अथ सप्तमो ऽध्यायः
अन्नरसयोः शुद्धिः षष्ठाध्याये वर्णिता । सप्तमाध्याये ऽवशिष्टान्नां द्रव्याणां शुद्धिः विवक्षुर् महाप्रकरणप्राप्तप्रायश्चित्तशङ्काव्युदासाय प्रतिजानीते ।
अथातो द्रव्यशुद्धिस् तु पराशरवचो यथा । इति ।
अवान्तरप्रकरणम् आरभ्यान्नरसशुद्धिकथनानन्तरं यस्माद् इतरद्रव्यशुद्धिर् बुद्धिस्था यस्माच् चान्तरेण द्रव्यशुद्धिं महाप्रकरणगतप्रायश्चित्तव्रतचर्याया नित्यकर्मादीनां चानुष्ठानं निपुणं न भवति ततस् तत्साद्गुण्यहेतुद्रव्यशुद्धिर् अभिधीयते ॥
तत्र दर्वीस्रुक्स्रुवादीनाम् उच्छिष्टामेध्यादिदूषितानां शुद्धिम् आह ।
दारवाणां तु पात्राणां तक्षणात् शुद्धिर् इष्यते ॥ १ ॥
इति।
मूत्रपुरीषादिप्रदेशे चिरावस्थानेन दृढवासितौ गन्धलेपौ यदि मृज्जलप्रकालनेन नापगच्छेयातां तदा वास्यादिना दारवाणि तक्षणीयानि । तक्षणेनाप्य् अनपगमे परित्यागः । तद् आह बौधायनः- “दारुमयाणां पात्राणाम् उच्छिष्टसमन्वारब्धानाम् अवलेखनम् । उच्छिष्टलेपोपहतानां तक्षणम्” इति (ब्ध् १।६।१३।२६–२७) । मूत्रपुरीषरेतःप्र्भृतीनाम् अल्पकालसंस्पर्शे तु गन्धलेपयोर् अपनेतुं शक्यत्वात् तदपनयनपर्यन्तं मृज्जलाभ्यां प्रयत्नेन प्रक्षालनीयानि,
यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।
तावन् मृद्वारि देयं स्यात् सर्वासु द्रव्यशुद्धिषु ॥ इति । (म्ध् ५।१२६)
इति स्मरणात् । यत्र तु गन्धलेपपर्यन्तः संसर्गो नास्ति किं तु केवलं संस्पर्शमात्रं तत्र प्रोक्षणात् शुद्धिः । एतद् एवाभिप्रेत्य मनुर् आह ।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ।
अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ॥ (म्ध् ५।११७–१८)
[१४९] इति । यज्ञकाले तु स एव विशेषम् आह ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
चमसानां ग्रहाणाण् च शुद्धिः प्रक्षालनेन तु ॥
चरूणां स्रुक्स्रुवाणां च शुद्धिर् उष्णेन वारिणा ॥ इति । (म्ध् ५।११६–१७)
पात्रलग्नस्नेहनिवृत्त्यर्थम् उष्णोदकम् । अत एव याज्ञवल्क्यः ।
चरुस्रुक्स्रुवसस्नेहपात्राण्य् उष्णेन वारिणा । इति । (य्ध् १।१८३) ॥ १ ॥
कांस्यताम्रयोर् अल्पोपहतयोः शुद्धिम् आह ।
भस्मना शुध्यते कांस्यं ताम्रम् अम्लेन शुध्यति । इति ।
अम्लं क्षारस्याप्य् उपलक्षणम् । अत एव याज्ञवल्क्यः ।
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । इति । (य्ध् १।१९०)
ताम्रादीनां तैजसानाम् उपघाततारतम्येन शुद्धिविशेषम् आह बौधायनः- “तैजसानां मूत्रपुरीषासृङ्मद्यैर् अत्यन्तम् आहतानाम् आवर्तनम् । अल्पसंसर्गे तु परिलेखनम् । स्पर्शमात्रोपघाते तु त्रिःसप्तकृत्वो भस्मना परिमार्जनम् । अतैजसानाम् एवंभूतानाम् उत्सर्गः” (ब्ध् १।६।१३।३२–३५) [१५०] इति ॥
स्त्रिया जारसंपर्कोपहतौ शुद्धिम् आह ।
रजसा शुध्यते नारी विकलं या न गच्छति ॥ २ ॥
इति।
विकलं वैकल्यं गर्भधारणम् । तस्मिन् सति परित्याग एव । न तु शुद्धिः । तद् आह याज्ञवल्क्यः ।
व्यभिचाराद् ऋतौ शुद्धिः गर्भे त्यागो विधीयते । इति । (य्ध् १।७२)
एतत् शूद्रगर्भविषयम् । तद् आह वसिष्ठः ।
ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ इति । (वध् २१।१२)
वर्णान्तरगर्भे तु प्रायश्चित्तेन शुद्धिर् अस्ति । तद् उक्तं चतुर्विंशतिमते ।
विप्रगर्भे पराकः स्यात् क्षत्रिये तु तथैन्दवम् ।
वैश्ये तद् एव कर्तव्यं पराकेन समन्वितम् ॥
शूद्रगर्भे तु संत्यागस् तत्र चाण्डालदर्शनात् । इति ।
गर्भपर्यवसानहीनो ऽपि व्यभिचारस् त्रिविधः । कायिको मानसो वाचिकश् चेति । तत्र कायिके प्रचेता आह ।
विप्रा शूद्रेण संयुक्ता न चेत् तस्मात् प्रसूयते ।
[१५१] प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥
चान्द्राय्णे द्वे कृच्छ्रस्य विप्राया वैश्यसंगमे ।
कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥
क्षत्रिया शूद्रसंपर्के कृच्छ्रं चान्द्रायणद्वयम् ।
चान्द्रायणं सकृच्छ्रं तु चरेद् वैश्येन संगता ॥
शूद्रं गत्वा चरेद् वैश्या कृच्छ्रं चान्द्रायणोत्तरम् ।
आनुलोम्येन कुर्वीत कृच्छ्रं पादावरोपितम् ॥ इति ।
एतद् अभ्यासविषयम् । अनभ्यासे तु चतुर्विंशतिमते दर्शितम् ।
रजसा शुध्यते नारी परपुंशाभिगामिनी ।
तथापि मुनिना प्रोक्तं प्रायश्चित्तं समाचरेत् ॥
कृच्छ्रार्धं ब्राह्मणी कुर्यात् विप्रस्य गमने सति ।
क्षत्रियस्य चरेत् कृच्छ्रं वैश्ये सान्तपनं चरेत् ॥
शूद्रस्य गमने चैव पराकं तु समाचरेत् । इति ।
वाचिकमानसयोर् वसिष्ठ आह- “मनसा भर्तुर् अतिचारे त्रिरात्रं यावकं क्षीरोदनं च [१५२] भुञ्जानाधः शयीत । ऊर्ध्वं त्रिरात्राद् अप्सु निमग्नायाः सावित्र्यष्टशतैः शिरोभिर् जुहुयात् पूता भवतीति विज्ञायते । वाक्यसंबन्धे एतद् एव मासं चरित्वा ऊर्ध्वं मासाद् अप्सु निमग्नायाः सावित्र्याश् चतुर्भिर् अष्टशतैः शिरोभिर् जुहुयात्” इति (वध् २१।६८) । मानसे यद् इदं प्रायश्चित्तम् उक्तं तद् ऋतुदर्शनाद् अर्वाग् व्यवहार्यत्वसिद्ध्यर्थम् । ऋतुदर्शनानन्तरं तु तेनैव व्यवहार्यत्वसिद्धिः । तद् आह मनुः ।
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमः ॥ इति । (म्ध् ५।१०८)
तद् एतत् सर्वम् अभिप्रेत्य “रजसा शुध्यते नारी” इत्य् आचार्येणोक्तम् ॥ २ ॥
नद्या उपरिभागे रथ्योदकादीनां उपहतौ शुद्धिम् आह ।
नदी वेगेन शुध्येत लेपो यदि न दृश्यते । इति ।
प्रवहन्त्यां नद्यां पतितान्य् उच्छिष्टामेध्यादीनि यदा प्रवाहवेगेन स्नानतीर्थम् अतिक्रम्य गच्छन्ति तदा तस्मिंस् तीर्थे लेपशेषो यावद् दृश्यते तावन् नास्ति शुद्धिः । तददर्शने तु स्नानपानादिकर्मार्थं शुद्धैवेयं नदी । सत्य् अपि लेपे यद्य् अक्षोभ्योदकयुक्ता सा नदी तदा लेपयुक्तं तत्तीर्थमात्रं वर्ज्यम् । इतरप्रदेशेषु सा नदी शुद्धा । तद् आह देवलः ।
[१५३] अक्षोभ्यानि तडागानि नदीवापीसरांसि च ।
कश्मलाशुचियुक्तानि तीर्थं तत् परिवर्जयेत् ॥ इति ।
नदीशुद्धिम् उक्त्वा कूपादिशुद्धिम् आह ।
वापीकूपतडागेषु दूषितेषु कथंचन ॥ ३ ॥
उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति । इति ।
कूपादिदूषणं द्विधा श्रूयते । श्वमार्जारादीनां तत्र पतितानां मरणात् मृतशवानां तत्रैव चिरं जरणाच् च । तत्र मरणमात्रविषयम् इदं विशोधनम् । एतद् एव हारीतो ऽप्य् आह ।
वापीकूपतडागेषु दूषितेषु विशोधनम् ।
घटानां शतम् उद्धृत्य पञ्चगव्यं क्षिपेत् ततः ॥ इति । (हार्स्म् ११।३)
संवर्तो ऽपि ।
वापीकूपतडागानां दूषितानां च शुद्धये ।
अपां घटशतोद्धारः पञ्चगव्येन शोधनम् ॥ इति । (संस्म् १८६)
इयम् एव शुद्धिर् उपानदादिदूषणे ऽपि । तद् आह आपस्तम्बः ।
उपानच्छ्लेष्मविण्मूत्रं स्त्रीरजो मद्यम् एव च ।
पतितैर् दूषिते कूपे कुम्भ्नां शतम् उद्धरेत् ॥
[१५४] इति । मृतशरीरजरणकृतायाम् अत्यन्तोपहतौ विष्णुर् आह ।
मृतपञ्चनखात् कूपाद् अत्यन्तोपहतात् तथा ।
अपः समुद्धरेत् सर्वाः शेषं शास्त्रेण शोधयेत् ॥
वह्निप्रज्वालनं कृत्वा कूपे पक्वेष्टकाचिते ।
पञ्चगव्यं न्यसेत् तत्र नवतोयसमुद्भवे ॥ इति । (विस्म् ३।४३)
मनुष्यशरीरजरणे ऽप्य् एवम् एव शुद्धिः । तद् आह हारीतः ।
वापीकूपतडागेषु मानुषं शीर्यते यदि ।
अस्थिछर्मविनिर्मुक्तं दूषितं श्वखरादिभिः ॥
उद्धृत्य तज्जलं सर्वं शोधनं परिमार्जनम् ॥ इति । (हार्स्म् ५।२३–२४)
प्रौढेषु नास्ति दोषः । तद् आह विष्णुः ।
जलाशयेषु स्वल्पेषु स्थवरेषु महीतले ।
कूपवत् कथिता शुद्धिर् महत्सु च न दूषणम् ॥ इति । (विध् ३।४८)
देवलो ऽपि ।
अक्षुद्राणाम् अपां नास्ति प्रभूतानां च दूषणम् ।
स्तोकानाम् उद्धृतानां च कश्मले दूषणं भवेत् ॥
[१५५] इति । अल्पोदकेष्व् अपि पूर्वोदाहृआद् दोषाद् अल्पे दोषे विष्णुर् आह ।
अव्याप्तं चेद् अमेध्येन तद्वद् एव शिलागतम् ।
सोमसूर्यांशुपातेन मारुतस्पर्शनेन च ॥
गवां मूत्रपुरीषेण शुध्यन्त्य् आप इति स्मृताः ॥ इति । (विध् ३।१३–१४)
उच्छिष्टाद्युपघाताभावे ऽपि गवां पानाद् यद् उदकं न क्षीयते तद् एव शुद्धम् । न तु ततो ऽल्पम् । तद् आह देवलः ।
अविगन्धा रसोपेता निर्मलाः पृथिवीगताः ।
अक्षीणाश् चैव गोपानाद् आपः शुद्धिकराः स्मृताः ॥ इति ।
मनुर् अपि ।
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् ।
अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥ इति । (म्ध् ५।१२८)
नवोदके कालात् शुद्धिम् आह यमः ।
[१५६] अजा गावो महिष्यश् च नारी चैव प्रसूतिका ।
दशरात्रेण शुध्यन्ति भूमिष्ठं च नवोदकम् ॥ इति ।
उद्धृतोदकं प्रति देवल आह ।
उद्धृताश् चापि शुध्यन्ति शुद्धैः पात्रैः समुद्धृताः ।
एकरात्रोषिआश् चापस् त्याज्याः शुद्धा अपि स्वयम् ॥ इति ।
यमो ऽपि ।
अपो निशि न गृह्णीयात् गृह्णन्न् अपि कदाचन ।
निधायाग्निम् उपर्यासां धाम्नो धाम्न इतीरयेत् ॥ इति ॥ ३ ॥
पूर्वं रजसा शुध्यते नारी इत्य् अत्र योषितो विवाहोत्तरकालीना शुद्धिर् विवेचिता । इदानीं विवाहात् प्राचीनां शुद्धिं विविनक्ति ।
अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ॥ ४ ॥
दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला । इति ।
गौर्यादयस् तिस्र उद्वाहाय शुद्धाः, तद्दातुः फलविशेषस्मरणात् । रजस्वला त्व् अशुद्धा, तद्दानस्य निन्दितत्वात् । तत्र फलनिन्दे दर्शयति बृहस्पतिः ।
गौरी ददन् नाकपृष्ठं वैकुण्ठं रोहिणीं ददत् ।
कन्यां ददद् ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥ (बृस्म् २।३७)
[१५७] इति । यद्य् अप्य् एकादशे वर्षे रजोदर्शनं न प्रतिनियतं तथापि कासुचिद् दर्शनात् तत्संभावनया रजस्वलेति निर्देशः । तां ददद् रौरवं नरकं प्राप्नोति इति शेषः ॥ ४ ॥
कन्यायाम् अशुद्धिम् अभिप्रेत्य “अत ऊर्ध्वं रजस्वला” इत्य् उक्तम् । ताम् एवाशुद्धिंप्रदर्शयितुम् अदातारं निन्दति ।
प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ॥ ५ ॥
मासि मासि रजस् तस्याः पिबन्ति पितरः स्वयम् । इति ।
ऋतुदर्शनम् उपलक्षयितुं द्वादशे वर्षे इत्य् उक्तम् । अत एव गौतमेन “प्रदानं प्राग् ऋतोः” (ग्ध् १८।२१) इत्य् उक्तम् । यमो ऽप्य् एतद् एवाह ।
तस्माद् उद्वाहयेत् कन्यां यावन् नर्तुमती भवेत् । इति ।
अतश् च ऋतुदर्शनात् प्राग् यो न प्रयच्छति तस्य पितरः प्रतिमासं तद्रजः पिबन्ति । असत्य् ऋतुदर्शने द्वादशे ऽपि वर्षे कन्यादानप्रतिग्रहौ न निषिद्धौ । अत एव मनुः ।
त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।
[१५८] त्र्यष्टवर्षो ऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ इति । (म्ध् ९।९४)
इति ॥ ५ ॥
ऋतुदर्शने सत्य् अप्रदाता न केवलं पितॄन् एव नरके पातयति किं तु स्वयम् अपि सकुटुम्बः पतेद् इत्य् आह ।
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥ ६ ॥
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् । इति ।
मात्रादयस् त्रयः कन्याप्रदानाधिकारिणः सर्वान् उपलक्षयन्ति । ते च पूर्वम् एव “पिता पितामहः” इत्यादिवचनोदाहरणेन विवाहप्रकरणे प्रदर्शिताः ॥ ६ ॥
रजोदर्शनात् प्राग् अदानं तथा नरकहेतुः तथा रजस्वलोद्वाहो ऽपि नरकहेतुर् इत्य् आह ।
यस् तां समुद्वहेत् कन्यां ब्राह्मणो मदमोहितः ॥ ७ ॥
असंभाष्यो ह्य् अपाङ्क्तेयः स विप्रो वृषलीपतिः । इति ।
तां दृष्टरजसम् । असंभाष्यत्वापाङ्क्तेयत्वयोर् हेतुर् [१५९] वृषलीपतित्वम् । विवाहात् पूर्वं दृष्टरजस्का वृषली । तथा च मनुः ।
पितुर् गृहे तु या कन्या रजः पश्यत्य् असंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर् वृषलीपतिः ॥ इति । (म्ध् ३।१९) ॥ ७ ॥
यस् तु मदमोहादिनातिक्रान्तनिषेधस् ताम् उद्वाह्य सकृद् भुक्त्वा कथंचिद् दैवयोगाद् अनुतप्येत् तदा तस्य शुद्धिप्रकारम् आह ।
यः करोत्य् एकरात्रेण वृषलीसेवनं द्विजः ॥ ८ ॥
स भैक्षभुग् जपन् नित्यं त्रिभिर् वर्षैर् विशुध्यति । इति ।
जप्यविशेषानभिधानात् सामान्यप्राप्ताया गायत्र्या जप्यत्वमात्रावगन्तव्यम् ॥ ८ ॥
रात्रौ चण्डालादिस्पर्शे शुद्धिं प्रश्नपूर्वकम् आह ।
अस्तंगते यदा सूर्ये चण्डालं पतितं स्त्रियम् ॥ ९ ॥
सूतिकां स्पृशतश् चैव कथं शुद्धिर् विधीयते ।
जातवेदःसुवर्णं च सोममार्गं विलोक्य च ॥ १० ॥
ब्राह्मणानुमतश् चैव स्नानं कृत्वा विशुध्यति । इति ।
ज्तवेदाश् च स्वर्णं च जातवेदःसुवर्णम् । शुक्लपक्षे [१६०] सोमदर्शनसंभवे सोमो विलोकनीयः । तदलाभे वह्निः । तस्याप्य् अभावे सुवर्णम् । तस्याप्य् अभावे सोममार्गः । एतेषाम् अन्यतमं विलोक्य विप्रैर् अनुज्ञातः स्नायात् ॥ ९–१० ॥
रजस्वलयोर् योषितयोर् अन्योन्यसंस्पर्शे वर्णक्रमेण शुद्धिम् आह ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा ॥ ११ ॥
तावत् तिष्ठेन् निराहारा त्रिरात्रेणैव शुध्यति ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ॥ १२ ॥
अर्धकृच्छ्रं चरेत् पूर्वा पादम् एकम् अनन्तरा ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा ॥ १३ ॥
पादहीनं चरेत् पूर्वा पादम् एकम् अनन्तरा ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा ॥ १४ ॥
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति । इति ।
द्वयोर् ब्राह्मण्यो रजस्वलयोर् अन्योन्यं स्पर्शे सति तत् आरभ्य स्नानपर्यन्तम् उभयोर् आहारत्यागः । त्रिरात्रकृच्छ्रं चरेत् । एतच् च सहशयनादिचिरस्पर्शविषयम् । सकृत् स्पर्शे तु काश्यपोक्तं द्रष्टव्यम् ।
रजस्वला च संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥ इति ।
ब्राह्मणीक्षत्रिययोः स्पर्शे ब्राह्मण्याः कृच्छ्रार्धं क्षत्रियायाः पादकृच्छ्रम् । ब्राह्मणीवैश्ययोः स्पर्शे ब्राह्मण्याः [१६१] पादोनकृच्छ्रं वैश्यायाः पादकृच्छ्रम् । ब्राह्मणीशूद्रयोः स्पर्शे ब्राह्मण्याः प्राजापत्यं शूद्रायाः पादोनम् । एतत् सर्वं कामकारविषयम् । तथा च वृद्धवसिष्ठः ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजापि च ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजापि च ।
पादहीनं चरेत् पूर्वा कृच्छ्रपादं तथोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ।
कृच्छ्रार्धात् शुध्यते पूर्वा उत्तरा तु तदर्धतः ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शूद्रजापि च ।
उपवासैस् त्रिभिः पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया वैश्यजापि च ।
त्रिरात्रात् शुध्यते पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं वैश्या शूद्री तथैव च ।
त्रिरात्रात् शुध्यते पूर्वा उत्तरा तु दिनत्रयात् ॥
वर्णानां कामतः स्पर्शे विधिर् एष सनातनः । इति ।
अकामतस् तु वृद्धविष्णुनोक्तम्- “रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावद् अश्नीयात् यावन् न शुद्धिः स्यात् । सर्वर्णाम् अधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति” (विध् २२।७३–७४) [१६२] इति । रजस्वलायाः चण्डालादिस्पर्शे विशेषो वृद्धवसिष्ठेनोक्तः ।
चण्डालाद्यैः श्वपाकेन संस्पृष्टा चेद् रजस्वला ।
तान्य् अहानि त्व् अतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमे ऽह्नि त्रिरात्रं स्यात् द्वितीये द्व्यहम् एव तु ।
अहोरात्रं तृतीये ऽह्नि परतो नक्तम् आचरेत् ॥
शूद्रयोच्चिष्टया स्पृष्टा शुना तु द्व्यहम् आचरेत् ।
तान्य् अहानि व्यतिक्रम्य् प्रायश्चित्तं समचरेत् ॥ इति ।
व्यतिक्रम्येति अनशनेन तीर्त्वेत्य् अर्थः । एतद् बुद्धिपूर्वकस्पर्शविषयम् । अबुद्धिपूर्वे तु बौधायनोक्तं द्रष्टव्यम् ।
रजस्वला तु संस्पृष्टा चण्डालान्त्यश्ववायसैः ।
तावत् तिष्ठेन् निराहारा यावत् कालेन शुध्यति । इति ।
भोजनकालस्पर्शे बौधायन आह ।
रजस्वला तु भुञ्जाना श्वान्त्य्जातीन् स्पृशेद् यदि ।
गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥
अशक्ता काञ्चनं दद्यात् विप्रेभ्यो वापि भोजनम् । इति । (ब्ध् १।३।४–९)
यदा तूच्छिष्टयोः परस्परस्पर्शो भवति तदा अत्रिणा विशेषः प्रदर्शितः ।
[१६३] उच्छिष्टोच्छिष्टसंस्पर्शा कदाचित् स्त्री रजस्वला ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानैर् उपोषिता ॥ इति । (अत्र्स्म् ५।७)
उच्छिष्टद्विजसंस्पर्शे मार्कण्डेय आह ।
द्विजान् कथंचिद् उच्छिष्टान् रजःस्त्री यदि संस्पृशेत् ।
अधोच्छिष्टे त्व् अहोरात्रम् ऊर्ध्वोच्छिष्टे त्र्यहं जपेत् ॥ इति ।
भोजनकाले रजस्वलान्तरदर्शने आपस्तम्ब आह ।
उदक्या यदि वा भुङ्क्ते दृष्ट्वान्यां तु रजस्वलाम् ।
आ स्नानकालं नाश्नीयाद् ब्रह्मकूर्चं ततः पिबेत् ॥ इति ।
चण्डालदर्शने त्व् अत्रिर् आह ।
रजस्वला तु भुञ्जाना चण्डालं यदि पश्यति ।
उपवासत्रयं कुर्यात् प्राजापत्यं तु कामतः ॥ इति । (वृअत्र्स्म् ५।५५,५६)
शवादिस्पर्शे शातातप आह ।
आर्तवाभिप्लुता नारी स्पृशेच् चेत् शवसूतकम् ।
ऊर्ध्वं त्रिरात्रात् स्नातां तां त्रिरात्रम् उपवासयेत् ॥ इति । (शास्म् २।१२७)
स्पर्शपूर्वकभोजनादौ विशेषम् आह अत्रिः ।
[१६४] आर्तवाभिप्लुता नारी मृतसूतकयोः स्पृशेत् ।
भुक्त्वा पीत्वा चरेत् कृच्छ्रं स्पृष्ट्वा तु त्र्यहम् एव च ॥ इति । (अत्स्म् ५।८)
श्वादिसंशने व्यास आह ।
रजस्वला यदा दष्टा श्वानजम्बूकरासभैः ।
पञ्चरात्रं निराहारा पञ्गव्येन शुध्यति ॥ इति । (व्यास्म् ३।६९)
बन्धुमरणश्रवणादौ स एवाह ।
मलवद्वसनायां तु अप्रायत्यं भवेत् यदि ।
अभिषेकेण शुद्धिः स्यान् नाशनं वा दिनत्रयम् ॥
आर्तवाभिप्लुता नारी नावगाहेत् कदाचन ।
उद्धृतेन जलेनैव स्नात्वा शेषं समापयेत् ॥
स्वकं गात्रं भवेद् अद्भिः साङ्गोपाङ्गमलैर् युतम् ।
न वस्त्रपीडनं कुर्यात् नान्यवासा भवेत् पुनः ॥ इति । (व्यास्म् ३।४२–४४)
॥ ११–१४ ॥
इदानीं रजोनिमित्तां शुद्धिं दर्शयति ।_
स्नाता रजस्वला या तु चतुर्थे ऽहनि शुध्यति ॥ १५ ॥
कुर्याद् रजोनिवृत्तौ तु दैवपित्र्यादि कर्म च । इति ।
रजोदर्शनम् आरभ्य दिनत्रयं नास्ति शुद्धिः । चतुर्थे [१६५] ऽहनि स्नाताया रजोनिवृत्तियभावे ऽपि भर्तुः शुश्रूषादौ शुद्धिः । पञ्चमे ऽहनि दैवपित्र्ययोः । तद् आह आपस्तम्बः ।
श्रद्धा भर्तुश् चतुर्थे ऽह्नि स्नाता नारी रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमे ऽहनि शुध्यति ॥ इति ।
कानिचित् दिनानि रजो यद्य् अनुवर्तेत तदा तन्निवृत्तिपर्यन्तं दैवपित्र्ययोः शुद्धिर् नास्ति । निवृत्ते तु रजसि दैवं पित्र्यं च कर्तव्यम् ॥ १५ ॥
रोगजन्यानुवृत्तौ विशेषम् आह ।
रोगेण यद् रजः स्त्रीणाम् अन्वहं तु प्रवर्तते ॥ १६ ॥
नाशुचिः सा ततस् तेन तत् स्यात् वैकालिक मतम् । इति ।
रागरोगादिनिमित्तभेदाद् अनेकविधा हि रजःप्रवृत्तिः । तद् उक्तं स्मृत्यन्तरे ।
रागजं रोगजं चैव कालोत्पन्नं तथैव च ।
द्रव्यजं चैव संप्रोक्तं तच् चतुर्धा प्रदृश्यते ॥
अर्वाक् प्रसूतेर् उत्पन्नं मेदोवृद्ध्याङ्गनासु यत् ।
तद् रागजम् इति प्रोक्तं मदोद्रेकसमुद्भवम् ॥
अत्यर्थं यद् रजः स्त्रीणां तद् रागजम् इति स्मृतम् ।
अष्टादशदिनाद् ऊर्ध्वं स्नानप्रभृति संख्यया ॥
[१६६] यद् रजस् तु समुत्पन्नं तत् कालोत्पन्नम् उच्यते ।
भक्ष्यद्रव्यस्य वैषम्याद् धातुवैषम्यसंभवम् ॥
द्रव्यजं रज इत्य् उक्तं तत् कदाचित्कसंभवम् ॥ इति ।
प्रतिदिनं नैरन्तर्यस्रावेण रोगजं विद्यात् । तेन रोगजेन रजसा ततो रजोदर्शनानन्तरं सा स्त्री कालप्राप्तरजसेवाशुचिर् न भवति । तत्र हेतुः वैकालिकम् इति । सामान्येन रजोयोग्यः कालो मासः, “मासि मासि रजः स्त्रीणाम्” (य्ध् २।३४) इति शास्त्रात्, लोकप्रसिद्धेश् च । यस्याः कस्याश्चित् धातुस्वभावविशेषाद् विंश्तिरात्रादिकः कालविशेषः प्रतिनियतो भवति ततो विपरीतकालो विकालः । प्रतिदिनं तत्रानुवर्तनाद् वैकालिकत्वम् । यत् तु गर्भिण्याः प्राक्प्रसवाद् रागजम् उदाहृतं तत्र कालप्राप्तरजोवद् दिनत्रयाशौचं विज्ञेयम् । द्रव्यजे त्व् अङ्गिरा आह ।
आ द्वादशाहान् नारीणां मूत्रवत् शौचम् इष्यते ।
अष्टादशाहात् स्नानं स्यात् त्रिरात्रं परतो ऽशुचिः ॥
एतत् तु द्रव्यजे विद्याद् रोगजे पूर्वम् ईरितम् । इति । (अङ्स्म् १।१२७)
प्रसूतिकाविषये शुद्धिविशेषम् आह प्रजापतिः ।
[१६७] प्रसूतिका तु या नारी स्नानतो विंशतेः परम् ।
आर्तवी रजसा प्रोक्ता प्राक् तु नैमित्तिकं रजः ॥
न तु नैमित्तिकेन स्यात् रजसा स्त्री रजस्वला ।
रजस्य् उपरते तत्र स्नानेनैव शुचिर् भवेत् ॥
अन्यत्र गर्भविश्लेषात् पातनाद् वा रजस्वला ।
गर्भस्रावे ऽपि सा स्नानाद् विंशतेः परतो शुचिः ॥
गर्भस्य पतने चैव स्नानात् क्षालनतो ऽप्य् अधः ।
निःसंदिग्धे परिज्ञाते चार्तवे शुद्धिकारणम् ॥
संदिग्धमात्रे स्नानं स्याद् इत्य् उवाच प्रजापतिः ।
अतो दिवा वा रात्रौ वा मलवद्वसना यदि ॥
तद्दिनादि त्रिरात्रं स्यान् न संक्या नाडिकावशात् ।
तृतीयभागे संप्राप्ते मलं स्यान् निशि चेत् स्त्रियाः ॥
प्रभातात् तु त्रिरात्रेण शुद्धिं तस्या विनिर्दिशेत् । इति । (प्रज्स्म् ३।१७–२३)
॥ १६ ॥
[१६८]
रोगजन्यरजो ऽनुवृत्तौ अस्पृश्यत्वलक्षणासुचिताभावे ऽपि दैवे पित्र्ये चास्त्य् एवाशुचित्वम् इत्य् आह ।
साध्वाचारा न तावत् स्यात् रजो यावत् प्रवर्तते ॥ १७ ॥
रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि । इति ।
साधुः दैवपित्र्यार्थं पाकादिरूप आचारो यस्याः सा साध्वाचारा । रजसि निवृत्ते पश्चात् पुरुषेण गम्या भवति । उक्तपाकादिगृहकर्मणि च योग्या भवति ॥ १७ ॥
पूर्वं “चतुर्थे ऽहनि शुध्यति” इत्य् उक्तं ततः प्राचीने दिनत्रये शुद्ध्यभावं विशदयति ।
प्रथमे ऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ॥ १८ ॥
तृतीय रजकी प्रोक्ता चतुर्थे ऽहनि शुध्यति । इति ।
चण्डाल्यादिगमने यावान् प्रत्यवायः तावान् उदक्यागमने इत्य् अभिप्रेत्य तैर् नामभिर् व्यवहारः । यथा कुण्डपायिनामयने [१६९] “मासम् अग्निहोत्रं जुहोति” इति अग्निहोत्रनामनिर्देशेन नित्याग्निहोत्रधर्मातिदेशः तद्वत् ॥ १८ ॥
यदा ज्वरादिभिर् आतुरस्य रजस्वलाभिस्पर्शने प्रत्यासन्नबन्धुमरणे वा स्नानं प्राप्नोति तदा कथं कर्तव्यम् इत्य् अत आह ।
आतुर स्नान उत्पन्ने दशकृत्वो ह्य् अनातुरः ॥ १९ ॥
स्नात्वा स्नात्वा स्पृशेद् एनं ततः शुध्येत् स आतुरः । इति ।
तत्र प्रतिस्नानम् आतुरस्य वासो विपरिवर्तनीयम् । तद् आह अत्रिः ।
आतुरस्नान उत्पन्ने दशकृत्वो ह्य् अनातुरः ।
स्पृष्ट्वा स्पृष्ट्वावगाहेत स विशुध्येत आतुरः ॥
वासोभिर् दशभिश् चैव परिधाय यथाक्रमम् ।
दद्यात् तु शक्तितो दानं पुण्याहेन विशुध्यति ॥ इति । (लत्र्स्म् ५।६०–६२)
उशना अपि ।
ज्वराभिभूता या नारी रजसा च परिप्लुता ।
कथं तस्या भवेत् शौचं शुद्धिः स्यात् केन कर्मणा ॥
चतुर्थे ऽहनि संप्राप्ते स्पृशेद् अन्या तु तां स्त्रियम् ।
सा सचैलावगाह्यापः स्नात्वा चैव पुनः स्पृशेत् ॥
दश द्वादशकृत्वो वा आचामेच् च पुनः पुनः ।
१७०] अन्ते च वाससां त्यागः ततः शुद्धा भवेत् तु सा ॥
दद्याच् छक्त्या ततो दानं पुण्याहेन विशुध्यति । इति ।
तथा सूतिकामरणे स्मृत्यन्तरे विशेषो दर्शितः ।
सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः ।
कुम्भे सलिलम् आदाय पञ्चगव्यं तथैव च ॥
पुण्यर्ग्भिर् अभिमन्त्यापो वाचा शुद्धिं लभेत् ततः ।
तेनैव स्नापयित्वा तु दाहं कुर्यात् यथाविधि ॥ इति ।
रजस्वलामरणे तु,
पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ।
वस्त्रान्तरावृतां कृत्वा दाहयेद् विधिपूर्वकम् ॥
इति तत्रैव विशेष उक्तः ॥ १९ ॥
उच्छिष्टस्य द्विजस्यान्येनोच्छिष्टेन द्विजेन शुना शूद्रेण वा संस्पर्शे शुद्धिम् आह ।_
उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः ॥ २० ॥
उपोष्य रजनीम् एकां पञ्चगव्येन शुध्यति । इति ।
उच्चिष्टेन संस्पृष्टः उच्छिष्टसंस्पृष्टः । उच्छिष्टश् चासाव् उच्छिष्टसंस्पृष्टश् चेति विग्रहः । रजनीम् उपोष्य रात्रिभोजनं परित्यजेद् इत्य् अर्थः । यत् तु अत्रिणोक्तम्,
उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणो ब्राह्मणेन तु ।
दशरूपं जपेत् पश्चात् गायत्र्याः शोधनं भवेत् ॥
इति, तद् एतद् अशक्तविषयम् । शुना स्पर्शे विशेषम् आह संवर्तः ।
कृतमूत्रपुरीषो वा भुक्तोच्छिष्टो ऽथ वा द्विजः ।
श्वभिः स्पर्शे जपेत् देव्याः सहस्रं स्नानपूर्वकम् ॥ इति ॥ २० ॥
[१७१]
अनुच्छिष्टस्य विप्रस्योच्छिष्टशूद्रस्पर्शे स्नानमात्रम् । उच्छिष्टस्य विप्रस्योच्छिष्टशूद्रस्पर्शे प्राजापत्यकृच्छ्रम् इत्य् आह ।
अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते ॥ २१ ॥
तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् । इति ।
यद्य् अप्य् अनुच्छिष्टोच्छिष्टशब्दौ शूद्रविशेषणतया श्रुतौ तथापि विधीयमानस्नानप्राजापत्यानुसारेण विप्रे ऽपि तौ योजनीयौ ॥ २१ ॥
पूर्वं कांस्यस्य या शुद्धिर् उक्ता ताम् अनूद्य तत्र विशेषम् आह ।
भस्मना शुध्यते कांस्यं सुरया यन् न लिप्यते ॥ २२ ॥
सुरामात्रेण संस्पृष्टं शुध्यते ऽग्न्युपलेखनैः । इति ।
सुरास्पृष्टस्य कांस्यस्य न भस्मघर्षणमात्रेण शुद्धिः । किं तु उपलेखनतापनाभ्याम् । उपलेखनं नाम् शस्त्रेणोपरिभागस्य तक्षणम् । मूत्रपुरीषलेपेष्व् एषैव शुद्धिः । तद् उक्तं स्मृत्यन्तरे ।
[१७२] भस्मना शुध्यते कांस्यं सुरया यन् न लिप्यते ।
सुरामूत्रपुरीषैस् तु शुध्यते ऽग्न्युपलेखनैः ॥
आमिषेण तु यल् लिप्तं पुनर्दाहेन शुध्यति । इति ॥ २२ ॥
गवाघ्रातादीनां दशकृत्वो भस्मघर्षणेन शुद्धिर् इत्य् आह ।
गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च ॥ २३ ॥
शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च । इति ।
एतद् एव शातातपो ऽप्य् आह ।
गवाघ्रातेषु कांस्येषु शूद्रोच्छिष्टेषु वा पुनः ।
दशभिर् भस्मभिः शुद्धिः श्वकाकोपहतेषु च ॥ इति (शात्स्म् ३।६१)
॥ २३ ॥
गण्डूषाद्युपहतस्य भूनिक्षेप इत्य् आह ।
गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ॥ २४ ॥
षण्मासान् भुवि निःक्षिप्य उद्धृत्य पुनर् आहरेत् । इति ।
[१७३]
अयं च भूनिःक्षेपः कांस्यकारघर्षणस्याप्य् उपलक्षणम् । अत एव अङ्गिराः ।
गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ।
षण्मासं भुवि निःक्षिप्य पुनर् आकारम् आदिशेत् ॥ इति । (अङ्स्म् २।१९)
यत् तु बौधायनेनोक्तम्- “तैजसानां पात्राणाम् उच्छिष्टोपहतानां त्रिःसप्तकृत्वः परिमार्जनम् । तथा मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां पुनःकरणम्” (ब्ध् १।६।१४।४–६) इति, तत्र पुनःकरणं चिरलेपविषयं द्रष्टव्यम् ॥ २४ ॥
आयसादीनां कटाहादीनां सीसपात्रस्याप्य् अत्यन्तोपहतस्य शुद्धिम् आह ।
आयसेष्व् आयसानां च सीसस्यानौ विशोधनम् ॥ २५ ॥
इति।
अयोमयेषु घर्षणसाधनेषु आयसानां घर्षणेन शोधनम् । सीसस्य त्व् अग्नौ प्रविलापनम् । अयःसंघर्षणम् अश्मसंघर्षणस्याप्य् उपलक्षणम् । अत एव मार्कण्डेयपुराणम् ।
गात्राणां च मनुष्याणाम् अम्बुना शौचम् इष्यते ।
तथायसानां तोयेन त्व् अश्मसंघर्षणेन च ॥ (मार्पु ३५।५–६)
[१७४] इति । तोयेनेत्य् अल्पोपहतविषयम् ॥ २५ ॥
गजदन्तादीनाम् शुद्धिम् आह ।
दन्तम् अस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम् ।
मणिपाषाणपात्राणीत्य् एतान् प्रक्षालयेज् जलैः ॥ २६ ॥
पाषाणे तु पुनर् घर्षः शुद्धिर् एव उदाहृता । इति ।
अस्थिशब्देन गजास्थ्यादिनिर्मितं करण्डकादि । शृङ्गशब्देन महिषशृङ्गादिनिर्मितं करण्डकादि । मनिपात्राणि प्रवालस्फटिकादीनि । पाषाणपात्रस्य तु प्रक्षालनं पाषाणान्तरघर्षणं चेत्य् उभयं वेदितव्यम् । जलैः प्रक्षालनं निर्लेपविषयम् । तद् आह मनुः ।
निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्करम् ॥ (म्ध्५।११२)
[१७५] इति । अब्जं शङ्खशुक्त्यादि । अनुपस्कृतं निर्लेपम् । यत् तु मनुनैवोक्तम्,
तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥ (म्ध् ५।१११)
इति, तत् सलेपविषयम् । शुद्ध्यन्तराणि मुनिभिर् दर्शितानि । तत्र शातातपः ।
सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं तथा ।
रीतिकासीसलोहानि शुध्यन्ते ऽश्मप्रघर्षणात् ॥ इति । (शास्म् ३।४८)
यमः ।
रजतस्य सुवर्णस्य ताम्रस्य त्रपुणस् तथा ।
रीत्ययःकांस्यसीसानां भस्मना शौचम् इष्यते ॥ इति । (यम्स्म् ५।३९)
उशनसापि- “सुवर्णरजतताम्रत्रपुसीसकांस्यानाम् अद्भिर् एव भस्मसंयुक्ताभिः । मणिमयानाम् अद्भिर् एव मृत्संयुक्ताभिः । तैजसानां चोच्छिष्टानां भस्मना त्रिः प्रक्षालनम् । कनकमणिरजतशङ्खशुक्त्युपलानां वज्रविदलनरज्जुचर्मणां चाद्भिः शौचम्” इति (उश्स्म् ५।१७–२०) । विष्णुः-
[१७६] विण्मूत्ररेतासवरक्तलिप्तम्
आवर्तनोल्लेखनतापनैर् वा ।
त्रिःसप्तकृत्वः परिमार्जनैर् वा
भस्माम्बुना शुध्यति तैजसानाम् । इति । (विस्म् ११।६७)
एतेषां सर्वेषां यथायोगं चिरक्षिप्रलेपालेपभेदेन व्यवस्था द्रष्टव्या ॥ २६ ॥
मृद्भाण्डस्य धान्यस्य चोच्छिष्टाभ्युपहतौ शुद्धिम् आह ।
मृण्मये दहनात् शुद्धिर् धान्यानां मार्जनाद् अपि ॥ २७ ॥
इति।
दहनं सलेपविषयम् । अत एव बौधायनः- “मृण्मयानां पात्राणाम् उच्छिष्टसमन्वारब्धानाम् अवचूर्णनम् । उच्छिष्टलेपोपहतानां पुनर् दहनम् । मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानाम् उत्सर्गः” (ब्ध् १।६।१३।३१–३३) [१७७] इति । एतच् च श्वादिस्पर्शविषयम् । चण्डालादिस्पर्शे तु स्मृत्यन्तरोक्तं द्रष्टव्यम् ।
चण्डालाद्यैस् तु संस्पृष्टं धान्यं वस्त्रम् अथापि वा ।
क्षालनेन विशुध्येत परित्यागान् महीमयम् ॥ इति ।
मार्जनं प्रोक्षणं प्रक्षालनं वा । तत्रोभयोर् व्यवस्थितविषयत्वं दर्शयति मनुः ।
अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ इति । (म्ध् ५।११८)
विष्णुः- [१७८] “अल्पस्य धान्यस्य यन्मात्रम् उपहन्यते तन्मात्रम् उत्सृज्य शेषस्य कण्डनप्रक्षालने कुर्यात्” इति (विध् २३।२५) । बौधायनः- “चण्डालादिस्पर्शने ऽनेकपुरुषोद्धार्याणां प्रोक्षणम् । मूत्रादिसंपर्के तन्मात्रापहारः । असृक्पांस्वादिद्रव्यसंयोगे निस्तुषीकरणम्” इति (ब्ध् १।६।१३।१७–१९) । काश्यपः- “प्रोक्षणपर्यग्निकरणवगाहनैर् व्रीहियवगोधूमानाम् । विमर्शनप्रोक्षणैः फलीकृतानाम् । विघर्षणविदलनप्रोक्षणैः शमीधान्यानाम्” इति (काश्स्म् १२।३–४) । अस्यार्थः – अनेकपुरुषोद्धर्याणां व्रीहियवगोधूमानां यथाक्रमं प्रोक्षणपरग्निकरणावगहनैः शुद्धिः । अवगाहनं प्रक्षालनम् । व्रीह्यादितण्डुलानां फलीकृतानां विमर्शनेन । [१७९] विमर्शनं कराभ्यां घर्षणम् । कण्डनेन शुक्लीकरणं वा । शमीधान्यानां मुद्गादीनां अनेकपुरुषोद्धार्याणां विघर्षणेन । आदिपुराणे ।
गृहदाहे समुत्पन्ने संस्थिते पशुमानुषे ।
अभोज्यस् तद्गतो व्रीहिधातुद्रव्यस्य संग्रहः ॥
मृण्मयेनावगुप्तानाम् अधोभुवि च तिष्ठताम् ।
यवमाषतिलादीनां न दोषं मनुर् अब्रवीत् ॥
ततः संक्रममाणे ऽग्नौ स्थाने च दह्यते ।
न च प्राणिवधो यत्र केवलं गृहदीपनम् ।
तत्र द्रव्याणि सर्वाणि गृह्णीयाद् अविचारयन् ॥ इति ॥ २७ ॥
वेण्वादीनाम् एकैकस्यालोपहतौ संहतानां महोपहतौ चैकविधां शुद्धिम् आह ।
वेणुवल्कलचीराणां क्षौमकार्पासवाससाम् ।
और्णनेत्रपटानां च प्रोक्षणात् शुद्धिर् इष्यते ॥ २८ ॥
इति।
वेणुशब्देन तत्कार्याणि कटव्यजनादीनि गृह्यन्ते । [१८०] वल्कलचीराण्य् अरण्यवासिनां प्रसिद्धानि । क्षौमं दुकूलम् । कार्पासवासांसि प्रसिद्धानि । और्णः कम्बलः । नेत्रपटा अरण्यवासिनाम् एव प्रसिद्धा भूर्जत्वगादयः । अस्याश् चाल्पविषयशुद्धित्वं देवलो दर्शयति ।
और्णकौशेयकुतपपट्टक्षौमदुकूलजाः ।
अल्पशौचा भवन्त्य् एते शोषणप्रोक्षणादिभिः ॥
तान्य् एवामेध्ययुक्तानि क्षालयेच् छोषकैः स्वकैः ।
धान्यकल्कैस् तु फलजै रसैः क्षारानुगैर् अपि ॥ इति ।
एकैकस्य लेपोपहतौ याज्ञवल्क्य आह ।
सोषैर् उदकगोमूत्रैः शुध्यत्य् आविककौशिकम् ।
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥
सगौरसर्षपैः क्षौमं पुनः पाकाच् च मृण्मयम् ॥ इति । (य्ध् १।१८६–८७)
आविकं कम्बलः । कौशेयं कृमिकोशोत्थम् । अंशुपट्टं नेत्रपटः । अरिष्टानि पुत्रजीवफलानि । कुतपः पार्वतीयच्छागरोमनिर्मितः कम्बलविशेषः । मनुर् अपि ।
कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः ।
श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥
[१८१] क्षौमवत् शङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च ।
शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन वा ॥ इति । (म्ध् ५।१२०–२१)
अङ्गिरा अपि ।
शौचं महार्घरोम्णां तु वाय्वग्न्यर्केन्दुरश्मिभिः ।
रेतःस्पृष्टं शवस्पृष्टम् आविकं च प्रदुष्यति ॥ इति ।
अत्र च रेतःस्पर्शो लेपरहितो विवक्षितः ॥ २८ ॥
मुञ्जादीनां वेणुवत् शुद्धिम् आह ।
मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम् ।
तृणकाष्ठस्य रज्जूणाम् उदकाभ्युक्षणं मतम् ॥ २९ ॥
इति।
मुञ्जो रशनादिप्रकृतिभूतस् तृणविशेषः । तेन संपादित उपस्करो विष्टरादिः । यद्य् अपि पूर्ववचने वेणुविकाराणां कटादीनां प्रोक्षणस्योक्तत्वात् तेनैव शूर्पशुद्धिर् अभिहिता तथापि तण्डुलफलीकरणादौ तल्लेपस्य लग्नत्वात् शुद्ध्यन्तराशङ्का भवति तन् मा भूद् इति पुनर् इह ग्रहणम् । शणो गोण्यादिहेतुर् वल्कलविशेषः । तेन तद्विकाराः सर्वे ऽपि विवक्षिताः । फलम् आम्रादि । चर्म कृष्णाजिनादि । तृणं च काष्ठं च तृणकाष्ठम् । रज्ज्वः प्रसिद्धाः । अत्र फलशब्देन शाकमूलादीन्य् उपलक्ष्यन्ते । अत एव याज्ञवल्क्यः ।
[१८२] शाकरज्जूमूलफलवासोविदलचर्मणाम् ।
पात्राणां चमसानां च वारिणा शुद्धिर् इष्यते ॥ इति । (य्ध् १।१८२–८३)
शाकं वासुकादि । रज्जुर् बल्वजादिनिर्मिता । मूलम् आर्द्रकादि । फलम् आम्रादि । वैदलं वैणवादि । चर्म अजादीनाम् । पात्राणि प्रोक्षणपात्रप्रभृतीनि । चमसा होतृचमसादयः । तत्र वारिशुद्धिः प्रोक्षणं प्रक्षालनं च । तद् उभयं यथायोगं द्रष्टव्यम् । अत एव मनुना धान्यं दृष्टान्तितम् ।
चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च ।
ऽ शाकमूलफलानां च धान्यवत् शुद्धिर् इष्यते ॥ इति । (म्ध् ५।११९)
काश्यपो ऽपि- [१८३] “तृणकाष्ठरज्जुमुञ्जचर्मवेणुविदलफलपत्रमूलादीनाम् चैलवत् शौचम् । मृद्दारुचर्मणां चात्यन्तोपहतानां त्यागः” इति (काश्स्म् १२।८–९) । ब्रह्मपुराणे ऽपि ।
शवविण्मूत्रशुक्रैस् तु दूषितं च मृदम्बुभिः ।
शोध्यादौ शोदनीयं च गोमूत्रक्षारवारिभिः ॥
रज्जुवल्कलपत्राणां चमसालाबुचर्मणाम् ।
कृत्वा शौचं ततः शुद्दिः गोवालैर् घर्षणं पुनः ॥ इति ।
व्यासो ऽपि ।
वस्त्रं मृदम्भसा शुद्धं रज्जुर् वैदलम् एव च ।
रज्ज्वादिकं चातिदुष्टं त्याज्यं तन्मात्रम् एव च ॥ इति । (व्यास्म् ४।१७)
उशना अपि- “मूलफलपुष्पभूमितृणदारुपलालधान्यानाम् अभ्युक्षणम्” इति (औश्स्म् ३।४१) । यत् तु बौधायनेनोक्तम्- “कृष्णाजिनानां बिल्वतण्डुलैः” इति (ब्ध् १।६।१३।१३), पैठीनसिर् अपि- [१८४] “रौरवाद्यजिनानां बिल्वतण्डुलवत्” इति, तत् नूतनचर्मविषयम् ॥ २९ ॥
सतूलशय्यादीनां शुद्धिम् आह ।
तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च ।
शोषयित्वातपेनैव प्रोक्षणात् शुद्धिताम् इयुः ॥ ३० ॥
इति।
तूलं शाल्मलिफलादिजन्यं तेन निर्मिता शय्या तूलिका । आदिशब्देनासनोपाश्रयादीनि गृह्यन्ते । उपधानम् उच्छीर्षकम् । तूलिकादीनि चोपधानं च तूलिकाद्युपधानानि । रक्तवस्त्रं माञ्जिष्ठम् । आदिशब्देन कौसुम्भहारिद्रादीनि । एतेषाम् अमेध्यादिलेपरहितोपहतौ आतपशोषणं प्रोक्षणं च । एतच् च करोन्मार्जनस्याप्य् उपलक्षणम् । अत एव देवलः ।
तूलिकाद्युपधानानि पुष्परकाम्बराणि च ।
शोषयित्वा तथा किंचित् करैर् उन्मार्जयेन् मुहुः ॥
पश्चात् तु वारिणा प्रोक्ष्य शुचीन्य् एवम् उपाहरेत् ॥ इति ।
निर्लेपकौसुम्भपुष्परक्तानि कुङ्कुमकुसुम्भादिरक्तानि । पुष्परक्तग्रहणं अन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य [१८५] प्राप्त्यर्थम् । न माञ्जिष्ठादेः, तस्य क्षालनसहत्वात् । सलेपोपहतौ स एवाह ।
अल्पशौचे भवेत् शुद्धिः शोषणप्रोक्षणादिभिः ।
तान्य् एवामेध्ययुक्तानि निर्णिज्यात् क्षारपर्ययैः ॥
तान्य् अप्य् अतिबलिष्ठानि यथावत् परिशोधयेत् । इति ।
निर्लेपकौसुम्भादौ षट्त्रिंशन्मते ऽभिहितम् ।
कुसुम्भकुङ्कुमै रक्तं तथा लाक्षारसेन वा ।
प्रोक्षणेनैव शुध्येत चण्डालस्पर्शने सदा ॥ इति ।
शङ्खो ऽपि ।
कुसुम्भकुङ्कुमानां च और्णकार्पासयोस् तथा ।
प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भवान् यमः ॥ इति ॥ ३० ॥
द्रव्योपहतौ शुद्धिर् वर्णिता । इदानीं श्वादिभिर् इव मार्जारादिभिर् अप्य् उपहते शङ्काप्रसक्ताव् अपवदति ।
मार्जारमक्षिकाकीटपतङ्गकृमिदर्दुराः ।
मेध्यामेध्यं स्पृशन्तो ऽपि नोच्छिष्टं मनुर् अब्रवीत् ॥ ३१ ॥
[१८६] इति । मेध्यं चामेध्यं च मेध्यामेध्यम् । यद्य् अपि मार्जारादय उभयं स्पृशन्तो वर्तन्ते तथापि मेध्यं तावता नोच्छिष्टम् इति योजनीयम् ॥ ३१ ॥
भूमिस्पृष्टोदकादाव् अशुद्धिम् अपवदति ।
महीं स्पृष्ट्वागतं तोयं याश् चाप्य् अन्योन्यविप्रुषः ।
भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुर् अब्रवीत् ॥ ३२ ॥
इति।
पादप्रक्षालनाचमनादाव् अधः पतितं यद् उदकं भूमिं स्पृष्ट्वा पुनर् बिन्दुरूपेणागत्य स्पृशति, ये चान्योन्यमुखोद्गता बिन्दवः संभाषणे सरीरे पतन्ति, यश् च स्नेहो भोजनानन्तरं प्रक्षालनेनानिर्हार्यः, तत् सर्वं नासुद्ध्यापादकम् ॥ ३२ ॥
मुखान्तर्गतताम्बूलादीनाम् उच्छिष्टशङ्काम् अपवदति ।
ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने ।
मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः ॥ ३३ ॥
इति।
ताम्बूलं च इक्षुश् च फलं च ताम्बूलेक्षुफलम् । पूर्ववचनोक्तो ऽपि भुक्तस्नेहो ऽत्र दृष्टान्तत्वेन पुनर् उपात्तः । मधुपर्को यज्ञविवाहादौ दध्यादिभक्षणम् । सोमो यागे सोमपानम् । एतेषु नास्त्य् उच्छिष्टदोषः ॥ ३३ ॥
रथ्योदकादौ प्रयत्नेन कर्तव्यः शुद्धिविशेषो नास्तीत्य् आह ।
रथ्याकर्दमतोयानि नावः पन्थास् तृणानि च ।
मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥ ३४ ॥
[१८७] इति । पक्वेष्टकचितानि चैत्यवृक्षवेदिकादीनि । निर्दिष्टानाम् एतेषां चण्डालादिस्पर्शे ऽपि वाय्वातपाभ्यां शुद्धिः । तथा च याज्ञवल्क्यः ।
रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।
मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥
पन्थानश् च विसुध्यन्ति सोमसूर्यांशुमारुतैः ॥ इति । (य्ध् १।१९४–९७)
बौधायनो ऽपि ।
आसनं शयनं यानं नावः पन्थास् तृणानि च ।
मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥ इति । (ब्ध् १।५।९।७)
उपरिभागस्पर्शे शङ्ख आह ।
रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा त्व् अथ ।
नाभेर् ऊर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥ इति । (शङ्स्म् ११।३६)
अधोभागस्पर्शे यम आह ।
[१८८] सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् ।
जङ्घयोर् मृत्तिकास् तिस्रः पादयोर् मृत्तिका स्मृता ॥ इति । (यम्स्म् ४।१९)
॥ ३४ ॥
उदकपानगतधारादीनाम् आसुद्धिम् अपवदति ।_
अदुष्टाः सन्तता धारा वातोद्धूताश् च रेणवः ।
स्त्रियो वृद्धाश् च बालाश् च न दुष्यन्ति कदाचन ॥ ३५ ॥
इति।
कमण्डल्वादिकात् निर्गत्य मुखपर्यन्तम् अविच्छिन्ना अपि उदकधारा नोच्छिष्टाः । नानाविधाशुचिप्रदेशाद् वायुनोत्थापिता अपि रेणवः स्पर्शार्हाः । पुरुषवत् प्रातःस्नानाद्यभावे ऽपि योषिदादयः स्पृश्याः शुद्धाश् च । रेणुशुचित्वं रासभादिभ्यो ऽन्यत्र द्रष्टव्यम् । तद् आह शातातपः ।
रेणवः शुचयः सर्वे वायुना समुदीरिताः ।
अन्यत्र रसभाजाविश्वकाकोलूकवायसाम् ॥ इति ।
स्मृत्यन्तरे ऽपि ।
श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिनाम् ।
अजाविरेणुसंस्पर्शाद् आयुर् लक्ष्मीश् च हीयते ॥
[१८९] इति । गवादीनां रेणवो न केवलं दोषहरिताः प्रत्य् उत प्रशस्ताः । तद् आह उशनाः ।
गवाश्वरथयानानां प्रशस्ता रेणवः सदा । इति ।
विषयविशेषेण शुद्धिम् आह याज्ञवल्क्यः ।
रश्मिर् अग्निर् अजच्छाया गौर् अश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्रवणे शुचिः ॥ इति । (य्ध् १।१९३)
विप्रुषो नीहारबिन्दवः । एते चण्डालादिस्पृष्टा अपि स्पर्शे शुचयः । वत्स ऊधोगतक्षीराकर्षणे शुद्धः । वत्सन्यायो बालस्तन्यपाने ऽप्य् अवगन्तव्यः । तथा च वसिष्ठः ।
श्वहताश् च मृगा मेध्याः पातितं च द्विजैः फलम् ।
बालैर् अनुपरिक्रान्तं स्त्रीभिर् आचरितं च यत् ॥ इति । (वध् ३।४५)
द्विजैः पक्षिभिः । उशनाः- “गौर् मेध्या पृष्ठे । पुरस्ताद् अजादयः । स्त्रियः सर्वतः । हृदयम् आसाम् अशुचि” इति (उश्स्म् ३।१७–२०) । बृहस्पतिर् अपि ।
[१९०] पादौ शुची ब्राह्मणानाम् अजाश्वस्य मुखं शुचि ।
गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम् ॥ इति ।
सुमन्तुः- “स्त्रीबालमशकमक्षिकामार्जारमूषिकाछायासनशयनयानाम्बुविप्रुषो नित्यं मेध्याः” इति । बृहस्पति-हारीतौ ।
मार्जारश् चैव दर्वी च मारुतश् च सदा शुचिः । इति ।
शङ्खः- “मार्जारश् चंक्रमे शुचिः” इति (शङ्स्म् १६।१४) । मनुः ।
नित्यं शुद्धः कारुहस्तः पण्यं यच् च प्रसारितम् ।
ब्रह्मचारिगतं भैक्षं नित्यं मेध्यम् इति स्थितिः ॥ इति । (म्ध् ५।१२९)
यमः ।
आसनं शयनं यानं स्त्रीमुखं कुतपं क्षुरम् ।
न दूषयन्ति विद्वांसो यज्ञेषु चमसं तथा ॥
[१९१] गौर् अजो विप्रुषश् छाया मक्षिकाः शलभाः शुकाः ।
अश्वो हस्ती रणे छत्रं रश्मयश् चन्द्रसूर्ययोः ॥
भूमिर् अग्निर् अजो वायुर् आपो दधि घृतं पयः ।
सर्वाण्य् एतानि शुद्धानि स्पर्शे मेध्यानि नित्यशः ॥
आपः शुद्धा भूमिगताः शुचिर् नारी पतिव्रता ।
शुचिर् धर्मपरो राजा संतुष्टो ब्राह्मणः शुचिः ॥
नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे तु शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥ इति । (यम्स्म् ४।३१–३५)
पैठीनसिर् अपि- “स्त्रीणां मुखं रतिसंसर्गे” इति । वसिष्ठ-अत्रि-बौधायन-शातातपाः ।
स्त्रियश् च रतिसंसर्गे श्वा मृगग्रहणे शुचिः । इति ।
मनुः ।
[१९२] श्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत् ।
क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ॥ इति । (म्ध् ५।१३१)
देवलः ।
तरवः पुष्पिता मेध्या ब्राह्मणाश् चैव सर्वदा ।
भस्म क्षौद्रं सुवर्णं च सदर्भाः कुतपास् तिलाः ॥
अपामार्गशिरीषार्कपद्मम् आमलकं मणिः ।
माल्यानि सर्षपा दूर्वाः सदा भद्राः प्रियंगवः ॥
अक्षताः सिकता लाजा हरिद्रा चन्दनं यवाः ।
पलाशखदिराश्वत्थास् तुलसी धातकी वटः ॥
एतान्य् आहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः ।
पौष्टिकानि मलघ्नानि शोधनानि च देहिनाम् ॥
अकश्मलैः समिद्धो ऽग्निर् दुर्मनुष्यैर् अदूषितः ।
सर्वेषाम् अप्य् अशौचानां समर्थः शोधनाय सः ॥
अग्नेर् वृषलभुक्तस्य ग्रहणं नास्त्य् अनापदि ।
श्वपाको वृषलो भोक्तुं ब्राह्मनाग्निं च नार्हति ॥
चण्डालाग्नेर् अमेध्याग्नेः सूतकाग्नेश् च कर्हिचित् ।
[१९३] पतिताग्नेश् चिताग्नेश् च शिष्टैर् ग्रहणं स्मृतम् ॥
अग्राम्या मृद् भवेत् शुद्धा श्लक्ष्ंआविण्मूत्रदूषिता । इति ।
ब्रह्मपुराणे ऽपि ।
ग्रामाद् दण्डशतं त्यक्त्वा नगरे च चतुर्गुणम् ।
भूमिः सर्वत्र शुद्धा स्यात् यत्र लेपो न दृश्यते ॥ इति ।
लेपे तु याज्ञवल्क्य आह ।
भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोक्रमणात् तथा ।
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् ॥ इति । (य्ध् १।१८८)
यमो ऽपि ।
खननात् पूरणात् दाहाद् अद्भिर् घर्षणलेपनात् ।
गोभिर् आक्रमणात् कालाद् भूमिः शुध्यति सप्तधा ॥ इति ।
देवलस् त्व् अमेध्यदुष्टमलिनत्वभेदैस् त्रिविधाम् अशुद्धिं तद्विशुद्धिं च विशदयति ।
यत्र प्रसूयते नारी म्रियते दह्यते नरः ।
चण्डालाध्युषितं यत्र तत्र विष्ठादिसङ्गतिः ॥
एवं कश्मलभूयिष्टा भूर् अमेध्या प्रकीर्थिता ।
[१९४] श्वसूकरखरोष्ट्राद्दिसंस्पृषा दुष्टतां व्रजेत् ॥
अङ्गारतुषकेशास्थिभस्याद्यैर् मलिना भवेत् ।
पञ्चधा च चतुर्धा च भूर् अमेध्या विशुध्यति ॥
दुष्टापि या त्रिधा द्वेधा शुध्यते मलिनैकधा । इति ।
तत्र पञ्चविधा शुद्धिर् मनुना दर्शिता ।
संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ।
गवां च परिवासेन भूमिः शुध्यति पञ्चधा ॥ इति । (म्ध् ५।१२४)
एतेष्व् एव पञ्चविधेषु यथायोगं चातुर्विध्यादिकं योजनीयम् । यद् वा दहनादयः पञ्चविधा देवलोक्ता द्रष्टव्याः ।
दहनात् खननाच् चैव उपलेपनधानवात् ।
पर्जन्यवर्षणात् भूमेः शौचं पञ्चविधं स्मृतम् ॥ इति ।
गृहशुद्धिं संवर्त आह ।
गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषणे ।
संप्रोक्ष्य मृण्मयं भाण्डं सिद्धम् अन्नं तथैव च ॥
गृहाद् अपास्य तत् सर्वं गोमयेनोपलेपयेत् ।
[१९५] गोमयेनोपलिप्याथ धूमैर् आघ्रापयेद् बुधः ॥
ब्राह्मणैर् मन्त्रपूतैश् च हिरण्यकुशवारिणा ।
सर्वम् अभ्युक्षयेद् वेश्म ततः शुद्ध्यत्य् असंशयम् ॥ इति । (संस्म् १९८–२००)
बौधायनः- “उद्बन्धशवोपघाते वेश्मनो भित्तितक्षणम्” इति (ब्ध् १।६।१३।३३) । देहविषये शुद्ध्यशुद्धी विभजति मनुः ।
ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः ।
यान्य् अधस्ताए अमेध्यानि देहाच् चैव मलाश् च्युताः ॥
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥ इति । (म्ध् ५।१३२–३४)
अर्थवत् शास्त्रोक्तवत् । अत्र च कर्णविट्प्रभृतिषूत्तरेषु षट्सु मृद्ग्रहणं वैकल्पिकम्,
आददीत मृदो ऽपश् च षट्सु पूर्वेषु शुद्धये ।
उत्तरेषु तु षट्स्व् अद्भिः केवलाभिस् तु शुध्यति ॥
इति स्मृत्यन्तरे वचनात् । मृदम्भसोर् इयत्ताम् आह मनुः ।
[१९६] यावन् नापैत्य् अमेध्याक्तो गन्धो लेपश् च तत्कृतः ।
तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ इति । (म्ध् ५।१२६)
विद्यमानाप्य् उपहतिर् यत्र न दृष्टा तत्र तद्दर्शनात् पूर्वं शुद्धम् एव तद् वस्तु । तद् आह स एव ।
त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् ।
अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥ इति । (म्ध् ५।१२७)
याज्ञवल्क्यो ऽपि ।
वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचिः । इति । (य्ध् १।१९१)
॥ ३५ ॥
येयं पूर्वोक्ता शुद्धिः सा सर्वाप्य् अनापद्विषयेत्य् अभिप्रेत्याह ।
देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्व् अपि ।
रक्षेद् एव स्वदेहादि पश्चाद् धर्मं समाचरेत् ॥ ३६ ॥
इति।
देशभङ्गः परसैयापादितः । प्रवासस् तीर्थयात्रादौ परगृहाद्यवस्थानम् । व्याधयो ज्वरादयः । व्यसनानि स्वामिकोपादिजनितानि । एतेषु प्राप्तेषु श्रद्धाजाड्येन शुद्ध्यशुद्धी न [१९७] विचारयितव्ये । किं तर्हि शुचिभिर् अशुचिभिर् वा द्रव्यैर् आत्मपुत्रकलत्रादीनां यथा रक्षा भवति तथा कृत्वा शास्तायाम् आपदि पश्चात् द्रव्यशुद्ध्यादिरूपं शास्त्रोक्तं धर्मम् आचरेत् ।
॥ ३६ ॥
“रक्षेद् एव स्वदेहादि” इत्य् अमुम् अर्थं प्रपञ्चयति ।
येन केन च धर्मेण मृदुना दारुणेन वा ।
उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् ॥ ३७ ॥
इति।
शुद्धद्रव्यादिसंपादितो धर्मो मृदुः । तद्विपरीतो धर्मो दारुणः । स्तन्यपानमांसभक्ष्णादिः । तयोर् मध्ये येन केनापि व्याध्यादिभिर् दीनम् आत्मानम् आ पद्भ्य उद्धृत्य समर्थो व्याध्यादिरहितो यथाशास्त्रं धर्मम् आचरेत् ॥ ३७ ॥
तत्राचरणीयो धर्मो द्विविधः । आचारकाण्डोक्तविहितानुष्ठानप्रतिषिद्धवर्जनरूप एकः प्रायश्चित्तकाण्डोक्तविधिनिषेधातिक्रमसमाधानरूपो ऽपरः । तद् उभयं विविच्योभयत्रापि शान्तापद् एवाधिकारीत्य् आह ।
आपत्काले तु निस्तीर्णे शौचाचारं तु चिन्तयेत् ।
शुद्धिं समुद्धरेत् पश्चात् स्वस्थो धर्मं समाचरेत् ॥ ३८ ॥
इति । शौचाचारम् इत्य् अनेन प्रथमकाण्डोक्तो धर्मः परामृष्टः । [१९८] शुद्धिम् इत्य् अनेन प्रायश्चित्तकाण्डोक्तो धर्मो निर्दिष्टः । शुद्धो यथा भवति तथा पापात् समुद्धरेद् इत्य् अर्थः । स्वस्थ इत्य् उपसंहारः । उक्तं द्विविधम् अपि धर्मं स्वस्थ एव समाचरेत् । न त्व् आपन्नः । एतद् एवाभिप्रेत्य याज्ञवल्क्य आह ।
क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः ।
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥ इति । (य्ध् ३।३५)
॥ ३८ ॥
आख्याय सप्तमे ऽस्मिन्न् अध्याये द्रव्यशुद्धिर् अवशिष्टा ।
सैषा माधवविभुना व्याख्यायि पराशरस्मृतौ विदुषा ॥
इति श्रीमहाराजाधिराजवैदिकमार्गप्रवर्तकपरमेश्वर-
**श्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य **
कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां सप्तमो ऽध्यायः ॥ ७ ॥