०४

प्रायश्चित्त काण्ड

अथ चतुर्थो ऽध्यायः

वागीशाद्याः सुमनसः सरार्थानाम् उपक्रमे ।
यं नत्वा कृतकृत्याः स्युस् तं नमामि गजाननम् ॥ १ ॥
सो ऽहं प्राप्य विवेकतीर्थपदवीम् आम्नायतीर्थे परम्
मज्जन् सज्जनतीर्थसङ्गनिपुणः सद्वृत्ततीर्थं श्रयन् ।
लब्धाम् आकलयन् प्रभावलहरीं श्रीभारतीतीर्थतो
विद्यातीर्थम् उपाश्रयन् हृदि भजे श्रीकण्ठम् अव्याहतम् ॥ २ ॥
सत्यैकव्रतपालको द्विगुणधीस् त्र्यर्थी चतुर्वेदिता
पञ्चस्कन्धकृती षडन्वयदृढः सप्ताङ्गसर्वंसहः ।
अष्टव्यक्तिकलाधरो नवनिधिः पुष्यद्दशप्रत्ययः
स्मार्तोच्छ्रायधुरन्धरो विजयते श्रीबुक्कणक्ष्मापतिः ॥ ३ ॥
इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर्
[२] दौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर् गौतमिः ।
प्रत्यग्दृष्टिर् अरुन्धतीसहचरो रामस्य पुण्यात्मनो
यद्वत् तस्य विभोर् अभूत् कुलगुरुर् मन्त्री तथा माधवः ॥ ४ ॥
प्रज्ञामूलमही विवेकसलिलैः सिक्ता बलोपघ्निका
मन्त्रैः पल्लविता विशालविटपा सन्ध्यादिभिः षड्गुणैः ।
शक्त्या कोरकिता यशःसुरभिता सिद्ध्या समुद्यत्फला
संप्राप्ता भुवि भाति नीतिलतिका सर्वोत्तरं माधवम् ॥ ५ ॥
श्रीमती जननी यस्य सुकीर्तिर् मायणः पिता ।
सायणो भोगनाथश् च मनोबुद्धिसहोदरौ ॥ ६ ॥
यस्य बौधायनं सूत्रं शाखा यस्य च याजुषी ।
भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ ७ ॥
स माधवः सकलपुराणसंहिताप्रवर्तकः स्मृतिसुषमा पराशरः ।
पराशरस्मृतिजगदीहिताप्तये पराशरस्मृतिविवृतौ प्रवर्तते ॥ ८ ॥

[३] श्रीपराशरेण आचारकाण्डरूपेणातीतेनाध्यायत्रयेण विधिनिषेधौ दर्शितौ ।

अथेदानीं तदुल्लङ्घननिमित्तपातित्यपरिहारोपायप्रतिपादकं प्रायश्चित्तकाण्डम् आरभ्यते । प्रायश्चित्तशब्दश् च रूढ्या योगेन च पापनिवर्तनक्षमं धर्मविशेषम् आचष्टे । प्रायश्चित्तशब्दश् चायं पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढः – इत्य् आहुः संप्रदायविदो निबन्धनकारादयः । योगस् त्व् अङ्गिरा दर्शितः ।

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात् प्रायश्चित्तं तद् उच्यते ॥
प्रायशश् च समं चित्तं चारयित्वा प्रदीयते ।
पर्षदा कार्यते यत् तु प्रायश्चित्तम् इति स्मृतम् ॥ इति ।

अनुष्ठितेन द्वादशवार्षिकव्रतादिनावश्यं पापं निवर्तेते – इति विश्वासो निश्चयः । तेन संयुक्तं व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तम् । पापिनो ऽनुतापिनश् चित्तं व्याकुलं सत् विषमं भवति । तच् च पर्षदा येन व्रतानुष्ठानेन प्रायशो ऽवश्यं समं कार्यते तद् व्रतं प्रायश्चित्तम् । चित्तसमीकरणोपपादनं “चारयित्वा प्रदीयते” इति । व्रतं चारयित्वा चित्तवैषम्यनिमित्तं पापं प्रदीयते खण्ड्यते विनाश्यते – इत्य् अर्थः । यद् वा [४] परिषद्य् उपविष्टानां सर्वेषां चित्तं यथा समं भवति तथा चारयित्वैकमत्येन विचार्य प्रदीयते विधीयते कार्यते अनुष्ठाप्यते – इत्य् अर्थः ।

अत्रेदं चिन्त्यते – किम् इदं प्रायश्चित्तं नित्यम्, उत नैमित्तिकम्, अथ वा काम्यम् इति ।

अत्र केचिद् आहुः “प्रायश्चित्तैर् अपैत्येनः” इत्यादिस्मृतिषु पापक्षयस्य फलत्वेनावगमात् कामुकस्याधिकारात् काम्यम् । यथा वृष्ट्यादिफलकामस्य कारीर्यादि ।

अन्ये मन्यन्ते – पापं निमित्तीकृत्य विधानान् नैमित्तिकम् । यथा गृहदाहं निमित्तीकृत्य प्रवृत्ता क्षामवतीष्टिः ।

अपरे त्व् आहुः – अकरणे प्रत्यवायदर्शनान् नित्यम् । यथा संध्यावन्दनादि । अकरणे प्रत्यवायश् च मनुना दर्शितः ।

चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥ इति । (म्ध् ११।५३)

अनिष्कृतैनस इति छेदः । याज्ञवल्क्येनापि ।

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥
तामिस्रं लोहशङ्कुं च महानिरयशाल्मली ।
[५] रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रिकम् ॥
सङ्घातं लोहितोदं च सविषं संप्रतापनम् ।
महानरककाकोलं संजीवनमहापथम् ॥
अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव तापनं चैकविंशकम् ॥
महापातकजैर् घोरैर् उपपातकजैस् तथा ।
अन्विता यान्त्य् अचरितप्रायश्चित्ता नराधमाः ॥ इति । (म्ध् ३।२२१–२५)

अत्रोच्यते – नैमित्तिकम् एवेदं भवितुम् अर्हति । निमित्तम् एव प्राधान्येनोपजीव्य सर्वप्रायश्चित्तविधानात् । तदुपजीवनं च “ब्रह्महा द्वादशाब्दानि” (य्ध् ३।२४३) [६] इत्यादिषु स्मृतिषु विस्पष्टम् । यत् तु फलश्रवणं तत् जातेष्टिन्यायेन नैमित्तिकत्वे ऽप्य् अविरुद्धम् । तस्यापि फलस्य नियोज्यविशेषत्वेनाश्रवणात् न काम्यत्वम् । न हि “ब्रह्महा द्वादशाब्दानि” इत्यादिषु फलं नियोज्यविशेषणतया श्रुतम् । अतो न प्रायश्चित्तस्य कारीर्यादिभिः साम्यम् । नाप्य् एतन् नित्यम्, तल्लक्षणाभावात् । न ह्य् उदाहृतानि वचनानि प्रायश्चित्ताकरणे नूतनं किंचिद् दुरितापूर्वं जन्यते इति ब्रुवते । किं तर्हि प्रायश्चित्तम् अकुर्वतो ऽवश्यं निषिद्धाचरणेषु प्रवृत्तिर् भवतीति एतावन्मात्रं प्रतिपादयन्ति । एतच् च “पापेषु निरता नराः” (य्ध् ३।२२१) इत्य् अत्र विस्पष्टम् अवगम्यते ।

ननु – नैमित्तिकानाम् अप्य् अकरणे प्रत्यवायो ऽस्ति । तथा च महाभारतम् ।

सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस् तु तत् श्राद्धं पङ्के गौर् इव सीदति ॥ इति ।

वृद्धवसिष्ठो ऽपि ।

ग्रहणे संक्रमे वापि न स्नायाद् यदि मानवः ।
सप्तजन्मनि कुष्ठी स्याद् दुःखभागी न जायते ॥

[७] इति । एवं तर्हि यत्र जीवनम् अधिकारिविशेषणं तन् नित्यम् । यथा “यावज्जीवम् अग्निहोत्रं जुहुयात्” इति । प्रायश्चित्ते तु न जीवनम् अधिकारिविशेषणम् । अपि त्व् अन्यद् एव विहिताकरणादिनिमित्तम् अधिकारिविशेषणम् । तस्मात् नैमित्तिकं प्रायश्चित्तम् । तथा च बृहस्पतिः प्रायश्चित्तप्रकरणस्योपक्रमोपसंहारयोः नैमित्तिकत्वं दर्शयति ।

नैमित्तिकं धर्मजातं गदतो मे निबोधत ।
विहितस्याननुष्ठानात् प्रतिषिद्धनिषेवणात् ॥
प्रायश्चित्तं यत् क्रियते तन् नैमित्तिकम् उच्यते ॥

इत्य् उपक्रम्य,

नैमित्तिकं समाख्यातं प्रायश्चित्तं समासतः ।

इत्य् उपसंहारश् च । तच् च निमित्तं दुरितापूर्वम् । तदुत्पत्तिकारणं याज्ञवल्क्येन दर्शितम् ।

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् ।
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ इति । (य्ध् ३।२१९)

मनुनापि ।

अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसज्जंश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ (म्ध् ११।४४)

[८]

ननु – निन्दितसेवनाद् भावरूपाद् दुरितोत्पत्ताव् अपि विहिताकरणाद् अभावात् कथं दुरितोत्पत्तिः । न ह्य् अभावाद् भाव उत्पद्यमानः क्वचिद् दृष्टः ।

अत्र केचिद् आहुः – संध्यावन्दनादिविहिताननुष्ठानम् अग्निहोत्राद्यनधिकाररूपाशुचित्वद्योतकम् । अयम् एवारः “अकुर्वन् प्रत्यवैति” इत्य् अनेनाभिधीयते । न त्व् अनुष्ठानाभावाद् भावरूपस्य दुरितस्योत्पत्तिर् अभिधीयते । न चानधिकारः प्रायश्चित्तेन निवर्तनीयः – इति ।

अपरे पुनर् आहुः – “अकुर्वन्” इति लक्षणार्थे शतृप्रत्ययः । यद् एतद् विहिताकरणं तद् एतत् प्राग्भवीयनिषिद्धाचरणजन्यदुरितापूर्वसद्भावस्य लिङ्गम् । तद् एव दुरितं प्रायश्चित्तेन निवर्तते इति ।

अन्ये त्व् एवं समादधते – अभावाद् भावो नोत्पद्यते इति नायम् एकान्तः, तार्किकमते प्रागभावस्य कारणत्वात् । तार्किकमते प्रागभावस्य कारणत्वात् । मीमांसकमते – भाट्टैस् तावद् अभावाद् भावोत्पत्तिर् अभ्युपगता । योग्यानुपलब्धिलक्षणाद् अभावात् प्रमाणाद् घटाद्यभावविषयप्रमितेर् भावरूपाया जननात् । प्राभाकरैश् चाभावो भाव एवाभ्युपगम्यते –

[९] भावान्तरम् अभावो हि कयाचित् तु व्यपेक्षया ।

इत्य् उदीरणात् । तथा च सति विहिताकरणम् अपि भावान्तरम् इति कृत्वा तस्मात् प्रत्यवाय उत्पद्यतां का तव हानिः ।

अथोच्येत – प्रत्यवायो नाम दुरितापूर्वम् । तच् च कृतिसाध्यत्वे सति कृत्युद्देश्यम् । तथा च विहिताकरणस्य कृतिरूपत्वाभावाद् अपूर्वजनकत्वं नास्तीति । नायं दोषः । तस्य लक्षणस्य विहितप्रतिषिद्धकर्मजन्यापूर्वविषयत्वेन सङ्कोचनीयत्वात् । अन्यथोपेक्षालस्याभ्याम् अकृतिरूपाभ्यां दुरितापुर्वानुत्पादप्रसङ्गात् । उपेक्षाजन्यं च दुरितापूर्वं स्कन्दपुराणे दर्शितम् ।

नाभिरक्षन्ति ये शक्ता दीनं चातुरम् आश्रितम् ।
आर्त्तं न चानुकम्पन्ते ते वै निरयगामिनः ॥ इति ।

आलस्यजन्यं चापमृत्युनिमित्तं दुरितापूर्वं मनुना प्रदर्शितम् ।

अनभ्यासाच् च वेदानाम् आचारस्य च लङ्घनात् ।
आलस्या अन्नदोषाच् च मृत्युर् विप्रान् जिघांसति ॥ इति ।

अथ कथंचित् तत्र कृतिः संपाद्येत तर्ह्य् अत्रापि विहितोल्लङ्घनलक्षणा कृतिर् अस्तु । एवं च सति बहूनि स्मृतिवचनान्य् अकरणे प्रत्यवायपराणि स्वारस्येनार्थवन्ति भविष्यन्ति । ईश्वरवादिनां तु विहिताकरणस्याज्ञोल्लङ्घनरूपत्वात् कृतिरूपत्वं विस्पष्टम् । अत एव स्मर्यते ।

श्रुतिस्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्वेषी न स भक्तो न वैष्णवः ॥

[१०] इति । सर्वथा विहितम् अकुर्वतः प्रायश्चित्तनिमित्तं दुरितापूर्वम् अस्त्य् एव । निन्दितसेवने त्व् अविवादं दुरित्यापूर्वम् ।

ननु – “अनिग्रहाच् चेन्द्रियाणाम्” (य्ध् ३।२१९) इति पृथगुपादानम् अयुक्तम् । विहिताकरणान् निन्दितसेवनाच् चान्यस्य तृतीयस्य दुरितहेतोर् अभावात् ।

मैवम्, अस्योभयात्मकत्वेन तृतीयत्वोपपत्तेः । तथा हि,

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । (म्ध् ४।१६)

इति इन्द्रियप्रसक्तेर् निन्दितत्वं शाब्दम् । स्नातकव्रतप्रकरणमध्ये पाठात् प्रसक्तिप्रतिषेधसंकल्पस्य तत्र विधेयत्वेनावगमात् विहितत्वम्। आर्थिकम् । तथा च अनिग्रहस्योभयोल्लङ्घनरूपत्वात् तृतीयनिमित्तत्वेन पृथगुपादानम् । तद् एवं विहिताकरणादिनिमित्तवन्तं प्रति चोदनान् नैमित्तिकं प्रायश्चित्तम् ।

ननु – गौतमस्मृताव् अस्य काम्यत्वं प्रतीयते । फलभावाभावाव् उपजीव्य पूर्वोत्तरपक्षाभ्यां तस्य कर्तव्यत्वनिर्णयात् । तद्वचनं च-

उक्तो वर्णधर्मश् चाश्रमधर्मश् च । अथ खल्व् अयं पुरुषो याप्येन कर्मणा लिप्यते यथैतद् अयाज्ययाजनम् अभक्ष्यभक्षणम् अवन्द्यवन्दनं शिष्टस्याक्रिया प्रतिषिद्धसेवनम् इति । तत्र प्रायश्चित्तं कुर्यात्, [११] न कुर्यात् इति मीमांसन्ते । न कुर्याद् इत्य् आहुः, न हि कर्म क्षीयते इति । कुर्याद् इत्य् अपरे । पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयन्तीति विज्ञायते । व्रात्यस्तोमेनेष्ट्वा तरति सर्वं पाप्मानम् । तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते ।
इति । (ग्ध् १९।१–१०)

अयम् अर्थः – याप्यं गर्हितम् अयाज्ययाजनादि, तत्कृतस्य लेपस्य निवर्तयितुम् अशक्यत्वात् । तन्निवृत्तये प्रायश्चित्तं न कर्तव्यम् । न हि कृतं कर्म भोगम् अन्तरेण क्षपयितुं शक्यते । अत एव स्मृत्यन्तरम् ।

नाभुक्तं क्षीयन्ते कर्म कल्पकोटिशतैर् अपि ।
अवश्यम् अनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥ इति ।

शङ्खो ऽपि ।

यथा पृथिव्यां बीजानि रत्नानि निधयो यथा ।
एवम् आत्मनि कर्माणि निष्ठन्ति प्रभवन्ति च ॥ इति । (शङ्स्म् १७।६३)

यद्य् अन्तरेणापि भोगं दुरितलेपः क्षीयेत तदा सुकृतलेपो ऽपि क्षीयेतेत्य् अतिप्रसङ्गः । तस्मात् प्रायश्चित्तं न कर्तव्यम् इति पूर्वपक्षिणः आहुः ।

[१२] कुर्याद् एव प्रायश्चित्तम् इति प्रामाणिकानां दर्शनम् । ते हि श्रुतिम् उदाहरन्ति- “पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयन्ति” इति । अयाज्यजाजनादिभिर् नित्यकर्माधिकाराद् भ्रष्टा ऐकाहिकेनेष्ट्वा सवनत्रयसाध्यं कर्म पुनः प्राप्नुवन्ति तत्राधिक्रियन्ते इति यावत् । “नाभुक्तं क्षीयते कर्म” इत्य् अकृतप्रायश्चित्तदुरितविषयं सुकृतविषयं च । तथा च स्मृत्यन्तरम् ।

कदाचित् सुकृतं कर्म कूटस्थम् इव तिष्ठति ।
मज्जमानस्य संसारे यावत् तस्माद् विमुच्यते ॥ इति ।

यदि “नाभुक्तम्” इति शास्त्रम् असङ्कोचेन निरङ्कुशं प्रवर्तेत तदा पापक्षयप्रतिपादिकाः सर्वाः श्रुतः स्मृतयश् च कुप्येरन् । तस्मात् पापक्षयाय प्रायश्चित्तं कर्तव्यम् इति सिद्धान्ताभिधानात् प्रायश्चित्तं काम्यम्, न तु नैमित्तिकम् इति । नैष दोषः, जातेष्टिदृष्टान्तेन दत्तोत्तरत्वात्, अन्यथा पूर्वोदहृतबृहस्पतिवचनविरोधात् ।

ननु – नैमित्तिकत्वे ग्रहणस्नानस्येव प्रायश्चित्तस्याकरणे दुरितान्तरम् उत्पद्येत, ततस् तस्यापि प्रायश्चित्तान्तरम्, तस्याप्य् अकरणे दुरितान्तरं प्रायश्चित्तान्तरम् इत्य् एवम् अनवस्था दुरवस्था स्यात् ।

[१३]

अत्र केचिद् आहुः – प्रायश्चित्तानि न केवलं नैमित्तिकानि, किं तु दुरितक्ष्यार्थान्य् अपि । अत एव आपस्तम्बः प्रायश्चित्तानि प्रक्रम्य “दोषनिर्घातार्थानि भवन्ति स्म” (आप्ध् १।८।२३।३) इत्य् उक्त्वा, अनन्तरम् “दोषात् कर्तव्यानि” (आप्ध् १।८।२३।४) इत्य् आह स्म । एवं च सति प्रायश्चित्ताकरणे दोषनिर्घाताभावेन पूर्वसिद्धदोषस् तदवस्थ इत्य् एतावन्मात्रं न तु दोषानरम् उत्पद्यते – इति । यद् वा ग्रहणस्नानाद्यकरणम् इव प्रायश्चित्ताकरणं निमित्तीकृत्य प्रायश्चित्तान्तरविधानस्यादर्शनात् तन्निमित्तदुरितान्तरं न कल्पयितुं शक्यम् । तस्मात् नैमित्तिकत्वे ऽपि नानवस्था ।

ननु – दोषानिर्घातो ऽपि नैकान्तिकः । तथा हि, द्विविधं पापम् । कामकृतम् अकामकृतं च । तथा च बृहस्पतिः ।

कामाकामकृतं तेषां महापापं द्विधा स्मृतम् । इति ।

तयोर् अकामकृतस्य प्रायश्चित्तेन निर्घाते ऽपि न कामकृतस्य सो ऽस्ति । तथा च मनुः ।

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ (म्ध् ११।८९)

[१४] इति । बौधायनो ऽपि ।

अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः ।
ऋषयो निष्कृतिं तस्य वदन्त्य् अमतिपूर्वके ॥
मतिपूर्वं हते तस्मिन् निष्कृतिर् नोपलभ्यते ॥ इति । (ब्ध् २।१।६)

नायं दोषः । द्वादशाब्दादिना निष्कृत्यभावे ऽपि भृगुपतनादिना तत्संभवात् । तथा च स्मर्यते ।

यः कामतो नरः कुर्यान् महापापं कथंचन ।
न तस्य निष्कृतिर् दृष्टा भृग्वग्निपतनाद् ऋते ॥ इति ।

शातातपो ऽपि- “अकामावाप्तौ प्रायश्चित्तम् । कामकारकृते त्व् आत्मानम् अवसादयेत्” इति । अतः प्रायश्चित्तेन दोषनिर्घातो नानैकान्तिकः । तस्मान् निर्हर्तव्यदोषाख्यनिमित्तवान् अत्र प्रायश्चित्ते ऽधिक्रियते – इति सिद्धम् । ते च दोषा अनेकविधाः । तत्र विष्णुः-

अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति । तेनायं समाक्रान्तो ऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्तते । जातिभ्रंशकरेषु संकरीकरणेषु अपात्रीकरणेषु [१५] मलावहेषु प्रकीर्णकेषु च । मातृगमनं दुहितृगमनं स्नुषागमनम् इत्य् अतिपातकानि । ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनम् इति महापातकानि । तत्संयोगश् च । यागस्थस्य क्षत्रियस्य वैश्यस्य च वधो रजस्वलायाश् चान्तर्वत्न्याश् चात्रिगोत्राया अविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि । कूटसाक्ष्यं सुहृद्वधः इत्य् एतौ सुरापानसमौ । ब्राह्मणभूम्यपहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुल-श्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम् । पितृष्वसृमातृष्वसृगमनं गुरुदारगमनसमम् । पितृष्वसृमातृश्वसृगमनं च । श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च । स्वसुःसख्याः सगोत्राया उत्तमवर्णायाः कुमार्या रजस्वलायाः शरणागतायाः प्रव्रजिताया निक्षिप्तायाश् च ।
अनुपातकिनस् त्व् एते महापातकिनो यथा । (विध् ३३।१ — ३६।७)

[१६] इति । मनुर् अपि ।

गोवधो ऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः ।
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥
परिवित्तिता चानुजेन परिवेदनम् एव च ।
तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ॥
कन्याया दुषणं चैव वार्धुषित्वं व्रतच्युतिः ।
तटाकारामदाराणाम् अपत्यस्य च विक्रयः ॥
व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च ।
भृताच् चाध्ययनादानम् अपण्यानां च विक्रयः ॥
सर्वाकरेष्व् अधीकारो महायन्त्रप्रवर्तनम् ।
हिंसौषधीनां स्त्र्याजीवो ऽभिचारो मूलकर्म च ॥
इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् ।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥
[१७] अनाहिताग्निता स्तैन्यम् ऋणानां चानपक्रिया ।
असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।
स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥
ब्राह्मणस्य रुजःकृत्या घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥
खराश्वोष्ट्रमृगेभानाम् अजाविकवधस् तथा ।
संकरीकरणं ज्ञेयं मीनाहिसहिषस्य च ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥
कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधः कुसुमस्तेयम् अधैर्यं च मलावहम् ॥ इति । (म्ध् ११।५९–७०)

जातूकर्ण्यो ऽपि ।

स्कन्दितं व्रतिना रेतो येन स्यात् ब्रह्मचारिणा ।
कामतो ऽकामतः प्राहुर् अवकीर्णीति तं बुधाः ॥ इति ।

अवशिष्टं सर्वं प्रकीर्णकशब्दवाच्यम् । तथा च विष्णुः- “यद् अनुक्तं तत् प्रकीर्णकम्” (विध् ४२।१) [१८] इति । तत्रायम् आचार्य इदं प्रायश्चित्तकाण्डं प्रकीर्णकैर् उपक्रम्य महापातकातिपातकैर् उपसञ्जिहीर्षति । पूर्वाध्यायावसाने आशौचप्रसङ्गेन प्रकीर्णकस्यैव बुद्धिस्थत्वात् । अत्रोद्बन्धनमृतानुगमनाग्निदानादेस् तप्तकृच्छ्रं प्रायश्चित्तं विधित्सुस् (?) तदनुगमनादिकं निन्दितुम् आदाव् उद्बन्धनमरणस्यातिकष्टत्वं प्रतिजाजीते ।

अतिमानाद् अतिक्रोधात् स्नेहाद् वा यदि वा भयात् ।
उद्बध्नीयात् स्त्री पुमान् वा गतिर् एषा विधीयते ॥ १ ॥

मातृभार्याद्यधिक्षेपादिजन्या मानहानिर् अतिमानः । पुत्रमित्रादिष्व् ईषत्प्रतिकूलेषु सत्स्व् अपराधाल्पत्वम् अपरामृश्य क्रियमाणो वेगाविष्टो महान् कोपो ऽतिक्रोधः ।


[२०] उदकम् उदकदानम् । अग्निम् अगिनिदानम् । अश्रुपातं चेति चकारेण शववहनादिकं समुच्चिनोति । न कारयेत् न कुर्याद् इत्य् अर्थः । ब्रह्मपुराणे ऽपि, “शस्त्रम् उद्बन्धनं जलम्” इत्याद्य् अनुक्रम्य, “पतितास् ते प्रकीर्तिताः” इत्य् अभिधायानन्तरम् इदम् उक्तम्-

पतितानां न दाहः स्यान् नान्त्येष्टिर् नास्थिसंचयः ।
न चाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं क्वचित् ॥ इति ।

शातातपो ऽपि ।

वृद्धः शौचस्मृतेर् लुप्तः प्रत्याख्यातभिषक्रियः ।
आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनादिभिः ॥
तस्य त्रिरात्रम् आशौचं द्वितीय त्व् अस्थिसंचयः ।
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धम् आचरेत् ॥ इति ।

अत्र याज्ञवल्क्यः ।

पाषण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ इति । (य्ध् ३।६)

ब्रह्मपुराणे ।

शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रियाजलैः ।
[२१] सुदूरात् परिहर्तव्यैः कुर्वन् क्रीडां मृतस् तु यः ।
नागानां विप्रियं कुर्वन् दग्धश् चाप्य् अथ विद्युता ॥
विगृहीतश् च यो राज्ञा चौर्यदोषेण कुत्रचित् ।
परदारान् हरन्तश् च रोषात् तत्पतिभिर् हताः ॥
असमानैश् च संकीर्णैश् चण्डालाद्यैश् च विग्रहम् ।
कृत्वा तैर् निहतास् तद्वत् चण्डालादीन् समाश्रिताः ॥
क्रोधात् प्रायं विषं वह्निं शस्त्रम् उद्बन्धनं जलम् ।
गिरिवृक्षप्रपातं च ये कुर्वन्ति नराधमाः ॥
कुसीदजीविनो ये ऽपि ये चालंकारवर्जिताः ।
मुखेभगाश् च ये केचित् क्लीबप्राया नपुंसकाः ॥
ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर् हताः ।
महापातकिनो ये च पतितास् ते प्रकीर्तिताः ॥
पतितानां न दाहः स्यान् नान्त्येष्टिर् नास्थिसंचयः ।
न चाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं क्वचित् ॥
एतानि पतितानां तु यः करोति विमोहितः ।
तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर् न चान्यथा ॥ इति ।

विष्णुपुराणे ।

भार्यापुत्रविहीनाश् च ह्य् अग्निसंस्कारवर्जिताः ॥
पक्षिणः प्रेतरूपेण ह्य् अन्तरिक्षे प्रलम्बिताः ।
अग्निना भृगुपातेन ह्य् उद्बन्धेन जलेन वा ॥
दन्तिभिः शृङ्गिभिर् वापि विषेण गरलेन वा ।
चोरान्त्यजातिचण्डालै रणे वापि हताश् च ये ॥
[२२] श्राद्धकर्मविहीनाश् च लुप्तपिण्डोदकक्रियाः ।
तेषाम् उद्धरणार्थाय प्रायश्चित्तं विधीयते ॥ इति ।

अपरार्के ।

मृगभक्षै रणे चैव दावाग्नौ प्रहृतं यदि ।
शूले ऽप्य् अर्धं कबन्धस्य मरणं पापकर्मणाम् ॥
दृष्टच्छेदं समादाय पुनः संस्कारम् आचरेत् ।
विद्युदग्निपयःपन्थाचण्डालब्राह्मणैर् हतः ॥
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मणाम् ।
आत्मानं घातयेद् यस् तु विषाग्निजलबन्धनैः ॥
तस्य पापविशुद्ध्यर्थं प्राजापत्यत्रयं चरेत् ।
एकद्वित्रिचतुःपञ्चषडब्दं पर्यवस्यति ॥
एतत् संवत्सराद् ऊर्ध्वं प्रायश्चित्तं विधीयते ।
षण्मासाद् द्विगुणं प्रोक्तं त्रिमासात् त्रिगुणं भवेत् ॥
चतुर्गुणं त्रिपक्षे तु सद्यः पञ्चगुणं भवेत् ।
चण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ॥
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मणाम् ।
उदकं पिण्डदानं च प्रेतेभ्यो यत् प्रदीयते ॥
नोपतिष्ठति तत् सर्वम् अन्तरिक्षे विनश्यति ।
ब्राह्मणेन वधे पाशे चण्डालस्य करेण वा ॥
आत्मनाशः सनिर्घाते शूद्रवद् दाहयेत् द्विजम् ।
भस्मास्थीनि गृहीत्वा तु विप्राणाम् अनुशासनात् ॥
[२३] क्षीरप्रक्षालनं कृत्वा पुनः संस्कारम् आचरेत् ।
यदि कश्चित् प्रमासेन म्रियेताग्न्युदकादिभिः ॥
तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ।
चण्डालाशनिशस्त्राहिदंष्ट्रिशृङ्ग्यम्बुरज्जुभिः ॥
वृक्षाश्मविषविप्रैश् च मृतानाम् आत्मघातिनाम् ।
नारायणबलिः कार्यो दुर्मरणेन मृतस्य च ॥
जीवतो यद् व्रतं प्रोक्तं मृते तद्द्विगुणं भवेत् ।
अस्थिनि त्रिगुणं प्रोक्तं पालाशे तु चतुर्गुणम् ॥ इति ।

इदानीं दुर्मृतानाण् वहनादौ प्रायश्चित्तं विदधाति ।_

वोढारो ऽग्निप्रदातारः पाशच्छेदकरास् तथा ॥ ३ ॥
तप्तकृच्छेणे शुध्द्यन्तीत्य् एवम् आह प्रजापतिः ।

तथाशब्देनाशुचोदकदानादिकर्तॄन् समुच्चिनोति । तप्तकृच्छ्रलक्षणम् वक्ष्यते । यत् तु ब्रह्मपुराणे ऽभिहितम्,

एतानि पतितानां तु यः करोति विमोहितः ।
तप्तकृछ्रद्वयेनैव तस्य शुद्धिर् न चान्यथा ॥ इति ।

एतानि दाहादीनि, तेषां तत्र प्रकृतत्वात् । तत् कमकारविषयम्,

विहितं यद् अकमानां कामात् तु द्विगुणं भवेत् ।

[२४] इति स्मरणात् । यच् च बृहस्पतिनोक्तम्,

विषोद्बन्धनशस्त्रेण यस् त्व् आत्मानं प्रमापयेत् ।
मृतो मेध्येन लेप्तव्यो नान्यं संस्कारम् अर्हति ॥
पाशच्छेत्ता तु यस् तस्य वोढा वाग्निप्रदस् तथा ।
सो ऽतिकृच्छ्रेण शुध्येत् तु पिण्डदो वा नराधमः ॥

इति, यच् च यमेनोक्तम्,

गोब्राह्मणहतं दग्ध्वा मृतम् उद्बन्धनेन च ।
पाशाञ् छित्वा तथा तस्य कृच्छ्रं सान्तपनं चरेत् ॥ (यम्स्म् १।५)

इति, तद् उभयम् अशक्तविषयम्, देशकालवयःशक्त्यादीनां प्रायश्चित्ततारतम्यहेतुत्वात् । तथा च व्याघ्रः ।

देशं कालं वयः शक्तिं ज्ञानं बुद्धिकृतं तथा ।
अबुद्धिकृतम् अभ्यासं ज्ञात्वा निष्करणं वदेत् ॥ इति ।

शक्त्यादितारतम्यवन् निमित्ततारतम्यम् अपि प्रायश्चित्ततारतम्यकारणम् । अत एव प्रजापतिः स्पर्शाद्यल्पनिमित्ते स्वल्पं प्रायश्चित्तम् आह ।

तच् छवं केवलं स्पृष्ट्वा पातयित्वाश्रु वा तथा ।
एकरात्रं तु नाश्नीयात् त्रिरात्रं बुद्धिपूर्वकम् ॥ इति ।

एवं निमित्तभूयस्त्वे प्रायश्चित्तभूयस्त्वम् । अत एवाशेषाः प्रेतक्रियाः कुर्वतो ऽधिकं प्रायश्चित्तम् आह वसिष्ठः ।

[२५] य आत्मत्यागिनां कुर्यात् स्नेहात् प्रेतक्रियां द्विजः ।
स तप्तकृच्छ्रसहितं चरेच् चान्द्रायणं व्रतम् ॥ इति । (वध् २३।१६)

प्रजापतिग्रहणम् उक्तार्थे बुद्धिदाऋढ्यार्थम् । ततो विरोधिवचनानां विषयव्यवस्था द्रष्टव्येत्य् उक्तं भवति । सा चास्माभिः प्रदर्शिता ॥ ३ ॥

उद्बन्धनन्यायं गोहतादिष्व् अतिदिशति ।_

गोभिर् हतं तथोद्बद्धं ब्राह्मणेन तु घातितम् ॥ ४ ॥
संस्पृशन्ति तु ये विप्रा वोढारश् चाग्निदाश् च ये ।
अन्ये ये वानुगन्तारः पाशच्छेदकराश् च ये ॥ ५ ॥
तप्तकृच्छ्रेण शुद्धास् ते कुर्युर् ब्राह्मणभोजनम् ।
अनडुत्सहितां गां च दद्युर् विप्राय दक्षिणाम् ॥ ६ ॥

अत्राततायितया गोभिः क्रीडन् यदि हतस् तदानीम् एतद् द्रष्टव्यम् । प्रामादिकमरणे पातित्याभावात् । एतच् चाशौचप्रकरणे ऽस्माभिर् उपवर्णितम् । पूर्वत्रोद्बन्धनविषये तप्तकृच्छ्रमात्रम् उक्तम् । इह तु ब्राह्मणभोजनादिकम् अधिकम् उच्यते इति नाशङ्कनीयम्, परकर्तृकोद्बन्धनस्यात्र विवक्षितत्वात्, गोहतब्राह्मणहतयोर् मध्ये पाठात् । न च – परकर्तृकोद्बन्धने प्रायश्चित्ताल्पत्वम् इति वाच्यम् । परकर्तृकोद्बन्धनप्रसक्तिं ज्ञात्वा प्रवृत्तस्याततायिनो ऽत्र विवक्षितत्वात् । गोमिथुनदक्षिणां च्यवनो ऽप्य् आह- [२६] “आत्मघातकस्-पर्शनदहनवहनेषु तप्तकृच्छ्रं चरेत् । वृषगावौ दक्षिणा ब्राह्मणेषु” इति ॥ ४–६ ॥

तप्तकृच्छ्रस्वरूपम् आह ।

त्र्यहम् उष्णं पिबेद् वारि त्र्यहम् उष्णं पयः पिबेत् ।
त्र्यहं पिबेत् सर्पिर् वायुभक्षो दिनत्रयम् ॥ ७ ॥
षट्पलं तु पिबेद् अम्बस् त्रिपलं तु पयः पिबेत् ।
पलम् एकं पिबेत् सर्पिस् तप्तकृच्छ्रं विधीयते ॥ ८ ॥

इति।

वायुभक्षणम् उपवासः । तप्तशब्देन शीतकृच्छ्रो व्यावर्त्यते । तत्स्वरूपं च यमेनोक्तम् ।

त्र्यहम् उष्णं पिबेद् अम्भस् त्र्यहम् उष्णं घृतं पिबेत् ।
त्र्यहम् उष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥
तप्तकृच्छ्रं विजानीयात् शीतैः शीतम् उदाहृतम् ॥ इति । (यम्स्म् १।१२–१३)

यत् तु याज्ञवल्क्येनोक्तम्,

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥ (य्ध् ३।३१८)

इति, तत् तप्तकृच्छ्रस्यावान्तरभेदविवक्षयोपपद्यते । यथा [२७] सान्तपनं महासान्तपनम् इति द्वैविध्यं तथा तप्तकृच्छ्रं महातप्तकृच्छ्रम् इति द्वैविध्यं द्रष्टव्यम् । पलशब्देन सुवर्णचतुष्टयम् उच्यते, “पलं सुवर्णाश् चत्वारः” (य्ध् १।३६३) इति याज्ञवल्क्यवचनात् । [उक्तं च-

पञ्च गुञ्जात्मको माषो निष्को मासाष्टनिर्मितः ।
दशनिष्कात्मकं प्रोक्तं पलमानं बुधैः सदा ॥ इति]

एतादृशैः पलैः षड्भिः संमतम् अम्भः पिबेत् ॥ ७–८ ॥

पतितसंसर्गप्रायश्चित्तं विधातुं तत्संसर्गस्य निन्दितत्वं दर्शयति ।

यो वै समाचरेद् विप्रः पतितादिष्व् अकामतः ।
पञ्चाहं वा दशाहं वा द्वादशाहम् अथापि वा ॥ ९ ॥
मासार्धं मासम् एकं वा मासद्वयम् अथापि वा ।
अब्दार्धम् अब्दम् एकं वा तदूर्ध्वं चैव तत्समः ॥ १० ॥ इति ॥

अत्र विप्रग्रहणं क्षत्रियादेर् उपलक्षणम्, मनुष्यमात्रस्य तत्संसर्गस्य निन्दितत्वात् । तथा च मनुः ।

यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ इति । (म्ध् ११।१८१)

[२८] “समाचरणं” सहयानासनादि । तथा च कण्वः ।

आसनाच् छयनाद् यानात् संलापात् सहभोजनात् ।
संक्रमन्तीह पापानि तैलबिन्दुर् इवाम्भसि ॥
संवत्सरेण पतति पतितेन समाचरन् ।
यानासनादिभिर् नित्यम् इत्य् आहुर् ब्रह्मवादिनः ॥ इति ।

याजनादौ तु सद्यः पतति । तथा च बौधायनः ।

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनात् सद्यो ऽन्नशयनासनात् ॥ इति । (ब्ध् २।१।२।३५)

बृहस्पतिर् अपि बहुविधं समाचरणं निषेधति ।

एकशय्यासनं पङ्क्तिर् भाण्डं पक्त्यन्नमिश्रणम् ।
याजनाध्यापने योनिस् तथा च सहभोजनम् ॥
नवधा संकरः प्रोक्तो न कर्तव्यो ऽधमैः सह ॥ इति ।

देवलो ऽपि ।

संलापस्पर्शनिश्वासात् सहशय्यासनाशनात् ।
याजनाध्यापनाद् यौनात् पापं संक्रमते नृणाम् ॥ इति ।

एतच् च पूर्वस्मिन् युगे । अत्र तु मूलवचनोक्तम् द्रष्टव्यम्, [२९] याजनादेर् वक्ष्यमानत्वात् । संसर्गश् चात्र याजनादिर् ग्राह्यः । पतितादिष्वित्यादिशब्देन तत्पुत्रादयो गृह्यन्ते, “पतितोत्पन्नः पतितो भवति” (वध् १३।५१) इति वसिष्ठेन तन्निन्दनात् । विधित्सितस्य प्रायश्चित्तस्याल्पत्वं ज्ञापयितुम् अकामत इत्य् उक्तम् । कामतः संसर्गे तु विशेषः स्मृत्यन्तरे ऽभिहितः ।

पञ्चाहे तु चरेत् कृच्छ्रं दशाहे तप्तकृच्छ्रकम् ।
पराकस् त्व् अर्धमासे स्यान् मासं चान्द्रायणं चरेत् ॥
मासत्रये तु कुर्वीत कृच्छ्रं चान्द्रायणोत्तरम् ।
षाण्मासिके तु संसर्गे कृच्छ्रं त्व् अब्दार्धम् आचरेत् ॥
संसर्गे चाब्दिके कुर्याद् अब्दं चान्द्रायणोत्तरम् ॥ इति ।

पृथक् पृथग् व्यवस्थितप्रायश्चित्तविधित्सया पञ्चाहाद्यनेकपक्षोपन्यासः । “तदूर्ध्वं चैव तत्समः” इत्य् अभिधानात् पूर्वत्र तत्साम्याभावे ऽपि ततो ऽर्वाचीनं पापं कालतारतम्येन भवति इत्य् अवगम्यते । यः समाचरेत् स पापी भवति इत्य् अध्याहृत्य निन्दा योजनीया ॥ ९–१० ॥

इदानीं कालतारतम्येन पूर्वोक्तेष्व् अष्टसु पक्षेषु यथाक्रमं प्रायश्चित्तं विदधाति ।_

त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रम् आचरेत् ।
तृतीये चैव पक्षे तु कृच्छ्रं सान्तपनं चरेत् ॥ ११ ॥
चतुर्थे दशरात्रं स्यात् पराकः पञ्चमे मतः ।
कुर्याच् चान्द्रायणं षष्ठे सप्तमे त्व् ऐन्दवद्वयम् ॥ १२ ॥

[३०] शुद्ध्यर्थम् अष्टमे चैव षण्मासान् कृच्छ्रम् आचरेत् ।

पक्षसंख्याप्रमाणेन सुवर्णान्य् अपि दक्षिणा ॥ १३ ॥

इति।

प्रथमः पक्षः पञ्चाहसंसर्गः । तत्र त्रिरात्रसंज्ञकं कृच्छ्रम् आचरेत् । त्रिरात्रकृच्छ्रो नाम त्रिरात्रोपवासः । तथा च विष्णुः- “अथ कृच्छ्राणि भवन्ति । त्र्यहं नाश्नीयात्” इति (विस्म् ४६।१–२) । द्वितीयपक्षो दशाहसंसर्गः । तत्र प्राजाप्त्यम् आचरेत् । न च मूलवचने प्राजापत्याख्यः कृच्छ्रविशेषो न श्रूयते इति शङ्कनीयम् । स्मृतिशास्त्रेषु निरुपपदस्य कृच्छ्रशब्दस्य प्राजापत्य एव प्राचुर्येण प्रयोगात्, “कृच्छ्रम् इति प्राजापत्यम्” इति देवलस्मरणाच् च । प्राजापत्यस्वरूपं मनुर् आह ।

त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।
त्र्यहं परं तु नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ इति । (म्ध् ११।२११)

तृतीयपक्षो द्वादशाहसंसर्गः । तत्र सान्तपनं कृच्छ्रम् आचरेत् । सान्तपनं चतुर्विधम् । द्विरात्रं पञ्चदशरात्रम् एकविंशतिरात्रं चेति । तत्र द्विरात्रसप्तरात्रयोः स्वरूपम् आह याज्ञवल्क्यः ।

[३१] गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परे ऽह्न्य् उपवसेत् कृच्छ्रं सान्तपनं चरन् ॥
पृथक् सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रो ऽयं महासान्तपनः स्मृतः ॥ इति । (य्ध् ३।३१५–१६)

यमेनापि पञ्चदशाहसाध्यो महासान्तपनो ऽभिहितः ।

त्र्यहं पिबेत् तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस् ततः शुचिः ॥
महासान्तपनं ह्य् एतत् सर्वपापप्रणाशनम् ॥ इति ।

जाबालेन त्व् एकविंशतिरात्रनिर्वर्त्यो महासान्तपनो ऽभिहितः ।

षण्णाम् एकैकम् एतेषां त्रिरात्रम् उपयोजयेत् ।
त्र्यहं चोपवसेद् अन्ते महासान्तपनं विदुः ॥ इति ।

एतेषां मध्ये न तावद् अत्र द्विरात्रं गृहीतुं शक्यम्, तस्य द्वितीयपक्षोक्तात् प्राजापत्यात् न्यूनत्वात् । नापि पञ्चदशरात्रैकविंशतिरात्रयोर् ग्रहणम्, तयोश् चतुर्थपक्षोक्तदशरात्रोपवासाद् अधिकत्वात् । तस्मात् सप्तरात्रं परिशिष्यते । न च तस्य द्वादशाहसाध्यात् प्राज्पत्याद् अर्वाचीनत्वं शङ्कनीयम् । प्राजापत्ये हि त्रिष्व् एव दिनेष्व् अशनवर्जनम् । अत्र तु सप्तस्व् अपि दिनेष्व् अशनवर्जनम्, अतो ऽधिकत्वात् । एवम् एव तृतीयपक्षे प्रायश्चित्तम् । अर्धमाससंसर्गः चतुर्थपक्षः । तत्र दशरात्रोपवासम् आचरेत् । [३२] यद्य् अप्य् अत्रोपवसेद् इति न श्रुतं तथापि वक्ष्यमाणपराककृच्छ्रसाहचर्तात् तल् लभ्यते । माससंसर्गः पञ्चमः पक्षः । तत्र पराकः कृच्छ्रः कर्तव्यत्वेन संमतः । पराकस्वरूपं दर्शयति मनुः ।

यतात्मनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।
पराको नाम कृच्छ्रो ऽयं सर्वपापप्रणाशनः ॥ इति । (म्ध् ११।२१५)

मासद्वयसंसर्गः षष्ठः पक्षः । तत्र चान्द्रायणं कुर्यात् । चान्द्रायणलक्षणं स्वयम् एवोत्तरत्र वक्ष्यति । षण्माससंसर्गः सप्तमः पक्षः । तत्रैन्दवद्वयं कुर्यात्, ऐन्दवं चान्द्रायणम् इन्दुवृद्धिह्रासोपेतत्वात् । किंचिदूनसंवत्सरसंसर्गो ऽष्टमः पक्षः । यद्य् अपि किंचिदूनत्वं न श्रुतं तथापि संपूर्णसंवत्सरसंसर्गस्य पातित्यहेतुत्वात् किंचिदूनत्वं कल्प्यते । तच् च पातित्यहेतुत्वं याज्ञवल्क्येन दर्शितम्-

संवत्सरेण पतति पतितेन समाचरन् । इति । (=म्ध् ११।१८०)

तत्राष्टमे पक्षे षण्मासान् कृच्छ्रम् आचरेत् । षण्मासान् इत्य् अत्यन्तसंयोगे द्वितीयया कृच्छ्रैर् अन्तर्यं विवक्षितम् । तथा च सति षट्सु मासेषु प्राजापत्यकृच्छ्राः पञ्चदश संपद्यन्ते । शुद्ध्यर्थम् इति सर्वेषु वाक्येष्व् अनुषज्यते । सर्वेष्व् एतेषु पक्षेषु यथोक्तं प्रायश्चित्तम् अनुष्ठाय तदङ्गत्वेन दक्षिणा दातव्या । तत्र पञ्चरात्रसंसर्गे प्रथमपक्षे सुवर्णम् एकम्, दशरात्रसंसर्गे द्वितीयपक्षे सुवर्णद्वयम्, एवम् इतरेष्व् अपि पक्षेष्व् अवगन्तव्यम् ॥ ११–१३ ॥

[३३]

इत्थं पतितसंसर्गे प्रकीर्णके निमित्तानुसारेण प्रायश्चित्ततारतम्यं व्युत्पादितम् । इदानीम् अनयैव दिशा निमित्तानुसारेण प्रायश्चित्तम् उन्नेतुं शक्यम् इति हृदि निधाय ऋतुस्नातेत्य् आरभ्य यस् तु धर्मपराङ्मुखः इत्यन्तेन प्रायश्चित्तनिमित्तान्य् एवोपन्यस्यति ।_

ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति ।
सा मृता नरकं याति विधवा च पुनः पुनः ॥ १४ ॥
ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ १५ ॥
दरिद्रं व्याधितं मूर्खं भर्तारं यावमन्यते ।
सा शुनी जायते मृत्वा सूकरी च पुनः पुनः ॥ १६ ॥
पत्यौ जीवति या नारी उपोष्य व्रतम् आचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ १७ ॥
अपृष्ट्वा चैव भर्तारं या नारी कुरुते व्रतम् ।

[३४] सर्वं तद् राक्षसान् गच्छेद् इत्य् एवम् मनुर् अब्रवीत् ॥ १८ ॥

बान्धवानां सजातीनां दुर्वृत्तं कुरुते तु या ।
गर्भपातं च या कुर्यान् न तां संभाषयेत् क्वचित् ॥ १९ ॥
यत् पापं ब्रह्महत्यायां द्विगुणं गर्भपातने ।
प्रायश्चित्तं न तस्याः स्यात् तस्यास् त्यागो विधीयते ॥ २० ॥
न कार्यम् आवसथ्येन नाग्निहोत्रेण वा पुनः ।
स भवेत् कर्मचाण्डालो यस् तु धर्मपराङ्मुखः ॥ २१ ॥

इति।

रजोदर्शनम् आरभ्य षोडशदिनान्य् ऋतुः । तत्र चतुर्थदिवसे स्नाता नारी पुत्रोत्पादनार्थम् आहूता सती यदि भर्तारं नोपसर्पति तदा नरकम् अनुभूय पश्चाद् बहुषु जन्मसु विधवा भवति भर्त्राहूताया अनुपसर्पणे दोषो नारदीयपुराणे दर्शितः ।

आहूता या तु वै भर्त्रा न प्रयाति त्वरान्विता ।
सा ध्वाङ्क्षी जायते ऽपुत्री दश जन्मानि पञ्च च ॥ इति ।

यथा वध्वा ऋतुकालातिक्रमे प्रत्यवायस् तथा पुरुषस्यापि ऋतुस्नाताम् अनुपगच्छतः प्रत्यवायः । संनिधिशब्दस् त्व् अत्रारोग्यादेर् उपलक्षकः । अत एव देवलः ।

यः स्वदारान् ऋतुस्नातान् स्वस्थः सन् नोपगच्छति ।
भ्रूणहत्याम् अवाप्नोति प्रजां प्राप्तां विनाश्य सः ॥ इति ।

अत्र चोन्नेयं यत् प्रायश्चित्तं तद् बृहस्पतिर् दर्शयति ।

[३५] ऋतौ न गच्छेद् यो भार्यां सो ऽपि कृच्छ्रार्धम् आचरेत् । इति ।

बौधायनो ऽपि ।

ऋतौ न गच्छेद् यो भार्यां नियतां धर्मचारिणीम् ।
नियमातिक्रमे तस्य प्राणायमशतं स्मृतम् ॥ इति । (ब्ध् ४।१।२१)

न चात्र प्रायश्चित्तद्वयस्य समविकल्पः शङ्कनीयः । प्राणायामशतस्य अर्धकृच्छ्रप्रत्याम्नायत्वेनानुकल्पत्वात् । अत एव प्राणायामशतद्वयं कृच्छ्रप्रत्याम्नायत्वेन चतुर्विंशतिमते दर्शितम् ।

कृच्छ्रो देययुतं चैव प्राणायामशतद्वयम् ।
तिलहोमसहस्रं तु वेदाध्ययनम् एव च ॥ इति ।

पुरुषं प्रति उक्तस्य प्रायश्चित्तस्यार्धं स्त्रियं प्रति उन्नेयम् । तथा च भृगुः ।

अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो व्याधित एव च ॥ इति ।

न केवलम् ऋत्वतिक्रमे स्त्रियाः प्रत्यवायः किं तु दारिद्यादिना येन केनापि निमित्तेन पत्युर् अवमाने ऽपि महान् प्रत्यवायः । तथा च ब्रह्माण्डपुराणम् ।

कामाद् रोषान् मत्सराद् वा भर्तारं यावमन्यते ।
सा सप्तजन्मकं यावत् नरके स्यान् न संशयः ॥

[३६] इति । अवमानश् च पुरुषान्तरगमनवित्तवञ्चनादिः । एतद् एवाभिप्रेत्य मनुर् आह ।

अपत्यलोभाद् या तु स्त्री भर्तारम् अतिलङ्घयेत् ।
सेह निन्दाम् अवप्नोति परलोकाच् च हीयते ॥
व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
सृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥
पतिं हित्वापकृष्टं स्वम् उत्कृष्टं योपसेवते ।
निद्यैव लोके भवति परपूर्वेति चोच्यते ॥ इति । (म्ध् ५।१६१–६५)

नारदीये ऽपि ।

जीवितेनाथ वित्तेन भर्तारं वञ्चयेत् तु या ।
कृमियोनिशतं गत्वा चाण्डाली जायते तु सा ॥ इति ।

अत्रोन्नेयं प्रायश्चित्तम् आपस्तम्बो दर्शयति- “भर्तुर् व्यतिक्रमे कृच्छ्रम्” इति (आप्ध् १।१०।२८।२०) । उशनापि- “व्यभिचारिणीं भार्यां कुचैलपरिभूतां पिण्डमात्रोपजीविनीं निवृत्ताधिकारां चान्द्रायणं प्राजापत्यं वा चारयेत्” इति । अवमानाभावे ऽपि पतिशुश्रूषाम् उपेक्ष्य व्रतोपवासादिपरायाः [३७] स्त्रियाः प्रत्यवायो ऽस्ति । एतद् एवाभिप्रेत्य व्रतोपवासादीनां स्त्रियं प्रति श्रेयोहेतुत्वं निषधत्य् अत्रिः ।

न व्रतेनोपवासेन धर्मेण विविधेन च ।
नारी स्वर्गम् अवाप्नोति प्राप्नोति पतिपूजनात् ॥ इति ।

महाभारते ऽपि पतिशुश्रूषापराया भार्याया उत्तमां गतिम् उक्त्वा व्रतादिपराया अन्यस्या भार्यायास् तदभावं ज्ञापयितुम् इदम् उदाहृतम् ।

तां यमो लोकपालस् तु बभाषे पुष्कलं वचः ।
मा शुचिस् त्वं निवर्तस्व न लोकाः सन्ति ते ऽनघे ॥
स्वधर्मविमुखा नित्यं कान् कोकान् त्वं गमिष्यसि ।
दैवतं हि पतिः स्त्रीणां स्थापितः सर्वदेवतैः ॥
मोहेन त्वं वरारोहे न जानीषे स्वदैवतम् ।
पतिमत्याः स्त्रिया लोके धर्मः पत्यर्चनं त्व् इति ॥ इति ।

यदा स्त्री पतिशुश्रूषानुरोधेन व्रतादिकं विकीर्षति तदापि पतिम् अपृष्ट्वानुष्ठितं तद् व्रतं निष्फलं भवति । तद् आह मार्कण्डेयः ।

नारी खल्व् अननुज्ञाता भर्त्रा पित्रा सुतेन वा ।
निष्फलं तु भवेत् तस्या यत् करोति व्रतादिकम् ॥ इति ।

अत एव मनुः सर्वत्र स्त्रियाः स्वातन्त्र्यं निषेधति ।

बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं कार्यं किंचिद् गृहेष्व् अपि ॥ (म्ध् ५।१४७)

[३८] इति । तथा च पुराणे ।

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रः स्थविरभावे तु न स्त्री स्वातन्त्र्यम् अर्हति ॥ इति । (=म्ध् ९।३)

अपृष्ट्वेत्य् अभिधानाद् अनुज्ञापुरःसरम् अनुष्ठितस्य व्रतादेः साफल्यम् अवगम्यते । तच् च शङ्ख-लिखिताभ्यां दर्शितम्- “न भर्तारं द्विष्याद् यद्य् अप्य् अशीलः स्यात् । पतितो ऽर्थहीनो व्याधितो वापि पतिर् दैवतं स्त्रीणाम् । न व्रतोपवासनियमेज्यादानं दमो वानुग्रहकरः स्त्रीणाम् अन्यत्र पतिशुश्रूषायाः । कामं तु भर्तुर् अनुज्ञया व्रतोपवासनियमादीनाम् अभ्यासः स्त्रीधर्मः” इति । कात्यायनो ऽपि ।

भार्या भर्तुर् मतेनैव व्रतादीन् आचरेत् सदा । इति ।

या तु नारी बान्धवानाम् असपिण्डानां सजातीनां सपिण्डानां दुर्वृत्तं विद्वेषं कुरुते या च गर्भं पातयेत् ते उभे पातकबाहुल्यान् न संभाषणीये । एतद् एवाभिप्रेत्य बन्धुद्वेषः सङ्ख-लिखिताभ्यां निषिद्धः- “न बन्धून् द्विष्यात्” इति । अत्र च विद्वेषो विषप्रयोगाभिचारादिपर्यन्तो विवक्षितः । [३९] अन्यथा स्वल्पस्य द्वेषस्य गर्भपातासाम्येनासंभाषणहेतुत्वासंभवात् । यद्य् अपि बन्धुवधगर्भपातनयोर् असंभाषणहेतुत्वं समानं तथापि गर्भपाते पापद्वैगुण्येन प्रायश्चित्तं नास्ति अतस् तस्यास् त्याग एव ।

ननु – प्रायश्चित्ताभावो ऽनुपपन्नः । मनुना ब्रह्महत्याव्रतस्य तत्रोपदिष्टत्वात्,

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् । इति । (म्ध् ११।८७)

अविज्ञातं स्त्रीत्वपुंस्त्वाभ्याम् अनिश्चितम् । विज्ञाते तु गर्भे स्त्रीपुरुषवधयोर् यथाविहितं द्रष्टव्यम् – अतः कथम् उच्यते प्रायश्चित्तं नास्तीति ।

नायं दोषः, पातनीयगर्भगतगुणानुगुणाभ्यां व्यवस्थोपपत्तेः । हननीयब्राह्मणगतगुणागुनाभ्यां प्रायश्चित्ततारतम्यस्य दर्शनात् । तथा च याज्ञवल्क्यः ब्रह्मघ्नव्रतम् उक्त्वा दीक्षितघ्ने द्वैगुण्यम् आह ।

द्विगुणं स्वनस्थे तु ब्राह्मणे व्रतम् आदिशेत् । इति । (य्ध् ३।२५२)

यद्य् अपि दीक्षितादीक्षितयोर् इव गर्भयोर् गुणागुणौ नोपपद्येते तथापि पितृगतगुणागुनाभ्यां तौ कल्पनीयौ । तस्मात् प्रायश्चित्तविषयाणि वचनानि गर्भमात्रवधविषयाणि । इदं प्रायश्चित्ताभाववचनं संभावितगुणवद्गर्भविषयम् । यद् वा पापद्वैगुण्येन प्रायश्चित्ताभावोक्तिस् तस्यास् त्यागविधिशेषार्थ्वाद इति न कश्चिद् विरोधः । तथा च विशिष्टगर्भपातने पापद्वैगुण्याद् व्रतद्वैगुण्यम् उन्नेयम् इति भावः ।

[४०] यस् तु वेदे विश्वासरहितो वेदोक्तात् धर्मात् पराङ्मुखस् तं नानुतिष्ठति स जन्मना ब्राह्मणो ऽपि कर्मणा चाण्डालो भवेत् । तस्य धर्मपराङ्मुखत्वं तदीयोक्तिरूपेण पूर्वार्धेन द्योत्यते । आवसथ्यः पञ्चमो ऽग्निः । तेन च गार्हपत्याद्यग्निपञ्चकम् उपलक्ष्यते । न चाग्निपञ्चकेन वा तत्साध्येनाग्निहोत्रादिना वा किंचित् फलम् अस्ति । ऐहिकस्य फलस्यादर्शनात् आमुष्मिकस्य फलस्य संदिग्धत्वात् । तथा च श्रूयते- “को हि तद् वेद यद्य् अमुष्मिन् लोके ऽस्ति वा न वा” इति । एवम् एतेषु व्याख्यातेषु वचनेषु यानि निमित्तान्य् उपन्यस्तानि तेषां मध्ये स्त्रीकर्तृकस्य पुरुषकर्तृकस्य ऋत्वतिक्रमस्य पत्यवमानस्य च प्रायश्चित्तम् उन्नीय प्रदर्शितम् । यत् पतिशुश्रूषाम् उल्लङ्घ्य तत्प्रतिकूलव्रताध्याचरणं तत्र पतिं प्रसाद्य तदुक्तं प्रायश्चित्तम् आचरेत् । तथा च याज्ञवल्क्यः ।

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । इति । (य्ध् ३।२८३)

स्मृत्यन्तरे ऽपि ।

अथ वा यद् गुरुर् ब्रूयात् तत् कार्यम् अविशङ्कया ।
विग्रहे ऽनुग्रहे वापि गुरुः सर्वत्र कारणम् ॥ इति ।

यच् चानुज्ञाम् अन्तरेण व्रताचरणं तत्र निष्फलप्रयासस्य दण्डरूपत्वात् तेनैव शुध्यतीति न पृथक् प्रायश्चित्तापेक्षा ।

दुर्वृत्ताचरणं च द्विविधम् । वधावसानं प्रयत्नमात्रं चेति । तयोर् मध्ये वधावसानस्य पुरुषकर्तृकस्य दुर्वृत्ताचरणस्य प्रायश्चित्तम् [४१] आचार्यो वक्ष्यति । प्रयत्नमात्रस्य तु प्रायश्चित्तं याज्ञवल्क्यो ऽतिदिशति ।

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । इति । (य्ध् ३।२५२)

न च हननाहननयोर् व्रतसाम्यं शङ्कनीयम्, अतिदिष्टस्योपदिष्टात् किंचिन्न्यूनत्वात् । योषितस् तु पुरुषकर्तृकप्रायश्चित्ताद् अर्धं द्रष्टव्यम् । गर्भपातने प्रायश्चित्तं गर्भभेदाद् अनेकधा भिद्यते । गर्भो द्विविधः । पतिजन्यो जारजन्यश् च । जाराश् च सवर्णा असर्वर्णाश् च । तत्र सर्वत्र प्रायश्चित्तं चतुर्विंशतिमते ऽभिहितम् ।

गर्भपाते समुद्दिष्टं यथावर्णविधि व्रतम् ।
जारगर्भे विशेषः स्यात् यथोक्तम् ऋषिभिः पुरा ॥
ब्रह्मगर्भवधे कृच्छ्रम् अब्दं सान्तपनाधिकम् ।
क्षत्रगर्भवधे चैव चरेच् चान्द्रायणद्वयम् ॥।
वैश्यस्य चैन्दवं प्रोक्तं पराकः शूद्रघातने ।
प्रायश्चित्तम् इदं प्रोक्तं गर्भपाते विशेषतः ॥ इति ।

वेदविश्वासरहितस्य प्रायश्चित्तं वसिष्ठो दर्शयति- “नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन् नास्तिक्यात् । नास्तिकवृत्तिस् त्व् अतिकृच्छ्रम्” इति (वध् २१।२९–३०) । एतच् च सकृत्करणविषयम् । असकृत्करणे तु शङ्खेनोक्तम्- [४२] “नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसीत्य् एते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः” । इति ॥ १४–२१ ॥

अथ बीजिक्षेत्रिणोः पित्रोः प्रत्यवायप्रायश्चित्तसद्भावसूचनार्थम् अस्मिन् प्रायश्चित्तप्रसङ्गे कुण्डगोलकौ पुत्रौ सदृष्टान्तम् उपन्यस्यति ।

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
स क्षेत्री लभते बीजं न बीजी भागम् अर्हति ॥ २२ ॥
तद्वत् परस्त्रियाः पुत्रौ द्वौ स्मृतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यात् मृते भर्तरि गोलकः ॥ २३ ॥

इति।

ओघो जलप्रवाहः । वातः प्रचण्डवायुः । तयोर् अन्यतरेणाहृतं परकीयं शाल्यादिबीजं यस्यान्यस्य क्षेत्रे प्ररोहति स क्षेत्री बीजं बीजफलं लभते । न तु बीजी । तद् एतल् लोकप्रसिद्धम् । तेनैव न्यायेन क्षेत्रिणो भार्यायां बीजिनोत्पादितौ कुण्डगोलकौ क्षेत्रिणः पुत्रौ भवतः । न तु बीजिनः । तौप्ञ् पुत्रयोर् मध्ये क्षेत्रिण्यम् ऋते जारजः कुण्डः । मृते तस्मिन् जारजं गोलकः, [४३]

अमृते च मृते चैव जारजौ कुण्डगोलकौ ।

इति स्मृत्यन्तरात् । जारजशब्देन देवरादयो व्यावर्त्यन्ते । न हि तेषां जारत्वम् अस्ति, तेषां गुर्वनुज्ञातत्वात् । तेषां गुर्वनुज्ञातत्वात् । अनुज्ञातत्वं च याज्ञवल्क्येनोक्तम् ।

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रमाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥ इति । (य्ध् १।६८)

बीजिक्षेत्रिणोर् अत्र सूचितः प्रत्यवायो महाभारते दर्शितः ।

क्षेत्रिकश् चैव बीजी च द्वाव् एतौ निरयंगमौ ।
न रक्षति च यो दारान् परदारांश् च गच्छति ॥
गर्हितास् ते नरा नित्यं धर्माचारबहिष्कृताः ।

[४४] इति । जारस्य गर्भानुत्पादने यत् प्रायश्चित्तम् अभिहितं तद् एव बीजी द्विगुणम् आचरेत् । जारप्रायश्चित्तं च व्याघ्रेण दर्शितम् ।

ब्राह्मणो ब्राह्मणीं गच्छेद् अकामां यदि कामतः ।
कृच्छ्रचान्द्रायणे कुर्याद् अधर्मेव प्रमादतः ॥
अधर्मेव सकामायां तप्तकृच्छ्रं सकृद् गतौ ।
अर्धम् अर्धं नृपादीनां दारेषु ब्राह्मणश् चरेत् ॥
एतद् व्रतं चरेत् सार्धं श्रोत्रियस्य परिग्रहे ।
अश्रोत्रियश् चेद् द्विगुणम् अगुप्ताव् अर्धम् एव च ॥ इति।

क्षेत्रिणः प्रायश्चित्तविशेषानादेशात् सामान्यप्रायश्चित्तं द्रष्टव्यम् । तच् च याज्ञवल्क्येन दर्शितम् ।

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टेषु चैव हि ॥ इति । (य्ध् ३।३०६)

“न बीजी भागम् अर्हति” इत्य् अयम् अर्थो मनुना दृष्टान्तैः प्रतिपादितः ।

यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ॥
ये ऽक्षेत्रिणो बीजबन्तः परक्षेत्रे प्रवापिणः ।
ते वै सस्यय जातस्य न लभन्ते फलं क्वचित् ॥
[४५] यद् अन्यगोषु वृषभो वत्सानां जनयेच् छतम् ।
गोमिनाम् एव ते वत्सा मोघं स्कन्दितम् आर्षभम् ॥ इति । (म्ध् ९।४८–५०)

ये ऽक्षेत्रिण इत्य् अत्र अक्षेत्रिण इति छेदः ॥ २२–२३ ॥

इदानीं कुण्डगोलकप्रसङ्गेन बुद्धिस्थान् पुत्रभेदान् दर्शयति ।_

औरसः क्षेत्रजश् चैव दत्तः कृत्रिमः सुतः । इति ।

एतच् च द्वादशविधानां पुत्राणाम् उपलक्षणम् । ते च मनुना दर्शिताः ।

औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूडोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षडदायादबान्धवाः ॥
[४६] स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादितश् च यः ।
तम् औरसं विजानीयात् पुत्रं प्रथमकल्पितम् ॥
यस् तल्पजः प्रमीतस्य क्लीबस्य पतितस्य वा ।
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥
माता पिता वा दद्यातां यद् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तंस ज्ञेयो दत्त्रिमः सुतः ॥
सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्रिमः ॥
उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः ।
स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ॥
मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं परिगृह्णीयाद् अपविद्धः स उच्यते ॥
पितृवेश्मनि कन्या तु यं पुत्रं जनयद् रहः ।
तं कानीनं विजाजीयाद् वोढुः कन्यासमुद्भवम् ॥
या गर्भिणी संस्क्रियते ज्ञाताज्ञाता च या सती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥
क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥
[४७] या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।
उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ॥
मातापितृविहीनो यस् त्यक्तो वा स्याद् अकारणात् ।
आत्मानं स्पर्शयेत् यस्मै स्वयंदत्तस् तु स स्मृतः ॥
यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् ।
स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ॥ इति । (म्ध् ९।१५९–७८)

याज्ञवल्क्येनापि ।

औरसः पुत्रिकापुत्रः क्षेत्रजो गूढजस् तथा ।
कानीनः पञ्चमः प्रोक्तो षष्ठः पौनर्भवः स्मृतः ॥
दत्तः क्रीतः कृत्रिमश् च स्वयंदत्त इतीरितः ।
सहोष्हजो ऽपविद्धश् च पुत्रा द्वादश कीर्तिताः ॥
औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥
गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥
अक्षतायां क्षतायां वा जातः पौनर्भवः स्मृतः ।
दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत् ॥
क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः ।
[४८] दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥
उत्सृष्टो गृह्यते यस् तु सो ऽपविद्धो भवेत् सुतः ।
पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ॥
सजाटीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः ॥ इति । (य्ध् २।१२८–३३)

अत्र द्वादशानां पुत्राणां यानि लक्षणानि मनुना दर्शितानि तानि सर्वाण्य् उपलक्षयितुं दत्तस्य लक्षणम् आह ।

दद्यान् माता पिता वापि स पुत्रो दत्तको भवेत् ॥ २४ ॥

इति।

अत्र दाने सदृशं प्रीतिसंयुक्तम् अद्भिर् आपदीति विशेषणचतुष्टयं द्रष्टव्यम् ॥ २४ ॥

प्रसक्टनुप्रसक्तं परिसमाप्य प्रकृतम् एव प्रायश्चित्तम् अनुसरति परिवित्तिर् इत्यादिश्लोकद्वयेन ।

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ २५ ॥
द्वौ कृच्छ्रौ परिवित्तेस् तु कन्यायाः कृच्छ्र एव च ।
कृच्छ्रातिकृच्छ्रौ दातुस् तु होता चान्द्रायणं चरेत् ॥ २६ ॥

इति।

यत्र ज्येष्ठो नोद्वहति कनिष्ठश् चोद्वहति तत्र ज्येष्ठः परिवित्तिर् इत्य् उच्यते । कनिष्ठः परिवेत्ता । यया कन्यया कनिष्ठः परिविद्यते सा परिवेदिनी । तस्याः पित्रादिर् दाता । याजको विवाहहोमस्य कारयिता । त एते पञ्च नरकं यान्ति । तथा च हारीतः- [४९] “ज्येष्ठे ऽनिविष्टे कनीयान् निविशन् परिवेत्ता भवति । परिवित्तिर् ज्येष्ठः । परिवेदनी कन्या । परिदायी दाता । परियष्टा याजकः । ते सर्वे पतिताः” इति । तत्र परिवित्तेर् द्वौ कृच्छ्रौ प्रायश्चित्तम् । कन्याया एकः कृच्छ्रः । दातुः कृच्छ्रातिकृच्छ्रः । तस्य लक्षणं याज्ञवल्क्य आह ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसान् एकविंशतिम् । इति । (य्ध् ३।३२१)

याजकस्य चान्द्रायणम् । न चात्र परिवेत्तुः प्रायश्चित्तम् अनुक्तम् इति शङ्कनीयम्, परिवित्तिशब्देन तस्याप्य् उपलक्षितत्वात् । अत एव यमः परिवित्तिपरिवेत्त्रोर् द्वयोः समं प्रायश्चित्तम् आह ।

कृच्छ्रौ द्वौ परिवेत्तुः स्यात् कन्यायाः कृच्छ्र एव च ।
कृच्छ्रातिकृच्छ्रौ दातुस् तु होता चान्द्रायणं चरेत् ॥ इति ।

यत् तु शङ्खलिखिताभ्याम् उक्तम्,

परिवित्तिः परिवेत्ता च यया च परिविद्यते ।
व्रतं संवत्सरं कुर्युर् दातृयाजकपञ्चमाः ॥ इति ।

यद् अपि हारीतेनोक्तम्- [५०] “ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छ्रेण परिचरेयुः” इति, तत्र सर्वत्र चिरक्षिप्रज्ञाताज्ञातभेदेन प्रायश्चित्तगौरवलाघवव्यवस्था द्रष्टव्या । प्रायश्चित्तचरणानन्तरं परिवेत्तुः कर्तव्यम् आह वसिष्ठः- “परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्वा पुनर् निविशेत् तां चैवोपयच्छेत्” इति । तस्मै दत्वा ज्येष्ठाय निवेद्य पुनर् निवेशेत् पुनर् उद्वहेत् । काम् इत्य् अपेक्षायाम् आह ताम् एवोपयच्छेद् इति । अयम् अर्थः । ज्येष्ठभ्रातर्य् अकृतकारपरिग्रहे कृतदारपरिग्रहः कनिष्ठः परिवेत्ता परिवेदन्या स्वगृहीतया कन्यया परिवित्तिना ज्येष्ठभ्रात्रा च सह उक्तं प्रायश्चित्तं निर्वर्त्य ज्येष्ठभ्रातरि कृतदारपरिग्रहे कनिष्ठः पूर्वं गृहीतां कन्यां ज्येष्ठभ्रात्रे निवेद्य तद्दत्तां स्वयम् एव पुनर् उद्वहेत् । अयम् एव न्यायो ज्येष्ठकनिष्ठयोर् आधानव्युत्क्रमे भगिन्योर् विवाहव्युत्क्रमे चानुसंधेयः । अत एव गौतमः- “परिवित्तिपरिवेतृपर्याहित-पर्याधाताग्रेदिधिषुदिधिषूणां संवत्सरं प्राकृतं ब्रह्मचर्यम्” इति । अग्रेदिधिषुपत्यादौ विशेषो वसिष्ठेनोक्तः- “अग्रेदिधिषुपतिः कृच्छ्रं द्वादशरात्रं वरित्वा निविशेत् [५१] तां चैवोपयच्छेत् । विधिषुपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्वा पुनर् निविशेत्” इति (वध् २०।९–१०) । अग्रेदिधिष्वादेर् लक्षणं देवलेनोक्तम् ।

ज्येष्ठायां यद्य् अनूढायां कन्यायाम् ऊह्यते ऽनुजा ।
सा चाग्रेदिधिषुर् ज्ञेया पूर्वा तु दिधिषुः स्मृता ॥ इति ।

तत्राग्रेदिधिषुपतिर् द्वादशरात्र कृच्छ्रं प्राजापत्यं चरित्वा ज्येष्ठायां पश्चाद् अन्येनोढायां ताम् एवोद्वहत् । दिधिषूपतिस् तु कृच्छ्रातिकृच्छ्रौ चरित्वा स्वोढां ज्येष्ठां तस्मै कनीयस्याः पूर्वोढ्रे दत्वान्याम् उद्वहेत् ॥ २६–२६ ॥

परिवेदने प्रत्यवाय प्रायश्चित्तं च प्रदर्श्येदानीं विशेषे तदपवादं दर्शयति ।

कुब्जवामनषण्ढेषु जडेषु च ।
**जात्यन्धे बधिर मूके न दोषः परिवेदने ॥ २७ ॥ **

कुब्जः पृष्ठभागे मांसादिविशेषेणात्यन्तविकृतदेहः । वामनो ऽतिह्रस्वदेहः । षण्ढो नपुंसकः । गदगदो जिह्वादिदोषेण सहसा वक्तुम् अशक्तः । जडो ऽक्षमः कार्येष्व् अप्रवृत्तः । जात्यन्धादयः प्रसिद्धाः । एवंविधस्य ज्येष्ठस्य विवाहायोग्यत्वात् कनिष्ठस्य विवाहे नास्ति परिवेदने दोषः । एतच् च ज्येष्ठस्य प्रव्रज्यादेशान्तरगमनादीनाम् अप्य् उपलक्षणम् । अस्मिंश् च परिवेदनाभ्यनुज्ञाने संवादवचनानि पूर्वम् एव श्राद्धप्रसङ्गाद् उदाहृतानीति नात्र प्रपञ्च्यन्ते ॥ २७ ॥

[५२]

कुब्जत्वादिदोषरहितेष्व् अपि भिन्नोदरेषु प्रिवेदनम् अभ्यनुजानाति ।

पितृव्यपुत्रः सापत्न्यः परनारीसुतस् तथा ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥ २८ ॥

पितृव्यपुत्रसापत्न्यौ प्रसिद्धौ । परनारीसुतो दत्तक्रीतादिः । एतेषु ज्येष्ठेषु स्थितेषु कनिष्ठस्य विवाहाधानयोर् नास्ति प्रत्यवायः ॥ २८ ॥

कुब्जत्वादिदोषरहितेष्व् एकोदरेषु पर्याधाने विशेषम् आह ।

ज्येष्ठो भ्राता यदा तिष्ठेद् आधानं नैव कारयेत् ।
अनुज्ञातस् तु कुर्वीत शङ्खस्य वचनं यथा ॥ २९ ॥

इति।

कारयेत् कुर्यात् । अनुज्ञातः कनिष्ठो ज्येष्ठात् पूर्वम् आधानम् कुर्यात् । ज्येष्ठभ्रात्रेव पित्राप्य् अनुज्ञातस्य पुत्रस्य पर्याधानप्राप्तौ चतुर्विंशतिमते तन् निषिध्यते ।

ज्येष्ठभ्रात्रा त्व् अनुज्ञातः कुर्याद् अग्निपरिग्रहम् ।
अनुज्ञातो ऽपि सन् पित्रा नादध्यान् मनुर् अब्रवीत् ॥ इति ।

यत् तु सुमन्तुनोक्तम्,

पितुर् यस्य तु नाधानं कथं पुत्रस् तु कारयेत् ।
अग्निहोत्राधिकारो ऽस्ति शङ्खस्य वचनं यथा ॥

इति, उशनापि,

पिता पितामहो यस्य अग्रजो वाथ कस्यचित् ।
तपो ऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने ॥

इति, तत् पित्रादीनां वैधुर्यादिना प्रतिबन्धे सति द्रष्टव्यम् ॥ २९ ॥

परिवेदनपर्याधानयोर् इव स्त्रीणां पुनर् उद्वाहस्यापि प्रसङ्गात् क्वचित् अभ्यनुज्ञां दर्शयति ।

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥ ३० ॥

इति।

नष्टो देशान्तरगमनेनापरिज्ञानवृत्तान्तः । अयं च पुनर् उद्वाहो युगान्तरविषयः । तथा च आदित्यपुराणम् ।

ऊढायाः पुनर् उद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पण्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥ इति ।

अत्र ऊढाशब्देन विधिवद् ऊढा ग्राह्या । अन्यद् एव पुनर् उद्वाहस्यात्राप्य् अङ्गीकृतत्वात् ॥ ३० ॥

पुनर् उद्वाहम् अकृत्वा ब्रह्मचर्यव्रतानुष्ठाने श्रेयो ऽतिशयं दर्शयति ।

मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता ।
सा मृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ ३१ ॥

इति।

मृतग्रहणं नष्टादीनाम् उपलक्षणम् । चतुर्थपादेन स्मृत्यन्तरप्रसिद्धा ब्रह्मचारिगतिर् दृष्टान्तिता । सा च मनुना दर्शिता ।

[५४] अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसन्ततिम् ॥ इति । (म्ध् ५।१५९) ॥ ३१ ॥

उक्तब्रह्मचर्याद् अप्य् अधिकफलम् अनुगमनए दर्शयति ।_

तिस्रः कोष्ट्यो ऽर्धकोटी च यानि रोमाणि मानुषे ।
तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥ ३२ ॥

इति।

तावत्कालं तावत्सहस्रसंवत्सरम् । तथा च हारीतः ।

मृते भर्तरि या नारी धर्मशीला दृढव्रता ।
अनुगच्छति भर्तारं शृणु तस्यास् तु यत् फलम् ॥
तिस्रः कोट्यो ऽर्धकोटी च यानि लोमानि मानुषे ।
तावन्त्य् अब्दसहस्राणि स्वर्गलोके महीयते ॥
मातृकं पैतृकं चैव यत्र कन्या प्रदीयते ।
कुलत्रयं पुनात्य् एषा भर्तारं यानुगच्छति ॥ इति ।

शङ्खलिखितौ ।

मृते भर्तरि या नारी समारोहेद् धुताशनम् ।
सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥

[५५] इति ।

ननु – इदम् अनुगमनं प्रत्यक्षश्रुतिविरुद्धम् “तस्माद् उ ह न पुरायुषः स्वर्गकाई प्रेयात्” इति श्रुत्या आत्महत्याप्रतिषेधात्,

असूर्या नाम ते लोका अन्धेन समसावृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ (ईशुप् ३)

इति श्रुत्यन्तराच् च ।

मैवम्, अनुगमनस्मृतेर् निरवकाशत्वेन प्राबल्यात् । आत्महत्यानिषेधश्रुतिस् तु स्वर्गकामयोषितो ऽन्यत्र सावकाशा ।

ननु – स्वर्गकामिन्याः पतिम् अनुगच्छन्त्या अपि ब्राह्मण्या अनुगमनं स्मृत्यैव निषिद्धम् । तथा च पैठीनसिः ।

मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् ।
इतरेषां तु वर्णानां स्त्रीधर्मो ऽयं परः स्म्र्तः ॥ इति ।

स्मृत्यन्तरं च ।

उपकारं यथा भर्तुर् जीवन्ती न तथा मृता ।
करोति ब्राह्मणी श्रेयो भर्तुः शोककरी चिरात् ॥
[५६] अनुवर्तेत जीवन्तं नानुयायान् मृतं पतिम् ।
जीव्य भर्तुर् हितं कुर्यात् मरणाद् आत्मघातिनौ ॥ इति ।

अङ्गिरा अपि ।

या स्त्री ब्राह्मणजातीया मृतं पतिम् अनुव्रजेत् ।
सा स्वर्गम् आत्मघातेन नात्मानं न पतिं नयेत् ॥ इति ।

व्याघ्रपादो ऽपि ।

न म्रियेत समं भर्त्रा ब्राह्मणी शोकमोहिता ।
प्रव्रज्यागतिम् आप्नोति मरणाद् आत्मघातिनी ॥ इति ।

प्रव्रज्या मैथुनादिभोगत्यागः ।

नायं दोषः, अस्य निषेधस्य पृथक्चितिविषयत्वात् । अत एव उशनाः ।

पृथक्चितिं समारुह्य न विप्रा गन्तुअम् अर्हति ।
अन्यासां चैव नारीणां स्त्रीधर्मो ऽयं परः स्मृतः ॥ इति ।

एकचित्यां समारोहणं कल्पसूत्रकारेण दर्शितम्- “प्रेतस्योत्तरतः पत्न्या संवेशनम् अविशेषेण नित्यवत्” इति ॥ ३२ ॥

[५७]

न केवलं स्वयम् एवानुगमनेन स्वर्गे वसति किंतु स्वभर्तारं नरकाद् उद्धरतीत्य् आह

व्यालग्राही यथा व्यालं बलाद् उद्धरते बिलात् ।
एवं स्त्री पतिम् उद्धृत्य तेनैव सह मोदते ॥ ३३ ॥

यद्य् अपि पापीयान् पतिः स्वपापफलभोगाय नरकमार्गायाभिमुखो भवेत् तथापि योषित् स्वकीयेन प्रबलसुकृतेन तस्य पापफलभोगं प्रतिबध्य पतिम् अपि स्वेह सह गतिं नयति । अत एव व्यासः ।

यदि प्रविष्टो नरकं बद्धः पाशैः सुदारुणैः ।
संप्राप्तो यातनास्थानं गृहीतो यमकिंकरैः ॥
तिष्ठते विवशो दीनो वेष्ट्यमानः स्वकर्मभिः ।
व्यालग्राही यथा व्यालं बलाद् गृह्णात्य् अशङ्कितः ॥
तद्वद् भर्तारम् आदाय दिवं याति च सा बलात् ।
सा भर्तृपरमा नित्यं स्तूयमानाप्सरोगणैः ॥
क्रीडते पतिना सार्धं यावद् इन्द्राश् चतुर्दश ।
ब्रह्मघ्नो वा क्र्तघ्नो वा मित्रघ्नो वा भवेत् पतिः ।
पुनात्य् अविधवा नारी तम् आदाय मृता तु या ॥ इति । (व्यास्म् ४।६०–६४)

इदं चानुगमनं पतिव्रतयानुष्ठितं सदुक्तरीत्या [५८] दम्पत्योर् उभयोः श्रेयोहेतुः पापीयस्यानुष्ठितं चेत् पापक्षयहेतुर् भवति । तथा च महाभारतम् ।

अवमत्य तु याः पूर्वं पतिं दुष्टेन चेतसा ।
वर्तन्ते याश् च सततं भर्तॄणां प्रतिकूलतः ॥
भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः ।
कामात् क्रोधात् भयान् मोहात् सर्वाः पूता भवन्ति ताः ॥
आदिप्रभृति या साध्वी पत्युः प्रियपरायणा ।
ऊर्ध्वं गच्छति सा तत्र भर्त्रानुमरणं गता ॥ इति ।

एतच् चानुमरणं न सर्वासाम् अपि स्त्रीणां संभवति,

साध्वीनाम् एव नारीणाम् अग्निप्रपतनाद् ऋते ।
नान्यो धर्मो ऽस्ति विज्ञेयो मृते भर्तरि कर्हिचित् ॥
यावन् नाग्नौ दहेद् देहं मृते पत्यौ पतिव्रता ।
तावन् न मुच्यते नारी स्त्रीशरीरात् कथंचन ॥

इत्य् अङ्गिरसा सामान्येन पतिव्रतानां साध्वीनाम् अधिकारस्य बोधनात् । अयं चाधिकारो रजआदिभिः प्रतिबध्यते । तथा च बृहस्पतिः ।

बालसंवर्धनं त्यक्त्वा बालापत्या न गच्छति ।
रजस्वला सूतिका च रक्षेद् गर्भं च गर्भिणी ॥

[५९] इति । अत्र बालसंवर्धनं त्यक्त्वेति वदन् संवर्धयितृजनान्तरविस्रम्भे बालापत्याया अप्य् अधिकारो ऽस्तीति दर्शयन् रक्षेद् गर्भं च गर्भिणीति रक्षां दर्शयन् संभावितगर्भसंदेहाया अप्य् अधिकारं वारयति । तथा च नारदीये ।

बालापत्याश् च गर्बिण्य अदृष्टऋतवस् तथा ।
रजस्वला राजसुते नारोहन्ति चितां शुभे ॥ इति ।

अदृष्टऋतवः ऋत्वदर्शनेन संभावितगर्भसंदेहाः ॥ ३३ ॥

श्रुतिविषयितं प्रायश्चित्तं प्रकीर्णेषु यन्मतं
नयविषययोर् भेदस् तल्ल्क्षणं परिवेदनम् ।
प्रथयति परं तुर्याध्याये पराशरभाषिते
विवृतिम् अकरोत् शक्त्या निर्णीय स माधवः ॥ १ ॥

इति श्रीमहाराजाधिराजवैदिकमार्गप्रवर्तक-

परमेश्वरश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां चतुर्थो ऽध्यायः ॥ ४ ॥

[६१]