अथाष्टमो ऽध्यायः
सप्तमाध्याये द्रव्यशुद्धिः प्रतिपादिता । तत्रान्ते “शुद्धिं समुद्धरेत्” इत्य् उक्तम् । तत्रोद्धारप्रकारः प्रकीर्णकादिप्रायश्चित्तरूपश् चतुर्थादित्रिष्व् अध्यायेषूपवर्णितः । अथावशिशिष्ट उपवर्णनीयः । षष्ठाध्याये च “वैश्यं वा क्षत्रियं वापि” इत्यादिनोपपातकानां प्रायश्चित्तान्य् उपवर्णयन् बहुवक्तव्यसद्भावाद् उपपातकविशेषस्य गोवधस्य प्रायश्चित्तं तत्रोपेक्षितम् । तद् इदानीम् अध्यायद्वयेन विवक्षुर् आदौ मुनिविप्रतिपत्तिं सूचयितुं पृच्छति ।
गवां बन्धनयोक्त्रेषु भवेन् मृत्युर् अकामतः ।
अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ॥ ८।१ ॥
इति।
योक्त्राणि पाशाः । बन्धनार्थानि योक्त्राणि बन्धनयोक्त्राणि । तेषु बद्धानां गवाम् इतस् ततः संचरणादिना गले निरुद्धानां कथंचित् मृत्युर् भवेत् । स चाकामकृतः । पुरुषेण [२००] तन्मरणाय प्रयत्नस्याकृतत्वात् । तादृशस्य गोवधस्य प्रायश्चित्तं वक्तव्यम् । सर्वमुनिसंमतं मुख्यं प्रायश्चित्ताधिकारं द्योतयितुम् अकामकृतस्येत्य् अनुवादः । कामकृतस्य तु प्रायश्चित्तं कैश्चिद् एव मुनिभिर् अभ्युपगम्यते । न तु सर्वैः । तद् आह मनुः ।
अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः ।
कामकारकृते ऽप्य् आहुर् एके श्रुतिनिदर्शनात् ॥ इति । (म्ध् ११।४५)
जाबालिर् अपि ।
अकामकृतपापानां ब्रुवन्ति ब्राह्मणा व्रतम् ।
कामकारकृते ऽप्य् एके द्विजानां वृषलस्य च ॥ इति ।
देवलो ऽपि ।
यत् स्याद् अनभिसंधाय पापं कर्म सकृत् कृतम् ।
तस्येयं निष्कृतिः प्रोक्ता धर्मविद्भिर् मनीषिभिः ॥
विधेः प्राथमिकाद् अस्माद् द्वितीये द्विगुणं स्मृतम् ।
[२०१] तृतीये त्रिगुणं कृच्छ्रं चतुर्थे नास्ति निष्कृतिः ॥
अभिसंधिकृते पापे सकृद् वा नेह निष्कृतिः ।
अपरे निष्कृतिं ब्रूयुर् अभिसंधिकृते ऽपि च ॥ इति ।
बौधायनस् तु कामकृतस्य प्रायश्चित्ताभावम् आह ।
अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः ।
ऋषयो निष्कृतिं तस्य वदन्त्य् अमतिपूर्वके ॥
मतिपूर्वं हते तस्मिन् निष्कृतिर् नोपलभ्यते ॥ इति । (ब्ध् २।१।१।६)
छागलेयो ऽपि ।
प्रायश्चित्तम् अकामानां कामावाप्तौ न विद्यते । इति ।
अङ्गिरास् तु कामकृतस्य द्विगुणं व्रतम् आह ।
अकामतः कृते पापे प्रायश्चित्तं न कामतः ।
स्यात् त्व् अकामकृते यत् तु द्विगुणं बुद्धिपूर्वके ॥ इति ।
एवं च कामकृते विप्रतिपत्ताव् अपि अकामकृते तदभावात् तादृशः सर्वसंमतो मुख्याधिकारी ।
अत्रेदं विचार्यते – भवत्व् अकामकृतस्य प्रायश्चित्तसद्भावे मुनीनाम् अविवादः कामकृतस्य तूक्तरीत्या मुनिविप्रतिपत्तौ को निर्णय इतीदं विचार्यते ।
अत्र केचिद् निर्णयम् आहुः – द्विविधा हि पापस्य शक्तिः । नरकोत्पादिका व्यवहारनिरोधिका चेति अतस् तन्निवर्तकस्य [२०२] प्रायश्चित्तस्यापि शक्तिर् द्विधा भिद्यते । नरकनिवारिका व्यवहारजननी चेति । तत्र प्रायश्चित्ताभाववादिनां मुनीनां नरकनिवारणाभावो ऽभिप्रेतः । सद्भाववादिनां तु व्यवहारजननी शक्तिर् अभिप्रेता । अयं च निर्णयो याज्ञवल्क्येन विस्पष्टम् अभिहितः ।
प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् ।
कामतो ऽव्यवहार्यस् तु वचनाद् इह जायते ॥ इति । (य्ध् ३।२२६)
अस्यायम् अर्थः – यद् एनो ब्रह्मघातादिकम् अज्ञानकृतं तत् विहितैर् द्वादशवार्षिकादिभिर् अपैति । कामतस् तु कृतं चेत् स पुमान् शिष्टैर् व्यवहार्यः केवलम् इह लोके भवति । न तु तस्य नरकापादकम् एनः प्रायश्चित्तैर् अपैति ।
ननु – एवं सति प्रायश्चित्तं पापस्य कांचिच् छक्तिम् अपनुदति कांचिन् नेत्य् अर्धजरनीयं प्रसज्येत । न हि कुक्कुट्या एको भागः पच्यते अपरो भागः प्रसवाय कल्पत इति क्वचिद् दृष्टम् ।
न, वचनाद् अर्धजरतीत्य् अस्याप्य् अङ्गीकार्यत्वात्, “किं हि वचनं न कुर्यात् । नास्ति वचनस्यातिभारः” इति न्यायात् । अन्यथा यौक्तिकं मन्यः पापशक्तिं प्रायश्चित्तशक्तिं च केन दृष्टान्तेन समर्थयिष्यति । वचनं च कामकृतानां द्विगुणं व्रतं दर्शयति ।
विहितं यद् अकामानां कामात् तत द्विगुणं भवेत् । इति ।
अतो द्विगुणप्रायश्चित्तेनेह लोके व्यवहारः सिध्यति । [२०३] यस् तु व्यवहारम् अनपेक्ष्य परलोकनिर्वाहम् एव केवलम् अपेक्षिते तस्य बुद्धिपूर्वकेषु महापातकेषु मरणान्तिकम् एव प्रायश्चित्तम् । तत्र शातातपः- “अकावावाप्तौ प्रायश्चित्तम् । कामकारकृते त्व् आत्मानम् अवसादयेत्” इति । स्मृत्यन्तरे ऽपि ।
यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य निष्कृतिर् दृष्टा भृग्वग्निपतनाद् ऋते ॥ इति ।
मनुर् अपि ।
प्रास्येद् आस्त्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ।
लक्ष्यं शस्त्रभृतां वा स्यात् विदुषाम् इच्छयात्मनः ॥ इति । (म्ध् ११।७३)
तस्मात् कामकारिणो मरणेन नरकपातनिवृत्तिः व्रतचर्यया तु व्यवहारसिद्धिर् इति निर्णयः ।
अपरे पुनर् एवम् आहुः – यद् उक्तं मरणान्तिकप्रायश्चित्तेन नरकनिवृत्तिर् इति तत् तथैव । यत् तु व्रतचर्यया व्यवहारसिद्धिर् एव न तु नरकनिवृत्तिर् इति तत् विपर्येति । चीर्णव्रतस्य नरकस् तावन् निवर्तते । इह लोके तु तस्य शिष्टैः सह व्यवहारो ऽस्ति । एतच् च “अव्यवहार्यः” इति याज्ञवल्क्यवचने पदं छित्त्वा योजनीयम् । कामतश् चेत् पापं कृतं स पापी कृतप्रायश्चित्तो ऽप्य् अव्यवहार्य इह लोके जायते । तच् चाव्यवहार्यत्वं वचनबलाद् अवगन्तव्यम् । वचनं च मानवम् एतत् ।
बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अप् धर्मतः ।
शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च् न संवसेत् ॥ इति । (म्ध् ११।१९०)
अतः कृतप्रायश्चित्ता महापातकिनः परलोके शुद्धा अपि शिष्टैर् इह बहिःकार्याः ॥
ननु – उपपातकिनाम् अपि कृतप्रायश्चित्तानां बहिष्कार एवोचितः । तथा च वैय्यासिकं न्यायसूत्रम्- “बहिस् तूभयथापि स्मृतेर् आचाराच् च” (शासू ३।४।४३) [२०५] इति । अस्यायम् अर्थः – यद्य् उपपातकं यदि वा महापातकं उभयथापि कृतप्रायश्चित्ताः शिष्टैर् बहिःकार्याः । “प्रायश्चित्तं च पश्च्यामि” इति निन्दास्मृतेः शिष्टाचाराच् च – इति चेत् ।
मैवम् – अयं हि बहिष्कार ऊर्ध्वरेतोविषयम् । न तु गृहस्थविषयः । ऊर्ध्वरेतोविचाराणाम् एव तत्र प्रस्तुतत्वात् । इदं च कौशिकेन स्पष्टीकृतम् ।
नैष्ठिकानां वनस्थानां यतीनां चावकीर्णिनाम् ।
शुद्धानाम् अपि लोके ऽस्मिन् प्रयापत्तिर् न विद्यते ॥ इति ।
तद् एवम् ऐहिकव्यवहाराय परलोकाय वा कामकृतानां महापातकानाम् उपपातकानां चास्त्य् एव प्रायश्चित्तम् इति सिद्धम् ॥ ८।१ ॥
“प्रायश्चित्तं कथं भवेत्” इति सेतिकर्तव्यताकस्य प्रायश्चित्तस्य पृष्टत्वात् परिषदुपसत्तिरूपाम् आद्याम् इतिकर्तव्यताम् आह ।
वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् ।
स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ॥ ८।२ ॥
इति।
नामधारकविप्राणां परिषत्त्वं नास्तीति वक्ष्यमाणम् अर्थं हृदि निधाय तद्व्यावृत्तिसमर्थैर् विशेषणैर् परिषद्योग्या ब्राह्मणा विशेष्यन्ते । यद्य् अपि मन्वादिधर्मशास्त्रज्ञानमात्रेण ब्राह्मणाः प्रायश्चित्तं विधातुं सर्मर्थाः तथापि [२०६] “शुनालीढं हविर् यथा” (दस्म् ७।४३) इति न्यायेन अनधीतवेदैः स्वकर्मानुष्ठानरहितैर् निर्दिष्टं प्रायश्चित्तं न पापापनोदनक्षमम् । तस्मात् स्वकर्मनिष्ठान् वेदपारंगतान् उपेत्य तेषाम् अग्रे चिकीर्षितप्रायश्चित्तनिमित्तं पापम् अशेषेण निवेदयेत् । सेयं परिषद् उपसत्तिः । ताम् एताम् उपसत्तिम् अङ्गिरा अपि स्पष्टं दर्शयति ।
अत ऊर्ध्वं प्रवक्ष्यामि उपस्थानस्य लक्षणम् ।
उपस्थितो हि न्यायेन व्रतादेशनम् अर्हति ॥
सद्यो निःसंशये पापे न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्धयेत् पापं पर्षद् यत्र न विद्यते ॥
संशये तु न भोक्तव्यं यावत् कार्यविनिश्चयः ।
प्रमादश् च न कर्तव्यो यथैवासंशये तथा ॥
कृत्वा पापं न गूहेत गूह्यमानं विवर्धते ।
स्वल्पं वाथ प्रभूतं वा धर्मविद्भ्यो निवेदयेत् ॥
ते हि पापकृतो वैद्या हन्तारश् चैव पाप्मनाम् ।
[२०७] व्याधितस्य यथा वैद्या बुद्धिमन्तो रुजापहाः ॥
प्रायश्चित्ते समुत्पन्ने ह्रीमान् सत्यपरायणः ।
मृदुर् आर्जवसंपन्नः शुद्धिं याचेत मानवः ॥
सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः ।
क्षत्रियो वाथ वैश्यो वा ततः पर्षदम् आव्रजेत् ॥
उपस्थाय ततः शीघ्रम् आर्तिमान् धरणीम् व्रजेत् ।
गात्रैश् च शिरसा चैव न च किंचिद् उदाहरेत् ॥ इति । (अङ्/स्म् ३।७४–८१)
॥ २ ॥
यथोक्तविशेषणरहितानां परिषत्त्वं निषेद्धुं तेषां स्वरूपम् आह ।
सावित्र्याश् चापि गायत्र्याः संधोपास्त्यग्निकार्ययोः ।
अज्ञानात् कृषिकर्तारो ब्राह्मणा नामधारकाः ॥ ३ ॥
इति।
“तत् सवितुर् वरेण्यम्” इति सवितृप्रतिपादकत्वात् सावित्री । णिकारयकारयोर् विश्लेषेण चतुर्विंशत्यक्षरत्वाद् गायत्री, “चतुर्विंशत्यक्षरा गायत्री” इति श्रुतेः । सावित्र्यादीनाम् अज्ञानान् न मुख्या ब्राह्मणाः । [२०८] ब्रह्म वेदः । तम् अधीत्यार्थं चावगत्य ये ऽनुतिष्ठन्ति मुख्यास् ते ब्राह्मणाः । तद् आह अङ्गिराः ।
जन्मशारीरविद्याभिर् आचारेण श्रुतेन च ।
धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते ॥ इति । (अङ्स्म् १।५१)
ये तु सावित्रीं सम्यक् न जानन्ति दूरे तदनुष्ठानं ते विशिष्टमातापितृजन्या अपि ब्राह्मणनाममात्रं धारयन्ति । न तु यथोक्तब्राह्मणशब्दार्थत्वं तेषु विद्यते । अत एव याजनाध्यापनादिजीवनहेत्वसंभवाज् जीवनाय कृषिं कुर्वन्ति । तेषु ब्राह्मणशब्दार्थत्वाभावं व्यास आह ।
ब्रह्मबीजसमुत्पन्नो ब्राह्मसंस्कारवर्जितः ।
जातिमात्रोपजीवी यः सो ऽब्राह्मण इति स्मृतः ॥ इति । (व्यास्म् ४।४२)
नामधारकवत् ब्राह्मणब्रुवस्यापि न मुख्यं ब्राह्मण्यम् । ब्राह्मणब्रुवश् च चतुर्विंशतिमते दर्शितः ।
गर्भाधानादिसंस्कारैर् वेदोपनयनैर् युतः ।
नाध्यापयति नाधीते स भवेद् ब्राह्मणब्रुवः ॥ इति ॥
॥ ३ ॥
अमुख्यब्राह्मणानां वृद्धव्यवहारदर्शनेन प्रायश्चित्तविशेषपरिज्ञाने ऽपि परिषत्त्वयोग्यत्वं नास्तीत्य् आह ।
[२०९] अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ ४ ॥
इति।
सौम्यप्राजापत्यादिव्रतहीना अव्रताः । अनधीतवेदा अमन्त्राः ।
ननु – अध्यात्मविद्यायुक्तस्यैकस्यैव परिषत्त्वम् अस्ति, “एको वाध्यात्मवित्तमः” (य्ध् १।९) इति स्मरणात् । अध्यात्मविद्यारहितस्य त्व् एकस्य परिषत्त्वाभावे ऽपि चतुर्णां परिषत्त्वं स्मर्यते- “चत्वारो वेदधर्मज्ञाः परिषत्” (य्ध् १।९) इति । अनयैव दिशाध्ययनादिरहितानां पञ्चषाणां परिषत्त्वाभावे ऽपि शतसहस्रादिसंख्यायुक्तानां परिषत्त्वं भविष्यतीत्य् आशङ्क्य तन्निवारणाय “सहस्रशः समेतानाम्” इत्य् उक्तम् । अध्यय्नादिहीनवन् नास्तिकादीनाम् अपि परिषत्त्वं नास्ति । यद् उक्तं चतुर्विंशतिमते ।
वेदपारम् अनीता ये धर्मशास्त्रविवर्जिताः ।
परिषत्त्वं न तेषां स्यान् नाश्तिकानां विशेषतः ॥
अनाहिताग्नयो ऽज्ञानाः केवला वेदपारगाः ।
[२१०] पिशुनाः क्रूरकर्माणः परिषत्त्वं न विद्यते ॥
शास्त्रज्ञा दुष्टकर्माणः प्रतिकूलास् त्व् असूयकाः ।
हैतुका भिन्नमर्यादास् ते ऽपि पर्षद्विवर्जिताः ॥
इति ॥ ४ ॥
पूर्वत्र “धर्मशास्त्रं विजानताम्” (७२) इति विशेषणेन तद्विज्ञानरहितस्य प्रायश्चित्तवक्तृत्वं नास्तीति यद् अर्थात् सूचितं तद् एवात्र श्लोकद्वयेन प्रपञ्चयति ।
यद् वदन्ति तमोमूढा मूर्खा धर्मम् अतद्विदः ।
तत् पापं शतधा भूत्वा तद्वक्तॄन् अधिगच्छति ॥ ५ ॥
अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत् पूतः किल्बिषं पर्षदि व्रजेत् ॥ ६ ॥
इति।
अज्ञानं द्विविधम् । सत्य् अपि धर्मशास्त्रपाठे न्यायनिर्णयकौशलाभावेन प्रकृतस्य सूक्ष्मस्य प्रायश्चित्तविशेषस्यापरिज्ञानम् एकम् । वृद्धव्यवहारेण सत्य् अपि परिज्ञाने धर्मशास्त्रापरिशीलनम् अपरम् । तद् उभयम् अभिलक्ष्य श्लोकद्वयम् । तमोमूढाः प्रज्ञामान्द्येन तमसा सूक्ष्मन्यायेषु विभ्रान्ताः । मूर्खाः पण्डितंमन्याः । अतद्विदः प्रायश्चित्तविशेषम् अज्ञानन्तः । तादृशाः पुरुषा यत् पापम् उद्दिश्य धर्मं प्रायश्चित्तम् अन्यथा वदन्ति तत् पापं शतगुणां भूत्वा तान् मूर्खान् वक्तॄन् प्राप्नोति । अङ्गिराश् चैतद् एवाह ।
[२११] यत् तु दत्तम् अजानद्भिः प्रायश्चित्तं सभागतैः ।
तत् पापं शतधा भूत्वा दातॄन् एवोपतिष्ठति ॥ इति । (अङ्स् ३।५४)
प्रायश्चित्ती चान्यथाकारित्वान् न शुध्यति । यस् तु धर्मशास्त्रपाठहीनः प्रायश्चित्तविशेषं लोकतो ऽवगत्य निर्दिशति तत्र यथाशास्त्रानुष्ठायित्वात् प्रायश्चित्ती पूतो भवति । स तु वक्ता किल्बिषं व्रजेत्, धर्मशास्त्राणाम् अपठितत्वात् । तत्पाठाभावे च विधायकवचनस्योदाहर्तुम् अशक्यत्वात् । उदाहृत्यैव वचनं प्रायश्चित्तं निर्देष्टव्यम् इति हि पूर्वम् उक्तम्-
मुनिवक्त्रोद्गतान् धर्मान् गायन्तो वेदवित्तमाः । इति । (पार्स्म् ६।३५)
अङ्गिरा अपि ।
वचः पूर्वम् उदाहार्त्यं यथोक्तं धर्मवक्तृभिः ।
पश्चात् कार्यानुसारेण शक्त्या कुर्युर् अनुग्रहम् ॥
न हि तेषाम् अतिक्रम्य वचनानि महात्मनाम् ।
प्रज्ञानैर् अपि विद्वद्भिः शक्यम् अन्यत् प्रभाषितुम् ॥ इति । (अङ्स्म् ३।४१)
॥ ५–६ ॥
[२१२]
धर्मशास्त्रपरिज्ञानस्य न्यायनिर्णयकौशलस्य च सद्भावे ऽप्य् अन्वधानादिचित्तदोषशङ्काव्युदासाय स्वसमानैस् त्रिचतुरैः सह संवादो ऽपेक्षीत इत्य् अभिप्रेत्याह ।
चत्वारो वा त्रयो वापि यं ब्रूयुर् वेदपारगाः ।
स धर्म इति विज्ञेयो नेतरैस् तु सहस्रशः ॥ ७ ॥
इति।
बहूनाम् अन्योन्यसंवादेन यो निश्चितः स एव धर्म इति विज्ञेयः । इतरैर् अन्योन्यसंवादम् अनाद्रियमाणैः सहस्रसंख्याकवचनपाठपुरःसरम् अभिहितो ऽपि विसंवादशङ्काया अनिराकृतत्वान् नासौ धर्मत्वेन स्वीकार्यः ॥ ७ ॥
सत्य् अपि त्रिचतुराणां परस्परसंवादे विप्रकीर्णेष्व् अनेकेषु धर्मशास्त्रेषु क्वापि कस्यचिद् विशेषस्य संभवात् प्रायश्चित्तनिर्देशवेलायां पुनः शास्त्राणि पर्यालोच्यैव निर्देष्टव्यम् इत्य् आह ।
प्रमाणमार्गं मार्गन्तो ये धर्मं प्रवदन्ति वै ।
तेषाम् उद्विजते पापं सद्भूतगुणवादिनाम् ॥ ८ ॥
इति।
प्रमाणमार्गो धर्मशास्त्रतात्पर्यम् । तस्य मार्गः न्यायेन [२१३] निष्कर्षः । तं कुर्वन्ति एव ये धर्मं प्रवदन्ति तेभ्यः पापम् उद्विजते नाशयोग्यताम् आपद्यते इति यावत् । तत्र हेतुः सद्भूत इति । सद्भूतः सत्यभूतो ऽन्यथाभावम् अप्राप्तः, परस्परसंवादेनानवधानादि-दोषाभावात् । पुनः शास्त्रपर्यालोचनेन निगूढरहस्यावगमाच् च गुणो धर्मः, श्रेयोहेतुत्वात् । तादृशधर्मवादित्वात् तेभ्यः पापस्योद्वेगो युक्तः । परस्परसंवादः पुनर् धर्मशास्त्रपाठश् च अङ्गिरसा दर्शितः ।
तस्मिन्न् उत्सारिते पापे यथावद् धर्मपाठकाः ।
ते तथा तत्र जल्पेयुर् विमृशन्तः परस्परम् ॥ इति । (अङ्स्म् ३।९७)
पापे पापकारिणि पुरुषे ॥ ८ ॥
ननु – परिषदुद्विग्नं पापं यदि कर्तर्य् एवावतिष्ठते तदा प्रायश्चित्तम् अनर्थकम् । अथ परिषदं प्राप्नुयात् तर्हि कथम् उद्वेगः । — इति अत आह ।
यथास्मनि स्थितं तोयं मारुतार्केण शुध्यति ।
**एवं परिषदादेशात् नाशयेत् तस्य दुष्कृतम् ॥ ९ ॥ **
[२१४] नैव गच्छति कर्तारं नैव गच्छति पर्षदम् ।
मारुतार्कादिसंयोगात् पापं नश्यति तोयवत् ॥ १० ॥
इति।
निम्ने महति वा पाषाणे वर्षधाराभिः स्थितम् उदकं मारुतार्कादिसंयोगो विनाशं प्रापयति । एवम् इयं परिषत् शास्त्रीयस्य प्रायश्चित्तस्यादेशात् तस्य दुष्कृतिं नाश्यति । न हि मारुतादाव् आसज्जते । किं तु शुष्यत्य् एव केवलम् । एवम् इदम् अपि पापं न कर्तर्य् अवतिष्ठते नापि परिषदं प्राप्नोति । किं तु स्वरूपनाशम् एव प्राप्नोति । एतद् एव चतुर्विंशतिमते ऽपि अभिहितम् ।
यथा भूमिगतं तोयम् अर्कपादैर् विनश्यति ।
एवं परिषदादिष्टं नश्यते तस्य दुष्कृतम् ॥
नैव गच्छति कर्तारं नैव गच्छति पर्षदम् ।
मारुतार्कसमायोगात् पापं नश्यति तोयवत् ॥ इति ।
अङ्गिरास् तु प्रश्नपूर्वकम् एतद् एव विशदयति ।
प्रायश्चित्ते यदा चीर्णे ब्राह्मणे दग्धकिल्बिषे ।
सर्वं पृच्छामि तत्त्वेन तत् पापं क्व नु तिष्ठति ॥
नैव गच्छति कर्तारं नैव गच्छति पर्षदम् ।
[२१५] मारुतार्कसमायोगाज् जलवत् संप्रलीयते ॥
यथाश्मनि स्थितं तोयं नाशम् एत्य् अर्कमारुतैः ।
तद्वत् कर्तरि यत् पापं नाशयेद् विदुषां सभा ॥
तेषां नेत्राग्निदग्धं सत् पापं तस्य तु धीमतः ।
नश्यते नात्र संदेहः सूर्यदृष्टं हिमं यथा ॥ इति ॥ ९–१० ॥
अथ मुख्यानुकल्पभेदेन परिषद्भेदान् आह ।
चत्वारो वा त्रयो वापि वेदवन्तो ऽग्निहोत्रिणः ।
ब्राह्मणानां समर्था ये परिषत् साभिधीयते ॥ ११ ॥
अनाहिताग्नयो ये ऽन्ये वेदवेदाङ्गपारगाः ।
पञ्च त्रयो वा धर्मज्ञाः परिषत् सा प्रकीर्तिता ॥ १२ ॥
मुनीनाम् आत्मविद्यानां द्विजानां यज्ञयाजिनाम् ।
वेदव्रतेषु स्नातानाम् एको ऽपि परिषद् भवेत् ॥ १३ ॥
पञ्च पूर्वं मया प्रोक्तास् तेषां चासंभवे त्रयः ।
स्ववृत्तिपरितुष्टा ये परिषत् सा प्रकीर्तिता ॥ १४ ॥
इति।
[२१६]
ग्राममध्ये विद्यमानानां वेदविद्यादिगुणयुक्तानां ब्राह्मणानां मध्ये ये ऽत्यन्तं समर्थास् ते चत्वारो मुख्या परिषत् । तदसंभवे त्रयो वा परिषत्त्वेन ग्राह्याः । एतत् पक्षद्वयम् आहितागिष्व् अभिहितम् । तदसंभवे वानाहिन्ताग्न्यः । तत्रापि पञ्चेति मुख्यः कल्पः । त्रय इत्य् अनुकल्पः । तस्यापि पक्षद्वयस्यासंभवे सत्य् एक एव परिषद् भवेत् । तम् एकं विशेष्टुं मुनीनाम् इत्याद्य् उक्तम् । आत्मनि ब्रह्मणि विद्यानुभवो येषां ते आत्मविद्याः । तथाविधाः कृतकृत्याः सन्तो ऽपि लोकानुग्रहाय यज्ञैर् इष्टवन्तो यज्ञयाजिनः । वेदानाम् ऋगादीनां चतुर्णाम् अध्ययनायानुष्ठितानि तत्तद्वेदोक्तानि व्रतानि वेदव्रतानि । तत्तद्व्रतसहितेषु वेदेषु समाप्तेषु यथाविधि स्नाताः । “श्रोव्रतेन स्नातानाम्” इति वा पाठः । आथर्वणिकानां वेदव्रतेषु मुख्यं व्रतं शिरोव्रतम् । तथा च आथर्वणिका आमनन्ति ।
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः
स्वयं जुह्वत एकर्षि श्रद्धयन्तः ।
तेषाम् एवैतां ब्रह्मविद्यां वदेत
शिरोव्रतं विधिवद् यैस् तु चीर्णम् ॥ (मुउप् ३।२।१०)
[२१७] इति । तस्मिन् शिरोव्रते सत्य् अनन्तरम् अध्ययनं परिसमाप्य यथाविधि स्नाताः । तेषाम् एतेषां यथोक्तसर्वगुणसंपन्नानां मध्ये यः को ऽप्य् एकः परिषद् भवेत् । अत्र साग्निकानाम् अनग्निकानां द्वौ द्वौ पक्षौ अध्यात्मविदस् त्व् एकः पक्षः – इति पञ्च पक्षा मया प्रोक्ताः । तेषां सर्वेषाम् असंभवे केचन विद्यमानाः श्रेष्ठास् त्रयः । ते च यद्य् आयुधजीवनाद्यधर्मवृत्तिम् अनुपजीव्य यथासंभववृत्तिमात्रेण परितुष्टास् तेषाम् अपि परिषत्त्वम् अविरुद्धम् । अङ्गिरसापि परिषद्विकल्पा दर्शिताः ।
चत्वारो वा त्रयो वापि वेदवन्तो ऽग्निहोत्रिणः ।
ये सम्यङ्नियता विप्राः कार्याकार्यविनिश्चिताः ॥
प्रायश्चित्तप्रणेतारः सप्त ते ऽपि प्रकीर्तिताः ।
एकविंशतिभिश् चान्यैः परिषत्त्वं समागतैः ॥
सावित्रीमात्रसारैस् तु चीर्णवेदव्रतैर् द्विजैः ।
यतीनाम् अग्रविद्यानां ध्यायिनाम् आत्मयाजिनाम् ॥
शिरोव्रतैश् च स्नातानाम् एको ऽपि परिषद् भवेत् ।
एषा लाघवकार्येषु मध्यमेषु तु मध्यमा ॥
महापातकचिन्तासु शतशो भूय एव च ॥ इति ।
बृहस्पतिर् अपि ।
[२१८] लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥ इति ।
॥ ११–१४ ॥
नामधारकविप्राणां परिषत्त्वं नास्तीति यत् पूर्वम् उदाहृतं तद् एव दृष्टान्तेन दृढीकर्तुं सिंहावलोकनन्यायेन पुनः परामृशति ।
अत ऊर्ध्वं तु ये विप्राः केवलं नाम्धारकाः ।
परिषत्त्वं न तेष्व् अस्ति सहस्रगुणितेष्व् अपि ॥ १५ ॥
इति।
अत ऊर्ध्वं वर्णितेषु परिषत्पक्षेषु अवगम्यमानेभ्यो गुणवद्भ्यो ब्राह्मणेभ्य ऊर्ध्वं तद्व्यतिरिक्ता गुणरहिता इति यावत् ॥ १५ ॥
गुणरहितेषु ब्राह्मणेषु ब्राह्मण इति नाममात्रं केवलं वर्तते । न तु ब्राह्मणशब्दप्रवृत्तिनिमित्तं मुख्यो ऽर्थो ऽस्तीत्य् एवमर्थं दृष्टान्ताभ्यां विशदयति ।
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मण्स् त्व् अनधीयानस् त्रयस् ते नामधारकाः ॥ १६ ॥
इति।
हस्तित्वं मृगत्वं जातिद्वयं तत्तच्छब्दप्रवृत्तिनिमित्तम् । न चैतत् काष्ठमयचर्ममययोर् विद्यते । तथापि हस्तिमृगनामनी सादृश्यमात्रेण प्रयुज्येते । तद्वद् वेदाध्ययनहीने ब्राह्मणशब्द्प्रयोगः ॥ १६ ॥
_ननु – ब्राह्मणशब्दस्यावयवार्थतस् तस्मिन् मा भूत् । जातिस् तु [२१९] विद्यते । विशिष्टमातापितृजन्यत्वं ब्राह्मणत्वजातिः । तथा च ब्राह्मणशब्दस्य तस्मिन् यौगिकत्वाभावे ऽपि रूढेः सद्भावाद् विषमौ दृष्टान्तौ – तिय् आशङ्क्याह । _
ग्रामस्थानं यथा शून्यं यथा कूपस् तु निर्जलः ।
यथा हुतम् अनग्नौ च अमन्त्रो ब्राह्मण्स् तथा ॥ १७ ॥
इति।
ग्रामशब्दो हि जननिवासस्थाने भूभागविशेषे मुख्यया वृत्त्या वर्तते । कूपशब्दश् च जलाधारे खाते । होमशब्दश् च शास्त्रसंस्कृतवह्नौ हविःप्रक्षेपम् आह । तत्र जनविशिष्टस्थानं मुख्यो ग्रामः । जनशून्यग्रामस् तु ग्रामाभासः । कूपहोमयोर् अप्य् आभासत्वम् एवं योजनीयम् । तैर् एतैर् दृष्टान्तैर् अयं नामधारको जातिमात्रसद्भावे ऽपि योगहीनत्वात् ब्राह्मणाभासः । न तु मुख्यः । पङ्कजशब्दस्य च यदि अपि जातिः प्रवृत्तिनिमित्तं तथाप्य् अवयवार्थस् तस्मिन् निमित्ते ऽन्तर् भवत्य् एव । ततो योगरूढ इति व्यवह्रियते । एवं ब्राह्मणशब्दस्यापि योगरूढत्वात् जातिसद्भावे ऽपि योगहीनत्वाद् आभासत्वं द्रष्टव्यम् ॥ १७ ॥
ननु – मुख्यसंभवे सत्य् अमुख्यं न ग्राह्यम् । तदसंभवे त्व् अमुख्यम् अपि ग्राह्यम् – इति लोकवेदस्थितिः । तथा चाध्ययनादिसंपन्नमुख्यब्राह्मणानां असंभवे सति ब्राह्मणाभासानाम् अपि क्वचित् परिषत्त्वं स्यात् – इत्य् आशङ्क्याह ।
[२२०] यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् ऊषराफला ।
यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥ १८ ॥
इति।
अमुख्यम् अपि यत्र कार्यक्षमं भवति तत्र मुख्यासंभवे तद् उपादेयम् । यथा वैदिके कर्मणि सोमाभावे पूतीकाभिषवः । यथा वा लोके शाल्याभावे कोद्रवादिः । तद्वद् ब्राह्मणाभासस्यापि कार्यक्षमत्वे स्यात् क्वचिद् उपादेयत्वम् । न त्व् अध्ययनहीनस्य प्रायश्चित्तविधानक्षमतास्ति । न हि पुंस्त्वोपेतस्य वतस्यासंभवे ऽपि षण्ढः प्रजाम् उत्पादयन्न् उपलभ्यते । नापि भूमिर् ऊषरा क्वचित् फलति । नप्य् अज्ञः प्रतिगृह्णन् दात्रे फलहेतुः । एवम् असाव् अपि ऋगादिमन्त्रहीनो न पापनिवृत्तिफलहेतुः ॥ १८ ॥\
ननु – नामधारकः षण्ढादिवद् अफलश् चेत् तर्हि संस्कारैर् अपि तस्य को ऽतिशयः स्यात् । न हि शृङ्गारसहस्रेणापि षण्ढः प्रजनयितुं प्रभवति – इत्य् आश्ङ्क्य दृष्टान्तेन संस्कारकृतोत्कर्षं संभावयति ।
[२२१] चित्रकर्म यथानेकैर् अङ्गैर् उन्मील्यते शनैः ।
**ब्राह्मण्यम् अपि तद्वद् धि संस्कारैर् मन्त्रपूर्वकैः ॥ १९ ॥ **
इति । चित्रकारः प्रथमं पटादौ मषीरेखाभिः सर्वावयवसंपूर्णानि मनुष्यादिरूपाणि लिखति । न च तानि तावता दर्शनीयत्वम् आपद्यन्ते । पुनस् तान्य् एव रूपाणि नानाविधवर्णप्रक्षेपेणोन्मीलितानि दर्शनीयताम् आपद्यन्ते । एवं जातिब्राह्मण्यं शास्त्रीयसंस्कारैर् उत्कृष्यते । मन्त्रसंस्कारेण विद्यादयो ऽप्य् उपलक्ष्यन्ते । अत एव अङ्गिराः ।
जन्मशारीरविद्याभिर् आचारेण श्रुतेन च ।
धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते ॥
चित्रकर्म यथानेकैर् अङ्गैर् उन्मील्यते शनैः ।
ब्राह्मण्यम् अपि तद्वत् स्यात् संस्कारैर् विधिपूर्वकैः ॥ इति ॥ १९ ॥
ननु – यत्र संस्कृता बहवो न सन्ति तत्रैकेन संस्कृतेन सतरे नामधारकाः प्रायश्चित्तविधायिनः स्युर् इत्य् आशङ्क्याह ।
प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः ।
ते द्विजा पापकर्माणः समेता नरकं ययुः ॥ २० ॥
इति।
समेताः एकेन संस्कृतेन संगताः । ययुः यान्तीत्य् अर्थः । [२२२] यद्य् अपि संस्कृतः स्वयं नरकं नार्हति तथाप्य् अनर्हैः सहैकस्यां परिषद्य् उपवेशनात् तस्य नरकप्राप्तिः । एतच् च चतुर्विंशतिमते स्पष्टीकृतम् ।
प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः ।
ते सर्वे पापकर्माणः समेतो नरकं व्रजेत् ॥ इति ।
समेतो नामधारकैः संगतः । तावतैवापराधेन मन्त्रसंस्कृतो ऽपि नरकं प्राप्नोति ।
॥ २० ॥
ननु – संस्कृतानां बहूनाम् अपि गृहिणां कथं परिषत्त्वं स्यात् । नामधारकवत् तेषाम् इन्द्रियरतत्वाद् इत्य् आशङ्क्याह ।
ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश् च ये ।
त्रैलोक्यं तारयन्त्य् एते पञ्चेन्द्रियरता अपि ॥ २१ ॥
इति।
वेदो हि निखिलपापापनयने समर्थः । तथा च तैत्तिरीयब्राह्मणे वह्न्यादिपरम्परया प्राप्तं पापं स्वाध्यायो ऽपहन्तीति श्रूयते- “अग्निं वै जातं पाप्मा जग्राह । तं देवा आहुतीभिः पाप्मानम् अपाघ्नन्न् आहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिर् [२२३] दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिश् छन्दसां स्वाध्यायेनापहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्” इति (त्स् ३।७।३४–३९) । मनुर् अपि ।
वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ॥
यथैधांस्य् ओजसा वह्निः प्राश्य निर्दहति क्षणात् ।
तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ (म्ध् ११।२४६–४७)
[२२४] यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥ (म्ध् १२।१०१)
इति । ये तु श्रद्धालव एव सन्तः प्रज्ञामान्द्यादिदोषेण पठितं वेदं धारयितुम् असमर्थाः ते ऽपि पञ्चयज्ञानुष्ठानात् क्षीणपापा एव । पञ्चयज्ञानां पापक्षयहेतुत्वं च प्रथमाध्याये प्रपञ्चितम् । अतश् च पञ्चेन्द्रियप्रसक्तानाम् अपि क्षीणपापत्वेन परिषत्त्वम् अविरुद्धम् ॥ २१ ॥
_ननु – एवम् अपि पञ्चयज्ञादिभिः परिशुद्धेषु गृहिषु परकीयं पापम् अनुप्रविशति, परान्नभोजनादेस् तत्प्रापकत्वात्, _
_ दुष्कृतं हि मनुष्याणाम् अन्नम् आश्रित्य तिष्ठति ।_
_ अन्नादेर् भ्रूणहा मार्ष्टि ॥॥॥॥॥॥। ।_
इत्यादिस्मरणात् – इत्य् अत आह ।_
संप्रणीतः श्मशानेषु दीप्तो ऽग्निः सर्वभक्षकः ।
एवं च वेदविद् विप्रः सर्वभक्षो ऽपि दैवतम् ॥ २२ ॥
इति।
न ह्य् अग्निः श्मशाने नीतः शवादिभक्षकः इत्य् एतावता देवत्वं परित्यजति । एवं वेदविदो भूदेवस्य अभक्ष्याभोज्यादिदोषमात्रेण भूदेवत्वं नापैति, एकैकस्य मन्त्रस्याभक्ष्यभक्षणाद्यशेषदोषनिवर्तकत्वात् । तथा च मन्त्रलिङ्गम् ।
[२२५] यद् अन्नम् अद्म्य् अनृतेन देवा दास्यन्नदास्यन्नुत वा करिष्यन् ।
यद् देवानां चक्षुष्यागो ऽस्ति यद् एव किंच
प्रतिग्राहम् अग्निर् मा तस्माद् अनृणं कृणोतु ॥
यद् अन्नम् अद्मि बहुधा विरूपं वासो हिरण्यम् उत गाम् अजाविम् । (ऋग्वेदः ३।६।२१।५)
इत्यादि । अनृतेन परकीयादौ स्वकीयत्वादिवचनेन । दास्यण्ननर्हेभ्यो नष्टशौचाचारादिभ्यः स्नेहानुबन्धेन हव्यकव्ययोः प्रयच्छन् । अदास्यन्नातिथ्यदिभ्यो योग्येभ्यो ऽप्रयच्छन् । करिष्यन्न् अन्नभक्षणव्यतिरिकतम् प्रतिषिद्धं वा कुर्वन् चक्षुष्य् आगो नग्नपरयोषिदवलोकनादि । तथा देवानाम् आगः विष्ण्वाद्यं देवं दृष्ट्वाप्य् अनमस्करादि । यद् एव किंच अश्वमहिषकालपुरुषाद्यप्रतिग्राह्यं यत् किंचित् प्रतिजग्राहं प्रतिगृहीतवान् अस्मि । बहुधा विरूपं गणान्नगणिकान्नादिरूपेणानेकदोषयुक्तं यद् अन्नम् अद्मि भक्षितवान् अस्मि । यथोक्तान् सर्वस्माद् दोषजातात् माम् अनृणं पूतम् अग्निः करोत्व् इति मन्त्रार्थः । तथा पवमानसूक्तादिमहिमानम् अभिधीयते ।
क्रयविक्रयाद् योनिदोषाद् रक्षाद् भोज्यात् प्रतिग्रहात् ।
असंभोजनाच् चापि नृशंसं तत् पावमानीभिर् अहं पुनामि ॥
इति (ऋग्वेदः ७।२।३, परिशिष्टम् २)
तथा माम् अविधाने समगाः पठन्ति ।
[२२६] अभोज्यभोजने एते पन्था अधो दिवः । (साम्विब्र् २।५।३)
इति साम गायेद् इति शेषः । मनुर् अपि ।
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा वान्नं विगर्हितम् ।
जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ॥
हत्वा लोकान् अपीमांस् त्रीन् अश्नन्न् अपि यतस् ततः ।
ऋग्वेदं धारयन् विप्रो नैनः प्रप्नोति किंचन ॥ (म्ध् ११।२५३, २६१)
इति ॥ २२ ॥
ननु – उक्तरीत्या वेदविदः स्वकीयपापम् अपनयन्तु नाम । तथापि वैलोक्यं तारयन्त्य् एते – इति यद् उक्तं तत् कथम् । इत्याशक्क्य दृष्टान्तेन तद् उपपादयति ।
[२२७] अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके ।
तथैव किल्बिषं सर्वं प्रक्षिपेच् च द्विजानले ॥ २३ ॥
इति।
गङ्गादिजले स्नातुं प्रविष्टाः शरीरात् स्वेदादीन्य् अमेध्यानि प्रक्षिपन्ति । नैतावता तज्जलम् अपूतं भवति । प्रत्य् उत मलोपेतान् पुरुषान् मलापनयनेन पुनाति । एवं प्रायश्चित्ती स्वकीयम् अशेषं पापं वेदवित्सु प्रक्षिपति । तत्र प्रक्षेपणं नाम तदपनयनाय तेषाम् अग्रे निवेदनम् । ते च तदपनयाङ्गीकारमात्रेणम् न दुष्यन्ति प्रत्य् उत तदपनयनसमर्थं शास्त्रीयम् उपायम् उपदिश्य पापिनम् उद्धरन्ति तस्मात् तारयन्तीत्य् उपपन्नम् ॥ २३ ॥
_ननु – वेदविद्यायाश् चेद् ईदृशो महिमा तर्हि वेदविदां दैनन्दिनगायत्र्युपास्त्यादिष्व् अलसानाम् अपि परिषत्त्वं प्रसज्येतेत्य् अत आह ।स्
गायत्रीरहितो विप्रः शूद्राद् अप्य् अशुचिर् भवेत् ।
गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते जनैर् द्विजाः ॥ २४ ॥
इति।
गायत्री च ब्रह्म च गायत्रीब्रह्मणी । तयोस् तत्त्वं गायत्रीब्रह्मतत्त्वम् । तत्र गायत्र्यस् तत्त्वम् अङ्गन्यासकालवर्णविशेषध्यानादि । ब्रह्मणस् तत्त्वं वेदोक्तो निःशेषानुष्ठेयो ऽर्थः । तद् उभयं यथावद् अवगत्यानुतिष्ठन्तस् तत्त्वज्ञा इह विवक्षिताः । [२२८] यद् वा ब्रह्म परमात्मा । तस्य तत्त्वं वेदान्तप्रतिपाद्यं स्वरूपम् । तद् गायत्र्यन्तर्गततच्छब्दवाच्यत्वेनावगत्योपासते ये ते गायत्रीब्रह्मतत्त्वज्ञाः ॥ २४ ॥
ननु – यस्मिन् ग्रामे जितेन्द्रियः शास्त्रोक्तस्वधर्मवर्ती शूद्रो विद्यते तत्र पञ्चेन्द्रियरताद् दुःशीलाद् वरं तस्यैव शूद्रस्य परिषत्त्वम् इत्य् अत आह ।
दुःशिलो ऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः ।
कः परित्यज्य गां दुष्टां दुहेच् छीलवतीं करीम् ॥ २५ ॥
इति।
कः परित्यज्य इत्यादिर् दृटान्तः । जातिशीलयोर् मध्ये जात्युत्कर्ष एव प्राधान्येनोपादेयः । शीलं तु यथासंभवम् । अत एव चतुर्विंशतिमते शूद्रोपदेशस्यानुपादेयत्वं प्रपञ्चयति ।
श्वचर्मणि यथा क्षीरम् अपेयं ब्राह्मणादिभिः ।
तद्वत् शूद्रमुखाद् वाक्यं न श्रोतव्यं कथंचन् ॥
पण्डितस्यापि शूद्रस्य शास्त्रज्ञानरतस्य च ।
वचनं तस्य न ग्राह्यं शुनोच्छिष्टं हविर् यथा ॥
[२२९] शूद्रो ज्ञानावलेपेन ब्राह्मणान् भाषते यदि ।
स याति नरकं घोरं यावद् आभूतसंप्लवम् ॥
कृष्णसर्पं द्विजं नष्टं शूद्रं च प्रतिपाठकम् ।
गर्दभं जारजातं च दूरतः परिवर्जयेत् ॥ इति ॥ २५ ॥
ननु – दुःशीलानां परिषत्त्वाभ्युपगमे तन्निर्दिष्टप्रायश्चित्तस्यान्यथाभावः शक्यते इत्य् अत आह ।
धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः ।
क्रीडार्थम् अपि यद् ब्रूयुः स धर्मः परमः स्मृतः ॥ २६ ॥
इति।
यथा युद्धार्थं रथम् आरुह्य खड्गं धृत्वा समागतस्य योद्धुं मुहूर्त्मात्रं विलम्बिते ऽपि युद्धे खड्गचालनादिरूपा युद्धोचितैव लीला प्रवर्तते । न त्व् अप्रस्तुताक्षद्यूताद्रूपा । तद्वत् धर्मशास्त्रवासनावसितत्वात् क्रीडन्न् अपि यथाशास्त्रम् एव ब्रूते । किम् उ वक्तव्यं बुद्धिपुऋवं परिषद्य् उपवेश्य,
` अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी । (म्ध् ८।१३)
इत्यादिशास्त्रं चावगत्यान्यथा न ब्रूते इति ॥ २६ ॥
इत्थं योग्यायोग्यपरषदौ विविच्य तत्र योग्यायाः परिषदो ऽपेक्षितं विशेषणजातं दर्शयति ।_
[२३०] चातुर्वेद्यो विकल्पी च अङ्गविद् धर्मपाठकः ।
त्रयश् चाश्रमिणो मुख्याः पर्षद् एषा दशावरा ॥ २७ ॥
इति।
तत्र चातुर्वेद्याद्यादिशब्दार्थान् अङ्गिरा विवृणोति ।
चतुर्णाम् अपि वेदानां पारगा ये द्विजोत्तमाः ।
स्वैः स्वैर् अङ्गैर् विनाप्य् एते चातुर्विद्या इति स्मृताः ॥
धर्मस्य पर्षदश् चैव प्रायश्चित्तक्रमस्य च ।
त्रयाणां यः प्रमाणज्ञः स विकल्पी भवेत् द्विजः ॥
शब्दे छन्दसि कल्पे च शिक्षायां च सुनिश्चितः ।
ज्योतिषाम् अयने चैव सनिरुक्ते ऽङ्गविद् भवेत् ॥
वेदविद्याव्रस्नातः कुलशीलसमन्वितः ।
अनेकधर्मशास्त्रज्ञः प्रोच्यते धर्मपाठकः ॥
ब्रह्मचर्याश्रमाद् ऊर्ध्वं विप्रो ऽयं वृद्ध उच्यते । इति ।
चातुर्वेद्यत्वाद्युक्तविशेषणविशिष्टा गार्हस्थ्याद्यन्यतमाश्रमवर्तिनो दश संख्याकाः परिषच्छब्दवाच्याः । दशसंख्या अवरा यस्यां परिषदि सा दशावरा । दशत्वम् अवरः पक्षः । ततो प्य् अर्वाचीनः पक्षो नास्तीत्य् अर्थः । ये तु “चत्वारो वा त्रयो वापि” (पर्स्म् ८।७) [२३१] इत्यादिपक्षाः पूर्वम् उपन्यस्थाः । ते सर्वे ऽपि गोवधाद् अर्वाचीनविषये द्रष्टव्याः । सेयं दशसंख्योपेता परिषद् ब्राह्मणस्य प्रायश्चित्तित्वे सत्य् अवगन्तव्या । यदा क्षत्रियवैश्यौ प्रायश्चित्तिनौ भवतः तदा विशेषम् अङ्गिरा आह ।
परिषद् या ब्राह्मणानां सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा चैव परिषच् च व्रतं स्थितम् ॥
ब्राह्मणो ब्राह्मणानां तु क्षत्रियाणां पुरोहितः ।
वैश्यानां याजकश् चैव त एव व्रतदाः स्मृताः ॥
अगुरुः क्षत्रियाणां च वैश्यानां चाप्य् अयाजकः ।
प्रायश्चित्तं समादिश्य तप्तकृच्छ्रं समाचरेत् ॥ इति ।
यथा क्षत्रियवैश्ययोः परिषद्वृद्धिः तथा व्रतम् अपि वर्धते । इयं च व्रतवृद्धिर् उत्तमजातिहनने द्रष्टव्या, इतरविषये व्रतह्रासस्याभिधानात् । तथा च चतुर्विंशतिमते दर्शितम् ।
प्रायश्चित्तं यद् आम्नातं ब्राह्मणस्य महर्षिभिः ।
पादोनं क्षत्रियः कुर्याद् अर्धं वैश्यः समाचरेत् ॥
[२३२] शूद्रः समचरेत् पादम् अशेषेष्व् अपि पाप्मसु ॥ इति ॥ २७ ॥
अथ व्रतादेशनम्
इत्थं प्रायश्चित्तिना कर्तव्यम् उपस्थानम् उपस्थेया परिषच् चेत्य् उभयं निरूपितम् । अथ व्रतादेशनं निरूपणीयम्, तस्योपस्थानानन्तरभावित्वात् । अनन्त्रभावश् च अङ्गिरसा दर्शितः ।
उपस्थानं व्रतादेशः स्वीयाशुद्धिप्रकाशनम् ।
प्रायश्चित्तचतुष्कं च विहितं धर्मकर्तृभिः ॥ इति ।
तद् एतद् व्रतादेशनं राजानुमत्या कर्तव्यम् इत्य् आह ।
राज्ञश् चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् ।
स्वयम् एव न कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः ॥ २८ ॥
इति।
अत्र गोवधस्य प्रकृतत्वात् तम् आरभ्याधिकेषु राजानुज्ञयैव व्रतं निर्दिशेत् । न तु राजानं वञ्चयित्वा स्वयं तत् कर्तव्यम् । गोवध्द् अल्पेषु तु पापेषु विनापि राजानुज्ञां निष्कृतिर् दातुं शक्यते । एतच् च देवलो ऽप्य् आह ।
याचितास् तेन ते चापि ब्राह्मणाः पापभिरुणा ।
निष्कृतिं व्यवहारार्थं कुर्यात् तस्मै नृपाज्ञया ॥
[२३३] स्वयं वा ब्राह्मणैः कृच्छ्रम् अल्पदोषे विधीयते ।
राज्ञा च ब्राह्मणैश् चैव महत्सु सुपरीक्ष्य च ॥ इति ।
हारीतो ऽपि ।
राज्ञो ऽनुमतिम् आश्रित्य प्रायश्चित्तानि दापयेत् ।
स्वयम् एव कुर्वीत कर्तव्यं स्वल्पम् एव च ॥ इति ॥ २८ ॥
यथा परिषद् राजानं नातिक्रमेत् तथा राजापि परिषदं नातिक्रामेद् इत्य् आह ।
ब्राह्मणांस् तान् अतिक्रम्य राजा कर्तुम् यद् इच्छति ।
तत् पापं शतधा भूत्वा राजानम् अनुगच्छति ॥ २९ ॥
इति।
कर्तुं प्रायश्चित्तं कारयितुम्, अन्तर्भावितण्यर्थस्य् विवक्षितत्वात् ॥ २९ ॥
इदानीं परिषदा समाचरणीयान् नियमविशेषान् आह ।_
प्रायश्चित्तं सदा दद्याद् देवतायतनाग्रतः ।
**आत्मकृच्छ्रं ततः कृत्वा जपेद् वै वेदमातरम् ॥ ३० ॥ **
[२३४] इति । दद्याद् इत्य् अत्रायोगव्यवच्छेदो विवक्षितः । परिषद्य् उपविश्यादाने प्रत्यवायस्मरणात् । तद् आह अङ्गिराः ।
आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति ते तेषां समभागिनः ॥
तस्माद् अर्त्तं समासाद्य ब्राह्मणांस् तु विशेषतः ।
जानद्भिः पर्षदः पन्था न हातव्यः पराङ्मुखैः ॥
तस्य कार्यो व्रतादेशः पावनार्थे हितेप्सुभिः ।
अज्ञानाम् उपदेष्टव्यं क्रमशः सर्वम् एव च ॥
यथाभ्युद्धरते कश्चिद् भयार्त्तं ब्राह्मणम् क्वचित् ।
एवं पापात् समुद्धृत्य तेन तुल्यं फलं लभेत् ॥ इति ।
सर्वथा दद्याद् इत्य् अयं नियमो यथाविध्युपपन्नविषयः । तथा च हारीतः ।
यत्नाद् एव पुरस्कृत्य विप्रांस् तत्र दश्वरान् ।
प्रणिपत्य च भक्त्या च प्रायश्चित्तं विनिर्दिशेत् ॥ इति ।
विनिर्दिशेत् यायेत इति यावत् । यथाविध्युपपत्त्यभावे प्रायश्चित्तं न देयम् । तद् आह अङ्गिराः ।
अनर्चितैर् अनाहूतैर् अपृष्टैश् च यथाविधि ।
प्रायश्चित्तं न दातव्यं जानद्भिर् अपि च द्विजैः ॥ इति ।
ज्ञानेनाज्ञानेन वा प्रायश्चित्तस्यान्यथानिर्देशे प्रत्यवायं स एवाह ।
[२३५] अजानन् यस् तु विब्रूयाज् जानन् यश् चान्यथा वदेत् ।
उभयोर् इह तयोर् दोषः पक्षयोर् उभयोर् अपि ॥ इति ।
विधिवत्कृतस्य प्रायश्चित्तस्य गौरवलाघवनिर्णयाय देशकालादयः परीक्षणीयाः । तद् आह बौधायनः ।
शरीरं बलम् आयुश् च वयः कालं च कर्म च ।
समीक्ष्य धर्मविद् बुद्ध्या प्रायश्चित्तं प्रकल्पयेत् ॥ इति । (ब्ध् १।१।१।१५)
हारीतो ऽपि ।
यथावयो यथाकालं यथाप्राणं च ब्राह्म्णे ।
प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर् धर्मपाठकैः ॥
येन शुद्धिम् अवाप्नोति न च प्राणैर् वियुज्यते ।
आर्तिं वा महतीं याति न चैतद् व्रतम् आदिशेत् ॥ इति ।
विश्वामित्रो ऽपि ।
जातिशक्तिगुणापेक्षं सकृद् बुद्धिकृतं तथा ।
अनुबन्धादि विज्ञय प्रायश्चित्तं प्रकल्पयेत् ॥ इति ।
परिषद्धर्मप्रश्नादीतिकर्तव्यता अङ्गिरसा दर्शिता ।
ततस् ते प्रणिपातेन दृष्ट्वा तं समुपस्थितम् ।
विप्राः पृच्छन्ति तत् कार्यम् उपविश्यासने स्थितम् ॥
किं ते कार्यं किम् अर्थं वा सदा मृअगयसे द्विजान् ।
पर्षदि ब्रूहि तत् सर्वं यत् कार्यं हितम् आत्मनः ॥
सत्येन द्योतते राजा सत्येन द्योतते रविः ।
[२३६] सत्येन द्योतते वह्निः सर्वं सत्ये प्रतिष्ठितम् ॥
भूर् भुवः स्वस् त्रयो लोकास् ते ऽपित् सत्ये प्रतिष्ठिताः ।
अस्माकं चैव सर्वेषां सत्यम् एव परं बलम् ॥
यदि चेद् वक्ष्यसे सत्यं नियतं प्राप्स्यसे शुभम् ।
यद्य् आगतो ऽस्य् असत्येन न तु शुध्यसि केनचित् ॥
सत्येन तु विशुध्यन्ति शुद्धिकामाश् च मानवाः ।
तस्मात् तद् वद यत् सत्यम् आदिमध्यावसानिकम् ॥
एवं तैः समनुज्ञातः सर्वं ब्रूयाद् अशेषतः ।
तस्मिन् निवेदिते कार्ये निष्कास्यो यस् तु कार्यवान् ॥
तस्मिन्न् उत्सारिते पापे यथावद् धर्मपाठकाः ।
ते तथा तत्र जल्पेयुर् विमृशन्तः परस्परम् ॥
आपद्धर्मेषु यत् प्रोक्तं यच् च सानुग्रहं भवेत् ।
परिषत्संपदश् चैव कार्याणां च बलाबलम् ॥
प्राप्य देशं च कालं च यच् च कार्यान्तरं भवेत् ।
पर्षत् संचिन्त्य तत् सर्वं प्रायश्चित्तं विनिर्दिशेत् ॥
सर्वेषां निश्चितं यत् स्याद् यच् च प्राणान् न घातयेत् ।
आहूय श्रावयेद् एकः पर्षदा यो नियोजितः ॥
शृणुष्व भो इदं विप्र यत् ते आदिश्यते व्रतम् ।
यथा भवेत् तथा चीर्णे तदा शुद्धिप्रकाशनम् ॥
कार्यं सर्वं प्रयत्नेन शक्त्या विप्राभिभाषितम् ।
[२३७] इति । एतच् च सर्वं कस्यचित् देवतायतनस्य शैवस्य वैष्णवस्य वा पुरः स्थित्वा निर्देष्टव्यम् । “देवतायतनाग्रतः” इत्य् एतत् पुण्यतीर्थादेर् अप्य् उपलक्षणम् । एवं प्रायश्चित्तं निर्दिश्यानन्तरं निर्देष्टारः सर्वे ऽप्य् आत्मविशुद्ध्यर्थं तत्तत्प्रायश्चित्तानुसारेण स्वल्पम् अधिकं वा किंचित् कृच्छ्रं चरित्वा तदन्ते वेदमातरं गायत्रीं यथाशक्ति जपेयुः इति । एतद् एव हारीतो ऽप्य् आह ।
प्रायश्चित्तं तु निर्दिश्य कथं पापात् प्रमुच्यते ।
यत् पवित्रं विजानीयात् जपेद् वा वेदमातरम् ॥ इति ॥ ३० ॥
“वेदवेदाङ्गविदुषाम्” (८।१) इत्य् आरभ्य “जपेद् वै वेदमातरम्” (८।३०) इत्यन्तेन ग्रन्थसंदर्भेण यत् परिषन्निरूपणं तत् सर्वम् अतीताध्यायोकेषु आगाम्यध्याये वक्ष्यमाणेषु च प्रायश्चित्तेषु समानम् अवगन्तव्यम् । अध्यायादौ यत् पृष्टं गोवधप्रायश्चित्तं तद् इदानीम् अध्यायपरिसमाप्तेर् निरूपयति । तत्र “सशिखम्” इत्यादिना बहुविधम् इतिकर्तव्यम् आह ।
सशिखं वपनं कृत्वा त्रिसंध्यम् वगाह्नम् ।
गवां मध्ये वसेद् रात्रौ दिवा गाश् चाप्य् अनुव्रजेत् ॥ ३१ ॥
इति।
शिखापि यथा न परिशिष्यते तथा वपनं [२३८] कुर्यात् । संध्यात्रये च नद्यादाव् अवगाहेत् । रात्रौ गोष्ठे गोमध्ये शयीत । दिवसे तु चरन्तीर् गा अनुचरेत् ॥ ३१।
इतिकर्तव्यतानन्तरम् आह ।_
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥ ३२ ॥
इति।
निदाघसन्तापे प्रथमतो गवां छायां संपाद्य पश्चात् स्वयं छायायाम् उपविशेत् । एवं वर्षादौ । वर्षति सति वृष्टिपीडितानां गवां शालादिसंपादनेन रक्षां कुर्यात् । तथा हेमन्तशिशिरयोर् निशि निवासाय शीतरहितं स्थानं संपादयेत् । तथा यदा कदाचित् मारुते भृशं वाति सति स्थानादिसंपादनेन तदुपद्रवात् संरक्षेत् । यदा गवां रक्षां कर्तुं न शक्नुयात् तदा स्वात्मनो ऽपि रक्षां न कुर्यात् ॥ ३२ ॥
अन्यद् इतिकर्तव्यम् आह ।
आत्मनो यदि वान्येषां गृहे क्षेत्रे खले ऽथ वा ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ ३३ ॥
इति।
स्वकीयेषु परकीयेषु वा गृहादिषु संचितं शाल्यादिकं यदि काचिद् गौर् भक्षयेत् तदा तां पश्यन्न् अपि निवारकारणाम् अग्रे न कथयेत् । तथा वत्सो यदि दोहकालाद् अन्यत्र स्तनं [२३९] पिबेत् तदा तम् अपि वत्सं न कथयेत् ॥ ३३ ॥
पुनर् अप्य् अन्यद् इतिकर्तव्यम् आह ।
पिबन्तीषु पिबेत् तोयं संविशन्तीषु संविशेत् ।
पतितां पङ्कमग्नां वा सर्वप्राणैर् समुद्धरेत् ॥ ३४ ॥
इति।
स्वयम् अत्यन्ततृष्णार्तो ऽपि गवाम् उदकपानात् पूर्वम् उदकं न पिबेत् । तथा चिरस्थितिगतिभ्यां पादयोर् व्यथां प्राप्यापि गोसंवेशनात् प्राक् स्वयं न संविशेत् । यत्र क्वापि रोगार्त्ता सती भूमौ पतिता वा जलपानाद्यर्थं गत्वा पङ्के मग्ना वा गौर् यदा दृष्टा तदानीम् एव सव्प्राणेषु लौल्यं परित्यज्य सर्वेणापि प्रयत्नेन तां गाम् उद्धरेत् ॥ ३४ ॥
ननु – स्वप्राणेष्व् अलुब्धस्य प्रक्रान्तव्रतसमाप्त्यभावे दुरितक्षयो न स्याद् इत्य् अत आह ।
ब्राह्मणार्थे गवार्थे वा यस् तु प्राणान् परित्यजेत् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ ३५ ॥
इति।
अनुष्ठेयेभ्यः सर्वेभ्यो ऽपि व्रतेभ्यः इदम् अधिकं व्रतं यद् गोब्राह्मणाद्यर्थे मरणम् । तत्र कुतो व्रतभङ्गशङ्कावकाशः । स्वयं मरणम् अभ्युपगम्य गोब्राह्मणरक्षणे प्रवृत्तो यदि कथंचिज् जीवेत् तदा गोब्राह्मणयोः संगोप्ता जीवन्न् अपि ब्रह्महत्याया मुक्तो भवति ॥ ३५ ॥
अङ्गानि विधायाङ्गिनं व्रतविशेषं विदधाति ।
[२४०] गोवधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् ।
प्राजापत्यं ततः कृच्छ्रं विभजेत् तच् चतुर्विधम् ॥ ३६ ॥
इति।
एकभक्तादिरूपं प्राजापत्यव्रतं गोवधस्य प्रायश्चित्तम् । तच् च व्रतं वक्ष्यमाणप्रकारेण चतुर्विधम् । तत्र गोवधस्य तारतम्यं न्यायागमाभ्यां निश्चित्य तत्तारतम्यानुसारेणान्यतमं प्राजापत्यव्रतविशेषं निर्दिशेत् । यतो वधतारतम्यानुसारेण प्रायश्चित्ततारतम्यं विनिर्देश्यं ततो व्रततारतम्यावगतं प्राजापत्यव्रतं चतुर्विधं यथा भवति तथा विभजेत् ॥ ३६ ॥
इदानीं विभागं प्रकटयति ।_
एकाहम् एकभक्ताशी एकाहं नक्तभोजनः ।
अयाचिताश्य् एकम् अहर् एकाहं मारुताशनः ॥ ३७ ॥
दिनद्वयं चैकभक्तो द्विदिनं चैकभोजनः ।
दिनद्वयम् अयाची स्याद् द्विदिनं मारुताशनः ॥ ३८ ॥
त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः ।
दिनत्रयम् अयाची स्यात् त्रिदिनं मारुताशनः ॥ ३९ ॥
चतुरहं चैकभकाशी चतुरहं नक्तभोजनः ।
[२४१] चतुर्दिनम् अयाची स्याच् चतुरहं मारुताशनः ॥ ४० ॥
इति।
एकभक्तनक्तायाचितोपवासाः प्राजापत्यस्वरूपम् । सो ऽयम् आद्यः कल्पः । द्विगुणीभूतैकभक्तादिचतुष्टयं यत् तत् द्वितीयः कल्पः । त्रिगुणीभूतैकभक्तादिचतुष्टयं तृतीयः कल्पः । चतुर्गुणीभूतैकभक्तादिचतुष्टयं चतुर्थः कल्पः । त एते चत्वारः कल्पा वधभेदेषु योजनीयाः । तद् यथा – एकहायणस्य वधे प्रथमः । द्विहायणस्य वधे द्वितीयः । त्रिहायणस्य वधे तृतीयः । उपरितनवयस्कस्य वधे चतुर्थः इति ॥ ३७–४० ॥
यथोक्तव्रतचरणान्तरकर्तव्यम् आह ।
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
विप्राणां दक्षिणां दद्यात् पवित्राणि जपेद् द्विजः ॥ ४१ ॥
इति।
पवित्राणि पवमानसूक्तादीनि । भोजनदक्षिणाजपाः शक्त्यनुसारेण द्रष्टव्याः ॥ ४१ ॥
उपस्थानव्रतादेशनचर्यात्मकान् त्रीन् प्रायश्चित्तपादान् अभिधाय शुद्धिप्रकाशनरूपं चतुर्थपादम् आह ।_
ब्राह्मणान् भोजयित्वा तु गोघ्नः शुद्धो न संशयः । इति ।
स्वकीयविशुद्धिख्यापनार्थं स्वबन्धून् अशेषान् ब्राह्मणान् भोजयेत् । एतावता चतुष्पादप्रायश्चित्तस्यानुष्ठितत्वात् अस्य शुद्धौ नाश्ति कश्चित् संशयः ।
सशिखम् इत्यादिना साङ्गं प्रायश्चित्तं यद् उक्तं तद् एव च्यवन आह- [२४२] “प्राजापत्यव्रतं गोवधे प्रायश्चित्तम् । नखानि रोमाणि छित्त्वा सशिखं वपनं कृत्वा त्रिषवणस्नानं गवाम् अनुगमनं सह शयनं सुमहत्तृआणि रथ्यासु चारयेत् । व्रतान्ते ब्राह्मणभोजनम्” इति । आचार्येणैकहायनादिचतुर्विधवध्यभेदम् अभिप्रेत्य व्रते पक्षचतुष्टयम् उपन्यस्तम् । तद् एव भङ्ग्यन्तरेण वृद्धप्रचेता आह ।
एकवर्षे हते वत्से कृच्छ्रपादो विधीयते ।
अबुद्धिपूर्वे पुंसां स्यात् द्विपादस् तु द्विहायने ॥
त्रिहायणे त्रिपादः स्यात् प्राजापत्यम् अतः परम् । इति ।
ननु – आचार्योक्ताद् गोवधप्रायश्चित्ताद् अधिकानि बहुविधानि गोवधप्रायश्चित्तानि नानामुनिभिर् दर्शितानि । तत्र कानिचित् कालेनाधिकानि । तद् यथा – एकमासद्विमासत्रिमासादिव्रतानि कालतो ऽधिकानि । तथा कानिचिद् दानेनाधिकानि । तद् यथैकगोदानम् आरभ्य सहस्रगोदानपर्यन्तानि कानिचित् कायक्लेशेनाधिकानि । तद् यथा – द्वादशरात्रोपवासादीनि ।
बाढम् । तत्र निमित्तगौरवं व्रतगौरवं च पर्यालोच्य न्यायेन विषयव्यवस्था कल्पनीया । तां च वयं प्रदर्शयामः । तत्र याज्ञवल्क्यो व्रतचतुष्टयम् आह ।
पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः ।
गोष्ठेशयो गो ऽनुगामी गोप्रदानेन शुध्यति ॥
[२४६] कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः ।
दद्यात् त्रिरत्रं चोपोष्य वृषभैकादशास् तु गाः ॥ इति । (य्ध् ३।२६३–६४)
तत्र गोस्वामिभेदम् उपजीव्य व्यवस्था । जातिमात्रब्राह्मणस्वामिके त्रिरात्रोपवासो वृषभैकादशगोदानं च । क्षत्रियस्वामिके पञ्चगव्याशनम् । वैश्यस्वामिके मासम् अतिकृच्छ्रम् । शूद्रस्वामिके कृच्छ्रम् । विष्णुर् व्रतत्रयम् आह ।
गोघ्नस्य पञ्चगव्येन मासम् एकं निरन्तरम् ।
प्राजापत्यं पराको वा चान्द्रायणम् अथापि वा ॥ इति । (विध् २।१४)
एतत् त्रयम् अपि क्षत्रियस्वामिकविषयम् । यत् तु शङ्खलिखिताभ्याम् उक्तम्- “गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रम् उपवसेत् । [२४७] सशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गाश् चानुगच्छन्त् गोष्ठेशयो गां दद्यात्” इति, एतत् तु वैश्यस्वामिकविषयम् । यत् तु संवर्तेनोक्तम्,
गोघ्नस्यातः प्रवक्ष्यामि निष्कृतिं तत्त्वतः शुभाम् ।
गोघ्नः कुर्वीत संस्थानं गोष्ठे गोरूपसंस्थिते ॥
तत्रैव क्षितिशायी स्यान् मासार्धं संयतेन्द्रियः ।
सक्तुयावकभैक्षाशी पयो दधि घृतं शकृत् ॥
एतानि क्रमशो ऽश्नीयात् द्विजस् तत्पापमोक्षकः ।
शुध्यते सो ऽर्धमासेन नखरोमविवर्जितः ॥
स्नानं त्रिषवणं कुर्याद् गवाम् अनुगमनं तथा ।
एतत् समाहितः कुर्यात् स नरो वीतमत्सरः ॥
सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः ।
ततश् चीर्णव्रतः कुर्यात् विप्राणां भोजनं परम् ॥
भुक्तवत्सु च विप्रेषु गां च दद्यात् सदक्षिणाम् ।
[२४५] वृषभं तिलधेनुं वा ततो मुच्येत किल्बिषात् ॥ इति । (संस्म् १२९–३४)
यच् च सुमन्तुनोक्तम्- “गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्यप्राशनं गवां चानुगमनम्” इति, तत् शूद्रस्वामिकविषयम् । यत् तु मनुनोक्तम्,
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवापो वसेद् गोष्ठे चर्मणार्द्रेण संवृतः ॥
[२४६] चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥
दिवानुगच्छेत् ता गास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनी भवेत् ॥
तिष्ठन्तीष्व् अनुतिष्ठेत व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनास्व् अपि चासीनो नियतो वीतमत्सरः ॥
आतुराम् अभियुक्तां वा चौरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कमग्नां वा सर्वप्राणैर् विमोक्षयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥
आत्मनो यदि वान्येषां गृहे क्षेत्रे खले ऽपि वा ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥
[२४७] अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥
वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ (म्ध् ११।१०९–१७)
इति, एतत् ब्राह्मणपरिगृहीताया बुद्धिपूर्वकवधविषये द्रष्टव्यम् । यत् त्व् आङ्गिरसोक्तम्,
उपपातकसंयुक्तो गोघ्नो भुञ्जीत यावकम् ।
अक्षारलवणं रूक्षं षष्ठे काले ऽस्य भोजनम् ॥
कृतवापो वसेत् गोष्ठे चर्मणा तेन संवृतः ।
द्वौ मासौ स्नानम् अप्य् अस्य गोमूत्रेण विधीयते ॥
पादशौचक्रिया कार्या अद्भिः कुर्वीत केवलम् ।
व्रतिवद् धारयेद् दण्डं समन्त्रां चैव मेखलाम् ॥
गां चैवानुव्रजेन् नित्यं रज आसां सदा पिबेत् ।
तिष्ठन्तीषु च तिष्ठेच् च व्रजन्तीष्व् अप्य् अनुव्रजेत् ॥
शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनी भवेत् ।
गोमतीं च जपेद् विद्याम् ओंकारं वेदम् एव च ॥
आतुराम् अभिशस्तां च रोगव्याघ्रादिभिर् भयैः ।
[२४८] पतितां पङ्कलग्नां च सर्वप्राणैर् विमोक्षयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥
आत्मनो यदि वान्येषां गेहे क्षेत्रे ऽथ वा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥
अनेन विधिना गोघ्नो यस् तु गा अनुगच्छति ।
स तद्वधकृतं द्वाभ्यां मासाभ्यां तु व्यपोहति ॥
वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥
इति, तत् ब्राह्मणस्वामिककामकृतगोवध एव तारुण्यादिगुणवद्विषयं द्रष्टव्यम् । अत्र जप्यां गोमतीं विद्यां यम आह ।
गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ।
तां तु मे वदतो विप्राः शृणुध्वं सुसमाहिताः ॥
गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥
अन्नम् एव परं गावो देवानां हविर् उत्तमम् ।
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ॥
हविषा मन्त्रपूतेन तर्पयन्त्य् अमरान् दिवि ।
ऋषीणाम् अग्निहोत्रेषु गावो होमप्रयोजिकाः ॥
[२४९] सर्वेषाम् एव भूतानां गावः शरणम् उत्तमम् ।
गावः पवित्रं परमं गावो मङ्गलम् उत्तमम् ॥
गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः ।
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥
नमो ब्रह्मसुताभ्यश् च पवित्राभ्यो नमो नमः । इति । (यम्स्म् ५।२–८)
यत् तु हारीतेनोक्तम्- “गोघ्नस् त्वचम् ऊर्ध्वलाङ्गूलां परिधाय गा अनुतिष्ठेत तिष्ठमानासु । आसीनास्व् आसीनः । संवेशमानासु संविशेत् । संवीताङ्गो वीतमत्सरः । शीतवातोष्णातिवर्षेषु नात्मनस् त्राणं कुर्यात् गोर् अकृत्वा । चोरपङ्कव्याघ्रादिभ्यो भयेभ्यो मोचयेत् । एवं सुचरितप्रायश्चित्तो वृषभम् ऐकादशं गाश् च दत्वा त्रयोदशमासेन पूतो भवति” इति (हार्स्म् २३।४०–४७), यद् अपि वसिष्ठेन- “गां चेद् धन्यात् तस्याश् चर्मणार्द्रेण परिवेष्टितः [२५०] षण्मासान् कृच्छ्रं तप्तकृच्छ्रं वातिष्ठेत् ऋषभवैहतौ च” इति (वध् २१।१८–२२) — दद्याद् इति शेषः — , देवलेनापि- “गोघ्नः षण्मासान् तच्चर्मपरिवृतो गोग्रासाहारो गोव्रजनिवासी गोभिर् एव सह चरन् मुच्यते” इति, – एतत् त्रितयम् अपि स्वनस्थब्रह्मणगोवधे कामकृते द्रष्टव्यम् ।
यत् तु कात्यायनेनोक्तम्,
गोघ्नस् तच्चर्मसंवीतो वसेद् गोष्ठे ऽथ वा पुनः ।
गाश् चानुगच्छेत् सततं मौञ्जी वीरासनादिभिः ॥
[२५१] वर्षशीतातपक्लेशवह्निपङ्कभयदिभिः ।
मोक्षयेत् सर्वयत्नेन पूयते वत्सरैस् त्रिभिः ॥ (क्स्म् २।९।१५)
इति, यच् च शङ्खेनोक्तम्,
पादं तु शूद्रहत्यायाम् उदक्यागमने तथा ।
गोवधे च तथा कुर्यात् परस्त्रीगमने तथा ॥ (शङ्स्म् १३।३२)
इति, यच् च गौतमो ऽपि- “गां च वैश्यवत्” इति (ग्ध् २२।२३), इति – एतत् त्रितयम् अपि कामकृते सवनस्थब्राह्मणगोवधे द्रष्टव्यम् ।
यत् तु यमेन,
गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ (यम्स्म् ५।१९)
इति, – तत् सवस्थश्रोत्रियगुणवद्गोवधे द्रष्टव्यम् । अत एव प्रचेताः- “स्त्रीगर्भिणीगोगर्भिणी-बालवधेषु भ्रूणहा भवति” इति । अनयैव दिशा व्यासादिवचनेष्व् अपि प्रायश्चित्तगौरवलाघवे गोगतगुणागुणौ परीक्ष्य विषयव्यवस्था योजनीया । वचनानि तु प्रदर्श्यन्ते । तत्र व्यासः ।
[२५२] मासं वापि पिबेद् गोघ्नः शुचि गोमूत्रयावकम् ।
दद्याद् वा दशकं चैव धेनूनां ब्राह्मणाय वा ॥ इति । (व्यास्म् ६।१८)
पैठीनसिः- “गोष्ठे वसन् यवागूं प्रसृतितण्डुलशृतां मासं भुक्त्वा गोभ्यः प्रियं कुर्वाणो गोघ्नः शुध्यति” इति । विश्वामित्रः ।
कृच्छ्रांश् च चतुरः कुर्याद् गोवधे बुद्धिपूर्वके ।
अमत्या तु द्वयं कुर्यात् तदर्धं वृद्धबालयोः ॥ इति ।
जाबालिः ।
प्राजापत्यं चरेन् मासं गोहत्या चेद् अकामतः ।
गोहतो गोऽनुगामी स्याद् गोप्रदानेन शुध्यति ॥ इति ।
जातूकर्ण्यः ।
गां चेद् अकामतो हन्यात् ब्राह्मणानुज्ञया ततः ।
प्राजापत्यत्रयं कृत्वा स्पर्शयेद् ब्राह्मणाय गाः ॥ इति ।
व्याघ्रः ।
गां चेद् धन्यान् नरो ऽकामात् पणसप्तशतं तथा ।
श्रोत्रियाय दरिद्राय दद्यात् शुद्ध्यर्थम् आत्मनः ॥ इति ।
हारीतः ।
अकामाद् वा सकामाद् वा गोघ्नस्य पुरुषस्य वै ।
[२५३] ब्राह्मणान् ज्ञापयेत् तत्र यथावद् अनुपूर्वशः ॥
सशिखं वपनं कृत्वा मासम् एकं व्रतं चरेत् ।
पयोशी पञ्चगव्याशी गोष्ठशायी जितेन्द्रियः ॥
गवाम् अनुगमं चैव तस्माच् च नियतव्रतः ।
अद्भिर् यस् तर्पयेन् नित्यं शोधयेद् दुष्कृतं स्मरन् ॥
एकरात्रं जले स्थित्वा त्रिरात्रं तदनन्तरम् ।
गोदानं सर्वशक्त्या च ब्राह्मणेभ्यः प्रयच्छति ॥
स किल्बिषान् समुत्थाय मुच्यते नात्र संशयः ॥ इति । (हार्स्म् २।३८–४२)
चतुर्विंशतिमते ।
गोघ्नः पावनं सम्यग् गदतो मे निबोधत ।
शस्त्रादिभिश् च हत्वा गां मानवं व्रतम् आचरेत् ॥
रोधादिना चाङ्ग्रसम् आपस्तम्बोक्तम् एव वा ।
[२५४] पादं चरेद् रोधवधे कृच्छ्रार्धं बन्धपातने ॥
अतिवाह्य च पादोनं कृच्छ्रम् अज्ञानताडने ।
गर्भिणीं कपिलां दोग्ध्रीं होमधेनुं च सुव्रताम् ॥
रोधादिना घातयित्वा द्विगुणं व्रतम् आचरेत् ।
अतिवृद्धाम् अतिकृशाम् अतिबालां च रोगिणीम् ॥
हत्वा पूर्वविधानेन चरेद् अर्धं व्रतं द्विजः ।
ब्राह्मणान् भोजयेत् शक्त्या दद्याद् धेम तिलांश् च गाः ॥
हेमगोतिलदानेन नरः पापात् प्रमुच्यते ॥ इति ॥ ४२ ॥
गावः श्लाध्यास् त्रिलोक्याम् इति निगमगिरस् तादृशीनां वधे यत्
प्रायश्चित्तं प्रणीतं किम् अपि गणयतस् तच् च सामान्यगीतम् ।
भारद्वाजान्ववायः प्रथितसमुदयः स्वोदितैर् एव सूक्तैर्
अध्यायस्याष्टमस्य व्यतनुत विवृत् शाश्वतीं माधवार्यः ॥
इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-
**श्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य **
कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां अष्टमो ऽध्यायः ॥ ८ ॥