अथ षष्ठो ऽध्यायः
ईश्वरं सर्वलोकानां भक्तानां भद्रदायकम् ।
जानकीवल्लभं रामं मन्महे मौनिलोचनम् ॥ १ ॥
प्रकीर्णकप्रकाशप्रायश्चित्तप्रसङ्गागताहिताग्निसंस्कारः पञ्चमाध्याये निरूपितः । अथ षष्ठे ऽध्याये प्रकृतम् एव प्रायश्चित्तम् अनुवर्तयिष्यमाणो मलिनीकरणसंकरीकरणोपपातकानां प्रायश्चित्तानि प्राधान्येन विवक्षुः प्रथमं प्रतिजानीते ।
अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् ।
पराशरेण पूर्वोक्तां मन्वर्थे ऽपि च विस्तृताम् ॥ १ ॥
इति।
अथ पर्कीर्णकप्रायश्चित्तकथनानन्तरं मलिनीकरणरूपासु प्राणिहत्यासु प्रायश्चित्तं प्रवक्ष्यामि । हत्यास्व् इति बहुवचनं मलिनीकरणाद्यवान्तरभेदाभिप्रायम् । मन्द्बुद्धीनां स्मृत्यन्तरपर्यालोचने सत्य् आपाततो विरोधबुद्धिर् उदेति । न्यायदर्शिनां तु न तथेति सूचयितुं ऋष्यन्तरसंमत्युपन्यासः । पराशरशब्देन वृद्धपराशरो विवक्षितः । मन्वर्थे मनुप्रोक्ते धर्मशास्त्रे विस्तृताम् ॥ १ ॥
प्रतिज्ञातेष्व् आदौ मलिनीकरणविशेषस्य क्रौञ्चादिवधस्य प्रायश्चित्तम् आह ।
[७८] क्रौञ्चसारसहंसाश् च चक्रवाकं च कुक्कुटम् ।
जालपादं च शरभम् अहोरात्रेण शुध्यति ॥ २ ॥
इति।
क्रौञ्चादयः पक्षिविशेषाः प्रसिद्धाः । जालपादशरभौ यद्य् अप्य् अप्रसिद्धौ तथापि पक्षिभिः समभिव्याहारात् ताव् अपि पक्षिविशेषौ द्रष्टव्यौ । अत्र हत्वेत्य् अध्याहारः कर्तव्यः । अहोरात्रेण शुध्यतीति अहोरात्रेणैकोपवासेनेत्य् अर्थः । तथा च संवर्तः ।
चक्रवाकं तथा क्रौज्चं तित्तिरं शुकसारिके ।
श्येनं गृध्रम् उलूकं च तथा पारावतान् अपि ॥
टिट्टिभं जालपादं च मद्गुं कुक्कुटम् एव च ।
एवं पक्षिषु सर्वेषु दिनम् एकम् अभोजनम् ॥ इति । (संव्स्म् १४५–४६)
ननु – हंसादिवधे गोदानं मनुर् आह ।
हत्वा हंसं बलाकं च बकं बर्हिणम् एव च ।
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ (म्ध् ११।१३५)
[७९] इति । याज्ञवल्क्यो ऽपि ।
हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद् गामक्रव्यादस् तु वत्सिकाम् ॥ इति । (य्ध् ३।२७२)
नायं दोषः । गोदानस्योपवासाशक्तधनिकविषयत्वात् ॥ २ ॥
बलाकादिषु पूर्वोक्तात् न्यूनं प्रायश्चित्तम् आह ।
बलाकाटिट्टिभौ वापि शुकपारावताव् अपि ।
अहिनक्रविघाती च शुध्यते नक्तभोजनात् ॥ ३ ॥
इति।
बलाकाटिट्टिभौ शुकपारावतौ च यौ तयोर् हन्ता नक्तभोजनात् शुध्यति इति योजनीयम् । यत् तु संवर्तेनोक्तम्,
हंसं बकं बलाकां च श्वाविधं बर्हिणं तथा ।
सारसं चाषभासौ च हत्वा त्रीन् दिवसान् क्षपेत् ॥ (संव्स्म् १४४)
इति तत् सन्ततवधे द्रष्टव्यम् ॥ ३ ॥
[८०]
वृकादिषु न पूर्ववद् भोजनत्यागः । किं तु प्राणसंयमः कर्तव्य इत्य् आह ।
वृककाककपोतानां शारितित्तिरिघातकः ।
अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥ ४ ॥
इति।
नात्र वृको ऽरण्यश्वा, मृगसमभिव्याहाराभावात् । पक्षिसमभिव्याहारात् तु पक्षिविशेषो द्रष्टव्यः । वृककाककपोतानां हन्तेत्य् अध्याहारः । संधे इति “अत्यन्तसंयोगे द्वितीया” । ततश् च प्राणायामेनेत्य् एकवचनश्रवणे ऽप्य् आवृत्तिर् लभ्यते । यावद्भिः प्राणायामैर् नैरन्तर्येण संध्याद्वयं समाप्यते तावतः प्राणायामान् कुर्याद् इत्य् अर्थः । यत् तु मनुना तित्तिर्यादिवधे तिलद्रोणादिदानम् उक्तम्,
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ (म्ध् ११।१३४)
इति, याज्ञवल्क्येनापि शुकादिवधे द्विहायनवत्सादिदानम् उक्तम्,
गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः ।
[८१] खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायणः ॥ (य्ध् ३।२७१)
इति, तत् सर्वं पूर्ववत् धनिकविषयत्वेन वेदितव्यम् ॥ ४ ॥
गृध्रादिवधे सार्धदिनद्वयं व्रतचर्याम् आह ।
गृध्रश्येनशशादानाम् उलूकलस्य च घातकः ।
अपक्वाशी दिनं तिष्ठेत् त्रिकालं मारुताशनः ॥ ५ ॥
इति।
श्येनः कपोतादीन् पक्षिणो निहन्ति । न तु शशम् अत्ति । अतः श्येनशशादौ भिन्नजातीयौ । अपक्वाशी वह्निपाकरहितकन्दमूलफलादिकम् एकस्मिन् दिने ऽश्नीयात् । ततः सार्धं दिनं मारुताशनः उपवसेद् इत्य् अर्थः । यत् तु काश्यप आह- “बकबलाकहंससारसकारण्डवचक्रवाककुक्कुट-गृध्रश्येनखञ्जरीटटिट्टिभोलूकशुकसारिकातित्तिरिमयूरकुररमुद्गकमेचककलविङ्ककपोत-पारावतादीनां वधे प्रायश्चित्तं अहोत्रारोपोषितः सर्वबीजानि च दद्यात्” (काश्स्म् ४।१) इति, तद् इदम् अशक्तविषयम् ॥ ५ ॥
शक्तस्यापि वल्गुल्यादौ बलाकदिसदृशं प्रायश्चित्तं दर्शयति ।
वल्गुलीटिट्टिभानां च कोकिलाखञ्जरीटके ।
लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात् ॥ ६ ॥
इति।
अत्राप्रसिद्धो ऽपि वल्गुलीशब्दः साहचर्यात् पक्षिविशेषवाची द्रष्टव्यः । यद्य् अपि टिट्टिभशब्दो बलाकादिवचने ऽपि पठितः तथाप्य् अवान्तरजातिभेदम् आश्रित्य पौनरुक्त्यं परिहर्तव्यम् । वल्गुलीटिट्टिभानां हन्ता कोकिलखञ्जरीटके हते । रक्त्पक्षेषु हतेष्व् इति शेषः । यत् त्व् अङ्गिरसा दर्शितम्,
काके भासे च गृध्रे च टिट्टिभे खञ्जरीटके ।
यथा गवि तथा हत्यां भगवान् अङ्गिराव्रवीत् ॥
[८३] इति, तत् सन्ततहन्तृविषयम् । अङ्गिराग्रहणेन वृद्धाङ्गिरा उच्यते ॥ ६ ॥
जलकाकादीनां वधे प्रायश्चित्तम् आह ।
कारण्डचकोराणां पिङ्गलाकुररस्य च ।
भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति ॥ ७ ॥
इति।
आदिशब्देन भारद्वाजविसदृशाः पक्षिविशेषा गृह्यन्ते । तेषां च वधे शैवमन्त्रकल्पोक्तविधानेन शिवं संपूज्य विशुध्यति ॥ ७ ॥
पूर्वत्रानुक्तानां पक्षिणां वधे साधारणं प्रायश्चित्तं दर्शयति ।
भेरुण्डचाषभासांश् च पारावतकपिञ्जलौ ।
पक्षिणां चैव सर्वेषाम् अहोरात्रम् अभोजनम् ॥ ८ ॥
इति।
टिट्टिभवत् पारावते ऽप्य् अवान्तरजातिभेदो द्रष्टव्यः । कपिञ्जलं हत्वा । पक्षिणां हत्यायाम् इति शेषः । यद् इदं मलिनीकरणविशेषस्य पक्षिवधस्य साधारणं प्रायश्चित्तम् अभिहितं तस्य प्रदर्शनार्थत्वेनावशिष्टे ऽपि मलिनीकरणे कृमिकीटादिवधे मद्यानुगतभोजने च प्रायश्चित्तम् उन्नेयम् । तच् च विष्णुना दर्शितम् । [८४]
मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रम् अथ वा प्रायश्चित्तं विशोधनम् ॥ इति ।
पक्षिषु कृम्यादिषु च सास्थ्यनस्थिभेदेन प्रायश्चित्तविशेषः स्मृत्यन्तरे ऽभिहितः । तत्र मनुः ।
अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ इति ।
याज्ञवल्क्यो ऽपि ।
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।
[८५] अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः ॥ इति । (य्ध् ३।२६९)
शङ्खलिखिताव् अपि- “क्षुद्रजन्तूनाम् अनस्थ्नाम् अनसः प्रमापणे शूद्रवधो ऽस्थिमतां सहस्रं प्रमाप्य शूद्रवधः” इति । अस्थिमत्सहस्रवधे शकटपरिमितान् अस्थिवधे च वक्ष्यमाणशूद्रहत्याव्रतं चरेत् । प्रत्येकवधे मनुर् आह ।
किंचिद् एव तु विप्राय दद्याद् अस्थिमतां वधे ।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ इति । (म्ध् ११।१४१)
॥ ८ ॥
मलिनीकरणानां प्रायश्चित्तम् अभिधाय संकरीकरणानां प्रायश्चित्तम् आह ।
हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान् ।
कृसरं भोजयेद् विप्रान् लोहदण्डश् च दक्षिणा ॥ ९ ॥
इति।
अत्र नकुलो ऽपि द्रष्टव्यः । तथा च विष्णुः- “हत्वा मूषकमार्जारनकुलमण्डूक- **[८६] **डुण्डुभाजगराणाम् अन्यतमं कृसरान् भोजयित्वा लोहदण्डं दक्षिणां दद्यात्” इति (विध् ५०।३१) । कृसरं तिलमुद्गमिश्रम् अन्नम् । लोहशब्देन कार्ष्णायसम् उच्यते । तथा च मनुः ।
अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । इति । (म्ध् ११।१३३)
यत् तु शङ्खेनोक्तम्,
हत्वा द्विजस् तथा सर्पान् जलेशयबिलेशयौ ।
सप्तरात्रं तथा कुर्यात् व्रतं ब्रह्महतेस् तु यत् ॥ (शङ्स्म् १७।११)
इति, – ब्रह्महणो वक्ष्यमाणं यत् व्रतं तन्मध्ये सप्तरात्रोचितं व्रतम् आचरेत् – यद् अपि संवर्तेनोक्तम्,
मण्डूकनकुलौ हत्वा सर्पाजगरमूषकान् ।
त्रिरात्रोपोषितः सम्यक् शुद्धो ब्राह्मणभोजनात् ॥ (संस्म् १४७)
[८७] इति, यद् अप्य् उशनसोक्तम्- “सर्पहन्ता माषमात्रं दद्यात्” इति, यच् च वसिष्ठेनोक्तम्- “श्वमार्जारनकुलमण्डूकसर्पाजगरमूषकान् हत्वा कृच्छ्रं द्वादशरात्रं चरेत् किंचिद् दद्यात्” (वध् २१।२४) इति — तत्र सर्वत्र प्रायश्चित्तगौरवलाघवपर्यालोचनया कामकृताकामकृताभ्यासानभ्यासादिविषयत्वम् ऊहनीयम् ॥ ९ ॥
शिशुमारादीन् हत्वा दिनम् एकं व्रतत्वेन वृन्ताकमात्रं भक्षयेद् इत्य् आह ।
शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् ।
वृन्ताकफलभक्षी चाप्य् अहोरात्रेण शुध्यति ॥ १० ॥
इति।
काश्यपस् तु लोहदण्डदानम् अप्य् आह- “कृकलाससर्पनकुलगोधाशल्यकवधे ऽहोरात्रोषितश् चान्ते लोहदण्डं दद्यात्” इति (क्स्म् ५।५) । मनुस् तु पक्षान्तराण्य् आह ।
मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥
पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ इति । (म्ध् ११।१३१–३२)
यमो ऽपि- “श्वनकुलसर्पमार्जारमण्डूकविकिरकिकीदिविकगोधागृधोलूकवायसमयूर-ग्रामचटकसृगालमूषकान् हत्वा एकैकवधे शूद्रवधःऽ इति । याज्ञवल्क्यो ऽपि ।
मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ।
[८९] हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ इति । (य्ध् ३।२७०)
विष्णुर् अपि- “गोधोलूकचाषकाकवधे त्रिरात्रम् उपवसेत्” इति (विध् ५०।३२) । ईदृशानां सर्वेषां विसंवादिवचनानां साक्ष्यास्यवस्थापकं वचनान्तरं यत्र न लभ्यते । तत्र सर्वत्र विधीयमानप्रायश्चित्तानुसारेण संहतासंहतबुद्धिपूर्वकाभुद्धि-पूर्वकाभ्यासानभ्यासापदनापदादिविषयत्वं कल्पनीयम् ॥ १० ॥
आरण्यश्वादीनां हन्तुर् उपवासत्रयपूर्वकं तिलप्रस्थदानम् आह ।
वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः ।
तिलप्रस्थं द्विजे दद्यात् वायुभक्षो दिनत्रयम् ॥ ११ ॥
इति।
अत्रोपवासत्रयं विष्णुर् अप्य् आह- “श्वानं हत्वा त्रिरात्रम् उपवसेत्” इति (विध् ५०।३०) । पैठीनसिर् अत्र शूद्रहत्याव्रतम् आह- “काकोलूककृकलासकङ्कखरवृकसृगालभासबर्हिण-शुकमूषकचक्रवाकहंसप्रवेणिकनकुलमण्डूलबिडालश्ववधे [९०] एतेषाम् एकैकस्मिन् शूद्रवधवद् विहितम्” ।
ननु – शूद्रहत्याव्रतं षाण्मासिकम् । तच् चात्यन्तगुरुत्वाद् वृकाइहत्यायाम् अयुक्तम् ।
नायं दोषः, अस्य व्रतस्य चिरकालनैरन्तर्यविषयत्वेन नेतव्यत्वात् ॥ ११ ॥
गजादिवधे त्रिकालस्नानयुक्तम् एकोपवासम् आह ।
जडस्य च तुरङ्गस्य महिषोष्ट्रनिपातने ।
प्रायश्चित्तम् अहोरात्रं त्रिसंध्यम् अवगाहनम् ॥ १२ ॥
इति।
मनुस् त्व् अत्र दानविशेषम् आह ।
वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥ इति । (म्ध् ११।१३६)
विष्णुर् अपि- “गजं हत्वा पञ्च नीलवृषान् ददात् । तुरङ्गं हत्वा वासः । एकहायनम् अनड्वाहं खरवधे । मेषाजवधे सुवर्णकृष्णलम् । तिलम् उष्ट्रवधे च” (विध् ५०।२५–२९) [९१] इति । एतत् त्रितयं धनिकविषयम् । धनरहितस्यावृत्तिविषयम् अभिप्रेत्य संवर्त आह ।
हस्तिनं तुरगं हत्वा महिषोष्ट्रौ कपिं तथा ।
एषु सर्वेषु कुर्वीत सप्तरात्रम् अभोजनम् ॥ इति । (संस्म् १४१)
जाबालिर् अपि ।
हस्तिनं तुरगं हत्वा महिषं गां तथैव च ।
कृच्छ्रं सान्तपनं कुर्यात् गोभूकन्यानृतेषु च ॥ इति ॥ १२ ॥
कुरङ्गादिवधे ब्राह्मणभोजनसहितम् उपवासत्रयम् आह ।
कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् ।
शुध्यते स त्रिरात्रेण विप्राणां तर्पणेन च ॥ १३ ॥
इति।
चित्रो व्याघ्रसदृशमृगविशेषः । तर्पणं भोजनम् । तथा च संवर्तः ।
[९२] व्याघ्रं श्वानं खरं सिंहं मृगं सूकरम् एव च ।
एतान् हत्वा द्विजः कुर्यात् ब्राह्मणानां तु भोजनम् ॥ इति । (संस्म् १४२)
जाबालिस् तु आवृत्तिं संघातं चाभिप्रेत्याह ।
सिंहव्याघ्रवृकाणां च मृगखड्गरुरुद्विपान् ।
हत्वा सान्तपनं कुर्यात् गोभूकन्यानृतेषु च ॥ इति ।
गवादिविषयाण्य् अनृतानि गोभूकन्यानृतानि । सुमन्तुर् अपि- “वानरसिंहमार्जारमण्डूक-मूषकश्ववधे प्राजापत्यम्” इति ॥ १३ ॥
मृगादिहत्यायाम् उपवासपूर्वकनीवारादिपारणम् आह ।
मृगरोहिद्वराहाणम् अवेर् बस्तस्य घातकः ।
अफालकृष्टम् अश्नीयाद् अहोरात्रम् उपोष्य सः ॥ १४ ॥
इति।
कुरङ्गशब्दस्य मृगावान्तरजातिवाचकत्वात् सामान्यजातिवाची मृगशब्दो गोबलीवर्दन्यायेन कुरङ्गेतरविषयो द्रष्टव्यः । युद्धयोग्यो मेषो बस्तः । धनिकस्यावृत्तिविषये कश्यप आह- [९३] “अजाविकवधे त्रिरात्रं प्रायश्चित्तम् । चीर्णान्ते हिरण्यं दद्यात् वस्त्रं च” इति (कश्स्म् ३।३४–३५) ॥ १४ ॥
पूर्वत्रानुक्तानां मृगाणां वधे जपसहितम् उपवासम् आह ।
एवं चतुष्पदानां च सर्वेषां वनचारिणाम् ।
अहोरात्रोषितस् तिष्ठेज् जपेद् वै जातवेदसम् ॥ १५ ॥
इति।
न्यायतत्त्वविदा पापतारतम्यानुसारेण प्रायश्चित्ततारतम्यम् ऊहनीयम् इति विवक्षित्वा पूर्वोक्तानां प्रायश्चित्तविशेषाणां प्रदर्शनार्थत्वं द्योतयितुम् एवम् इत्य् उक्तम् । समूहनीयाः प्रायश्चित्तविशेषाः स्मृत्यन्तरेषु दर्शिताः । तत्र शङ्खः- “पशून् हत्वा तथा ग्राम्यान् मासं कुर्याद् विचक्षणः” इति (शङ्स्म् १७।१०) । शातातपो ऽपि- “हस्त्यश्वरासभवधे आरण्यपशुवधे च मासेनैकेन शुध्यति” इति । व्यासो ऽपि ।
[९४] सूकरोष्ट्रखरान् हत्वा त्र्यहम् एतद् व्रतं चरेत् ।
सर्वांश् च प्राणिनः स्थूलान् मण्डूकनकुलेष्व् अहः ॥ इति ।
कश्यपो ऽपि- “मृगमहिषवराहकुञ्जरगण्डशरभतरक्षुवानरसिंहव्याघ्रवृषचमर-शल्यकादीनाम् अन्येषां च वधे अहोरात्रोषितश् चीर्णान्ते घृतं दद्यात्” इति (कश्स्म् ३।१) । तत्र सर्वत्र प्रायश्चित्तगौरवलाघवानुसारेण कामकृताकामकृताभ्यासानभ्यासविषयत्वं ज्ञातव्यम् ॥ १५ ॥
संकरीकरणमलिनीकरणप्रकीर्णकानां प्रायश्चित्तम् अभिधायोपपातकानां प्रायश्चित्तं दर्शयति ।
शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस् तु घातयेत् ।
प्राजापत्यद्वयं कृत्वा वृषैकादश दक्षिणा ॥ १६ ॥
इति।
शिल्पी चित्रकारादिः । कारुः सूपकारादिः । वृषः [९५] एकादशो यासां गवां ता वृषैकादशाः । तद्रूपा दक्षिणा वृषैकादशदक्षिणा । देयेति शेषः । अत एव गौतमः शूद्रवधं प्रकृत्याह- “ऋषभैकादशाश् च गा दद्यात्” इति (ग्ध् २२।१६) । मनुर् अपि ।
प्रमाप्य शूद्रं षण्मासान् एतद् एव व्रतं चरेत् ।
वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ॥ इति । (म्ध् ११।१३०)
॥ १६ ॥
क्षत्रियवैश्ययोर् वधे पूर्वस्माद् अधिकं प्रायश्चित्तम् आह ।
वैश्यं वा क्षत्रियं वापि निर्दोषं यो ऽभिघातयेत् ।
सो ऽपि कृच्छ्रद्वयं कुर्यात् गोविंशद्दक्षिणां ददेत् ॥ १७ ॥
इति।
निर्दोषम् इति विशेषणात् सदोषवधे न्यूनं प्रायश्चित्तं द्रष्टव्यम् । तच् च चतुर्विंशतिमते दर्शितम् ।
क्षत्रियस्य वधं कृत्वा चरेच् चान्द्रायणत्रयम् ।
वैश्यस्य तु द्वयं कुर्यात् शूद्रस्यैन्दवम् एव च ॥ इति ।
यत् तु संवर्तेन ततो ऽपि न्यूनं प्रायश्चित्तम् उक्तम्,
निहत्य क्षत्रियं मोहात् त्रिभिः कृच्छ्रैर् विशुध्यति ।
[९६] कुर्याद् एवानुपूर्व्येण त्रीन् कृच्छ्रांस् तु यथाविधि ॥
वैश्यहत्यां तु संप्राप्य कथंचिन् मूढचेतनः ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत स नरो वैश्यघातकः ॥
कुर्यात् शूद्रवधे विप्रः कृच्छ्रं सान्तपनं तथा ॥ (संस्म् १२६–२८)
इति, एतत् सदोषस्याकामकृतवधे प्रोक्तम् इत्य् अविरोधः ।
ननु – निर्दोषस्य वधे सदक्षिणातिकृच्छ्रद्वयाधिकं प्रायश्चित्तं मनुना दर्शितम् ।
अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।
वृषभैकसहस्रा गा दद्यात् शुद्ध्यर्थम् आत्मनः ॥
त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महणो व्रतम् ।
वसन् दूरतरे ग्रामे वृक्षमूलनिकेतनः ॥
[९७] एवम् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद् एकशतं गवाम् ॥ इति । (म्ध् ११।१२८–३०)
याज्ञवल्क्यो ऽपि ।
वृषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥
वैश्यहाब्दं चरेद् चैव दद्याद् वैकशतं गवाम् ।
षण्मासान् शूद्रहाप्य् एतद् धेनूर् दद्याद् दशाथ वा ॥ इति । (य्ध् ३।२६६–३७)
त्रैवार्षिका अप्य् अधिकं गौतम आह- “राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम् ऋषभैक्सहस्राश् च गा दद्यात् । वैश्ये त्रैवार्षिकम् ऋषभैकशताश् च गा दद्यात् । शूद्रे संवत्सरम् ऋषभैकादशाश् च गा दद्यात् । अनात्रेय्यां चैवम्” इति (ग्ध् २२।१४–१७) । शङ्खलिखिताव् अपि- “पूर्ववद् अमतिपूर्वं त्रिषु वर्णेषु प्रमाप्य द्वादशनवषट्त्रीन् संवत्सरान् व्रतान्य् आदिशेत् । तेषाम् अन्ते गोसहस्रं ततो ऽर्धं तस्यार्धं दद्यात् सर्वेषाम् आनुपूर्व्येण” इति । शातातपो ऽपि ।
[९८] राजन्यवैश्यशूद्राणां षट् त्रीन्य् एकं चरेद् वधे ।
वर्षाणि ब्रह्मचर्यं तु विशुद्ध्यर्थं क्रमेण तु ॥
गोदानं तु व्रतस्यान्ते ब्राह्मणानां च भोजनम् ।
कार्यं सदक्षिणं सम्यक् विशुध्येत यथाविधि ॥ इति ।
हारीतो ऽपि ।
ब्राह्म्णः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् ।
वैश्यं हत्वा हरेद् एवं व्रतं त्रैवारिषिकं द्विजः ॥
शूद्रं हत्वा चरेद् एकं वृषभैकादशाश् च गाः । इति ।
उशना अपि- “राजन्यवधे षड्वार्षिकं ब्रह्महत्याव्रतम् । तस्यान्ते वृषभैक्सहस्रगोदानं च” इति । वसिष्ठस् तु षड्वार्षिकाद् अधिकम् अष्टवार्षिकम् आह- “एवं राजन्यं हत्वाष्टौ वर्षाणि चरेत् । षड् वैश्यम् । त्रीणि शूद्रम्” इति (वध् २०।३१–३३) । बौधायनस् तु नववार्षिकम् आह- “नव समा राजन्यस्य । तिस्रो वैश्यस्य । संवत्सरं शूद्रस्य स्त्रीणां च । ब्राह्मणवद् आत्रेय्याः” (ब्ध् २।१।१।८–१२) [९९] इति । यमः ।
हत्वा सवनिनं वैश्यं राजन्यम् अपि दीक्षितम् ।
हत्वा तु ब्रह्महत्यैव तथात्रेयीं च ब्राह्मणीम् ॥ इति ।
शङ्खो ऽपि ।
यागस्थं क्षत्रियं हत्वा वैश्यं हत्वा तु यागगम् ।
एतद् एव व्रतं कुर्याद् आत्रेयीविनिषूदकः ॥ (शङ्स्म् १७।४)
[१००] इति । अत्रैतेषु उदाहृतेषु वचनेषु त्रैवार्षिकषड्वार्षिकाष्टवार्षिकनववार्षिक-द्वादशवार्षिकरूपाः पञ्च पक्षा भान्ति । आचार्योक्तश् चातिकृच्छ्रद्वयपक्ष एकः । अत्रैवं विषयव्यवस्थावधो हि निर्दोषः क्षत्रियस् त्रिविधः । उत्तमो मध्यमो ऽधमश् चेति । तत्र राज्यपरिपालनादियुक्तः सवनस्थ उत्तमः । सवनरहितः परिपालको मध्यमः । उभयरहितो जातिमात्रक्षत्रियो ऽधमः । तत्रैकैकस्य वधे बुद्धिपूर्वाबुद्धिपूर्वभेदेन द्वे द्वे प्रायश्चित्ते योजनीये । एषु वचनेषु क्वचिद् गोदानं श्रूयते क्वचिन् न । तत्र धनिकाधनिकविषयभेदेन व्यवस्था द्रष्टव्या । एतेनैव न्यायेन व्यवस्थितविकल्पम् अभिप्रेत्य याज्ञवल्क्येन “ब्रह्महत्याव्रतं वापि” (य्ध् ३।२६६) इत्य् उक्तम् । वैश्यशूद्रयोर् अपि उत्तममध्याधमभेदेन प्रायश्चित्तव्यवस्था योजनीया । यथा हन्तव्यभेदेन प्रायश्चित्ततारतम्यम् उक्तं तथा हन्तृभेदे ऽप्य् अवगन्तव्यम् । अत एव विष्णुः ।
विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्ये ऽर्धं पादम् एकं तु शूद्रजातिषु शस्यते ॥ इति ।
कवषो ऽपि ।
विप्रार्धं क्षत्रियो प्रोक्तं तदर्धं वैश्यजातिषु ।
तदर्धम् एव शूद्राणां प्रायश्चित्तं विदुर् बुधाः ॥
[१०१] इति । एतच् चाकामकृते द्रष्टव्यम्, विष्णुप्रोक्तान् न्यूनत्वात् ।
ननु – आचार्येण स्त्रीवधे प्राजापत्यद्वयं वृषभैकादशगोदानसहितं यत् प्रायश्चित्तम् उक्तं तद् अयुक्तम् । स्मृत्यन्तरेषु न्यूनाधिकप्रायश्चित्तयोर् दर्शनात् । तत्र मनुः न्यूनं दर्शयति ।}
जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये ।
चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थिताः ॥ इति । (म्ध् ११।१३८)
जीनं चर्ममयम् उदकपात्रम् । अनवस्थिताः स्वैरिण्यः । याज्ञवल्क्यो ऽपि ।
दुर्वृत्ता ब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ इति । (य्ध् ३।२६८)
व्याघ्रो ऽपि ।
चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थिताः ।
शङ्खशुक्त्यजमेषांश् च क्रमात् दद्याद् विशुद्धये ॥
[१०२] इति ।
एतानि वचनानि मूलवचनेन न विरुध्यन्ते सदोषस्त्रीविषयतायास् तेषु स्पष्टत्वात् । मूलवचनं तु निर्दोषक्षत्रियादिसन्निधिपाठात् निर्दोषस्त्रीविषयम् ।
ननु – निर्दोषस्त्रीवधे अधिकं प्रायश्चित्तम् आह याज्ञवल्क्यः ।
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । इति । (य्ध् ३।२६९)
मैवम्, तस्य कामकृतविषयत्वेन व्यवस्थापनीयत्वात् । यत् त्व् अङ्गिरसा दर्शितम्,
आहिताग्नेर् द्विजाग्र्यस्य हत्वा पतीम् अनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्याद् आत्रेयीघ्नस् तथैव च ॥
इति, तत्र ब्रह्महत्याव्रतस्याहिताग्निस्त्रीविषयत्वाभिधानात् स्त्रीजातिमात्रविषयेण मूलवचनेन नास्ति विरोधः । वसिष्ठस् तु स्त्रीवधे राजन्यव्रतम् आह- “अनात्रेयीं राजन्यहिंसायां । राजन्यां वैश्यहिंसायाम् । वैश्यां शूद्रहिंसायाम् । शूद्रां हत्वा संवत्सरम्” (वध् २०।३७–४०) [१०३] इति । अनात्रेयीं हत्वा राजन्यहिंसायां यद् व्रतं तद् आचरेद् इति योजनीयम् । हारीतो ऽपि- “क्षत्रियवद् ब्राह्मणीषु । वैश्यवत् क्षत्रियासु शूद्रवत् वैश्यायाम् । शूद्रां हत्वा नव मासान्” इति (हार्स्म् २०।१३–१५) । इदं राजन्यव्रतम् आहिताग्निपत्नीं गुणवतीं कामतो घातुकस्य द्रष्टव्यम् । प्रामादिकविषये तु व्यास आह ।
अकामतः स्त्रियं हत्वा ब्राह्मणीं वैश्यवच् चरेत् ।
कामतो द्विगुणं प्रोक्तं प्रदुष्टां तु न किंचन ॥ इति ।
अनात्रेयीवधे राजन्यव्रतस्याभिहितत्वात् आत्रेयीवधे ब्रह्महत्याव्रतम् इति गम्यते । तथा च यमः ।
हत्वा सवनिनं वैश्यं राजन्यम् अपि दीक्षितम् ।
हत्वा तु ब्रह्महत्यैव तथात्रेयीं च ब्राःमणीम् ॥ इति ।
आत्रेयीलक्षणं च स एवाह ।
जन्मप्रभृतिसंस्कारैः संस्कृता ब्रह्मचर्यया ।
गर्भिणी वाथ वा या स्यात् ताम् आत्रेयीं विनिर्दिशेत् ॥ इति ।
वसिष्ठो ऽपि- [१०४] “रजस्वलाम् ऋतुस्नाताम् आत्रेयीम् आहुः । अत्र ह्य् एष्यदपत्यं भवतीति” इति (वध् २०।३५–३६) । अनृतुमत्या वधे जातिभेदेन भिन्नं प्रायश्चित्तम् आह प्रेचेताः- “अनृतुमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान् वेति । क्षत्रियां हत्वा षण्मासान् मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्रां हत्वा सार्धमासं सार्धत्रयोविंशतिदिनानि वेति” इति । प्रतिलोमपुरुषसंसर्गेनाप्त्यं लब्धवतीनां वधे ब्रह्मगर्भ आह ।
[१०५] प्रतिलोमप्रसूतानां स्त्रीणां मासा वधे स्मृताः ।
अन्तरप्रभावाणां च सूतादीनां चतुर्द्विषट् ॥ इति ।
ब्राह्मण्या वधे षण्मासाः क्षत्रियायाश् चत्वारः वैश्याया द्वाव् इति योजनीयम् । सूतवैदेहकचण्डालानां वधे ऽप्य् एषैव योजना द्रष्टव्या ॥ १७ ॥
इदानीं वैश्यादिवधे प्रकारान्तरेण प्रायश्चित्तम् आह ।_
वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् ।
हत्वा चान्द्रायणं तस्य विंशद्गाश् चैव दक्षिणाम् ॥ १८ ॥
इति।
ननु – एतद् वैश्यवधप्रायश्चित्तं व्याहतम् । तथा हि, विट्शब्देनात्र किं सदोषो विवक्ष्यते उत निर्दोषजातिमात्रः, अथ वा गुणवान् – इति । तत्र प्रथमे न्यूनप्रायश्चित्ताभिधायिभ्यां पूर्वोदाहृताभ्यां चतुर्विंशतिमत-संवर्तवचनाभ्यां व्याहन्येत् । द्वितीये निर्दोषजातिमात्रविषयेण समन्तरपूर्वोक्तमूलवचनेनैव विरोधः । तृतीये तु,
यागस्थक्षत्रविड्घाती चरेद् ब्रहहणि व्रतम् । (य्ध् ३।२५१)
इत्य् अनेनैव विरोधः ।
मैवम्, ईषत्सुवृत्तस्य वैश्यस्यात्र विवक्षितत्वात् । अत एवात्यन्तसुवृत्तेन विहितसकलक्रियासक्तेन [१०६] शूद्रेण साहचर्यम् अविरुद्धम् । द्विजोत्तमशब्दो विप्रे प्रसिद्धः । क्षत्रिय ऽपि कथंचिद् वर्तयितुं शक्यः । द्विजशब्दाभिधेयं वैश्यम् अपेक्ष्य तस्योत्तमत्वात् । तत्र क्षत्रियपक्षे विकर्मणि कस्मिंश्चिद् ब्रह्मघातादौ तिष्ठतीति विकर्मस्थः । एवं च सति चतुर्वर्णविषयकम् एकं प्रायश्चित्तं न्यायदर्शिनाम् एतत् संपद्यते । हत्वा तौ यो वर्तते तस्य – इति योजनीयम् । दक्षिणां निर्दिशेद् इति शेषः ॥ १८ ॥
चातुर्वर्ण्यकर्तृके चण्डालवधे क्रमेण प्रायश्चित्तम् आह ।
चण्डालं हतवान् कश्चिद् ब्राह्मणो यदि कंचन ।
प्राजापत्यं चरेत् कृच्छ्रं गोद्वयं दक्षिणां ददत् ॥ १९ ॥
क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा ।
चण्डालस्य वधे प्राप्ते कृच्छ्रार्धेन विशुध्यति ॥ २० ॥
इति।
वृत्तिभेदेन ब्राह्मणानां भेदे ऽपि न प्रायश्चित्तभेद इति विवक्षितत्वात् कश्चित् इत्य् उक्तम् । एवं चण्डाले ऽपि कंचनेति विशेषणं योजनीयम् । इतरो मूर्धावसिक्तसूतादिः । अङ्गिरास् त्व् अत्रैव समानं प्रायश्चित्तान्तरम् आह ।
अन्त्यजानां तु गमने भोजने च प्रमापणे ।
पराकेण विशुद्धिः स्याद् भगवान् अङ्गिराब्रवीत् ॥ इति ।
हारीतो ऽपि ।
[१०७] चाण्डालवधसंप्राप्तिर् ब्राह्मणेन भवेद् यदि ।
कारयेद् द्वादशं कृच्छ्रं तप्तकृच्छ्रं ततो भवेत् ॥ इति । (हार्स्म् २०।७१)
एतच् च ज्ञानपूर्वके द्रष्टव्यम् । अज्ञानपूर्वके तु चान्द्रायणम् । तद् आह लौगाक्षिः ।
हनने प्रतिलोमानां शूद्रजानां कथं भवेत् ।
ज्ञानपूर्वे पराकः स्याद् अज्ञाने चैन्दवं तथा ॥ इति ।
सूतादिवधे ऽप्य् एतद् एव । तद् आह याज्ञवल्क्यः ।
चान्द्रायणं चरेत् सर्वान् अपकृष्टान् निहत्य तु । इति । (य्ध् ३।२६२)
कृच्छ्रार्धेनेत्य् अर्धग्रहणं पादस्य पादत्रयस्य चोपलक्षणम् । अत एव लौगाक्षिः ।
सर्वम् अर्धं त्रिपादं च पादं चैव व्रतं चरेत् ।
वर्णक्रमाद् अन्तरजहिंसागमनभोजने ॥ इति ॥ १९–२० ॥
यदि चण्डालश्वपाकौ चोरौ स्याताम्, तदा तयोर् वधे स्वल्पं प्रायश्चित्तम् आह ।
चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ २१ ॥
[१०८] इति । यदि विप्रेणाभिहतस् तदा स विप्रः शुध्यतीति योजना । यद्य् अपि चण्डालवधो नोपपातकेषु परिगणितः तथापि मनुष्यवधसामान्येन तत्रान्तर्भावम् अभिप्रेत्य तत्प्रकरणे प्रायश्चित्तम् उक्तम् ॥ २१ ॥
चण्डालप्रसङ्गात् तद्विषयाणां प्रकीर्णकानाम् अपि केषांचित् प्रायश्चित्तम् अत्राभिधीयते । तत्र संभाषणे प्रायश्चित्तम् आह ।
श्वपाकं वापि चण्डालं विप्रः संभाषते यदि ।
द्विजसंभाषणं कुर्यात् सावित्रीं तु सकृज् जपेत् ॥ २२ ॥
इति।
द्विजशब्देनानूचानो विप्रो विवक्षितः, नीचविप्रसंभाषणस्य प्रायश्चित्तरूपत्वासंभवात् । द्विजसांनिध्याभावे गायत्रीजपः इत्य् अनुकल्पो द्रष्टव्यः । अत एव हारीतो विकल्पम् आह ।
चाण्डालैः सह संभाष्य द्विजसंभाषणात् शुचिः ।
सावित्रीं व्याहरेद् वापि इति धर्मो व्यवस्थितः ॥ इति । (हात्स्म् २०।६८)
संभाषमाणो विप्रो यद्य् उच्छिष्टः स्यात् तदा त्रिरात्रोपवासम् आह स एव ।
उच्छिष्टः सह संभाषेत् त्रिरात्रेणैव शुध्यति । इति (हार्स्म् २०।६९) ॥ २२ ॥
एकशय्यास्वापे सहमार्गगमने च पृथक् प्रायश्चित्तम् आह ।
चण्डालैः सह सुप्तं तु त्रिरात्रम् उपवासयेत् ।
चण्डालैकपथं गत्वा गायत्रीस्मरणात् शुचिः ॥ २३ ॥
[१०९] इति । स्पष्टो ऽर्थः ॥ २३ ॥
दर्शनस्पर्शनयोः पृथक् प्रायश्चित्तम् आह ।
चण्डालदर्शने सद्य आदित्यम् अवलोकयेत् ।
चण्डालस्पर्शने चैव सचैलं स्नानम् आचरेत् ॥ २४ ॥
इति।
एतद् एव आपस्तम्बो ऽप्य् आह- “चण्डालस्पर्श्ने संभाषायां दर्शने च दोषः । तत्र प्रायश्चित्तम् अवगाहनम् अपाम् उपस्पर्शनं संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम्” इति । सुमन्तुर् अपि- “चण्डालदर्शने सूर्यदर्शनम् । संभाषणे ब्राह्मणाभिव्याहारः । संस्पर्शने सचैलं स्नानम् आचरेत्” इति । देवलो ऽपि ।
श्वपाकं पतितं व्यङ्गम् उन्मत्तं शवदाहकम् ।
सूतिकं सूतिकां नारीं रजसा च परिप्लुताम् ॥
श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्य मानवः ।
सचैलः सशिराः स्नात्वा तदानीम् एव शुध्यति ॥ इति ।
अवस्थाविशेषेण स्पर्शने विशेषम् आह शातातपः ।
[११०] येन केनचिद् अभ्यक्तः चण्डालं संस्पृशेद् यति ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥
अशुद्धान् स्वयम् अप्य् एतान् अशुद्धश् च यदि स्पृशेत् ।
विशुध्यत्य् उपवासेन त्रिरात्रेण ततः शुचिः ॥
उच्छिष्टः संस्पृशेद् विप्रो मद्यं शूद्रं शुनो ऽशुचीन् ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ इति ।
यत् तु देवलेनोक्तम्,
अशुद्धान् स्वयम् अप्य् एतान् शुद्धश् च यदि संस्पृशेत् ।
विशुध्यत्य् उपवासेन त्रिरात्रेण ततः शुचिः ॥
उच्छिष्टं संस्पृशेद् विप्रः पुनः कृच्छ्रेण शुध्यति ।
इति, तत् सहोपवेशनशयनादिना चिरस्पर्शविषयम् । यदि स्पृष्टो मूत्रादिकं कुर्यात् तदा त्रिरात्रोपवासः । भुक्तोच्छिष्टो यदि स्पृशेत् तदा षड्रात्रोपवासः इति । तद् आह शातातपः ।
चण्डालैः श्वपचैः स्पृष्टे विण्मूत्रे कुरुते द्विजः ।
त्रिरात्रं तत्र कुर्वीत भुक्तोच्छिष्टः षड् आचरेत् ॥
[१११] इति । चण्डालवत् चित्यादिस्पर्शे ऽपि सचैलं स्नानम् । तद् उक्तं चतुर्विंशतिमते ।
चितिं च चितिकाष्ठं च यूपं चण्डालम् एव च ।
स्पृष्ट्वा देवलकं चैव सवासा जलम् आविशेत् ॥ इति ॥ २४ ॥
चण्डालस्वामिकवाप्युदकपाने ज्ञानाज्ञानकृते पृथक् प्रायश्चित्तम् आह ।
चण्डालखातवापीषु पीत्वा सलिलम् अग्रजः ।
अज्ञानाच् चैकभक्तेन त्व् अहोरात्रेण शुध्यति ॥ २५ ॥
इति।
अज्ञानकृतस्यैकभक्तम् । ज्ञानकृतस्य तूपवासः । अत एव आपस्तम्बः चण्डालवापीं प्रकृत्याह ।
तत्तोयं यः पिबेद् विप्रः कामतो ऽकामतो ऽपि वा ।
अकामात् नक्तभोजी स्याद् अहोरात्रेण कामतः ॥ इति ।
तत्रैवाभ्यासविषयम् अभिप्रेत्य आपस्तम्ब आह ।
अन्त्यजैः खानिताः कूपास् तडागा वाप्य् एव च ।
एषु स्नात्वा च पीत्वा च प्राजापत्येन शुध्यति ॥ इति ।
यत् तु तेनैवोक्तम् ।
प्रपास्व् अरण्ये कटक च सौरे
द्रोण्यां जलं केशविनिःसृतं वा ।
श्वपाकचण्डालपरिग्रहेषु
पीत्वा जलं पञ्चगव्येन शुध्येत् ॥ (आप्ध् २।२)
इति, तद् अशक्तविषयम् ॥ २५ ॥
चण्डालभाण्डस्पृष्टस्य कूपस्थजलस्य पाने ऽधिकं प्रायश्चित्तम् आह ।
चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् ।
गोमूत्रयावकाहारस् त्रिरात्रात् शुद्धिम् आप्नुयात् ॥ २६ ॥
इति।
चण्डालो भाण्डेनोदकं यस्मात् कूपाद् आनयति तत् कूपस्थोदकं पीत्वा गोमूत्रसहितयवपिष्टादिकं दिनत्रयम् आहारत्वेन स्वीकुर्यात् ॥ २६ ॥
तदीयभाण्डस्थोदकपाने जरणाजरण्भेदेन प्रायश्चित्तम् आह ।
चण्डालघटसंस्थं तु यत् तोयं पिबति द्विजः ।
तत्क्षणात् क्षिपते यस् तु प्राजापत्यं समाचरेत् ॥ २७ ॥
यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रं सान्तपनं चरेत् ॥ २८ ॥
[११३] इति । प्रथमम् अज्ञानात् पीत्वा पश्चात् तदानीम् एव विज्ञाय यदि वमेत् तदा प्राजापत्यम् । तज्जरणे सान्तपनं कृच्छ्रं परिषदा दातव्यम् । न तु प्राजापत्यम् । तस्याज्ञानविषयत्वम् अङ्गिरा दर्शयति ।
चण्डालपरिगृहीतं यद् अज्ञानाद् उदकं पिबेत् ।
तस्य शुद्धिं विजानीयात् प्राजापत्येन नित्यशः ॥
यस् तु चण्डालसंस्पृष्टं पिबेत् किंचिद् धि कामतः ।
स तु सान्तपनं कृच्छ्रं चरेत् शुद्ध्यर्थम् आत्मनः ॥ इति ।
यत् तु देवलेनोक्तम्,
यस् तु चाण्डालभाण्डस्थम् अज्ञानाद् उदकं पिबेत् ।
स तु त्र्यहेण शुध्येत् तु शूद्रस् त्व् एकेन शुध्यति ॥
इति, तद् आपद्विषयम् ॥ २७–२८ ॥
बुद्धिपूर्वकं तत्पाने वर्णभेदेन प्रायश्चित्तभेदम् आह ।
चरेत् सान्तपनं विप्रः पाजापत्यम् अनन्तरः ।
तदर्धं तु चरेद् वैश्यः पादं शूद्रस् तद् आचरेत् ॥ २९ ॥
इति।
अनन्तरः क्षत्रियः । एतस्य बुद्धिपूर्वविषयत्वम् आपस्तम्ब आह ।
चण्डालकूपभाण्डस्थं नरः कामाज् जलं पिबेत् ।
प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥
चरेत् सान्तपनं विप्रः प्राजापत्यं तु भूमिपः ।
तदर्धं तु चरेद् वैश्यः शूद्रे पादं विनिर्दिशेत् ॥ इति ॥ २९ ॥
चण्डालभाण्डोदकपानप्रसङ्गाद् इतरान्त्यजभाण्डोदकादिपाने ऽपि प्रायश्चित्तम् आह ।
भाण्डस्थम् अन्त्यजानां तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव प्रमादतः ॥ ३० ॥
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ।
शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥ ३१ ॥
इति।
अन्त्यजा रजकादयः,
रजकश् चर्मकारश् च नटो बरुड एव च ।
कैवर्तमेदभिल्लाश् च सप्तैते चान्त्यजाः स्मृताः ॥
इति स्मरणात् । ब्रह्मकूर्चम् आचार्य एवोपरिष्टाद् वक्ष्यति । तत्सहित उपवासः त्रैवर्णिकस्य । तद्रहितश् चतुर्थस्य । [११५] ब्रह्मकूर्चस्थाने यथाशक्ति दानं द्रष्टव्यम् । आमादिषु भाण्डान्तरप्राप्तेषु नास्ति कश्चिद् दोषः । तथा च चतुर्विंशतिमते ।
आमं मांसं घृतं क्षौद्रं स्नेहाश् च फलसंभवाः ।
अन्त्यभाण्डस्थिता ह्य् एते निष्क्रान्ताः शुचयः स्मृताः ॥ इति ।
महत्सु तु तटाकादिषु चण्डालादिसंबन्धे ऽपि नास्ति कश्चिद् दोषः । अल्पेषु तु कूपन्यायः । तद् आह विष्णुः ।
जलाशयेष्व् अथाल्पेषु स्थावरेषु महीतले ।
कूपवत् कथिता शुद्धिर् महत्सु तु न दूषणम् ॥ इति ॥ ३०–३१ ॥
अज्ञानपूर्वके चण्डालान्नभोजने प्रायश्चित्तम् आह ।
भुङ्क्ते ऽज्ञानाद् द्विजश्रेष्ठश् चण्डालान्नं कथंचन ।
गोमूत्रयावकाहारो दशरात्रेण शुध्यति ॥ ३२ ॥
इति।
स्पष्टम् ॥ ३२ ॥
तत्र प्रमाणम् आह ।
एकैकं ग्रासम् अश्नीयाद् गोमूत्रयावकस्य च ।
[११६] दशाहं नियमस्थस्य व्रतं तत् तु विनिर्दिशेत् ॥ ३३ ॥
इति।
गोमूत्रेण पाचितं यद् यवमयम् अन्नं तस्य ग्रासनेकैकस्मिन् दिने भुञ्जीत । नियमः स्नानमौनादिः । तद् आह याज्ञवल्क्यः ।
स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषाशौचाक्रोधाप्रमादताः ॥ इति । (य्ध् ३।३१४)
ईदृशनियमनिष्ठस्य तद् यावकाहारव्रतं निर्दिशेत् । बुद्धिपूर्वके त्व् अङ्गिरा आह ।
अन्त्यावसायिनाम् अन्नं अश्नीयाद् यश् च कामतः ।
स तु चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥ इति ।
अन्त्यावसायिनश् चण्डालादयः । तांश् च स एवाह ।
चण्डालः श्वपचः क्षत्ता सूतो वैदेहकस् तथा ।
मागधायोगवौ चैव सर्वे ह्य् अन्त्यावसायिनः ॥ इति ।
आमपक्वयोश् चण्डालान्नयोर् व्रतभेदम् आह विष्णुः- [११७] “चाण्डालान्नं भुक्त्वा त्रिरात्रम् उपवसेत् । सिद्धं भुक्त्वा पराकः” इति (विस्म् ५१।५७–५८) । अत्र मूलवचनोक्तो गोमूत्रयावकाहारः सिद्धान्नविषयो भविष्यति । यावकसहितस्य दशरात्रोपवासस्य पराकसमत्वात् । यत् तु हारीतेनोक्तम्,
चण्डालान्नं प्रमादेन यदि भुञ्जीत वै द्विजः ।
ततश् चान्द्रायणं कुर्यात् मासम् एकं व्रतं चरेत् ॥
शूद्रो वाप्य् अर्धमासं वै भुक्त्वा चैव जितेन्द्रियः ।
त्रिरात्रम् उपवासी च ब्राह्मणांस् तर्पयेत् शुचिः ॥ (हार्स्म् २।७३–७५)
इति, तद् गोमूत्रयावकाहाराशक्तविषयम् । बुद्धिपूर्वकस्य चिरकालानुवृत्तौ मनुनोक्तं द्रष्टव्यम् ।
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ इति । (म्ध् ११।१७५)
अत्र चीर्णव्रतस्य पुनर् उपनयनं कूर्मपुराणे दर्शितम् ।
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ।
बुद्धिपूर्वे तु कृच्छ्राब्दं पुनः संस्कारम् एव च ॥ इति ।
वसिष्ठो ऽपि- “चण्डालपतितान्नभोजने पुनर् उपनयनम्” इति (वध् २०।१७) ॥ ३३ ॥
अथ कंचित् कालं एकस्मिन् गृहे चण्डालेन सह व्यवहर्तुः “अविज्ञातस् तु चण्डालः” इत्यादिना “भूमिदोषो न विद्यते” इत्यन्तेन शोकसमूहेन प्रायश्चित्तम् आह ।
अविज्ञातस् तु चण्डालो यत्र वेश्मनि तिष्ठति ।
विज्ञाते तूप्सन्नस्य द्विजाः कुर्वन्त्य् अनुग्रहम् ॥ ३४ ॥
इति।
अनेन श्लोकेन परिषदुपसत्तिर् विहिता । यद्य् अपि सर्वेषु प्रायश्चित्तेषु परिषदुपसत्तिः समाना तथापि प्रकटपापेष्व् एव सा । न तु रहस्येषु । अत्र तु रहस्यम् अपि प्रकटीकर्तव्यम् इत्य् अभिप्रेत्य प्रातिस्विकम् उपसत्त्यभिधानम् । अनुग्रहश् चरितव्यप्रायश्चित्तविशेषोपदेशः ॥ ३४ ॥
उपसदनयोग्यं परिषद्विशेषं दर्शयितुं द्विजान् विशिनष्टि ।_
मुनिवक्त्रोद्गतान् धर्मान् गायन्तो वेदपारगाः ।
पतन्तम् उद्धरेयुस् तं धर्मज्ञाः पापसंकरात् ॥ ३५ ॥
[११९] इति । वक्त्रोद्गतान् गायन्त इत्य् अनेन धर्मशास्त्रम् उच्चार्य प्रायश्चित्तं विधेयम् इत्य् उक्तं भवति । युक्तं चैतत् । तथा सति प्रामादिकान्य् अथाभिधानशङ्कानुदयात् । यद्य् अपि चण्डालसहवास एकम् एव पापं तथापि तस्मिन् सति अनुष्ठितानां नित्यनैमित्तिकानां बहूनां वैकल्प्यसंभवम् अभिप्रेत्य पापसंकराद् इत्य् उक्तम् ॥ ३५ ॥
परिषदाभिधेयं व्रतविशेषं दर्शयति ।
दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् ।
भुञ्जीत सह सर्वैश् च त्रिसंध्यम् अवगाहनम् ॥ ३६ ॥
इति।
दध्ना सर्पिषा च संयुक्तम् इति शेषः । गृहस्वामिवद् गृहवासिनो बालवृद्धादयः सर्वे ऽपि यावकभोजनत्रिसंध्यावगाहने कुर्युः ॥ ३६ ॥
तत्र दध्यादीनां सर्वेषां समाहारप्रसक्तौ विभजति ।
त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा ।
त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥ ३७ ॥
इति।
दध्ना संयुक्तं गोमूत्रयावकं दिनत्रयं भुञ्जीत । घृतक्षीरयोर् अप्य् एवम् एव योज्यम् । तथा सति नव दिनानि संपद्यन्ते । पुनर् अप्य् एकैकेन दध्यादिना संयुक्तम् एकैकस्मिन् दिने बुञ्जीतेति दिनत्रयं संपद्यते । एतत् सर्वं मिलित्वा द्वादशरात्रं भवति ॥ ३७ ॥
यावके वर्ज्यम् आह ।
[१२०]
भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् । इति ।
भावेन दुष्टं भावदुष्टम् । यस्मिन्न् अवलोकिते सति अत्यन्तसादृश्येन तस्मिन्न् अमेध्यादिभावः सहसा बुद्धिम् आरोहेत् तादृशं न भोक्तव्यम् ॥
दध्यादीनां त्रयाणां परिमाणम् आह ।
दधिक्षीरस्य त्रिफलं पलम् एकं घृतस्य तु ॥ ३८ ॥
इति।
दधि क्षीरंचेति दधिक्षीरे तयोः प्रत्येकं पलत्रयं परिमाणम् । यावकस्य परिमाणं ग्रासमात्रं पूर्वोक्तन्यायेन वेदितव्यम् ॥ ३८ ॥
चेतनानां शुद्धिहेतुम् अभिधायाचेतनानाम् अप्य् आह ।
भस्मना तु भवेत् शुद्धिर् उभयोस् ताम्रकांश्ययोः ।
जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ॥ ३९ ॥
इति।
मृण्मयस्य् भाण्डस्य परित्याग एव कर्तव्यः । शुद्धिस् तु नास्तीत्य् अभिप्रायः ॥ ३९ ॥
गृहस्य दाहः कर्तव्य इत्य् आह ।
कुसुम्भगुडकार्पासलवणं तैलसर्पिषी ।
द्वारे कृत्वा तु धान्यानि दद्याद् वेश्मनि पावकम् ॥ ४० ॥
इति।
कुसुम्भं तैलसाधनधान्यम् । कुसुम्भादीनि धान्यान्य् अतिदाह्यत्वेन द्वारि स्थापनीयानि ॥ ४० ॥
गृहदाहाद्यन्तरं कर्तव्यम् आह ।
[१२१] एवं शुद्धस् ततः पश्चात् कुर्यात् ब्राह्मणतर्पणम् ।
त्रिंशतं गोवृषं चैकं दद्याद् विप्रेषु दक्षिणाम् ॥ ४१ ॥
इति।
स्पष्टम् ॥ ४१ ॥
भाण्डवद् भूमेर् न परित्यागः । किं तु लेपनादिकम् कर्तम् इत्य् आह ।
पुनर्लेपनखातेन होमजप्येन शुध्यति ।
आधारेण च विप्राणां भूमिदोषो न विद्यते ॥ ४२ ॥
इति।
लेपनं कुड्यस्य । खननं स्थलस्येति यथायोगम् अवगन्तव्यम् । तद् उभयं कृत्वा ब्राह्मणान् प्रवेश्य शान्तिकजपहोमौ कुर्यात् । तावता भूमिः शुध्यति ।न तु भाण्डवद् अत्यन्तदोषो भूमेर् विद्यते । यदा पुनर् दीर्घकालं चण्डालो निवसेत् तदा हारीतोक्तं द्रष्टव्यम् ।
चण्डालैः सह संवासं दीर्घकालम् अकामिकम् ।
विज्ञानान् मृण्मयं पात्रं सर्वं त्यजति तद्गृहे ॥
बालकृच्छ्रं ततः कुर्यात् तप्तकृच्छ्रं तथैव च ।
ब्राह्मणांस् तर्पयेत् पश्चात् ब्रह्मकूर्चेन शुध्यति ॥ इति । (हार्स्म् २०।१९–२१)
तत्र च गोशतं दक्षिना । तद् आह च्यवनः-
चण्डालसंकरे स्वभवनदहनम् । सर्वमृण्मयभाण्डभेदनम् । [१२२] दारवाणां तु तक्षणम् । शङ्खशुक्तिसुवर्णरजतचैलानाम् अद्भिः प्रक्षालनम् । कांस्यताम्रपात्राणाम् आकरेण शुद्धिः । सौवीरपयोदधितक्राणां परित्यागः । गोमूत्रयावकाहारो मासं क्षपयेत् । बालवृद्धस्त्रीणाम् अर्धं प्रायश्चित्तम् । आ षोडशाद् बालाः । सपतत्यूर्ध्वगता वृद्धाः । चीर्णे प्रायश्चित्ते ब्राह्मणभोजनं गोशतं दद्यात् । अभावे सर्वस्वम् ।
इति ॥ ४२ ॥
गृहव्यतिरिक्तक्षेत्रारामग्रामान्तरयात्रादाव् अज्ञानेन चण्डालसंकरे प्रायश्चित्तम् आह ।
चण्डालैः सह संपर्कं मासं मासार्धम् एव वा ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥ ४३ ॥
इति।
मासं च अर्धमासं च मासार्धम् । तेन विशुध्यति । माससंकरे मासव्रतेन शुध्यति । अर्धमाससंकरे अर्धमासव्रतेन विशुद्धिर् इत्य् अर्थः । संपर्कं करोति चेद् इति शेषः । चण्डालशब्देन पुल्कसादयो ऽप्य् उपलक्ष्यन्ते । अत एव संवर्तः ।
चण्डालैः संकरे विप्रः श्वपाकैः पुल्कसैर् अपि ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥ (संस्म् १८०)
[१२३] इति । उक्तकालाधिककालसंकरे हारीतेनोक्तं द्रष्टव्यम् ।\
चण्डालैः सह संयोगे प्राजापत्येन शुध्यति ।
विप्रान् दशावरान् कृत्वा तैर् अनुज्ञाप्य शासनात् ॥
आ कण्ठस्य प्रमाणं तु कुर्याद् गोमयकर्दमम् ।
तत्र स्थित्वा त्व् अहोरात्रं वायुभक्षः समाहितः ॥
बालकृच्छ्रं ततः कुर्यात् गोष्ठे वसति सर्वदा ।
सकेशवपनं कुर्यात् परमां शुद्धिम् आप्नुयात् ॥ इति । (हार्स्म् २०।३०–३२)
॥ ४३ ॥
रजक्यादिभिः सह संवासे चण्डालसंवासात् न्यूनं प्रायश्चित्तम् आह ।
रजकी चर्मकारी च लुब्धकी वेणुजीविनी ।
चातुर्वर्ण्यस्य च गृहे त्व् अविज्ञाता तु तिष्ठति ॥ ४४ ॥
ज्ञात्वा तु निष्कृतिं कुर्यात् पूर्वोक्तस्यार्धम् एव च ।
[१२४] गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत् ॥ ४५ ॥
इति।
दध्ना च सर्पिषा चेत्यादिकं पूर्वोक्तम् ॥ ४४–४५ ॥
इदानीं चण्डालस्य सकृद्गृहप्रवेशे कर्तव्यां शुद्धिम् आह ।_
गृहस्याभ्यन्तरं गच्छेत् चण्डालो यदि कस्यचित् ।
तम् अगाराद् विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् ॥ ४६ ॥
रसपूर्णं तु यद् भाण्डं न त्यजेत् तु कदाचन ।
गोमयेन तु संमिश्रैर् जलैः प्रोक्षेद् गृहं तथा ॥ ४७ ॥
इति।
कस्यचिद् इति ब्राह्मणादीनाम् अन्यतमस्य । प्रोक्ष्य अजां गां वा गृहं प्रवेशयेत् । तद् आह हारीतः ।
गृहस्याभ्यन्तरे यस्य चण्डालो यदि गच्छति ।
पार्थिवानां हि पात्राणां त्यागः सद्यो हि सर्वशः ॥
अनष्टरसभाण्डानां गृहवन् मन्यते यथा।
अजस्य गोः प्रवेशाद् धि शुद्ध्यते नात्र संशयः ॥ इति । (हार्स्म् २०।३५–३६)
अनष्टरसानि रसपूर्णभाण्डान्नि । यः पुनः गृहान्तरवासी वन्न् अपि चण्डालप्रवेशवति गृहे कदाचिद् भुङ्क्ते, भुक्तवतस् तस्यापि गृहे यो ऽन्यो गृहान्तरवासी समागत्य भुङ्क्ते तयोर् उभयोः प्रायश्चित्तम् आपस्तम्बो दर्शयति ।
[१२५] अविज्ञातश् च चण्डालस् तिष्ठते यत्र वेश्मनि ।
स विज्ञातस् तु कालेन तत्र कार्यं विशोधनम् ॥
प्राजापत्यं तु शूद्राणां तेषां तदनुसारतः ।
यैस् तत्र भुक्तं पक्वान्नं कृच्छ्रार्धं तेषु दापयेत् ॥
तेषाम् अपि तु यैर् बुक्तं पादम् एकं विधीयते ।
कूपैकपानैर् दुष्टानां स्पर्शसंपर्कदूषितः ॥
नरो ह्य् एकोपवासेन पञ्चगव्येन शुध्यति ।
बालापत्या तथा रोगी गर्भिणी या तु दूषिता ॥
तेषां नक्तं प्रदातव्यं बालानां प्रहरद्वयम् ॥
इति ॥ ४६–४७ ॥
अथ कृम्युपहतदेहस्य वर्णभेदेन भिन्नां शुद्धिम् आह ।
[१२६] ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिर् उत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ ४८ ॥
गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा ।
त्र्यहं स्नात्वा च पीत्वा च कृमिदुष्टः शुचिर् भवेत् ॥ ४९ ॥
क्षत्रियो ऽपि सुवर्णस्य पञ्च माषान् प्रदाय तु ।
गोदक्षिणां तु वैश्यस्याप्य् उपवासं विनिर्दिशेत् ॥ ५० ॥
शूद्राणां नोपवासः स्यात् शूद्रो दानेन शुध्यति । इति ।
यद्य् अपि कृम्युत्पत्तिर् विहितातिक्रमप्रतिषिद्धाचरणरूपा न भवति तथापि जन्मान्तरसञ्चितदुरितफलरूपायास् तस्या विहितकर्मानुष्ठानाधिकारविरोध्यशुद्ध्य्-आपादकत्वात् तन्निवृत्तये ऽवश्यं शुद्धिः कर्तव्या । सा च शुद्धिः प्रायश्चित्तसमानत्वात् प्रायश्चित्तप्रकरणे वक्तुम् उचिता । प्रायश्चित्तसाम्याम् अभिप्रेत्य प्रश्नवाक्ये प्रायश्चित्तशब्देन व्यवहारः । मुख्यप्रायश्चित्ताभावं द्योतयितुं संदेहद्योतकः कथंशब्दः प्रयुक्तः । तत्र ब्राह्मणस्य दिनत्रयं पञ्चगव्यस्नानपाने । क्षत्रियस्य पञ्चमाषपरिमितं सुवर्णदानं च । पञ्चकृष्णलात्मको माषः । तद् आह याज्ञवल्क्यः ।
[१२७] जालसूर्यमरीचिस्थं त्रसरेणू रजः स्म्र्तम् ।
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥
गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषस् ते सुअर्णस् तु षोडश्क़् ॥ इति । (य्ध् १।३६२–६३)
वैश्यस्य गोदानोपवासौ । शूद्रस्य गोदानम् एव । एतच् च नाभेर् अधोभागे द्रष्टव्यम् । उपरिभागे तु मनुर् आह ।
ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिर् उत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥
गवां मूत्रपुरीषेण त्रिसंध्यं स्नानम् आचरेत् ।
त्रिरात्रं पञ्चगव्याशी त्व् अधोनाभ्या विशुध्यति ॥
नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः ।
षड्रात्रं तु तदा प्रोक्तं प्राजापत्यं शिरोव्रणे ॥ इति ।
यत् तु च्यवनेनोक्तम्- “कृमिदर्शने सान्तपनं वृषभो दक्षिणा” इति । तद् युगपद् बहुप्रदेशविषयम् ॥ ४८–५० ॥
चर्यमाणे प्रायश्चित्ते न्यूनातिरेकदोषोपशान्तिर् विप्रवाक्याद् भवतीय् आह ।
अच्छिद्रम् इति यद् वाक्यं वदन्ति क्षितिदेवताः ॥ ५१ ॥
प्रणम्य शिरसा ग्राह्यम् अग्निष्टोमफलं हि तत् । इति ।
विप्रवाक्यस्य छिद्रपरिपूरकत्वं संभावयितुम् अग्निष्टोमसाम्येन [१२८] तद्वाक्यं प्रशस्यते । अन्वयव्यतिरेकाभ्यां विप्रवाक्यस्य प्रयोजकत्वम् आपस्तम्बः ।
पूर्णे ऽपि कालनियमे न शुद्धिर् ब्राह्मणैर् विना ।
अपूर्णेष्व् अपि कालेषु शोधयन्ति द्विजोत्तमाः ॥ इति ॥ ५१ ॥
महाफलसाधनेषु यज्ञादिष्व् अपि छिद्रपूर्त्तिर् विप्रवाक्यसाध्या । किम् उतास्मिन् प्रायश्चित्तव्रते इत्य् अभिप्रेत्याह ।
जपच्छिद्रं तपच्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥ ५२ ॥
सर्वं भवति निश्छिद्रं ब्राह्मणैर् उपपादितम् । इति ।
यद्य् अपि विप्रवाक्यस्य समस्तव्रतशेषत्वाद् इदं प्रायश्चित्तप्रकरणान्ते वक्तुम् उचितम् तथापि द्रव्यशुद्धिप्रकरणस्यात्रापि स्वीकृतत्वाद् अवान्तरप्रायश्चित्तप्रकरणस्य समाप्ताव् इदम् उक्तम् इत्य् अविरोधः ॥ ५२ ॥
आपत्काले स्वयं व्रतं कर्तुम् अशक्तश् चेत् तदा ब्राह्मणैः कारयेद् इत्य् आह ।
व्याधिव्यसैनि श्रान्ते दुर्भिक्षे डामरे तथा ॥ ५३ ॥
[१२९] उपवासो व्रतं होमो द्विजसंपादितानि वै । इति ।
व्याधिना व्यसनी राजयक्ष्मादिप्रबलरोगग्रस्तः । श्रान्त आहवाध्वगमनादिना । तयोर् उभयोः व्रतं पुत्रादिर् अनुतिष्ठेत् । तद् आह आपस्तम्बः ।
अशक्तस्यापि बालस्य पिता वा यदि वा गुरुः ।
तद्व्रतं तस्य गृह्णीयात् ततो मुच्येत किल्बिषात् ॥ इति ।
दुर्भिक्षं दैविको दोषः । डामरं परराजाद्युपप्लवः । तत्रोभयत्रावश्यकबहुकुटुम्ब-भरणाद्यवरुद्धः तदनवरुद्धेन सख्यादिना व्रतं कारयेत् ॥ ५३ ॥
अत्यन्तापदम् अभिप्रेत्य पक्षान्तरम् आह ।
अथ वा ब्राह्मणास् तुष्टाः सर्वं कुर्वन्त्य् अनुग्रहम् ॥ ५४ ॥
सर्वान् कामान् अवाप्नोति द्विजसंपादितैर् इह । इति ।
ब्राह्मणा वेदपारगा महान्तः पूर्वकृतोपकारादिना तुष्टाः सन्तो ऽस्याम् आपदि निर्दोषस् त्वम् इत्य् अनुगृह्णन्ति तदा तावतैवास्य विशुद्धिः । अनुष्ठानम् अन्तरेणापि महापुरुषवचनमात्रसंपादितैर् आशीर्विशेषैर् अशेषकामप्राप्तिर् भवति । तत्र पापक्षयो भवतीति को विस्मयः । महापुरुषस्य गुरुपित्रादेः संकल्पमात्राद् एव कामप्राप्तिर् आथर्वणे श्रूयते ।
[१३०] यं यं लोकं मनसा संविभाति
विशुद्धसत्त्वः कामयते यांश् च कामान् ।
तं तं लोकं जयते तांश् च कामान्
तस्माद् आत्मज्ञं ह्य् अर्चयेद् भूतिकामः ॥ (मुणुप् ३।१।१०)
इति ॥ ५४ ॥
अन्वयव्यतिरेकाभ्यां महदनुग्रहस्य विषयं दर्शयति ।
दुर्बले ऽनुग्रहः प्रोक्तस् तथा वै बालवृद्धयोः ॥ ५५ ॥
अतो ऽन्यथा भवेद् दोषः तस्मान् नानुग्रहः स्मृतः । इति ।
दुर्बलः पूर्वोक्तव्याधिग्रस्तादिः । दुर्बलबालवृद्धानाम् अनुग्रहणे योग्या महान्तो देवलेन दर्शिताः ।
प्रायश्चित्तं यथोद्दिष्टम् अशक्यं दुर्बलादिभिः ।
इष्यते ऽनुग्रहस् तेषां लोकसंग्रहकारणात् ॥
[१३१] एको नार्हति तत् कर्तुम् अज्ञो वा नाप्य् अनुग्रहम् ।
धर्मज्ञा बहवो विप्राः कर्तुम् अर्हन्त्य् अनुग्रहम् ॥ इति ।
अतो ऽन्यथा प्रबलस्यानुग्रहे प्रत्यवायः । तस्मात् तान् नानुगृह्णीयात् ॥ ५५ ॥
प्रबलं युवानम् अनुगृह्णतः प्रत्यवायं विशदयति ।
स्नेहाद् वा यदि वा लोभाद् भयाद् अज्ञान्तो ऽपि वा ॥ ५६ ॥
कुर्वन्त्य् अनुग्रहं ये तु तत् पापं तेषु गच्छति । इति ।
स्नेहाद् अनुग्रहः पुत्रमित्रादिषु । लोभाद् धनिकेषु । अज्ञानाद् दुर्बलेष्व् अनुग्रह इति शास्त्रम् अज्ञात्वा पण्डितंमन्यतया यस्मिन् कस्मिंश्चिद् अनुग्रहः । यद्य् अपि परकीयं पापम् इतरस्मिन् न संक्रामति तथापि परीक्षाम् अकृत्वा प्रायश्चित्तं विधातुर् अयथाशास्त्रानुष्ठाननिमित्तं पापान्तरम् उदेतीत्य् अभिप्रेत्य तत् पापं तेषु गच्छतीत्य् उक्तम् इति । एवं प्रायश्चित्ताधिकारिणं सम्यक् परीक्ष्य प्रायश्चित्तं विधेयम् । तद् आह देवलः ।
कर्तारं देशकालौ च प्रमाणं कारणं क्रियाम् ।
अवेक्ष्य च बलं चैव प्रायश्चित्तं विधीयते ॥ इति ।
बौधायनो ऽपि
शरीरं बलम् आयुश् च वयः कालं च कर्म च ।
परीक्ष्य धर्मविद् बुद्ध्या प्रायश्चित्तं प्रकल्पयेत् ॥ इति । (ब्ध्१।१।१।१५)
॥ ५६ ॥
[१३२]
अनुग्रहम् अनर्हतः प्रबलस्यानुग्रहे यथा प्रत्यवायः तथानुग्रहयोग्यस्य दुर्बलस्य नियमविधाने ऽपि प्रत्यवाय इत्य् आह ।
शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये ॥ ५७ ॥
महत्कार्योपरोधेन न स्वस्थस्य कदाचन । इति ।
शरीरस्यात्यये मुमूर्षोर् भूम्यां शयनम् । तस्मिन् प्राप्ते सति तेन कर्तुम् अशक्यं प्रायश्चित्तव्रतादिनियमं कर्तव्यत्वेन ये वदन्ति तेषु तत् पापं गच्छतीति पूर्ववाक्याद् अनुषज्यते । तत्र हेतुः-। महत्कार्योपरोधेनेति । महतां देवतोपासकानां योगिनां कार्यं महत्कार्यम् । अन्तकाले देवतास्मरणादि । तस्योपरोधः प्रतिबन्धः । मुमूर्षुर् हि परिसरवर्तिभिर् आप्तैर् बोधितो देवतां स्मर्तुम् उद्युङ्क्ते तदानीम् एतां तदुक्तव्रतकर्तव्यतां श्रुत्वा कर्तुम् अश्क्नुवन् व्याकुलचित्तः पूर्वम् उद्युक्तां देवतास्मृतिम् अपि परित्यजति । सो ऽयं पुरुषार्थप्रतिबन्धः । तस्य च निमित्तं प्रायश्चित्तविधातार इति युक्तस् तेषां प्रत्यवायः । एवं तर्हि सर्वत्र प्रायश्चित्तं विधातुं भीताः स्युर् इत्य् आशङ्क्योक्तं न स्वस्थस्य कदाचनेति । स्वस्थशरीरस्य पूर्वोक्तः कार्योपरोधः कदाचिद् अपि नास्तीति तं प्रति प्रायश्चित्तं विधातुं न भेतव्यम् इति भावः ॥ ५७ ॥
“व्याधिव्यसनिनि” (६।५३) इत्य् अत्र प्रतिनिधित्वेन व्रतम् अनुष्ठेयम् इत्य् उक्तम् । इदानीं तस्य व्यतिरेकम् आह ।
[१३३]
स्वस्थस्य मूढाः कुर्वन्ति वदन्त्य् अनियमं तु ते ॥ ५८ ॥
ते तस्य विघ्नकर्तारः पतन्ति नरके ऽशुचौ । इति ।
ये तु मूढा व्याध्यादिग्रस्तस्यैव प्रतिनिधिर् इति शास्त्ररहस्यम् अजानन्तः स्वस्थस्य कस्यचित् परिवृढादेः दाक्षिण्यादिना तदीयं व्रतनियमम् अनुतिष्ठन्ति तस्य च नियमाभावं शास्त्रीयत्वेन तस्य स्वस्थस्य पापनिवृत्तिविघ्नं वरन्तो रौरवादिके नरके पतन्ति ॥ ५८ ॥
इदानीं पण्डितम्ंअन्यतया विप्रवाक्यम् अवज्ञाय स्वेच्छयैव किंचिद् व्रतं शास्त्रीयत्वेन परिकल्प्यानुतिष्ठतो न पापनिऋत्तिर् इत्य् आह ।_
स्वयम् एव व्रतं कृत्वा ब्राह्मणं यो ऽवमन्यते ॥ ५९ ॥
वृथा तस्योपवासः स्यान् न स पुण्येन युज्यते । इति ।
स्वकपोलकल्पितव्रतस्य पापनिवर्तकत्वाभावः शातातपेन स्पष्टीकृतः ।
[१३४] यद् विना धर्मशास्त्रेण प्रायश्चित्तं विधीयते ।
न तेन शुद्धिम् आप्नोति प्रायश्चित्ते कृते ऽपि सः ॥ इति ॥ ५९ ॥
व्यतिरेकम् उक्त्वान्वयम् आह ।
स एव नियमो ग्राह्यो यद्य् एको ऽपि वदेद् द्विजः ॥ ६० ॥
कुर्याद् वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत् । इति ।
धर्मरहस्ये ऽभिज्ञानां बहूनां द्विजानां प्रायश्चित्तविधानं मुख्यः कल्पः । एकस्य विधायकत्वम् अनुकल्पः । उभयथापि विप्रेणानुज्ञात एवेति नियमो ज्ञातव्यः । अन्यथा द्विजानुज्ञाम् अन्तरेण स्वयम् एव शास्त्रं पर्यालोच्य प्रकटपापस्य प्रायश्चित्तं कुर्वन् प्रत्यवायी स्यात् ॥ ६० ॥
विप्रवाक्यस्य प्रायश्चित्तप्रयोजकत्वं प्रतिपदयति ।
ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः ॥ ६१ ॥
तेषां वाक्योदकेनैव शुध्यन्ति मलिना जनाः । इति ।
साधूनां तीर्थरूपत्वं शुद्धस्वरूपत्वात् । तथा च श्रूयते ।
[१३५] अग्निः शुचिव्रततमः शुचिर् विप्रअः शुचिः कविः । इति । (ऋग्वेदः ६।६।४०।१) ॥ ६१ ॥
विशिष्टमातापितृजन्यत्वं ब्राह्मणत्वम् । न केवलं तावतैव ब्राह्मणवाक्यस्य प्रशस्तत्वम् । किं त्व् अनेकदेवताप्रतिपादकानां वैदिकमन्त्राणां धारणया सर्वदेवतात्मकत्वेनापि तद्वाक्यं प्रशस्तम् इत्य् आह ।
ब्राह्मना यानि भाषन्ते मन्यन्ते तानि देवताः ॥ ६२ ॥
सर्वदेवमयो विप्रो न तद्वचनम् अन्यथा । इति ।
ब्रह्म वेदः । निरन्तरं तन्निष्ठाः सन्तस् तदर्थं यथावद् ब्रुवाणा ब्राह्मणाः । अतो वेदविद्वचनं देवता अनुमन्यन्ते । तस्य च सर्वदेवमयत्वं श्रूयते ।
यावतीर् वै देवतास् ताः सर्वा वेदविदि ब्राह्मणे वसन्ति । इति ।
अङ्गिरा अपि ।
ब्राह्मणो देवताः सर्वाः स च सर्वस्य दैवतम् ॥ इति ॥ ६२ ॥
[१३६]
“यद् एव विद्यया । । । करोति तद् एव वीर्यवत्तरं भवति” (छुप् १।१।१०) इति श्रुतौ विद्यासंयुक्तं कर्म केवलात् कर्मणः प्रशस्तम् इति श्रुतम् । तेनैव न्यायेन विद्यासंयुक्तं व्रतं केवलाद् व्रतात् प्रशस्तम् इत्य् आह ।
उपवासो व्रतं चैव स्नानं तीर्थं जपस् तपः ॥ ६३ ॥
विप्रसंपादितं यस्य संपूर्णं तस्य तत् फलम् । इति ।
विप्रसंपादितं विप्रैर् अनुज्ञातम् उपवासादिकम् । फलसंपूर्त्तिर् निःशेषेणाशुद्धिर्निवृत्तिः
॥ ६३ ॥
कृम्युपहतस्य देहस्य शुद्धिम् उक्त्वा तादृशस्यैवान्यस्य शुद्धिम् आह ।
अन्नाद्ये कीटसंयुक्ते मक्षिकाकेशदूषिते ॥ ६४ ॥
तदन्तरा स्पृशेच् चापस् तद् अन्नं भस्मना स्पृशेत् ॥
इति।
अत्तुं योग्यम् अद्यम् । अन्नं च तद् अद्यं च अन्नाद्यं पक्वम् अन्नम् । न त्व् आमम् इत्य् अर्थः । तद् यदि भोजनपात्रे भाण्डे वा कीटेन [१३७] मक्षिकया केशेन वा संयुज्यते तदा तत् कीटादिकम् अपनीय तस्यान्नस्याभ्यन्तरे ऽद्भिः संप्रोक्ष्य किंचिद् भस्म प्रक्षिपेत् । मक्षिकादिदूषितत्वं गोघ्रातत्वादीनाम् उपलक्षणम् । अत एव बृहस्पतिः ।
गोघ्राते च क्षुते वान्ते मक्षिकाकेशदूषिते ।
मृद्भस्मसलिलं चैव प्रक्षेप्तव्यं विशुद्धये ॥ इति ।
मनुर् अपि ।
पक्षिजग्धं गवाग्रातम् अवधूतम् अवक्षुतम् ।
दूषितं केशकीटैश् च मृत्क्षेपेण विशुध्यति ॥ इति । (म्ध् ५।१२५)
वस्तावधूननरेणुस्पृष्टम् अवधूतम् । क्षुतोत्पन्नबिन्दुस्पृष्टम् अवक्षुतम् । यत् तु गौतमेनोक्तम्- “नित्यम् अभोज्यं केशकीटावपन्नम्” इति, तत् केशकीटादिभिः सह पक्वविषयम् ॥ ६४ ॥
केशकीटादिदूषितान्नशोधनप्रसङ्गेन बुद्धिस्थं भोजनकालीनं कंचिन् नियमविशेषम् आह ।
भुञ्जानश् चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥ ६५ ॥
स्वम् उच्छिष्टम् असौ भुङ्क्ते पाणिना मुक्तभाजने ।
[१३८] पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितो ऽपि वा ॥ ६६ ॥
श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् । इति ।
वामहस्तेन पादसंस्पर्शे सति स्वोच्छिष्टभोजने यावान् प्रत्यवायः तावान् एव भवति । वामहस्तेन पात्रम् अनालभ्य भोजने ऽपि तावान् एव प्रत्यवायः । पीठे समुपविष्टः पद्भ्यां पादुके आक्रम्य न भुञ्जीत । तथा पर्यङ्के स्थित्वा वोर्ध्वं स्थित्वा वा न भुञ्जीत । भोजनमध्ये श्वादिदर्शने भोजनम् एव परित्यजेत् । पादुकास्थ इत्य् एतावद् भिन्नासनगतादीनाम् अप्य् उपलक्षणम् । अत एव व्यासः ।
न च भिन्नासनगतो न शयानः स्थितो ऽपि वा ।
न पादुकास्थितो वापि न हसन् विलपन्न् अपि ॥ इति ॥ ६५–६६ ॥
“अन्नाद्य” (६।६४) इत्य् अनेन प्रासङ्गिकम् अन्नशोधनम् उक्तम् । इदानीं प्राधान्येन सुद्धिप्रकरणम् एवानुवर्तयितुम् इच्छन् प्रतिजानीते ।
यद् अन्नं प्रतिषिद्धं स्याद् अन्नशुद्धिस् तथैव् च ॥ ६७ ॥
[१३९] यथा पराशरेणोक्तं तथैवाहं वदामि वः । इति ।
यद् अन्नं प्रतिषिद्धं तथैव या चान्नस्य शुद्धिः तत् सर्वं वृद्धपराशरेण पूर्वकल्पीयस्मृतिकर्त्रा यथोक्तं तथा वदामि । तत्र तत्र वचने पराशरपरामर्शस्यायम् अभिप्रायः-
धाता यथापूर्वम् अकल्पयत् । (ऋग्वेदः ८।८।४८।३)
इति,
यथर्ताव् ऋतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्य् एव तथा भावो युगदिषु ॥ (म्ध् १।३०)
इत्यादिश्रुतिस्मृतिभ्यां प्रतिकल्पम् अधिकारिपुरुषाणां मनुवसिष्ठादीनां समानसृष्टिप्रतिभानात् कलियुगधर्मशास्त्राधिकारी पराशरो ऽपि तस्मिंस् तस्मिन् कल्पे सृज्यते । अतो ऽस्मिन्न् अपि कल्पे कलियुगधर्मेषु मदुक्तस्य ग्रन्थस्य प्राधान्यं न विस्मर्तव्यम् इति ॥ ३७ ॥
प्रतिज्ञाते प्रतिषिद्धशुद्धी दर्शयति ।
शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितम् ॥ ६८ ॥
[१४०] केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत् । इति ।
द्रोणाढकशब्दयोर् अर्थं वक्ष्यति । द्रोणेनाढकेन वा परिमितस्य व्रीहियवादिद्रव्यस संबन्धि पक्वम् अन्नं श्वकाकाभ्यां यदि लेहनादिनोपघातितं स्यात् तदा स्वयं शास्त्रज्ञो ऽपि तच्छुधिसिद्धये धर्मज्ञाण् ब्राह्मणान् वाचयितुं केनेदं शुध्यतीति पृच्छेत् ॥ ६८ ॥
ततो धर्मरहस्यविद्ब्राह्मणनिर्दिष्टां शुद्धिं चिकीर्षुस् तद् अन्नं संगृह्णीयात् न तु परित्यजेत् इत्य् आह ।
काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत् ॥ ६९ ॥ इति ।
द्रोणशब्देनाढको ऽप्य् उपलक्ष्यते ॥ ६९ ॥
इदानीं द्रोणाआढकयोः परिमाणम् आह ।_
वेदवेदाङ्गविद्विप्रैर् धर्मशास्त्रानुपालकैः ।
प्रस्था द्वात्रिंशतिर् द्रोणः स्मृतो द्विप्रस्थ आढकः ॥ ७० ॥
इति।
नानादेशीयैर् विद्वद्भिस् तात्कालिकस्वस्वव्यवहारनिर्वाहाय स्वेच्छयैव द्रोणादिपरिमाणानि निर्णीयन्ते । तानि नाशस्त्रीयाणीत्य् अभिप्रेत्य वेदवेदाङ्गेत्यादिना विशेषितम् ॥ ७० ॥
[१४१]
यववराहाधिकरणन्यायेन शास्त्रज्ञप्रसिद्ध एव शास्त्रार्थो ऽत्र ग्रहीतव्यो न तु म्लेच्छप्रसिद्ध इत्य् आह ।
ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः । इति ।
ततस् तस्मात् शास्त्रीयपरिमाणात् परिमितं यत् द्रोणाढकस्यान्नं तद् एवात्र शुद्धम् इति शास्त्रे विवक्षितम् इति श्रुतिस्मृतिकुशला मन्यन्ते ।
ननु – शास्त्र एव द्रोणाढकपरिमाणम् अन्यथाभिहितम् । तथा च भविष्यत्पुराणम् ।
पलद्वयंतु स्मृतं द्विगुणं कुडवं मतम् ।
चतुर्भिः कुडवैः प्रस्थः प्रस्थाश् चत्वार आढकः ॥
आढकैस् तैश् चतुर्भिस् तु द्रोणस् तु कथितो बुधैः ।
कुम्भो द्रोणद्वयं प्रोक्तं खारी द्रोणास् तु षोडश ॥ इति ।
नैष दोषः, देशभेदेन शास्त्रद्वयस्य व्यवस्थापनीयत्वात् ॥
द्रोणाढकशब्दव्यावर्त्त्यम् आह ।
काकश्वानावलीढं तु गवाघ्रातं खरेण वा ॥ ७१ ॥
स्वल्पम् अन्नं त्यजेद् विप्रः शुद्धिर् द्रोष्णाढके भवेत् ।
[१४२] इति । धनिकविषयं द्रोणपरिमाणम् । निर्धनविषयम् आढकपरिमाणम् । तत्र यथायथं द्रोणाढकाच् च स्वल्पम् अन्नं काकादिभिर् अवलीढं चेत् तत् परित्याज्यम् एव । विवक्षिता शुद्धिर् द्रोणाढकविषयेति द्रष्टव्यम् ॥ ७१ ॥
तां शुद्धिं दर्शयति ।
अन्नस्योद्धृत्य तन्मात्रं यच् च लालाहतं भवेत् ॥ ७२ ॥
सुवर्णोदकम् अभ्युक्ष्य हुताशेनैव तापयेत् ।
हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ॥ ७३ ॥
विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् । इति ।
द्रोणाढकपरिमितस्यान्नस्य मध्ये यावति भागे संस्पर्शसंभावना तावन्तं भागम् अपनयेत् । अवशिष्टे ऽपि यावति लालास्पर्शः संभावितः तावद् अपनयेत् । इतरत् सर्वं सुवर्णयुक्तेनोदकेन संप्रोक्ष्ये सकृत् वह्नौ तापयेत् । ताभ्यां सुवर्णोदकवह्निभ्यां संस्कृतं पुनः शुद्धिहेतूनां पवमानसूक्तादीनां घोषेण संस्कृत्य विप्रैर् अनुज्ञातं तद् भुञ्जीत । अत एव बौधायनः- “सिद्धहविषाम् । महतां श्ववायसप्रभृत्युपहतानां तदग्रं पिण्डमात्रम् उद्धृत्य पवमानाः सुवर्जन इत्य् अनेनाभ्युक्षणम् । मधूदके [१४३] पयोविकारे पात्रात् पात्रान्तरानयनेन शौचम् । एवं तैलसर्पिषी” इति (ब्ध् १।६।१४।१४–१६) । जमदग्निर् अपि ।
शृतान्नं द्रोणमात्रस्य श्वकाकाद्युपघातितम् ।
ग्रासम् उद्धृत्याग्नियोगात् प्रोक्षणं तत्र शोधनम् ॥
अन्नम् एकाढकं पक्वं श्वकाकाद्युप्घातितम् ।
केशकीटावपन्नं च तद् अप्य् एवं विशुध्यति ॥
क्रीतस्यापि विनिर्दिष्टं तद्वद् एव मनीषिभिः । इति ।
शातातपो ऽपि ।
केशकीटशुना स्पृष्टं वायसोपहतं च यत् ।
क्लीबाभिशस्तपतितैः सूतिकोदक्यनास्तिकैः ॥
दृष्टं वा स्याद् यद् अन्नं तु तस्य निष्कृतिर् उच्यते ।
अभ्युक्ष्य किंचिद् उद्धृत्य तद् भूञ्जीत विशेषतः ॥
भस्मना वापि संस्पृश्य संस्पृशेद् उल्मुखेन वा ।
सुवर्णरजताभ्यां वा भोज्यं घ्रातम् अजेन च ॥ इति ।
हारीतो ऽपि- “श्वकाकगृध्रोपघाते केशकीटपिपीलिकादिभिर् अन्नाद्युपघाते काञ्चनभस्मरजतताम्रवज्रवैडूर्यगोवालाजिनेभदन्तानाम् [१४४] अन्यतमेनाद्भिः सण्स्पृष्टं मन्त्रप्रोक्षणपर्यग्निकरणादित्यदर्शनात् शुद्धिर् भवति” इति (हार्स्म् २०।४६) ।
॥ ७२–७३ ॥
अन्नस्य शुद्धिम् उक्त्वा रसस्य शुद्धिम् आह ।
स्नेहो वा गोरसो वापि तत्र शुद्धिः कथं भवेत् ॥ ७४ ॥
अल्पं परित्यजेत् तत्र स्नेहस्योत्पवनेन च ।
अनलज्वालया शुद्धिर् गोरसस्य विधीयते ॥ ७५ ॥
इति।
स्नेनस् तैलादिः । गोरसः क्षीरादिः । तत्राल्पं चेत् श्वादिभिर् उपहतं तत् त्याज्यम् एव । अनल्पस्य स्नेहस्य पाकेन शुद्धिः । अनल्पस्य गोरसस्य वह्निज्यालया पर्यग्निकरणेन शुद्धिः । तद् आह लौगाक्षिः ।
पयोदधिविकारादि शुचि पात्रान्तरे स्थितम् ।
प्लावनोत्पवनाभ्यां च पर्यग्निकरणेन च ॥ इति ।
प्लावनं प्रोक्षणम् । शङ्खो ऽपि ।
[१४५] प्लावनं घृततैलानां पावनं गोरसस्य च ।
भाण्डानि प्लावयेद् अद्भिः शाकं मूलफलानि च ॥
सिद्धम् अन्नं तथा सर्पिः क्षीरं च दधि चाम्बु च ।
एषां शुनावलीढानां तेजसा शुद्धिर् इष्यते ॥ इति ।
शातातपस् तु विलीनावलीनभेदेन व्यवस्थितां शुद्धिं दर्शयति ।
तापनं घृततैलानां मधुनो गोरसस्य च ।
तन्मात्रम् उद्धृतं शुध्येत् कठिनं तु पयो दधि ॥
अवलीनं तथा सर्पिर् विलीनं पचनेन तु । इति ।
क्वचित् तु दोषाभावम् आह शङ्खः- “घृतदधिपयस्तक्राणाम् अपवरकभाण्डे स्थितानाम् अदोषः । आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रव्यम् । घृतं तु पायसं क्षीरं तथैवेक्षुरसो गुडः । शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति” इति । यमो ऽपि ।
देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ।
काकैः श्वभिस् तु संस्पृष्टम् अन्नं न तु विसर्जयेत् ॥ इति ॥
देवद्रोणी देवयात्रा । शातातपो ऽपि ।
[१४६] गोकुले यज्ञशालायां तिकचक्रेक्षुयन्त्रणे ।
न मीमांस्यानि शौचानि स्त्रीषु बालातुरेष्व् अपि ॥ इति ।
प्रकीर्णकरणाभिधे मलिनतावहाख्याधरे
वदन्तम् उपपातके ऽप्य् उचितसत्क्रियां निष्कृतिम् ।
रसान्नपरिशुद्धिम् अप्य् अकृतषष्ठमाध्यायम्
अप्य् उदारविवृत्तिं वशी मधुरवाङ्मयो माधवः ॥
इति श्रीपाराशरसंहितायां प्रायश्चित्तकाण्डे षष्हो ऽध्यायः ॥ ६ ॥
इति श्रीमहाराजाधिराजवैदिकमार्गप्रवर्तकपरमेश्वर-श्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां षष्ठो ऽध्यायः ॥ ६ ॥