अथ पञ्चमो ऽध्यायः
यत् समाश्रित्य वाल्मीकप्रमुखाः साम् परं गताः ।
तदाश्रये ऽङ्घ्रिकमलं रामचन्द्रस्य निर्मलम् ॥
इत्थं चतुर्हाध्याये प्रकीर्णकपापानां प्रायश्चित्तम् अभिहितम् । तत्र यद्य् अपि परिवेदनादिकं न प्रकीर्णकम्, उपपातकेषु पठितत्वात् । यद्य् अपि च पुत्रभेदादिकथनं न प्रायश्चित्तरूपं तथापि प्रकीर्णकप्रायश्चित्तस्य बाहुल्यात् अध्यायार्थत्वम् अविरुद्धम् । तत्राध्यायान्ते स्वर्गसाधनम् अनुगमनं वर्णितम् । तेन ब्रह्मलोकसाधनम् आहिताग्निदहनं बुद्धिस्थम् । अतः पञ्चमाध्याये तद्विवक्षुः आदौ प्रायश्चित्तप्रकरण-विच्छेदशङ्काम् अपनुदन् परिशिष्टं प्रकीर्णकप्रायश्चित्तं तावन् नवभिः श्लोकैर् आह ।
वृकश्वानसृगालाद्यैर् दष्टो यस् तु द्विजोत्तमः ।
स्नात्वा जपेत् स गायत्रीं पवित्रां वेदमातरम् ॥ १ ॥
गवां शृङ्गोदकैः स्नानं महानद्योस् तु संगमे ।
समुद्रदर्शनाद् वापि शुना दष्टः शुचिर् भवेत् ॥ २ ॥
वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि ।
[६२] स हिरण्योदकैः स्नात्वा घृतं प्राश्य विशुध्यति ॥ ३ ॥
सव्रतस् तु शुना दष्टो यद् त्रिरात्रम् उपावसेत् ।
घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥ ४ ॥
अव्रतः सव्रतो वापि शुना दष्टो भवेद् द्विजः ।
प्रणिपत्य भवेत् पूतो विप्रैश् चक्षुर् निरीक्षितः ॥ ५ ॥
शुना घ्रातावलीढस्य नखैर् विलिखितस्य च ।
अद्भिः प्रक्षालनं प्रोक्तम् अग्निना चोपचूलनम् ॥ ६ ॥
शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेण वा ।
उदितं ग्रहनक्षत्रं दृष्ट्वा सध्यः शुचिर् भवेत् ॥ ७
कृष्णपक्षे यदा सोमो न दृश्येत कदाचन ।
यां दिशं व्रजते सोमस् तां दिशं वावलोकयेत् ॥ ८ ॥
असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः ।
वृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा शुचिर् भवेत् ॥ ९ ॥
[६३] इति । वृकशुनोर् आरण्यकग्राम्यत्वाद् भेदः । सृगालो जम्बुकः । आदिशब्देन वराहादयो गृह्यन्ते । तैर् दष्टः प्रत्यवायपरिहाराय स्नात्वा गायत्रीं जपेत् । न च – अत्र विधिप्रतिषेधातिक्रमरहितस्य कथं प्रत्यवायः, इति शङ्कनीयम् । श्ववराहादीनां दूरतः परिहर्तव्यत्वेन तत्समीपगमनक्रीडादेर् अतिक्रमरूपत्वेन प्रत्यवायहेतुत्वात् । वेदमातरम् इत्य् अनेन मन्त्रान्तरेभ्यो ऽधिकं पवित्रत्वं दर्शयति । वेदमातृत्वं च “गायत्री छन्दसां माता” इति स्मृतेर् अध्यवसीयते । यद् वा वेदा मतरो यस्याः सा वेदमाता । यद्य् अपि मन्त्रान्तराण्य् अपि वेदजन्यानि तथापि वेदत्रयजन्यत्वम् अस्या विशेषः ।
अत एव मनुः ।
त्रिभ्य एव तु वेदेभ्यः पदं पदम् अदूदुहत् ।
तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ इति । (म्ध् २।७७)
अत्र गायत्रीजपे संख्याविशेष् उशनसा दर्शितः- “दंष्ट्र्यादिदष्टो गायत्र्यष्टशतं प्राणायामशतं वा” इति ॥ १ ॥
एतच् चासमर्थविषयम् समर्थस् तु गोशृङ्गोदकस्नानादिकम् आचरेत् इति । तत्र गोशृङ्गोदकस्नानं नाम गोशृङ्गपूरितेनोदकेन गायत्र्या शतवाराभिमन्त्रितेन सेचनम्,
[६४] “गोशृङ्गेन शतं स्नानं गायत्र्या” इति हारीतस्मरणात् । गोशृङ्गोदकस्नान-नदीसंगमस्नान-समुद्रदर्शनानाम् अधममध्यमोत्तमाङ्गभेदेन वा दंशतारतम्येन वा व्यवस्था द्रष्टव्या ॥ २ ॥
वेदाध्ययनं च प्राजापत्यसौम्याग्नेयवैश्वदेवादिव्रतानि वा समाप्य स्नातो “वेदविद्याव्रतनातः” । स यदि शुना दष्टः तदा हिरण्यम् उदके निधाय तेनोदकेन स्नात्वा घृतं प्राश्य विशुध्यति । तत्रापि ब्राह्मणश् चेत् गायत्रीं शतकृत्वो जपेत् । तद् आह बौधायनः ।
वेदविद्याव्रतस्नातः शुना दष्टस् तु ब्राह्मणः ।
शतपर्यायम् आवर्त्य गायत्रीं शुद्धिम् आप्नुयात् ॥ इति ॥ ३ ॥
चान्द्रायणादिव्रतेन सहितः “सव्रतः” । स यदि शुना दष्टः तदा त्रिरात्रम् उपोष्य चतुर्थे ऽहनि घृतं प्राश्य कुशोदकं च पीत्वा पश्चाद् व्रतशेषं समापयेत् । कुशोदकस्थाने यावकं वा पिबेत् । तद् आह बौधायनः ।
सव्रतस् तु शुना दष्टः त्रिरात्रम् उपवासयेत् ।
सघृतं यावकं पीत्वा व्रतशेषं समापयेत् ॥ इति ॥ ४ ॥
[६५]
सव्रताव्रताव् उभाव् अपि विप्रान् प्रणिपत्य तैर् निरीक्षितौ यथोक्तप्रायश्चित्ताचरणेन पूतौ भवतः ॥ ५ ॥
यस् तु शुना न दष्टः किं तु नासिकया घ्रातः जिह्वया वावलीढः नखैर् वा लिखितः एतत्त्रये ऽपि तं प्रदेशं प्रक्षाल्य वह्निना संताप्य शुद्धा भवेयुः ॥ ६ ॥
यदा ब्राह्मणी श्वादिभिर् दष्टा भवति तदा सा रात्राव् उदितान् ग्रहान् सोमाङ्गारकादीन् नक्षत्राणि च कृत्तिकादीन्य् अवलोक्य शुद्धा भवति ॥ ७ ॥
कृष्णपक्षे मेघच्छन्ने सोमदर्शनासंभवे शास्त्रदृष्ट्या तदवस्थानयोग्यां दिशं वा चक्षुषावलोकयेत् । एतच् चावलोकनं पञ्चगव्यप्राशनस्योपलक्षणम् । अत एव अङ्गिराः ।
ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् ।
यदा न दृश्यते सोमः प्रायश्चित्तं कथं भवेत् ॥
यां दिशं तु गतः सोमस् तां दिशं वावलोकयेत् ।
सोममार्गेण् सा पूता पञ्चगव्येन शुध्यति ॥ इति ।
या तु समुद्रतीरवासिनी तस्याः सोमदर्शनाभावे तद्दिगवलोकनवत् समुद्रदर्शनम् अपि विशुद्धिहेतुः । तद् आह बौधायनः ।
ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् ।
समुद्रदर्शनाद् वापि शुना दष्टा शुचिर् भवेत् ॥ इति ॥ ८ ॥
यस्मिन् ग्रामे ब्राह्मणा न सन्ति तत्र ब्राह्मणप्रणिपातन्रीक्षणयोः [६६] स्थाने वृषप्रदक्षिणनिरीक्षणे । ननु – स्मृत्यन्तरेष्व् अन्यथा प्रायश्चित्तानि दृश्यन्ते । तत्र मनुः ।
श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च ।
नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥ इति । (म्ध् ११।१९९)
याज्ञवल्क्यो ऽपि ।
पुंश्चलीवानरखरैर् दष्टः श्वोष्ट्राहिवयसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ इति । (य्ध् ३।२७७)
हारीतो ऽपि ।
श्वानो वा क्रोष्टुको वापि नारी वा यदि वा नरः ।
आखुर् नकुलमार्जारौ वायसग्रामसूकराः ॥
एतैर् दष्टे द्विजस्याङ्गे प्रायश्चित्तं कथं भवेत् ।
स्नानं कुर्यात् सचैलं तु विप्राणाम् अनुशासनात् ॥
प्रोक्षणीभिस् तृभिर् ऋग्भिः कारयेन् मार्जनं द्विजः ।
प्राणायामत्रयं कुर्यात् दद्यात् गोभ्यस् तृणं नरः ॥
सह द्विजैश् च भुक्तेन शुध्यते नात्र संशयः । इति ।
वसिष्ठो ऽपि ।
ब्राह्मणस् तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति । (वध् २३।३१)
अत्र शङ्खः ।
सृगालवृकगोविप्रैः शुना दष्टस् तथैव च ।
त्रिरात्रं तु व्रतं कुर्यात् पुंश्चलीदशनक्षतः ॥ इति ।
हारीतो ऽपि- “शुना दष्टस् त्र्यहं यावकाहारः समुद्रगां नदीं गत्वा प्राणायामशतं कृत्वा घृतं प्राश्य शुचिर् भवति” इति (हार्स्म् २३।११) । अङ्गिरा अपि ।
ब्रह्मचारी शुना दष्टस् त्र्यहं सायं पयः पिबेत् ।
गृहस्थस् तु द्विरात्रं वाप्य् एकाहं वाग्निहोत्रवान् ॥
नाभेर् ऊर्ध्वं तु दष्टस्य तद् एव द्विगुणं भवेत् ।
स्याद् एतत् त्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥
[६८] अव्रती सव्रती वापि शुना दष्टस् तथा द्विजः ।
दृष्ट्वाग्निं हूयमानं तु सद्य एव शुचिर् भवेत् ॥ इति ।
पैठिनसिर् अपि- “शुना दष्टस् त्रिरात्रम् उपवसेत् द्विजश् च । ब्राह्मणस् तु शुना दष्टो गायत्र्यष्टसहस्राभिमन्त्रितं कृत्वोल्मुखेन दहेच् चतुर्भिः कलशैः स्नातः शुध्यति । नदीसंगमे वा । बालस्यातुरस्य वा तत्र पिता मनसा ध्यायन् सर्वकार्याणि कुर्वीत । पितुरभावे सत्य् आचार्यः” इति । पुलस्त्यो ऽपि ।
रजस्वला यदा दष्टा शुना जम्बुकरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
ऊर्ध्वं तु द्विगुणं नाभेर् वक्त्रे तु त्रिगुणं तथा ।
चतुर्गुणं स्मृतं मूर्ध्नि दष्टे ऽन्यत्राप्लुतिर् भवेत् ॥ इति ।
जातूकर्ण्यो ऽपि ।
[६९] ब्राह्मणी क्षत्रिया वैश्या शुना च श्वापदैर् अपि ।
दष्टा सचैलम् आप्लुत्य शुध्यतीति न संशयः ॥ इति ।
एतेषु वचनेषु यत्र यत्र प्रायश्चित्तबाहुल्यं तत्र तत्रोत्तमाङ्गविषयत्वं दंशतारतम्यविषयत्वं चोहनीयम् । ब्रह्मचारिगृहस्थाग्निहोत्रिषु उत्तरोत्तरं तपोबाहुल्यात् प्रायश्चित्तह्रासः ॥ १–९ ॥
अथ दुर्मृतस्याहिताग्नेर् दहने प्रायश्चित्तम् आह ।
चण्डालेन श्वपाकेन गोभिर् विप्रैर् हतो यदि ।
आहिताग्निर् मृतो विप्रो विषेणात्महतो यदि ॥ १० ॥
दहेत् तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् ।
स्पृष्ट्वा वोढ्वा च दग्ध्वा च सपिण्डेषु च सर्वथा ॥ ११ ॥
प्राजापत्यं चरेत् पश्चात् विप्राणाम् अनुशासनात् । इति ।
ब्राह्मण्यां शूद्राज् जातश् चण्डाल इत्य् अभिधीयते । तद् आह याज्ञवल्क्यः ।
ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा।
शूद्राज् जातस् तु चण्डालः सर्वकर्मबहिष्कृतः ॥ (य्ध् १।९३)
[७०] इति । क्षत्तुर् उग्रायां जातः श्वपाकः । तथा च मनुः ।
क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते । इति । (म्ध् १०।१९)
हतो दण्डशस्त्रादिना प्रहतः । मृतः प्राणैर् वियुक्तः । आत्महतः स्वयम् एव विषं पीत्वा मृतः । तम् आहिताग्निं मृतं ब्राह्मणं सपिण्डेषु प्रत्यासन्नो विप्रो मन्त्रवर्जितं दहेत् । तत्र स्पर्शनं दहनं वहनं वा यः करोति स विप्रैर् अनुज्ञातः स्पर्शनादिदोषपरिहाराय प्राजापत्यं कृच्छ्रम् आचरेत् । लोकाग्नाव् इत्य् अनेन गार्हपत्यादीनां व्यावृत्तिः । यद्य् अप्य् अतीतस्य चतुर्थाध्यायस्यादौ दुर्मृतवहनादिप्रायश्चित्तम् उक्तं तथापि तस्य सामान्यरूपत्वाद् अनाहिताग्निविषयत्वेनाप्य् उपपत्तेः । आहिताग्निविषयस्य तु इहैवोपवर्णनम् उचितम् । वक्ष्यमाणतत्संस्कारं प्रति उपोद्घातरूपत्वात् ॥ १०–११ ॥
प्राजापत्यचरणानन्तरं शास्त्रीयसंस्कारः कर्तव्य इत्य् आह ।
दघास्थीनि पुनर् गृह्य क्षीरैः प्रक्षालयेद् द्विजः ॥ १२ ॥
पुनर् दहेत् स्वागिना तु स्वतन्त्रेण पृथक् पृथक् ॥
इति।
उक्तरीत्या लौकिकाग्नौ यानि दग्धान्य् अस्थीनि [७१] तानि पुनः संगृह्य क्षीरप्रक्षालनपूर्वकं गार्हपत्याद्यग्निभिः कल्पोक्तप्रकारेण दहेत् । एतच् च हारीतेन दर्शितम् ।
ब्राह्मणाद् वधसंप्राप्तौ चण्डालस्य करे ऽथ वा ।
आत्मना शस्त्रघाते वा शूद्रवत् दाहयेत् द्विजम् ॥
प्राजापत्यं चरेत् पश्चात् सपिण्डेष्व् एव सप्तमात् ।
तद्भस्मास्थि गृहीत्वैव विप्राणाम् अनुशासनात् ॥
क्षीरप्रक्षालनं कुर्यात् तदस्थि प्रेतवद् दहेत् ।
पुनर्दहनमन्त्रैश् च यथाविधि समाचरेत् ॥
एवम् एव विधिं कुर्यात् मरणे गर्हितस्य च ॥ इति ॥ १२ ॥
इदानीं प्रोषितस्याहिताग्नेः संस्कारं “आहिताग्निर् द्विजः” इत्य् आरभ्य “तथा कार्यं विचक्षणैः” इत्यन्तेन ग्रन्थजातेन दर्शयति ।_
आहिताग्निर् द्विजः कश्चित् प्रवसन् कालचोदितः ॥ १३ ॥
देहनाशम् अनुप्राप्तस् तस्याग्निर् वसते गृहे ।
प्रेताग्निहोत्रसंस्कारः श्रूयताम् ऋषिपुङ्गवाः ॥ १४ ॥
कृष्णाजिनं समास्तीर्य कुशैस् तु पुरुषाकृतिं ।
षट्शतानि शतं चैव पलाशानां च वृन्ततः ॥ १५ ॥
चत्वारिंशत् शिरे दद्याच् छतं कण्ठे तु विन्यसेत् ।
[७२]** बाहुभ्यां शतकं दद्याद् अङ्गुलीषु दशैव तु ॥ १६ ॥**
शतं तु जघने दद्याद् द्विशतं तूदरे तथा ।
दद्याद् अष्टौ वृषणयोः पञ्च मेढ्रे तु विन्यसेत् ॥ १७ ॥
एकविंशतिम् ऊरुभ्यां द्विशतं जानुजङ्घयोः ।
पादाङ्गुलीषु षड् दद्याद् यज्ञपात्रं ततो न्यसेत् ॥ १८ ॥
शम्यां शिश्ने विनिःक्षिप्य अरणीं मुष्कयोर् अपि ।
जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत् ॥ १९ ॥
कर्णे चोलूखलं दद्याद् पृष्ठे च मुसलं न्यसेत् ।
उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान् मुखे ॥ २० ॥
श्रोत्रे च प्रोक्षणीं दद्याद् आज्यस्थालीं तु चक्षुषोः ।
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ॥ २१ ॥
[७३] अग्निहोत्रोपकरणम् अशेषं तत्र निःक्षिपेत् ।
असौ स्वर्गाय लोकाय स्वाहेत्य् एकाहुतिं सकृत् ॥ २२ ॥
दद्यात् पुत्रो ऽथ वा भ्राताप्य् अन्यो वापि च बान्धवाः ।
यथा दहनसंस्कारस् तथा कार्यं विचक्षणैः ॥ २३ ॥
इति।
यदा प्रोषित आहिताग्निर् देशान्तरे म्रियते अग्निश् च स्वगृहे वसति तदानीम् आस्त्रीर्णे कृष्णाजिने पलाशवृन्तैः देहाकृतिं कुशबद्धां निर्माय तदवयवेषु यज्ञपात्राणि निःक्षिप्य “असौ स्वर्गाय लोकाय स्वाहा” इत्य् एकाम् आज्याहुतिं जुहुयात् । यत्र द्रव्यानिर्देशेन होमस् तत्राज्यम् एव होमद्रव्यम् । ततः कल्पोक्तप्रकारेण कृत्स्नं संस्कारं समापयेत् ।
ननु – अन्यथा पलाशवृन्तानां संख्या स्मृत्यन्तरे श्रूयते । तत्र हारीतः ।
देशान्तरगते विप्रे विपन्ने कालपर्ययात् ।
शरीरनाशे कल्पः स्याद् आहिताग्नेर् विशेषतः ॥
कृष्णाजिनं समास्तीर्य पुरुषाकृतिम् एव च ।
त्रीणि षष्ठिशतं वृन्तान् पालाशांस् तु समाहितः ॥
अशीत्यर्धं शिरे दद्याद् ग्रीवायां दश एव च ।
बाहुभ्यां तु शतं दद्याद् अङ्गुल्योर् दश एव च ॥
उरसि त्रिंशतं दद्यात् जठरे विंशतिस् तथा ।
[७४] अष्टौ वृषणयोर् दद्यात् पञ्च मेढ्रे तु कल्पयेत् ॥
ऊरुभ्यां तु शतं दद्यात् द्विशतं जानुजङ्घयोः ।
पादाङ्गुल्योर् दशैव स्याद् एतत् प्रेतस्य कल्पनम् ॥ इति ।
बाढम् । अत्र व्यवस्थापकहेतोर् अभावाद् विकल्पो द्रष्टव्यः । स चैच्छिकः ॥ १३–२३ ॥
आहिताग्निसंस्कारस्य फलम् अन्वयव्यतिरेकाभ्यां विशदयति ।
ईदृशं तु विधिं कुर्यात् ब्रह्मलोकगतिः स्मृता ।
दहन्ति ये द्विजास् तं तु ये यान्ति परमां गतिम् ॥ २४ ॥
अन्यथा कुर्वते कर्म त्व् आत्मबुद्ध्या प्रचोदिताः ।
भवन्त्य् अल्पायुषस् ते वै पतन्ति नरके ऽशुचौ ॥ २५ ॥
इति।
तत्र संस्कार्यस्याहिताग्नेः ब्रह्मलोकप्राप्तिः । संस्कर्तुर् यथोक्तकारिणः परमा गतिः । अयथोक्तकारिणः पण्डितंमन्यस्य नरकप्राप्तिः ॥ २४–२५ ॥
प्रकटयति विभक्तं यः प्रकीर्णावशेषं
समधिकपरिबर्हं संस्कृतिं चाहिताग्नेः ।
प्रकृतिगहनम् एतं पञ्चमाध्यायम् एवं
विशदम् अयम् अकार्षीत् व्याख्यया माधवार्यः ॥ १ ॥
**इति श्रीमहाराजाधिराजवैदिकमार्गप्रवर्त्तिक-परमेश्वरश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरव्याख्यायां **
पञ्चमो ऽध्यायः ॥ ५ ॥
[७७]