०९

अथ नवमो ऽध्यायः

[२५५]

अष्टमाध्याये गोवधस्य सामान्यप्रायश्चित्तम् उपवर्णितम् । अथ नवमाध्याये रोधादिनिमित्तविशेषान् उपजीव्य प्रायश्चित्तविशेषा अभिधीयन्ते । तत्र

एकपादं चरेद् रोधे द्वौ पादौ बन्धने चरेत् । (पर्स्म् ९।३)

इति वक्ष्यति ।

तयोः पुरस्ताद् अपवादम् आद्यश्लोकेन दर्शयति ।

गवां संरक्षणार्थाय न दुष्येद् रोधबन्धयोः ।
तद्वधं तु न तं विद्यात् कामाकामकृतं तथा ॥ १ ॥

इति।

व्रजे शालायां वा गाः प्रवेश्य तृणादिभक्षणप्रतिबन्धो रोधः । गले पाशेन दोहाद्यर्थं पादेषु रज्वा वा नियन्त्रणं बन्धः । तौ च रोधबन्धौ द्विविधौ हिताव् अहितौ च । रोगग्रस्ताया गोर् अपथ्यभक्षणनिवारणं हितो रोधः । क्षुदिताया गोः तृणादिभक्षणनिवारणम् अहितो रोधः । एवं बन्धस्यापि द्वैविध्यम् । [२५६] तत्र हितयोर् बन्धरोधयोः प्रत्यवायजनकत्वाभावान् न प्रायश्चित्तनिमित्तत्वम् । एतद् एव अङ्गिरा आह ।

सायं सङ्गोपनार्थं तु न दुष्येद् रोधबन्धयोः । इति । (अङ्स्म् २।२९)

॥ १ ॥

लगुषादिभिर् निपातने प्रायश्चित्तम् आह ।

दण्डाद् ऊर्ध्वं यद् अन्येन प्रहाराद् यदि पातयेत् ।
प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ॥ २ ॥

इति।

दण्डस्य लक्षणम् “अङ्गुष्ठमातः” (९।१०) इत्य् अनेन वक्ष्यति । तस्माद् दण्डाद् ऊर्ध्वम् अधिकप्रमाणेनेत्य् अर्थः । अन्येन लगुडादिना पातयेन् मारयेत् । अकामकृते गोवधे यत् प्रायश्चित्तं पूर्वाध्याये प्रोक्तं तद् एवात्र द्विगुणीभूतम् आचरेत् ॥ २ ॥

इदानीं प्रायश्चित्तविशेषान् अभिधातुम् अन्यानि वधनिमित्तान्य् उपन्यस्यति ।_

रोधबन्धनयोक्त्राणि घातश् चेति चतुर्विधम् । इति ।

वधनिमित्तम् इति शेषः । चतुर्विधान् रोधादिवधान् स्वयम् एव स्पष्टीकरिष्यति ।

तेषु बन्धेषु प्रायश्चित्तान्य् आह ।

[२५७] एकपादं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ॥ ३ ॥
योक्त्रेषु पादहीनं स्यात् चरेत् सर्वं निपातने । इति ।

पूर्वाध्यायोक्तप्राजापत्यव्रतस्य पादभेदेन रोधादिवधेषु प्रायश्चित्तान्य् अवगन्तव्यानि ।

ननु – एतद् अङ्गिरोवचनेन विरुध्यते । अङ्गिरा हि मासद्वयकृच्छ्रं गोव्रतत्वेनाभिधाय रोधादिवधेषु तत्पादादीनि विधत्ते-

पादं चरेत् रोधवधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्यात् चरेत् सर्वं निपातने ॥ इति । (अङ्स्म् २।३१)

नायं दोषः, गुणवदगुणवद्विषयत्वेन अङ्गिरः-पराशरवचनयोर् व्यवस्थापनीयत्वात् । अन्यथा अङ्गिरसः संवर्त-आपस्तम्बाभ्यां सह विरोधः कथं परिह्रियेत । संवर्तः पक्षकृच्छ्रं गोवधव्रतम् अभिधायैतद् आह ।

प्रायश्चित्तस्य पादं तु विरोधे व्रतम् आचरेत् ।
द्वौ पादौ बन्धने चैव पादोनं योजने तथा ॥
पाषाणैर् लोष्टकैर् दण्डैस् तथा शस्त्रादिभिर् नरः ।
निपात्य संचरेत् सर्वं प्रायश्चित्तं विशुद्धये ॥ (संस्म् १३९–४०)

[२५८] इति । आपस्तम्बो ऽपि दिनचतुष्टयकृत्यं पादत्वेन प्रकृत्येदम् आह ।

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ॥
एकपादं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्यात् चरेत् सर्वं निपातने ॥ इति । (आप्स्म् १।१६)

ननु – एवम् अपि पूर्वापरविरोधो दुष्परिहरः । पूर्वाध्याये ह्य् अकामकृते षोडशरात्रकृच्छ्रो ऽभिहितः । अत्र तु कामकृते रोधवधे चतूरात्रो ऽभिधीयते ।

नायं दोषः, अत्र प्रामादिकस्य बालवत्सादिवधस्य प्रायश्चित्तम् इदम् इति परिहरणीयत्वात् ।

एवं तर्हि चतूरात्राष्टरात्रद्वादशरात्रषोडशरात्ररूपाणां चतुर्विधानां कृच्छ्राणां बालवत्सादिविषयाणां पूर्वम् अभिहितत्त्वात् पुनर् उक्तम् – इति चेत्,

, रोधनीयस्य वत्सादेः शूद्रस्वामिकत्वादिलक्षणस्य हीननिमित्तस्यात्र कल्पनीयत्वात् । तस्मान् न को ऽपि विरोधः ॥ ३ ॥

वधनिमित्तस्य रोधस्य स्वरूपम् आह ।

गोवाटे वा गृहे वापि दुर्गे वाप्य् असमस्थले ॥ ४ ॥

[२५९] नदीष्व् अथ समुद्रेषु त्व् अन्येषु च नदीमुखे ।

दग्धदेशे मृता गावः स्तम्भनाद् रोध उच्यते ॥ ५ ॥

इति।

दुर्गाणि पर्वतसंकीर्णमार्गादीनि । असमस्थलं निम्नोन्नतप्रदेशः । अन्येषु वापीतडागादिषु नदीमुखं समुद्रनदीसंगमप्रदेशः । दग्धदेशो दावाग्न्यादिना दग्धः सन्न् उष्णभस्माक्रान्तप्रदेशः । यथोक्तेषु स्थानेषु स्तम्भनाद् गावो मृता भवन्ति । अतस् तादृशस् स्तम्भनम् अत्र रोध उच्यते । ईदृशरोधनिमित्तं प्रायश्चित्तम् आपस्तम्ब आह ।

कान्तारेष्व् अथ दुर्गेषु गृहदाहभयेषु च ।
यदि तत्र विपत्तिः स्यात् पाद एको विधीयते ॥ इति । (आप्स्म् १।१९)

॥ ४५ ॥

वधनिमित्तबन्धनस्य स्वरूपम् आह ।

योक्त्रदामकडोरैश् च कण्ठाभरणभूषणैः ।
गृहे वापि वने वापि बद्धा स्याद् गौर् मृता यदि ॥ ६ ॥
तद् एव बन्धनं विद्यात् कामाकामकृतं च तत् ।

[२६०] इति । योक्त्रं पाशः शकटयुगच्छिद्रसंबद्धः । दामकं धेनुबन्धनहेतुः पाशः । डोरं रज्जुमात्रम् । कण्ठाभरणं घण्टाकिङ्किण्यादि । भूषणं ललाटादौ निबद्धवराटकादि । ईदृशैः साधनैर् बद्धा गौर् गृहे स्थिता वा चरणाय अरण्ये गता वा यदि म्रियते तदा मरणनिमित्तं योक्त्रादिकम् अत्र बन्धनम् उच्यते । गोषु योक्त्रादियोजनं कामकृतं बन्धनम्, गोशालायां स्थापितेषु योक्त्रादिषु यदि गावो लग्नाः स्युस् तदादीम् अकामकृतं बन्धनम् इति द्विविधं बन्धनं विज्ञेयम् । एतच् च सप्रायश्चित्तम् आपस्तम्ब आह ।

कण्ठाभरणदोषेण गौर् वा यत्र विपद्यते ।
चरेद् अर्धं व्रतं तत्र भूषणार्थं हि तत्कृतम् ॥ इति । (आप्स्म् १।१७)

॥ ६ ॥

वधनिमित्तस्य योक्त्रस्य स्वरूपम् आह ।

हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः ॥ ७ ॥
गोपतिर् मृत्युम् आप्नोति योक्त्रो भवति तद्वधः ॥

इति।

पङ्क्तिः गले मेढीबन्धनम् । गोपतिर् बलीवर्दः । स च स्थावरेण रोगेण वा वोढुम् अशक्तो हलरथपङ्क्तिगोणीभारेषु वाहितो म्रियेत तदा तन्मरणनिमित्तवहननियोजनं योक्त्रम् **[२६१] **इत्य् उच्यते । अत एव आपस्तम्बः ।

दमने दामने रोधे सङ्घाते चैव योजने ।
नस्तः सकलपाशैर् वा मृते पादोनम् आचरेत् ॥ इति । (आप्स्म् १।१८)

अशिक्षितवलीवर्दस्य वोढुं शिक्षणं दमनम् । दाम्ना पाशेन संपादितो दामनः । रोधो गलनिरोधः । संघातः समूहः । पङ्क्तिः पूर्वोक्ता । तत्र योजनं बन्धनम् । नस्तः नासिकायां दोरप्रक्षेपः । सकलपाशा इतरे सर्वे बन्धनविशेषाः ॥ ७ ॥

वधनिमित्तस्य घातस्य स्वरूपम् आह ।

मत्तः प्रमत्त उन्मत्तश् चेतनो वाप्य् अचेतनः ॥ ८ ॥
कामाकामकृतक्रोधो दण्डैर् हन्याद् अथोपलैः ।
प्रहृता वा मृता वापि तद् धि हेतुर् निपातने ॥ ९ ॥

इति।

मत्तो धनादिना दृप्तः । प्रमत्तो मद्यपानादिना परवशः । उन्मत्तो व्याध्यादिना विभ्रान्तः । चेतनो लोकव्यवहारदक्षः । अचेतनो मुग्धः । पातयिष्यामीति बुद्धिः कामः । व्यर्थचेष्टामात्रम् अकामः । ताभ्याम् उत्पादितः क्रोधो यस्यासौ दण्डादिभिर् यदि हन्यात् तदा मरणम् अन्तरेण केवलं प्रहृता स्यात् तत्र कामकृतसंप्रहारो घात इत्य् उच्यते । अकामकृतं तु मारणं घातः । दण्डोपलाभ्यां शस्त्रादीन्य् उपलक्ष्यन्ते । अत एव आपस्तम्बः ।

[२६२] पाषाणैर् लगुडैः पाशैः शस्त्रेणान्येन वा बलात् ।
निपातयति यो गा वै सर्वम् एव समाचरेत् ॥ इति । (आप्स्म् १।१९)

॥ ८–९॥

“दण्डाद् ऊर्ध्वं यद् अन्येन” (९।२) इत्य् अत्र दण्डाद् अधिकेन लगुडादिना कृतस्य प्रहारस्य प्रायश्चित्तनिमित्तत्वं वदतार्थाद् दण्डप्रहारस्य निर्दोषत्वम् अङ्गीकृतम् । तत्र को ऽसौ दण्ड इत्य् आकाङ्क्षायाम् आह ।

अङ्गुष्ठमात्रस्थूलस् तु बाहुमात्रः प्रमाणतः ।
आर्द्रस् तु सपलाशश् च दण्ड इत्य् अभिधीयते ॥ १० ॥

इति।

अङ्गुष्ठमात्र इत्य् अनेन ततोधिकं स्थौल्यं व्यावर्त्यते । न स्वल्पम्, अल्पस्य वधहेतुत्वाभावात् । बाहुमात्र इत्य् अनेनाप्य् अधिकदैर्घ्यव्यावृत्तिः, अतिदीर्घेण प्रहारे मुखपर्त्यन्तप्रसारणेन चक्षुराद्युपघातप्रसङ्गात् । आर्द्रत्वं सपलाशत्वं च वेदनानुत्पत्त्यर्थम् । उक्तलक्षणेन दण्डेन भीतिम् एवोत्पदयेत् । न तु वेदनाम् इत्य् आशयः ।

॥ १० ॥

_यथोक्तदण्डप्रहारेण रुग्नस्य गोः पातमूर्च्छनयोः सतोः प्रत्यवायप्रायश्चित्तप्रसक्ताव् अपवदति _

मूर्च्छितः पतितो ऽवापि दण्डेनाभिहतः स तु ।
उत्थितस् तु यदा गच्छेत् पञ्च सप्त दशैव वा ॥ ११ ॥

[२६३] ग्रासं वा यदि गृह्णीयात् तोयं वापि पिबेद् यति ।

पूर्वं व्याध्युपसृष्टश् चेत् प्रायश्चित्तं न विद्यते ॥ १२ ॥

इति।

यस् तु गौश् चिरं व्याधिपीडितो ऽत्यन्तकृशश् चारणार्थं यथोक्तदण्डेनाभिहतः सन् पतितो मूर्च्छितो वापि भवेत् स पुनर् उत्थाय कानिचित् पदानि गच्छेत् तर्हि प्रहर्तुः प्रत्यवायो नास्ति । अथोत्थातुम् अशक्तस् तदापि तृणे भक्षिते नास्ति प्रत्यवायः । भक्षयितुम् अशक्तो यदि जलं पिबेत् तदापि नास्ति प्रत्यवायः । उत्थानतृणभक्षणजलपानान्य् अकृत्वा मूर्च्छानन्तरम् एव म्रियेत चेत् तदा प्रहर्ता प्रत्यवैतीत्य् अर्थाद् अवगन्तव्यम् ॥ ११–१२ ॥

गोगर्भस्य वधे प्रायश्चित्तम् आह ।

पिण्डस्थे पादम् एकं तु द्वौ पादौ गर्भसंमिते ।
पादोनं व्रतम् उद्दिष्टं हत्वा गर्भम् अचेतनम् ॥ १३ ॥

इति।

चतस्रो गर्भावस्थाः । पिण्डः संमितो ऽचेतनः सचेतनश् चेति । गर्भाशये पतितं वीर्यं कललबुद्बुदादिक्रमेणार्धमासे पिण्डभावम् आपद्यते । स एव मासमात्रेण दार्ढ्यम् आपद्य संमित इत्य् उच्यते । संयङ्मितः परिवृतो दृढीभूतः संमितः । स च सप्तमे मासि प्राणवायुसंचाररूपां चेतनाम् आपद्यते । मासाद् ऊर्ध्व्स्म् आ सप्तमान् मासाद् अचेतन् इत्य् उच्यते । तदूर्धं पतितो मृतो भवेत् । अत्र पिण्डस्थे गर्भे प्राजापत्यस्य पादम् आचरेत् । संमितवधे अर्धकृच्छ्रम् । अचेतनवधे पादत्रयम् । सचेतनस्य चतुर्थस्य वधे प्रायश्चित्तं वक्ष्यति ॥ १३ ॥

[२६४]

पादकृच्छ्रादीनां चतुर्णाम् अङ्गभूतांश् चतुरो वपनविशेषान् आह ।

पादे ऽङ्गरोमवपनं द्विपादे श्मश्रुणो ऽपि च ।
त्रिपादे तु शिखावर्जं सशिखं तु निपातने ॥ १४ ॥

इति।

रोमवपनेन नखनिकृन्तनम् अप्य् उपलक्ष्यते । नितरां पातनं निपातनम् । संपूर्णस्य सचेतनस्य गर्भस्य वधे इत्य् अर्थः । इदं चतुर्विधं वपनं शङ्खो ऽप्य् आह ।

रोमाणि प्रथमे पादे द्विपादे श्मश्रुवापनम् ।
पादहीने शिखावर्जं सशिखं तु निपातने ॥ इति ।

नखनिकृन्तनं आपस्तम्ब आह ।

पादे तु नखरोमाणि द्विपादे श्मश्रुवापनम् ।
त्रिपादे तु शिखा धार्या चतुर्थे सशिखं स्मृतम् ॥ इति । (आप्स्म् १।३३)

॥ १४ ॥

पवनविशेषवच् चतुर्धा व्यवस्थितान् दानविशेषान् आह ।

पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम् ।
त्रिपादे गोवृषं दद्याच् चतुर्थे गोद्वयं स्मृतम् ॥ १५ ॥

[२६५] इति । गोवृषो बलीवर्दः । द्विपादे कांस्यभाजनम् अशक्तस्य । शक्तस्य त्व् अर्धसुवर्णम् । तद् आह शङ्खः ।

कृच्छ्रपादे वस्त्रदानं कृच्छ्रार्धे त्व् अर्धकाञ्चनम् ।
पादन्यूने तु गां दद्यात् पूर्णे गोमिथुनं स्मृतम् ॥ इति । (शङ्स्म् १८।२९)

॥ १५ ॥

चतुर्थावस्थस्य सचेतनस्य गर्भस्य वधे प्रायश्चित्तम् आह ।

निष्पन्नसर्वगात्रस् तु दृश्यते वा सचेतनः ।
अङ्गप्रत्यङ्गसंपूर्णो द्विगुणं गोव्रतं चरेत् ॥ १६ ॥

इति।

अष्टमे मासे सर्वावयवसंपूर्णो भवति । प्रसवप्रत्यासन्नकाले सचेतन इतस् ततः संचरन्न् उपलक्षयितुं शक्यते । अङ्गानि शिरआदीनि । प्रत्यङ्गानि ग्रीवादीनि । तथा च स्मर्यते ।

अङ्गान्य् अत्र शिरो हस्तौ वक्षः पार्श्वौ कटी तथा ।
पादाव् इति षड् उक्तानि शास्त्रविद्भिः समासतः ॥
प्रत्यङ्गानि पुनर् ग्रीवा बाहू पृष्ठं तथोदरम् ।
ऊरू जङ्घे षड् इत्य् आहुस् तथा रोमनखं परम् ॥ इति ।

तैर् अङ्गैः प्रत्यङ्गैश् च सम्पूर्णे गर्भे निहते प्राजापत्यद्वयम् आचरेत् । तद् एतच् चतुर्विधं गोगर्भवधप्रायश्चित्तं षट्त्रिंशन्मते ऽपि दर्शितम् ।

पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते ।
पादोनं व्रतम् उद्दिष्टं हत्वा गर्भम् अचेतनम् ॥
[२६६] अङ्गप्रत्यङ्गसंपूर्णे गर्भे चेतःसमन्विते ।
द्विगुणं गोव्रतं तत्र एषा गोघ्नस्य निष्कृतिः ॥ इति ।

आपस्तम्बो ऽपि ।

पादो ऽसंपन्नमात्रे तु द्वौ पादौ च घने चरेत् ।
पादोनं व्रतम् आचष्टे हत्वा गर्भम् अचेतनम् ॥
अङ्गप्रत्यङ्गसंपूर्णे चेतनेन समन्विते ।
द्विगुणं गोव्रतं तत्र एषा गोघ्नस्य निष्कृतिः ॥ इति । (आप्स्म् १०।३५–३६)

॥ १६ ॥

अवयवविशेषेषु प्रायश्चित्तविशेषान् आह ।

पाषाणेनाथ दण्डेन गावो येनाभिघातिताः ।
शृङ्गभङ्गे चरेत् पादं द्वौ पादौ नेत्रघातने ॥ १७ ॥

[२६७] लाङ्गूले पादकृच्छ्रं तु द्वौ पादाव् अस्थिभञ्जने ।

त्रिपादं चैव कर्णे तु चरेत् सर्वं निपातने ॥ १८ ॥

इति।

येन पुंसा पाषाणादिसाधनैर् गवाम् उपघातः क्रियते स पुमान् गोमरणाभावे ऽप्य् अवयवभङ्गप्रत्यवायनिवृत्तये निर्दिष्टं प्रायश्चित्तविशेषम् आचरेत् । यत् त्व् अङ्गिरसा दर्शितम् ।

अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा ।
पातनं चैकशृङ्गस्य मासार्धं यावकं पिबेत् ॥ इति । (अङ्स्म् २।२८)

आपस्तम्बो ऽपि ।

अस्थिभङ्गं गवां कृत्वा शृङ्गभङ्गम् अथापि वा ।
त्वक्छेदे पुच्छनाशे वा मासार्धं यावकं पिबेत् ॥ (आप्स्म् १।२८)

इति, – तत् शृङ्गादिबह्ववयवभङ्गविषयं गुणवद्गोविषयं वा । यद् अप्य् अङ्गिरसोक्तम्,

शृङ्गभङ्गे ऽस्थिभङ्गे च चर्मनिर्मोचने ऽपि वा ।
दशरात्रं पिबेद् वज्रं स्वस्थापि यदि गौर् भवेत् ॥ (अङ्स्म् ३०)

[२६७] इति । वज्रं क्षीरादि । एतच् चाशक्तविषयम् ॥ १७–१८ ॥

ननु – वर्णितम् अङ्गभङ्गादिप्रायश्चित्तं न पर्याप्तम्, अङ्गभङ्गादेः कियतापि कालेन मरणपर्यवसायित्वसंभवात् । वधप्रायश्चित्तस्यैव तत्रोचितत्वात् – इत्य् आशङ्क्याह ।

शृङ्गभङ्गे ऽस्थिभङ्गे च कटिभङ्गे तथैव च ।
यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥ १९ ॥

इति।

शृङ्गभङ्गानन्तरं षण्मासमध्ये यदि म्रियते तदानीं शृङ्गादिभङ्गस्य तन्निमित्तत्वशङ्कया वधप्रायश्चित्तं कर्तव्यं भवेत् । यदा पुनः पदाभिभङ्गे षट्सु मासेषु जीवति तदा वधप्रायश्चित्तं न विद्यते । किं तु भङ्गादिनिमित्तम् एव प्रायश्चित्तम् अनुष्ठेयम् ॥ १९ ॥

व्रणभङ्गादौ न केवलं प्रायश्चित्ताचरणम् । किं तु तच्चिकित्सापि कर्तव्येत्य् आह ।

व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गस् तु पाणिना ।
यवसश् चोपहर्तव्यो यावद् दृढबलो भवेत् ॥ २० ॥

इति।

व्रणश् च भङ्गश् च व्रणभङ्गौ । त्वक्च्छेदो व्रणः । शृङ्गाद्यस्थिच्छेदो भङ्गः । स्नेहाभ्यङ्ग इत्य् औषधप्रक्षेपस्याप्य् उपलक्षणम् । यवसस् तृणविशेषः । तेन भक्ष्यं सर्वम् उपलक्ष्यते । चिकित्सां शङ्खो ऽप्य् आह ।

[२६९] यवसश् चोपहर्तव्यो यावद् रोहेत तद्व्रणः ।
संपूर्णे दक्षिणां दद्यात् ततः पापात् प्रमुच्यते ॥ इति । (शङ्स्म् ११।१९)

॥ २० ॥

“यावद् दृढबलः” इति चिकित्साया अवधिर् अभिहितः । तम् एवानूद्यानन्तरकर्तव्यम् आह ।

यावत् संपूर्णसर्वाङ्गस् तावत् तं पोषयेन् नरः ।
गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् ॥ २१ ॥

इति।

अङ्गसंपूर्तिपर्यन्तं पोषणं कृत्वा पुष्टं तद्गोस्वरूपं क्षमापणबुद्ध्या नमस्कृत्य चिकित्साया उपरमेत् ॥ २१ ॥

सम्यक् चिकित्सायां कृतायाम् अपि प्रहारदार्ढ्यात् पुष्ट्यभावे किं कर्तव्यम् इत्य् अत आह ।

यद्य् असंपूर्णसर्वाङ्गो हीनदेहो भवेत् तदा ।
गोघातकस्य तस्यार्धं प्रायश्चित्तं विनिर्दिशेत् ॥ २२ ॥

इति।

गोघातकस्य यत् प्रायश्चित्तं प्राजापत्यं तदर्धम् अनुतिष्ठेत् ॥ २२ ॥

इदानीं चौर्यादिदोषेण कामकृतगोवधे निमित्तविशेषान् उपजीव्य प्रायश्चित्तविशेषान् आह ।_

[२७०] काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात् ।
व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत् ॥ २३ ॥
चरेत् सान्तपनं काष्ठे प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चैवातिकृच्छ्रकम् ॥ २४ ॥

इति।

प्राजापत्यतप्तकृच्छ्रयोः स्वरूपं पूर्वम् एवोपदर्शितम् । सान्तपनातिकृच्छ्रयोः स्वरूपं तूपरिष्टाद् वक्ष्यते ।

न च – काष्ठादीनां वधनिमित्तत्वे समाने सति प्रायश्चित्तवैषम्यम् अयुक्तम् इति शङ्कनीयम् । शास्त्रैकगम्ये ऽर्थे युक्तिभिर् उपालम्भासंभवात् । एवं तर्हि सर्वत्रे न्यायविचारो निरर्थक इति चेत्,

, वचनानां परस्परविरोधे सति न्यायस्य निर्णायकत्वात् ॥ २३–२४ ॥

यथोकेषु चतुर्षु क्रमेण चतुर्विधान् दक्षिणाविशेषान् आह ।

पञ्च सान्तपने गावः प्राजापत्ये तथा त्रयः ।
तप्तकृच्छ्रे भवन्त्य् अष्टाव् अतिकृच्छ्रे त्रयोदश ॥ २५ ॥

इति।

गावो देया इति शेषः । त्रयस् तिस्रः ॥ २५ ॥

प्रमापितस्य गोः परकीयत्वे तस्मै गोस्वामिने गां दत्वा पश्चात् यथोक्तं व्रतम् आचरेद् इत्य् आह ।

प्रमापणे प्राणभृतां दद्यात् तत् प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीन् मनुः ॥ २६ ॥

[२७१] इति । महिषाश्वादिष्व् अपि स्वामिने दानं समानम् इति विवक्षया प्राणभृताम् इत्य् उक्तम् । तद् एतत् प्रतिरूपदानं मनुर् अब्रवीत् । तथा च मानवं वचनम् ।

यो यस्य हिंस्यात् द्रव्याणि ज्ञानतो ऽज्ञानतो ऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥ इति ॥ २६ ॥

“रोधबन्धनयोक्त्राणि” इत्य् अत्र रोधबन्धनयोः प्रत्यवायहेतुत्वं वर्णितम् । इदानीं तस्यापवादम् आह ।

अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा ।
सायं सङ्गोपनार्थं च न दुष्येद् रोधबन्धयोः ॥ २७ ॥

इति।

वृषोत्सर्गादौ दाहादिना स्थिरचिह्नकरणम् अङ्कनम् । तत्रैव गोमयहरिद्रादिना तात्कालिकछिनकरणं लक्ष्म । ताभ्याम् अन्यत्र उक्तचिह्नरहितेषु बलीवर्देष्व् इत्य् अर्थः । वाहनं गोणीभाराद्यारोपणम् । मोचनं तस्यैव भारस्यावरोपणम् । [२७२] तत्रोभयत्रैव बलीवर्दशरीरे यद्य् अपि व्यथा जायते तथापि प्रत्यवायो नास्ति । चिह्नद्वयरहितेषु बलीवर्देषु वाहनमोचनयोः शास्त्रेणैवाङ्गीकृतत्वात् । चिह्नोपेतेषु वृषेषु वाहनं न शास्त्रीयम्, वाहननिवृत्तिज्ञापनायैव चिह्नकरणात् । तथा रात्रौ संरक्षणार्थं रोधबन्धनयोः कृतयोर् अपि नास्ति प्रत्यवायः ॥ २७ ॥

पुनर् अपि व्यवस्थितान् प्रायश्चित्तविशेषान् विधातुं चत्वारि निमित्तान्य् उपन्यस्यति ।

अतिदाहे ऽतिवाहे च नासिकाभेदने तथा ।
नदीपर्वतसंचारे प्रायश्चित्तं विनिर्दिशेत् ॥ २८ ॥

इति।

रोगचिकित्सार्थम् अङ्क्नार्थं वा यावद् दहनम् अपेक्षितं तावतो ऽधिकदहनम् अतिदाहः । यावन्तं भारम् अक्लेशेन वोढुं शक्नोति तावतो ऽप्य् अधिकस्य भारस्यारोपणम् अतिवाहः । रज्जुस्थित्यर्थं नासिकायां छिद्रकरणं भेदनम् । पातवधसंभावनोपेतयोर् दुर्गमयोर् नदीपर्वतयोः प्रेरणं नदीपर्वतसंचारः ॥ २८ ॥

तेषु चतुर्षु निमित्तेषु क्रमेण प्रायश्चित्तान्य् आह ।

अतिदाहे चरेत् पादं द्वौ पादौ वाहने चरेत् ।
नासिक्ये पादहीनं तु चरेत् सर्वं निपातने ॥ २९ ॥

इति।

दुर्गम् अनदीपर्वतसम्चारेण प्रमादात् पतित्वा मरणं निपातनम् । “अतिदोहे” इति वा पाठः । तस्मिन् पक्षे वत्सार्थपयो ऽनवशेष्य कृत्स्नक्षीरदोहम् अतिदोहः । तत्र वत्सापघातप्रत्यवयनिमित्तं [२७३] धेणूपघातनिमित्तं वा प्रायश्चित्तम् । यत् तु हारीतेनातिदाहातिवाहनादौ चान्द्रायणम् उक्तम्,

नासाभेदनदाहेषु कर्णच्छेदनबन्धने ।
अतिदाहातिदोहाभ्यां कृच्छ्रं चान्द्रायणं चरेत् ॥ (हार्स्म् १९।१०)

इति, तद् बहुनिमित्तसंनिपातविषयं द्रष्टव्यम् ॥ २९ ॥

यस् तु गौर् गृहे बद्धः प्रमादाद् गृहदाहे सति यदि म्रियेत तदा किं प्रायश्चित्तम् इत्य् अत आह ।

दहनात् तु विपद्येत अनड्वान् योक्त्रयन्त्रितः ।
उक्तं पराशरेणैव ह्य् एकपादं यथाविधि ॥ ३० ॥

इति।

वृद्धपराशरेण यथाविधि उक्तम् एकं पादकृच्छ्रं चरेत् इति शेषः । एतच् च आपस्तम्बो ऽप्य् आह ।

कान्तारेष्व् अथ वा दुर्गे गृहदाहे खलेषु च ।
यदि त्व् इह विपत्तिः स्यात् पाद एको विधीयते ॥ इति । (आप्स्म् ३।१६) ॥ ३० ॥

बुद्धिसमाधानायोक्तान्य् अनुक्तानि च निमित्तानि संगृह्णाति ।

रोधनं बन्धनं चैव भारः प्रहरणं तथा ।
दुर्गप्रेरणयोक्त्रं च निमित्तानि वधस्य षट् ॥ ३१ ॥

[२७४] इति । तत्र रोधबन्धनयोक्त्राणि पूर्वम् एव व्याख्यातानि । भारो ऽतिवाहनम् । प्रहरणं शस्त्रादिभिस् ताडनम् । दुर्गप्रेरणं प्रौढभारं वाहयित्वा अत्युन्नतपर्वताग्रे नयनम् ॥ ३१ ॥

पूर्वं गृहे बद्धस्य पशोर् दाहनिमितितं प्रायश्चित्तम् अभिहितम् । इदानीं तस्यैव मरणे वधनिमित्तं प्रायश्चित्तम् आह ।

बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः ।
भवने तस्य पापी स्यात् प्रायश्चित्तार्धम् अर्हति ॥ ३२ ॥

इति।

बन्धहेतुः पाशो बन्धपाशः । तेन सुगुप्तानि रोधितानि गलपादादीन्य् अङ्गानि यस्यासौ बन्धपाशसुगुप्ताङ्गः । स चेद् भवने म्रियेत तदा कृच्छ्रार्धम् आचरेद् इति । यद्य् अपि पूर्वत्र “द्वौ पादौ बन्धने चरेत्” इत्य् अनेनेदं प्रायश्चित्तम् उपवर्णितं तथाप्य् अत्र बन्धनयोग्यायोग्यरज्जुविवेकचिकीर्षया तस्यैव पुनर् अनुवाद इत्य् अदोषः । यद् वा पूर्वोक्तस्यैव प्रायश्चित्तस्य विहितरज्जुबन्धविषयत्वम् अनेन समर्प्यते । निषिद्धरज्जुबन्धने तु संपूर्णं कृच्छ्रम् अवगन्तव्यम् ॥ ३२ ॥

तत्र तावद् वर्ज्यान् रज्जुविशेषान् दर्शयति ।

न नारिकेलैर् न च शाणवालैः
न वापि मौञ्जैर् न च वल्कशृङ्खलैः ।

[२७५] गावो न निबन्धनीया

बध्वापि तिष्ठेत् परशुं गृहीत्वा ॥ ३३ ॥

इति।

वल्कानि वंशादिजनितानि । शृङ्खलान्य् अयस्ताम्रादिनिर्मितानि नारिकेलादिभिर् गावो न न बन्धनीयाः । यदि दामान्तरासंभवाद् एतैर् दामभिर् बध्येरन् तदा तन्निमित्तोपद्रवप्रसङ्गे सहसा छेत्तुं हस्तेन परशुं गृहीत्वा सावधानस् तिष्ठेत् । नारिकेलादिभिः कार्पासतन्त्वादिजन्या दृढा रज्जवः सर्वा उपलक्ष्यन्ते । अत एव अङ्गिराः ।

न नारिकेलैर् न च फालेकेन
न मौञ्जिना नापि च वल्कलेन ।
एतैर् अनड्वान् न हि बन्धनीयो
बध्वापि तिष्ठेत् परशुं गृहीत्वा ॥ इति । (अङ्स्म् ३।५)

फालकं कार्पासजन्यम् ॥ ३३ ॥

उपादेयान् रज्जुविशेषान् आह ।_

कुशैः काशैश् च बध्नीयाद् गोपशुं दक्षिणामुखम् । इति ।

यथा पाशा अनुपद्रवकारिणो विवक्षिताः तथास्थानम् अपि निम्नोन्नतादि दोषरहितं विवक्षितम् । तथा च व्यासः ।

कुशैः काशैश् च बध्नीयात् स्थाने दोषविवर्जिते । इति । (व्य्स्म् ५।१७)

[२७६]

ननु – नारिकेलादिपाशानाम् उपद्रवकारित्वसंभावनया प्रतिषेधः कृतः । स च दोषः कुशादिपाशेष्व् अपि समानः । तेषां सहसा त्रोटने ऽपि गृहदाहादौ पलायनमानानां गवां गलगतपाशेषु लग्नेनाग्निनोपद्रवसंभवाद् इत्य् अत आह ।

पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ॥ ३४ ॥

इति।

कुशादिमयपाशानां शीघ्रं भस्मीभावात् सकृत् संतापमात्रं संपद्यते । न तु प्राणान्तिक उपद्रवः । अतो न तत्र प्रत्यवायः ॥ ३४ ॥

तत्रापि केनचित् प्रकारेणोपद्रवसंभावनाम् उद्भाव्य तत्रोचितं प्रायश्चित्तम् आह ।

यदि तत्र भवेत् काष्ठं प्रायश्चित्तं कथं भवेत् ।
जपित्वा पावनीं देवीं मुच्यते तत्र किल्बिषात् ॥ ३५ ॥

इति।

गलगते पाशे दह्यमाने यदि कुशमूलादिरूपं किंचित् काष्ठं तस्मिन् पाश्ē ऽवतिष्ठेत् तदा तदुल्मुकसंस्पर्शाद् ईषत्त्वग्दाहो भवेत् । तत्र गायत्रीजपेनैव शुद्धिः । पावमानीयम् इति पाठे पवमानसूक्तं जपित्वेति व्याख्येयम् ॥ ३५ ॥

[२७७]

यस्मिन् देशे मरणान्तिकः प्रमादः संभावितः तत्र गावो न प्रेषणीयाः । यदि बुद्धिमान्द्यात् प्रेषयेत् तदा तत्र मरणे प्रायश्चित्तं चरणीयम् इत्य् आह ।

प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् ।
गवाशनेषु विक्रीणंस् ततः प्राप्नोति गोवधम् ॥ ३६ ॥

इति।

यस्मिन् चारणप्रदेशे जीर्णकूपवाप्यादयो विद्यन्ते तत्र चारणार्थं प्रेषितो यदि म्रियते तदा, यत्र प्रौढा वृक्षाश् छिद्यन्ते तत्र प्रेषितः प्रौढशाखापातेन मरणं प्राप्नोति, गोमांसभक्षिणो म्लेच्छा गवाशनाः तेषु विक्रीता गौस् तैर् मार्यते अतस् तेषु त्रिष्व् अपि स्थानेषु प्रेरको गोव्रतं चरेत् ॥ ३६ ॥

उद्वृषभयज्ञादाव् उपघाते पादत्रयं प्रायश्चित्तम् आह ।_

आराधितस् तु यः कश्चित् भिन्नकक्षो यदा भवेत् ।
श्रवणं हृदयं मग्नो वा कूपसङ्कटे ॥ ३७ ॥
कूपाद् उत्क्रमणे चैव भग्नो वा ग्रीवपादयोः ।
स एव म्रियते तत्र त्रीन् पादांस् तु समाचरेत् ॥ ३८ ॥

इति।

उद्वृषभयज्ञे हि बलीवर्दम् आराध्य धावयन्ति । तत्रातित्वरया धावतः कदाचित् कक्षो भिद्यते । केनचिद् उपघातेन कर्णे वा हृदये वा भेदो भवति । कूपसङ्कटं नाम संकीर्णतृणत्वं जलपूर्णत्वं च । तत्र वा मग्नो भवति । तादृशो कूपे पतितस्य कथंचिद् उत्क्रमणे ग्रीवादिर् भग्नो भवति । तेनैव च निमित्तेन यदि म्रियेत, तदा पादत्रयकृच्छ्रम् आचरेत् । अवारितः इति वा पाठः । तस्मिन् पक्षे चारणार्थं प्रेषयता पुरुषेण संभावितप्रमादखलेभ्यो निवारणीयत्वात् अनिवारणे यथोक्तं प्रायश्चित्तम् इति व्याख्येयम् ॥ ३७–३८ ॥

यत्र तृषार्त्ता गावः स्वयम् एवागाधकूपादिषु प्रविश्य विपद्यन्ते स्वामी तु तत् न जानाति, तत्र स्वमिनः प्रयवाय इत्य् आह ।

कूपखाते तटाबन्धे नदीबन्धे प्रपासु च ।
पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥ ३९ ॥

इति।

अगाधः कूपः कूपखातः । तटेन नदीतीरेण आ समताद् (?) बध्यते इति तटाबन्धः प्रौढतटाकः । नदीबन्धः सेतुः । घर्मकाले गवाम् उदकपानार्थं निर्मिताः प्रौढाः पाषाणादिद्रोण्यः प्रपा । तेषु पातुं प्रविश्य मृतास्व् अपि न स्वामिनः प्रायश्चित्तं विद्यते ॥ ३९ ॥

एवं तर्हि तादृशकूपादिनिर्मातुः प्रत्यवायो ऽस्तीत्य् आशङ्क्याह ।

कूपखाते तटाखाते दीर्घीखाते (?) तथैव च ।
अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ॥ ४० ॥

इति।

खननं खातः । दीर्घीवाप्यः । अन्यशब्देन जलद्रोणौकुल्यादय उच्यन्ते । एतेषां धर्मार्थं निर्मितत्वात् कथंचित् तत्र पतित्वा मृतास्व् अपि गोषु न निर्मातुः प्रत्यवायो ऽस्ति ॥ ४० ॥

कूपखातादिवद् वेश्मखातादाव् अपि प्रत्यवायाभावम् आशङ्क्य धर्मार्थत्वाभावाद् अस्ति प्रत्यवाय इत्य् आह ।

वेश्मद्वारे निवासेषु यो नरः खातम् इच्छति ।
स्वकार्यगृहखातेषु प्रायश्चित्तं विनिर्दिशेत् ॥ ४१ ॥

इति।

वेश्मद्वारं गृहप्रवेशनिर्गममार्गः । निवासाः शालाव्रजादीनि गवां स्थानानि । तत्र यो नरः खनति, तस्य पुरुषस्य खातपातेन गोमरणे पूर्वोक्तं पादत्रयं प्रायश्चित्तं [२८०] विनिर्दिशेत् । तथान्यत्रापि गृहभित्तिवेद्यादिकरणार्थम् अङ्गनोपवनादिषु गोसंचारसंभावनावत्सु प्रदेशेषु कृताः खाताः गृहखाताः, स्वेन कृताः स्वकार्याः, स्वकार्याश् च ते गृहखाताश् च स्वकार्यगृहखाताः । तेषु गोविपत्तौ पादत्रयं प्रायश्चित्तं विनिर्दिशेत् ॥ ४१ ॥

गृहखातादिवद् गृहे सर्पादिना वधेन प्रत्यवायप्राप्ताव् अपवदति ।

निशि बन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च ।
अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते ॥ ४२ ॥

इति।

रात्रौ संरक्षणार्थं पाशबन्धेन निरुद्धा गावः सर्पव्याघ्रादिभिर् यदि हन्येरन् तदा स्वामिनः प्रत्यवायो नास्ति । अग्निर् ग्रामदाहः । विद्युद् अशनिः । ताभ्यां विपन्नानां न प्रत्यवायहेतुत्वम् ।

ननु – “दहनात् तु विपद्यन्ते” (७।१३) इत्य् अत्र प्रायश्चित्तम् उपवर्णितम् । इह तु तत् निराक्रियते इति पूर्वापरविरोध इति चेत् ।

, निराकरणस्याशक्तविषयत्वात् । सत्यां शक्ताव् उपेक्षायां पूर्वोक्तं प्रायश्चित्तम् । अत एव व्यासः ।

[२८१] जलौघपल्वले मग्ना मेघविद्युद्धतापि वा ।
श्वभ्रे वा पतिताकस्मात् श्वापदेनापि भक्षिता ॥
प्राजापत्यं चरेत् कृच्छ्रं गोस्वामी व्रतम् उत्तमम् ।
शीतवाताहता वा स्याद् उद्बन्धनमृतापि वा ॥
शून्यागारे उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥ इति । (व्यास्म् ३।३९–४१)

इदं तु कार्यान्तरविरहे सत्य् उपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्व् अर्धम् ।

पल्वलौघमृगव्याघ्रश्वापदादिनिपातने ।
श्वभ्रप्रपातसर्पाद्यैर् मृते कृच्छ्रार्धम् आचरेत् ॥
अपालनात् तु कृच्छ्रं स्यात् शून्यागार उपप्लवे ॥ (विध् २१।१३)

इति विष्णुस्मरणात् ॥ ४२ ॥

विद्युद्दाहादेर् इव ग्रामघातादेर् अपि न प्रत्यवायहेतुत्वम् इत्य् आह ।

ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
अतिपृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥ ४३ ॥

इति।

शत्रुसैन्येन ग्रामे हन्यमाने सति तदन्तर्वर्तिनो गावः शरौघेण निपात्यन्ते । तथा स्तम्भसंशदिशैथिल्येन [२८२] गृहे भग्ने सति तदन्तर्वर्तिनां गवां निपातो भवति । तथा बुधशुक्रसामीप्यादिना प्रवृत्तायाम् अतिवृष्टौ शीतवातपीडिता गावो म्रियन्ते तत्र तत्स्वामिनः प्रत्यवायो नास्ति ॥ ४३ ॥

संग्रामादेर् अपि न प्रत्यवायहेतुत्वम् इत्य् आह ।

संग्रामे प्रहतानां च ये दग्धा वेश्मकेषु च ।
दावाग्निग्रामघातेषु प्रायश्चित्तं न विद्यते ॥ ४४ ॥

इति।

सेनयोर् उभयोर् युद्धे सति तत्र प्रहता गावो म्रियन्ते । स्कन्धावारनिर्मितानि तृणमयानि वेश्मकानीत्य् उच्यन्ते । तेषु वैरिभिर् दह्यमानेषु तत्र गावो म्रियन्ते । तथा क्वचिद् दावाग्निना अरण्यसमीपवर्तिनो ग्रामा दग्धा भवन्ति तत्र गावा उपहन्यन्ते । न चैतेषु विषयेषु स्वामी प्रत्यवायं प्राप्नोति ॥ ४४ ॥

गवां हिते प्रवृत्तस्य प्रामादिकं गोमरणं न प्रत्यवायजनकम् इत्य् आह ।

यन्त्रिता गौश् चिकित्सार्थं मूढगर्भविमोचने ।
यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥ ४५ ॥

इति।

व्रणरोगादौ दाहच्छेदादिचिक्त्सार्थं रज्ज्वादिना यन्त्रिता गौः प्रमादाद् विपद्येत । तथा योनिद्वारि समागतस्य [२८३] मृतस्य गर्भस्य निर्गमनार्थं तदाकर्षणादिप्रयत्ने क्रियमाणे कथंचिद् गौर् म्रियेत् तत्र हितम् आचरन् पुरुषो न प्रत्यवैति । एतद् एव संवर्त आह ।

यन्त्रणे गोश् चिकित्सार्थे मूढगर्भविमोचने ।
यदि तत्र विपत्तिः स्यात् न स पापेन लिप्यते ॥
औषधं स्नेहम् आहारं दद्याद् गोब्राह्मणेषु च ।
दीयमाने विपत्तिश् चेन् न स पापेन लिप्यते ॥
दाहच्छेदशिराभेदैः प्रयोगैर् उपकुर्वताम् ।
द्विजानां गोहितार्थं च प्रायश्चित्तम् न विद्यते ॥ इति । (संस्म् १३७–३९)

याज्ञवल्क्यो ऽपि ।

क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ इति । (य्ध् ३।२८४)

अङ्गिरा अपि ।

औषधं स्नेहम् आहारं दद्याद् गोब्राह्मणेषु यः ।
विपाके तु विपत्तिः स्यात् न स दोषेण लिप्यते ॥ इति । (अङ्स्म् १।२८) ॥ ४५ ॥

[२८४]

रोधबन्धनाभ्यां गोविपत्तौ प्रायश्चित्तं पूर्वम् उपवर्णितम् । यदा बहव एकेन व्यापारेण विपद्यन्ते तदा किं व्यापारैक्याद् एकं व्रतं स्यात् । किं वा प्रहतगोसंख्याया व्रतावृत्तिः – इति विचिक्त्सायाम् इदम् आह ।

व्यापन्नानां बहूनां च बन्धने रोधने ऽपि वा ।
भिषङ्मिथ्योपचारे च प्रायश्चित्तं विनिर्दिशेत् ॥ ४६ ॥

इति।

पूर्वोक्तं प्रायश्चित्तं द्विगुणम् आचरेद् इत्य् आशयः । तथा च संवर्तः ।

व्यापन्नानां बहूनां च बन्धने रोधने ऽपि वा ।
द्विगुणं गोव्रतस्यास्य प्रायश्चित्तं विशुद्धये ॥ इति । (संस्म् १३५।

आपस्तम्बो ऽपि ।

विपन्नानां बहूनां तु बन्धने रोधने ऽपि वा ।
भिषङ्मिथ्याप्रयोक्ता च द्विगुणं गोव्रतं चरेत् ॥ (आप्स्म् ३।१९)

[२८५] इति । अयथाशास्त्रं चिकित्सनं भिषङ्मिथ्याप्रयोगः इति ॥ ४६ ॥

सत्यां शक्ताव् उपेक्षकस्य प्रत्यवायो ऽस्तीत्य् उक्तम् । न केवलं स्वामिन एवैतत् । किं त्व् अन्येषाम् अपीत्य् आह ।

गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः ।
अनिवारयतां तेषां सर्चेषां पातकं भवेत् ॥ ४७ ॥

इति।

पङ्कमज्जनादिर् विपत्तिः । तत्र ये केचिन् मार्गे गच्छन्तो विपन्नां गां विलोक्य यथाशक्ति प्रतीकारं न कुर्वन्ति तेषां सर्वेषाम् उपेक्षकाणां प्रत्यवायो भवति । प्रेक्षका इत्य् अनेनानुमन्त्रादयः सर्वे ऽप्य् उपलक्ष्यन्ते । अत एव पैठीनसिः ।

हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः ।
प्रोत्साहकः सहायश् च तथा मार्गानुदेशकः ॥
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ।
उपेक्षकः शक्तिमांश् चेद् दोषवक्तानुमोदकः ॥
अकार्यकारिणस् तेषां प्रायश्चित्तं प्रकल्पयेत् । इति ॥ ४७ ॥

“व्यापन्नानाम्” (९।४६) इत्य् अत्र वध्यबहुत्वं घातकैकत्वं [२८६] चोपजीव्य प्रायश्चित्तम् उक्तम् । इदानीं वध्यैकत्वे हन्तृबहुत्वे च कथं – इत्य् आशङ्क्याह ।

एको हतो यैर् बहुभिः समेतैर्
न ज्ञायते यस्य हतो ऽभिघातात् ।
दिव्येन तेषाम् उपलभ्य हन्ता
निवर्तनीयो नृपसंनियुक्तैः ॥ ४८ ॥

इति।

यत्र बहूनां पुरुषाणां प्रहारैर् एको गौर् हतो भवति तत्र सर्वेषां प्रहारकाणां वेदनाहेतुत्वे सत्य् अपि यदीयः प्रहारः प्राणवियोगनिमित्तम् इति न ज्ञायते । अतस् तेषां बहूनां पुरुषाणां मध्ये प्राणवियोगकारिप्रहारकर्तायम् इति पुरुषविशेषस् तुलाग्न्यादिदिव्येन निश्चित्य राजपुरुषैर् हन्तृसमूहात् स पृथक् कर्तव्यः । पृथक् कृत्य च गोव्रतं चारयेत् ॥ ४८ ॥

इतरेषां प्रहन्तॄणां प्रायश्चित्तम् आह ।_

एका चेद् बहुभिः काचिद् दैवाद् व्यापादिता यदि ।
पादं पादं तु हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥ ४९ ॥

इति।

गोहत्याया यद् व्रतम् अभिहितं तस्य व्रतस्य पादम् [२८७] एकैकः पुरुषो ऽनुतिष्ठेत् । एतच् चाकामकारविषयम् । दैवाद् इत्य् अभिधानात् । कामकारे तु द्विगुणम्,

एकां घ्नतां बहूनां तु यथोक्ताद् द्विगुणो दमः ।

इति स्मृत्यन्तरे ऽभिधानात् ॥ ४९ ॥

“सर्पव्याघ्रहतेषु” (९।४२) इत्य् अत्र सर्पादिभिर् गवि हते प्रत्यवायो नास्तीय् उक्तम् । पुरुषप्रहारेण हते त्व् अस्ति प्रत्यवायः । यत्र् अभुषु निमित्तेषु संदेहः तत्र वधनिमित्तं कथं निश्चेयम् – इत्य् आशङ्क्य लिङ्गविशेषैर् इत्य् अभिप्रेत्य तानि लिङ्गानि प्रदर्शयति ।

हते तु रुधिरं दृश्यं व्यधिग्रस्तः कृशो भवेत् ।
लाला भवति दष्टेषु एवम् अन्वेषणं भवेत् ॥ ५० ॥

इति।

यत्र रुधिरं दृश्यते तत्र प्रहारो निमित्तम् इति निश्चेतव्यम् । कार्श्यमात्रोपलम्भे व्याधिर् मृतिहेतुः । लालादर्शने सर्पदंशनं निमित्तम् । एवन् अन्यैर् अपि तत्र् तत्रोचितैर् लिङ्गैर् निमित्तस्वरूपम् अन्विष्य निश्चेतव्यम् ॥ ५० ॥

[२८८]

शृङ्गास्थिभङ्गादौ मरणाभावे ऽपि प्रायश्चित्तविशेषम् अभिहितम् । अस्त्व् एवं बाह्यावयवभङ्गे । यदा त्व् अन्तरावयवभङ्गो न विस्पष्टः तदा कथम् – इत्य् आशङ्क्य तन्निश्चयहेतुं लिङ्गविशेषं दर्शयति ।

ग्रासार्थं चोदितो वापि अध्वानं नैव गच्छति । इति ।

एवम् अन्यैर् अपि लिङ्गविशेषैस् तं तं निमित्तविशेषम् अभिनिश्चित्य तत्र तत्रोचितं प्रायश्चित्तम् अनुष्ठेयम् ॥

“दण्डाद् ऊर्ध्वं यद् अन्येन” (९।२) इत्यादिना ग्रन्थसंदर्भेण निमित्तविशेषान् अनूद्य प्रायश्चित्तविशेषा अभिहिताः । ये तु पूर्वत्रानुदिता निमित्तविशेषाः ये च लिङ्गैर् अप्य् अनिश्चेयाः शङ्क्यमानाः तेषु सर्वेषु साधारणं प्रायश्चित्तं दर्शयति ।

मनुना चैवम् एकेन सर्वशास्त्राणि जानता ॥ ५१ ॥
प्रायश्चित्तं तु तेनोक्तं गाघ्नश् चान्द्रायणं चरेत् ॥

इति।

यथा कलिधर्मरहस्यं तथा तत्प्रतिपादकानि वेदशास्त्राणि जानता पराशरेण मया गोवधविशेषाणां प्रायश्चित्तविशेषा अभिहिताः । एवं मनुनाप्य् उपपातकजातस्य सर्वसाधारणं प्रायश्चित्तं गोवधम् उदाहृत्य उपवर्णितम् । किं तत्- “गोघ्नश् चान्द्रायणं चरेत्” इति । न चात्र केनापि मुनिना विप्रतिपत्तुं शक्यम् इत्य् अभिप्रेत्य एकेनेत्य् उक्तम् । मुनिमुख्येनेति यावत् ॥ ५१ ॥

पूर्वाध्याये गोवधस्येतिकर्तव्येषु वपनम् उक्तम्- “सशिखं वपनं कृत्वा” (पार्स्म् ८।३१) इति । तथास्मिन्न् अप्य् अध्याये ऽभिहितम्-

_ पादे ऽङ्गरोमवपनं द्विपादे श्मश्रुणो ऽपि च ।_

_ त्रिपादे तु शिखावर्जं सशिखं तु निपातने ॥ (पार्स्म् ९।१४)_

[२९०] इति । तत्र केनापि निमित्तेन वपनाकरणे यथोक्तं व्रतं द्विगुणम् अनुष्थेयम् इत्य् आह ।_

केशानां रक्षणार्थाय द्विगुणं व्रतम् आचरेत् ॥ ५२ ॥
द्विगुणे व्रत आदिष्टे द्विगुणा दक्षिणा भवेत् । इति ।

यत्र यत्र व्रतद्वैगुण्यं तत्र तत्र दक्षिणाद्वैगुण्यम् उक्तम् ॥ ५२ ॥

केशरक्षणं न सर्वविषयम् । किं तु राजादिविषयम् इत्य् आह ।

राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥ ५३ ॥
अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् । इति ।

केशरक्षणस्य राजादिविषयत्वं शङ्खो ऽप्य् आह ।

राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।
अकृत्वा वपनं तेषां प्रायश्चित्तं कथं भवेत् ॥
[२९१] केशानां रक्षणार्थाय द्विगुणं व्रतम् आचरेत् ।
द्विगुणे व्रत आचीर्णे दक्षिणा द्विगुणा भवेत् ॥ इति । (शङ्स्म् १७।३९)

वपनद्विगुणव्रतयोर् अन्यतरस्याप्य् अभावे चीर्णम् अपि प्रायश्चित्तं न पापनिवर्तकं भवेत् । तद् आह आपस्तम्बः ।

राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।
यस् तु नो वपनं कुर्यात् प्रायश्चित्तं कथं भवेत् ॥
केशानां रक्षणार्थाय द्विगुणं व्रतम् आचरेत् ।
द्विगुणे तु व्रते चीर्णे द्विगुणा दक्षिणा भवेत् ॥
यस्य न द्विगुणं दानं केशांश् च परिरक्षतः ।
तत् पापं तस्य तिष्ठेत वक्ता च नरकं व्रजेत् ॥
यत् किंचित् क्रियते पापं सर्वं केशेषु तिष्ठति ।
तस्मात् सर्वप्रयत्नेन सशिखं कारयेत् द्विजः ॥ इति । (आप्स्म् ७।४–७)

॥ ५३ ॥

स्त्रीणां तु वपने विशेषम् आह ।

सर्वान् केशान् समुद्धृत्य छेदयेद् अङ्गुलद्वयम् ॥ ५४ ॥
एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् । इति ।

नारीग्रहणेनैव कुमारीणाम् अपि ग्रहणे सिद्धे पृथगुपादानं विधवासु वपनाङ्गीकारद्योतनार्थम् । नात्र नारीशब्दः स्त्रीमात्रवाची । किं तु सभर्तृकस्त्रीवाची । कुमार्यस् तु विवाहरहिताः । तथा च सभर्तृकाणां विवाहरहिआनां चैतद् उक्तं [२९२] भवेत् । ततो विधवानां सर्वात्मना मौण्ड्यम् अङ्गीकृतं भवति ॥ ५४ ॥

पूर्वोक्तेषु व्रताङ्गेषु कानिचिद् अङ्गानि स्त्रीणाम् अपवदति ।

न स्त्रियाः केशवपनं न दूरे शयनाशनम् ॥ ५५ ॥
न च गोष्ठे वसेद् गात्रौ न दिवा गा अनुव्रजेत् ।
नदीषु संगमे चैव अरण्येषु विशेषतः ॥ ५६ ॥
न स्त्रीणाम् अजिजं वासो व्रतम् एव समाचरेत् । इति ।

न स्त्रियाः केशवपनं शिरसो मुण्डनं इत्य् अनयोर् नान्योन्यविरोधः शङ्कनीयः, निषेधस्य कृत्स्नकेशविषयत्वात् । केशाग्रकर्तनम् एव मुण्डनं पूर्वत्र विहितम् । अतो न विरोधः । “संविशन्तीषु संविशेत्” (पार्स्म् ८।३४) इत्य् अनेन गृहमध्ये ग्रामाद् बहिर् दूरे वा यत्र गावस् तत्र शयनं प्राप्तम् । तन्निराकरणाय न दूरे शयनम् इत्य् उक्तम् । रात्रौ [२९३] गोष्ठावस्थानं दिवा गवाम् अनुव्रजनं च पुंसाम् एव । न स्त्रियाः । नदीसंगमेष्व् अरण्येषु च वासो यद्य् अपि न साक्षात् पूर्वम् उक्तः, तथापि “गोऽनुगामी” (य्ध् ३।२६३) इति शास्त्राद् अर्थतः प्रसक्तं तदुभयं निवार्यते । “चर्मणार्द्रेण संवृतः” (म्ध् ११।१०८) इत्यादिशास्त्रतः प्रसक्तम् अजिनवास्स्त्वं निषिध्यते । व्रतम् एवेत्य् एवकारेण यथोक्ताङ्गनिवृत्तिर् एवानूद्यते ॥ ५५–५६ ॥

वपनादीनाम् इव त्रिसंध्यस्नानादीनाम् अपि निषेधप्रसक्ताव् आह ।

त्रिसंध्यं स्नानम् इत्य् उक्तं सुराणाम् अर्चनं तथा ॥ ५७ ॥
बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् । इति ।

“त्रिसंध्यम् अवगाहनम्” (६।९) इति यत् पूर्वम् उक्तं तत् स्त्रीणाम् अप् समानम् । सुरार्चनं नमस्कारादि । कृच्छ्रचान्द्रायणादिकं यद् व्रतं तद् योषितो बन्धुमध्ये ऽनुतिष्ठेयुः । न पुरुषा इव विजने देशे ॥ ५७ ॥

नियमान्तरम् आह ।

गृहेषु सततं तिष्ठेत् शुचिर् नियमम् आचरेत् ॥ ५८ ॥

इति।

प्रक्रान्तस्य व्रतस्य समाप्तिपर्यन्तं गृहसीम्नो न बहिर् गच्छेत् ॥ ५८ ॥

[२९४]

अध्यायद्वयेन यत् प्रायश्चित्तं प्रपञ्चितं तस्याननुष्ठाने द्विविधं दिव्यं भौमं च नरकविशेषं दर्शयति ।

इह यो गोवधं कृत्वा प्रच्छादयितुम् इच्छति ।
स याति नरकं घोरं कालसूत्रम् असंशयम् ॥ ५९ ॥
विमुक्तो नरकात् तस्मात् मर्त्यलोके प्रजायते ।
क्लीबो दुःखी च कुष्ठी च सप्तजन्मानि वै नरः ॥ ६० ॥

इति।

मित्रादीनाम् उत्कोचदानादिना जनापवादमात्रपरिहारः प्रच्छादनम् । घोरस्य नरकविशेषस्य नामधेयं काल्सूत्रम् इति । सो ऽयं दिव्यो नरकः । नैरन्तर्येण सप्तजन्मसु क्लीबत्वादिदोषयोगो भौमो नरकः ॥ ५९–६० ॥

अध्यायद्वये प्रतिपादितं प्रकरणार्थम् उपसंहरति ।

तस्मात् प्रकाशयेत् पापं स्वधर्मं सततं चरेत् ।
स्त्रीबालभृत्यगोविप्रेष्व् अतिकोपं विवर्जयेत् ॥ ६१ ॥

इति।

यस्मात् प्रच्छादने द्विविधो नरकः प्रोक्तः तस्माद् अप्रच्छाद्य वेदविदाम् अग्रे प्रकाश्य तैर् विनिर्दिष्टं स्वस्योचितं धर्मं प्रायश्चित्तविशेषम् आचरेत् । तत ऊर्ध्वम् ईदृशपापानुत्पत्तये स्त्रीबालादिषु कोपरहितो भवेत् ॥ ६१ ॥

[२९५]

अध्याये नवमे पराशरमुनिप्रोक्तस्मृतेर् मन्थने
रोधोद्बन्धनताडनाद्युचितं यत् स्यात् गवां पीडनम् ।
कर्मैतस्य विशेषतः समुदिता सर्वोत्तरा निष्कृतिः
तद्व्याख्याम् अकरोत् कृती शुभधियां भाग्याम्बुधिर् माधवः ॥

इति श्रीमहाराजाधिराजवैदिकमार्गप्रवर्तक-

परमेश्वरश्रीवीरबुक्कभूपालसाम्राज्यधुरन्दरस्य

माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां

माधवीयायां नवमो ऽध्याहः ॥ ९ ॥

[२९६]