्वा दिनम् अभोजनम् ॥ इति ।

न चैतस्य पलाण्डोर् मूलवचनविरोधः शङ्कनीयः, अवान्तरजातिभेदेन व्यवस्थापनात्, “पलाण्डोर् दश जातयः” [४०२] इत्य् अभिधानात् । यत् तु सुमन्तुनोक्तम्- “लशुनप्लाण्डुगृञ्जन-भक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान् नयेत्” इति, तद् बलात्कारेणानिच्छतो भक्षणविषयम् । तदैकसाध्यव्याध्युपशमनार्थं भक्षणविषयं वा । अत एवानन्तरं तेनैवोक्तम्- “एतान्य् एवातुरस्य भिषक्क्रियायाम् अप्रतिषिद्धानि भवन्ति । यानि चान्यान्य् एवंप्रकाराणि तेष्व् अप्य् अदोषः” इति । यानि तु व्रतान्तराण्य् अनुक्रान्तपीयूषादिविषये मुनिभिः स्मर्यन्ते तेषु सर्वेषु व्रतगौरवानुसारेण वृत्तिगौरवविषयत्वं कल्पनीयम् । व्रतान्तराणि तु लिख्यन्ते । तत्र शातातपः ।

लशुनं गृञ्जनं जग्ध्वा पाण्डुं च तथा शुनीम् ।
छत्राकं विड्वराहं च ग्राम्यं कुक्कुटम् एव च ॥
उष्ट्रीं च महिषीं भासीं रासभीक्षीरभोजनात् ।
उपनयनं पुनः कुर्यात् तप्तकृच्छ्रं चरेन् मुहुः ॥ इति । (शास्म् ५।३)

याज्ञवल्क्यः ।

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
[४०३] लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ इति । (य्ध् १।१७६)

बृहद्यमः ।

नालिकां नालिकेरीं च श्लेष्मातकफलानि च ।
भूतृणं शुग्रुकं चैव खट्वाङ्गं कवकं तथा ॥
एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद् द्विजः । इति । (यस्म् ३।४९)

विष्णुः- “शुनां मांसाशने च । छत्राककवकाशने सान्तपनम् । यवगोधूमजं पयोविकारं स्नेहाक्तं च शुष्कखाण्डवं च वर्जयित्वा पर्युषितं प्राश्योपवसेत् । व्रश्चनामेध्यप्रभवान् लोहितांश् च वृक्षनिर्यासान् । शेलुं च वृथाकृसरसंयावपायसापूप-शष्कुलीश् च देवान्नानि हवींषि च । गोऽजाविमहिषीवर्जं सर्वपयांसि च । अनिर्दशाहैतान्य् अपि च । स्यन्दिनीसन्धिनीविवत्साक्षीरं च । [४०४] अमेध्यभुजश् च । दधिवर्जं केवलं सर्वशुक्तानि । ब्रह्मचर्याश्रमी श्राद्दाशने त्रिरात्रम् उपवसेत् । दिनम् एकं चोदके वसेत्” इति (विस्म् ५१।३३–४४) । यमो ऽपि ।

लशुनं च पलाण्डुं च गृञ्जनं कवकानि च ।
चतुर्णां भक्षणं कृत्वा तप्तकृच्छ्रेण शुध्यति ॥ इति । (यस्म् ३।१९)

कूर्मपुराणे ।

अलाबुं किंशुकं चैव भुक्त्वाप्य् एतद् व्रतं चरेत् ।
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुध्यति ॥ इति । (कूपु १।२।३३।२१)

शङ्खलिखितौ- “लशुनपलाण्दु गृञ्जनक्रियातुकुसुम्भभक्षणे द्वादशरात्रं पयः पिबेत् । अलाबुशुग्रुश्लेष्मातककोविदारघनछत्राकवृताकभक्षणे पञ्चगव्यं पिबेत्” इति । चतुर्विंशतिमते ऽपि ।

लशुनं गृञ्जनं चैव तृणराजफलं तथा ।
वल्लीं चैव द्विजो भुक्त्वा चरेच् चान्द्रायणव्रतम् ॥
कन्दमूलफलादीनि अज्ञानाद् भक्षयेत् तु यः ।
उपवासो भवेत् तस्य पराशरवचो यथा ॥ इति ।

तथा ।

स्त्रीक्षीरं तु द्विजः पीत्वा कथंचित् काममोहितः ।
पुनः संस्कृत्य चात्मानं प्राजापत्यं समाचरेत् ॥ इति ।

संवर्तः ।

अजोष्ट्रीसन्धिनीक्षीरं मृगाणां वनचारिणाम् ।
अनिर्दशाहगोश् चैव पीत्वा दिनम् अभोजनम् ॥ इति । (संस्म् १०६)

॥ ९–१० ॥

पूर्वत्र गोमांसस्यैव भक्षणे प्रायश्चित्तम् उक्तम् । न त्व् अन्यस्य । इदानीं मांसान्तरस्य भक्षणे प्रायश्चित्तम् आह ।

मण्डूकं भक्षयित्वा तु मूषिकामांसम् एव च ।
ज्ञात्वा विप्रस् त्व् अहोरात्रं यावकान्नेन शुध्यति ॥ ११ ॥

अज्ञानकृत सकृद्भक्षणे व्रतम् इदम् अवगन्तव्यम् । असकृद्भक्षणे तु उशनसोक्तं द्रष्टव्यम्- “बलाकप्लवहंसकंटकचक्रवाकखञ्ज्रीटगृहकपोतभारचटक-रक्तपादोलूकशुकसारस-[४०६]-टिट्टिभमद्गुचाषभासजालपादनक्रक्रुचिकविकृतमत्स्य-क्रव्यादामेध्यानां भक्षणे पञ्चगव्यं पिबेत् त्रिरात्रम्” इति (उष्स्म् २।१७) । शङ्खलिखितौ मतिपूर्वे प्रत्याहतुः ।

बकबलाकहंसप्लवचक्रवाकखञ्जरीटकाककारण्डवकटभारकचटक-गृहकपोतशुकसारसटिट्टिभोलूकरक्तपादजालपादचाषभासमद्गुशिशुमार-नक्रमकरतिमितिमिङ्गिल नकुलबिडालसर्पमण्डूकमूषकवल्मीकादिमांस-भक्षणे द्वादशाहम् अनाहारः । पिबेद् वा गोमूत्रयावकम् । इति ।

एतच् च कामकृताभ्यासविषयम् । कामकृतसकृद्भक्षणे तु याज्ञवल्क्य आह ।

[४०७] देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस् तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥
क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥
कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान् ।
वृथाकृसरसंयावपायसापूपशष्कुलीः ॥
कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान् खङ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥
चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥ इति । (य्ध् १।१७१–७५)

विष्णुस् तु जीवविशेषेण व्यवस्थितं प्रायश्चित्तम् आह ।

खरोष्ट्रकाकश्वहंसाशने चान्द्रायणं कुर्यात् । प्राश्याज्ञातं सूनास्थं शुष्कमांसं च । क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् । कविङ्कप्लवहंसचक्राह्वसारसरज्जुदालकदात्यूहशुकसारिकाबकबलाक-कोकिल-[४०८]-खञ्जरीटाशने त्रिरात्रम् उपवसेत् । एकशफोभयदन्ताशने च । तित्तिरिक्पिञ्जललावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरात्रम् । कीटाशने दिनम् एकं ब्राह्मीं सुवर्चलां पिबेत् । शुनो मांसाशने च । इति ।
(विध् ५१।२६–३३)

शङ्खस् तु भक्ष्याभ्क्ष्यविभागपुरःसरम् अभक्ष्येषु प्रायश्चित्तम् आह ।

भुक्त्वा पलाण्डुं लशुनं मद्यं च कवकानि च ।
नारं शौनं तथा मांसं विड्वराहं खरं तथा ॥
गाम् अश्वं कुञ्जरोष्ट्रौ च सर्वान् पञ्चनखांस् तथा ।
क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम् ॥
भक्ष्याः पञ्चनखास् त्व् एते गोधाकच्छपशल्यकाः ।
खड्गं च शशकं चैव तान् भुक्त्वा नाचरेद् व्रतम् ॥
[४०९] हंसं मद्गुं च काकोलं काकं च खञ्जरीटकान् ।
मत्यादांश् च तथा मत्स्यान् बलाकाः शुकसारिकाः ॥
चक्रवाकं प्लवं कोकं मण्डूकं भुजगं तथा ।
मासम् एकं व्रतं कुर्यात् भूयश् च न चन् भक्षयेत् ॥
राजीवान् सिंहतुण्डांश् च सशल्कांश् च तथैव च ।
पाठीनरोहितौ चापि भक्ष्या मत्स्येषु श्राद्धिकाः ॥
स्थलेचरांश् च जलजान् प्रतुदान् नखविष्किरान् ।
रक्तपादांस् तथा जग्ध्वा सप्ताहं व्रतम् आचरेत् ॥
तित्तिरिं च मयूरं च लावकं च कपिञ्जलम् ।
वार्ध्रीणसं वर्तुकं च भोज्यान् आह यमः सदा ॥
भुक्त्वा चोभ्यतोदन्तांस् तथैवैकशफान् अपि ।
दंष्ट्रिणश् च तथा भुक्त्वा मांसं मासं समाचरेत् ॥
माहिषं चाजम् औरभ्रं मार्गं रौरवम् एव च ।
[४१०] भक्ष्यं मांशं समुद्दिष्टं यच् च वै पार्षतं भवेत् ॥
वाराहं च ततो भुक्त्वा महारण्यनिवासिनम् ।
मांसम् अज्ञानतो भुक्त्वा मासं प्रोक्तं समाचरेत् ॥
शुनो मांसं शुष्कमांसम् आत्मार्थे च तथा कृतम् ।
भुक्त्वा मासव्रतं कुर्यात् प्रयतः सुसमाहितः ॥ इति । (शङ्स्म् १७।१९)

अत्र श्रुत्वा व्रतविशेषा आवृत्तितारतम्यविषयत्वेन व्यवस्थापनीयाः ॥ ११ ॥

“शूद्रान्नं सूतकान्नं च” (पर्स्म् ११।४) इत्य् अत्र ब्राह्मणस्य शूद्रान्नभोजननिषेधम् अभिप्रेत्य तत्र प्रायश्चित्तम् अभिहितम् । तेनैव न्यायेन हीनवर्णत्वसाम्यात्,”“राजान्नं हरते तेजः” (यस्म् १।५६) इत्यादिशास्त्राच् च क्षत्रियाद्यन्न्भोजने ऽपि विप्रस्य प्रायश्चित्तं प्रसज्येत अतस् तदपनुत्तये क्षत्रियाद्यन्नभोजनम् अनुजानाति ।

क्षत्रियश् चापि वैश्यश् च क्रियावन्तौ शुचिव्रतौ ।
तद्गृहे तु द्विजैर् भोज्यं हव्यकव्येषु नित्यशः ॥ १२ ॥

इति।

क्रियावन्तौ विहिताध्ययन यजनादियुक्तौ । शुचिव्रतौ व्रतं स्मार्तो धर्मः । तच् च यथाविध्यनुष्ठितं शुचि भवति । [४११] तद्युक्तौ शुचिव्रतौ । श्रौतस्मार्तधर्मनिष्ठयोः क्षत्रियवैशयोर् गृहेषु हव्ये कव्ये वा शिष्टैर् विप्रैर् भोक्तव्यम् । क्रियावन्तौ शुचिव्रताव् इति विशेषणात् अतद्विधक्षत्रियादिविषयाणि तदन्ननिषेधशास्त्राणीत्य् अवगन्तव्यम् । तथा च चतुर्विंशतिमते तदन्ननिषेधम् अभिप्रेत्य प्रायश्चित्तम् अभिहितम् ।

सहस्रं तु जपेद् देव्याः क्षत्रियस्यान्नभोजने ।
तथोपवासं वैश्यस्य सहस्रं सार्धम् एव च ॥ इति ॥

॥ १२ ॥

क्षत्रियान्नवत् शूद्रान्नस्यापि घृतादिद्रव्यविशेषरूपस्याभ्यनुज्ञाम् आह ।

घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम् ।
गत्वा नदीतटे विप्रो भुञ्जीयात् शूद्रभोजनम् ॥ १३ ॥

इति।

स्नेहपाचितं पूरिकाशष्कुल्यादि । भुज्यते इति भोजनं भोज्यद्रव्यम् । शूद्रस्य संबन्धि भोजनं शूद्रभोजनम् । तादृशघृतादिकं यदा भोक्तव्यं भवति तदा क्षत्रियादिगृहेष्व् इव न शूद्रगृहे भोक्तव्यम् । किं तर्हि तद् गृहीत्वा शूद्रगृहान् निर्गत्य नदीतीरादौ भुञ्जीत । एतच् च क्षत्रियादिवर्णत्रयभोजनस्याभ्यनुज्ञानं मार्गश्रान्त्यादौ पूर्ववर्णासंभवे वेदितव्यम् । आपदि [४१२] यावता विना प्राणरक्षणं न भवति तावद् अन्नम् अनुज्ञायते । न तु ततो ऽधिकम् । अत एव छन्दोगा उद्गीथपर्वण्य् उषस्तिकाण्डे पर्माम् आपदं प्राप्तस्योषस्तेर् गजोच्छिष्टानां पुनर् गजपालोच्छिष्टानां कुल्माषाणां जीवनाय भक्षणं ततो ऽधिकस्य तदीयोच्छिष्टोदकपानस्य प्रैषेधं चामनन्ति- “हन्तानुपानम् इति उच्छिष्टं वै मे पीतं स्याद् इत्य् होवाच । नास्विद् एते ऽप्य् उच्च्छिष्टा इति न वा अजीविष्यम् इमा न खादन्न् इति होवाच । कामो म उदकपानम् इति” (छुप् १।१०।३–४) इति एतच् च । [४१३] “सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शणात्” (ब्र्सू ३।४।२८) इत्य् अस्मिन् वैय्यासिके सूत्रे सम्यङ् मीमांसितम् । स्मृतिश् च भवति ।

जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति यतस् ततः ।
लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ॥ (म्ध् १०।१०४)

[४१४] इति । याज्ञवल्क्यो ऽपि ।

आपद्गतः संप्रगृह्णन् भुञ्जानो ऽपि यतस् ततः ।
लिप्यते नैनसा विप्रो ज्वलनार्कसमो हि सः ॥ इति । (य्ध् ३।४१)

एतद् एवानेकोपाख्यानपुरःसरं मनुर् आह ।

सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः ।
पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ॥
नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनार्कसमा हि ते ॥
जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति यतस् ततः ।
आकाशम् इव पङ्केन न स पापेन लिप्यते ॥
अजीगर्तः सुतं हतुम् उपासपद् बुभुक्षितः ।
न चालिप्यत दोषेण क्षुत्प्रतीकारम् आचरन् ॥
[४१५] श्वमांसम् इच्छन्न् आर्तो ऽत्तुं धर्माधर्मविचक्षणः ।
प्राणानां रक्षणार्थाय वामदेवो न लिप्तवान् ॥
भरद्वाजः क्षुधार्त्तस् तु सपुत्रो निजने वने ।
बह्वीर् गाः प्रतिजग्राह वृधोस् तक्ष्णो महातपाः ॥
क्षुधार्त्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् ।
[४१६] चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥ इति । (म्ध् १०।१०२–१०८

स्नेहपाचितेत्य् अनेनारनालादय उपलक्ष्यन्ते । तथा च चतुर्विंशतिमते ।

आरनालं तथा क्षीरं कान्दुकं दधि सक्तवः ।
स्नेहपक्वं च तक्रं च शूद्रस्यापि न दुष्यति ॥ इति ।

अङ्गिराश् च शूद्रप्रतिग्रहं प्रक्रम्याह ।

मांसं दहि घृतं धान्यं क्षीरम् आज्यम् अथौषधम् ।
गुडो तसस् तथोदश्विद् भोज्यान्य् एतानि नित्यशः ॥
अशृतं चारनालं च कान्दुकाः सक्तवस्तिलाः ।
फलानि पिण्याकम् अथोग्राहम् औषधम् एव च ॥ इति । (अङ्स्म् ३।४०)

॥ १३ ॥

घृताद्यन्नभोजने हेयोपादेयौ शूद्रौ विविनक्ति ।

मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम् ।
तं शूद्रं वर्जयेद् विप्रः श्वपाकम् इव दूरतः ॥ १४ ॥
द्विजशुश्रूषणरतान् मद्यमांसविवर्जितान् ।
स्वकर्मणि रतान् नित्यं न तान् शूद्रान् त्यजेत् द्विजः ॥ १५ ॥

[४१७] इति ।जातिशूद्राः नीचाः प्रतिलोमजाः सूतमागधादयः । तेषां कर्म अश्वसारथ्यादि । तस्य प्रवर्तकाः तेन जीविताः । तादृशात् शूद्रात् श्वपाकादिवत् घृतादिकं न स्वीकार्यम् । ये तु मार्गवर्तिनः शूद्रा विहिते पाकयज्ञादिकर्मणि निरताः तान् शूद्रान् घृतादिभोजने न परित्यजेत् ॥ १४–१५ ॥

“शूद्रान्नं सूतकान्नं च” (पार्स्म् ९।३१) इत्य् अत्र सूतकान्नस्य सामान्येन प्रायश्चित्तम् अभिहितम् । इदानीं सूतकिजातिविशेषान् अनूद्य तत्र व्रतविशेषाण् प्रश्नपूर्वकम् आह ।_

अज्ञानाद् भुञ्जते विप्राः सूतके मृतके ऽपि वा ।
प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ॥ १६ ॥
गायत्र्यष्टसहस्रेण शुद्धिः स्यात् शूद्रसूतके ।
वैश्ये पञ्चसहस्रेण त्रिसहस्रेण क्षत्रिये ॥ १७
ब्राह्मणस्य यदा भुङ्क्ते द्वे सहस्रे तु दापयेत् ।
अथ वा वामदैव्येन साम्नैवैकेन शुध्यति ॥ १८ ॥

इति।

सूतकिनः शूद्रस्यान्नं विप्रो भुक्त्वाष्टौ सहस्राणि गायत्रीं जपेत् । सूतकिनो विशो ऽन्नं भुक्त्वा पञसहस्रगायत्रीजपेन [४१८] शुद्धिः । क्षत्रिये सूतकिनि सति तदन्नं भुक्त्वा त्रिसहस्रगायत्रीजपं कुर्यात् । सूतकिनो ब्राह्मणस्यान्नं यो भुङ्क्ते तं प्रति द्विसहस्रगायत्रीजपं विदध्यात् । “कयानश् चित्र आभुवत्” (ऋग्वेदः ३।६।२४।१) इत्य् अस्याम् ऋच्य् उत्पन्नः सामगानां प्रसिद्धो गानविशेषो वामदेव्यं साम । तस्यैकस्य साम्नः सकृज्जपो द्विसहस्रगायत्रीजपेन विकल्प्यते । एते च जपरूपा व्रतविशेषा अशक्तविषये वेदितव्याः । शक्तं प्रति तु छागलेय आह ।

अज्ञानाद् भुञ्जते विप्राः सूतके मृतके तथा ।
प्राणायामशतं कृत्वा शुध्यन्ते शूद्रसूतके ॥
वैश्ये षष्टिर् भवेद् राज्ञि विंशतिर् ब्राह्मणे दश ।
एकाहं च त्र्यहं पञ्च सप्तरात्रम् अभोजनम् ॥
ततः शुद्धिर् भवेत् तेषां पञ्चगव्यं पिबेत् ततः । इति ।

ब्राह्मणादिक्रमेणैकाहत्र्यहादयो योज्याः । यत् तु मार्कण्डेयेनोक्तम्,

भुक्त्वान्नं ब्राह्मणाशौचे चरेत् सान्तपनं द्विजः ॥
वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् ।
शूद्राशौचे तथा भुक्त्वा द्विजश् चान्द्रायणं चरेत् ॥ (मार्पु १।१४–१५)

[४१९] इति, एतत् तु कामकारविषयम् । यच् च शङ्खेनोक्तम्,

शूद्रस्य सूतके भुक्त्वा षण्मासान् व्रतम् आचरेत् ।
वैश्यस्य च तथा भुक्त्वा त्रीन् मासान् वै व्रतं चरेत् ॥
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतम् आचरेत् ।
ब्राह्मणस्य तथाशौचे भुक्त्वा मासं व्रतं चरेत् ॥ (शङ्स्म् १।३९–४१)

इति, तद् अभ्यासविषयम् । यद् अपि गर्गेणोक्तम्,

शावे च सूतके चैव मत्या भुक्त्वैन्दवं चरेत् ।
मत्याभ्यासे तथा कुर्यात् कृच्छ्रं चान्द्रायणोत्तरम् ॥
त्र्यहं वा कामतः कुर्याद् अभ्यासे कृच्छ्रम् एव च ।
द्विगुणं त्रिगुणं चैव चतुर्गुणम् अथापि च ।
क्षत्रविट्शुद्रजातीनाम् आशौचं परिकीर्तितम् ॥
सवर्णानां तु सर्वेषां विप्रवन् निष्कृतिः स्मृता ।
क्रमाद् वृद्धं क्रमाद् धीनं हीनजात्युत्तमेष्व् अपि ॥ (गर्स्म् ३।३६)

[४२०] इति, तद् एतद् गुणहीनसूतकिविषयतया योजनीयम् । गुणवत्सूतकिविषये तु मूलवचनोक्तं द्रष्टव्यम् । सर्वत्राशौचोत्तरकालम् एव प्रायश्चित्तं द्रष्टव्यम्, “ब्राह्मणादीनाम् आशौचे यः सकृद् एवान्नम् अश्नाति तस्य तावद् एवाशौचं यावत् तेषाम् । आशौचापगमे च प्रायश्चित्तं कुर्यात्” (विध् २२।८–९) इति विष्णुस्मरणात् । यच् च विष्णुनैव व्रतम् उक्तम्,

सवर्णस्याशौचे द्विजो भुक्त्वा स्रवन्तीम् आसाद्य तस्यां निमग्नस् त्रिर् अघमर्षणं सावित्र्यष्टसहस्रं जपेत् । क्षत्रियाशौचे ब्राह्मण एतद् एवोपोषितः कृत्वा शुध्यति । वैश्याशौचे ब्राह्मणस् त्रिरात्रोपोषितश् च । ब्राह्मणाशौचे ब्राह्मणस् त्रिरात्रोपोषितश् च । ब्राह्मणाशौचे राजन्यः क्ष्त्रियाशौचे वैश्यश् च स्रवन्तीम् आसाद्य गायत्रीशतपञ्चकं जपेत् । वैश्यश् च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् । शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यव्रतं चरेत् । शूद्रश् च द्विजाशौचे स्नानमात्रं समाचरेत् । [४२१] शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिबेत्” (विध् २२।१०–१६)

इति, एतन् मूलवचनेन समानविषयतया योजनीयम् । यद् अपि वसिष्ठेन ।

आशौचे यस् तु शूद्रस्य सूतके वापि भुक्तवान् ।
स गच्छेन् नरकं घोरं तिर्यग्योन्यां च जायते ॥
अनिर्दशाहे पारशावे शूद्रान्नं भुक्तवान् द्विजः ।
कृमिर् भुक्त्वा स देहान्ते तद्विष्ठाम् उपजीवति ॥
द्वादश मासान् द्वादशार्धमासान् वा अनश्नन् संहिताध्ययनम् अधीयानः पूतो भवतीति विज्ञायते । (वध् ४।३१–३३)

इति, तद् एतद् अत्यन्ताभ्यासविषयम् ।

ननु – उक्तरीत्या जातिविशेषेण [४२२] व्रतविशेषाणां व्यवस्थितौ सत्यां ब्राह्मणादिजातिविशेषरहितस्य सामान्यसूतकिनः कस्यचिद् अभावात्, “शूद्रान्नं सूतकान्नं च” (पर्स्म् ११।४) इत्युक्तस्य विषयः को ऽपि न लभ्येत । तत्र हि प्राजापत्यं ब्रह्मकूर्चं चेति व्रतद्वयम् अभिहितम् ।

नायं दोषः, सामान्यतः प्रोक्तस्य प्राजापत्यस्य विष्णुप्रोक्ते विशेषे पर्यवसानात् । विष्णुना हि, “शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यं चरेत्” (विध् २२।१६) इति प्रोक्तम् । ब्रह्मकूर्चं तु गर्गप्रोक्तत्र्यहव्रतसमानविषयतया योजनीयम् । दशाहविषये अङ्गिरा आह ।

अन्तर्दशाहे भुक्त्वान्नं सूतके मृतके ऽपि वा ।
त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥ इति । (अङ्स्म् १।१९)

मूलवचनोक्तसूतकान्नभोजनप्रसङ्गेन श्राद्धभोजने प्रायश्चित्तानि लिख्यन्ते । तत्र विष्णुः ।

[४२३] प्राजापत्यं नवश्राद्धे पादोनं त्व् आद्यमासिके ।
त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥ (विध् ५१।५०)

इति, इदं चापद्विषयम् । अनापति तु,

चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके ।
एकाहं तु पुराणेषु प्रायश्चित्तं विधीयते ॥ (हार्स्म् ५।३९)

इति हारीतोक्तं द्रष्टव्यम् । “प्राजापत्यं तु मिश्रके” इति एतद् आद्यमासिकविषयम् । ऊनमासिकादिषु पादोनप्राजापत्यादीनि कर्तव्यानि । तद् उक्तं चतुर्विंशतिमते ।

प्राजापत्यं नवश्राद्धे पादोनं मासिके तथा ।
त्रैपक्षिके तदर्धं स्यात् पादौ द्वौ मासिके ततः ॥
पादोनं कृच्छम् उद्दिष्टं षाण्मासे चाब्दिके तथा ।
त्रिरात्रं चान्यमासेषु प्रत्यब्दं वेद् अहः स्मृतम् ॥ इति ।

क्षत्रियादिश्राद्धभोजने त्व् अनापदि तत्रैव विशेष उक्तः ।

चान्द्रायणं नवश्राद्धे पादोनं मासिके स्मृतम् ।
त्रैपक्षिके सान्तपनं कृच्छ्रं मासद्वये स्मृतम् ॥
[४२४] क्षत्रियस्य नवश्राद्धे व्रतम् एतद् उदाहृतम् ।
वैश्यस्य त्व् अधिकं प्रोक्तं क्षत्रियात् तु मनीषिभिः ॥
शूद्रस्य तु नवश्राद्धे चरेच् चान्द्रायणद्वयम् ।
सार्धं चान्द्रायणं मासे त्रिपक्षे त्व् ऐन्दवं स्मृतम् ॥
मासद्वये पराकः स्याद् ऊर्ध्वं सान्तपनं स्मृतम् ॥ इति ।

यत् तु शङ्खवचनम्,

चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः ।
पक्षत्रये ऽतिकृच्छ्रं स्यात् षाण्मासे कृच्छ्र एव तु ॥
आब्दिके कृच्छ्रपादः स्याद् एकाहः पुनर् आब्दिके ।
अत ऊर्ध्वं न दोषः स्याच् छङ्कस्य वचनं यथा ॥

इति, तत् सर्पादिहतिविषयम्, “ये स्तेनपतितक्लीबाः” (म्ध् ३।१५०) इत्य् अपाङ्क्तेयविषयं वा ।

चण्डालाद् उदकात् सर्पाद् ब्राह्मणाड् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च नखिभ्यश् च मरणं पापकर्मणाम् ॥
पतनानाशकैश् चैव विषोद्बन्धनकैस् तथा ।
भुक्त्वैषां षोडशश्राद्धे कुर्याद् इन्दुव्रतं द्विजः ॥

इति ।

[४२५] अपाङ्क्तेयान् यद् उद्दिश्य श्राद्धम् एकादशे ऽहनि ।
ब्राह्मणस् तत्र भुक्त्वान्नं शिशुचान्द्रायणं चरेत् ॥
आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुध्यति ।
संकल्पिते तथा भुक्त्वा त्रिरात्रक्षपणं भवेत् ॥

इति भरद्वाजेन प्रायश्चित्तविशेषाभिधानात् । ब्रह्मचारिणस् तु बृहद्यमो विशेषम् आह ।

मासिकादिषु यो ऽश्नीयाद् असमाप्तव्रतो द्विजः ।
त्रिरात्रम् उपवासो ऽस्य प्रायश्चित्तं विधीयते ॥
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति । इति । (यस्म् २।१९)

इदम् अज्ञानविषयम् । ज्ञानपूर्वके तु स एवाह ।

मधु मांसं च यो ऽश्नीयात् श्राद्धे सूतके एव च ।
प्राजापत्यं चरेत् कृच्छ्रं व्रतशेषं समापयेत् ॥ इति । (यस्म् २।१६)

आमश्राद्धे तु सर्वत्रार्धम्,

आमश्राद्धे भवेद् अर्धं प्राजापत्यं तु सर्वदा ।

इति षट्त्रिंशण्मते ऽभिधानात् । यत् तु ऊशनसोक्तम्,

दशकृत्वः पिबेद् आपो गायत्र्या श्राद्धभुग् द्विजः ।
ततः संध्याम् उपासीत शुध्येच् च तदनन्तरम् ॥ (उश्स्म् ३।७)

इति, तद् अनुक्तप्रायश्चित्तश्राद्धविषयम् । संस्काराङ्गश्राद्ध्भोजने [४२६] व्यासेन विशेष उक्तः ।

चूडाहोमे निवृत्ते तु प्राङ्नामकरणात् तथा ।
चरेत् सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥
अतो ऽन्येषु च भुक्त्वान्नं संस्कारेषु द्विजोत्तमः ।
नियोगाद् उपवासेन शुध्यते निन्द्यभोजनात् ॥ इति । (व्यास्म् २।२३–२४)

सीमन्तोन्नयनादिषु तु धौम्यो विशेषम् आह ।

ब्रह्मोदने च सोमे च सीमन्तोन्नयने तथा।
जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥ इति ।

तत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतम्, सोमसाहचर्यात् । यत् तु भरद्वाजेनोक्तम्,

भुक्तं चेत् पार्वणश्राद्धे प्राणायामान् षड् आचरेत् ।
उपवासस् त्रिमासादिवत्सरान्तं प्रकीर्तितः ॥
प्राणायामत्रयं वृद्धाव् अहोरात्रं सपिण्डने ।
असरूपे स्मृतं नक्तं व्रतं पार्वणके तथा ॥
द्विगुणं क्षत्रियस्यैव त्रिगुणं वैश्यभोजने ।
साक्षाच् चतुर्गुणं चैव स्मृतं शूद्रस्य भोजनम् ॥

इति, एतद् अप्य् आपद्विषयम्, अनापद्य् अधिकप्रायश्चित्तस्योक्तत्वात् ॥ १६–१८ ॥

[४२७]

“घृतं तैलं तथा क्षीरम्” (पर्स्म् ११।१३) इत्य् अत्र शूद्रसंबन्धिनां घृतादीनां भोजनम् अभ्यनुज्ञातम् । इदानीं शूद्रतण्डुलादीन् अभ्यनुजानात् ।

शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् ।
पक्वं विप्रगृहे भुक्तं भोज्यं तन् मनुर् अब्रवीत् ॥ १९ ॥

इति।

शुष्कान्नं व्रीहितण्डुलादि । गोरसः क्षीरादिः । स्नेहस् तैलादिः । तत् सर्वं शूद्रगृहाद् आनीय ब्राह्मणगृहे यदि पक्वं भवति तदा तद् अन्नं भोज्यम् । यस् त्व् आमपक्वयोः साधारणो निषेधः पूर्वम् उदाहृतः सो ऽसच्छूद्रविषयः । अत एव “मद्यमांसरतम्” (पर्स्म् ११।१४) इत्य् उक्तम् ॥ १९ ॥

पूर्वम् “अज्ञानाद् आपदो ऽपि वा” इत्य् अत्रापन्नस्य विप्रस्य शूद्रान्नभोजने ब्रह्मकूर्चव्रतम् अभिहितम् । तद् अविद्वद्विषयम् । इदानीं विद्वाम्सं प्रत्य् आह ।

आपत्कालेषु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत द्रुपदां वा जपेच् छतम् ॥ २० ॥

इति।

द्विविधा हि विद्या । वेदपाठमात्रावसायिनी [४२८] तदर्थज्ञानानुष्ठानपर्यन्ता च । तयोर् मध्ये ऽनुष्ठाता आहिताग्निर् मनस्तापेन शुध्यति । केवलवेदपाठकस् तु “द्रुपदादिवेन् मुमुचानः” (तैत्ब्र् २।६।६।४) इत्य् एताम् ऋचं गायत्रीछन्दसं श्तकृत्वो जपेत् । मनस्तापस्य शुद्धिहेतुत्वं याज्ञवल्क्यो ऽप्य् आह ।

पश्चात्तापो निराहारः सर्वे ऽमी शुद्धिहेतवः ॥ इति । (य्ध् ३।३१)

मनुर् अपि ।

ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन् मुच्यते पापात् तथा दानेन चापदि ॥ इति । (म्ध् ११।२२७)

बौधायनो ऽपि ।

परित्यागस् तपो दानम् अनुतापो ऽनुकीर्तितम् ।
विद्याभ्यासो ह्य् उपस्पर्शः सप्ताङ्गं पापनाशनम् ॥ इति ।

द्रुपदायाः पापविनाशकत्वं याज्ञवल्क्येनोक्तम् ।

द्रुपदा नाम गायत्री यजुर्वेदे प्रतिष्ठिता ।
सर्वपापहरा जप्तुर् महतो ऽप्य् एनसः स्मृतम् ॥ इति । (बृयोयाज् ७।८१)

॥ २०॥

[४२९]

“द्विजशुश्रूषणरतान्” (पर्स्म् ११।१५) इत्य् अत्र भोज्यान्नाः शूद्राः सामान्येन निर्दिष्टाः । तान् एतान् इदानीं विशेषतो निर्दिशति ।

दासनापितगोपालकुलमित्रार्धसीरिणः ।
एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥ २१ ॥

इति।

दासादय आत्मनिवेदकान्ताः षट् शूद्रा भोज्यान्नाः ॥ २१ ॥

दासादीनां लक्षणम् आह ।

शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
संस्कारात् तु भवेद् दासः असंस्कारात् तु नापितः ॥ २२ ॥
क्षत्रियात् शूद्रकन्यायां समुत्पन्नस् तु यः सुतः ।
स गोपाल इति ज्ञेयो भोज्यो विप्रैर् न संशयः ॥ २३ ॥
वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
स ह्य् आर्धिकअ इति ज्ञेयो भोज्यो विप्रैर् न संशयः ॥ २४ ॥

इति।

ब्राह्मणः शूद्रकन्याम् ऊढ्वा तस्यां यं पुत्रम् उत्पदयति [४३०] स यदि अमन्त्रकैर् निषेकादिभिः संस्कारैः संस्कृतो भवति तदा दास इत्य् उच्यते संस्काराभावे तु यं पुत्रम् उत्पादयति स नामतो गोपालेत्य् अत्र विवक्षितः, न त्व् अर्थतः, गोरक्षणरूपस्यार्थस्य कृष्यादिवद् वैश्यकर्मत्वात् ।

यद्य् अपि क्रमप्राप्तस्य कुलमित्रस्यात्र लक्षणं नोक्तं तथापि शब्दसामर्थ्यात् प्रक्रमबलाद् वा तल्लक्षणम् उन्नेयम् । शब्दसामर्थ्यतस् तावत् कुलस्य मित्रं कुलमित्रम् इति व्युत्पत्त्या पितृपितामहादिक्रमाद् आयात् आप्तः शूद्रः कुलमित्र इत्य् अभिधीयते । प्रक्रमानुसारेण त्व् एवम् उपसंख्यातव्यम् । वैश्यः शूद्रकन्याम् ऊढ्वा तस्यां यं पुत्रम् उत्पदयति स कुलमित्र इति ।

ब्राह्मणः वैश्यकन्याम् ऊढ्वा तस्यां यं पुत्रम् उत्पादयति, संस्कृतः स नाम्ना आर्धिक इति वा अर्धसीरीति वाभिधीयते । यस् तु वाङ्मनःकायकर्मभिस् तवाहम् इत्य् आत्मानं निवेदयति स आत्मनिवेदकः । यद् वा आर्धिकसाह्चर्यात् क्षत्रियायां ब्राह्मणेनोत्पादितः क्रमतः संकृत आत्मनिवेदको ऽस्तु । अस्मिन् पक्षे यद्य् अप्य् अशूद्रावार्धिकात्मनिवदकौ तथापि नीचजातित्वसामान्येनाभोज्यान्नत्वशङ्कायां तदपनोदनायेदम् अभिधीयते – इत्य् अदोषः । [४३१] दासादीनां भोज्यान्नत्वं याज्ञवल्क्यो ऽप्य् आह ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥ इति । (य्ध् १।१६६)

चतुर्विंशतिमते ऽपि ।

आर्धिकः कुलमित्रश् च गोपालो दासनापितौ ।
एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥ इति ।

दासादिवत् कुम्भकारो ऽपि भोज्यान्न एव । तद् आह देवलः ।

स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।
ब्राह्मणैर् अपि भोक्तव्याः पञ्चैते शूद्रयोनयः ॥ इति ।

स्मृत्यन्तरे ऽपि- “गोपालनापितकुम्भकारकुलमित्रार्धसीरिनिवेदितात्मानो भोज्यान्नाः” इति ।

॥ २२–२४ ॥

[४३२]

पूर्वत्राभोज्यान्नानां नटादीनाम् अन्ने भुक्ते प्रायश्चित्तम् अभिहितम् । इदानीं तेषाम् एव जलादौ पीते प्रायश्चित्तं प्रश्नपूर्वकम् आह ।

भाण्डस्थितम् अभोज्येषु जलं दधि घृतं पयः ।
अकामतस् तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ॥ २५ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति ।
ब्रह्मकूर्चोपवासेन याज्यवर्ञस्य निष्कृतिः ॥ २६ ॥
शूद्राणां नोपवासः स्यात् शूद्रो दानेन शुध्यति ।
ब्रह्मकूर्चम् अहोरात्रं श्वपाकम् अपि शोधयेत् ॥ २७ ॥

इति।

अभोज्येष्व् अभोज्यान्नानां नटादीनां गृहेषु यद् भाण्डं तत्र स्थितं जलादिकं पात्रान्तरव्यवधानम् अकृत्वा भुक्तं चेत् तदा ब्रह्मकूर्चं पातव्यम् । यथा सूतकान्ने ब्राह्मणादिवर्णभेदेन व्रतभेदा अभिहिताः न तथा जलादिपाने । किं तु चतुर्णाम् अपि वर्णानां ब्रह्मकूर्चं समानम् इत्य् अभिप्रेत्य ब्राह्मणाद्युपन्यासः । अहोरात्रम् उपोष्य दिनान्तरे ब्रह्मकूर्चं पातव्यम् । ब्रह्मकूर्चहेतुर् उपवासो ब्रह्मकूर्चोपवासः । तेन यजनयोग्यस्य त्रैवर्णिकस्य निष्कृतिर् भवति । शूद्रस्य तूपवासप्रत्याम्नायो दानम् । अतः शूद्रो दानं [४३३] कृत्वा पश्चाद् ब्रह्मकूर्चं पिबेत् । तद् इदम् अहोरात्रोपवासपूर्वकब्रह्मकूर्चं श्वपाकसदृशम् अत्यन्तपापकारिणम् अपि शोधयति । तत्र किम् उ वक्तव्यम् अल्पपापेन निषिद्धजलादिपानेनोपेतं शोधयतीति ॥ २५–२७ ॥

ब्रह्मकूर्चस्य द्रव्याण्य् आह ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं तु पवित्रं पापशोधनम् ॥ २८ ॥

इति।

गोमूत्रादिकं पञ्चगव्यं यच् च कुशोदके तद् उभयं स्वतः पवित्रम् अतः पापशोधनम् इति धर्मशास्त्रेषु निर्दिष्टम् ॥ २८ ॥

ब्रह्मकूर्चाङ्गभूतानां गोमूत्रादीनां पञ्चानां कारणभूतायाः पञ्च गावः तासां वर्णविशेषान् आह ।

गोमूत्रं कृष्णवर्णायाः श्वेतायाश् चैव गोमयम् ।
पयश् च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥ २९ ॥
कपिलाया घृतं ग्राह्यं सर्वं कापिलम् एव वा । इति ।

विचित्रवर्णानां पञ्चानां गवाम् असंभवे गोमूत्रादिपञ्चकं सर्वम् अपि कापिलम् एव ग्राह्यम् ॥ २९ ॥

गोमूत्रादीनां कुशोदकान्तानां षण्णां द्रव्याणां प्रत्येकं परिमाणविशेषम् आह ।

[४३४] मूत्रम् एकपलं दयाद् अङ्गुष्ठार्धं तु गोमयम् ॥ ३० ॥
क्षीरं सप्तपलं दद्याद् दधि त्रिपलम् उच्यते ।
घृतम् एकपलं दद्यात् पलम् एकं कुशोदकम् ॥ ३१ ॥

इति।

पर्वद्वयोपेतम् अङ्गुष्ठम् । तत्रोपरितनेन पर्वणा समानपरिमाणं गोमयं ग्राह्यम् । दद्यात् एकस्मिन् पलाशादिपात्रे यथोक्तपरिमाणानि षड् द्रव्याणि निक्षिपेत् । तत्र पात्रं प्रजापतिर् आह ।

पालाशं पद्मपात्रं वा ताम्रं वाथ हिरण्मयम् ।
गृहीत्वासादयित्वा च ततः कर्म समाचरेत् ॥ इति ।

वृद्धपराशरस् तु गोमूत्रादीनां परिमाणान्तरम् आह ।

गोमूत्रं माषकान्य् अष्टौ गोमयस्य तु षोडश ।
क्षीरस्य द्वादश प्रोक्ता दध्नस् तु दश कीर्तिताः ॥
गोमूत्रवद् घृते ज्ञेयं तदर्धं तु कुशोदकम् ।

[४३५] इति । एतद् अशक्तबालादिविषयं द्रष्टव्यम् । प्रजापतिस् तु प्रकारान्तरम् आह ।

गोमयात् द्विगुणं मूत्रं सर्पिर् दद्याच् चतुर्गुणम् ।
क्षीरम् अष्टगुणं देयं दधि पञ्चगुणं तथा ॥ इति ।

अत्र गोमयस्य परिमाणविशेषानभिधानात् वचनान्तरानुसारेणाङ्गुष्टार्धपरिमितं गोमयं स्वीकृत्य यथोक्तात्तराभिवृद्ध्या गोमूत्रादीनि योजयेत् । एतत् च मूलवचनोक्तपरिमाणेन सह विकल्प्यते, वैषम्यस्याल्पत्वात् ॥ ३०–३१ ॥

गोमूत्रादीनां षण्णां प्रत्येकं मन्त्रान् आह ।

गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णस् तथा दधि ॥ ३२ ॥
तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्य त्वा कुशोदकम् ।
पञ्चगव्यम् ऋचा पूतं स्थापयेद् अग्निसंनिधौ ॥ ३३ ॥

इति।

ऋचेतिपदं गायत्र्यादिभिः प्रत्येकम् अभिसंबध्यते । “तेजो ऽसि” “देवस्य त्वा” इत्य् अनयोर् मन्त्रत्वसाम्यात् ऋक्त्वम् उपचरितम् । तैर् एतैर् मन्त्रैर् गृहीतं पञ्चगव्यं होमार्थम् अग्निसंनिधौ स्थापयेत् ॥ ३२–३३ ॥

[४३६]

स्थापयित्वा चालोडनाभिमन्त्रणे कर्तव्ये इत्य् आह ।

आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत् ।

आपोहिष्ठा इत्यादिकं त्र्यृचं विज्ञेयम् । प्रायशस् तथा विनियोगात् । मानस्तोके इत्य् एकैव ऋक् ।

अत्रावदानहोमसाधनानां स्रुवादीनाम् अभावात् केनावदाय होतव्यम्, इत्य् आकाङ्क्षायाम् आह ।

सप्तवरास् तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः ॥ ३४ ॥
एतैर् उद्धृत्य होतव्यं पञ्चगव्यं यथाविधि । इति ।

सप्तसंख्या अवरा अधमा येषां दर्भाणां ते सप्तावराः । सप्ताष्टाद्यधिकसंख्या गृहीतव्या । न तु षट्पञ्चादिन्यूनसंख्येत्य् अर्थः । अच्छिन्नम् अग्रं येषां ते अच्छिन्नाग्राः । शुकवत् त्विट् दीप्तिर् येषां ते शुकत्विषः । हरिद्वर्णा इति यावत् । आर्द्राणां छायाशुष्काणां वा भवति हरितत्वम् । तैर् दर्भैर् अवदाय पलाशपत्रेण होतव्यम् । तथा च प्रजापतिः ।

[४३७] स्थापयित्वा तु दर्भेषु पालाशैः पत्रकैर् अथ ।
तत् समुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम् ॥ इति ।

दर्भेष्व् इत्य् अभिधानात् पात्रस्याधस्ताद् अपि दर्भान् आस्तृणुयात् ॥ ३४ ॥

अथ होममन्त्रान् आह ।

इरावती इदं विष्णुर् मानस्तोकेति शंवती ॥ ३५ ॥
एताभिश् चैव होतव्यं हुतशेषं पिबेत् द्विजः ॥

इति।

इरेत्यादीनि त्रीणि ऋक्प्रतीकानि । शम् इत्य् एष शब्दो यस्याम् ऋचि अस्ति सा संवती । “शम् अग्निर् अग्निभिः करच्छन्नः” (ऋग्वेदः ६।१।२६।४) इति वा, “शं नो देवीर् अब्भिष्टये” (ऋग्वेदः ७।६।५।४) इति वा सा द्रष्टव्या । एतच् चाग्नये स्वाहेत्यादीनाम् अपि मन्त्राणाम् उपलक्षणम् । अत एव प्रजापतिः ।

अग्नये चैव सोमाय सावित्र्यै च तथैव च ।
[४३८] प्रणवेन तथा हुत्वा स्विष्टकृच् च तथैव च ।
एवं हुत्वा च तच्छेषं पिबेच् चैव समाहितः ॥ इति ॥ ३५ ॥

अथ पानस्येतिकर्तव्यताम् आह ।

आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥ ३६ ॥
उद्धृत्य प्रणवेनैव पिबेच् च प्रणवेण तु । इति ।

आलोडनं हस्तेन । निर्मन्थनं काष्ठेनेति तयोर् भेदः ॥ ३६ ॥

ननु – गोवधादिषु यः प्रत्यवायः स केवलादृष्टरूपत्वात् तस्य प्रायश्चित्तजन्येन सुकृतापूर्वेण निवृत्तिर् युज्यते । अभक्ष्यभक्षणजन्यस् तु प्रत्यवायो न केवलम् अदृष्टरूपः । किं तु दृष्टरूपो ऽपि, तस्याहारस्य त्व् अगस्थ्यादिरूपेण परिणतत्वात् । अतो न तस्य व्रतेन निवृत्तिर् युज्यत – इत्य् अत आह ।

यत् त्व् अगस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥ ३७ ॥
ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्ताग्निर् इवेन्धनम् ॥

इति।

अभक्ष्याणि यथा त्व् अगस्थ्यादिरूपेण परिणतानि गोमूत्रादीन्य् अपि तेन रूपेण परिणमन्ति । परिणम्य चाग्निः काष्ठानीव स्वविरोध्यभक्ष्यपरिणामान् अदृष्टमुखेनापि [४३९] विनाशयन्ति । न तु केवलं दृष्टेनैव मुखेन । तस्माद् ब्रह्मकूर्चेनाभक्ष्यभक्षणनिवृत्तिर् उपपद्यते । ब्रह्मकूर्चस्य कालविशेषं प्रजापतिर् आह ।

चतुर्दश्याम् उपोष्याथ पौर्णमास्यां समाचरेत् । इति ।

जाबालिर् अपि ।

अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः ।
पञ्चगव्यं पिबेत् प्रातर् ब्रह्मकूर्चम् इति स्मृतम् ॥ इति ।

देशविशेषं शातातप आह ।

नदीतीरेषु गोष्ठेषु पुणेष्व् आयतनेषु च ।
तत्र गत्वा शुचौ देशे ब्रह्मकूर्चं समाचरेत् ॥ इति ॥ ३७ ॥

ब्रह्मकूर्चस्य सर्वपापदाहकत्वम् उपपादयति ।

पवित्रं त्रिषु लोकेषु देवताभिर् अधिष्ठितम् ॥ ३८ ॥
वरुणश् चैव गोमूत्रे गोमये हव्यवाहनः ।
दध्नि वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ॥ ३९ ॥

इति।

वरुणादिभिर् अधिष्ठितत्वात् पापदाहकत्वम् उपपन्नम् ॥ ३८–३९ ॥

[४४०]

अभोज्यान्नानां भाण्डे ऽवस्थितं जलादिकं पीत्वा व्रतं चरेद् इत्य् उक्तं पूर्वम् (पर्स्म् ११।२५) । अथ जलस्य स्वमुखनिःसृतस्य पुनः पाने प्रायश्चित्तम् आह ।

पिबतः पतितं तोयं भाजने मुखनिःसृतम् ।
अपेयं तद् विजानीयात् पीत्वा चान्द्रायणं चरेत् ॥ ४० ॥

इति।

जलं पिबतः पुरुषस्य मुखनिःसृतं भोजनादिपात्रे पतितं यत् तोयं तत् त्रैवर्णिकैः पुनर् न पेयम् । कथंचित् पीते सति चान्द्रायणेन शुद्धिः । यत् तु मुखं प्रविश्य न निःसृतं, किं त्व् एकस्मिन् पात्रे अर्धं पीत्वावशेषितं तस्य पाने त्रिरात्रोपवासम् आह शङ्खः ।

पीतावशेषितं पीत्वा पानीयं ब्रह्मणः क्वचित् ।
त्रिरात्रं तु व्रतं कुर्याद् वामहस्तेन वा पुनः ॥ इति । (शङ्स्म् १३।४१)

॥ ४० ॥

श्वसृगालादिमरणोपहतकूपादिजलपाने वर्णविशेषेण प्रायश्चित्तविशेषम् आह ।

कूपे च पतितं दृष्ट्वा श्वसृगालौ च मर्कटम् ।
अस्थिचर्मादि पतितं पीत्वामेध्या अपो द्विजः ॥ ४१ ॥
नारं तु कुणपं काकं विड्वराहखरोष्ट्रकम् ।
गावयं सौप्रतीकं च मायूरं खाड्गकं तथा ॥ ४२ ॥

[४४१] वैय्याघ्रम् आर्क्षं सैंहं वा कूपे यदि निमज्जति ।

तटाकस्याथ दुष्टस्य पीतं स्याद् उदकं यति ॥ ४३ ॥
प्रायश्चित्तं भवेत् पुंसः क्रमेणैतेन सर्वशः ।
विप्रः शुध्येत् त्रिरात्रेण क्षत्रियस् तु दिनद्वयात् ॥ ४४ ॥
एकाहेन तु वैश्यस् तु शूद्रो नक्तेन शुध्यति । इति ।

कूपे पतित्वा मृतं श्वादिकं वा अस्थ्यादिकं वा दृष्ट्वा तादृशीर् मेध्या अपः पीत्वा प्रायश्चित्ती भवेद् इति शेषः । नरस्य मनुष्यस्य संबन्धि कुणपं नारम् । काकस्य संबन्धि काकम् । विड्वराहादिषु संबन्धवाची तद्धितो लुप्तो द्रष्टव्यः । तथा च सति वैड्वराहं खारं औष्ट्रम् इत्य् उक्तं भवति । गवस्य संबन्धि गावम् । शोभनाः पुष्टाः सुप्रतीका अवयवा यस्य गजस्य स सुप्रतीकः । तस्य संबन्धि सौप्रतीकम् । मयूरस्य संबन्धि मायूरम् । खड्गो मृगविशेषः तस्य संबन्धि खाड्गकम् । व्याघ्रस्य संबन्धि वैय्याघ्रम् । ऋक्षस्य संबन्धि आर्क्षम् । सिंहस्य संबन्धि सैंहम् । एतेषाम् अन्यतमं पतितं कुणपं दृष्ट्वा तद्युक्तयोः कूपतटाकयोः स्नानपाने यदि कुर्यात् तदा तादृशस्य पुंसः सर्ववर्णसंबन्धिनः । एतेन – समन्तरं निर्दिश्यमानेन [४४२] क्रमेण प्रायश्चित्तं भवेत् । स च क्रमः त्रिरात्रोपवासादिः । त्र्यहादिव्रतचरणानन्तरं पञ्चगव्यं पिबेत् । तद् आह विष्णुः- “मृतपञ्चनखान् कूपाद् अत्यन्तोपहतम् उदकं पीत्वा ब्राह्मणस् त्र्यहम् उपवसेत् । द्व्यहं राजन्यः । एकाहं वैश्यः । शूद्रो नक्तम् । सर्वे चान्ते पञ्चगव्यं पिबेयुः” इति (विध् ५४।२–६) । यदा तु तत्रैव शवम् उच्छूनतयोद्भिन्नं भवति तदा हारीतो विशेषम् आह ।

क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि तत् पिबेत् ।
शुद्ध्यै चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥
यदि कश्चित् ततः स्नायात् प्रमादेन द्विजोत्तमः ।
जपंस् त्रिषवणस्नायी अहोरात्रेण शुध्यति ॥ इति । (हार्स्म् २१।३–४)

इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस् तु षड्रात्रम्,

क्लिन्ने भिन्ने शवं चैव कूपस्थं यदि दृश्यते ।
पयः पिबेत् त्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥

इति देवलस्मरणात् । मद्यभाण्डस्थितोदकपाने यम आह ।

सुराभाण्डस्थिता आपो यदि कश्चित् पिबेत् द्विजः ।
कुशमूलविपक्वेन त्र्यहं क्षीरेण शुध्यति ॥
[४४३] द्वादशाहं तु पयसा पिबेद् ब्राह्मीं सुवर्चलाम् ।
गायत्र्यष्टसहस्रं वा जपं कुर्वीत मानसम् ॥ इति । (यस्म् ३।४१–४२)

एतन् मतिपूर्वकाभ्यासविषयम् । अकामतो ऽभ्यासे तु मनुर् आह ।

[४४४] आपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा ।
पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥ इति । (म्ध् ११।१४७)

यत् तु विष्णूक्तम्- “अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्” (विध् ५१।२३) इति, तत् कामतः स्कृत्पाने द्रष्टव्यम् । यत् तु शातातपेनोक्तम्- “सुराभाण्डोदकपाने छर्दनं घृतप्राशनम् अहोरात्रोपवासश् च” इति, तत् शुष्कसुराभाण्डस्थोदकपानविषयम् । तत्रैव पर्युषितोदकपाने तेनैवोक्तम् ।

सुरापानस्य यो भाण्डे आपः पर्युषिताः पिबेत् ।
शङ्खपुष्प्यवपक्वं तु क्षीरं स तु पिबेत् त्र्यहम् ॥ इति । (शास्म् ५।३१)

सुरापानस्य मुखगन्धाघ्राणे तु मनुर् आह ।

ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।
[४४५] प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥ इति । (म्ध् ११।१४९)

स्त्र्याद्युच्छिष्टपाने हारीत आह ।

स्त्रियोच्छिष्टस्थिता आपो यदि कश्चित् पिबेद् द्विजः ।
शङ्खपुष्पीविपक्वेन त्र्य्हं क्षीरेण यापयेत् ॥
शूद्रोच्छिष्टस्थिता आपो यदि कश्चित् पिबेद् द्विजः ।
कुशमूलविपक्वेन त्र्यहं क्षीरेण यापयेत् ॥
शूद्रोच्छिष्टस्थिता आपो यदि कश्चित् पिबेद् द्विजः ।
कुशमूलविपक्वेन त्र्यहं क्षीरेण पावयेत् ॥ इति । (हार्स्म् ११।४१–४२)

यमः ।

शुनोच्छिष्टस्थिता आपो यदि कश्चित् पिबेद् द्विजः ।
शङ्खपुष्पीविपक्वेन त्र्यहं क्षीरेण शुध्यति ॥ इति । (यस्म् ३।६०)

॥ ४१ – ४४ ॥

[४४६]

ब्राह्मणेष्व् एव केषुच्द् अभोज्यान्नत्वम् अभिप्रेत्य तदन्नभोजने प्रायश्चित्तम् आह ।

परपाकनिवृत्तस्य परपाकरतस्य च ॥ ४५ ॥
अपचस्य च भुक्त्वान्नं द्विजश् चान्द्रायणं चरेत् । इति ।

परपाकनिवृत्तादीनां त्रयाणां स्वरूपं स्वयम् एव वक्ष्यति । तदीयान्नभोजनं यद्य् अप्य् अल्पनिमित्तं तथाप्य् अभ्यासाभिप्रायेण महद् व्रतम् अविरुद्धम् । अनभ्यासे त्व् ईदृशान्नभोजने भरद्वाज आह ।

परपाकनिवृत्तस्य परपाकरतस्य च ।
निराचारस्य विप्रस्य निषिद्धाचरणस्य च ॥
अन्नं भुक्त्वा द्विजः कुर्याद् दिनम् एकम् अभोजनम् । इति ॥ ४५ ॥

अपचस्यान्नप्रदत्वे तदन्नभोक्तुर् एव प्रत्यवायो ऽभिहितः । यदा त्व् अपचो भुङ्क्ते इतरः प्रयच्छति तदानीम् उभयोः प्रत्यवाय इत्य् आह ।

अपचस्य च यद् दानं दातुश् चास्य कुतः फलम् ॥ ४६ ॥
दाता प्रतिग्रहीता च तौ द्वौ निरयगामिनौ । इति ।

अपचस्य अपचायेत्य् अर्थः । तस्मै यद् दानम् अन्येन क्रियते तस्मिन् दाने तस्य दातुर् दानफलं नास्ति । न केवलं फलाभावः किं त्व् असौ दाता सह प्रतिग्रहीत्रा नरकं याति ।

॥ ४६ ॥

[४४७]

परपाकनिवृत्तादीनां त्रयाणां क्रमेण लक्षणम् आह ।

गृहीत्वाग्निं समारोप्य पञ्चयज्ञान् न निर्वपेत् ॥ ४७ ॥
परपाकनिवृत्तो ऽसौ मुनिभिः परिकीर्तितः ।
पञ्चयज्ञान् स्वयं कृत्वा परान्नेनोपजीवति ॥ ४८ ॥
सततं प्रातर् उत्थाय परपाकरतस् तु सः ।
गृहस्थधर्मा यो विप्रो ददाति परिवर्जितः ॥ ४९ ॥
ऋषिभिर् धर्मतत्त्वज्ञैर् अपचः परिकीर्तितः । इति ।

परस्य पुरुषान्तरस्य गृहे क्रियमाणः पाकः परपाकः । तस्मान् निवृत्तः परपाकनिवृत्तः परान्नभोजनपरित्यागीति यावत् । यद् वा वैश्वदेवाद्यर्थं क्रियमानः पाक उत्कृष्टत्वात् परपाक इत्य् उच्यते । तस्मात् परपाकन् निवृत्तः पञ्चमहायज्ञरहित इत्य् अर्थः । तच् चोभयं विवक्षितत्वात् तन्त्रेणोच्चरितम् । तथा च सति परान्नवर्जनस्य गुणत्वे ऽपि पञ्चमहायञादिराहित्यस्य [४४८] दोषत्वाद् अस्य पुरुषस्य निन्द्यत्वम् । अक्षरार्थस् तु – अग्निं गृहीत्वा विवाहं कृत्वा स्मार्ताग्नौ केवलम् औपासनं कृत्वा तम् अग्निम् आत्मनि समारोपयति, न तु तस्मिन्न् अग्नौ वैश्वदेवादिकं करोति । सो ऽयं वैश्वदेवाद्यनुष्ठानरहितः पुरुषो ऽत्र परपाकनिवृत्तशब्देन विवक्षितः । एतस्माद् विपरीतः परपाकरतः, उभयविधपाकरहितत्वात् । तत्र पञ्चमहायज्ञानुष्ठानस्य गुणत्वे ऽपि परान्नभोजनस्य दोषत्वात् तादृशस्य पुरुषस्य निन्द्यत्वम् । प्रतिदिनं प्रातर् उत्थाय यथाविधि पञ्चमहायज्ञान कृत्वा परान्नेनोपजीवतीति योजनीयम् ।

यस् तु विप्रो विधानेन गार्हस्थ्यं स्वीकृत्य अन्नदानादिवर्जितः केवलं स्वयम् एव भुङ्क्ते सो ऽपच इत्य् उच्यते । तस्य निन्दा प्रत्यक्षश्रुताव् आम्नायते-

नार्यमणं पुष्यति यो सखायं केवलाघो भवति केवलादी । इति । (ऋग्वेदः ८।६।२३।१)

“ददाति परिवर्जितः” इत्य् अत्र ददातीत्यर्थनिर्देशत्वाद् दानक्रियाम् आचष्टे, [४४९] “त्यज्यतेः पूर्ववत्त्वम्” (प्म्स् ७।४।१) इति अस्मिन् जैमिनिसूत्रे चार्थनिर्देशे ऽपि श्तिप्प्रत्ययप्रयोगदर्शनात् । “इक्श्तिपौ धातुनिर्देशे” (वापा २।१५) इत्य् एतत् तु वाररुचं वार्तिकम् प्रचुरप्रयोगाभिप्रायम् । न त्व् अर्थनिर्देशव्यवच्छेदकम् ।

परपाकनिवृत्तादिवद् वृथापाकादेर् अप्य् अन्नं न भोक्तव्यम् । तद्भोजने तु प्रायश्चित्तं कर्तव्यम् । तद् आहतुः शातातप-बृहस्पती ।

यो ऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ।
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥
वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेद् द्विजः ।
प्राणायामान् त्रिर् अभ्यस्य घृतं प्राश्य विशुध्यति ॥ इति । (शास्म् ३।५१–५२)

“प्राणायामशतं कृत्वा” इति पाठे त्व् आवृत्तिविषयत्वं कल्पनीयम् । वृथापाके यत् प्रायश्चित्तं तद् एव ब्राह्मणनिन्दकादाव् अपि द्रष्टव्यम्, निन्दावचने सहपाठात् । तथा च व्यासः ।

पङ्क्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः ।
आदेशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः ॥ (व्यास्म् ४।७०)

[४५०] इति । ॥ ४७–४९ ॥

_ननु – उक्तरीत्या कलियुगे सर्वे ऽप्य् अभोज्यान्ना अभक्ष्यभक्षणाश् च । तथा सत्य् एतद्विषयं प्रायश्चित्तशास्त्रं निरर्थकम् । कृते ऽपि प्रायश्चित्ते पुनर् अपि तत्प्रवृत्तेर् उपरन्तुम अशक्यत्वात् प्रायश्चित्तविधायिकायाः परिषदो ऽसंभवाच् च । न हि पापप्रवृत्तानां परिषत्त्वं युक्तम्, “स्वधर्मरतविप्राणाम्” (पर्स्म् ८।२) इति तल्लक्षणात् । न च – अभक्ष्यभक्षणादिभ्यः पापेभ्यो निवृत्तानां शिष्टानां परिषत्त्वं स्यात् – इति शङ्कनीयम्, तादृशस्य कस्याप्य् अदृष्टचरत्वात् । अतः कलियुगे सर्वेषां निन्द्यत्वाद् [४५१] एतद् एव युगम् उद्दिश्य प्रवृत्तस्य पाराशरधर्मशास्त्रस्य निर्विषयत्वं स्यात् – इत्य् आशङ्क्याह ।

युगे युगे तु ये धर्मास्
तेषु तेषु च ये द्विजाः ॥ ५० ॥

तेषां निन्दा न कर्तव्या
युगरूपा हि ते द्विजाः ।

इति । अस्याक्षरार्थः प्रथमाध्याये वर्णितः ।
अयम् आश्यः –
द्विविधा ह्य् अधर्मप्रवृत्तिः -
युगप्रयुक्ता, प्रमादालस्यादि-प्रयुक्ता च ।

तत्र युग-प्रयुक्तायाः प्रवृत्तेर् अपरिहार्यत्वान्
न तन्निवृत्तये पराशरस्योद्यमः ।
या तु प्रमादालस्यादिप्रयुक्ता प्रवृत्तिः
तत्र सावकाशं धर्मशास्त्रम् ।+++(5)+++

तद् यथा -

  • अध्ययन-विधिस् तावद् अर्थज्ञान-पर्यन्तं साङ्ग-वेद-पाठम् आचष्टे ।
    न च – कलौ युगे तादृशं विप्रं कंचिद् अप्य् उपलभामहे ।
  • तथा ब्रह्म-चारि-प्रकरणे तद्-आश्रमधर्मा अध्ययन-धर्माश् च सहस्रशः स्मर्यन्ते ।
    न च तान् सर्वान् यथावद् [४५२] अनुतिष्ठन् माणवकः को ऽप्य् उपलभ्यते ।

यदा अध्ययनस्यैव ईदृशी गतिः,
तदा कैव कथा साङ्ग-कृत्स्न-वेदार्थानुष्ठानस्य ।

तथा सति शास्त्रीय-मुख्य-ब्राह्मण्योपेतस्य कस्याप्य् अभावात्
क्षत्रिय-वैश्य-जात्योश् च स्व-रूप्रेणैवोच्छिन्नत्वात्
शुश्रूषयितव्यानां द्विजानाम् असंभवे
तच्-छुश्रूषकस्य मुख्यस्य शूद्रस्यात्यन्तानाशङ्कनीयत्वात्
किं चातुर्-वर्ण्यम् उद्दिश्य प्रवृत्तं धर्मशास्त्रं
स्वरूपेणैव लुप्यताम् ?
किं वा मुख्यासंभवे ऽपि
यथा-संभवं चातुर्वर्ण्यम् आश्रित्य
धर्मशास्त्रं प्रवर्तताम्?

इति मीमांसायाम्,
स्व-रूप-लोपाद् वरं
यथा-संभवानुष्ठानम्
इत्य् अभिप्रेत्य
युग-प्रवृत्तां सर्वैर् अप्य् अवर्जनीयाम् अधर्म-प्रवृत्तिम् अदोषत्वेनाभ्युपगम्य
“तेषां निन्दा न कर्तव्या” इत्य् उक्तम् ।

ततः संभाविताध्ययनाद्युपेतानां शक्यायां धर्म-प्रवृत्तौ
प्रमादालस्यादि-रहितानां च परिषत्त्वं कुतो न स्यात्?
कृत-प्रायश्चित्तस्य
पुनः प्रमादालस्यादि-वर्जनस्य सुकरत्वात्
प्रायश्चित्त-शास्त्रं च सार्थकम् इति ॥ ५० ॥

विश्वास-टिप्पनी

क्षत्रिय-वैश्य-जात्योश् च स्व-रूप्रेणैवोच्छिन्नत्वात्

इत्य् उक्ते सत्य् अपि,
अनेन सम्भावित-स्वरूपाणां क्षत्रियाणां ग्राह्यता ।

उत न तत्र जातेर् एव नाश उक्तः,
अपि त्व् अध्ययन-संस्काराद्य् अपि स्वरूपकोटौ निवेश्य
तद्-अभावोक्तिः।
तथा सति व्रात्यानाम् अल्पसंस्कारवतां सङ्ग्रहणं
क्रमशः शक्यम् एव।

तदा ऽप्य् अवर्तन्त +उपनयनमात्रभाजो वापि क्षत्रियाश् वैश्याश् चेति प्रमाणान्तर-सिद्धम्, यथाऽद्य प्रत्यक्षम्।

इत्थम् उपपातकविशेषस्याभक्ष्यभक्षणस्य प्रायश्चित्तम् अभिधाय जातिभ्रंशकरस्य ब्राह्मणतिरस्कारस्य प्रायश्चित्तम् आह ।_

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ॥ ५१ ॥
स्नात्वा तिष्ठन्न् अहःशेषम् अभिवाद्य प्रसादयेत् ।

[४५३] इति । ब्राह्मणो वेदपारगो ब्रह्मविद् वा । तं प्रति लौकिके शास्त्रीये वा व्यवहारे तद्भर्त्सनाय हुङ्कारं यः प्रयुङ्क्ते यश् च वयसा विद्यया वा ज्येष्ठं पुरुष्ं प्रति त्वम् इत्य् एकवचनं प्रयुङ्क्ते ताव् उभौ स्नात्वा यावद् अस्तमयं निराहारौ स्थित्वा रात्राव् अभिवादनेन तं क्षमापयेताम् । तत्र निराहारत्वं मनुर् आह ।

हिङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं तु गरीयसः ।
स्नात्वानश्नन्न् अहःशेषम् अभिवाद्य प्रसादयेत् ॥ इति । (म्ध् ११।२०४)

यमो ऽपि ।

हुङ्कारं ब्राह्मणस्योक्त्वा प्रायश्चित्तं विधीयते ।
अहोरात्रोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥ इति । (यस्म् २।६)

शङ्खो ऽपि ।

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ।
दिनम् एकं व्रतं कुर्यात् प्रयतः सुसमाहितः ॥ इति । (शङ्स्म् १७।५०–५१)

एतद् अभ्यासविषयम् ।

ननु[४५४] “ब्राह्मणस्य रुजःकृत्या” (म्ध् ११।६८) इति जातिभ्रंशकरेषु परिगणनाड् वक्ष्यमाणं ताडनादिकम् एव जातिभ्रंशकरम् । न तूक्तम्, इति चेत् ।

, हुङ्कारादिनापि ब्राह्मणस्य मनसि रुज उत्पदनात् ॥ ५१ ॥

ताडनादौ प्रायश्चित्तम् आह ।

ताडयित्वा तृणेनापि कण्ठे बध्वापि वाससा ॥ ५२ ॥
विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् । इति ।

यद्य् अपि तृणताडनवस्त्रबन्धनविवादजयैर् न शरीरोपघातः तथापि प्रायश्चित्तं चरितव्यम् इत्य् अपि शब्दस्यार्थः । प्रणिपातेनोपवासो ऽप्य् उपलक्ष्यते । तद् आह बृहस्पतिः ।

गुरुं त्वंकृत्य गर्वेण विप्रं निर्जित्य वादतः ।
ताडयित्वा तृणेनापि प्रसाद्योपवसेद् दिनम् ॥ इति । (बृस्म् २।२७)

याज्ञवल्क्यो ऽपि ।

गुरुं त्वंकृत्य हिंकृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम् ॥ इति । (य्ध् ३।२९२)

यत् तु बौधायनेनोक्तम्,

वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया ।
त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥ (ब्ध् ४।१।५)

[४५५] इति, तद् अभ्यासविषयम् । पादस्पर्शादौ स एवाह ।

पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया ।
दिवसोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥
अवाच्यं ब्राह्मणस्योक्त्वा प्रायश्चित्तं विधीयते ।
कृच्छ्रातिकृच्छ्रं जित्वा तु प्रणिपत्य प्रसादयेत् ॥
आक्रोशम् अनृतं कृत्वा कृच्छ्रं कुर्वीत मानवः । इति । (ब्ध् ४।१।८–९)

॥ ५२ ॥

ब्राह्मणावगूरणादौ प्रायश्चित्तम् आह ।

अवगूर्य त्व् अहोरात्रं त्रिरात्रं क्षितिपातने ॥ ५३ ॥
अतिकृच्छ्रं च रुधिरे क्र्च्छ्रो ऽभ्यन्तरशोणिते । इति ।

अवगूर्य वधार्थं दण्डम् उद्यम्य दिनम् एकम् उपवसेत् । भूमौ निपात्य त्रिरात्रम् उपवसेत् । प्रहारेण रुधिरे निर्गते अतिकृच्छ्रं चरेत् । अनिर्गतं रुधिरम् अन्तर् एकत्र घनीभूतं चेत् तदा कृच्छ्रं चरेत् । अवगूरणादेः शतसंवत्सरादिनरकहेतुत्वोपन्यास-पुरह्सरं प्रतिषेधः प्रत्यक्षश्रुताव् उपलभ्यते । यथा च तैत्तिरीयब्राह्मणम्- [४५६] “यो ऽवगुरेत् शतेन यातयात् यो निहनत् सहस्रेण यातयात् यो लोहितं करवत् यावतः प्रस्कन्द्य पांसून् संगृह्णात् तावतः संवत्सरान् पितृलोकं न प्रजानाद् इति तस्माद् ब्राह्मणाय नावगुरेत् न निहन्यात् न लोहितं कुर्याद् एतावता हैनसा युक्तो भवति” इति (त्स् २।६।१०) । गौतमो ऽपि- “अभिक्रुद्ध्यावगूरणं ब्राह्मणस्य वर्षशतम् अस्वर्ग्यम् । निपाते सहस्रम् । लोहितदर्शने यावतः प्रस्कन्द्य पांसून् संगृह्णीयात्” (ग्ध् २२।२०–२२) [४५७] इति । मनुर् अपि ।

अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य तु ।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥
शोणितं यावतः पांसून् संगृह्णीयाद् द्विजन्मनः ।
तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत् ॥
अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ इति । (म्ध् ११।२०६–०८)

याज्ञवल्क्यो ऽपि ।

विप्रदण्डोद्यमे कृच्छस् त्व् अतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ऽभ्यन्तरशोणिते ॥ इति । (य्ध् ३।२९३)

यमः ।

[४५८] ताडने छेदने चैव शोणितस्य प्रवर्तने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत चान्द्रायणम् अथाचरेत् ॥
दशसंख्याश् च गा दद्युर् अङ्गच्छेदो यदा भवेत् । इति । (यस्म् ५।४–५)

बृहस्पतिः ।

काष्ठादिना ताडयित्वा त्वग्भेदे कृच्छ्रम् आचरेत् ।
अस्थिभेदे ऽतिकृच्छ्रस् तु पराकस् त्व् अङ्ङकर्तने ॥ इति ।

पैठीनसिर् अपि- “त्वंकारहुंकारावगूरणनिपातनलोहितप्रवर्तनोत्तरजयेषु प्रणिपातैकरात्रोपवासकृच्छ्रातिकृच्छ्रं चरित्वा प्रसादयेत् यथासंख्यम्” इति । एतत् सर्वं सजातीयविषयम् । विजातीये तु प्रजापतिर् आह ।

[४५९] द्विगुणं त्रिगुणं चैव चतुर्गुणम् अथापि वा ।
क्षत्रविट्शूद्रजातीनां ब्राह्मणस्य वधे व्रतम् ॥ इति ।

आक्रोशादौ शङ्खलिखिताव् आहतुः- “आक्रोशे ऽनृतवादे वा एकरात्रं त्रिरात्रं चोपवासः” इति । सुमन्तुः- “देवर्षिगोब्राह्मणाचार्यमातृपितृनरेन्द्राणां प्रतिषेधने आक्रोशने जिह्वां दहेद् धिरण्यं दत्वा” इति ॥ ५३ ॥

“अतिकृच्छ्रं च रुधिरे” (पर्स्म् ११।५४) इत्य् उक्तम् । को ऽसाव् अतिकृच्छ्रः – इत्य् आकाङ्क्षायां तत्स्वरूपम् आह ।

नवाहम् अतिकृच्छ्री स्यात् पाणिपूरान्नभोजनः ॥ ५४ ॥
त्रिरात्रम् उपवासी स्याद् अतिकृच्छ्रः स उच्यते । इति ।

अतिकृच्छ्रम् आचरन् विप्रस् त्रिरावृत्तैकभक्तनक्तायाचितदिनेषु नवसु यावता पाणिः पूर्यते तावद् एव भूञ्जीत । उपवासदिनेषु प्राजापत्यवद् उपवासम् एव चरेत् । सो ऽयम् अतिकृच्छ्र इत्य् उच्यते । एतद् एवाभिप्रेत्य याज्ञवल्क्यः प्राजापत्यम् उपदिश्य तस्यैव गुणविकृतित्वेनातिकृच्छ्रं निर्दिशति ।

[४६०] अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः । इति । (य्ध् ३।३२०)

गौतमो ऽपि प्राजापत्यं प्रपञ्च्यानन्तरम् आह- “एतेनैवातिकृच्छ्रो व्याख्यातः” इति (ग्ध् २६।१८) । यद् वा नैरन्तर्येण नवसु दिनेषु पाणिपूरान्नं भुक्त्वा त्रिषु दिनेषु उपवसेत् । तद् आह यमः ।

एकैकं पिण्डम् अश्नीयात् त्र्यहं कल्पे त्र्यहं निशि ।
अयाचितस् त्र्यहं चैव वायुभक्षः परं त्र्यहम् ॥
अतिकृच्छ्रं चरेद् एतत् पवित्रं पापनाशनम् । इति । (यस्म् ३।७१–७२)

॥ ५४ ॥

“अतिमानाद् अतिक्रोधात्” (पर्स्म् ४।१) इत्य् आरभ्य “कृच्छ्रो ऽभ्यन्तरशोणिते” (पर्स्म् ११।५४) इत्य् अन्तेष्व् अष्टस्व् अध्यायेषु नानाविधान् पापविशेषान् अनूद्य प्रायश्चित्तविशेषा निरूपिताः । यानि त्व् अन्यानि प्रतिपदोक्तप्रायश्चित्तरहितानि शङ्कितानि तेषां साधारणं प्रायश्चित्तम् आह ।

सर्वेषाम् एव पापानां संकरे समुपस्थिते ॥ ५५ ॥
दशसाहस्रम् अभ्यस्ता गायत्री शोधनं परम् । इति ।

अयं च गायत्रीजपः प्राजापत्यादीनाम् उपलक्षकः । [४६१] तानि च प्रतिपदोक्तप्रायश्चित्तव्यतिरिक्तानि व्रतानि मुनिभिः प्रपञ्चितानि । तत्र अत्रि-मनु-विष्णु-विश्वामित्रिआः ।

अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ इति । (म्द् ११।२०९)

याज्ञवल्क्यः ।

देशं कालं वयः शक्तिं पापं चावेक्ष्ये यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ इति । (य्ध् ३।२९४)

शङ्खलिखिताव् अपि- “क्रयविक्रयदुष्टभोजनप्रतिग्रहेष्व् अनादिष्टप्रायश्चित्तेषु सर्वेषु चान्द्रायणं प्राजापत्यं च” इति । स्मृत्यन्तरे ।

[४६२] भक्ष्याभक्ष्याण्य् अनेकानि ब्राह्मणानां विशेषतः ।
तत्र शिष्टा यथा ब्रूयुस् तत् कर्तव्यम् इति स्थितिः ॥ इति ।

शातातपः ।

अनुक्तेषु विधिं ज्ञात्वा प्राजापत्यं समाचरेत् ।
सर्वत्र सर्वपापेषु द्विजश् चान्द्रायणं चरेत् ॥ इति । (शास्म् ६।३)

उशनाः ।

यथोक्तं यत्र वा नोक्तम् इह पातकनाशनम् ।
प्राजापत्येन कृच्छ्रेण शुध्यते नात्र संशयः ॥ इति । (उश्स्म् ३।१९)

॥ ५५ ॥

अभोज्ये भोज्यत्वप्रमितिम् अभिसंकल्प्य मनसा
प्रसक्तिं स्वाच्छन्द्याड् इह विदधतः संस्मृतिम् अतः ।
मतं प्रायश्चित्तं दधतम् इमम् एकादशम् असाव्
अकार्षीद् अध्यायं स्फुटविवरणं माधवसुधीः ॥

इति श्रीमहाराजाधिराजवैदिकमार्गप्रवर्तक-

परमेश्वरश्रीवीरबुक्कभूपालसाम्राज्यधुरन्दरस्य

माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां

माधवीयायां एकादशो ऽध्याहः ॥ ११ ॥