१०

अथ दशमो ऽध्यायः

अष्टमनवमाध्याययोर् उपपातकस्य गोवधस्य सामान्यविशेषाभ्यां प्रायश्चित्तानि प्रपञ्चितानि । अथागम्यागमनरूपोपपातकस्य प्रायश्चित्तं दशमाध्याये ऽभिधीयते ।

तत्र प्रतिज्ञापूर्वकं सामान्यप्रायश्चित्तम् आह ।

चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् ।
अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत् ॥ १ ॥

इति।

चतुर्षु वर्णेष्व् अनुलोमप्रतिलोमभेदेनावान्तरजातिबहुत्वम् अभिप्रेत्य सर्वेष्व् इत्य् उक्तम् । प्रत्यवायः निष्क्रियते निवार्यते विनाश्यते यया प्रायश्चित्त्या सा प्रायश्चित्तिः निष्कृतिः । तस्या अनर्थफलनिवारकत्वाद् धितत्वम् । “ऋतौ भार्याम् उपेयात्” इति शास्त्राद् गम्या स्वभार्या । तदितरा सर्वापि योषिद् [२९७] अगम्या । तद्गमने प्राप्ते सति तच्छुद्धिनिमित्तं चान्द्रायणं प्रायश्चित्तम् आचरेत् ॥ १ ॥

चान्द्रायणस्य लक्षणम् आह ।

एकैकं ह्रासयेद् ग्रासं कृष्णे शुक्ले च वर्धयेत् ।
अमावास्यायां न भुञ्जीत ह्य् एष चान्द्रायणो विधिः ॥ २ ॥

इति।

द्विविधं हि चान्द्रायणम्, यवमध्यं पिपीलिकामध्यं चेति । यथा यवस्य मध्यं स्थूलम् उभाव् अन्तौ सूक्ष्मौ तथा शुक्लप्रतिपदम् आरभ्य प्रतिदिनम् एकैकग्रासवृद्ध्या पूर्णमायां पञ्चदशग्रासाः । कृष्णप्रतिपदम् आरभ्य प्रतिदिनम् एकैकग्रासह्रासे सत्य् अमावास्यायाम् उपवास इति मध्यभागस्थौल्यात् यवमध्यत्वम् । यथा पिपीलिकानां शिरःपृष्टभागौ स्थूलौ मध्यं सूक्ष्मं तथा यस्य च चान्द्रायणस्य मध्यमे अमावास्यादिने सर्वग्रासह्रासः तस्य मध्यमभागसौक्ष्म्यात् पपीलिकामध्यत्वम् । तद् इदं पिपीलिकामध्यम् आचार्येणोपन्यस्यते । तथा हि कृष्णप्रतिपदि व्रतं संकल्प्य चतुर्दश ग्रासान् भुञ्जीत । ततो द्वितीयाम् आरभ्य प्रतिदिनम् एकैकस्य ग्रासस्य ह्रासे सति अमावास्यायाम् उपवासः संपद्यते । पुनः शुक्लप्रतिपदि ग्रासम् एकम् उपक्रम्य प्रतिदिनम् एकैकग्रासवृद्ध्या पौर्णमास्यां पञ्चदश ग्रासाः संपद्यन्ते । स एष पैपीलिकामध्यस्य चान्द्रायणस्यानुष्ठानप्रकरः । तद् इदं वसिष्ठो ऽप्य् आह ।

[२९९] मासस्य कृष्णपक्षादौ ग्रासान् अद्याच् चतुर्दश ।
ग्रासापचयभोजी सन् पक्षशेषं समापयेत् ॥
तथैव शुक्लपक्षादौ ग्रसं भुञ्जीत चापरम् ।
ग्रासोपचयभोजी सन् पक्षशेषं समापयेत् ॥ इति । (वध् २३।४४–४५)

चान्द्रायणाङ्गत्वेन त्रिषवणस्ननं कर्तव्यम् । तद् आह मनुः ।

एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
उपस्पृशंस् त्रिषवणम् एतच् चान्द्रायणव्रतम् ॥ इति । (म्ध् ११।२१६)

वपनादीतिकर्तव्यतां तु गौतम आह ।

अथातश् चान्द्रायणम् । तस्योक्तो विधिः कृच्छ्रे । वपनव्रतं चरेत् । श्वोभूतां पौर्णमासीम् उपवसेत् । आप्यायस्व सन्ते पयांसि नवो नव इति चैताभिस् तर्पणम् । आज्यहोमो हविषश् चानुमन्त्रणम् । उपस्थानं चन्द्रमसः । यद् देवा देवहेलनम् इति चतसृभिर् आज्यं जुह्यात् । देवकृतस्येति चान्ते समिद्भिः । ॐ भूर् भुवः स्वर् महर् जनस् तपः सत्यं यशः श्रीः कविर् बिडौजोजः पुरुषो धर्मः शिव इत्य् एतैर् ग्रासानुमन्त्रणम् । प्रतिमन्त्रं नमसा नमः स्वाहेति वा । सर्वग्रासप्रमाणम् आस्याविकारेण । [३००] चरुर् भैक्षसक्तुकणयावक-शाकपयोदधिघृतमूलफलोदकानि हवींष्योत्तरोत्तरं प्रशस्तानि । द्वादशैतानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकापचयेनापरपक्षम् अश्नीयात् । अमावास्यायाम् उपोष्यैकोपचयेन पूर्वं पक्षम् । वपरीतम् एकेषाम् । एष चान्द्रायणो मासः ॥ इति । (ग्ध् २८।१–१८)

एकेषां मुनीनां मते पूर्वोक्तात् पैपीलिकामध्यपक्षाद् विपरीतं यवमध्यं चान्द्रायणम् । तच् च मनुर् विस्पष्टम् आह ।

एतम् एव विधिं कृत्स्नम् आचरेत् यवमध्यमे ।
शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ॥ इति । (म्ध् ११।२१७)

तद् एतच् चान्द्रायणद्वयं देवलो प्य् आह- “चान्द्रायणं द्विविधम् । यवमध्यं पिपीलिकामध्यम् इति । एकग्रासम् अमावास्यादि यवमध्यम् । पञ्चदशग्रासं पौर्णमास्यादि पिपीलिकामध्यम्” इति । यमो ऽपि- “अथातश् चान्द्रायणकल्पं व्याख्यास्यामः । तद् यथा ।

पौर्णमास्याम् उपेतस् तु ब्राह्मणः सुसमाहितः ।
केशश्मश्रूणि लोमानि कक्षोपस्स्थं च वापयेत् ॥
प्रयतो विधिवत् कृत्वा गृह्णीयात् सुसमाहितः ।
मधु मांसं च लवणं शुक्तानि परिवर्जयेत् ॥
[३०१] स्त्रीशूद्रौ नाभिभाषेत सत्यवादी च संयतः ।
पालाशं धारयेद् दण्डं शुचिर् मौञ्जीं च मेखलाम् ॥
यज्ञोपवीती करकं धारयेन् नियतः शुचिः ।
शाणी वल्कलचीरी वा मार्गं वा वास उच्यते ॥
सर्वाण्य् अहानि संतिष्ठेत् स्नानमौनधृतव्रतः ।
स्नानासनाभ्यां विहरेद् ब्रह्मचारी क्षपाशनः ॥

गोमयेन गोचर्ममात्रं स्थण्डिलम् उपलिप्याभ्युक्ष्य अग्निं प्रतिष्ठाप्य ब्राह्मणं दक्षिणत उपवेश्योत्तरत उदकपात्रं प्रतिष्ठाप्य प्रागुदगग्रान् दर्भान् आस्तीर्याज्यभागं कृत्वा महाव्याहृतिभिर् आज्याहुतीर् जुहुयात् । व्रतपतये ऋतं सत्यं प्रजापतिं मित्रम् अग्नीषोमौ बृहस्पतिं यजेत ।

एतान् एवम् अर्चयित्वा महाव्याहृतयस् तथा ।
ओंकारपूर्वम् आख्यातास् तथा सर्वाः पृथक् पृथक् ॥
ऋतं सत्यं च गायत्रीम् इत्य् एतानि सदा जपेत् ।
दशसाहस्रिकं वापि गायत्रीम् आह्निकं जपेत् ॥
इन्द्रः शुद्धा ऋचश् चापः प्रविश्य मनसा जपेत् ।
तत्रैव गायेत् सामानि अथ वा व्याहृतीर् जपेत् ॥
वृक्षमूलनिकेतः स्याद् रात्रौ वीरासनी भवेत् ।
आर्द्रवासाश् चरेत् कृच्छ्रं स्नात्वा वस्त्रं न पीडयेत् ॥
चरुं वा श्रपयेन् नित्यं गोभ्यो निष्क्रान्तयावकैः ।
[३०२] पायसं शाकम् अन्नं वा भैक्षं वा वाग्यतश् चरेत् ॥
आयसं तैजसं पात्रं चक्रोत्पन्नं विवर्जयेत् ।
असुराणां हि तत् पात्रम् अयस्तैजसचक्रजम् ॥
तथैवान्यतमालाभे मृदं कुर्वीत वैदिकीम् ।
यज्ञियानां तु वृक्षाणां तेषां पर्णैः स्वयं च्युतैः ।
हसन् न तु निरीक्षेत नाभिभाषेत् परस्त्रियम् ॥
गोदोहमात्रं तिष्ठेत न सप्तानां परं व्रजेत् ।
तद्विधेषु चरेद् भैक्षं नियतेषु द्विजातिषु ॥
अग्नयो यत्र हूयन्ते ब्रह्म वा यत्र पठ्यते ।
प्रयतः कृतशौचस् तु भैक्षम् अभ्युक्षयेत् ततः ॥
आदित्याभिमुखो भूत्वा गुरवे तन् निवेदयेत् ।
अनुज्ञातस् ततः कुर्याद् देवर्षिपितृपूजनम् ॥
शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
संपादयेद् यम् आहारं तेनाग्नौ जुहुयात् सदा ॥
आहारार्थं द्विजे दत्वा तद् अन्नं नियमं श्रितः ।
ग्रासं शेषेण कुर्वीत यो ऽस्यास्यं प्रविशेत् सुखम् ॥
कुक्कुटाण्डप्रमाणं वा ग्रासं कुर्यात् समाहितः ।
अङ्गुल्यग्रे स्थितं वापि गायत्र्या चाभिमन्त्रयेत् ॥
न तु विख्यापयेत् पिण्डं रसान् नास्वादयेत् पुनः ।
न निन्देन् न प्रशंसेत स्वाद्व् अस्वादु च भक्षयेत् ॥
[३०३] प्राक्मुखो नित्यम् अश्नीयाद् वाग्यतो ऽन्नम् अकुत्सयन् ।
ह्रासो वृद्धिर् यथा सोमे मासि मासि प्रदृश्यते ॥
अमावास्यां पौर्णमास्यां व्रतं चान्द्रायणं चरेत् ।
ग्रासान् वर्धयते सोमः पञ्च पञ्च च पञ्च च ॥
एकैकं वर्धयेत् पिण्डं शुक्ले कृष्णे च ह्रासयेत् ।
अमावास्यां न भुञ्जीत एष चान्द्रायणो विधिः ॥
एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
एतत् पिपीलिकामध्यं चान्द्रायणम् उदाहृतम् ॥
वर्धयेत् पिण्डम् एकैकं शुक्ले कृष्णे च ह्रासयेत् ।
एतच् चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् ॥ इति । (यस्म् ६।२६–६४)

पुनर् अपि प्रकारान्तरेण चान्द्रायणं त्रिविधम्, ऋषिचान्द्रायणं शिशुचान्द्रायणं यतिचान्द्रायणम् इति । तेषां स्वरूपं यम आह ।

त्रींस् त्रीन् पिण्डान् समश्नीयान् नियतात्मा दृढव्रतः ।
हविष्यान्नस्य वै मासम् ऋषिचान्द्रायणं स्मृतम् ॥
चतुरः प्रातर् अश्नीयाच् चतुरः सायम् एव च ।
पिण्डान् एतद् धि बालानां शुशुचान्द्रायणं स्मृतम् ॥
पिण्डान् अष्टौ समश्नीयान् मासं मधन्दिने रवौ ।
यतिचान्द्रायणं ह्य् एतत् सर्वकल्मशनाशनम् ॥ (यस्म् ६।२१–२३)

[३०४] विष्नुर् अपि पञ्चविधं चान्द्रायणम् आह- “अथ चान्द्रायणम् । ग्रासान् आस्याविकारम् अश्नीयात् । तांश् चन्द्रकलाभिवृद्धौ क्रमेण वर्धयेत् । हानौ च ह्रसयेत् । अमावास्यायां च नाश्नीयात् । एष चान्द्रायणो यवमध्यः । पिपीलिकामध्यो वा । यस्यामावास्या मध्या भवति स पिपीलिकामध्यः । यस्य पौर्णमासी स यवमध्यः । अष्टौ ग्रासान् प्रतिदिनम् अश्नीयात् स यतिचान्द्रायणः । सायं प्रातश् चतुरश् चतुरः स शिशुचान्द्रायणः । यथा कथंचित् षष्ठ्योनां त्रिशतीं मासेनाश्नीयात् स सामान्यचान्द्रायणः” इति (विध् ४७।१–९) ॥ २ ॥

चान्द्रायणे ऽभिहितस्य ग्रासस्य परिमाणम् आह ।

कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् ।
अन्यथाभावदोषेण न धर्मो न च शुध्यति ॥ ३ ॥

[३०५] इति । उक्तपरिमाणाद् अधिकपरिमाणत्वम् अन्यथाभावः । तेन जातो यो दोषो व्रतवैकल्यं तेन दोषेण, धर्मश् चन्द्रलोकप्राप्तिहेतुस् तपोरूपो व्रतविशेषः स न संपद्यते । नाप्य् अस्य पापाच् छुद्धिर् भवति । चान्द्रायणसाध्यं फलं द्विविधम् । पुण्यलोकप्राप्तिः पापनिवृत्तिश् चेति । तद् उभयम् अधिकपरिमाणग्रासान् अश्नतो न सिध्यति । चान्द्रायणस्य फलद्वैविध्यं यम आह ।

यत् किंचित् कुरुते पापं कर्मणा मनसा गिरा ।
द्विजश् चान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते ॥
एतानि विधिवत् कृत्वा षड्भिर् मासैर् हविष्यभुक् ।
व्यपेतकल्मषो विप्रश् चन्द्रस्यैति सलोकताम् ॥ इति । (यस्म् ६।१९–२०)

॥ ३ ॥

व्रतचरणान्तरं कर्तव्यम् आह ।

प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
गोद्वयं वस्त्रयुग्मं च दद्याद् विप्रेषु दक्षिणाम् ॥ ४ ॥

इति।

संख्याविशेषानुपादानात् शक्त्यनुसारेण ब्राह्मणभोजनम् इति वेदितव्यम् ॥ ४ ॥

अगम्यागमनमात्रे प्रायश्चित्तम् अभिहितम् । तद्विशेषेषु प्रायश्चित्तानि वक्तव्यानि । तत्रात्यन्तनीचजातिगमने प्रायश्चित्तम् आह ।

चण्डालीं वा श्वपाकीं वा ह्य् अभिगच्छति यो द्विजः ।
त्रिरात्रम् उपवासित्वा विप्राणाम् अनुशासनात् ॥ ५ ॥

[३०६] सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ।

गोद्वयं दक्षिणां दद्यात् शुद्धिं पाराशरो ऽब्रवीत् ॥ ६ ॥

इति।

ब्राह्मण्यां शूद्राज् जाता चण्डाली । आरूष्हपतिताज् जाता च सगोत्राज् जाता वा । तद् एतत् त्रिविधं चण्डालत्वं यम आह ।

आरूढपतिताज् जातो ब्राह्मण्यां शूद्रजश् च यः ।
चण्डालौ ताव् उभौ प्रोक्तौ सगोत्राद् यश् च जायते ॥ इति । (यस्म् ६।३)

एतत् त्रिविधचण्डालसन्ततौ जाता स्त्री चण्डाली । क्षत्तोग्रयोर् जाता स्त्री श्वपाकी । तद् आह मनुः ।

क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्तितः । इति । (म्ध् १०।१९)

द्विजशब्दो ऽत्र ब्राह्मणपरः । क्षत्रियवैश्ययोः पृथग्वक्ष्यमाणत्वात् । उपवासित्वा उपवासं चरित्वेत्य् अर्थः । आचारार्थक्विबन्तात् शब्दनिष्पत्तेः ॥ ५–६ ॥

[३०७]

क्षत्रियवैश्ययोर् दक्षिणाधिक्यम् आह ।

क्षत्रियो वाथ वैश्यो वा चण्डालीं गच्छति यदि ।
प्राजापत्यद्वयं कुर्यात् दद्याद् गोमिथुनद्वयम् ॥ ७ ॥

इति।

स्पष्टम् ॥ ७ ॥

शूद्रस्य त्व् अल्पं व्रतम् अधिका दक्षिणेत्य् आह ।

श्वपाकीं वाथ चण्डालीं शूद्रो वा यदि गच्छति ।
प्राजापत्यं चरेत् कृच्छ्रं चतुर्गोमिथुनं ददेत् ॥ ७ ॥

इति।

ननु – स्मृत्यन्तरेषु चण्डालीगमने प्रायश्चित्तान्य् अन्यथा स्मर्यन्ते । तत्र कानिचित् आचार्योक्तात् प्रायश्चित्तात् न्यूनानि, कानिचिद् अधिकानि । यथाह सुमन्तुः- “मातृष्वसृपितृष्वसृस्नुषाभगिनी-भागिनेयीगोचण्डालीनाम् अभिगमने तप्तकृच्छ्रम्” इति ।

तद् एतद् अकामतः प्रवृत्तस्य रेतःसेकात् प्राङ्निवृत्तौ द्रष्टव्यम् । यत् त्व् अङ्गिरसोक्तम्,

पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
मासोप्वासं कूर्वीत चान्द्रायणम् अथापि वा ॥

[३०८] इति । तत्र चान्द्रायणं कामतः प्रवृत्तस्य रेतःसेकात् प्राङ्गनिवृत्तस्याशक्तस्यावगन्तव्यम् । शक्तस्य तु मासोपवासः । गोद्वयदक्षिणायुक्तस्य प्राजापत्यद्वयस्य मूलवचनोक्तस्य प्रत्याम्नायकल्पनाद्वारेण मासोपवाससमानत्वाद् अयम् एव विषयः । यद् अपि शङ्खेनोक्तम् ।

अकामतस् तु यो विप्रश् चण्डालीं यदि गच्छति ।
तप्तकृच्छ्रेण शुध्येत प्राजापत्यद्वयेन वा ॥
कामतस् तु यदा विप्रश् चण्डालीं यदि सेवते ।
चान्द्रायणेन शुध्येत प्राजापत्यद्वयेन च ॥ इति । (शङ्स्म् १७।१९–२०)

एतन्मूलवचनेन समानविषयम् । यमस् तु विषयव्यवस्थापूर्वकं पक्षद्वयम् आह ।

चण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दम् आचरेत् ज्ञानाद् अज्ञानाद् ऐन्दवद्वयम् ॥ इति । (यस्म् ६।७)

एतच् चोभयं रेतःसेकपर्यन्तसकृद्गमनविषये । यत् तु गौतमेनोक्तम्- “अन्त्यावसायिनीगमने कृच्छ्राब्दः । अमत्या द्वादशरात्रम्” (ग्ध् २४।३८–३९) [३०९] इति, तत्राब्दकृच्छ्रो यमोक्तसमानविषयः । द्वादशरात्रं तु सुमन्तुप्रोक्ततप्तकृच्छ्रसमान-विषयम् । यद् अप्य् अङ्गिरसोक्तम्,

अन्त्यजानां तु गमने भोजने च प्रमापणे ।
पराकेण विशुद्धिः स्याद् भगवान् अङ्गिराब्रवीत् ॥ (आङ्स्म् ५।१९)

इति, तद् अपि तप्तकृच्छ्रसमानविषयम् । यद् अपि वसिष्ठेनोक्तम्- “द्वादशरात्रम् अब्भक्षो यो द्वादशरात्रम् उपवसेत् । अश्वमेधावभृथं वा गच्छेत् । एतेनैव चाण्डालीव्यवायो व्याख्यातः” (वध् २३।३८–४१) इति, एतद् अपि बृहद्यमोक्तचान्द्रायणद्वयसमानविषयम् । यच् च संवर्तेनोक्तम्,

यश् चण्डालीं द्विजो गच्छेत् कथंचित् काममोहितः ।
त्रिभिः कृच्छ्रैर् विशुध्येत प्राजापत्यानुपूर्वकैः ॥

इति — प्राजापत्यतप्तकृच्छातिकृच्छ्राणि पाजापत्यानुपूर्वकाणि — एतच् चान्द्रायणद्वयेन समानविषयम् । यद् अपि मनुनोक्तम्,

[३१०] यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुग् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥ (म्ध् ११।१७८)

इति — वृषली चण्डाली —, तथा च स्मृत्यन्तरे,

चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका ।
ऊढा च समगोत्रेण वृषल्यः पञ्च कीर्तिताः ॥

इति, तद् एकदिनाभ्यासविषयम् । यद् अपि मनुनोक्तम्,

रेतःसेकः स्वयोन्यासु कुमारीष्व् अन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ (म्ध् ११।५८)

इति, याज्ञवल्क्येनापि,

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ (य्ध् ३।२३१)

[३११] इति, एतच् च पक्षाभ्यासविषयम् । यच् च मनुनोक्तम्,

गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ (म्ध् ११।१७०)

इति, एतच् च मासाभ्यासविषयम् । यच् च यमेनोक्तम्,

रेतः सिक्त्वा कुमारीषु चण्डालीष्व् अन्त्यजासु च ।
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥ (यस्म् ५।४१)

इति, एतच् च संवत्सराभ्यास्विषयम् ॥ ८ ॥

**अथ मातृगमनप्रायश्चित्तम् उच्यते **

यद्य् अप्य् एतन् नोपपातकम्, तस्यातिपातकेषु पाठात्, तथाप्य् अगम्यागमनावान्तरभेदवद् अत्राभिधानम् । अत्राज्ञानकृते मात्रादिगमने प्रायश्चित्तम् आह ।

मातरं यदि गच्छेत् तु भगिनीं स्वसुतां तथा ।
एतास् तु मोहितो गत्वा त्रीणि कृच्छ्राणि संचरेत् ॥ ८ ॥
चान्द्रायणत्रयं कुर्यात् शिश्नच्छेदेन शुध्यति । इति ।

मातरं जननीम्, इतरासां मातॄणाम् “पितृदारान् समारुह्य” (यस्म् १०।२१) [३१२] इति वक्ष्यमाणत्वात् । भगिन्य् एकोदरा, तस्या एव मुख्यत्वात् । तथा स्वसुतेति सवर्णायां भार्यायाम् उत्पन्ना । तत्र त्रीणि प्रायश्चित्तानि । प्राजापत्यत्रयम् एकम्, चान्द्रायणत्रयं द्वितीयम्, शिश्नच्छेदस् तृतीयम् । एतच् च मैथुनप्रकारभेदविषयतया योजनीयम् । मैथुनं चाष्टविधम्,

स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषण्म् ।
संकल्पो ऽध्यवायश् च क्रियानिवृत्तिर् एव च ॥
एतन् मैथुनम् अष्टाङ्गं वदन्ति ब्रह्मवादिनः ।
विपरीतं ब्रह्मचर्यम् एतद् एवाष्टलक्षणम् ॥ (ब्रवैपु २।१९।२६–२७)

इति स्मरणात् । तत्राद्यं व्रतम् अल्पत्वात् अप्रवर्तकस्मरणादिपञ्चविधापराधविषयम् । द्वितीयं तु पूर्वस्मात् गुरुत्वात् प्रवर्तकसंकल्पाध्यवसायविषयम् । तृतीयं त्व् अतिमहत्वात् क्रियानिर्वृत्तिविषायम् ।

ननु – मोहित इत्य् अभिधानाद् अकामकृतविषयम् इदम् । तथा च संकल्पाध्यवसायौ तत्र न संभवतः इति चेत् ।

मैवम् – मदान्धकारादौ मातेयम् इत्य् अज्ञात्वा गविष्याम्य् एताम् इति संकल्पाध्यवसायसंभवात् । यद् वा मातेयम् इति ज्ञाते ऽपि प्रत्यवायगौरवम् अज्ञात्वा प्रवृत्तस्य संकल्पाध्यवसायसंभवात् । न च – मातरि भगिन्यां च समानं प्रायश्चित्तम् अयुक्तम् इति वाच्यम्, [३१३] भगिन्याम् आवृत्तिविषयत्वस्य कल्पनीयत्वात् । शिश्नच्छेदोत्तरकालकर्तव्यं मनुर् आह ।

स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्चलौ ।
नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥ इति । (म्ध् ११।१०४)

उशना अपि- “खट्वाङ्गधारी गुरुतल्पगः सवृषणं शिश्नम् उत्कृत्य नैरृतीं दिशम् अञ्जलिनादाय व्रजेद् आ निपातात् पूतो भवतीति” (उष्स्म् १।१९) इति । शङ्खलिखिताव् अपि- “क्षुरेण शिश्नवृषणाव् उत्कृत्यादायावेक्षमाणो व्रजेत्” इति । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते तत्रैवामरणान्तं तिष्ठेत् । तद् आह वसिष्ठः- “सवृषणं शिश्नम् उत्कृत्याञ्जलाव् आधाय दक्षिणाभिमुखो गच्छेत् । यत्रैव प्रहितस् तत्रैव तिष्ठेद् आ प्रलयम्” इति (वध् २०।१३) । अज्ञानकृताभ्यासाज्ञानकृतस्कृज्जनईगमने ऽपि । पूर्वोक्ताद् अधिकक्लेशोत्पादकं व्रतविशेषं वसिष्ठ आह- “निष्कालको घृताभ्यक्तो गोमयेनाग्निना पादप्रभृत्यात्मानम् अवदाहयन् पूतो भवतीति विज्ञायते” (वध् २०।१४) [३१४] इति । के शिरस्य् अवस्थिता अलकाः केशाः कारकाः । निर्गताः कालका यस्माद् असौ निष्कालकः मुण्डितशिरा इत्य् अर्थः ।

ननु – अस्य वधस्य कामकृतसकृद्गमनविष्यत्वे ततो ऽभ्यधिकक्लेशप्रदस्य वधान्तरस्याभावात् कामकृताभ्यासे प्रायश्चित्तं न स्याद् इति चेत् ।

मैवम्, गोमयस्यैवेषदार्द्रत्वातिशुष्कत्वादिभेदेन चिरक्षिप्रदाहिनो वधभेदस्य कल्पनीयत्वात् । यत् तु शिश्नच्छेदादिवधात् न्यूनप्रयाससाध्यं सूर्म्यादिलिङ्गनादिमरणम् अन्यैर् मुनिभिः प्रदर्शितं तत्रोभयेच्छान्यतरेच्छादिभेदेन विषयव्यवस्था कल्पनीया । तद् आह मनुः ।

गुरुतल्प्य् अभिभाष्यैनस् तप्ते स्वप्याद् अयोमये ।
सूमीं ज्वलन्तीं वाश्लिष्य मृत्य्ना च विशुध्यति ॥
स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्जलौ ।
नैऋतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥ (म्ध् ११।१०३–०४)

[३१५] इति । यमो ऽपि ।

गुरुदारावगमनं कृत्वा मोहेन वै द्विजः ।
ज्वलन्तीम् आयसीं शय्यां संविशेद् गुरुतल्पगः ॥
सूर्मीं ज्वलन्तीं वाश्लिष्य मृत्य्ना स विशुध्यति । इति । (यस्म् ५।४३–४४)

याज्ञवल्क्यो ऽपि ।

तप्ते ऽयःशयने सार्धम् आयस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौ नैऋत्यां वोत्सृजेत् तनुम् ॥ इति । (यस्म् ३।२५९)

अङ्गिरा अपि ।

गुरुतल्पी शिलां तप्ताम् आयसीं वा स्त्रियं विशेत् ।
उत्कृत्य वृषणौ वाप् धारयेद् अञ्जलौ स्वयम् ॥
मरणाय तदा पद्भ्यां प्रव्रजेद् दिशम् उत्तराम् ।
शरीरस्य विमोक्षेण मुच्यते कर्मणो ऽशुभात् ॥
ख्यापयन् गुरुतल्पी वा तप्ते चैवायसे स्वपेत् ।
समालिङ्गेत् स्त्रियं वापि तप्तां कार्ष्णायसीं नरः ॥ इति । (अङ्स्म् ३।३७–३९)

तप्ते लोहशयने गुरुतल्पगः शयीत । सूर्मीं ज्वलन्तीं वाश्लिष्येत् । लिङ्गं वा सवृषणम् उत्कृत्याञ्जलाव् आधाय दक्षिणाप्रतीचीं व्रजेद् अजिह्मम् आ शर्तीरनिपातनात् । मृतः शुध्यति – [३१६] इति । बौधायनो ऽपि- “गुरुतल्पगस् तप्ते लोहशयने शयीत । ज्वलन्तीं वा सूर्मीम् आश्लिष्यात् । लिङ्गं वा सवृषणं परिवास्याज्जलाव् आधाय दक्षिणाप्रतीच्योर् अन्यतरेण गच्छेद् आ निपातात्” इति (ब्ध् २।१।१३।१५) । तत्र तयोर् इच्छतोः संयोगे तप्तलोहशयनम् । स्त्रिया प्रोत्साहितस्य ज्वलत्सूर्म्यालिङ्गनम् । आत्मना प्रोत्साहितायां तु गमने सवृषणलिङ्गोत्कर्तनादि ॥ ९ ॥

जननीगमने ऽभिहितं यत् प्रयश्चित्तं तत् तद्भगिनीगमने ऽप्य् अतिदिशति ।

मातृष्वसृगमे चैवम् आत्मम्मेढ्रनिकर्तनम् ॥ १० ॥

इति।

एवम् सति सामान्यातिदेशान् मानसे क्रीडादौ वसिष्ठोक्तं व्रतद्वयम् अवगन्तव्यम् । मेढ्रनिकर्तनेन मरणपर्यन्तव्रतम् उपलक्ष्यते । न च – जननीतद्भगिन्योः समानव्रतम् अयुक्तम् इति शङ्कनीयम्, जनन्याम् अकामकृते तद्भगिन्यां कामकृते च समानत्वसंभवात् । उपरितनवचनेन तु “अज्ञानेन” इति विशेषणाद् एतस्य वचनस्य कामकृतविषयत्वम् अवगम्यते ॥ १० ॥

[३१७]

अकामकृते मातृष्वसृगमने प्रायश्चित्तम् आह ।

अज्ञानेन तु यो गच्छेत् कुर्याच् चान्द्रायणद्वयम् ।
दशगोमिथुनं दद्याच् छुद्धिं पाराशरो ऽब्रवीत् ॥ ११ । इति ।

गवोर् धेनुवृषभयोर् मिथुनं गोमिथुनम् । दशसंख्याकं गोमिथुनं दशगोमिथुनम् । विंशतिसंख्याका गाव इत्य् अर्थः ।

ननु – याज्ञवल्क्येन मातृष्वसृगमने गुरुतल्पव्रतम् अतिदिष्टम्-

पितुः स्वसारं मातुश् च मातुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा॥
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (य्ध् ३।२३२–३३)

इति ।

बाढम् । कामकृते गुरुतल्पव्रतम् अस्माभिर् अपि पूर्ववाक्ये दर्शितम् । चान्द्रायणं त्व् अकामकृते इत्य् अविरोधः । एतद् एवाभिप्रेत्य हारीत आह- “पितृव्यस्त्रीगमने स्वसृमातृष्वसृपितृष्वसृगमने कन्यासगोत्रास्वस्त्रीयागमने भागिनेयीगमने चान्द्रायणम्” इति (हास्म् २३।११) । शङ्खलिखिताव् अपि- “एवं मातुलानीमातृष्वसृस्नुषादुहितृगमने तथाचार्यदुहितरि चान्द्रायणम्” [३१८] इति । बृहद्यमो ऽपि ।

चण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् ।
मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥
मातुलानीं प्रव्रजितां सगोत्रां नृपयोषितम् ।
शिष्यभार्यां गुरोर् भार्यां गत्वा चान्द्रायणं चरेत् ॥ इति ।

चतुर्विंशतिमते ऽपि ।

पितृष्वसा मातुलानी श्वश्रूर् मातृषवसा तथा ।
एता गत्वा स्त्रियो मोहाच् चरेच् चान्द्रायणव्रतम् ॥ इति ।

यद्य् अप्य् अकामकृतस्य मूलवचनेन चान्द्रायणद्वयं विंशतिगावश् चाभिहिताः तथापि तस्य रेतःसेकपर्यन्तगमनविषयत्वात् । एकचान्द्रायणवचनानां च रेतसेकात् प्राग् एव निवृत्तौ योजनीयत्वान् न को ऽपि विरोधः । यद् अपि चतुर्विंशतिमते ऽभिहितम्,

पितृव्यभ्रातृभार्यां च भगिनीं मातुर् एव च ।
श्वश्रूम् आरुह्य धात्रीं च तप्तकृच्छ्रं समाचरेत् ॥

इति, यद् अपि संवर्तेनाभिहितम्,

भगिनीं मातुर् आप्तां च स्वसारं चान्यमातृजाम् ।
एता गत्वा स्त्रियो मोहात् तप्तकृच्छ्रं समाचरेत् ॥ (संस्म् १५९)

[३१९] इति, एतद् उभयम् आरोहणपर्यन्तं प्रवृत्तस्य योनिलिङ्गसंबन्धात् प्राङ् निवृत्तौ द्रष्टव्यम् ॥ ११ ॥

जननीव्यतिरितपितृभार्यागमने प्रायश्चित्तम् आह ।

पितृदारान् समारुह्य मातुर् आप्तां तु भ्रातृजाम् ।
गुरुपत्नीं स्नुषां चैव भ्रातृभार्यां तथैव च ॥ १२ ॥
मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् ।
गोद्वयं दक्षिणां दद्यात् शुध्यते नात्र संशयः ॥ १३ ॥

इति।

पितृदाराः जननीव्यतिरिक्ताः पितृभार्या असवर्णाश् च । मातुर् आप्ता मातुः प्रियसखी । भ्रातृजा ज्येष्ठस्य कनिष्ठस्य वा सुता । गुरुशब्दो हि मुख्यया वृत्त्या पितरम् आचष्ट्ते । तथा च मनुः ।

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरु उच्यते ॥ इति । (म्ध् २।१४२)

याज्ञवल्क्यो ऽपि ।

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति । इति । (य्ध् १।३४)

पितृव्यतिरिक्तः श्रुतोपकार्य् अपि मुख्यो गुरुः । तच् च मनुनैवोक्तम् ।

अल्पं वा बहु वा यस् श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्यात् श्रुतोपक्रियया तया ॥ (म्ध् २।१४९)

[३२०] इति । व्यासस् तु मुख्यामुख्यगुरून् सर्वान् संगृह्य दर्शयति- “गुरवो मातृपितृपत्याचार्या विद्यादातृज्येष्ठभ्रातृऋत्विजो भयत्रातान्नदाता च” इति । एवं च सत्य् अत्र पितृदारान् इति पितुः पृथग् उपादानात् तद्व्यतिरिक्ताचार्यादिर् एव गुरुपत्नीर् इत्य् अत्रानेन गुरुशब्देन विवक्षितः । स्नुषादयः प्रसिद्धाः । अकामतः सकृद् गत्वा सदक्षिणं प्राजापत्यत्रयं चरेत् । कामतस् त्व् अग्निप्रवेशः । तद् उक्तं चतुर्विंशतिमते ।

मातरं गुरुपत्नीं च स्वसारं स्वसुतां तथा।
गत्वा तु प्रविशेद् अग्निं नान्या शुद्धिर् विधीयते ॥ इति ।

विष्णुस्मृताव् अपि- “मातृगमनं दुहितृगमनं स्नुषागमनम् इत्य् अतिपातकानि ।

अतिपातकिनस् त्व् एते प्रविशेयुर् हुताशनम् ।
न ह्य् अन्या निष्कृतिस् तेषां विद्यते हि कथंचन ॥ इति । (विध् ३४।१–२)

यत् तु शङ्केन,

अधःशायी जटाधारी पर्णमूलफलाशनः ।
एककालं समश्नानो वर्षे तु द्वादशे गते ॥
[३२१] रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः ।
व्रतेनैतेन शुध्यन्ति महापातकिनस् त्व् इमे ॥ (शङ्स्म् १७।१–३)

इति, तत् सवर्णोत्तमवर्णपितृदारगमने अकामतो द्रष्टव्यम् । यच् च संवर्तेनोक्तम्,

पितृदारान् समारुह्य मातृवर्जं नराधमः ।
भगिनीं मातुर् आप्तां च स्वसारं वान्यमातृजाम् ॥
एतास् तिस्रः स्त्रियो गत्वा तप्तकृच्छ्रं समाचरेत् ॥ (संस्म् १५९)

इति, तद् धीनवर्णगुरुदारेषु रेतःसेकाद् अर्वाग् द्रष्टव्यम् । यच् च याज्ञवल्क्येनोक्तम्,

प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन् मासान् अभ्यस्यन् वेदसंहिताम् ॥ (य्ध् ३।२६०)

इति, एतत् त्रैवार्षिकप्राजापत्यव्रतं ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने द्रष्टव्यम् । यदा तु गुरुपत्नीम् असवर्णां व्यभिचारिणीम् अबुधिपूरं गच्छति तदा वेदजपसहितत्रैमासिकचान्द्रायणम् द्रष्टव्यम् । यच् च व्याघ्रेनोक्तम्,

[३२२] कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्रातिकृच्छ्रकम् ।
चरेन् मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥

इति, तत्र बुद्धिपूर्वं सकृद्गमने उभयोर् इच्छातः प्रवृत्ते अतिकृच्छ्रः । तया प्रोत्साहितस्य कृच्छ्रः । स्वेनैव प्रोत्साहितायां कृच्छ्रातिकृच्छ्रः । तत्राप्य् अभ्यासे मरणान्तिकम् एव । यथाह देवलः ।

मत्या गत्वा पुनर् भार्यां गुरोः क्षत्रसुतां द्विजः ।
अण्डाभ्यां वर्जितं लिङ्गम् उत्कृत्य च मृतः शुचिः ॥ इति ।

अबुद्धिपूर्वे सकृद्गमने कण्वोक्तं द्रष्टव्यम् ।

चान्द्रायणं तप्तकृच्छ्रम् अतिकृच्छ्रं तथैव च ।
सकृद् गत्वा गुरोर् भार्याम् अज्ञानात् क्षत्रियां द्विजः ॥ इति ।

तत्राप्य् उभयोर् इच्छातः प्रवृत्ते तप्तकृच्छ्रम् । तया प्रोत्साहितस्यातिकृच्छ्रम् । स्वेन प्रोत्सितायां चान्द्रायणं द्रष्टव्यम् । अभ्यासे तु जातूकर्ण्यः ।

गुरोः क्षत्रसुतां भार्यां पुनर् गत्वा त्व् अकामतः ।
वृषणमात्रम् उत्कृत्य शुध्येच् जीवन् मृतश् च सः ॥ इति ।

वैश्यायां बुद्धिपूर्वे सकृद् गमने कण्व आह ।

तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः ।
भार्यां वैश्यां सकृद् गत्वा बुद्ध्या मासं चरेत् द्विजः ॥ इति ।

तत्राप्य् उभयोर् इच्छातः प्रवृत्ते तप्तकृच्छ्रम् । तया प्रोत्साहितस्य सान्तपनम् । आत्मना प्रोत्सितायां पराकः । अभ्यासे लिङ्गस्याग्रच्छेदः कार्यः । तथाह लौगाक्षिः ।

गुरोर् वैश्यां पुनर् गत्वा गत्वा चापि पुनः पुनः ।
लिङ्गाग्रं छेदयित्वा तु ततः शुध्यति किल्बिषात् ॥

[३२३] इति । अस्माद् एव ज्ञापकाद् अभ्यासे यद् उक्तं गुरुतल्पप्रायश्चित्तं तद् एव बहुशो ऽभ्यासे ऽपि द्रष्टव्यम् । अबुद्धिपूर्वके सकृद् गमने प्रजापतिर् आह ।

पञ्चरात्रं तु नाश्नीयात् सप्ताष्टौ वा तथैव च ।
वैश्यां भार्यां गुरोर् गत्वा सकृद् अज्ञानतो द्विजः ॥ इति । (=म्ध् ३।४०)

तत्राप्य् उभयोर् इच्छातः प्रवृत्तौ सप्तरात्रम् । तया प्रोत्साहितस्य पञ्चरात्रम् । आत्मना प्रोत्साहितायाम् अष्टरात्रम् इति । अभ्यासे त्व् आमरणान्तं ब्रह्मचर्याचरणम् । तद् आह हारीतः ।

अभ्यस्य विप्रो वैश्यायां गुरोर् अज्ञानमोहितः ।
स षडङ्गं ब्रह्मचर्यं संचरेद् यावदायुषम् ॥ इति । (हार्स्म् २१।२९)

शूद्रागमने बुद्धिपूर्वे जाबालिर् आह ।

अतिकृच्छ्रं तप्तकृच्छ्रं पराकं च तथैव च ।
गुरोः शूद्रां सकृद् गत्वा बुद्ध्या विप्रः समाचरेत् ॥ इति ।

तत्राप्य् उभयोर् इच्छातः प्रवृत्तौ तप्तकृच्छ्रम् । तयैव प्रोत्सितस्यातिकृच्छ्रम् । आत्मना प्रोत्साहितायां प्राक इति द्रष्टव्यम् । अभ्यासे तु द्वादशवर्षं ब्रह्मचर्यं कर्तव्यम् । तथाह उपमन्युः ।

पुनः शूद्रां गुरोर् गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यं स दुष्टात्मा संचरेद् द्वादशीह् समाः ॥

[३२४] इति । अज्ञाने दीर्घतमा आह ।

प्राजापत्यं सान्तपनं सप्तरात्रोपवासनम् ।
गुरोः शूद्रां सकृद् गत्वा चरेद् विप्रः समाहितः ॥ इति ।

तत्राप्य् उभयोर् इच्छातः प्रवृत्तौ सान्तपनम् । तया प्रोत्साहितस्य प्राजापत्यम् । आत्मना प्रोत्साहितायां सप्तरात्रोपवास इति । अभ्यासे तु मनुनोक्तं द्रष्टव्यम् ।

चान्द्रायणं वा त्रीन् मासान् अभ्यसेन् नियतेन्द्रियः ।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ इति । (म्ध् ११।१०६)

साधारणस्त्रियां गुरुतल्पदोषो नास्तीत्य् आह व्याघ्रः ।

जात्युक्तं पारदार्यं वा गुरुतल्पत्वम् एव च ।
साधारणस्त्रियां नास्ति कन्यादूषणम् एव च ॥ इति ।

यत् तु नारदेनोक्तम्,

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ।
दुहिताचार्यभार्या च सगोत्रा शरणागता ॥
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ।
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ॥ (न्स्म् १२।७३–७५)

इति, तद् एतद् अकामतो ऽभ्यासे कामतः सकृद् गमने च द्रष्टव्यम् । यच् च वसिष्ठेनोक्तम्- [३२५] “सखिसयोनिसगोत्राशिष्यभार्यासु स्नुषायां गवि गुरुतल्पसमानम्” (वध् १।२३) इति, यच् च मनुनोक्तम्,

गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अत्यन्तजासु च ॥

इति, यद् अपि व्याघ्रेण,

आश्रितस्यापि विदुष आहिताग्नेश् च योगिनः ।
आचार्यस्य च राज्ञश् च भार्यां प्रव्रजितां तथा ॥
नप्त्रीं पुत्रीं च पौत्रीं च सखीं मातुस् तथैव च ।
पितुः सखीं तथा गत्वा गुरुतल्पव्रतं चरेत् ॥

इति, संवर्तेनापि,

पितृव्यदारगमने भ्रातृभार्यागमे तथा ।
गुरुतल्पव्रतं कुर्यान् निष्कृतिर् नान्यथा भवेत् ॥ (संस्म् १५८)

इति, याज्ञवल्क्येनापि,

पितृष्वसारं मातुश् च मातुलानीं स्नुषाम् अपि ।
[३२६] मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (य्ध् ३।२३२–३३)

इति, तान्य् एतानि वचनानि नारदवचनवद् व्यवस्थापनीयानि । यानि तूक्तविषय एव न्यूनप्रायश्चित्तानि चान्द्रायणादीनि तानि संबन्धकनीयस्त्वम् आश्रित्य योजनीयानि । तच् च संबन्धकनीयस्त्वं सुमन्तुना प्रदर्शितम्- “पितृपत्न्यः सर्वा मातरः । तद्भ्रातरो मातुलाः । तद्भगिन्यश् च मातृष्वसारः । भगिनीसपत्न्यश् च भगिन्यः । तदपत्यं भागिनेयम् । अतो ऽन्यथा सङ्करकारणानि कृत्वायाज्याः पतिताश् च भवन्ति” इति । अत्रातिदेशिकव्यपदेशदर्शनात् प्रायश्चित्ताल्पत्वं सिध्यति । एतद् एवाभिप्रेत्य संवर्त आह ।

गुरोर् दुहितरं गत्वा स्वसारं पितुर् एव च ।
तस्या दुहितरं चैव चरेत् चान्द्रायणं व्रतम् ॥
सनाभिनीं मातुलानीं स्नुषां मातुः सनाभिनीम् ।
गच्छन्न् एताः स्त्रियो मोहात् पराकेण विशुध्यति ॥
सखिभार्यां समारुह्य श्वश्रूं चैव हि मानवः ।
[३२७] अहोरात्रोषितो भूत्वा तप्तकृच्छ्रद्वयं चरेत् ॥
कुमारीगमने चैव व्रतम् एतत् समादिशेत् ॥ इति । (संस्म् १५६–६२)

सुमन्तुर् अपि- “मातृपितृष्वसृस्नुषाभगिनीभागिनेयीगोचण्डालीगमनेषु तप्तकृच्छ्रत्रयं सान्तपनं च” इति । चतुर्विंशतिमते ऽपि ।

भ्रातुश् चैव कनिष्ठस्य भार्यां गत्वा तु कामतः ।
सान्तपनं प्रकुर्वीत कृच्छ्रद्वयम् अथापि वा ॥
मातुश् च स्वस्रियां गत्वा पितृव्यतनयां तथा ।
तप्तकृच्छ्रं प्रकुर्वीत षड्रात्रं तत्सुतासु च ॥
गुरोर् दुहितरं गत्वा पराकं तु समाचरेत् ।
भागिनेयीं द्विजो गत्वा चरेच् चान्द्रायणम् व्रतम् ॥
मातुलस्य सुतां गत्वा पितुश् च स्वस्रियां तथा ।
प्राजापत्यं प्रकुर्वीत हारीतवचनं तथा ॥
[३२८] मातुश् च स्वस्रियस्यैव भार्यां गत्वा तु कामतः ।
पितृव्यतनयस्यैव सपादं कृच्छ्रम् आचरेत् ॥
दौहित्रीं पुत्रतनयां चरेच् चान्द्रायणं व्रतम् ।
तत्सुतां च स्नुषां गत्वा पराकं तु समाचरेत् ॥
चरेच् चान्द्रायणं विप्रो गत्वोपाध्याययोषितम् ।
आचार्यस्य पराकं तु बौधायनवचो यथा ॥
संबन्धिनः स्त्रियं गत्वा सपादं कृच्छ्रम् आचरेत् ।
विधवागमने कृच्छ्रम् अहोरात्रसमन्वितम् ॥
व्रतस्यागमने कृच्छ्रं सपादं तु समाचरेत् ।
सखिभार्यां समारुह्य ज्ञातिस्वजनयोषितम् ॥
स कृत्वा प्राकृतं कृच्छ्रं पादकृच्छ्रं ततः पुनः ।
कुमारीगमने विप्रश् चरेच् चान्द्रायणव्रतम् ॥
पतितां तु द्विजो गत्वा तद् एव व्रतम् आचरेत् । इति ।

अत्र प्रोक्तेषु सर्वेषु व्रतेषु गौरवलाघवे परीक्ष्य यथायथं बुद्धिपूर्वाबुद्धिपूर्वाभ्यासानभ्यासादिविषयत्वं योजनीयम् । मूलवचनपठितपितृदारादि-व्यतिरिक्तपरदारगमने व्याघ्रेणोक्तं द्रष्टव्यम् ।

ब्राह्मणो ब्राह्मणीं गच्छेद् अकामां यदि कामतः ।
कृच्छ्रं चान्द्रायणं कुर्याद् अर्धम् एव प्रमादतः ॥
अर्धम् एव सकामायां तप्तकृच्छ्रं सकृद्गतौ ।
अर्धम् अर्धं नृपादीनां दारेषु ब्राह्मणश् चरेत् ॥
[३२९] एतद् व्रतं चरेत् सार्धं श्रोत्रियस्य परिग्रहे ।
अश्रोत्रियश् चेद् द्विगुणम् अगुप्ताम् अर्धम् एव च ॥ इति ।

कण्वो ऽपि ।

शूद्रदारान् गतो विप्रो ह्य् अतिकृच्छ्रं समाचरेत् ।
चान्द्रायणं विशो राज्ञः समं च ब्राह्मणव्रतम् ॥ इति ।

यदि च ब्राह्मणेनैव चातुर्वर्ण्यप्रसूतासु क्रमेण निविष्टं तदानीं ब्राह्मणस्य ब्राह्मणीगमने यद् उक्तं तद् एव पादहीनं क्षत्रियादिगमने द्रष्टव्यम्, व्याघ्रवचनात्,

विप्रेण वै निविष्टाश् चेच् चातुर्वर्ण्यप्रसूतयः ।
क्रमेण पादशो हीनं व्रतं तासु गतश् चरेत् ॥ इति ।

अयम् एव न्यायः क्षत्रियादिपरिगृहीतास्व् अपि द्रष्टव्यः । ब्राह्मणभार्यां शूद्रां ब्राह्मणो गत्वा प्राजापत्यं कुर्यात्, वसिष्ठवचनात्- “ब्राह्मणश् चेद् अप्रेक्षापूर्वकं ब्राह्मणदारान् अभिगच्छेत् निवृत्तधर्मकर्मणः कृच्छ्रः अनिवृत्तधर्मकर्मणो ऽतिकृच्छ्रः” (वध् २१।१६) [३३०] इति । इदम् अबुद्धिपूर्वे सकृद्गमने । बुद्धिपूर्वे तु द्विगुणम्, “अर्धम् एव प्रमादतः” इति लिङ्गात् । ब्राह्मणस्य क्षत्रियादिभार्यागमने यद् उक्तं तद् एव क्षत्रियादीनां स्वजातिभार्यागमने द्रष्टव्यम् । कुतः,

विप्रो नृपस्य भार्यायां यत् करोति समागमे ।
तद् एव क्षत्रियस्यापि कुर्याद् अतैव संगमे ॥ (प्रस्म् ३।६९)

इति प्रजापतिधर्मलिङ्गात् । गर्भपर्यन्ते परदारगमने यम आह ।

वर्षे द्वे परदारेषु त्रीणि श्रोत्रियदारके । इति । (यस्म् ५)

प्रातिलोम्येन परदारगमने संवर्त आह ।

कथंचित् ब्राह्मणीं गच्छेत् क्षत्रियो वैश्य एव वा ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥
शूद्रस् तु ब्राह्मणीं गत्वा कथंचित् काममोहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥ (संस्म् १६६–६७)

[३३१] इति । एतद् अत्यन्तव्यभिचारिब्राह्मणीविषयम्, इतरविषये वधस्मरणात् । तथा च वसिष्ठः ।

शूद्रश् चेद् ब्राह्मणीम् अभिगच्छेद् वीरणैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां कृष्णखरम् आरोप्य महापथम् अनुसंव्राजयेत् । पूता भवतीति विज्ञायते । वैश्यश् चेद् ब्राह्मणीम् अभिगच्छेत् लोहितदर्भैर् वेष्टयित्वा वैश्यम् अग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां गौरखरम् आरोप्य महापथम् अनुसंव्राजयेत् । पूता भवतीति विज्ञायते । राजन्यश् चेद् ब्राह्मणीम् अभिगच्छेत् शरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येत् । ब्राह्मण्याः [३३२] शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां रक्तख्रम् आरोप्य महापथम् अनुसंव्राजयेत् । पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायाम् । शूद्रश् च राजन्यवैश्ययोः । इति (वस्म् २१।१–११) ॥

स्वैरिणीगमने शङ्खलिखिताव् आहतुः- “स्वैरिण्यां वृषल्यां चावकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयेत् । क्षत्रियायां त्रिरात्रोपोषितो यवाढकं दद्यात् । ब्राह्मण्यां त्र्यहम् उपोष्य घृतपात्रं दद्यात्” इति । बन्धकीगमने षट्त्रिंअन्मते प्रायश्चित्तम् उक्तम् ।

ब्राह्मणो बन्धकीं गत्वा किंचिद् दद्यात् द्विजातये ।
राजन्यां हि धनुर् दद्याद् वैश्यां गत्वा तु चैलकम् ॥
[३३३] शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये ।
दिवसोपोषितो वा स्याद् दद्याद् विप्राय भोजनम् ॥ इति ।

बन्ध्कीलक्षणं स्मृत्यन्तरे ऽभिहितम् ।

चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी भवेत् । इति । (यस्म् ५।३७)

इदं च प्रायश्चित्तं गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ यद्विशेषेण प्रायश्चित्तम् उक्तं तद् एव तत्र द्विगुणं कुर्यात् । तद् आह उशनाः ।

गमने तु व्रतं यत् स्याद् गर्भे तद्द्विगुणं चरेत् । इति । (उष्स्म् १।३७)

शूद्र्यां गर्भम् आदधतश् चतुर्विंशतिमते विशेष उक्तः- “वृषल्याम् अभिजातस् तु त्रीणिवर्षाणि चतुर्थकालसमये सक्तून् भुञ्जीत” इति । गर्भाद् अर्वाक् तु तत्रैवाभिहितम् ।

शूद्राणां हीनजातीनां स्त्रियं गत्वा तु कामतः ।
प्राजापत्यं प्रकुर्वीत इष्टिं वा वारुणीं द्विजः ॥ इति ।

पुल्कस्यासिगमने संवर्त आह ।

पुल्कसीगमनं कृत्वा कामतो ऽकामतो ऽपि वा ।
कृच्छ्रं चान्द्रायणं कुर्यात् ततो मुच्येत किल्बिषात् ॥
[३३४] नटीं शौलूषकीं चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥ इति । (संस्म् १५०–५१)

यत् तु बृहत्संवर्तः,

रजकव्याधशौलूषवेणुचर्मोपजीविनीः ।
एतास् तु ब्राह्मणो गत्वा चरेच् चान्द्रायणद्वयम् ॥ (बृसंस्म् १।२७)

इति, आपस्तम्बो ऽपि,

म्लेच्छी नटी चर्मकारी रजकी बुरुडी तथा ।
एतासु गमनं कृत्वा चरेच् चान्द्रायणद्वयम् ॥ (आप्स्म् २।२६)

इति, तद् अभ्यासविषयम् । यच् च शातातपेन,

कैवर्तीं रजकीं चैव वेणुचर्मोपजीविनीम् ।
प्राजापत्यविधानेन कृच्छ्रेणैकेन शुध्यति ॥ (शास्म् ३।११)

इति — चर्मोपजीविनीं गच्छन्न् इति शेषः —, तद् रेतःसेकात् [३३५] प्राङ्निवृत्तिविषयम् । कापालिकस्त्रीगमने यम आह ।

कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ॥ इति । (यस्म् ५।१२)

जातिभेदेन गर्भाधाने चतुर्विंशतिमते ऽभिहितम् ।

ब्राह्मणीगमने कृच्छ्रं गर्भे सान्तपनं चरेत् ।
राज्ञी गर्भे पराकः स्याद् वैश्यागर्भे त्र्यहाधिकम् ॥
शूद्रागर्भे द्विजः कुर्यात् तद्वच् चान्द्रायणव्रतम् ।
चण्डाल्यां गर्भम् आरोप्य गुरुतल्पव्रतं चरेत् ॥ इति ।

विधवागमने चतुर्विंशतिमते ऽभिहितम् ।

विधवागमने कृच्छ्रम् अहोरात्रसमन्वितम् ।
व्रतस्थागमने कृच्छ्रं सपादं तु समाचरेत् ॥ इति ।

मुखमैथुने तु उशन्सोक्तम्- “यस् तु पुनर् ब्राह्मणे धर्मपत्नीमुखे मैथुनं सेवेत स दुष्यति । प्राजापत्येन शुध्यति” इति (उष्स्म् २।३१–३२) । रजस्वलागमने संवर्त आह ।

रजस्वलां तु यो गच्छेद् गर्भिणीं पतितां तथा ।
तस्य पापविशुद्ध्यर्थम् अतिकृच्छ्रो विशोधकः ॥ (संस्म् १६३)

[३३५] इति । आपस्तम्बो ऽपि ।

उदक्यां यदि गच्छेत ब्राह्मणो मदमोहितः ।
प्राजापत्येन शुध्येत ब्राह्मणानां च भोजनात् ॥ इति । (आप्स्म् २।१३)

चतुर्विंशतिमते ऽपि ।

रजस्वलां द्विजो गत्वा पराकं तु समाचरेत् ।
सान्तपनं द्वितीये ऽह्नि प्राजापत्यं परे ऽहनि ॥ इति ।

शातातपो ऽपि- “अनुदकमूत्रपुरीषकरणे श्वकाकस्पर्शने सचैलस्नानं महाव्याहृतिहोमश् च । रजस्वलाभिगमने चैतद् एव” इति (शास्म् १।१९–२०) । वसिष्ठो ऽपि- “रजस्वलादिव्यवाये शुक्लम् ऋषभं दद्यात् कृष्णलिङ्गम्” इति (वध्?) । मनुर् अपि ।

अमानुषीषु गोवर्जम् उदक्यायाम् अयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ (म्ध् ११।१७३)

[३३७] इति । गौतमो ऽपि- “उदक्यागमने त्रिरात्रम्” इति (ग्ध् २४।३२) । शङ्खलिखिताव् अपि- “रजस्वलावधूतादिगमने त्रिरात्रोपवासो घृतप्राशनं च कुर्यात्” इति । अत्र यानि ह्रासवृद्धियुतानि तान्य् उभयेच्छानुअतरेच्छादिविषयत्वेन व्यवस्थापनीयानि । पितृष्वसृसुतादिविवाहे प्रायश्चित्तम् आह सुमन्तुः- “पितृष्वसृसुतां मातुलसुतां मातृसगोत्रां समानार्षेयीं च विवाह्य चान्द्रायणं चरेत् । परित्यज्य चैनां बिभृयात्” इति । शातातपो ऽपि ।

मातुलस्य सुताम् ऊढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव द्विजश् चान्द्रायणं चरेत् ॥ इति । (शास्म् ३।२३)

बौधायनो ऽपि- “सगोत्रां चेद् अमत्योपगच्छेत् मातृवद् एनां बिभृयात् । प्रजातां चेत् कृच्छ्रपादं [३३८] चरित्वा यन् म आत्मनो निन्दाभूत् पुनर् अग्निश् चक्षुर् अदाद् इत्य् एताभ्यां जुहुयात्” इति ।

ननु – पितृष्वसृसुतामातुलसुतयोर् विवाहस्य तत्प्रकरणे अङ्गीकृतत्वाद् अत्र प्रायश्चित्तविधानं विरुद्धम् इति चेत् ।

मैवम्, आसुरादिविवाहोडासुतायाः सापिण्ड्यनिवृत्त्या विवाहानङ्गीकारेण प्रायश्चित्तस्य तद्विषयत्वात् ।

ननु – गुरुतल्पगस्य पूर्वोदाहृतेभ्यो व्रतेभ्यो ऽन्यान्य् अपि कानिचिद् व्रतानि स्मर्यन्ते । तत्र अङ्गिराः ।

महाव्रतं चरेद् वापि दद्यात् सर्वस्वम् एव वा ।
गुर्वर्थे वा मृतो युद्धे मुच्यते गुरुतल्पगः ॥ इति । (अङ्स्म् ६।१३)

सुमन्तुर् अपि- “गुरुदारगामी संवत्सरं कण्टकिनः शाखां [३३९] परिष्वज्याधःशायी त्रिषवणो बैक्षाहारः पूतो भवतीति । अश्वमेधावभृथस्नानेन वा” इति । एतान्य् अपि पूर्वोक्तनीत्या गुरुतारतम्यं तत्पत्नीतारतम्यं तत्संयोगतारतम्यं चोपजीव्य व्यवस्थापनीयानि ॥ १२–१३ ॥

पश्वादिगमनस्य पितृदारादिगमनाद् अर्वाचीनत्वेन तत्राल्पं प्रायश्चित्तम् आह ।

**पशुवेश्यादिगमने महिष्य् उष्ट्री कपीस् तथा । **
खरीं च सूकरीं गत्वा प्राजापत्यव्रतं चरेत् ॥ १४ ॥

इति।

पशुर् अश्वादिः । वेशो भृतिः । तां जीवनहेतुतयार्हतीति वेश्या । यद्य् अपि कपी सूकरी चाल्पदेहत्वान् न मनुष्यैर् गन्तुं योग्या तथापि केषुचिद् देशविशेषेषु प्रौढदेहयोर् अपि तयोः सद्भावात् तदुपगमनविषयम् इदं व्रताभिधानम् । वेश्यायां गर्भात् प्राग् इदम् अवगन्तव्यम् । गर्भे तु कण्व आह ।

प्रसूतो यस् तु वेश्यायां भैक्ष्ययुङ् नियतेन्द्रियः ।
शतसाहस्रम् अभ्यस्य सावित्रीम् एति शुद्धताम् ॥ इति ।

चतुर्विंशतिमते ऽपि पशुगमने प्राजापत्यम् उक्तम् ।

सर्वेषां पशुजातीनां गमने कृच्छ्रम् आचरेत् ।
शुनीं चैव द्विजो गत्वा अतिकृच्छ्रं समाचरेत् ॥

[३४०] इति । वेदविदस् तु तिर्यग्गमने कूष्माण्डकैर् मन्त्रैर् होमः । तद् आह गौतमः- “अमानुषीषु गोवर्जस्त्रीकृते कूष्माण्डैर् घृतहोमः” इति (ग्ध् २३।४०) ॥ १४ ॥

पश्वन्तरेभ्यो गोः प्रशस्तत्वात् तदभिगमने ऽधिकं प्रायश्चित्तम् आह ।

गोगामी च त्रिरात्रेण गाम् एकां ब्राह्मणो ददन् । इति ।

शुध्यतीति शेषः । एतच् च सकृद्गमने रेतःसेकात् प्राङ्निवृत्तौ द्रष्टव्यम् । रेतःसेकान्ते तु सकृद्गमने संवर्त आह ।

नरो गोगमने कुर्यात् कृच्छ्रं सान्तपनं तथा । इति । (संस्म् १५५)

आवृत्तौ जाबालिर् आह ।

तप्तकृच्छ्रं तु गां गत्वा परदारांस् तथैव च ।
इतरेषां पशूनां तु कृच्छ्रपादो विधीयते ॥ इति ।

बहुक्षीरादिगुणवत्यां गवि आवृत्तौ चतुर्विंशतिमते दर्शितम् ।

नरो गोगमनं कृत्वा चरेच् चान्द्रायणव्रतम् ।

[३४१] इति । तत्रैव विषये ऽत्यन्ताभ्यासे विष्णुर् आह- “कुर्यात् परदारगमने गोव्रतम्, गोगमने च । तिर्यग्योनाव् आकाशे ऽप्सु दिवा गोयाने च सवासाः स्नानम् आचरेत्” इति (विध् ५३।१–४) । वेदविद्विप्रसंबन्धिन्यां गवि गुणवत्याम् अत्यन्ताभ्यासे शङ्खलिखिताव् आहतुः- “तिर्यग्योनिषु गोवर्जं सचैलं स्नातो यवसाहारं गोभ्यो दद्यात् । गोष्व् अवकीर्णः संवत्सरं प्राजापत्यं चरेत्” इति । यथोक्तविशेषणविशिष्टायां सवनस्थविप्रसंबन्धिन्यां गवि गौतम आह- “सखिसयोनिसगोत्राशिष्यभार्यासु स्नुषायां गवि च तल्पसमः । अवकर इत्य् एके” इति (ग्ध् २४।१०–११) । गोसंयुक्तशकटादिवाहने ऽवस्थाय स्त्रियं भूञ्जानस्य यम आह ।

यदि गोभिः समायुक्तं यानम् आरुह्य वै द्विजः ।
मैथुनं सेवने तत्र मनुः स्वायंभुवो ऽब्रवीत् ॥
[३४२] त्रिरात्रं क्षपणं कृत्वा सचैलं स्नानम् आचरेत् ।
गोभ्यो यवाढकं दत्वा घृतं प्राश्य विशुध्यति ॥ इति । (यस्म् ५।३–४)

मनुर् अपि ।

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।
गोयाने ऽप्सु दिवा चैव सवासाः स्नानम् आचरेत् ॥ इति । (म्ध् ११।१७४)

पूर्वं महिष्या गमने यत् प्राजापत्यम् उक्तं तद् अभ्यासविषयम् । सकृद्गमने त्व् इदानीम् आह ।

महिष्युष्ट्रीखरीगामी त्व् अहोरात्रेण शुध्यति ॥ १५ ॥

इति।

महिषी च उष्ट्री च खरी च, ता गच्छतीति महिष्युष्ट्रीखरीगामी । स एकोपवासेन शुध्यति इति ।

॥ १५ ॥

अथोत्तमजातिप्रसूताया नार्याश् चण्डालस्ंपर्के प्रायश्चित्तं वक्तव्यम् । तस्य चापद्विषयत्वम् अभिप्रेत्यापद्विशेषानुवादेन तत्र तावत् पुरुषकर्तव्यम् आह ।

डामरे समरे वापि दुभिक्षे वा जनक्षये ।
**बन्धिग्राहे भयार्त्तौ वा सदा स्वस्त्रीं निरीक्षयेत् ॥ १६ ॥ **

[३४३] इति । डामरः परसैन्यकृतोपद्रवादिः । समरः सेनयोर् युद्धम् । दुर्भिक्षं वृष्ट्यभावादिना अशनाभावः । जनक्षयः मारिकादेवतानिमित्तैः प्रचुरैः रोगविशेषैः बहूनां प्रजानां मरणम् । बन्दिग्राहो बलात्कारेण स्त्रीणाम् अपहारः । भयार्त्तिश् चोरराजादिकृत उपद्रवः । एवंविधासु आपत्सु पुरुषः स्वप्राणरक्षार्थ पलायमानो न स्त्रियम् उपेक्षेत । किं तु तस्या अपि यथा रक्षा भवति तथा निरीक्षणं कुर्यात् ॥ १६ ॥

यदा पुरुषो रक्षितुम् अशक्तः तदानीम् आपन्नायाः स्त्रियाः कथंचिच् चण्डालसंपर्के किं कर्तव्यम् इत्य् अत आह ।

चण्डालैः सह संपर्कं या नारी कुरुते ततः ।
विप्रान् दश वरान् कृत्वा स्वकं दोषं प्रकाशयेत् ॥ १७ ॥
आकण्ठसंमिते कूपे गोमयोदककर्दमे ।
तत्र स्थित्वा निराहारा त्व् अहोरात्रेण निष्क्रमेत् ॥ १८ ॥
सशिखं वपनं कृत्वा भुञ्जीयाद् यावकौदनम् ।
त्रिरात्रम् उपवासित्व् त्व् एकरात्रं जले वसेत् ॥ १९ ॥
शंखपुष्पीलतामूलं पत्रं वा कुसुमं फलम् ।
सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज् जलम् ॥ २० ॥

[३४४] एकभक्तं चरेत् पश्चाद् यावत् पुष्पवती भवेत् ।

व्रतं चरति तद् यावत् तावत् संवसते बहिः ॥ २१ ॥

इति।

वरान् “वेदवेदाङ्गवित्” इत्यादिप्रोक्तगुणविशिष्टान् । तादृशान् दशसंख्याकान् विप्रान् परिषदं कृत्वा तेषाम् अग्रे स्वकीयं पापम् अवञ्चनेन निवेदयेत् । यद् वा “चातुर्वेद्य” इत्यादिवचने प्रोक्तानां दशानां विप्राणां अग्रे निवेदयेत् । ततस् तैर् अनुज्ञाता व्रतम् एवं समाचरेत् । कण्ठप्रमाणं कूपं खात्वा सोदकेन गोमयेन तम् आपूर्य तत्रैकं दिनं निरन्तरम् अवस्थाप्योपोष्य परेद्युर् निर्गच्छेत् । निर्गत्य च यावकान्नं भुञ्जीत । ततो दिनत्रयम् उपोष्य चतुर्थं दिनम् आकण्ठजले स्थित्वा पञ्चमे शङ्खपुष्पीमूलादिभिः पञ्चभिः सुवर्णेन पञ्चगव्येन च क्वथितं जलं पिबेत् । ततः षष्ठदिनम् आरभ्य यावद् ऋतुदर्शनम् एकभक्तं दिने चरेत् । व्रतदिनेषु न गृहे ऽवतिष्ठेत । किं तु बहिर् एव निवसेत् ॥ १७–२१ ॥

[३४५]

यथोक्तव्रताचरणानन्तरकर्तव्यम् आह ।

प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
गोद्वयं दक्षिणं दद्याच् छुद्धिं पाराशरो ऽब्रवीत् ॥ २२ ॥

इति।

अयं च दक्षिणाशिरस्को व्रतविशेषः स्मृत्यन्तरे ऽपि दर्शितः ।

चण्डालेन तु संपर्कं यदि गच्छेत् कथंचन ।
सशिखं वपनं कृत्वा भुञ्जीयाद् यावकौदनम् ॥
त्रिरात्रम् उपवासः स्याद् एकरात्रं जले वसेत् ।
आत्मना संमिते कूपे गोमयोदककर्दमे ॥
तत्र स्थित्वा निराहारा त्रिरात्रं तु ततः क्षिपेत् ।
शङ्खपुष्पीलतामूलं पुष्पं वा कुसुमं फलम् ॥
क्षीरं सुवर्णसंमिश्रं क्वाथयित्वा ततः पिबेत् ।
एकभक्तं चरेत् पश्चात् यावत् पुष्पवती भवेत् ॥
बहिस् तावच् च निवसेद् यावच् चरति सा व्रतम् ।
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ॥
गोद्वयं दक्षिणां दद्यात् शुद्धिं स्वायंभुवो ऽब्रवीत् ॥

इति, तद् एतद् अकामकृतविषयम् । कामकृते तु सकृद्गमने ऋष्यशृङ्ग आह ।

संपृक्ता स्याद् अथान्त्यैर् या सा कृच्छ्राब्दं समाचरेत् ।

[३४६] इति । यद्य् आहितगर्भाया एव पश्चाच् चण्डालादिव्यवायः तदा तेनैव विशेष उक्तः ।

अन्तर्वत्नी तु युवतिः संपृक्ता यान्त्य् अयोनिना ।
प्रायश्चित्तं न सा कुर्याद् यावद् गर्भो न निःसृतः ॥
न प्रचारं गृहे कुर्यान् न चाङ्गेषु प्रसाधनम् ।
न शयीत समं भर्त्रा न च भुञ्जीत बान्धवैः ॥
प्रायश्चित्तं गते गर्भे विधिं कृच्छ्रादिकं चरेत् ।
हिरण्यम् अथ वा धेनुं दद्याद् विप्राय दक्षिणाम् ॥ इति ।

यदा तु कामतो ऽन्त्यजसंपर्कं करोति तदा उशनसोक्तं द्रष्टव्यम् ।

अन्त्यजेन तु संपर्के भोजने मैथुने कृते ।
प्रविशेत् संप्रदीप्ताग्नौ मृत्युना सा विशुध्यति ॥ इति । (उष्स्म् २।६)

॥ २२ ॥

रेतःसेकान्तस्य चण्डालगमनस्य प्रायश्चित्तम् अभिधाय रेतःसेकात् प्राङ्निवृत्तौ प्रायश्चित्तम् आह ।

चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं व्रतम् ।
यथा भूमिस् तथा नारी तस्मात् तां न तु दूषयेत् ॥ २३ ॥

[३४७] इति । चण्डालगमनस्यात्यन्तजुगुप्सितत्वाद् योषितः परित्याग एव । न तु व्रतेन शुद्धिर् इत्य् आशङ्क्य ताम् आशाङ्कां निवर्तयितुं भूमिदृष्टान्तम् उपन्यस्यति । भूमिर् हि चण्डालादिवासेनोपहतापि खननलेपनादिभिः संशोध्य पुनः स्वीक्रियते । एवं योषिद् अपि चरितव्रता पुनः स्वीकरणीया । न तु तां दूषयेत् । न परित्यजेद् इति यावत् । यद्य् अप्य् अत्र चातुर्वर्ण्यस्येति सामान्येनाभिहितं तथाप्य् एतत् ब्राह्मणीव्यतिरिक्ताविषये सङ्कोचनीयम्, ब्राह्मण्याः संवर्तेन विशेषाभिधानात् ।

चण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा ।
ब्राह्मण्य् अकामतो गत्वा चान्द्रायणचतुष्टयम् ॥
रजकव्याधशैलूषवेणुचर्मोपजीविनः ।
ब्राह्मण्य् एतान् यदा गच्छेद् अकामाद् ऐन्दवत्रयम् ॥ इति । (संस्म् १६७–६८)

॥ २३ ॥

आपत्काले चण्डालवशंगताया नार्या रेतःसेकासेकयोः प्रायश्चित्तम् अभिहितम् । इदानीं आपन्नाया एव बलात् शूद्रादिसंपर्के सति रेतःसेकासेकयोः प्रायश्चित्तद्वयम् आह ।

बन्दिग्राहेण या भुक्ता हत्वा बद्ध्वा बलाद् भयात् ।
कृत्वा सान्तपनं कृच्छ्रं शुध्येत् पाराशरो ऽब्रवीत् ॥ २४ ॥
सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः ।
प्राजापत्येन शुध्येत ऋतुप्रस्रवणेन च ॥ २५ ॥

[३४८] इति । रज्ज्वादिभिर् बध्वा कशादिभिर् ताडयित्वा भयम् उत्पाद्य या बलाद् भुक्ता भवति सा सान्तपनं कृत्वा शुध्येद् इति पराशरस्य मतम् । प्रासादम् आरुह्य प्रेक्षते इत्य् अस्मिन्न् अर्थे “प्रासादात् प्रेक्षते” इति यथा पञ्चमी तथा भयम् उत्पाद्येत्य् अस्मिन्न् अर्थे भयाद् इति पञ्चमी द्रष्टव्या । द्वितीयवचने ऽपि हत्वा बध्वेत्य् अनुषञ्जनीयम् । ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये संवर्त आह ।

ब्राह्मण्यकामाद् गच्छेत् तु क्षत्रियं वैश्यम् एव वा ।
गोमूत्रयावकैर् मासात् तदर्धाच् च विसुध्यति ॥ इति । (बृसंस्म् ५।३०)

षट्त्रिंशन्मते ऽपि- “ब्राह्मणी क्षत्रियवैश्यसेवायाम् अतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषितो ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रार्धं प्राजापत्यम् अतिकृच्छ्रं च । वैश्ययोषितो ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादः कृच्छ्रार्धं प्राजापत्यं च । शूद्रायाः शूद्रसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायाम् अहोरात्रं त्रिरात्रं कृच्छ्रार्धम्” [३४९] इति । यदा त्व् आहितगर्भैव पश्चात् शूद्रादिभिर् व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकाले एव प्रायश्चित्तं कुर्यात् । तथा च स्मृत्यन्तरे ।

अन्तर्वत्नी तु या नारी समेताक्रम्य कामिना ।
प्रायश्चित्तं न कुर्यात् सा यावद् धर्मो न निःसृतः ॥
जाते गर्भे व्रतं पश्चात् कुर्यान् मासं तु यावकम् ।
न गर्भदोषस् तत्रास्ति संस्कार्यः स यथाविधि ॥ इति । (शास्म् ३।७–८)

॥ २४–२५ ॥

योषित्कृतापराधेन न केवलं तस्याः प्रायश्चित्तम् । किं तु तद्भर्तुर् अपीत्य् आह ।

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥ २५ ॥

इति।

यस्य विप्रस्य ब्राह्मण्यादिषु चतसृषु भार्यासु अन्यतमा या काचित् सुरां पिबेत् तस्य विप्रस्य स्त्रीपुंसद्वयात्मकं यत् शरीरं तस्य शरीरस्यार्धं स्त्रीरूपं पतति । स्त्रिया अर्धशरीरत्वं श्रुतिप्रसिद्धम्- [३५०] “अर्धो वा एष आत्मनो यत् पत्नी” इति । तत्र पतितस्यार्धशरीरस्य स्त्रीरूपस्य सुरापानप्रोक्तव्रतव्यतिर्क्तेन स्वल्पव्रतेन निष्कृतिः परिशुद्धिर् न विद्यते । किं तु सुरापानव्रतम् एव तया कार्यम् इत्य् अर्थः । यद् वा पतितं स्त्रीरूपम् अर्धशरीरं यस्य पुरुषस्यासौ पतितार्धशरीरः । तस्य स्वयं सुराम् अपिबतो ऽपि भार्याकृतापराधेन निष्कृतिः परिशुद्धिः कर्माधिकारलक्षणा न विद्यते । अतस् तदधिकारसिद्ध्यर्थं तेन प्रायश्चित्तम् आचरितव्यम् । एतद् एवाभिप्रेत्य मनु-वसिष्ठाभ्याम् एतद् एव वचनं पठितम् । योषित्कृतापराधेन पुरुषस्य यथा प्रत्यवायः तथा पुरुषानुष्ठितधर्मेण योषितो निष्कृतिर् भविष्यतीति न शङ्कनीयम् । यतो याज्ञवल्क्य आह ।

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्रो सूकरी चोपजायते ॥ (य्ध् ३।२५६)

[३५१] इति । वसिष्ठो ऽपि ।

या ब्राह्मणी सुरां पीतवती न तां देवाः पतिलोकं नयन्ति ।
इहैव सा भ्रमति क्षीणपुण्या आस्योल्का भवति शुक्तिका वा ॥ इति । (वध् २१।११)

॥ २६ ॥

पतितार्धशरीरेण पुरुषेण यत् कर्तव्यं प्रायश्चित्तं तद् आह ।

गायत्रीं जपमानस् तु कृच्छ्रं सान्तपनं वरेत् । इति ।

जपमान इति वर्तमानप्रयोगात् यावद् व्रतसमाप्तिस् तावज् जपः कर्तव्य इत्य् अवगम्यते ।

सान्तपनस्यानेकधा भिन्नत्वाद् अत्र विवक्षितं सान्तपनविशेषं दर्शयति ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ २७ ॥
एकरात्रोपवासश् च कृच्छ्रं सान्तपनं स्मृतम् । इति ।

अत्र द्विरात्रं सप्तरात्रं चेति द्विविधं सान्तपनं निर्दिश्यते । तच् चोभयं प्रायश्चित्तकाण्डप्रथमाध्याये याज्ञवल्क्यवचनद्वयोदाहरणेन विशदीकृतम् ॥ २७ ॥

[३५२]

यथा कथंचित् परपुरुषेण संयुज्य तत उपरताया अनुतापं गताया योषितो यथोचितं प्रायश्चित्तं पूर्वत्राभिहितम् । अथानुतापरहिताया दुःसङ्गाद् अनुपरतायास् त्यागम् आह ।

जारेण जनयेद् गर्भं मृते ऽव्यक्ते गते पतौ ॥ २८ ॥
तां त्यजेद् अपरे राष्ट्रे पतितां पापकारिणीम् । इति ।

पत्यौ मृते वा देशान्तरसंचारेणाज्ञाततया गते वा या स्त्री निरङ्कुशा सती जारं स्वीकृत्यापत्यम् उत्पादयति । पापं कर्तुं शीलम् अस्या इति पापकारिणी न कदाचित् पापाद् उपरता । अत एव पतितां तादृशीं स्वराष्ट्राद् उत्सार्य परराष्ट्रे प्रेषयेत् ।

ननु – स्त्रीपरित्यागश् चतुर्विंशतिमते निषिद्धः ।

स्त्रीणां नास्ति परित्यागो ब्रह्महत्यादिभिर् विना ।
तत्रापि गृहमध्ये तु प्रायश्चित्तानि कारयेत् ॥
परित्यक्ता चरेत् पापं बह्व् अल्पं वापि किंचन ।
तत् पापं शतधा भूत्वा बान्धवान् अनुगच्छति ॥
यावन्ति नारीरोमाणि तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि परित्यागी स पच्यते ॥
कुम्भीपाके महाघोरे ज्ञातयः पापकारिणः ।
वसन्ति स्त्रीपरित्यागाद् यावद् आभूतसंप्लवम् ॥
[३५३] पितृमातृपरित्यागी भार्यात्यागी सुहृत्त्यजः ।
असिपत्रवनं सेव्य चण्डालानां शतं व्रजेत् ॥ इति ।

मैवम्, परित्यागनिषेधस्यानुतापितप्रायश्चित्ताधिकारिस्त्रीविषयत्वात्, “प्रायश्चित्तानि कारयेत्” इत्य् अभिधानात्, श्वपाकोपहतानां परित्यागस्य तत्रैवाङ्गीकृतत्वात्-

चतस्र एव संत्याज्याः पतने सत्य् अपि स्त्रियः ।
श्वपाकोपहता या तु भर्तृघ्नी पितृपुत्रगा ॥ इति ।

वसिष्ठो ऽपि ।

चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी तु विशेषेण जुङ्गितोपगता च या ॥ इति । (वध् २१।१०)

जुङ्गितो जुगुप्सितः श्वपाकादिः । याज्ञवल्क्यो ऽपि ।

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ इति । (य्ध् १।७२)

यत् तु मनुनोक्तम्,

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि । (म्ध् ११।१७६)

[३५४] इति, न तत् मूलवचनेन समानविषयम्, भर्तृरहितस्त्रीविषयत्वान् मूलवचनस्य, मनुवाक्ये तु “निरुन्ध्यात्” इति भर्तृकर्तव्यताभिधानात्, तदुपरितनाक्येन प्रायश्चित्ताभिधानाच् च ।

यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ॥
सा चेत् पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।
कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥ इति । (म्ध् ११।१७६–७७)

यद् अपि याज्ञवल्क्येनोक्तम्,

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥ (य्ध् १।७०)

इति, तद् अपि निरुन्ध्याद् इत्य् अनेन मनुवचनेन समानविषयम् । तस्माद् यथोक्तस्य स्त्रीपरित्यागस्य न किंचिद् बाधकम् अस्ति ॥ २८ ॥

“जारेण जनयेत्” इत्य् अनेन प्रमितव्यभिचारवतीं प्रत्यभिहितम् । अथ शङ्कितव्यभिचारां प्रत्याह ।

ब्राह्मणी तु यदा गच्छेत् परपुंसा समन्विता ॥ २९ ॥
**सा तु नष्टा विनिर्दिष्टा न तस्यागमनं पुनः । **

[३५५] इति । स्त्रियास् तावद् रक्षका याज्ञवल्क्येन परिगणिताः ।

रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्धके ।
अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ इति । (य्ध् १।७५)

मनुर् अपि ।

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस् तु स्थाविरे भावे न स्त्री स्वान्तन्त्र्यम् अर्हति ॥ (म्ध् ९।३)
बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
पुत्रस्य स्थाविरे भावे न स्त्री स्वातन्त्र्यम् अर्हति ॥ इति । (म्द् ५।१४८)

अत्र प्रोक्तेभ्यो रक्षकेभ्यः पित्रादिभ्यो व्यतिरिक्तः पुमान् पर इत्य् उच्यते । तेन पुंसा समन्विता प्रीत्यतिशयद्योतकहास्यादिव्यवहारपुरःसरं सम्यगन्विता ब्राह्मणी स्त्री यदा केनचिद् व्याजेन ग्रामान्तरं देशान्तरं वा गत्वा निवसेत् सा नष्टेति विनिर्देश्या बन्धुमध्ये प्रक्यापनीया । न तु तस्याः पुनः स्वगृहागमनम् अस्ति । गृहं प्रत्यागतापि निर्वासनीयेत्य् अर्थः ॥ २९ ॥

परपुरुषेण सह यथोक्तसमन्वयाभावे ऽपि स्वातन्त्र्येण चिरं निर्गता स्त्री परित्याज्येत्य् आह ।

कामान् मोहात् तु या गच्छेत् त्यक्त्वा बन्धून् सुतान् पतिम् ॥ ३० ॥
सातु नष्टा परे लोके मानुषेषु विशेषतः ॥

इति।

बन्ध्वादीनाम् अन्यतमस्य समीपे स्थातव्यम् इति स्त्रीधर्मः । तथा च तद्धर्मप्रकरणे याज्ञवल्क्य आह ।

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ इति । (य्ध् १।७६)

एवं च सति या स्त्री कामाद् वा यथोक्तस्त्रीधर्मापरिज्ञानाद् वा बन्ध्वादीन् परित्यज्य ग्रामान्तरादौ चिरं वस्तुं गच्छेत् सा तु शास्त्रोक्तधर्मोल्लङ्घनात् परलोके नष्टा नरकं प्राप्नोति । अथ कथंचित् कालान्तरे निर्विण्णा प्रायश्चित्तं चरित्वा परलोकं जयेत् तथापि मानुषेषु बन्ध्वादिषु सर्वथा प्रवेशं न लभते – इत्य् अभिप्रेत्य विशेषत इत्य् उक्तम् ॥ ३० ॥

[३५७]

उक्तार्थस्य निमित्तविशेषेणापवादम् आह ।_

मदमोहगता नारी क्रोधात् दण्डादिताडिता ॥ ३१ ॥
अद्वितीया गता चैव पुनर् आगमनं भवेत् । इति ।

मदः पतिश्वशुरादितिरस्कारजनको मानसो दोषः । पत्यादिशुश्रूषा स्त्रीणां परमो धर्म इति एतादृशस्य विवेकस्याभावो मोहः । उक्तदोषद्वयोपेतां नारीं शिक्षयितुं वृद्धाः पत्यादयो दण्डादिभिस् ताडयेयुः तदा व्यथिता सा यथोक्तबन्ध्वादिसहायं विना स्वयम् एकाकिन्य् एव स्वेच्छया यद्य् अपि गच्छेत् तथापि स्वगृहे पुनरागमनं प्राप्नुयाद् इत्य् अर्थः । “भूः प्राप्तौ” इत्य् अस्माद् धातोस् तच्छब्दनिष्पत्तेः । एतच् च मनुनाप्य् अभिहितम् ।

अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ (म्ध् ९।८३)

[३५८] इति ।

ननु – अधिवेदनं निर्गमननिमित्तम् उपन्यस्तम् । मूलवचने तु ताडनम् इति वैषम्यम् इति चेत्,

, तस्याप्रयोजकत्वात्, निर्गमनभ्रंशाभावयोर् उभयत्र तुल्यत्वात् । अतस् तादृशी नारी सान्त्वनादिना केनाप्य् उपायेन गृह एव निरोद्धव्या । यदि कथंचिन् निरोद्धुम् अशक्या तदापि कुलसंनिधौ त्याज्या तद्दोषशान्तिपर्यन्तं बन्धुमध्ये स्थापनीयेति ॥ ३१ ॥

यावत् पुनर् आगमनं भवेद् इत्य् अत्रागमने प्रतीक्षणीयं कालावधिम् आह ।

दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ॥ ३२ ॥
दशाहं न त्यजेन् नारीं त्यजेन् नष्टश्रुतां तथा । इति ।

या ताडिता सती निर्गता, तस्याः पुनर् आगमनप्रतीक्षां दश दिनानि कुर्यात् । दशमे दिने तया गृहे प्राप्ते सति नेयं प्रायश्चित्तभाग् भवति । ऊर्ध्वं तु कुलस्त्री व्यभिचारोचितप्रायश्चित्तभाग् भवति । अतो दशाहमध्ये तदीयव्यभिचाराश्रवणे तां न परित्यजेत् । यदि नष्टत्वेन सा श्रूयते तदा दशाहमध्ये त्व् अकृतप्रायश्चित्तां तां परित्यजेत् ॥ ३२ ॥

अथ नष्टां श्रुत्वापि भर्त्रादयस् तां न परित्यजेयुः तदा तेषां प्रायश्चित्तम् आह ।

भर्ता चैव चरेत् कृच्छ्रं कृच्छ्रार्धं चैव बान्धवाः ॥ ३३ ॥

इति।

स्पष्टार्थः ॥ ३३ ॥

[३५९]

अकृतप्रायश्चित्तानां भर्त्रादीनां गृहे भोजनादिकम् आचरन्न् उपवासेन शुद्ध्यतीय् आह ।

तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति ॥

इति।

स्पष्टम् ।

ननु – या ब्राह्मणी परपुंश समन्विता भवति उक्तस् तस्यास् त्यागः । या तु ताडनेन वा निमित्तान्तरेण वा निर्गच्छन्त्य् अपि न पुरुषान्तरेण समन्वेति तस्याः को नाम दोषः येन दशाहाद् ऊर्ध्वं तस्या अपि त्यागो विधीयते इत्य् अत आह ।

ब्राह्मणी तु यदा गच्छेत् परपुंसा विवर्जिता ॥ ३४ ॥
गत्वा पुंसां शतं याति त्यजेयुस् तां तु गोत्रिणः । इति ।

यद्य् अपि क्रोधादिना निर्गच्छन्ती न तदानीं पुरुषान्तरेण समन्वेति तथापि गत्वा कालान्तरेण शतसंख्याकेषु पुरुषेषु संचरतीति मत्वा बान्धवास् तां परित्यजेयुः । ब्राह्मण्या अपि बहुपुरुषसंचारिण्या गणिकात्वं भवति । तद् आह प्रजापतिः ।

अभिगच्छति या नारी बहुभिः पुरुषैर् मिथः ।
व्यभिचारिणीति सा ज्ञेया प्रत्यक्षं गणिकेति च ॥ इति ।

॥ ३४ ॥

[३६०]

अथोक्ताया ब्राह्मण्याश् चण्डालसमत्वम् अभिप्रेत्य गृहप्रवेशं निषेधति ।

पुंसो यदि गृहे गच्छेत् तद् अशुद्धं गृहं भवेत् ॥ ३५ ॥
पतिमातृगृहं यच् च जारस्यैव तु तद् गृहम् । इति ।

सेयं दुर्ब्राह्मणी स्वनिवासार्थं पत्युर् वा मातुर् वा जारस्यान्यस्य वा दाक्षिण्यविषयस्य कस्यचिद् बन्धोर् गृहं प्रविशति तद् गृहं चण्डालाध्युषितगृहवद् अत्यन्तम् अपवित्रं भवति ।

अविज्ञातस् तु चण्डालो यत्र वेश्मनि तिष्ठति । (पार्स्म् ६।३४)

इत्यादिना चण्डालवासे तत्प्रवेशे च यथा गृहशुद्धिर् अभिहिता तथा पुंश्चल्या ब्राह्मण्याः प्रवेशे ऽपि गृहशुद्धिः कर्तव्या ॥ ३५ ॥

तच्छुद्धिप्रकारम् आ अध्यायपरिसमाप्तेर् दर्शयति ।

उल्लिख्य तद्गृहं पश्चात् पञ्चगव्येन सेचयेत् ॥ ३६ ॥
त्यजेच् च मृण्मयं पात्रं वस्त्रं काष्ठं च शोधयेत् ।
संभारान् शोधयेत् सर्वान् गोवालैश् च फलोद्भवान् ॥ ३७ ॥
ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः ।
प्रायश्चित्तं चरेद् विप्रो ब्राह्मणैर् उपपादितम् ॥ ३८ ॥
गोद्वयं दक्षिणां दद्यात् प्राजापत्यद्वयं चरेत् ।
इतरेषाम् अहोरात्रं पञ्चगव्यं च शोधनम् ॥ ३९ ॥

[३६१] उपवासैर् व्रतैः पुण्यैः स्नानसंध्यार्चनादिभिः ।

जपहोमदयादानैः शुध्यन्ते ब्राह्मणादयः ॥ ४० ॥
आकाशं वायुर् अग्निश् च मेध्यं भूमिगतं जलम् ।
न प्रदुष्यन्ति दर्भाश् च यज्ञेषु चमसा यथा ॥ ४१ ॥

इति।

उल्लेखनं भूमेः । तेन कुड्यादिलेपनादिकम् उपलक्ष्यते । पञ्चगव्यसेचनं भूमौ कुड्यादिषु च समानम् । मृण्मयस्य भाण्डस्य त्याग एव । न तु पञ्चगव्यसेचनादिभिः शुद्धिः । वस्त्रकाष्ठयोर् धान्यादिसंभाराणां च द्रव्यशुद्ध्या यथोक्तं शोधनं कुर्यात् । नारिकेलकपित्थालाबुबिल्वादिफलसंभूतानां पात्राणां गोवालैर् मार्जनम् । ताम्रस्याम्लादिना शुद्धिः पूर्वम् उक्ता । अत्र तु पञ्चगव्येनेति विशेषः । कांस्यपात्राणां दशकृत्वो भस्मना घर्षणम् । गृहस्वामी तु परिषद्विनिर्दिष्टं सदक्षिणं प्राजापत्यद्वयं चरेत् । अन्येषां तु तद्गृहवसिनाम् उपवासः । पञ्चगव्यप्राशनं वा । तद्गृहवासिभिः सह व्यवहर्तॄणां गृहान्तरवासिनां [३६२] ब्राह्मणादीनां निर्दिष्टेनोपवादीनाम् अन्यतमेन शुद्धिः । तद्गृहसंबन्धिनाम् आकाशादीनां निर्लेपान् [निर्लेपत्वान्?] न प्रयत्नेन संपादनीया शुद्धिर् अस्ति । तत्र दृष्टान्तो यज्ञेष्व् इति । ऋत्विङ्मुखसम्स्पर्शे ऽपि चमसानां यथा नोच्छिष्टदोषः । शास्त्रदृष्ट्या तेषां निर्लेपस्वभावात् । तद्वद् आकाशादीनाम् अवगन्तव्यम् । अत्र चण्डालीन्यायस्याभिप्रेतत्वात् चिरकालविषयम् इदं परिशोधनं द्रष्टव्यम् । सकृत्प्रवेशे तु संमार्जनादिभिः शुद्धिर् निर्देष्टव्या ॥ ३६–४१ ॥

गम्येतराभिगमने सति निष्कृतिर् या
सा यत्र साधु हितकारणम् अभ्यधायि ।
अध्यायम् ऊर्जितमतिर् दशमं स्वयुक्त्या
व्याख्यात् पराशरकृताव् इह माधवार्यः ॥

इति श्रीमहाराजाधिराजवैदिकमार्गप्रवर्तकपरमेश्वर-

श्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्य्स्य

कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां दशमो ऽध्यायः ॥ १० ॥