अथ तृतीयो ऽध्यायः
प्रथमद्वितीयाभ्याम् अध्यायाभ्यां चातुर्वर्ण्यश्रमाः साक्षात् प्रतिपादिताः । आश्रमधर्माश् च सूचिताः । तेषु च धर्मेषु शुद्धस्यैवाधिकारः, “शुचिना कर्म कर्तव्यम्” इति स्मृतेः । सा च शुद्धिर् यद्य् अपि पुरुषस्य स्वाभाविकी तथापि केनचिद् आगन्तुकेनाशौचाख्येन दोषरूपेण पुरुषगतातिशयेन कंचित् कालं प्रतिबध्यते । तच् चाशौचं कालेयत्तास्नानाद्यपनोद्यम् । अतस् तृतीये ऽध्याये तत् प्रतिपिपादयिषुर् आदौ प्रतिबन्धापगमेनोत्तम्भितां शुद्धिं प्रतिजानीते-
**अतः शुद्धिं प्रव्क्ष्यामि जनने मरणे तथा । **
यतो जननमरणयोर् धर्माधिकारपरिपन्थिन्य् अशुद्धिः [२०४] प्राप्नोति अतस् तन्निवर्तकोपायप्रतिबोधनेन शुद्धिं प्रवक्ष्यामि । जननमरणयोश् च अशुद्धिप्रापकत्वं मनुना दर्शितम् ।
दन्तजाते ऽनुजाते च कृतचौले च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ इति । (म्ध् ५।५८)
प्रतिज्ञातां शुद्धिं वर्णानुक्रमेण दर्शयति ।
दिनत्रयेण शुध्यन्ति ब्राह्मणाः प्रेतसूतके ॥ १ ॥
क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः ।
शूद्रः शुध्यति मासेन पराशरवचो यथा ॥ २ ॥
ननु – दिनत्रयेण शुध्यन्ति ब्राह्मणाः इत्य् एतद् बहुस्मृतिविरुद्धम् । तथा च दक्षः ।
शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ इति । (दस्म् ६।७)
देवलो ऽपि ।
दशाहं ब्राह्मणानां तु क्षत्रियाणां त्रिपञ्चकम् ।
विंशद्रात्रं तु वैश्यानां शूद्राणां मासम् एव तु ॥ इति ।
वसिष्ठो ऽपि- [२०५] “ब्राह्मणो दशरात्रेण । पञ्चदशरात्रेण क्षत्रियः । वैश्यो विंशतिरात्रेण । शूद्रो मासेन शुध्यति” इति (वध् ४।२७–३०) ।
नैष दोषः, विप्रेषु त्र्यहाशौचस्य समानोदकविषयत्वात् । अथा च मनुः- “त्र्यहात् तूदकदायिनः” इति (म्ध् ५।६४) । दशाहाशौचप्रतिपादकानि दक्षादिवचनानि सपिण्डविषयाणि,
दशाहं शावम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५।५९)
इति मनुस्मरणात् । कूर्मपुराणे ऽपि ।
दशाहम् आहुर् आशौचं सपैण्डेषु विपश्चितः । इति । (कूपु १।२।२३।१)
बृहस्पतिर् अपि ।
दशाहेन सपिण्डास् तु शुध्यन्ति प्रेतसूतके ।
त्रिरात्रेण सकुल्यास् तु स्नात्वा शुध्यन्ति गोत्रजाः ॥
[२०६] इति ।
ननु – “क्षत्रियो द्वादशाहेन” इत्य् एतद् अप्य् अनेकस्मृतिविरुद्धम् । तत्र वसिष्ठ-देवलाभ्यां क्षत्रियस्य पञ्चदशाहाशौचम् उक्तम् । तद्वचनं चोदाहृतम् । शातातपस् त्व् एकादशाहम् आह ।
एकादशाहाद् राजन्यो वैश्यो द्वादशभिस् तथा ।
शूद्रो विंशतिरात्रेण शुध्यते मृतसूतके ॥ इति ।
वृद्धपराशरो ऽपि ।
क्षत्रियस् तु दशाहेन स्वकर्मनिरतः शुचिः ।
तथैव द्वादशाहेन वैश्यः शुद्धिम् अवाप्नुयात् ॥ इति ।
अत्रोच्यते – विद्यातपसोस् तारतम्येन विरोधः समाधेयः । यावद् यावद् विद्यातपसी विवर्धेते तावत् तावद् आशौचं संकुच्यते । अत एव याज्ञवल्क्यो न्यायवर्तिनः शूद्रस्याप्य् अर्धम् आशौचम् आह ।
क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ इति । (य्ध् ३।२२)
देवलो ऽप्य् एतद् एवाभिप्रेत्य विप्रादीनाम् आशौचतारतम्यम् आह ।
चत्वार्य् अधीतवेदानाम् अहान्य् आशौचम् इष्यते ।
वेदाग्नियुक्तविप्रस्य त्र्यहम् आशौचम् इष्यते ॥
[२०७] एताभ्यां श्रुतयुक्तस्य दिनम् एकं विधीयते ।
एतैः साकं कर्मयुक्तः सद्यः शुचिर् असंशयः ॥
एतैर् युक्तस्य राज्ञस् तु द्वादशैकादशा दश ।
वैश्यस्यैवं पञ्चदशद्वादशैकादश क्रमात् ॥
अर्धमासं तु शुश्रूषोः शूद्रस्याशौचम् इष्यते ॥ इति ।
यत् तु क्षत्रियादेस् त्रिपञ्चकादिकं तेनैवोक्तं तद् विद्यातपोरहितविषयम्,
प्राकृतानां तु वर्णानाम् आशौचं संप्रकीर्तितम् ।
इति वाक्यशेषात् । दक्षो ऽपि दश पक्षान् उपन्यस्य गुणोत्कर्षापकर्षाभ्यां व्यवस्थाम् आह ।
सद्यःशौचं तथैकाहं त्र्यहश् चतुरहस् तथा ।
षड्दशद्वादशाहं च पक्षो मासस् तथैव च ॥
मरणान्तं तथा चान्यत् पक्षाश् च दश सूतके ।
उपन्यासक्रमेणैव वक्ष्याम्य् अहम् अशेषतः ॥
ग्रन्थार्थतो विजानाति वेदम् अङ्गैः समन्वितम् ।
सकल्पं सरहस्यं च क्रियावांश् चेन् न सूतकम् ॥
राजर्त्विग्दीक्षितानां च बाले देशान्तरे तथा ।
व्रतिनां सत्रिणां चैव सद्यःशौचं विधीयते ॥
[२०८] एकाहाच् छुध्यते विप्रो यो ऽग्निवेदसमन्वितः ।
हीने हीनतरे वापि त्र्यहश् चतुरहस् तथा ॥
तथा हीनतमे चैव षडहः परिकीर्तितः ।
ये दशाहादयः प्रोक्ता वर्णानां ते यथाक्रमम् ॥
अस्नात्वा चाप्य् अहुत्वा च अदत्वाश्णंस् तथा द्विजः ।
एवंविधस्य विप्रस्य सर्वदा सूतकं भवेत् ॥ इति । (दस्म् ६।२–९)
अत्र “चत्वार्य् अधीतवेदानाम्” इत्यादिनोक्तो ऽघसंकोचो युगान्तरविषयः,
वृत्तस्वाध्यायसापेक्षम् अघसंकोचनं तथा ।
इत्याद्य् अनुक्रम्य,
कलौ युगे त्व् इमान् धर्मान् वर्ज्यान् आहुर् मनीषिणः ।
इति स्मृत्यन्तरे ऽभिधानात्,
दशाह एव विप्रस्य सपिण्डमरणे सति ।
कल्पान्तराणि कुर्वाणः कलौ व्यामोहकिल्बिषी ॥ (हार्स्म् १८।३२)
इति हारीतवचनाच् च । उक्तरीत्या क्षत्रियवद् वैश्ये ऽपि वचनान्तरविरोधः परिहर्तव्यः । एवं च सति विप्रस्य समानोदकेषु [२०९] त्रिरात्रं सपिण्डेषु दशरात्रम् । क्षत्रियादीनां द्वादशाहादि यन् मूलवचनोक्तं तद् एव स्थितम् । यद्य् अपि क्षत्रियवैश्ययोः पञ्चदशाहविंशतिरात्र-वचनानुसारेण द्वादशाहपञ्चदशाहाशौचवचनं गुणवदघसंकोचपरम् इवाभाति देवलश् च गुणवद्विषयत्वेनैवोदाजहार तथापि शिष्टाचाराद् बहुस्मृत्यनुग्रहाच् च क्षत्रियवैश्ययोर् मूलवचनोक एव मुख्यः कल्पः । अत एव मनु-कूर्म-दक्षाः ।
शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ इति । (म्ध् ५।८३)
मार्कण्डेयओ ऽपि ।
दशाहं ब्राह्मणस् तिष्ठेद् दानहोमादिवर्जितः ।
क्षत्रियो द्वादशाहं तु वैश्यो मासार्धम् एव च ।
शूद्रस् तु मासम् आसीत निजकर्मविवर्जितः ॥ इति ।
बृहस्पतिर् अपि ।
क्षत्रियो द्वादशाहेन शुध्यते मृतसूतके ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ इति ।
विष्णुर् अपि- “ब्राह्मणस्य सपिण्डानाम् जननमरणयोर् दशाहम् आशौचम् । द्वादशाहं राजन्यस्य । पञ्चदशाहं वैश्यस्य । मासं शूद्रस्य” इति (विध् २२।१–४) । पञ्चादशाहविंशतिरात्रवचनं तु यावज्जीवाशौचवाक्यम् [२१०] इव निन्दापरत्वेन युगान्तरविषयत्वेन वा व्याख्येयम् । “पराश्रवचो यथा” इत्य् अनेन स्वमतत्वं दर्शयन् मतान्तरेष्व् अघसंकोचविकासपराणि वचनानि सन्तीति सूचयति । तानि चास्माभिर् व्यवस्थापितानि ॥ २ ॥
उक्तस्याशौचस्य कर्माधिकारपरिपन्थित्वात् संध्याद्युपासनस्यापि निवृत्तिप्राप्ताव् अपवादम् आह ।_
उपासने तु विप्राणाम् अङ्गशुद्धिश् च जायते ।
उपासनं संध्यावन्दनाग्निहोत्राद्यनुष्ठानं तस्मिन् प्रसक्ते तात्कालिकी शरीरशुद्धिर् भवति । तद् आह गोभिलः ।
अग्निहोत्रादिहोमार्थं शुद्धिस् तात्कालिकी स्मृता ।
पञ्चयज्ञाण् न कुर्वीत ह्य् अशुद्धः पुनर् एव सः ॥ इति ।
यावत्कालेनाग्निहोत्रं निष्पद्यते तावद् एव शुद्धिर् न तूपरि । पुलस्त्यो ऽपि ।
संध्यासिद्धिं चरुं होमं यावज्जीवं समाचरेत् ।
न त्यजेत् सूतके वापि त्यजन् गच्छेद् अधो द्विजः ॥
सूतके मृतके चैव संध्याकर्म न संत्यजेत् ।
मनसोच्चारयेत् मन्त्रान् प्राणायामम् ऋते द्विजः ॥ इति ।
अञ्जलिप्रक्षेपे तु वाचोच्चारणम् अभिप्रेत्य पैठीनसिर् आह- “सूतके सावित्र्याञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन् नमस्कुर्यात्”[२११] इति । मनसोच्चारणस्य मार्जनादिमन्त्रेष्व् अपि सिद्धत्वाद् अञ्जलौ विशेषविधानं वाचिकाभिप्रायम् । यत् तु मनुनोक्तम्,
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते ॥ (म्ध् ५।६२)
इति, तत् स्मार्तवैश्वदेवादिविषयम् । तद् आह जातूकर्ण्यः ।
पञ्चयज्ञविधानं च न कुर्यात् मृत्युजन्मनोः । इति ।
यत् तु जाबालेनोक्तम्,
संध्यां पञ्चमहायज्ञान् नैत्यकं स्मृतिकर्म च ।
तन्मध्ये हापयेद् एव आशौचान्ते तु तत्क्रिया ॥
इति, तद् वाचिकसंध्याभिप्रायम् । स्मार्तकर्मवर्जनं स्वयंकर्तृकविषयम् । अन्येन तु कारयेद् एव । तद् आह बृहस्पतिः ।
सूतके मृतके चैव ह्य् अशक्तौ श्राद्धभोजने ।
प्रवासादिनिमित्तेषु हावयेन् न तु हापयेत् ॥ इति ।
जातूकर्ण्यो ऽपि ।
सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् ।
पिण्डयज्ञं चरुं होमम् असगोत्रेण कारयेत् ॥ इति ।
मूलवचने विप्रग्रहणं क्षत्रियादीनाम् उपलक्षणम् । [२१२] द्विविधं चाशुचित्वं कर्मानधिकारलक्षणम् अस्पृश्यत्वलक्षणं च । तत्राङ्गशुद्धिर् इत्य् अनेनैकस्य निवृत्तिर् उक्ता चकारेणापरस्यापि ।
यथा शावे तात्कालिकी द्विविधाशुद्धिस् तथा जनने ऽपि तत्प्राप्तौ विशेषम् आह ।
ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते ॥ ३ ॥
इति।
जनने सपिण्डानां सार्वकालिको ऽङ्गस्पर्शः । न तु शाववत् तात्कालिकः । अत एव अङ्गिराः ।
सूतके सूतिकावर्जं संस्पर्शो न निषिध्यते ।
संस्पर्शे सूतिकायास् तु स्नानम् एव विधीयते ॥ इति ।
कौर्मे ऽपि ।
सूतके तु सपिण्डानां संस्पर्शो नैव दुष्यति । इति । (कूपु १।२।२३।५)
पैठीनसिर् अपि ।
जनौ सपिण्डाः शुचयो मातापित्रोस् तु सूतकम् ।
सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ इति ।
जनने मातापितृव्यतिरिक्ताः सर्वे सपिड्णाः स्पृश्याः । मातापित्रोस् तु नास्ति स्पृश्यत्वम् । तत्रापि पिता स्नानेन स्पृश्यो भवति । दशाहम् अस्पृश्यत्वं मातुर् एव । तथा च वसिष्ठः ।
नाशौचं विद्यते पुंसः संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥ (वध् ४।२३)
[२१३] इति । संवर्तो ऽपि ।
जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।
माता शुद्ध्येद् दशाहेन स्नानात् तु स्पर्शनं पितुः ॥ इति । (संस्म् १।४३)
॥ ३ ॥
मरणे वर्णानुक्रमेण शुद्धिर् दर्शिता । इदानीं जनने ऽपि वर्णक्रमेण शुद्धिं दर्शयति ।
जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ ४ ॥
इति।
जातौ जनने । स्पष्टम् अन्यत् । इयं च शुद्धिः कर्माधिकारविषया, समन्तरातीतेन वचनेन स्पर्शविषयायाः शुद्धेर् उक्तत्वात् । जन्मदिवसे तु नास्त्य् अशुद्धिर् दानादिविषये । अत एव मनुः ।
जाते कुमारे तद् अहः कामं कुर्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलानां गुडसर्पिषाम् ॥ इति ।
शङ्खलिखितौ- “कुमारप्रसवे नाभ्याम् अच्छिन्नायां गुडतिलहिरण्यवस्त्रप्रावरण-गोधान्यानां प्रतिग्रहेष्व् अदोषः । तद् अहर् इत्य् एके” । [२१४] इति । वृद्धयाज्ञवल्क्यः ।
कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः ।
हिरण्यभूगवाश्वाजवासःशय्यासनादिषु ॥
तत्र सर्वं प्रतिग्राह्यं कृतान्नं तु न भक्षयेत् ।
भक्षयित्वा तु तन् मोहात् द्विजश् चान्द्रायणं चरेत् ॥ इति ।
बौधायनो ऽपि ।
गुड्तैलहिरण्यानां गोधान्यानां च वाससाम् ।
तस्मिन्न् अहनि दानं च कार्यं विप्रैः प्रतिग्रहः ।
प्राङ् नाभिच्छेदनाद् ग्राह्याण्य् एतानीत्य् अपरे जगुः ॥ इति ।
यास् तु जन्मदाख्याः सूतिकागृहाभिमानिन्यो देवताः तासां पूयायां प्रथमषष्ठदशमादि-दिवसेष्व् अशुद्धिर् नास्ति । तथा च व्यासः ।
सूतिकावासतिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुद्धिर् जन्मनि कीर्तिता ॥
प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥ इति ।
मार्कण्डेयो ऽपि ।
रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कुर्याज् जन्मदानां तथा बलिम् ॥
[२१५] पुरुषाः शस्त्रहस्ताश् च नृत्यगीतैश् च योषितः ।
रात्रौ जागरणं कुर्युर् दशम्यां चैव सूतके ॥ इति ।
यत् त्व् अङ्गिरसोक्तम्,
नाशौचं सूतके प्रोक्तं सपिण्डानां क्रियावताम् ।
इति, तत् पूर्वोक्ताग्निहोत्रादिविषयत्वेन वा समनन्तरोक्तजन्मदानां बलिविषयत्वेन वा नेतव्यम् । अन्यथा “जातौ विप्रो दशाहेन” इत्य् एतद् वचनं निर्विषयं स्यात् ॥ ४ ॥
उक्तस्य प्रेताशौचस्य जाताशौचस्य च क्वचित् संकोचम् आह ।_
एकाहाच् छुध्यते विप्रो यो ऽग्निवेदसमन्वितः ।
त्र्यहात् केवलवेदस् तु द्विहीनो दशभिर् दिनैः ॥ ५ ॥
इति।
अत्राग्निशब्देनाहवनीयादयो गृह्यन्ते । तैश् च तत्साध्या दर्शपूर्णमासादय उपलक्ष्यन्ते । द्विहीनो द्वाभ्याम् अग्निवेदाभ्यां हीनः । अयम् आशौचसंकोचः स्वाध्यायदुर्मेधसो बहुतरसपिण्डस्य संकुचितवृत्तेश् च प्रतिग्रहादौ द्रष्टव्यः । न तु सर्वकर्मसु । तथा च गौतमः- “ब्राह्मणस्य स्वाध्यायानिवृत्त्यर्थम्” इति (ग्ध् १४।२१) । अयम् अर्थः – ब्राह्मणस्य संपूर्णाशौचे स्वीक्रियमाणे [२१६] स्वाध्यायो निवर्तेत तन् मा भूद् इति । स्वाध्यायानिवृत्तिग्रहणं प्रतिग्रहस्याप्य् उपलक्षणार्थम् । अन्यथा अश्वस्तनिकादीनां संकुचितवृत्तीनां संपूर्णाशौचे स्वीक्रियमाणे जीवनम् एव न स्यात् । एवं च सति एकाहविधानम् अश्वस्तनिकविषयं त्र्यहविधानं त्याहिकविषयं असंकुचितवृत्तेस् तु दशाहम् – इति व्यवस्था । एवमुक्तरीत्या,
सद्यःशौचं तथैकाहं त्र्यहश् चतुरहस् तथा ।
षड्दशद्वादशाहं च पक्षो मासस् तथैव च ॥ (दस्म् ६।२)
इति दक्षोक्ताः पक्षा व्यवस्थापनीयाः । वृत्तिसंकोचेनाशौचसंकोचम् आह संग्रहकारः ।
शिलोञ्छायाचितैर् जीवन् सद्यः शुध्येद् द्विजोत्तमः । इति ।
ननु – विद्वदविद्वद्विषयत्वेनैवायम् आशौचसंकोचः सर्वकर्मसु किं नेष्यते, “यो ऽग्निवेदसमन्वितः” इति विशेषणसामर्थात् ।
तन् न –
दशाहं शावम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५।५९)
इत्य् अविशेषेण दशाहाशौचविधानात् । न च – सामान्यप्राप्तस्य दशाहाशौचस्य विद्वद्विषये बाधः – इति शङ्कनीयम्, बाधस्यानुपपत्तिहेतुकत्वात् । यावत्य् अबाधिते ऽनुपपत्तिर् न शाम्यति [२१७] तावद् बाधनीयम् । अत्र चाध्ययनप्रतिग्रहादिमात्र एव । दशाहाशौचबाधेनैकाहाशौचविधानस्य चरितार्थत्वान् न सर्वत्र दशाहाशौचबाधः । अग्निवेदसमन्वितत्वम् अश्वस्तनिकस्यैकाहाशौचविधिस्तुत्यर्थम्, न त्व् एकाहाशौचविध्यधिकारिविशेषणम् । यत् तु,
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते ॥ (म्ध् ५।६२)
इति मनुना प्रतिग्रहादिनिषेधनं कृतम्, तद् असंकुचितवृत्तिविषयम् । यद् वा उक्तापवादप्रतिसवाभिप्रायेण वा नेयम् ॥ ५ ॥
यदि वृत्तिसंकोचासंकोचाव् एवाशौचसंकोचासंकोचयोः कारणं, तर्ह्य् अत्यन्तासंकुचित-वृत्तेर् निर्गुणस्यामरणम् आशौचं प्राप्नोतीत्य् आशङ्क्य आशौचावधिं दर्शयति ।
जन्मकर्मपरिभ्रष्टः संध्योपासनवर्जितः ।
नामधारकविप्रस् तु दशाहं सूतकी भवेत् ॥ ६ ॥
इति।
जन्मकर्मपरिभ्रष्टः गर्भाधानादिसंस्काररहितः । संध्योपासनवर्जितः संध्योपासनादिनित्यनैमित्तिककर्माण्य् [२१८] अकुर्वाणः अत एवासौ नामधारकविप्रो भवति । तस्यापि दशाहम् एवाशौचम् । नामधारकविप्रस्वरूपं दर्शयति व्यासः ।
ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः ।
जातिमात्रोपजीवी च स भवेन् नामधारकः ॥
गर्भाधानादिभिर् युक्तस् तथोपनयनेन च ।
न कर्मवित् न वाधीते स भवेन् नामधारकः ॥ इति । (व्यास्म् ४।४२–४३)
ननु – संस्काररहितस्य नामधारकविप्रस्य मरणान्तिकम् आशौचं कूर्मपुराणेऽभिहितम् ।
क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर् मरणान्तम् अशौचकम् ॥ इति । (कूपु १।२।२३।९)
दक्षो ऽपि ।
व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा ।
क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥
व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः ।
श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेत् ॥
नासूतकं कदाचित् स्याद् यावज्जीवं तु सूतकम् ॥ (दस्म् ६।९–११)
[२१९] तत् कथं दशाहाशौचम् – इति ।
उच्यते । निन्दार्थवादत्वाद् एतेषां वचनानां न यावज्जीवाशौचविधिपरत्वम् । अन्यथा
नामधारकविप्रस् तु दशाहं सूतकी भवेत् । (पर्स्म् ३।६)
इत्य् एतद् वचनं विरुध्येत ॥ ६ ॥
चतुर्णाम् अपि वर्णानाम् आशौचम् अभिधाय अधुनोत्तमवर्णेन हीनवर्णासूत्पन्नानाम् उत्तमवर्णसंबन्धिनि जनने मरणे चाशौचम् आह ।
एकपिण्डास् तु दायादाः पृथग्दारनिकेतनाः ।
जन्मन्य् अपि विपत्तौ च तेषां तत् सूतकं भवेत् ॥ ७ ॥
इति।
एकः पिण्ड उत्तमवर्णदेह उत्पादको येषां ते तथा । पृथग्दारनिकेतनाः हीनवर्णाः स्त्रियः निकेतनानि उत्पत्तिस्थानानि येषां ते तथा । दायादाः पुत्राः । तेषाम् उत्तमवर्णसंबन्धिनि जनने मरणे च सति तत् सूतकम् उत्तमवर्णसंबन्ध्याशौचं भवेत् । तथा च मनुः ।
सर्वेषूत्तमवर्णानाम् आशौचं कुर्युर् आदृताः ।
तद्वर्णविधिदृष्टेन् स्वाशौचं तु स्वयोनिषु ॥ इति । (म्ध् ५।८७)
अयम् अर्थः – सर्वे हीनवर्णा उत्तमवर्णानां संबन्धिनि जनने मरणे वा उत्तमवर्णविधिदृष्टेन दशरात्रादिकाशौचं कुर्युः । स्वयोनिषु जातेषु मृतेषु च स्वाशौचं कुर्युः । कौर्मे ऽपि ।
[२२०] शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति ।
दशरात्रेण शुद्धिः स्याद् इत्य् आह कमलोद्भवः ॥ इति । (कूपु १।२।२३।४५)
देवलो ऽपि ।
सर्ववर्णेषु दायादा ये स्युर् विप्रस्य बान्धवाः ।
तेषां दशाहम् आशौचं विप्राशौचे विधीयते ॥ इति ।
एतच् चाशौचम् अविभक्तविषयम् । तथा च आपस्तम्बः ।
क्षत्रविट्शूद्रजातीनां यदि स्थो मृतसूतके ।
तेषां तु पैतृकाशौचं विभक्तानां त्व् अपैतृकम् ॥ इति ।
अपैतृकं मातृजाजीयम् इत्य् अर्थः । अधमवर्णसंबन्धिनि जननादौ उत्तमवर्णस्य यदाशौचं तद् उक्तं कूर्मपुराणे ।
षड्रात्रं वा त्रिरात्रं स्याद् एकरात्रं क्रमेण तु ।
वैश्यक्षत्रियविप्राणां शूद्रे चाशौचम् एव हि ॥ इति । (कूपु १।२।२३।४२)
विष्णुर् अपि- “ब्राह्मणस्य क्षत्रियविट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः । क्षत्रियस्य विट्शूद्रेषु षड्रात्रत्रिरात्राभ्याम् । वैश्यस्य शूद्रेषु षड्रात्रेण” इति (विध् २२।२२–२४) । बृहस्पतिस् तु प्रकारान्तरेणाशौचम् आह ।
दशाहाच् छुध्यते विप्रो जन्महान्योः स्वयोनिषु ।
सप्तपञ्चत्रिरात्रैस् तु क्षत्रविट्शूद्रयोनिषु ॥ इति ।
अत्र षड्रात्रसप्तरात्रादिपक्षयोर् विकल्पः । स्नेहादिना वा व्यवस्थान् ॥ ६ ॥
उक्तस्य भिन्नजातीयविषयस्याशौचस्य सजातीयेष्व् इव साप्तपुरुषत्वप्राप्तौ तदवधिम् आह ।_
तावत् तत् सूतकं गोत्रे चतुर्थपुरुषेण तु । इति ।
तत् सूतकं भिन्नजातीयसन्ततिविषयोक्तम् आशौचम् । तावत् यावत् त्रिपुरुषम् । चतुर्थपुरुषेण तु निवर्तते, तत्र सापिण्ड्यनिवृत्तः,
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
सजातीयेषु वर्णेषु चतुर्थे भिन्नजातिषु ॥
इति वृद्धपराशरवचनात् । शातातपो ऽपि ।
यद्य् एकजाता बहवः पृथक्क्षेत्राः पृथग्दनाः ।
एकपिण्डाः पृथक्शौचाः पिण्डस् त्व् आवर्तते त्रिषु ॥ इति ।
सजातीयेषु पञ्चमादिष्व् आशौचतारतम्यं वक्तुं सापिण्ड्यनिवृत्तिम् आह ।
दायाद् विच्छेदम् आप्नोति पञ्चमो वात्मव्ंशजः ॥ ८ ॥
इति।
दायशब्देन पिण्डो लक्ष्यते । तस्माद् विच्छेदम् अवाप्नोति । आत्मवंशजः पञ्चमः । वाशब्दात् षष्ठसप्तमौ वा । तत्र सापिण्ड्यं निवर्तते – इति । तद् उक्तं गौतमेन- [२२२] “पिण्डनिवृत्तिः पञ्चमे सप्तमे वा” इति (ग्ध् १४।७) । वाशब्दात् षष्ठे ॥ ८ ॥
यदर्थं सापिण्ड्यनिवृत्तिर् अभिहिता तद् इदानीम् आह ।
चतुर्थे दशरात्रं स्यात् षण्णिशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच् छुद्धिः सप्तमे तु दिनत्रयात् ॥ ९ ॥
इति।
पितृपक्षे कूटस्थम् आरभ्य गणनायां चतुर्थे दशरात्रम् आशौचम् । पञ्चमे षड्रात्रं षष्ठे चतूरात्रं सप्तमे त्रिरात्रम् इति ।
ननु – सापिण्ड्यस्य सप्तपुरुषपर्यन्तत्वात् सपिण्डेषु चाविशेषेण दशाहाशौचविधानाद् आशौचस्य संकोचविधानम् अनुपपन्नम् । सापिण्ड्यस्य सप्तपुरुषपर्यन्तत्वं मत्स्यपुराणे ऽभिहितम् ।
लेपभाजश् चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
पिण्डदः सप्तमस् तेषां सापिण्ड्यं साप्तपौरुषम् ॥ इति । (मत्स्पु १८।२९)
मनुर् अपि ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥ (म्ध् ५।६०)
[२२३] इति ।
सत्यम् – तथापि पञ्चमादिषु सापिण्ड्यनिवृत्तेर् विकल्पेन स्मृतत्वात् तदनुरोधेनाशौचसंकोचविधानं विकल्पेन युज्यते । उदाहृतं च गौतमवचनम्- “पिण्डनिवृत्तिः पञ्चमे सप्तमे वा” इति (ग्ध् १४।७) । पैठीनसिर् अपि- “त्रीन् अतीत्य मातृतः पञ्चातीत्य पितृतः” इति ।
ननु – एवं तर्हि पञ्चमादीनां समानोदकत्वेन “त्र्यहात् तूदकदायिनः” इति त्रिरात्रम् आशौचं प्राप्नुयात् अतः षड्रात्रादिविधानम् अनुपपन्नम् इति ।
सत्यम् – पञ्चमादिषु त्रिरात्राशौचं प्राप्नोति तथापि विशेषविधानाद् अपोद्यते । सामान्यशास्त्रस्य विशेषशास्त्रविषयेतरपरत्वस्य युक्तत्वात् ॥ ९ ॥
उक्तस्य प्रेताशौचस्य क्वचिद् अपवादम् आह ।_
भृग्वग्निमरणे चैव देशान्तरमृते तथा ।
बाले प्रेते च संन्यस्ते सध्यःशौचं विधीयत् ॥ १० ॥
इति।
भृगुः प्रपातः । अग्निः प्रसिद्धः । भृग्वग्निमरणं प्रमादादिन विना दुर्मरणमात्रोपलक्षणम्, प्रायश्चित्तानुरोधात् । एतन्निमित्ते [२२४] मरणे सति तत्संबन्धिनां सर्वेषां सपिण्डानां सद्यःशौचं न तु दशाहाशौचम् इति । तथा च याज्ञवल्क्यः ।
हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । इति । (य्ध् ३।२१)
नृपो ऽभिषिक्तः क्षत्रियः । गोशब्दः शृङ्गिदंष्ट्र्यादीनां सर्वेषां तिरश्चाम् उपलक्षकः । विप्रग्रहणं चण्डालाद्युपलक्षणार्थम् । एतैर् नृपादिभिर् हतानां विधिम् अन्तरेणात्मत्यागकारिणां च ये संबन्धिनः सपिण्डाः तेषां अन्वक्षं यावच्छवदर्शनम् आशौचं न तु दशाहादिपर्यन्तम् इत्य् अर्थः । दुर्मृतानाम् उदकदानादिकम् अपि नास्ति । तथा च यमः ।
चण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मणाम् ॥
उदकं पिण्डदानं च प्रेतेभ्यो यत् प्रदीयते ।
नोपतिष्ठति तत् सर्वम् अन्तरिक्षे विनश्यति ॥
नाशौचं नोदकं नाश्रु न दाहाद्यन्तकर्म च ।
ब्रह्मदण्डहतानां च न कुर्यात् कटधारणम् ॥ इति ।
ब्रह्मदण्डो ब्राह्मणशापः अभिचारो वा । कटशब्देन शववहनोपयोगिकटादिकम् अभिधीयते । आपस्तम्बो ऽपि ।
व्यापादयेद् य आत्मानं स्वयम् अग्न्युदकादिभिः ।
विहितं तस्य नाशौचं नापि कार्योदकक्रिया ॥
[२२५] इति । एतच् च बुद्धिपूर्वकमरणविषयम् । अत एव गौतमः- “गोब्राह्मणहतानाम् अन्वक्षम् । राजक्रोधाच् च । युद्धे । प्रायोऽनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम्” इति (ग्ध् १४।६–९) । प्रायो महाप्रस्थानम् । अनाशकम् अनशनम् । प्रपतनं भृगुपतनम् । एतैर् बुद्धिपूर्वकं हतानां सपिण्डस्यान्वक्षम् आशौचम् इत्य् अर्थः । अतश् चैतद् उक्तं भवति । सर्पादिना चण्डालादिना वा विग्रहं कुर्वन् यस् तैर् हतः तस्यैवायं पिण्डदानादिनिषेधः । एवं दुष्टदंष्ट्र्यादीन् ग्रहीतुम् आभिमुख्येन गच्छतो मरणे ऽयम् आशौचादिनिषेधः । एवं राज्ञः प्रातिकूल्यम् आचरतो मरणे । एवं बाहुभ्यां नदीतरणे ऽपि । एवं सर्वत्रानुसंधेयम् । अत एव ब्रह्मपुराणम् ।
शृङ्गिदंष्ट्रिनखिव्यालविषवह्निमहाजलैः ।
सुदूरात् परिहर्तव्यैः कुर्वन् क्रीडां मृतस् तु यः ॥
[२२६] नागानां विप्रियं कुर्वन् दग्धश् चाप्य् अथ विद्युता ।
निगृहीताश् च ये राज्ञा चौर्यदोषेण कुत्रचित् ॥
परदारान् हरन्तश् च रोषात् तत्पतिभिर् हताः ।
असमानैश् च संकीर्णैश् चण्डालाद्यैश् च विग्रहम् ॥
कृत्वा तैर् निहतास् तद्वच् चण्डालादीन् समाश्रिताः ।
क्रोधात् प्रायं विषं वह्निं शस्त्रम् उद्बन्धनं जलम् ॥
गिरिवृक्षप्रपातं च ये कुर्वन्ति नराधमाः ।
महापातकिनो ये च पतितास् ते प्रकीर्तिताः ॥
पतितानां न दाहह् स्यान् नान्त्येष्टिर् नास्थिसंचयः।
न वाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं क्वचित् ॥ इति ।
ननु – अयं चण्डालादिहतानाम् अग्निसंस्कारनिषेधो ऽनाहिताग्निविषयः । आहिताग्निविषयत्वे “आहिताग्निम् अग्निभिर् यज्ञपात्रैश् च दहेत्” इति श्रुतिविहिताग्नियज्ञपात्रादि-प्रतिपत्तिलोपप्रसङ्गाद् इति ।
मैवम्, स्मृत्यन्तरे चण्डालादिहताहिताग्निसंबन्धिनाम् अग्नीनां यज्ञपात्राणां च प्रतिपत्त्यन्तरविधानात् ।
वैतानं प्रक्षिपेद् अप्सु आवसथ्यं चतुष्पथे ।
पात्राणि तु दहेद् अग्नौ यजमाने वृथा मृते ॥
आत्मनस् त्यागिनां नास्ति पतितानां तथा क्रिया ।
तेषाम् अपि तथा गङ्गातोये संस्थापनं हितम् ॥ इति ।
तस्मात् सर्वेषां दुर्मृतानाम् अविशेषेण दाहादिनिषेधः । अयम् आशौचश्राद्धादिनिषेधो यावत् संवत्सरम् । पूर्णे तु [२२७] संवत्सरे प्रेतस्य श्राद्धादिसंप्रदानयोग्यतासिद्ध्यर्थं नारायणबलिं कृत्वा सर्वम् और्ध्वदैहिकं कार्यम् एव । तद् उक्तं षट्त्रिंशन्मते ।
गोब्राह्मणहतानां च पतितानां तथैव च ।
ऊर्ध्वं संवत्सरात् कार्यं सर्वम् एवौर्ध्वदैहिकम् ॥ इति ।
नारायणबलेश् च प्रेतशुद्ध्यापादकत्वं व्यासेनोक्तम् ।
नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते ।
तस्य शुद्धिकरं कर्म तद् भवेन् न तद् अन्यथा ॥ इति ।
सर्पहते त्व् अयं विशेषः – संवत्सरपर्यन्तं पञ्चभ्यां नागपूजां कृत्वा संवत्सरानन्तरं नारायणबलिं कृत्वा सौवर्णं नागं दद्यात् प्रत्यक्षां च गाम् । तद् उक्तं भविषोत्तरपुराणे ।
सुवर्णाकारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
विप्राय दत्वा विधिवत् पितुर् आनृण्यम् आप्नुयात् ॥ इति ।
प्रमादमरणे त्व् आशौचम् अस्त्य् एव । तथा च अङ्गिराः ।
यदि कश्चित् प्रमादेन म्रियते ऽग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥ इति ।
ब्रह्मपुराने ऽपि ।
प्रमादाद् अथ निःशङ्कम् अकस्मात् विधिचोदितः ।
शृङ्गिदंष्ट्रिनखिव्यालविषविद्युज्जलाग्निभिः ॥
[२२८] चण्डालैर् अथ वा चौरैर् निहतो यत कुत्रचित् ।
तस्य दाहादिकं कार्यं यस्मान् न पतितस् तु सः ॥ इति ।
विधितो भृग्वग्निमरणे तु अस्ति विशेषः । तथा च शातातपः ।
वृद्धः शौचक्रियालुप्तः प्रत्याख्यातभिषक्क्रियः ।
आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनादिभिः ॥
तत्र त्रिरात्रम् आशौचं द्वितीये त्व् अस्थिसंचयः ।
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धम् आचरेत् ॥ इति ।
अस्ति च भृग्वादौ विधिः । तथा च आदित्यपुराणम् ।
दुश्चिकित्स्व्यैर् महारोगैः पीडितस् तु पुमान् यदि ।
प्रविशेज् ज्वलनं दीप्तं कुर्याद् अनशनं तथा ॥
अगाधतोयराशिं वा भृगोः पतनम् एव वा ।
गच्छेन् महापथं वापि तुषारगिरिम् आदरात् ॥
प्रयागवटशाखायां देहत्यागं करोति वा ।
उत्तमान् आप्नुयाल् लोकान् नात्मघाती भवेत् क्वचित् ॥
[२२९] वाराणस्यां मृतो यस् तु प्रत्याख्यातभिषक्क्रियः ।
काष्ठपाषाणमध्यस्थो जाह्नवीजलमध्यगः ॥
अविमुक्तोन्मुखस् तस्य कर्णमूलगतो हरः ।
प्रणवं तारकं ब्रूते नान्यथा कुत्रचित् क्वचित् ॥ इति ।
ब्रह्मगर्भः ।
यो ऽनुष्ठातुं न शक्नोति महाव्याध्युपपीडितः ।
सो ऽग्निवारिमहायात्रां कुर्वन् नामुत्र दुष्यति ॥ इति ।
“देशान्तरमृत” इत् असपिण्डे देशान्तरमृते सद्यः शौचम् इत्य् अर्थः । तद् आह मनुः ।
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।
सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ इति । (म्ध् ५।७८)
देशान्तरस्थत्वेन वा सपिण्डो विशिष्यते । देशान्तरलक्षणं वृद्धमनुनोक्तम् ।
महानद्यन्तरं यत्र गिरिर् वा व्यवधायकः ।
वाचो यत्र विभिद्यन्ते तद् देशान्तरम् उच्यते ॥ इति ।
बृहस्पतिनापि ।
देशान्तरं वदन्त्य् एके षष्टियोजनम् आयतम् ।
चत्वारिंशद् वदन्त्य् एके अन्ये त्रिंशत् तथैव च ॥ इति ।
योजनलक्षणं तु स्मृत्यन्तरे ऽभिहितम् ।
तिर्यग्यवोदराण्य् अष्टौ ऊर्ध्वा वा व्रीहयस् त्रयः ।
[२३०] प्रमाणम् अङ्गुलस्योकं वितस्तिर् द्वादशाङ्गुलम् ॥
वितस्तेर् द्विगुणो ऽरत्निस् तस्मात् किष्कुस् ततो धनुः ।
धनुःसहस्रे द्वे क्रोशश् चतुःक्रोशं तु योजनम् ॥ इति ।
बालो ऽत्राकृतनामा । तस्मिन् मृते सति तत्सपिण्डानां मरणनिमित्ते सद्यः शौचम् इत्य् अर्थः । तथा च शङ्खः- “प्राङ्नामकरणात् सद्यः शुद्धिः” इति । कात्यायनो ऽपि ।
अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति ।
सद्य एव विशुद्धिः स्यात् न प्रेतं नोदकक्रिया ॥ इति ।
मातापितृसहोदरव्यतिरिक्तविषयम् एतत् । तथा च व्याघ्रः ।
बाले मृते सपिण्डानां सद्यःशौचं विधीयते ।
दशाहेनैव दम्पत्योः सोदराणां तथैव च ॥ इति ।
जाते मृते मृतजाते वा सपिण्डानां सध्यशौचम् । जन्मदिवसे शिशुमरणे मात्रादीनां दशाहेनैव शुद्धिः । दिवसान्तरमरणे तु शेषाहोभिर् विशुद्धिः । तथा च व्याघ्रः ।
अन्तर्दाहे जातस्य शिशोर् निष्क्रमणं यदा ।
सूतकेनैव शुद्धिः स्यात् पित्रोः शातातपो ऽब्रवीत् ॥ इति ।
स्मृत्यन्तरम् अपि- “अन्तर्दशाहोपरतस्य यत् पित्रादीनां मरणाशौचं तत् सूतकाहोभिः” [२३१] इति । गच्छतीति शेषः । जनननिमित्तं त्व् आशौचं सर्वाम् अस्त्य् एव । तथा च हारीतः- “जातमृते मृतजाते वा सपिण्डानां दशाहः” इति । बृहन्मनुर् अपि ।
दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः ।
शावाशौचं न कर्तव्यं सूत्याशौचं समाचरेत् ॥ इति ।
एतच् च नाभिच्छेदाद् ऊर्ध्वं वेदितव्यम् । तथा च जैमिनिः ।
यावन् न छिद्यते नालं तावन् नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥ इति ।
नाभिच्छेदात् प्राग् बृहन्मनुर् आह ।
जीवन् जातो यदि ततो मृतः सूतक एव तु ।
सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥ इति ।
यत् तु बृहत्प्रचेतोवचनम्,
मुहूर्तं जीवतो बालः पञ्चत्वं यदि गच्छति ।
मातुः शौचं दशाहेन सद्यःशौचास् तु गोत्रिणः ॥
इति, तद् अग्निहोत्रार्थं सद्यःशौचप्रतिपादनपरम् । तथा च शङ्खः- “अग्निहोत्राद्यनुष्ठानार्थं स्नात्वोपस्पर्शनात् तत् कालं शौचम्” इति । संन्यस्ते मृते सति तत्सपिण्डानां सद्यःशौचम् । तथा च वामनपुराणम् ।
[२३२] बाले प्रव्रजिते चैव देशान्तरमृते तथा ।
सद्यःशौचं समाख्यातं विद्युत्पातमृते तथा ॥ इति । (वापु १४।९९–१००)
स्मृत्यन्तरम् अपि ।
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च ।
न तस्य दहनं कार्यं नाशौचं नोदकक्रिया ॥ इति ॥ १० ॥
पूर्वम् असपिण्डस्य देशान्तरगतस्य मरणश्रवणे तत्सपिण्डानां सद्यःशौचम् अभिधाय अधुना देशान्तरगतस्य सपिण्डस्य संवत्सराद् ऊर्ध्वं मरणश्रवणे ऽपि तत्सपिण्डानां सद्यःशौचं विदधाति ।
देशान्तरमृतः कश्चित् सगोत्रः श्रूयते यदि ।
न त्रिरात्रम् अहोरात्रं सद्यः स्नात्वा शुचिर् भवेत् ॥ ११ ॥
इति।
सगोत्रः सपिण्डः । तस्य देशान्तरगतस्य संवत्सराद् ऊर्ध्वं मरणश्रवणे तत्सपिण्डानां न त्रिरात्रम् अहोरात्रं वाशुचं किं तु सद्यःशौचम् । दशाहाद् ऊर्ध्वम् अर्वाक् त्रिपक्षात् त्रिरात्रं षण्मासाद् अर्वाक् पक्षिणी अर्वाक् संवत्सराद् एकाहम् इत्य् अर्थः । तथा च देवलः- “आ त्रिपक्षात् त्रिरात्रं स्यात् षण्मासात् पक्षिणी ततः । परम् एकाहम् आ वर्षाद् ऊर्ध्वं स्नातो विशुध्यति” इति । विष्णुर् अपि- [२३३] “अर्वाक् त्रिपक्षात् त्रिणिशं षण्मासाच् च दिवानिशम् । अहः संवत्सराद् अर्वाग् देशान्तरमृतेष्व् अपि” इति । अत्र दिवाशब्देनाहर्द्वयम् उच्यते, “षण्मासात् पक्षिणी” इति वचनान्तरात् । याज्ञवल्क्यो ऽपि ।
प्रोषिते कालशेषः स्यात् पूर्णे दत्वोदकं शुचिः । इति । (य्ध् ३।२१)
प्रोषिते देशान्तरस्थे सपिण्डे मृते आशौचमध्ये श्रुते सति तत्कालशेषेणैव शुद्धिः । पूर्णे संवत्सरे व्यतीते तन्मरणश्रवणे स्नात्वोदकं दत्वा शुचिर् भवतीत्य् अर्थः । तथा च मनुः ।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति । इति । (म्ध् ५।७६)
यत् तु गौतमेनोक्तम्- “श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी” (ग्ध् १४।११) इति, तत् त्रिपक्षाद् ऊर्ध्वम् अर्वाक् षण्मासाद् वेदितव्यम्, “षण्मासात् पक्षिणी” इति देवलस्मरणात् । यत् पुनर् वसिष्ठवचनम्- “देशान्तरस्थे मृते ऊर्ध्वं दशाहात् श्रुत्वा एकरात्रम्” (वध् ४।३६) इति, यच् च गद्यविष्णुवचनम्- [२३४] “व्यतीते त्व् आशौचे संवत्सरस्यान्तस् त्व् एकरात्रेण । ततः परं स्नानेन” (वध् २२।४०–४१) इति, तत् ऊर्ध्वं षण्मासाद् अर्वाक् संवत्सराद् वेदितव्यम्, “परम् एकाहम् आ वर्षात्” इति स्मरणात् । यद् अपि शङ्खवचनम् “अतीते दशरात्रे तु त्रिरात्रम् अशुचिर् भवेत्” (शङ्स्म् १५।१२) इति, तत् त्रिपक्षाद् अर्वाग् द्रष्टव्यम्, “अर्वाक् त्रिपक्षात् त्रिणिशम्” इति विष्णुस्मरणात् । अत्र मूलवचनोक्तं सद्यःशौचविधानं ज्ञातिमात्रविषयम् । पित्रादिविषये तु अस्ति विशेषः । तथा च पैठीनसिः ।
पितरौ चेन् मृतौ स्यातां दूरस्थो ऽपि हि पुत्रकः ।
श्रुत्वा तद् दिनम् आरभ्य दशाहं सूतकी भवेत् ॥ इति ।
दक्षो ऽपि ।
महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना ।
अतीते ऽब्दे ऽपि कर्तव्यं प्रेतकार्यं यथाविधि ॥ इति ।
संवत्सराद् ऊर्ध्वम् अप्य् आशौचोदकदानादिकं कार्यं न पुनः स्नानमात्राच् छुद्धिर् इत्य् अर्थः । पितृपत्न्यां मातृव्यतिरिक्तायां विशेषो दक्षेण दर्शितः ।
[२३५] पितृपत्न्याम् अतीतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतीते ऽपि त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।
इदं चातिक्रान्ताशौचम् उपनीतोपरमविषयम् । तथा च व्याघ्रपात् ।
तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ।
उपनीते तु विषमं तस्मिन्न् एवातिकालजम् ॥ इति ।
अयम् अर्थः – षण्मासादिरूपे वयसि यद् आशौचं “आ दन्तजन्मनः सद्यः” इत्यादिवचनविहितं तत् सर्वेषां ब्राह्मणादीनां तुल्यम् अविशिष्टम् । अतिक्रान्ते दशाहादिके त्रिरात्राद्याशौचं यत् तत् सर्वेषां समानम् । उपनीते तु मृते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्य् एवं विषमम् आशौचं ब्राह्मणादीनाम् । अतिकालजम् अतिक्रान्ताशौचं तस्मिन्न् एव उपनीतोपरम एव । नानुपनीतोपरमे – इति । जनने त्व् अतिक्रान्ताशौचं नास्ति । तद् आह देवलः ।
नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्व् अपि । इति ।
मनुर् अपि ।
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जल्म् आप्लुत्य शुद्धो भवति मानवः ॥ इति । (म्ध् ५।७७)
अत्र पुत्रग्रहणात् निर्दशे ऽपि पितुः स्नानेन शुद्धिः । सपिण्डानां त्व् अतिक्रान्ताशौचं नास्तीत्य् अर्थः । अन्तर्दशाहे तु शेषाहोभिर् विशुद्धिः । तथा च शङ्खः ।
[२३६] देशान्तरगतं श्रुत्वा कल्याणं मरणं तथा ।
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥ इति । (शङ्स्म् १५।११)
द्विविधो हि देशान्तरमृतः । कृतसंस्कारो ऽकृतसंस्कारश् च । तत्र कृतसंस्कारस्य मरणश्रवणे संवत्सराद् अर्वाग् ऊर्ध्वं वाशौचं वचनद्वये व्यस्थापितम् । अकृतसंस्कारस्य मरणश्रवणे त्व् आशौचग्रहणपिण्डदानादेः कालविशेषो विविच्यते । अकृतसंस्कारो ऽपि द्विविधः, मरणदिवसज्ञानाज्ञानभेदात् । यस्य हि मरणदिवसो विज्ञातः तस्य प्रत्याब्दिकादिश्राद्धं तद् दिवस एव कर्तव्यम् । आशौचग्रहणपिण्डोदकदानं त्व् अनिषिद्धनक्षत्रादिकं पर्यालोच्य तत्रानुष्ठेयम्, शिष्टाचारस्य तथा प्रवृत्तत्वात् ॥ ११ ॥
यस्य तु दिवसो न विज्ञातः तं प्रत्य् एतद् उच्यते ।
देशान्तरगतो विप्रः प्रयासात् कालकारितात् ।
देहनाशम् अनुप्राप्तस् तिथिर् न ज्ञायते यदि ॥ १२ ॥
कृष्णाष्टमी त्व् अमावास्या कृष्णा चैकादशी च या ।
उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ॥ १३ ॥
तीर्थयात्रादिना केनचिन् निमित्तेन देशान्तरगतस्य विप्रस्य [२३७] चिरकालबहुदेश-पर्यटनादिसंपादिताद् आयासबाहुल्याद् यत्र क्वापि देहनाशो भवति । अत एव तन्मरणतिथिर् न ज्ञायते । मरणवार्ता च यदा कदाचित् श्रुता भवति । तत्र तदीयाशौचस्वीकारस् तिलोदकपिण्डदानोपक्रमादिकं चेत्य् एतद् उभयं कृष्णाष्टम्यादिषु तिसृषु तिथिष्व् इच्छया कस्यांचित् तिथौ कर्तव्यम् । तस्याम् एव तिथाव् आब्दिकश्राद्धं च कर्तव्यम् ।
यद्य् अप्य् अस्मिन् वचने आशौचस्वीकारः साक्षान् नोपात्तः तथापि पूर्वोत्तरवचनयोर् आशौचविषयत्वेन तत्प्रकरणत्वाद् आशौचस्वीकारम् अन्तरेण तिलोकदपिण्डदानासंभवाच् चाशौचस्वीकारो ऽप्य् अत्र विवक्षितः – इति गम्यते । उदकादिबहुकर्तव्योपन्यासेन श्राद्धप्रकरणस्य कृत्स्नस्याप्य् अत्र सङ्ग्रहो विवक्षितः । संगृहीतं च तत् प्रकरणम् उपरिष्टाद् अस्माभिः प्रपञ्चयिष्यते ॥ १२–१३ ॥
पूर्वम् अकृतनाम्नो बालस्य मरणे सपिण्डानां सद्यःशुद्धिर् अभिहिता । इदानीं कृतनाम्नो ऽप्य् अजातदन्तस्य बालस्य मरणे सह संस्कारेणाशौचं निषेधति ।
अजातदन्ता ये बाला ये च गर्भाद् विनिःसृताः ।
न तेषाम् अग्निसंस्कारो नाशौचं नोदकक्रिया ॥ १४ ॥
अजातदन्ता अनुत्पन्नदन्ताः कृतनामानो ये बाला मृताः ये च गर्भाद् विनिःसृताः पतिताः तेषां तत्सपिण्डैर् नाग्निसंस्कारादिकं कर्तव्यम् इत्य् अर्थः । तथा च ब्रह्मपुराणम् ।
[२३८] स्त्रीणां तु पतितो गर्भः सद्योजातो ऽथ वा मृतः ।
अजातदन्तो मासैर् वा मृतः षड्भिर् गतस् तथा ॥
वस्त्राद्यैर् भूषितं कृत्वा त्यक्तव्यस् तु स काष्ठवत् ।
खनित्वा तु शनैर् भूमिं सद्यःशौचं विधीयते ॥ इति ।
स्त्रीणां यो गर्भः पतितः यश् च जननक्षण एव मृतः यश् च षण्मासात् प्राक् मृतः यश् च षण्मासाद् ऊर्ध्वम् अप्य् अजातदन्तः सन् मृतः स काष्ठवद् भूमिं खनित्वा निक्षेप्तव्यः । मात्रादिव्यतिरिक्तैः सपिण्डैर् नाशौचादिकं कर्तव्यम् इत्य् अर्थः । विष्णुर् अपि- “अजातदन्ते बाले प्रेते सद्य एव । नाग्निसंस्कारो नोदकक्रिया” इति (विध् २२।२७–२८) ॥ १४ ॥
पूर्वत्र गर्भपाते सपिण्डानां बन्धूनां सध्यशुद्धिम् अभिधाय, अधुना मातुस् तन्निमित्तम् आशौचम् अस्तीत्य् आह ।
यदि गर्भो विपद्येत स्रवते वापि योषितः ।
यावन् मासं स्थितो गर्भो दिनं तावत् तु सूतकम् ॥ १५ ॥
यदि गर्भस्य स्रावपातौ स्यातां तदा यावत्सु मासेषु गर्भः स्थितस् तन्माससंख्यासमदिनं योषितो मातुः सूतकं सूत्याशौचम् इत्य् अर्थः । तथा च याज्ञवल्क्यः ।
गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् । (य्ध् ३।२०)
[२३९] इति । “मासतुल्या निशाः” इति चतुर्थमासप्रभृत्या सप्तमाद् वेदितव्यम् । अर्वाक् तु यथावर्णं त्रिरात्रादयः । तथा च मरीचिः ।
गर्भस्रुत्यां यथामासम् अचिरे तूत्तमे त्र्यहम् ।
राजन्ये तु चतूरात्रं वैश्ये पञ्चाहम् एव तु ॥
अष्टाहेन तु शूद्रस्य शुद्धिर् एषा प्रकीर्तिता ॥ इति ।
अचिरे मासत्रये गर्भस्रावे उत्तमे ब्राह्मणे त्र्यहम् । गौतमो ऽपि- “गर्भमाससमा रात्रिः संस्रवे गर्भस्य । त्र्यहं वा” इति (ग्ध् १४।१०–११) । अत्र गर्भमाससमरात्रित्र्यहयोर् व्यवस्थितो विकल्पः । मासत्रयं यावत् त्र्यहं ततः परं माससमा त्रात्रय इति । आदिपुराणे ऽपि ।
षण्मासाभ्यन्तरं यावद् गर्भस्रावो भवेद् यदि ।
तदा माससमैस् तासां दिवसैः शुद्धिर् इष्यते ॥ इति ।
एतच् च स्रावनिमित्ताशौचं मातुर् एव । पातनिमित्तं तु पित्रादीनाम् अप्य् अस्ति । तथा च मरीचिः
स्रावे मातुस् त्रिरात्रं स्यात् सपिण्डाशौचवर्जनम् ।
पाते मातुर् यथामासं सपिण्डानां दिनत्रयम् ॥ इति ।
वसिष्ठो ऽपि- “ऊनद्विवर्षे प्रेते गर्भपाते वा सपिण्डानां त्रिरात्रम्” (वध्। ४।३४) [२४०] इति । स्र्वावे पितुर् विशेषम् आह वृद्धवसिष्ठः- “गर्भस्रावे मासतुल्या रात्रयः स्त्रीणाम् । स्नानमात्रम् एव पुरुषस्य” इति ॥ १५ ॥
ननु – स्रावपातयोर् अप्राप्तप्रसवकालत्वाविशेषाद् अनयोः को विशेष इत्य् अत आह ।
आ चतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं प्रसूतिः स्याद् दशाहं सूतकं भवेत् ॥ १६ ॥
इति।
चतुर्थमासाभ्यन्तरे गर्भनाशः स्रावः । पञ्चमषष्ठयोर् गर्भनाशः पातः । तत्र माससंख्यया विहितम् आशौचं मातुर् भवेत् । अत ऊर्ध्वं सप्तममासप्रभृति गर्भनिर्गमः प्रसवः । तत्र मातुः प्रसवनिमित्तम् आशौचं दशाहं भवेद् इत्य् अर्थः । यत् तु चतुर्विंशतिमते,
अधस्तान् नवमान् मासाच् छुद्धिः स्यात् प्रसवे कथम् ।
मृते जीवति वा तस्मिन् अहोभिर् माससंख्ययआ ॥ इति ।
अस्यायम् अर्थः – नवमान् मासाद् अर्वाक् सप्तममासाद् आरभ्य प्रसवे सति तन्निमित्तम् आशौचं सूतिकाव्यतिरिक्तसर्वसपिण्डानां माससंख्याकैर् अहोभिर् विधीयत इति । सूतिकाविषयत्वे दशाहविधिविरोधः प्रसज्येत ।
ननु – एवं तर्हि “जातौ विप्रो दशाहेन” इति सर्वसपिण्डानां जनननिमित्तदशाहाशौच-विधायकवचनं [२४१] विरुध्येत ।
तन् न, तस्य नवमदशममासप्रसवविषयत्वेनोपपत्तेः । अथ वा एकविषयत्वे ऽपि विकल्पेन व्यवस्थास्तु ॥ १५ ॥
बालस्याग्निसंस्कारे सत्य् आशौचं दर्शयति ।
दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते ।
अग्निसंस्करणे तेषां त्रिरात्रम् अशुचिर् भवेत् ॥ १६ ॥
इति।
जाता दन्ता यस्यासौ दन्तजातः । तद् अनु पश्चाज् जातो ऽनुजातः अनुत्पन्नदन्त इति यावत् । कृतं चूडाख्यं कर्म यस्यासौ कृतचूडः । तत्र जातदन्तस्याकृतचूडस्यानुजातस्य च सत्य् अग्निसंस्कारे तृतीयवर्षकृतचूडे च संस्थिते तेषां सपिण्डस् त्रिरात्रम् अशुचिर् भवेद् इत्य् अर्थः । तत्राकृतचूडस्य जातदन्तस्य दाहपक्षे त्रिरात्राशौचम् अङ्गिरसोक्तम् ।
यद्य् अप्य् अकृतचूडो वै जातदन्तस् तु संस्थितः ।
दाहयित्वा तथाप्य् एनम् आशौचं त्र्यहम् आचरेत् ॥ इति ।
पुराणे ऽपि ।
अनतीतद्विवर्शस् तु प्रेतो यत्रापि दह्यते ।
आशौचं बान्धवानां तु त्रिरात्रं विद्यते ॥ इति ।
यत् तु विष्णुवचनम् “दन्तजात त्व् अकृतचूडे त्व अहोरात्रेण” (विध् २२।२९) [२४२] इति, तत् खननपक्षे वेदितव्यम् । अजातदन्तस्य कृतचूडस्य दहने त्रिरात्राशौचं षट्त्रिंशन्मते ऽभिहितम् ।
यद्य् अप्य् अजातदन्तः स्यात् कृतचूडस् तु संस्थितः ।
तथापि दाहयेद् एनं त्र्यहं चाशौचम् आचरेत् ॥ इति ।
यत् तु यमेनोक्तम्,
अजातदन्ते तनये शिशौ गर्भच्युते तथा ।
सपिण्डानां तु सर्वेषाम् अहोरात्रम् अशौचकम् ॥
इति, तद् अकृतचूडविषयम् ।
ननु – अजातदन्तस्य कृतचूडत्वं कथम्, तस्य तृतीये विहितत्वाद् इति चेत्,
न,
चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ (म्ध् २।३५)
इति मनुना विकल्पेन विकल्पेन स्मृतत्वात् । “अग्निसंस्करणे” इत्य् एतद् विकल्पेनाभिधानं जातदन्तानुजातयोर् एव । न त्रिवर्षकृतचूडे, तत्राग्निसंस्कारस्य नियतत्वात् । इतरत्राग्निसंस्कारविकल्पो मनुना दर्शितः ।
नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्यान् नाम्नि वापि कृते सति ॥ (म्ध् ५।७०)
[२४३] इति । उदकक्रियेति अग्निसंस्कारोपलक्षणार्थम् ॥ १६ ॥
वयोऽवस्थाविशेषेणाशौचविशेषं दर्शयति ।
आ दन्तजन्मनः सद्य आ चूडान् नैशिकी स्मृता ।
त्रिरारम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥ १७ ॥
इति।
दन्तजननात् प्राग् अतीतस्य बालस्य संबन्धिनां सपिण्डानां सद्यःशौचम् । दन्तजननाद् ऊर्ध्वं प्राक् चूडाकरणाद् अतीतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्रम् अशुद्धिः । व्रतादेश उपनयनम् । अतो ऽर्वाक् चूडायाश् चोर्ध्वम् अतीतस्य संबन्धिनां त्रिरात्रम् अशुद्धिः । ततः परं दशरात्रम् इत्य् अर्थः । तथा च संग्रहकारः ।
नाम्नो दन्तोद्भवाच् चौडाद् उपनीतेर् अधः क्रमात् ।
सद्यः शौचम् अहस् त्र्यहो नियताग्न्युदकः परः ॥ इति ।
शङ्खो ऽपि
अजातदन्ते तनये सद्यःशौचं विधीयते ।
अहोरात्रात् तथा शुद्धिर् बाले त्व् अकृतचूडके ॥
तथैवानुपनीते तु त्र्यहाच् छुध्यन्ति बान्धवाः ॥ इति । (शङ्स्म् १५।४–५)
यत् तु काश्यपवचनम्- “बालानाम् अजातदन्तानां त्रिरात्रेण शुद्धिः” (काश्स्म् ६।८) [२४४] इति, तन् मातापितृविषयम् । अत एव मनुः ।
निरस्य तु पुमान् शुक्रम् उपस्पृश्य विशुध्यति ।
बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥ इति । (म्ध् ५।६३)
बैजिकसंबन्धो जन्यजनकभावः । यत् तु स्मृत्यन्तरम्,
प्राङ् नामकरणात् सद्य एकाहो दन्तजन्मनः ।
इति, तद् दहने वेदितव्यम् । खनने तु सद्यः शुद्धिः, “अजातदन्ते बाले प्रेते सद्य एव । नास्त्य् अग्निसंस्कारो नोदकक्रिया” (विध् २२।२७–२८) इति विष्णुस्मरणात् । यत् तु वसिष्ठवचनम्- “ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्” (विध् ४।३४) इति तज् जातदन्तस्याग्निसंस्कारे द्रष्टव्यम् । ततश् चैवं व्यवस्था – नामकरणात् प्राक् सद्यःशौचं नियतम् । तदूर्ध्वं प्राक् दन्तजननाद् अग्निसंस्कारक्रियायाम् एकाहः । अन्यथा सद्यः शुद्धिः । तस्याप्य् अजातदन्तस्य चूडाकरणे त्रिरात्रम् । दन्तजननाद् ऊर्ध्वम् अर्वाक् चूडाकरणाद् एकाहं खनने । अग्निसंस्कारे तु त्र्यहः । ऊर्ध्वं चूडायाः प्राग् उपनयनात् त्र्यहः । उपनयनाद् ऊर्ध्वं ब्राह्मनादीनां [२४५] दशाहादिकम् इति । इयं व्यवस्था पुमपत्यमरणे द्रष्टव्या । स्त्र्यपत्ये तु विशेषो वृद्धमनुना दर्शितः ।
अप्रौढायां च कन्यायां सद्यःशौचं विधीयते ।
अहस् त्व् अदत्तकन्यासु प्रत्तासु च त्र्यहं तथा ॥ इति ।
अप्रौढायां अकृतचूडायाम् इत्य् अर्थः,
अचूडायां तु कन्यायां सद्यःशौचं विधीयते ।
इत्य् आपस्तम्बस्मरणात् । अदत्तकन्यासु वाचादत्तासु अहोरात्रम् । दत्तासु वाग्दत्तासु त्र्यहम् । तथा च मरीचिः- “चूडाकरणे सद्यःशौचम् । प्राग् वाग्दानाद् एकाहः । दत्तानां प्राक् परिणयनात् त्र्यहम्” इति । ब्रह्मपुराणे ऽपि ।
आ जन्मनस् तु चौलान्तं कन्या यदि विपद्यते ।
सद्यःशौचं भवेत् तत्र सर्ववर्णेषु नित्यशः ॥
ततो वाग्दानपर्यन्तं याव्द् एकाहम् एव हि ।
ततः परं प्रवृद्धायां त्रिरात्रम् इति निश्चयः ॥
वाक्प्रदाने कृते तत्र ज्ञेयं चोभयतस् त्र्यहम् ।
पितुर् वरस्य च ततो दत्तानां भर्तुर् एव हि ॥
स्वजात्युक्तम् अशौचं स्यान् मृतके जातके तथा ॥ इति ।
पुलस्त्यो ऽपि ।
सद्यस् त्व् अप्रौढकन्यायां प्रौढायां वासराच् छुचिः ।
प्रदत्तायां त्रिरात्रेण दत्तायां पक्षिणी भवेत् ॥
[२४६] इति । प्रदत्तायां प्रक्रान्तदानायां वाचादत्तायाम् इति यावत् । वाग्दानानन्तरं मृतायां त्रिरात्रम् । मनुर् अप्य् आह ।
स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ इति । (म्ध् ५।७२)
बान्धवाः पतिसपिण्डाः । सनाभयः पितृसपिण्डाः । यथोक्तेन कल्पेन त्रिरात्रेण । अत एव मरीचिः ।
अवारिपूर्वं प्रत्ता तु या नैव प्रतिपादिता ।
असंस्कृता तु सा ज्ञेया त्रिरात्रम् उभयोः स्मृतम् ॥ इति ।
उभयोर् वरपितृपक्षयोः । अकृतचूडायां यत् सद्यःशौचविधानं कृतचूडायां च यद् एकाहविधानं तन्मातापितृव्यतिरिक्तविषयम् ।
प्रत्ताप्रत्तासु योषित्सु संस्कृतासंस्कृतासु च ।
मातापित्रोस् त्रिरात्रं स्याद् इतरेषां यथाविधि ॥ इति ।
“अजातदन्तासु पित्रोर् एकरात्रम्” इति शङ्ख-कार्ष्णाजिनिभ्यां विशेषस्मरणात् । अदत्तासु त्रिरात्रविधानं जातदन्तविषयम्, अजातदन्तास्व् एकाहविधानात् । संद्कृतासु पित्रोस् त्रिरात्रं तद्गृहमरणे वेदितव्यम् । तथा च विष्णुः- “संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे । [२४७] तत्प्रसवमरणे च बन्धुवर्गस्यैकरात्रं पित्रोस् त्रिरात्रम् इति व्यवस्था” इति (विध् २२।३१–३४) । ब्रह्मपुराणे ऽपि ।
दत्ता नारी पितुर् गेहे सूयेताथ म्रियेत वा ।
तद्बन्धुवर्गस् त्व् एकेन शुचिस् तज्जनकस् त्रिभिः ॥ इति ।
पित्रोर् उपरमे संस्कृतानां स्त्रीणां त्रिरात्रम् । तथा च वृद्धमनुः ।
पित्रोर् उपरमे स्त्रीणाम् ऊढानां तु कथं भवेत् ।
त्रिरात्रेणैव शुद्धिः स्याद् इत्य् आह भगवान् यमः ॥ इति ।
पित्रोर् मातापित्रोर् उपरमे विवाहसंस्कारसंस्कृतानां दुहितॄणां त्रिरात्रेण शुद्धिर् इति । दौहित्रभगिनीसुतयोर् असंस्कृतयोः पक्षिण्याशौचम् संस्कृतयोस् त्रिरात्रम् । तथा च वृद्धमनुः ।
संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।
संस्कृते तु त्रिरात्रं स्याद् इति धर्मो व्यवस्थितः ॥ इति ।
दौहित्रे भगिनीसुते वानुपनीते मृते सति पक्षिणीम् आगामिवर्तमानाहर्द्वययुक्तां रात्रिं मातामहादिः क्षपयेत् । उपनीते तु तस्मिन् मृते सति मातामहादीनां त्रिरात्रम् आशौचं भवेद् इत्य् अर्थः । मातामहादीनां मरणे दौहित्रादीनां त्रिरात्रम् आशौचम् । तथा च बृहस्पतिः ।
त्र्यहं मातामहाचार्यश्रोत्रियेष्व् अशुचिर् भवेत् । इति ।
आचार्यो ऽत्रासपिण्डः सन्न् उपनयनादिकर्ता । श्रोत्रियस् [२४८] त्व् एकशाखाध्यायी मैत्रीप्रातिवेश्यत्वादिनोपसंपन्नः । एतेषु मातामहादिषु मृतेषु त्रिरात्रम् इति । विष्णुर् अपि- “आचार्ये मातामहे च व्यतीते त्रिरारेण” इति (विध् २२।४२) । मनुर् अपि ।
श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् । इति । (म्ध् ५।८१)
एतत् त्रिरात्राशौचं परकर्तृकदहनादौ वेदितव्यम्,
गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् ।
प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥ (म्ध् ५।६५)
इति स्वकर्तृकदाहादौ मनुना विशेषस्मरणात् । मातृष्वस्रादिषु त्रिरात्रम् आशौचम् । तद् आह प्रचेताः ।
मातृष्वसामातुलयोः श्वश्रूश्वशुरयोर् गुरोः ।
मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुध्यति ॥ इति ।
गुरुर् आचार्यः । ऋत्विक् कुलपरम्परायातः । याज्यो ऽपि तथाविधः । यत् तु याज्ञवल्क्यवचनम्,
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च । (य्ध् ३।२४)
इति, यच् च विष्णुवचनम्- [२४९] “आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वश्रूश्वशुर्य-सहाध्यायिशिष्येष्व् अतीतेष्व् एकरात्रेण” (विध् २२।४४) इति, तत्र गुरुर् उपाध्यायः । अन्तेवासी अन्योपनीतः शिष्यः, स्वोपनीते तु- “शिष्यसतीर्थ्यसब्रह्मचारिषु त्रिरात्रम् अहोरात्रम् एकाहः” (ब्ध् १।५।११।३०) इति बौधायनेन त्रिरात्रविधानात् । मातुलः अनुपकारी विदेशस्थो वा । श्रोत्रियो ऽनुपसंपन्नः । श्वश्रूश्वशुराव् अप्य् अनुपकारिणौ विदेशस्थौ वा । एकस्मिन् गुरुकुले ऽल्पकालं सहाध्यायी । एतेष्व् एकरात्रम् इति व्यवस्था । यत् तु मनुनोक्तम्,
मातुले पक्षिणी रात्रिः शिष्यर्त्विग्बान्धवेषु च । (म्ध् ५।८१)
इति, तस्यायम् अर्थः – स्वल्पोपकारके मातुले शिष्यो ऽन्योपनीतसाङ्गवेदाध्यायी ऋत्विक् आधानप्रभृति यावज्जीवम् आर्त्विज्यकारी बान्धवाः मातृपितृबान्धवाः एतेषु पक्षिण्याशौचम् इति । अनौरसपुत्रादिषु त्रिरात्रम् आशौचम् । तद् आह विष्णुः ।
अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ इति । (विध् २२।४३)
त्रिरात्रम् इत्य् अनुवर्तते । हारीतो ऽपि ।
[२५०] परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
मातामहे त्रिरात्रं स्याद् एकाहं तु सपिण्डतः ॥ इति ।
शङ्खो ऽपि ।
अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।
परपूर्वासु च स्त्रीषु त्रिरात्राच् छुद्धिर् इष्यते ॥ इति । (शङ्स्म् १५।१३)
अनौरसाः क्षेत्रजादयः । परपूर्वा पुनर्भुवः । अन्यगता स्वैरिण्यः । एतेष्व् अनौरसादिषु यत् प्रतियोगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदं त्रिरात्रम् आशौचम् इत्य् अर्थः । यत् त्व् एकाहविधानम्,
अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च । (य्ध् ३।२५)
इति, तद् असंनिधिविषयम् । संनिधाव् अपि पितृसपिण्डानाम् एकाह एव । तथा च मरीचिः ।
एकाहस् तु सपिण्डानां त्रिरात्रं यत्र वै पितुः । इति ।
यत् तु प्रजापतिनोक्तम्,
अनाश्रितेषु दारेषु परपत्नीसुतेषु च ।
गोत्रिणः स्नानशुद्धाः स्युस् त्रिरात्रेणैव तत्पिता ॥
इति स्नानाद् एव शुद्धिर् इति, तत् समानोदकविषयं असंनिधिविषयं वा । एकस्यां मातरि पितृद्वयोत्पादितयोर् अन्यतरस्मिन् मृते ऽन्यतरस्य त्रिरात्रम् आशौचं भवति । तथा च मरीचिः ।
[२५१] मात्रैकया द्विपितृकौ भ्रातराव् अन्यगोत्रजौ ।
एकाहं सूतकं तत्र त्रिरात्रं मृतके तयोः ॥ इति ।
असपिण्डयोनिसंबन्धिमरणे पक्षिण्य् आशौचम् । तद् आह गौतमः- “पक्षिण्य् असपिण्डे योनिसंबन्धे सहाध्यायिनि च” इति (ग्ध् १४।१२) । अयम् अर्थः – असपिण्डः स्ववेश्मनि मृतः । योनिसंबन्धा मातृष्वस्रीयपितृष्वस्रीयादयः । सहाध्यायी गुरुकुले सह कृत्स्नवेदाध्यायी । चकाराद् गुर्वङ्गनादयो ऽपि संगृह्यन्ते । तेषु पक्षिणीं तत्संबन्धप्रतियोगी क्षपयेद् इति । तथा च वृद्धमनुः-
मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च ।
आशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥
श्वशुरयोश् च भगिन्यां च मात्य्लान्यां च मातुले ।
पित्रोः स्वसरि तद्वच् च पक्षिणीं क्षपयेन् निशाम् ॥ इति ।
यत् तु विष्णुनोक्तम्- “असपिण्डे स्ववेश्मनि मृते एकरात्रम्” (विध् २२।४६) इति, तद् अप्रधानगृहमरणे वेदितव्यम् । यद् अप्य् अङ्गिरसोक्तम्,
[२५२] गृहे यस्य मृतः कश्चिद् असपिण्डः कथंचन ।
तस्याप्य् अशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥ इति ।
तद् असपिण्डश्रोत्रियविषयम् । यत् तु बृहन्मनुनोक्तम्,
भगिन्यां संस्थितायां तु भ्रातर्य् अपि च संस्थिते ।
मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥
श्यालके तत्सुते चैव सद्यः स्नानेन शुध्यति ।
इति, तत्र भगिन्यादौ सद्यःशुद्ध्यभिधानं देशान्तरमरणविषयम् । जामातृश्यालसुतयोः संनिधाव् एव सध्यशुद्धिर् इति । निवासराजन्य् अहनि मृते ऽहर् आशौचं रात्रौ चेद् रात्रिमात्रम् इति । तद् आह याज्ञवल्क्यः ।
निवासराजनि प्रेते तद् अहः शुद्धिकारणम् । इति । (य्ध् ३।२५)
यस्मिन् देशे निवसति स निवासः स्वदेश उच्यते । तस्य राजनि मृते तद्देशनिवासिनां यस्मिन्न् अहन्य् असौ मृतस् तदहर्मात्रं शुद्धिकारणं रात्रौ चेद् रात्रिमात्रम् इति । अत एव मनुः ।
प्रेते राजनि सज्योतिर् यस्य स्याद् विषयते स्थितः । इति । (म्ध् ५।८२)
ज्योतिषा सौरेण नाक्षत्रेण वा सह वर्तते यद् आशौचं तत् सज्योतिः । अहनि चेद् यावत् सूर्यदर्शणं रात्रौ चेद् यावन् नक्षत्रदर्शनम् इत्य् अर्थः । ग्राममध्ये शवे स्थिते ग्रामस्य तावद् आशौचम् । तद् आह वृद्धमनुः ।
[२५३] ग्राममध्यगतो यावच् छवस् तिष्ठति कस्यचित् ।
ग्रामस्य तावद् आशौचं निर्गते शुचिताम् इयात् ॥ इति ।
ग्रामेश्वरादाव् अपि सज्योतिर् आशौचम् । तद् आह स एव ।
ग्रामेश्वरे कुलपतौ श्रोत्रिये च तपस्विनि ।
शिष्ये पञ्चत्वम् आपन्नो शुद्धिर् नक्षत्रदर्शनात् ॥ इति ।
कुलपतिः समूहपतिः । श्रोत्रियो देशान्तरस्थः ॥ १७ ॥
उक्तस्याशौचस्याग्निहोत्रिब्रह्मचारिणोर् अपवादम् आह_ ।
ब्रह्मचारी गृहे येषां हूयते च हुताशनः ।
संपर्कं न च कुर्वन्ति न तेषां सूतकं भवेत् ॥ १८ ॥
इति।
ब्रह्मचारी उपकुर्वाणको नैष्ठिकश् च । येषां गृहे हुताशनो [२५४] हूयते अग्निहोत्रम् अनुष्ठीयते तेषाम् अग्निहोत्रानुष्ठानकाले नास्त्य् आशौचं यदि ते सूतकिभिः सह संसर्गं न कुर्युः । तद् उक्तं कौर्मे ।
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं कीर्तितं सद्भिः पतिते च तथा मृते ॥ इति । (कूपु १।२।२३।७१)
देवलो ऽपि ।
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं सूतके प्रोक्तं शावे वापि तथैव च ॥ इति ।
बृहस्पतिर् अपि ।
स्वाध्यायः क्रियते यत्र होमश् चोभयकालिकः ।
सायंप्रातर् वैश्वदेवं न तेषां सूतकं भवेत् ॥ इति ॥ १८ ॥
संसर्गस्यास्पृश्यत्वकर्मानधिकारलक्षणाशौचापादकत्वम् अन्वयव्यतिरेकाभ्याम् उपपादयति ।
संपर्काद् दुष्यते विप्रो जनने मरणे तथा ।
संपर्काच् च निवृत्तस्य न प्रेतं नैव सूतकम् ॥ १९ ॥
इति।
स्पष्टार्थम् एतत् ॥ १९ ॥
किं च –
शिल्पिनः कारुका वैद्या दासीदासाश् च नापिताः ।
राजानः श्रोत्रियाश् चैव सद्यःशौचाः प्रकीर्तिताः ॥ २० ॥
सव्रतः सत्रपूतश् च आहिताग्निश् च यो द्विजः ।
[२५५] राज्ञश् च सूतकं नास्ति यस्य चेच्छति पार्थिवः ॥ २१ ॥
उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः ।
तदैव ऋषिभिर् दृष्टं यथाकालेन शुध्यति ॥ २२ ॥
इति।
शिल्पिनश् चित्रकाराद्याः । कारुकाः सूपकारप्रभृतयः । वैद्याश् चिकित्सकाः । श्रोत्रियाः सद्यःप्रक्षालिकाः । व्रतेन चान्द्रायणादिनियमेन सह वर्तते इति सव्रतः । सत्त्रपुतो गवामयनाद्यधिकृतः । एते स्वस्वकर्मणि सद्यःशौचाः । राज्ञः, राजसंबन्धिनो मान्यस्य, यस्य च पुरोहितस्यानन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थम् आशौचाभावम् इच्छति, तयोर् अपि तत्तत्कर्मणि सूतकं नास्ति । निधनशब्देन तत्साधनभूतः संग्रामो लक्ष्यते । तत्र अन्नादिदाने चोद्यतः कृतोपक्रमः आर्तः आपदं प्राप्तः श्राद्धादौ निमन्त्रितो विप्रश् च तदैव सद्य एव शुध्यतीति ऋषिभिर् दृष्टम् । यथाकालेन द्वादशरात्रादिना तथेत्य् अर्थः । तथा च आदिपुराणे ।
शिल्पिनश् चित्रकाराद्याः कर्म यत् साधयन्त्य् अलम् ।
तत् कर्म नान्यो जानाति तस्माच् छुद्धाः स्वकर्मणि ॥
सूपकारेण यत् कर्म करणीयं नरेष्व् इह ।
तद् अन्यो नैव जानाति तस्माच् छुद्धः स सूपकृत् ॥
चिकित्सको यत् कुरुते तद् अन्येन न शक्यते ।
तस्माच् चिकित्सकः स्पर्शे शुद्धो भवति नित्यशः ॥
दास्यो दासाश् च यत् किंचित् कुर्वन्त्य् अपि च लीलया ।
[२५६] तद् अन्यो न क्षमः कर्तुं तस्मात् ते शुचयः सदा ॥
राजा करोति यत् कर्म स्वप्ने ऽप्य् अन्यस्य तत् कथम् ।
एवं सति नृपः शुद्धः संस्पर्शे मृतसूतके ॥
यत् कर्म राजभृत्यानां हस्त्यश्वगमनादिकम् ।
तन् नास्ति यस्माद् अन्यस्य तस्मात् ते शुचयः स्मृताः ॥ इति ।
विष्णुर् अपि- “आशौचम् । न राज्ञां राजकर्मणि । न व्रतिनां व्रते । न सत्त्रिणां सत्त्रे । न कारूणां कारुकर्मणि । न राजाज्ञाकारिणां तदिच्छायाम्” इति (विध् २२।४७–५२) । प्रचेता अपि ।
कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥ इति ।
वृद्धपराशरो ऽपि ।
राज्ञां तु सूतकं नास्ति व्रतिनां न च सत्त्रिणाम् ।
दीक्षितानां च सर्वेषां यस्य चेच्छति पार्थिवः ॥
तपोदानप्रवृत्तेषु नाशौचं मृतसूतके ॥ इति ।
स्मृत्यन्तरम् अपि ।
नित्यम् अन्नप्रदस्यापि कृच्छ्रचान्द्रायणादिषु ।
प्रवृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥
[२५७] गृहीतनियमस्यापि न स्याद् अन्यस्य कस्यचित् ।
निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥ इति ।
ब्रह्मपुराणे ऽपि ।
निमन्त्रितस्य विप्रस्य स्वाध्यायनिरतस्य च ।
देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥
प्रायश्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा ॥ इति ।
मनुर् अपि ।
न राज्ञाम् अघदोषो ऽस्ति व्रतिनां न च सत्त्रिणाम् ।
ऐन्द्रं स्थानम् उपासीना ब्रह्मभूता हि ते सदा ॥
राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते ।
प्रजानां परिरक्षार्थम् आसनं तत्र कारणम् ॥ इति । (म्ध् ५।९३–९४)
याज्ञवल्क्यो ऽपि ।
ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्त्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्य् अपि च कष्टायां सदःशौचं विधीयते ॥ (य्ध् ३।२८–२९)
[२५८] इति । हारीतो ऽपि ।
संग्रामस्थश् च राजन्यो वैश्यो मध्ये गवां स्थितः ।
सत्त्री च ब्राह्मणो नित्यं ब्रह्मचारी च वै शुचिः ॥ इति ।
पैठीनसिर् अपि ।
विवाहयज्ञदुर्गेषु यात्रायां तीर्थकर्मणि ।
न तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत् ॥ इति ।
ब्रह्मपुराणे ऽपि ।
अथ देवप्रतिष्ठायां गणयागादिकर्मणि ।
श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत् ॥ इति ।
अङ्गिरा अपि ।
जनने मरणे चैव त्रिष्व् आशौचं न विद्यते ।
यज्ञे विवाहकाले च देवयागे तथैव च ॥ इति ।
अत्र विवाहादौ सद्यःशौचम् उपक्रान्तविवाहादिविषयम् । अत्र नृपादीनाम् असाधारणकृत्यव्यतिरिक्तविषयेष्व् आशौचम् अस्त्य् एव । तथा च ब्राह्मे पुराणे ।
राज्यनाशस् तु येन स्याद् विना राज्ञा स्वमण्डले ।
प्रयास्यतश् च संग्रामे होमे प्रास्थानिके सति ॥
मन्त्रादितर्पणैर् वापि प्रजानां शान्तिकर्मणि ।
गोमङ्गलादौ वैश्यानां कृषिकालात्ययेष्व् अपि ॥
आशौचं न भवेल् लोके सर्वत्रान्यत्र विद्यते ॥ इति ॥ २०–२२ ॥
[२५९]
किं च –
प्रसवे गृहमेधी तु न कुर्यात् संकरं यदि ।
दशाहाच् छुध्यते माता त्व् अवगाह्य पिता शुचिः ॥ २३ ॥
इति।
प्रसवे जनने । गृहमेधी गृहस्थः । पिता सूतिकया सह यदि संसर्गं न कुर्यात् तदा स्नानेन शुद्धो भवति । माता तु दशाहेन शुद्धा भवतीत्य् अर्थः ॥ २३ ॥
नन्व् एवं तर्हि पितुः कर्मानधिकारलक्षणम् अप्य् आशौचं न स्याद् इत्य् अत आह ।
सर्चेषां शावम् आशौचं मातापित्रोस् तु सूतकम् ।
सूतकं मातुर् एव स्यात् उपस्पृश्य पिता शुचिः ॥ २४ ॥
इति।
यथा सपिण्डानां कर्मानधिकारलक्षणम् आशौचं संपूर्णं तद्वत् पितुर् अपि । मातापित्रोस् तु सूतकम् अस्पृश्यत्वलक्षणम् आशौचम् । तत्रापि दशाहम् अस्पृश्यत्वं मातुर् एव । पितुस् तु स्नानपर्यन्तम् एवेत्य् अर्थः । तथा च पैठीनसिः ।
जनौ सपिण्डाः शुचयो मातापित्रोस् तु सूतकम् ।
सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ इति ।
अयम् अर्थः – जनने मातापितृव्यतिरिक्ताः सर्वे सपिण्डाः स्पृश्याः । मातापित्रोस् तु नास्ति स्पृश्यत्वम् । तत्रापि पिता स्नानेन स्पृश्यो भवति । दशाहं त्व् अस्पृश्यत्वं मातुर् एव । तथा च वसिष्ठः ।
[२६०] नाशौचं विद्यते पुंसः संसर्गं चेन् न गच्छति ।
रजश् चात्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥ इति । (वध् ४।२३)
संवर्तो ऽपि ।
जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।
माता शुद्ध्येद् दशाहेन स्नानात् तु स्पर्शनं पितुः ॥ इति । (संस्म् १४३)
बृहस्पतिर् अपि ।
जाताशौचं तु सर्वेषां सूतकं मातुर् एव च ।
स्नानं प्रकुर्यात् तु पिता ज्ञातयो न सचैलिनः ॥ इति ।
गौतमो ऽपि- “मातापित्रोस् तु सूतकम् उपस्पृश्य पिता शुचिः” इति (ग्ध् १४।२३) । आदिपुराणे ऽपि ।
सूतकी तु मुखं दृष्ट्वा जातस्य जनकस् ततः ।
कृत्वा सचैलं स्नानं तु शुद्धो भवति तत्क्षणात् ॥ इति । ॥ २४ ॥
सूतिकया सह संसर्गकरणे तन्निमित्तम् अस्पृश्यत्वं दशाहम् अस्तीत्य् आह ।
यदि पत्न्यां प्रसूतायां संपर्कं कुरुते द्विजः ।
सूतकं तु भवेत् तस्य यदि विप्रः षडङ्गवित् ॥ २५ ॥
इति।
सूतिकाया पत्न्या सह पतिः संसर्गं यदि कुर्यात् तदा [२६१] विद्याकर्मयुक्तस्य विप्रस्याप्य् अस्पृश्यत्वलक्षणं सूतकं भवेत् किम् उतान्यस्येत्य् अर्थः । तथा च सुमन्तुः- “मातुर् एव सूतकम् । तां स्पृशतश् च । नेतरेषाम्” इति । सूतिकां स्पृशतो जनकस्यास्पृश्यत्वलक्षणं सूतकं भवति नान्येषाम् इत्य् अर्थः ॥ २५ ॥
ननु – जनननिमित्तम् एवास्पृश्यत्वं भर्तुः स्नानानन्तरम् अपि किं न स्यात् । अत आह ।
संपर्काज् जायते दोषो नान्यो दोषो ऽस्ति वै द्विजे ।
तस्मात् सर्वप्रयत्नेन संपर्कं वर्जयेद् बुधः ॥ २६ ॥
इति।
स्नानानन्तरं भर्तुः संसर्गनिमित्तक एव दोषो ऽस्पृश्यत्वापादको जायते न जनननिमित्तको दोषो ऽस्ति । तस्माद् विद्वान् संपर्कं सहशयनासनभोजनादिकं वर्जयेद् इत्य् अर्थः । तथा च बृहस्पतिः ।
यस् तैः सह सपिण्डो ऽपि प्रकुर्याच् छयनाशनम् ।
बान्धवो वा परो वापि स दशाहेन शुध्यति ॥ इति ।
विष्णुर् अप्- “ब्राह्मणादीनाम् आशौचे यः सकृद् एवान्नम् अश्नीयात् तस्य तावद् आशौचं यावत् तेषाम्” इति (विध् २२।८) । अत्रिर् अपि ।
संपर्काज् जायते दोषः पारक्ये मृतजन्मनि ।
तद्वर्जनाद् पितुर् अपि सद्यःशौचं विधीयते ॥
[२६२] इति ॥ २६ ॥
प्रारब्धे यज्ञादौ कर्तुः शुद्धिर् उक्ता । इदानीं कल्पितद्रव्यस्यापि शुद्धिर् अस्तीत्य् आह ।
विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ॥ २७ ॥
इति।
अत्र विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारकर्मोपलक्षणार्थम् । उत्सवो देवतोत्सवः । तेन च देवप्रतिष्ठादिकम् उपलक्ष्यते । यज्ञो ज्योतिष्टोमादिः । तेषु प्रारब्धेषु अन्तरा मध्ये यदि मृतसूतके मरणजनने स्यातां तदा पूर्वसंकल्पितं द्रव्यं देवतायै ब्राह्मणेभ्यो दीयमानं न दुष्यतीत्य् अर्थः । तथा च क्रतुः ।
पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति । इति ।
पक्वे तु विशेषः स्मृत्यन्तरे दर्शितः ।
विवाहोत्सवयज्ञादिष्व् अन्तरा मृतसूतके ।
शृतम् अन्नं परैर् देयं दातॄन् भोक्तॄंश् च न स्पृशेत् ॥ इति ।
कृतान्नम् असूतकिभिर् देयम् । सूतकी तु दातॄन् भोक्तॄंश् च न स्पृशेद् इत्य् अर्थः । यत् तु स्मृत्यन्तरम्,
द्रव्याणि स्वामिसंबन्धाद् अघानि त्व् अशुचीनि च ।
स्वामिशुद्ध्यैव शुध्यन्ति वारिणा प्रोक्षितान्य् अपि ॥
इति, तद् असंकल्पितद्रव्यविषयम् । काचिनिद् असंकल्पितान्य् अपि द्रव्याणि सर्वदा शुद्धानि । तथा च मरीचिः ।
[२६३] लवणे मधुमांसे च पुष्पमूलफलेषु च ।
शाककाष्ठतृणेष्व् अप्सु दधिसर्पिःपयःसु च ॥
तैलौषध्यजिने चैव पक्वापक्वे स्वयंग्रहः ।
पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥ इति ॥ २७ ॥
अनेकनिमित्ताशौचसंनिपाते प्रतिनिमित्तं नैमित्तिकावृत्तौ तां निवारयति ।
अन्तरा तु दशाहस्य पुनर्मरणजन्मनी ।
तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥ २८ ॥
इति।
यदा दशाहाशौचकालमध्ये तत्तुल्यस्य ततो ऽल्पस्य वाशौचस्य निमित्ते जननमरणे स्यातां तदा पूर्वप्रवृत्तं तदाशौचं यावद् अनिर्दशम् अनिर्गतदशाहं स्यात् विप्रस् तावद् एवाशुचिर् भवति न पुनर् मध्योत्पन्नमरणादिनिमित्तकदशाहाद्याशौचवान् इति अर्थः । तथा च मनुः ।
अन्तर्दशाहे स्यातां चेत् पुनर् मरणजन्मनी ।
तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिदशम् ॥ इति । (म्ध् ५।७९)
याज्ञवल्क्यो ऽपि ।
अन्तरा जन्ममरेणे शेषाहोभिर् विशुध्यति । इति । (य्ध् ३।२०)
विष्णुर् अपि- [२६४] “जननाशौचमध्ये यद्य् अपरं जननाशौचं स्यात् तदा पूर्वाशौचव्यपगमे शुद्धिः । मरणाशौचमध्ये ज्ञातिमरणे प्य् एवम्” इति (विध् २२।३५–३८) । अपि शब्दाज् जनने ऽपि मरणाशौचकालेनैव शुद्धिर् इत्य् अर्थः । यदा जनननिमित्तदशाहाशौचमध्ये मरणम् आपतति तदा मरणाद् आरभ्य दशाहं कार्यम् । तथा च अङ्गिराः ।
सूतके मृतकं चेत् स्यान् मृतके त्व् अथ सूतकम् ।
तत्राधिकृत्य मृतकं शौचं कुर्यान् न सूतकम् ॥ इति ।
षट्त्रिंशन्मते ऽपि ।
शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।
शावेन शुध्यते सूतिर् न शावशोधिनी ॥ इति ।
चतुर्विंशतिमते ऽपि ।
मृतजातकयोर् योगे या शुद्धिः सा तु कथ्यते ।
मृतेन शुध्यते जातं न मृतं जातकेन तु ॥ इति ।
अल्पाशौचमध्ये दीर्घकालाशौचप्रातौ न पूर्वेण शुद्धिः । तद् उक्तम् उशनसा ।
स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद् यदि ।
न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति ॥ इति ।
यमेनापि ।
अघवृद्धिमद् आशौचं पश्चिमेन समापयेत् ।
[२६५] यथा त्रिरात्रे प्रक्रान्ते दशाहं प्रविशेद् यदि ।
आशौचं पुनर् आगच्छेत् तत् समाप्य विशुध्यति ॥ इति ।
प्रथमप्रवृत्ताशौचकालापेक्षया दीर्घकालानुवर्तेन वृद्धिमद् आशौचं यदि मध्ये समुत्पयेत तदा पश्चिमेन स्वकालेनैव समापयेद् इत्य् अर्थः । शङ्खो ऽपि ।
समानाशौचसंपाते प्रथमेन समापयेत् ।
असमानं द्वितीयेन धर्मराजवचो यथा ॥ इति । (शङ्स्म् १५।१०)
असमानं दीर्घकालाशौचम् इत्य् अर्थः । हारीतो ऽपि ।
शावान्तः शाव आयाते पूर्वाशौचेन शुध्यति ।
गुरुणा लघु शुध्येत् तु लघुना नैव तद्गुरु ॥ इति ।
कौर्मे ऽपि ।
अघानां यौगपद्ये तु ज्ञेया शुद्धिर् गरीयसा । इति । (कूपु १।२।२३।२४)
गुरुलघुत्वे तु समानजातीययोः कालापेक्षया । विजातीययोः स्वरूपेणैव । तद् उक्तम् तेनैव ।
मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् । इति । (कूपु १।२।२३।६)
क्वचित् कालापेक्षया लघ्वाशौचमध्यवर्तिनो गुर्वाशौचस्य पूर्वाशौचकालेनापगमो ऽस्ति । तद् आह देवलः ।
परतः परतो ऽशुद्धिर् अघवृद्धौ विधीयते ।
स्याच् चेत् तत् पञ्चमाद् अह्नः पूर्वेणैवात्र शिष्यते ॥
[२६६] इति । वर्तमानाशौचमध्यवर्तिनि जननादौ यदाघवृद्धिर् दीर्घकालम् आशौचं तदा परतः प्राप्तं जननादिकम् आरभ्याशुद्धिर् विधीयते । तद् यदि पूर्वप्रवृत्तम् आशौचं पञ्चमदिनात् परतो ऽप्य् अनुवर्तेत तदा पूर्वेणैव पूर्वाशौचकालेनैव दशाहाशौचस्यापि शुद्धिर् विशिष्यते विधीयते । एतद् उक्तं भवति – अन्तरा पतितस्याशौचस्य दीर्घकालत्वे ऽपि यदि पूर्वप्रवृत्तम् आशौचम् उत्तराशौचकालाद् अर्धाधिककालं स्यात् तदा पूर्वप्रवृत्ताशौचकालेनैवोत्तरस्यापि शुद्धिर् भवति । तद् यथा – गर्भपातनिमित्तषडहाशौचमध्ये यदि दशाहाशौचम् आपतेत् तदा षडहाशौचशेषेणैव दशाहाशौचस्यापि निवृत्तिर् इति । एवम् अन्यत्रापि अर्धाधिककालाशौचशेषेणैवाधिककालाशौचस्यापि निवृत्तिर् अवगन्तव्या ।
अन्तरा पतितस्याशौचस्य शेषेण शुद्धिर् इत्य् अत्र विशेषो गौतमेनोक्तः- “रात्रिशेषे द्वाभ्याम् । प्रभाते तिसृभिः” इति (ग्ध् १४।७–८) । रात्रिशब्देनाहोरात्रं लक्ष्यते । रात्रिः शेषो यस्याशौचस्य तस्मिन् विद्यमाने यदाशौचान्तरम् आपतेत् तदा पूर्वाशौचकालानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते तस्या रात्रेश् चरमे यामे पुरा सूर्योदयाद् आशौचसंनिपाते तिसृभी रात्रिभिः शुद्धिः । न तु पूर्वाशौचकालशेषेणेति । तथा शङ्खलिखिताभ्याम् अपि- “अथ चेद् अन्तरा प्रमीयेत जायेत वा शिष्टैर् एव दिवसैः शुध्येत् । अहःशेषे द्वाभ्याम् । प्रभाते तिसृभिः” [२६७] इति । शातातपेनापि ।
रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे त्र्यहाच् छुचिः । इति ।
बौधायनेनापि- “अथ यदि दशरात्रसंनिपाते यद् आद्यं दशरात्रसमाशौचम् आ नवमाद् दिवसात्” (ब्ध् १।५।११।१८) । अस्यार्थः – यावन् नवमदिवसपरिसमाप्तिस् तावत् न पूर्वाशौचकालशेषेणोत्तराशौचस्य निवृत्तिर् इति । नवमशब्देनोपान्त्यदिवस उपलक्ष्यते । ततश् च क्षत्रियादीनाम् अप्य् अन्त्यदिवसाशौचसंनिपाते द्विरात्रं प्रभाते त्रिरात्रम् इत्य् अवगन्तव्यम् । देवलेनापि ।
पुनः पाते दशाहात् प्राक् पूर्वेण सह गच्छति ।
दशमे ऽह्नि पतेद् यस्य द्व्यहात् तु स विशुध्यति ॥
प्रभाते तु त्रिरात्रेण दशरात्रेष्व् अयं विधिः ॥ इति ।
दशाहात् प्राग् इत्य् अत्र दशाहशब्दो ऽन्त्यदिवसोपलक्षकः । दशरात्रेष्व् इत्य् एतद् अपि द्वादशरात्राद्युपलक्षणम् । समानाशौचयोः संनिपाते पूर्वशेषेण शुद्धिर् इत्य् अस्य क्वचिद् अपवादः शङ्खेन दर्शितः ।
मातर्य् अग्रे प्रमीतायाम् अशुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणीम् ॥ इति । (शङ्स्म् १५।१४)
मातरि पूर्वं मृतायां यदि तन्निमित्ताशौचमध्ये पिता म्रियेत तदा न पूर्वाशौचशेषेण शुद्धिः । किं तु पित्राशौचकालेनैव शुद्धिः । तथा पूर्वं पितरि मृते तन्निमित्ताशौचमध्ये मातरि [२६८] प्रमीतायाम् अपि न पित्राशौचकालशेषेण शुद्धिः । किं तु पित्राशौचं समाप्य पक्षिणीं कुर्याद् इत्य् अर्थः ॥ २८ ॥
उक्तस्य दशाहाद्याशौचस्य विषयान्तरे ऽप्य् अपवादम् आह_ ।
ब्राह्मणार्थं विपन्नानां बन्दिगोग्रहणे तथा ।
आहवेषु विपन्नानाम् एकरात्रम् अशौचकम् ॥ २९ ॥
इति।
ब्राह्मणप्राणरक्षणार्थं बन्दिग्रहणे गोग्रहे च सति तद्विमोचनार्थं हतानाम् आहवेष्व् आभिमुख्येन हतानां ये सपिण्डास् तेषाम् एकरात्रम् एवाशौचं न दशरात्रादिकम् इत्य् अर्थः । यत् तु ‘सद्यःशौचम्’ इत्य् अनुवृत्तौ मनुनोक्तम्,
डिम्भाहवहतानां च विद्युता पार्थिवेन च ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति भूमिपः ॥ (म्ध् ५।९५)
इति, तद् असंनिधिविषयम् ॥ २९ ॥
रणहतसपिण्डानाम् एकाहाशौचविधिशेषतया नवभिः श्लोकैर् आहवे हतं प्रशंसति । तत्र प्रथमं परिव्राजकदृष्टान्तेनादित्यमण्डलभेदित्वं दर्शयन्न् अर्थाद् ब्रह्मलोकप्राप्तिं दर्शयति ।
द्वाव् इमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड् योगयुक्तश् च रणे चाभिमुखो हतः ॥ ३० ॥
इति।
योगाभ्यासेनेश्वरम् उपासीनः परिव्राजको ऽर्चिरादिमार्गेण ब्रह्मलोकं गच्छन् मार्गमध्ये वाय्वादित्यचन्द्राणां मण्डलानि [२६९] क्रमेण भित्त्वा तत्र तेभ्य उत्तरोत्तराधिकेभ्यः छिद्रेभ्यो निर्गत्य क्रमेण विद्युदादिलोकान् संचरन् ब्रह्मलोकं प्राप्नोति । छिद्रनिर्गमनं च वाजसनेयिब्राह्मणे श्रुतम् ।
स वाय्म् आगच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वम् आक्रमते स आदित्यम् आगच्छति तस्मै स तत्र विजिहीते यथा लम्बरस्य खं तेन स ऊर्ध्वम् आक्रमते स चन्द्रमसम् आगच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन न ऊर्ध्व आक्रमते । इति (बाउप् ५।१०।१) ॥ ३० ॥
तत्र – चिरकालं महता प्रयासेन योगम् अभ्यस्यता परिव्राजकेन सह समानगतित्वं रणहतस्यायुक्तम् । तस्माद् अल्पकालप्रयासत्वाद् इत्य् आशङ्क्य कालाल्पत्वे ऽपि धैर्यातिशयेन प्रयाससाम्यं सूचयितुम् अभिमुख इत्य् उक्तम् । तम् एव सूचितम् अर्थं विशदीकरोति ।
यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयान् लभते लोकान् यदि क्लीबं न भाषते ॥ ३१ ॥
इति।
लोके शस्त्रधारिणम् एकम् अपि दृष्ट्वा महती प्राणभीतिर् जायते । युद्धकाले तु प्रतिसैन्यगताः सर्वे ऽपि शत्रवः शस्त्रधारिणो [२७०] मारणोद्यता एनं परिवेष्टयन्ति । तदानीम् उत्पद्यमानाया भीतेर् इयत्तैव नास्ति । तादृशीं भीतिं सोढ्वा प्रतिभटाभिमुख्यं गच्छतः शूरस्य धैर्यं योगिधैर्याद् अप्य् अधिकम् । न हि योगिनो यमनियमादिषु क्वचित् प्राणभीतिः संभाविता । ततो यथा जागरणे बहुषु वत्सरेषु अनुभवनीयस्य भोगस्य मुहूर्तमात्रवर्तिनि स्वप्ने साकल्यं दृश्यन्ते तथा चिरभावियोगसाम्यं रणे धैर्यवतः किं न स्यात् । धैर्यातिशयेन साम्यम् अत्र विवक्षितम् इति दर्शयितुं “यदि क्लीबं न भाषते” इत्य् उक्तम् । क्लीबं नपुंसकत्वं विकलता तत्सूचकं भीत्याविष्कारि वाक्यं यदि न भाषते तदानीं योगिसाम्याद् अक्षयान् ब्रह्मलोकावान्तरविशेषान् सालोक्यादीन् लभते ॥ ३१ ॥
परिव्राजकदृष्टान्ते सूर्यमण्डलभेदित्वं संभावयति ।
संन्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच् चलति भास्करः ।
एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति ॥ ३२ ॥
इति।
यद्य् अपि मण्डलस्याचेतनरश्मिसमूहरूपत्वात् तद्भेदे ऽपि नास्ति काचिद् आदित्यस्य वेदना तथापि पूर्वम् अत्यन्तनीचपदे वर्तमानस्येदानीम् उच्चपदप्राप्तिश् चित्तक्लेशहेतुर् भवति । अत एव भित्त्वा परं स्थानं प्रयास्यतीत्य् उक्तम् । एतद् एवाभिप्रेत्य व्यास आह ।
क्रियावद्भिर् हि कौन्तेय देवलोकः समावृतः ।
न चैतद् इष्टं देवानां मर्त्यैर् उपरि वर्तनम् ॥
[२७१] इति । मुमुक्षुपरिव्राजकदर्शनमात्रेण निष्पन्नस्य भास्करचलनस्योपन्यासाद् योगिनो यथोक्तफलं दृढीकृतं भवति ॥ ३२ ॥
रणे चाभिमुखो हत इति दार्ष्टान्तिके ऽभिहितं तच् च हतत्वं धैर्यातिशयस्योपलक्षणम् । असत्य् अपि स्ववधे परत्राणप्रवृत्तस्य धीरस्य यथोक्तफलसद्भावाद् इत्य् आह ।
यस् तु भग्नेषु सैन्येषु विद्रवत्सु समन्ततः ।
परित्राता यदा गच्छेत् स च क्रतुफलं लभेत् ॥ ३३ ॥ इति ।}
क्रतुर् अत्राश्वमेधः, ब्रह्मलोकप्राप्तिफलत्वात् । अश्वमेधस्य च तत्फलत्वं वाजसनेयिशाखायां भुज्युब्राह्मणे- “क्व न्व् अश्वमेधयाजिनो गच्छन्ति” (बाउप् ३।३।२) इत्यादिप्रश्नप्रतिवचनयोर् विस्पष्टम् अवगम्यते ॥ ३३ ॥
यः परित्राणार्थंप्रवृत्तः तस्य प्रवृत्तिमात्रेण क्रतुफलम् उक्तम् । प्रवृत्तस्य गात्रच्छेदे सति हतत्वाभावे ऽपि फलातिशयो ऽस्तीत्य् आह ।
यस्य छेदक्षतं गात्रं शरमुद्गरयष्टिभिः ।
देवकन्यासु तं वीरं हरन्ति रमयन्ति च ॥ ३४ ॥
इति।
गात्रं शरीरम् । छेदक्षतं हस्तपादाद्यवयवछेदेनोपद्रुतम् ॥ ३४ ॥
[२७२]
परित्राणाय प्रवृत्तस्य गात्रछेदे यत् फलं ततो ऽप्य् अतिशयं मरणे दर्शयति ।
देवाङ्गनासहस्राणि शूरम् आयोधने हतम् ।
त्वरमाणाः प्रधावन्ति मम भर्ता ममेति च ॥ ३५ ॥
इति ॥ ३५ ॥
यद्य् अपि यज्ञसङ्घादिकं युद्धमरणं चोभयम् अप्य् एकविधस्य फलस्य समानं साधनं तथापि युद्धमरणस्यात्यल्पकालसाध्यत्वेन वैकल्यासंभवाद् उत्तमसाधनत्वम् इत्य् आह ।
यं यज्ञसङ्घैस् तपसा च विप्राः
स्वर्गैषिणो वात्र यथैव यान्ति ।
क्षणेन यान्त्य् एव हि तत्र वीराः
प्राणाम् सुयुद्धेन परित्यजन्तः ॥ ३६ ॥
इति।
विप्रशब्देन निष्कामा विवक्षिताः । तथा च स्वर्गैषिणो वेति विकल्प उपपद्यते । अत्र पुण्यलोकेषु यं लोकविशेषं यथैव येन प्रकारविशेषेण देवकन्यावरणादिना युक्ताः सन्तो यान्ति तत्र तेषु पुण्यलोकेषु तम् एव लोकविशेषं तेनैव प्रकारेण युद्धहता वीराश् च यान्ति । क्षणेनेत्य् उक्तं तेन कालाल्पत्वम् एतेष्व् अतिषयः ॥ ३६ ॥
[२७३]
ननु – कालस्याल्पत्वे ऽपि प्राणभीतेर् दुष्परिहरत्वात् पूर्वोक्तं युद्धधैर्यं दुर्लभम् इत्य् आशङ्क्य विचारवतः पुरुषस्य तत् सुलभम् इत्य् अभिप्रेत्य तं विचारं दर्शयति ।
जितेन लभ्यते लक्ष्मीर् मृतेनापि सुराङ्गनाङ् ।
क्षणध्वंसिनि काये ऽस्मिन् का चिन्ता मरणे रणे ॥ ३७ ॥
इति।
जितेनेति कर्तरि निष्ठा । यतो जयेन लक्ष्मीलाभः । मरणेन सुराङ्गनालाभः ततो यदि कायजीवनलोभाल् लक्ष्मीदेवाङ्गनालाभौ न पर्यालोच्येते तदा लाभपरित्यागमात्रं तस्य केवलम् अवशिष्यते । कायस् तु सर्वथा न चिरं जीवति । तस्य कर्मप्रापितायुष्यवशवर्तित्वेन क्षणप्रध्वंसिस्वभावत्वात् ॥ ३७ ॥
अत्यन्तनिषिद्धम् अपि रुधिरपानं यत्र निरतिशयसुकृतत्वेन परिणमते तत्र पुणलोकप्राप्तौ को विस्मयः, इत्य् आह ।
ललाटदेशे रुधिरं स्रवच् च
यस्याहवे तु प्रविशेच् च वक्त्रम् ।
तत् सोमपानेन किलास्य तुल्यं
संग्रामयज्ञे विधिवच् च दृष्टम् ॥ ३८ ॥
इति।
संग्रामयज्ञप्रतिपादके नीतिशास्त्रादौ पुरोभागे प्रहारो [२७४] वीरलक्षणत्वेनोपवर्णित इति विवक्षितत्वात् विधिवद् दृष्टम् इत्य् उक्तम् ।
तद् एवं नवभिः श्लोकैर् आशौचविधिस् तावकत्वेन युद्धमरणस्य प्रशंसा कृता । यस्माद् रणहतो ऽत्यन्तपुण्यात्मा तस्मात् तन्मृतौ परिव्राजकमरण इवाधिकाशौचाभाव उपपद्यते । अथ वा त एते नव श्लोकाः प्रकरणाद् उत्कृष्य राजधर्मेषु स्थापनीयाः, युद्धस्य क्षत्रियधर्मत्वात् । यथा दर्शपूर्णमासप्रकरणे श्रूयमाणो रजस्वलाव्रतकलापः प्रकरणाद् उत्कृष्य क्रत्वर्थपरिहारेण पुरुषार्थतयोपवर्णितस् तद्वत् ॥ ३८ ॥
धर्मार्थम् अनाथब्राह्मणशववहनादौ प्रशंसापूर्वकं सद्यःशौचं विदधाति ।
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् आनुपूर्व्याल् लभन्ते ते ॥ ३९ ॥
न तेषाम् अशुभं किंचित् पापं वा शुभकर्मणाम् ।
जलावगाहनात् तेषां सद्यःशौचं विधीयते ॥ ४० ॥
इति।
अनाथं बन्धुरहितम् असपिण्डं ब्राह्मणम् अदृष्टार्थं ये द्विजातयो वहन्ति स्पृशन्ति दहन्ति च ते पदे पदे यज्ञफलानि क्रमेण प्राप्नुवन्ति ।
तथा तेषाम् अशुभादिकम् अपि नास्ति । तेषां स्नानाद् एव सद्यःशुद्धिर् विधीयत इत्य् अर्थः । तथा च वृद्धपराशरः ।
[२७५] प्रेतस्पर्शनसंस्कारे ब्राह्मणो नैव दुष्यति ।
वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुध्यति ॥ इति ।
यत् तु हारीतेनोक्तम्- “प्रेतस्पृशो ग्रामं न विशेयुर् आ नक्षत्रदर्शनात् । रात्रौ चेद् आदित्यस्य” इति, यच् च देवलेनोक्तम्,
अह्नि चेद् वहनं कुर्यात् ऊर्ध्वम् अस्तमयाद् रवेः ।
स्नात्वा गृहं विशेद् विप्रो रात्रौ चेद् उदयाद् रवेः ॥
इति, तत् स्नेहादिनाकरणीयनिर्हारकरणे वेदितव्यम् ॥ ३९–४० ॥
न केवलं नानं किं तु प्राणायामो ऽपि कर्तव्य इत्य् आह ।
असगोत्रम् अबन्धुं च प्रेतीभूतं द्विजोत्तमम् ।
वहित्वा च दहित्वा च प्राणायामेन शुध्यति ॥ ४१ ॥
इति।
असगोत्रम् असपिण्डम् अबन्धुं बन्धुरहितं प्रेतं ब्राह्मणं ये वहन्ति दहन्ति च तेषां प्राणायामेन शुद्धिर् इत्य् अर्थः । न केवलं स्नानप्राणायामौ, अग्निस्पर्शो ऽपि कर्तव्यः । तद् उक्तम् अङ्गिरसा ।
यः कश्चिन् निर्हरेत् प्रेतम् असपिण्डः कथंचन ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं तस्मिन्न् एवाह्नि वै शुचिः ॥ इति ।
स्नेहादिना प्रेतनिर्हरणं कुर्वतो ऽसपिण्डस्याशौचम् अस्ति । तथा च मनुः ।
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ इति । (म्ध् ५।१०१–०२)
यस् तु प्रेतनिर्हरणं कृत्वा तद्गृहे वसति न च तदन्नम् अश्नाति तस्य त्रिरात्रम् आशौचम् । यस् तु तद्गृहे वसन् तदन्नम् अश्नाति तस्य दशरात्रम् । यः पुनः प्रेतं निर्हृत्य तद्गृहवासं तदन्नं च परित्यजति तस्यैकाहम् इत्य् अर्थः । एतत् सवर्णविषयम् । असवर्णशवनिर्हारे तु तज्जातीयम् आशौचं कार्यम् । तद् आह गौतमः- “अपरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वो वापरं तच्छवोक्तम् आशौचम्” इति (ग्ध् १४।१६) । उपस्पर्शनं निर्हरणम् । ब्राह्मणस्य शूद्रशवनिर्हारे मासम् आशौचम् । शूद्रस्य ब्राह्मणशवनिर्हारे दशाहम् आशौचं भवतीत्य् अर्थः । यस् एव् अर्थलोभाद् असवर्णशवनिर्हरणं करोति तस्य द्विगुणम् आशौचं भवतीति । तथा च व्याघ्रः ।
अवरश् चेद् वरं वरो वाप्य् अवरं यदि ।
वहेच् छवं तदाशौचं वृत्त्यर्थे द्विगुणं भवेत् ॥
[२७७] इति । असवर्णप्रेतनिर्हारे तदुक्तम् आशौचम् । तत्र वेतनाश्रयणे द्विगुणं आशौचं भवतीत्य् अर्थः । यत् तु विष्णुपुराणे,
यो ऽसवर्णं तु मूल्येन नीत्वा चैव दहेन् नरः ।
आशौचं तु भवेत् तस्य प्रेतजातिसमं सदा ॥
इति, तद् आपदि द्रष्टव्यम् । अर्थलोभात् सवर्णशववहनादौ स्वजात्युक्ताशौचं कार्यम् । तथा च कौर्मे ।
यदि निर्हरति प्रेतं प्रलोभाक्रान्तमानसः ।
दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ।
अर्धमासेन वैश्यस् तु शूद्रो मासेन शुध्यति ॥ इति । (कूपु १।२।२३।४९–५०)
यस् तु सपिण्ड एव प्रेतं निर्हरति न तस्याशौचाधिक्यम्, प्रेतनिर्हरणस्य विहितत्वात् । तद् आह देवलः ।
विहितं तु सपिण्डानां प्रेतनिर्हरणादिकम् ।
तेषां करोति यः कश्चित् तस्याधिक्यं न विद्यते ॥ इति ।
आधिक्यम् आशौचाध्क्यम् इत्य् अर्थः । समानोदकप्रेतनिर्हरणे दशाहम् । तद् आह स एव ।
यः समानोदकं प्रेतं वहेद् वाथ दहेत वा ।
तस्याशौचं दशाहं तु धर्मज्ञा मुनयो विदुः ॥ इति ।
ब्रह्मचारिणः प्रेतवहनकरणे व्रतलोपः । तद् आह देवलः ।
[२७८] ब्रह्म्चारी न कुर्वीत शववाहादिकाः क्रियाः ।
यदि कुर्याच् चरेत् कृच्छ्रं पुनः संस्कारम् एव च ॥ इति ।
पित्रादिशववहने तु न दोषः । तथा च मनु-देवलौ ।
आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥ इति । (म्ध् ५।९१)
वसिष्ठो ऽपि- “ब्रह्मचारिणः शवकर्मणा व्रतनिवृत्तिः । अन्यत्र मातापित्रोर् गुरोर् वा” इति (वध् २३।७–८) । याज्ञवल्क्यो ऽपि ।
आचार्यपित्रुपाध्यायान् निर्हृत्यापि व्रती व्रती ।
सकटान्नं च नाश्नीयान् न च तिः सह संवसेत् ॥ इति । (य्ध् ३।१५)
व्रती ब्रह्मचारी विप्रादीनां निर्हरणादिकं कृत्वा यद्य् आशौचिभिः सह वासं तदन्नं च परित्यजति तदा व्रती व्रतचर्याया न वियुज्यते इत्य् अर्थः । ब्रह्मपुराणे ऽपि ।
[२७९] आचार्यं वाप्य् उपाध्यायं गुरुं वा पितरं तथा ।
मातरं वा स्वयं दग्ध्वा व्रतस्थस् तत्र भोजनम् ॥
कृत्वा पतति वै तस्मात् प्रेतान्नं न तु भक्षयेत् ।
अन्यत्र भोजनं कुर्यान् न च तैः सह संवसेत् ॥
एकाहम् अशुचिर् भूत्वा द्वितीये ऽहनि शुध्यति । इति ।
ब्राह्मणशववहनादौ शूद्रं न नियोजयेत् । तद् आह मनुः ।
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंस्पर्श्दूषिता ॥ इति । (म्ध् ५।१०४)
अत्र स्वेषु तिष्ठत्स्व् इत्य् अविवक्षितम्, अस्वर्ग्यत्वदोषश्रवणात् । विष्णुर् अपि- “मृतं द्विजं न शूद्रेण निर्हारयेत् । न शूद्रं द्विजेन” (विध् १९।१–२) [२८०] इति । यमो ऽपि ।
न शूद्रो यजमानं वै प्रेतीभूतं समुद्वहेत् ।
यस्यानयति शूद्रो ऽग्निं तृणं काष्ठं हवींषि च ।
प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥ इति ।
ब्राह्मणादिशवनिर्हारे दिङ्नियमो दर्शितो मनुना ।
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वैस् तु यथायोगं द्विजन्मनः ॥ इति । (म्ध् ५।९२)
हारीतो ऽपि- “न ग्रामाभिमुखं प्रेतं हरेयुःऽ इति (हार्स्म् १९।१३) ॥ ४१ ॥
अनुगमनाशौचम् आह ।
अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव वा ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ ४२ ॥
इति।
ज्ञातिं सपिण्डव्यतिरिक्तं बन्धुम्, सपिण्डानुगमनस्य विहितत्वात् । अज्ञातिम् अबन्धुं वा समानोत्कृष्टजातिप्रेतं कामनयानुगम्य सचैलं स्नात्वाग्निं स्पृष्ट्वा घृतभुक् शुध्यति इत्य् अर्थः । तथा च याज्ञवल्क्यः ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः । (य्ध् ३।२६)
[२८१] इति । कौर्मे ऽपि ।
प्रेतीभूतं द्विजं यो ऽनुगच्छेत कामतः ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति । इति । कूपु १।२।२३।५३)
अत्र च विशेषः कावषेयेणोक्तः ।
अनुगम्य शवं बुद्ध्या स्नात्वा स्पृष्ट्वा हुताशनम् ।
सर्पिः प्राश्य पुनः स्नात्वा प्राणायामैर् विशुध्यति ॥ इति ।
न च – घृतप्राशनस्य भोजनकार्ये विधानाद् भोजननिवृत्तिर् इति वाच्यम्, तस्य प्रायश्चित्तत्वेन विधानात् । प्राणायामैर् इति बहुवचनस्य कपिञ्जलन्यायेन त्रित्वे पर्यवसानात् त्रिभिः प्राणायामैः शुध्यति – इत्य् अर्थः ॥ ४२ ॥
निकृष्टजात्यनुगमनाशौचम् आह ।
क्षत्रियं मृतम् अज्ञानाद् ब्राह्मणो यो ऽनुगच्छति ।
**एकाहम् अशुचिर् भूत्वा पञ्चगव्येन शुध्यति ॥ ४३ ॥ **
[२८२] शवं च वैश्यम् अज्ञानाद् ब्राह्मणो यो ऽनुगच्छति ।
कृत्वाशौचं द्विरात्रं च प्राणायामान् षड् आचरेत् ॥ ४४ ॥
प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन् नीयमानं त्रिरात्रम् अशुचिर् भवेत् ॥ ४५ ॥
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ ४६ ॥
इति।
यो ब्राह्मणः अज्ञानान् मौर्ख्यात् क्षत्रियं प्रेतम् अनुगच्छति स एकाहम् आशौचं कृत्वा पञ्चगव्येन शुध्यति । ब्राह्मणो वैश्यशवानुगमनं कृत्वा द्विरात्राशौचानन्तरं षड्भिः प्राणायामैः शुध्यति । शूद्रशवानुगमनं कृत्वा त्रिरात्रम् आशौचं समाप्य महानद्यां स्नात्वा शतं प्राणायामान् कृत्वा घृतप्राशनेन शुध्यति । उप्रक्रमोपसंहारपर्यालोकनया क्षत्रियादिशवानुगमने ऽपि सचैलस्नानाग्निस्पर्शघृतप्राशनान्य् अनुसंधेयानि । एवं च सति क्षत्रियस्य वैश्यशवानुगमने एकाहम्, शूद्रशवानुगमने द्व्यहम्, वैश्यस्य शूद्रशवानुगमने एकाहम् आशौचम् इत्य् ऊहनीयम् । तथा च कौर्मे ।
एकाहात् क्षत्रिये शुद्धिर् वैश्ये स्याच् च द्व्यहेन तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ (कूपु १।२।१३।५४)
[२७३] इति ॥ ४३–४६ ॥
द्विजानां शूद्रशवानुगमननिषेधे कदा तैः शूद्रा अनुसर्तव्या इत्य् अत आह ।
विनिर्वर्त्य यदा शूद्रा उदकान्तम् उपस्थिताः ।
द्विजैस् तदानुगन्तव्या एष धर्मः सनातनः ॥ ४७ ॥
इति।
उदकशब्देनोदकक्रियोच्यते । तस्या अन्तः समाप्तिः तां निर्वर्त्य आशौचं परिसमाप्य यदा स्थिताः तदा द्विजैर् अनुगन्तव्याः अनुसर्तव्याः इति । एवं ब्राह्मणस्यातुरक्षत्रियवैश्यानुसरणं क्षत्रियस्याप्य् आतुरवैश्यानुसरणम् आशौचानन्तरम् एवेत्य् ऊहनीयम् । आशौचमध्ये आतुरव्यञ्जने त्व् आशौचम् अस्ति । तत्र ब्राह्मणमरणविषयातुरव्यञ्जने पारस्करः ।
अस्थिसंचयनाद् अर्वाग् रुदित्वा स्नानम् आचरेत् ।
अन्तर्दशाहे विप्रस्य ऊर्ध्वम् आचमनं स्मृतम् ॥ इति ।
विप्रस्य मृतस्य दशाहाभ्यन्तरे ऽस्थिसंचयनाद् अर्वाग् ब्राह्मणः क्षत्रियादिर् वातुरव्यञ्जनं कृत्वा स्नानम् आचरेत् । तत ऊर्ध्वम् आचनम् आचरेद् इति । क्षत्रियमरणविषयातुरव्यञ्जने क्षत्रियादीनां वैश्यमरणविषयातुरव्यञ्जने वैश्यशूद्रयोश् च प्राग् अस्थिसंचयनात् सचैलं स्नानम् । तत ऊर्ध्वं स्नानमात्रम् एव । एतत् सर्वं ब्रह्मपुराणे ऽभिहितम् ।
[२८४] मृतस्य यावद् अस्थीनि ब्राह्मणस्याहृतानि तु ।
तावद् यो ऽबान्धवस् तत्र रौति तद् बान्धवैः सह ॥
तस्य स्नानाद् भवेच् छुद्धिस् ततस् त्व् आचमनं स्मृतम् ।
सवैलं स्नानम् अन्येषाम् अकृते त्व् अस्थिसंचये ॥
कृते तु केवलं स्नानं क्षत्रविट्शूद्रजन्मनाम् । इति ।
ब्राह्मणस्य क्षत्रियवैश्यमरणविषयातुरव्यञ्जने अस्थिसंचयनाद् अर्वाग् एकाहम् आशौचं सचैलं स्नानं च । तत ऊर्ध्वं सचैलं स्नानमात्रम् । तथा च ब्रह्मपुराणम् ।
अस्थिसंचयने विप्रो रौति चेत् क्षत्रवैश्ययोः ।
तदा स्नातः सचैलस् तु द्वितीये ऽहनि सुध्यति ॥
कृते तु संचये विप्रः स्नानेनैव शुचिर् भवेत् । इति ।
क्षत्रियस्य वैश्यमर्णविषयातुरव्यञ्जने विशेषाश्रवणे ऽपि ब्राह्मणस्य समनन्तरक्षत्रियमरणविषयातुरव्यञ्जने यद् आशौचं विवक्षितं तद् एवात्रेति न्यायतो ऽवगम्यते । शूद्रमरणविषयातुरव्यञ्जने ऽस्थिसंचयनात् प्राक् ब्राह्मणस्य त्रिरात्रम् आशौचम् । क्षत्रियवैश्ययोर् द्विरात्रम् । तत ऊर्ध्वं द्विजातीनाम् एकरात्रम् एव । शूद्रस्य स्पर्शं विनातुरव्यञ्जने ऽस्थिसंचयनाद् अर्वाग् एकरात्रम् आशौचम् । तत ऊर्ध्वं सज्योतिर् आशौचम् इति । तथा च पारस्करः ।
अस्थिसंचयनाद् अर्वाग् यदि विप्रो ऽश्रु पातयेत् ।
मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति ॥
[२८५] अस्थिसंचयनाद् ऊर्ध्वं मासो यावद् द्विजातयः ।
अहोरात्रेण शुध्यन्ति वाससः क्षालनेन च ॥
सजातेर् दिवसेनैव द्व्यहात् क्षत्रियवैश्ययोः ।
स्पर्शं विनानुगमने शूद्रो नक्तेन शुध्यति ॥ इति ।
अत्राश्रुपात आतुरव्यञ्जनमात्रोपलक्षणार्थः । सजातेः शूद्रस्यास्थिसंचयनाद् अर्वाक् स्पर्शं विनानुगमने आतुरव्यञ्जने दिवसेनाहोरात्रेण शुद्धिः । तत ऊर्ध्वं नक्तेन । रात्रौ चेद् रात्र्या अहनि चेद् अह्ना शुद्धिर् इति । एतच् च शवनिर्हर्णानुगमनसहातुरव्यञ्जनादिनिमित्तम् आशौचम् असपिण्डानाम् । सपिण्डानां तु विहितत्वात् नास्ति । तथा च हारीतः ।
विहितं हि सपिण्डस्य प्रेतनिर्हरणादिकम् ।
दोषः स्याद् असपिण्डस्य तत्रानाथक्रियां विना ॥ इति ।
प्रेतनिर्हरणादिकम् इत्य् अत्रादिशब्देन दाहोदकदानादिकम् उच्यते । अनुगमादिविधिस् तु याज्ञवल्क्येन दर्शितः ।
आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥
यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना ।
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥ (य्ध् ३।१–२)
[२८६] इति । ऊनद्विवर्षाद् इतरः संपूर्णद्विवर्षो मृतो ज्ञातिभिः सपिण्डैः श्मशानभूमिं यावद् अनुगन्तव्यः । तथा यमसूक्तं परेयुवांसम् इति षोडशर्चं तथा यमदैवत्या गाथाश् च जपद्भिर् लौकिकाग्निना स दग्धव्यः । उपेत उपनीतश् चेन् मृतः तदा आहिताग्निसंस्कारप्रकारेणार्थवत् प्रयोजनवद् यथा भवति तथा दग्धव्यः । अयम् अभिप्रायः – येषां भूशोधनप्रोक्षणादीनाम् आहिताग्निविहितसंस्काराणां करणम् अर्थवत् द्वारकार्यरूपं प्रयोजनम् अस्ति तान्य् अननुष्ठेयानि । यानि तु लुप्तार्थानि पात्रप्रयोजनादीनि तान्य् अनुष्ठेयानि । यथा कृष्णलेष्व् अतिदेशप्राप्तेष्व् अवघातप्रोक्षणादिषु द्वारलोपाद् अवघातादीनाम् अननुष्ठानं प्रोक्षणादीनां त्व् अनुष्ठानम् इति । अत्र लौकिकाग्निग्रहणं जातारणेर् अभावे । तत्सद्भावे तु तन्मथितो ऽग्निर् ग्राह्यः । न तु लौकिकाग्निः । तस्याग्निसंपाद्यकार्यमात्रार्थत्वेनोपपत्तेः । लौकिकाग्निश् चण्डालाग्न्यादिव्यतिरिक्तो ग्राह्यः । तेषां निषिद्धत्वात् । तथा च देवलः ।
चण्डालाग्निर् अमेध्याग्निः सूतिकाग्निश् च कर्हिचित् ।
पतिताग्निश् चिताग्निश् च न शिष्टग्रहणोचिताः ॥ इति ।
आहिताग्निस् तु श्रौताग्निना दग्धव्यः । अनाहिताग्निर् गृह्याग्निना । इतरो लौकिकेन । तद् आह वृद्धयाज्ञवल्क्यः ।
आहिताग्निर् यथान्यायं दग्धव्यस् त्रिभिर् अग्निभिः ।
अनाहिताग्निर् एकेन लौकिकेनेतरो जनः ॥
[२८७] इति । एकेन गृह्याग्निना । दाहश् च स्नपनाद्यनन्तरं कर्तव्यः । तथा च कात्यायनः ।
दुर्बलं स्नापयित्वा च शुद्धचैलाभिसंवृतम् ।
दक्षिणाशिरसं भूमौ बर्हिष्मत्यां निवेशयेत् ॥
घृतेनाभ्यक्तम् आप्लाव्य सवस्त्रं चोपवीतिनम् ।
चन्दनोक्षितसर्वाङ्गं सुमनोभिर् विभूषयेत् ॥
हिरण्यशकलान्य् अस्य क्षिप्त्वा छिद्रेषु सप्तसु ।
मुखे वस्त्रं निधायैनं निर्हरेयुः सुतादयः ॥
आमपात्रे ऽन्नम् आदाय प्रेतम् अग्निपुरःसरम् ।
एको ऽनुगच्छन् तस्यार्धम् अर्धपथ्य् उत्सृजेद् भुवि ॥
अर्धम् आदहनं प्राप्तम् आसीनो दक्षिनामुखः ।
सव्यं जान्व् आच्य शनकैः सतिलं पिण्डदानवत् ॥ इति । (क्स्म् ३।२१।३–७)
पिण्डदानविधिना आदहनं श्मशानपर्यन्तम् आनीतम् अन्नं प्रक्षिपेद् इत्य् अर्थः । दाहानन्तरं चितिम् अनवेक्षमाणा ज्ञातयो जलसमीपं गत्वा स्नात्वोदकं सकृत् त्रिर् वा दद्युः । तथा च कात्यायनः ।
अथानवेक्षम् एत्य् आपः सर्व एव शवस्पृशः ।
स्नात्वा सचैलम् आचम्य दद्युर् अस्योदकं स्थले ॥
गोत्रनामपदान्ते च तर्पयामीत्य् अनन्तरम् ।
दक्षिणाग्रान् कुशान् कृत्वा सतिलं तु पृथक् सकृत् ॥ (क्स्म् ३।२२।१–२)
[२८८] इति । पैठीनसिर् अपि- “प्रेतं मनसा ध्यायन् दक्षिणाभिमुखस् त्रीन् उदकाञ्जलीन् निनयेत्” इति । एतच् चायुग्मतिथिषु कार्यम्, “प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया” (ग्ध् १४।१९) इति गौतमस्मरणात् । प्रेतोपकारविशेषापेक्षया तु यावन्त्य् आशौचदिनानि तावद् उदकदानावृत्तिः कार्या । तथा च प्रचेताः ।
दिने दिने ऽञ्जलीन् पूर्णान् प्रदद्यात् प्रेतकारणात् ।
तावद् वृद्धिश् च कर्तव्या यावत् पिण्डः समाप्येत् ॥ इति ।
यावद् दशमः पिण्डः समाप्यते तावद् अञ्जलिवृद्धिः कार्येत्य् अर्थः । अत्रापरो विशेषस् तेनैवोक्तः ।
नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् ।
वस्त्रं संशोधयेद् आदौ ततः स्नानं समाचरेत् ॥
सचैलस् तु ततः स्नात्वा शुचिः प्रयतमानसः ।
पाषाणं तत् आदाय विप्रे दद्यात् दशाञ्जलीन् ॥
द्वादश क्षत्रिये दद्याद् वैश्ये पञ्चदश स्मृताः ।
त्रिंशच् छूद्राय दातव्यास् ततः संप्रविशेद् गृहम् ॥
ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥ इति ।
अज्ञातिभिर् अपि क्वचित् उदकदानं कर्तव्यम् । तद् आह याज्ञवल्क्यः ।
[२८९] एवं मातामहाचार्यप्रेतानाम् उदकक्रिया ।
कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् ॥ इति । (य्ध् ३।४)
प्रत्ता परिणीतदुहितृभगिन्यादिः । स्वस्रीयो भागिनेयः । अत्र प्रेतानां मातामहादीनां सपिण्डवद् उदकदानं नित्यं कार्यम् । सख्यादीनां तु कामतः, न नित्यतया, अकरणे प्रत्यवायाभावाद् इति । उदकदानानन्तरं पिण्डदानम् अपि कर्तव्यम् । तथा च विष्णुः- “प्रेतस्योदकनिर्वपणं कृत्वा एकं च पिण्डं कुशेषु दद्युः” इति (विध् १९।७) । पिण्डोदकदानं च यावद् आशौचं कार्यम् । तद् आह स एव- “यावद् आशौचं तावत् प्रेतस्योदकं पिण्डम् एकं च दद्युः” इति (विध् १९।१३) । वर्णानुक्रमेण पिण्डसंख्यानियमः पारस्करेणोक्तः ।
ब्राह्मणे दश् पिण्डास् तु क्षत्रिये द्वादश् स्मृताः ।
वैश्ये पञ्चदश् प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्तिताः ॥ इति ।
आशौचह्रासे “यावद् आशौचम्” इति विष्णुवचनात् पिण्डसङ्कोचप्राप्तौ शातातपः ।
आशौचस्य च ह्रासे ऽपि पिण्डान् दद्यात् दशैव तु । इति ।
त्रिरात्राशौचपक्षे दशपिण्डदानप्रकारः पारस्करेण दर्शितः ।
[२९०] प्रथमे दिवसे देयास् त्रयः पिण्डाः समाहितैः ।
द्वितीये चतुरो दद्याद् अस्थिसंचयनं तथा ।
त्रींस् तु दद्यात् तृतीये ऽह्नि वस्त्रादीन् क्षालयेत् तथा ॥ इति ।
उदकदानवत् पिण्डदानं न सर्वैः कर्तव्यम् । अपि तु पुत्रेणैव । तदभावे संनिहितेन सपिण्डेन । तदभावे मातृसपिण्डादिना । तद् आह गौतमः- “पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युः । तदभावे ऋत्विगाचार्यौ” इति (ग्ध् १५।२५–२६) । पुत्रेष्व् अपि ज्येष्ठ एव पिण्डं दद्यात् । तथा च मरीचिः ।
सर्वैर् अनुमतिं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।
द्रव्येण वाविभक्तेन सर्वैर् एव कृतं भवेत् ॥ इति ।
यदा तु पुत्रासंनिधानादिनान्यः पिण्डदानं करोति तदा दशाहमध्ये पुत्रसांनिध्ये ऽपि स एव दशाहं पिण्डं दद्यात् । तद् उक्तं गृह्यपरिशिष्टे ।
असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमे ऽहनि यः कुर्यात् स दशाहं समापयेत् ॥ इति ।
यथा दशाहं पिण्डदाने कर्तृनियमः तथा द्रव्यनियमो ऽपि । तद् हाह शुनःपुच्छः ।
शालिना सक्तुभिर् वापि शाकैर् वाप्य् अथ निर्वपेत् ।
प्रथमे ऽहनि यद् द्रव्यं तद् एव स्याद् दशाहिकम् ॥
[२९१] इति । यदा तु दशाहमध्ये दर्शपातस् तदा दर्श एवोत्तरं तन्त्रं पिण्डोदकदानरूपं समापयेत् । तद् आह ऋष्यशृङ्गः ।
आशौचम् अन्तरा दर्शो यदि स्यात् सर्ववर्णिनः ।
समाप्तिं प्रेततन्त्रस्य कुर्युर् इत्य् आह गौतमः ॥ इति ।
भविष्यपुराणे ऽपि ।
प्रवृत्ताशौचतन्त्रस् तु यदि दर्शं प्रपद्यते ।
समाप्य चोदकं पिण्डान् स्नानमात्रं समाचरेत् ॥ इति ।
पैठीनसिर् अपि ।
आद्येन्दाव् एव कर्तव्या प्रेतपिण्डोदकक्रिया ।
द्विरैन्दवे तु कुर्वाणः पुनः शावं समश्नुते ॥ इति ।
मातापितृविषये तु विशेषो गालवेनोक्तः ।
पित्रोर् आशौचमध्ये तु यदि दर्शः समापतेत् ।
तावद् एवोत्तरं तन्त्रं पर्यवस्येत् त्र्यहात् परम् ॥ इति ।
पित्रोर् आशौचमध्ये तु त्रिरात्रात् परं यदि दर्शः समापयेत् तदैवोत्तरं तन्त्रं दर्शे समापयेत् नावर्ग् दर्शापाते । यत् तु श्लोकगौतमेनोक्तम्,
अन्तर्दशाहे दर्शे तु तत्र सर्वं समापयेत् ।
पित्रोस् तु यावद् आशौचं दद्यात् पिण्डान् जलाञ्जलीन् ॥
इति, तत् त्रिरात्राद् अर्वाग् दर्शापाते वेदितव्यम्, त्र्यहात् परम् इति गालवेन विशेषितत्वात् । पिण्डोदकदानानन्तरं बान्धवैर् आतुराश्वासनं कार्यम् । तथा च याज्ञवल्क्यः ।
[२९२] कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् ।
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ (य्ध् ३।७)
इतिहासस् तु तेनैव दर्शितः ।
मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।
करोति यः स संमूढो जलबुद्बुदसंनिभे ॥
पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः ।
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥
गन्त्री वसुमती नाशम् उदधिर् दैवतानि च ।
फेनप्रख्यः कथं नाम मर्त्यलोको न यास्यति ॥ इति । (य्ध् ३।८–१०)
कात्यायनो ऽपि ।
एवं कृतोदकान् सम्यक् सर्वान् शाद्वलसंस्थितान् ।
आप्लुतान् पुनर् आचान्तान् वदेयुस् ते ऽनुयायिनः ॥
मा शोकं कुरुतानित्ये सर्वस्मिन् प्राणधर्मिणि ।
धर्मं कुरुत यत्नेन यो वः सह गमिष्यति ॥ इति । (क्स्म् ३।२२।३–४)
शोके दोषो ऽपि याज्ञवल्क्येन दर्शितः ।
श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ (य्ध् ३।११)
[२९३] इति । आतुराश्वासनानन्तरकृत्यं याज्ञवल्क्येनोक्तम् ।
इति संचिन्त्य गच्छेयुर् गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥
आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ इति । (य्ध् ३।१२–१३)
अत्रापरो विशेषः शङ्खेन दर्शितः- “दूर्वाप्रवालम् अग्निं वृषभं चालभ्य गृहद्वारे प्रेताय पिण्डं दत्वा पश्चात् प्रविशेयुः” इति । आशौचनियमा मनुना दर्शिताः ।
अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ इति । (म्ध् ५।७३)
मार्कण्डेयेनापि ।
क्रीतलब्धाशनाश् चैव भवेयुः सुसमाहिताः ।
न चैव मांसम् अश्नीयुर् व्रजेयुर् न च योषितम् ॥ इति ।
गौतमेनापि “अधःशय्यासना ब्रह्मचारिणः सर्वे समासीरन् । मांसं न भक्षयेयुर् आ प्रदानात् । [२९४] प्रथमतृतीयपञ्चमसप्तमनवमेषूदककर्म । नवमे वाससां त्यागः । अन्त्ये त्व् अन्त्यानाम्” इति (ग्ध् १४।२७–३१) । प्रदानं महैकोद्दिष्टश्राद्धम् । वाससां त्यागस् तु प्रक्षालनार्थं रजकार्पणम् । अन्त्यं दशमम् अहः । तत्र अन्त्यानाम् अत्यन्तपरित्याज्यानां वाससां त्याग इत्य् अर्थः । प्रथमे ऽहनि प्रेतम् उद्दिश्य जलं क्षीरं चाकाशे शिक्यादौ पात्रद्वये स्थापनीयम् । तद् आह याज्ञवल्क्यः ।
जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृण्मये । इति । (य्ध् ३।१७)
प्रथमतृतीयसप्तमनवमदिवसानाम् अन्यतमस्मिन्न् अस्थिसंचयनं कार्यम् । तद् आह संवर्तः ।
प्रथमे ऽह्नि तृतीये वा सप्तमे नवमे तथा ।
अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥ (संस्म् १३९–४०)
[२९५] इति । चतुर्थे दिवसे ऽस्थिसंचयनम् आह विष्णुः- “चतुर्थे दिवसे ऽस्थिसंचयनं कुर्युः । तेषां गङ्गाम्भसि प्रक्षेपः” इति (विध् १९।१०–११) । अस्थिसंचयने तिथिवारनक्षत्रनिषेधो यमेनोक्तः ।
भौमार्कमन्दवारेषु तिथियुग्मेषु वर्जयेत् ।
वर्जयेद् एकपादर्क्षे द्विपादर्क्षे ऽस्थिसंचयम् ॥
प्रदातृजन्मनक्षत्रे त्रिपादर्क्षे विशेषतः ॥ इति ।
वृद्धमनुः ।
वस्वनार्धादितः (?) पञ्चनक्षत्रेषु त्रिजन्मसु ।
द्वित्रिपादृक्षयोश् चैव नन्दायां च विशेषतः ॥
अजचरणादिद्वितीये ह्य् आषाढाद्वयम् एव च ।
पुष्ये च हस्तनक्षत्रे फल्गुनीद्वयम् एव च ॥
भानुभौमार्किभृगुषु अयुग्मतिथिसंध्ययोः ।
चतुर्दश्यां त्रयोदश्यां नैधने च विवर्जयेत् ॥
अस्थिसंचयनं कार्यं कुलक्षयकरं भवेत् ।
[२९६] इति । वापनं दशमे ऽहनि कार्यम् । तद् आह देवलः ।
दशमे ऽहनि संप्राप्ते स्नानं ग्रामाद् बहिर् भवेत् ।
तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥ इति ।
स्मृत्यन्तरे तु एकादशाहाद् अर्वाग् अनियमेन वापनं कार्यम् इत्य् उक्तम् ।
द्वितीय ऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः ।
तृतीये पञ्चमे वापि सप्तमे वाप्रदानतः ॥ इति
प्रदानम् एकादशाहिकं श्राद्धम् । अत्र ‘आप्रदानतः’ इति वचनात् अनियमो ऽवगम्यते । बौधायनेनापि ।
अलुप्तकेशो यः पूर्वं सो ऽत्र केशान् प्रवापयेत् ।
द्वितीये ऽह्नि तृतीये ऽह्नि पञ्चमे सप्तमे ऽपि वा ॥
यावच् छ्राद्धं प्रदीयेत तावद् इत्य् अपरं मतम् । इति ।
वापनं च पुत्राणां कनिष्ठभ्रातॄणां च । तथा च आपस्तम्बः- “अनुभाविनां च परिवापनम्” इति (आप्ध् १।३।१०।६) । अनु पश्चाद् भवन्ति जायन्ते इति पुत्राः कनिष्ठभ्रातरश् च । अथ वा, अनुभाविन इति पुत्रा एव निर्दिश्यन्ते,
गङ्गायां भासकर्क्षेत्रे मातापित्रोर् गुरोर् मृतौ ।
आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥
[२९७] इत्य् अत्र “मातापित्रोर् मृतौ” इत् विशेषेणोपादानात् । एवं हि नियतः सन् सर्वो ऽपि स्वाशौचान्ते पिण्डोदकदानं समापयेत् । तद् एकोद्दिष्टं तु श्राद्धम् एकादशे ऽह्नि कुर्यात् । तथा च मरीचिः ।
आशौचान्ते ततः सम्यक् पिण्डदानं समाप्यते ।
ततः श्राद्धं प्रदातव्यं सर्ववर्णेष्व् अयं विधिः ॥ इति ।
आशौचानन्तरम् एकादशे ऽह्नि ब्राह्मणः एकोद्दिष्टश्राद्धं कुर्यात् । एकोद्दिष्टम् एकादशे ऽहनि कुर्याद् इत्य् अयं विधिः सर्ववर्णेषु क्षत्रियादिषु समान इत्य् अर्थः ।
ननु – आशौचसमाप्त्यनन्तरम् एवैकोद्दिष्टविधिः सर्वेष्व् अपि वर्णेषु किं न स्यात्, एकादशे ऽह्नि अधिककालाशौचिनां क्षत्रियादीनां शुद्ध्यभावात्, “शुचिना कर्म कर्तव्यम्” इति शुद्धेः कर्माङ्गत्वेन विधानात्, “अथाशौचापगमे” (विध् २१।१) इति साधारण्येनोपक्रम्यैकोद्दिष्टस्य विष्णुनाभिहितत्वाच् च ।
आद्यश्राद्धम् अशुद्धो ऽपि कुर्याद् एकादशे ऽहनि ।
कर्त्तुस् तात्कालिकी शुद्धिर् अशुद्धः पुनर् एव सः ॥
इति शङ्खवचनेनाशौचमध्ये एकादशे ऽह्नि एकोद्दिष्टविधानान् मैवम् इति चेत् — न, मातर्य् अग्ने प्रमीतायां तदाशौचमध्ये यदि [२९८] पिता म्रियेत ततो मातुर् एकोद्दिष्टश्राद्धम् एकादशे ऽह्नि अशुद्धो ऽपि कुर्याद् इति विषयान्तरसंभवात् । यत् तु,
एकादशे ऽह्नि यच् छ्राद्धं तत् सामान्यम् उदाहृतम् ।
चतुर्णाम् अपि वर्णानां सूतकं तु पृथक् पृथक् ॥
इति पैठीनसिवचनं तस्यायम् अर्थः – आशौचानन्तरदिने यच् छ्राद्धं विहितं तच् चतुर्णाम् अपि वर्णानां साधारणम्, न ब्राह्मणस्यैवेति । कथं तर्ह्य् एकादशाहशब्दस्योपपत्तिः इति चेत् — न, लक्षणया तस्याशौचानन्तरदिनपरत्वेनोपपत्तेः ।
अत्रोच्यते — एकादशाहकालविशिष्टम् एकोद्दिष्टश्राद्धं चतुर्णां वर्णानां विधीयते, “न विधौ परः शब्दार्थः” इति न्यायेनैकादशाहशब्दस्य लक्षणयाशौचानन्तरदिनपरत्वानुपपत्तेः । सति मुख्ये वृत्त्यन्तरकल्पनाया अन्याय्यत्वाच् च एकादशाह एव क्षत्रियादिभिर् अप्य् एकोद्दिष्टश्राद्धं कर्तव्यम् । ननु — एकादशे ऽह्नि क्षत्रियादीनां शुद्ध्यभावाच् छ्राद्धे ऽधिकारो नास्ति इत्य् उक्तम् इति चेत्, — न, “कर्त्तुस् तात्कालिकी शुद्धिः” इति वचनात् तात्कालिक्याः शुद्धेः सत्त्वात् । — यत् तु शङ्खवचनस्याशौचमध्ये आशौचान्तरप्राताव् एकोद्दिष्टम् एकादशे ऽह्नि अशुद्धो ऽपि कुर्याद् इति विषयविशेषे तात्पर्यम् उक्तम् । — तन् न, तत्रापि शुद्ध्यभावाद् इत्य् अस्य चोद्यस्य समानत्वात् । सामान्येन प्रवृत्तस्य शङ्खवचनस्य विना कारणं विशेषपरत्वेन सङ्कोचायोगाच् च । — यत् तूक्तम् “अथाशौचापगमे” इति सामान्येनोपक्रम्य विष्णुनैकोद्दिष्टविधानाद् [२९९] आशौचानन्तरम् एव सर्वैर् एकोद्दिष्टं कर्तव्यम् इति । — तन् न, विष्णुवचनस्य दशाहाशौचिब्राह्मणविषत्वेनोपपत्तेः । तस्माद् एकादशाह एव क्षत्रियादिभिर् अप्य् एकोद्दिष्टं कर्तव्यम् इति सुष्टूक्तम् ।
अथ संगृहीतश्राद्धनिर्णयः प्रपञ्च्यते
प्रेतोद्देशेन श्रद्धया द्रव्यत्यागः श्राद्धम् । तद् उक्तं ब्रह्मपुराणे ।
देशे काले च पात्रे च श्रद्धया विधिना च यत् ।
पितिॠन् उद्दिश्य विप्रेभ्यो दत्तं श्राद्धम् उदाहृतम् ॥ इति ।
तच् च पार्वणैकोद्दिष्टभेदेन द्विविधम् । पुरुषत्रयम् उद्दिश्य यत् क्रियते तत् पार्वणम् । एकपुरुडोद्देशेन यत् क्रियते तद् एकोद्दिष्टम् । एवं द्विविधम् अपि श्राद्धं नित्यनैमित्तिककाम्यभेदेन त्रिधा भिद्यते । तत्र जीवनोपाधौ चोदितं नित्यम्, यथा अमावास्यादु चोदितम् । अनियतनिमित्तकं नैमित्तिकम्, यथोपरागादौ । कामनोपाधिकं काम्यम्, यथा तिथिनक्षत्रादिषु । यत् तु विश्वामित्रेण द्वादशविधत्वम् उक्तम्,
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् ।
पार्वणं चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थम् अष्टमम् ॥
कर्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् ।
यात्रास्व् एकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं मतम् ॥
[३००] इति, तन् नित्यनैमित्तिककाम्यावान्तरभेदविवक्षयैव । न तु ततः पार्थक्यविवक्षया । तथा हि – तत्र नित्यम् इत्य् अहरहः श्राद्धम् उच्यते । नैमित्तिकम् इत्य् एकोद्दिष्टम् । तद् आह पारस्करः ।
अहन्य् अहनि यच् छ्राद्धं तन् नित्यम् इति कीर्तितम् ।
वैश्वदेवविहीनं तु अशक्ताव् उदकेन तु ॥
एकोद्दिष्टं तु यच् छ्राद्धं तन् नैमित्तिकम् उच्यते ।
तद् अप्य् अदैवं कर्तव्यम् अयुग्मान् आशयेद् द्विजान् ॥ इति ।
काम्यम् इत्य् अभिमतार्थसिद्ध्यर्थम् । वृद्धिश्राद्धम् इति पुत्रजन्मविवाहादौ क्रियमाणम् । सपिण्डनं सपिण्डीकरणम् । पारवणम् इति प्रतिपर्व क्रियमाणम् । गोष्ठ्याम् इति गोष्ठ्याम् क्रियमाणं श्राद्धम् । तद् आह वृद्धवसिष्ठः ।
अभिप्रेतार्थसिद्ध्यर्थं काम्यं पार्वणवत् स्मृतम् ।
पुत्रजन्मविवाहादौ वृद्धिश्राद्धम् उदाहृतम् ॥
नवानीतार्घपात्रं च पिण्डश् च परिकीर्यते ।
पितृपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत् ॥
प्रतिपर्व भवेद् यस्मात् प्रोच्यते पार्वणं तु तत् ।
गोष्ठ्यां यत् क्रियते श्राद्धं गोष्ठीश्राद्धं तद् उच्यते ॥
बहूनां विदुषां प्राप्तौ सुखार्थं पितृतृप्तये ॥ इति ।
शुद्ध्यर्थम् इति शुद्धये क्रियमाणम् । तद् आह प्रचेताः ।
[३०१] क्रियते शुद्धये यत् तु ब्राह्मणानां तु भोजनम् ।
शुद्ध्यर्थम् इति तत् प्रोक्तं श्राद्धं पार्वणवत् स्मृतम् ॥ इति ।
कर्माङ्गम् इति यागादौ क्रियमाणम् । दैविकम् इति देवान् उद्दिश्य क्रियमाणम् । यात्राश्राद्धम् इति प्रवेशनिर्गमयोः क्रियमाणम् । तद् आह पारस्करः ।
निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत् कृतम् ॥
देवान् उद्दिश्य क्रियते यत् तद् दैविकम् उच्यते ।
तन् नित्यश्राद्धवत् कुर्यात् द्वादश्यादिषु यत्नतः ॥
गच्छन् देशान्तरं तद् धि श्राद्धं कुर्यात् तु सर्पिषा ।
तद् यात्रार्थम् इति प्रोक्तं प्रवेशे च न संशयः ॥ इति ।
अत्र कर्माङ्गम् इति वचनम् अकरणे कर्मवैगुण्यज्ञापनार्थम् । सर्पिषा सर्पिः प्रधानकेनेत्य् अर्थः । अन्वर्थे केवलेन तृप्तेर् असंभवात् ।
अथ देशकथनम्
श्राद्धं च दक्षिणाप्रवणे गोमयाद्युपलिप्ते देशे कार्यम् । तथा च विष्णुधर्मोत्तरे ।
दक्षिणाप्रवणे देशे तीर्थादौ वा गृहे ऽपि वा ।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात् प्रयत्नतः ॥ (विध्पु १।१४४।१३)
[३०४] नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च ।
विविक्तेष्व् एव तुष्यन्ति दत्तेनेह पितामहाः ॥ इति ।
व्यासो ऽपि ।
पुष्करे ऽप्य् अक्षयं श्राद्धं जपहोमतपांसि च ।
महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले ॥ इति ।
शङ्खो ऽपि ।
गङ्गायमनयोस् तीरे पयोष्ण्यमरकण्टके ।
नर्मदाबाहुदातीरे भृगुतुङ्गे हिमालये ॥
गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा ।
संनिहत्यां गयायां च दत्तम् अक्षयतां व्रजेत् ॥ इति । (शंस्म् १४।२–३)
ब्रह्माण्दपुराणे ऽपि ।
नदीस्मुद्रतीरे वा ह्रदे गोष्ठे ऽथ पर्वते ।
समुद्रगानदीतीरे सिन्धुसागरसंगमे ॥
नद्योर् वा संगमे शस्तं शालग्रामशिलान्तिके ।
पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषे ऽपि वा ॥
शालग्रामे च गोकर्णे गयायां च विशेषतः ।
[३०५] क्षेत्रेष्व् एतेषु यः श्राद्धं पितृभक्तिसमन्वितः ॥
करोति विधिवन् मर्त्यः कृतकृत्यो विधीयते ॥ इति ।
बृहस्पतिर् अपि ।
कांक्षन्ति पितरः पुत्रान् नरकापातभीरवः ।
गयां यास्यति यः कश्चित् सो ऽस्मान् संतारयिष्यति ॥
करिष्यति वृषोत्सर्गम् इष्टापूर्तं तथैव च ।
पालयिष्यति वृद्धत्वे श्राद्धं दास्यति चान्वहम् ॥
गयायां धर्मपृष्ठे च सदसि ब्रह्मणस् तथा ।
गयाशीर्षे वटे चैव पितॄणां दत्तम् अक्षयम् ॥ इति ।
विष्णुर् अपि ।
गयाशीर्षे । वटे । अमरकण्टकपर्वते । यत्र क्वचन नर्मदातीरे । यमुनातीरे । गङ्गायां विशेषतः । गङ्गाद्वारे । प्रयागे । गङ्गासागरसंगमे । कुशावर्ते । बिल्वके । नीलपर्वते । कनखले । कुब्जाम्रे । भृगुतुङ्गे । केदारे । [३०६] महालये । नडन्तिकायाम् । सुगन्धायाम् । शाकम्भर्याम् । फल्गुतीर्थे । महागङ्गायाम् । तन्दुलिकाश्रमे । कुमारधारायाम् । प्रभासे । यत्र क्वचन सरस्वत्याम् । विशेषतो नैमिषारण्ये । वाराणस्याम् । अगस्त्याश्रमे । कण्वाश्रमे । कौशिक्याम् । शरयूतीरे । शोणस्य ज्योतिरथ्यायाश् च संगमे । श्रीपर्वते । कालोदके । उत्तरमानसे । वडवायाम् । मतङ्गवाप्याम् । सप्तार्षे । विष्णुपदे । स्वर्गमार्गप्रदेशे । गोदावर्याम् । गोमत्याम् । वेत्रवत्याम् । विपाशायाम् । वितस्तायाम् । शतद्रूतीरे । चन्द्रभागायाम् । इरावत्याम् । [३०७] सिन्धोस् तीरे । दक्षिणे पञ्चनदे । औजसे । एवमादिष्व् अथान्येषु तीर्थेषु । सरिद्वरासु । सङ्गमेषु । प्रभवेषु । पुलिनेषु । प्रस्रवणेषु । पर्वतनिकुञ्जेषु । वनेषूपवनेषु च । गोमयेनोपलिप्तेषु गृहेषु । मनोज्ञेषु च । अत्रापि पितृगीता गाथा भवन्ति ।
कुले ऽस्माकं स जन्तुः स्याद् यो नो दद्याज् जलाञ्जलिम् ।
नदीषु बहुतोयासु शीतलासु विशेषतः ॥
अपि जायेत सो ऽस्माकं कुले कश्चिन् नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नो दद्यात् समाहितः ॥
एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् ॥ इति । (विध् ८५।४–७०)
गयाशीर्षप्रमाणं च आदिपुराणे ऽभिहितम् ।
पञ्चक्रोशं गयाक्षेत्रं क्रोशम् एकं गयाशिरः ।
महानद्याः पश्चिमेन यावद् गृध्रेश्वरो गिरिः ॥
[३०८] उत्तरे ब्रह्मयूपस्य यावद् दक्षिणमानसम् ।
एतद् गयाशिरो नाम त्रिषु लोकेषु विश्रुतम् ॥ इति ।
अथ श्राद्धकालाः
श्राद्धकालास् त्व् अमावास्याष्टकादयः । तद् आह याज्ञवल्क्यः ।
अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥
व्यतीपातो गमछाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश् चैव श्राद्धकालाः प्रकीर्तिताः ॥ इति । (य्ध् १।२१७–१८)
यस्मिन् दिने चन्द्रमा न दृश्यते सा अमावास्या । तत्र श्राद्धं नित्यम् । तथा च लौगाक्षिः ।
श्राद्धं कुर्याद् अवश्यं तु प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मादि वृद्धौ प्रत्यब्दम् एव च ॥ इति ।
अष्टकाश् चतस्रः मार्गशीर्षादिचतुष्टयापरपक्षाष्टम्यः ।
हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः ॥
इति शौनकस्मरणात् । तत्रापि श्राद्धं नित्यम् । तद् आह पितामहः ।
अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।
विद्वान् श्राद्धम् अकुर्वाणः प्रायश्चित्तीयते तु सः ॥ इति ।
वृद्धिः पुत्रजन्मादिः । तेन तद्विशिष्टः कालो लक्ष्यते । कृष्णपक्षो ऽपरपक्षः । अयनद्वयं दक्षिणायनम् उत्तरायणं [३०९] च । द्रव्यं कृसरमांसादि । ब्राह्मणः श्रुताध्ययनसंपन्नः । तयोः संपत्तिर् लाभो यस्मिन् काले स तथोक्तः । विषुवन्मेषतुलासंक्रान्ती । सूर्यसंक्रमः सूर्यस्य राशे राश्यन्तरप्राप्तिः । सूर्यस्ंक्रमशब्देनैवायनविषुवतोर् उपादाने सिद्धे पृथग् उपादानं फलातिशयज्ञापनार्थम् । व्यतीपातो योगविशेषः । महाव्यतीपातो वा,
सिंहस्थौ गुरुभौमौ चेन् मेषस्थे च रवौ हि वा ।
द्वादशी हस्तसंयुक्ता व्यतीपातो महान् हि सः ॥
श्रवणाश्विधानिष्ठार्द्रानागदैवतमस्तकैः ।
यद्यमा रविवारेण व्यतीपातः स उच्यते ॥
इति वृद्धमनुवचनात् । नागदैवतम् आश्लेषानक्षत्रम् । मस्तकं मृगशिरः । यद्यमा अमावास्या रविवारेण श्रवणादीनाम् अन्यतमेन नक्षत्रेण युक्ता स व्यतीपात इत्य् अर्थः । गजछायालक्षणं स्मृत्यन्तरे दर्शितम् ।
यदेन्दुः पितृदैवत्ये हंसश् चैव करे स्थितः ।
याम्या तिथिर् भवेत् सा हि गगछाया प्रकीर्तिता ॥ इति ।
पितृदैवत्यं मघानक्षत्रम् । हंसः सूर्यः । करो हस्तनक्षत्रम् । याम्या तिथिस् त्रयोदशी । पुराणे ऽपि ।
[३१०] हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी ।
तिथिर् वैवस्वती नाम सा छाया कुञ्जरस्य तु ॥ इति ।
“ग्रहणं चन्द्रसूर्ययोः” इति ग्रहणम् उपरागः । अत्रापि कालविशेषः श्राद्धाङ्गत्वेन स्वीकार्यः । तद् आह वृद्धवसिष्ठः ।
त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस् तथा ।
मनुष्या मधकाले तु मोक्षकाले तु राक्षसाः ॥ इति ।
“श्राद्धं प्रति रुचिः” इति यदा श्राद्धं प्रतीच्छा तदैव कर्तव्यम् इति । चकारेणान्ये ऽपि श्राद्धकालाः संगृह्यन्ते । अत एव यमः ।
आषाढ्याम् अथ कार्तिक्यां माध्यां त्रीन् पञ्च वा द्विजान् ।
तर्पयेत् पितृपूर्वं तु तद् अस्याक्षयम् उच्यते ॥ इति ।
देवलो ऽपि ।
तृतीया रोहिणीयुक्ता वैशाखस्य सिता तु या ।
मघाभिः सहिता कृष्णा नभस्ये तु त्रयोदशी ॥
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयगजछाया वैधृतेषु युगादिषु ॥
एते कालाः समुद्दिष्टाः पितॄणां प्रीतिवर्धनाः ॥ इति ।
युगादयो ऽपि श्राद्धकालाः । ते च मत्स्यपुराणे दर्शिताः ।
वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥
युगादयः स्मृता ह्य् एता दत्तस्याक्षयकारकाः । (मत्स्पु १७।४–५)
[३११] इति । विष्णुपुराणे ऽपि ।
वैशाखमासस्य च या तृतीया नवम्य् असौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
पानीयम् अप्य् अत्र तिलैर् विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यम् एतत् पितरो वदन्ति ॥ इति ।
(विपु ३।१४।१२–१४)
मन्वादयो ऽपि श्राद्धकालाः । तद् उक्तं मत्स्यपुराणे ।
अश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च ॥
फाल्गुनस्य त्व् अमावास्या पौषस्यैकादशी सिता ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥
मन्वन्तरादयश् चैता दत्तस्याक्षयकारकाः ॥ इति । (मत्स्पु १७।६–९)
कृत्तिकादिनक्षत्राणि काम्यश्राद्धकालाः । तथाह याज्ञवल्क्यः ।
[३१२] स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्ज्यतां शुभाम् ॥
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीन् अपि ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥
धनं वेदान् भिषक्सिद्धिं कुप्यं गाम् अप्य् अजाविकम् ।
अश्वान् आयुश् च विधिवद् यः श्राद्धं संप्रयच्छति ॥
कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् ॥ इति । (य्ध् १।२६५–६८)
मार्कण्डेयो ऽपि ।
कृत्तिकासु पितॄन् अर्च्य स्वर्गम् आप्नोति मानवः ।
अपत्यकामो रोहिण्यां सौम्ये त्व् औजस्वितां लभेत् ॥
आर्द्रायां शौर्यम् आप्नोति क्षेत्रादि तु पुनर्वसौ ।
पुष्टिं पुष्ये पितॄन् अर्चन् नाश्लेषासु वरान् सुतान् ॥
मघासु स्वजनश्रैष्ठ्यं सौभाग्यं फल्गुनीषु च ।
प्रदानशीलो भवति सापत्यश् चोत्तरासु च ॥
प्राप्नोति श्रेष्ठतां सत्सु हस्ते श्राद्धप्रदो नरः ।
रूपवन्ति च चित्रासु तथापत्यान्य् अवाप्नुयात् ॥
वाणिज्यलाभदा स्वातिर् विशाखा पुत्रकामदा ।
कुर्वतां चानुराधाश् च दद्युश् चक्रप्रवर्तनम् ॥
[३१३] ज्येष्ठास्व् अर्थाधिपत्यं च मूले चारोग्यम् उत्तमम् ।
आषाढासु यशःप्राप्तिर् उत्तरासु विशोकता ॥
श्रवणे च शुभांल् लोकान् धनिष्ठासु धनं महत् ।
वेदवित्त्वम् अभिजिति भिषक्सिद्धिं च वारुणे ॥
अजाविकं प्रौष्ठपदे विन्देद् भार्यां तथोत्तरे ।
रेवतीषु तथा रौप्यम् अश्विनीषु तुरङ्गमान् ॥
श्राद्धं कुर्वंस् तथाप्नोति भरणीष्व् आयुर् उत्तमम् ।
तस्मात् काम्यानि कुर्वीत ऋक्षेष्व् एतेषु तत्त्ववित् ॥ इति । (मार्क्पु ३३।८।१६)
सौम्यं सोमदैवत्यं मृगशीर्षम् इत्य् अर्थः । चक्रप्रवर्तनं सर्वत्राज्ञायाः प्रतिघाताभावेन प्रवर्तनम् । अभिजित् अभिजित्संज्ञकं नक्षत्रम् । तथा च श्रुतिः- “उपरिष्टाद् आषाढानाम् अधस्तात् श्रोणायाः” इति । एतत् तु वेधनिरूपणम् । भिषक्सिद्धिर् औषधफलावाप्तिः । वारुणं शतभिषङ् निक्षत्रम् । कुप्यं त्रपुसीसादिकम् । विष्णुर् अपि ।
स्वर्गं कृत्तिकासु । अपत्यं रोहिणीषु । ब्रह्मवर्चसं सौम्ये । कर्मणां सिद्धिः रौद्रे । भुवं पुनर्वसौ । पुष्टिं पुष्ये । श्रियं सार्पे । सर्वान् कामान् [३१४] पैत्र्ये । सौभाग्यं फल्गुनीषु । धनम् आर्यम्णे । ज्ञातिश्रेइष्ठ्यं हस्ते । रूपवतः सुतांस् त्वाष्ट्रे । वाणिज्यवृद्धिं स्वातौ । कनकं विशाखासु । मित्राणि मैत्रे । शाक्रे राज्यम् । कृषिं मूले । समुद्रयानसिद्धिम् आप्ये । सर्वान् कामाञ् छ्रवणे । बलं वासवे । आरोग्यं वारुणे । कुप्यद्रव्यम् आजे । गृहम् आहिर्बुध्न्ये । गाः पौष्णे । तुरङ्गमम् आश्विने । जीवितं याम्ये । इति । (विध् ७८।८–३५)
आदित्यादिवाराश् च काम्यश्राद्धकालाः । तद् आह विष्णुः- “सततम् आदित्ये ऽह्नि श्राद्धं कुर्वन्न् आरोग्यम् आप्नोति । सौभाग्यं चान्द्रे । समरविजयं कौजे । सर्वान् कामान् बौधे । विद्याम् अभीष्टां जैवे । धनं शौक्रे । जीवितं शनैश्चरे” इति (विध् ७८।१–७) । कूर्मपुराणे ऽपि ।
[३१५] आदित्यवारे त्व् आरोग्यं चन्द्रे सौभाग्य्म् एव च ।
कुजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥
विद्यां विशिष्टां च गुरौ धनं वै भार्गवे पुनः ।
शनैश्चरे भवेद् आयुर् आरोग्यं च सुदुर्लभम् ॥ इति । (कूपु १।२।२०।१६–१७)
विष्णुधर्मोत्तरे ।
अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव ।
आरोग्यम् अथ सौभाग्यं समरे विजयं तथा ।
सर्वकामांस् तथा विद्यां धनं जीवितम् एव च ॥
आदित्यादिदिनेष्व् एवं श्राद्धं कुर्वन् सदा नरः ।
क्रमेणैतान्य् अवाप्नोति नात्र कार्या विचारणा ॥ इति । (विपु १।१४२।३०–३२)
प्रतिपदादितिथयो ऽपि काम्यश्राद्धकालाः । तद् आह मनुः ।
कुर्वन् प्रतिपदि श्राद्धं सुरूपान् विन्दते सुतान् ।
कन्यकां तु द्वितीयायां तृतीयायां तु बन्दिनः ॥
पशून् क्षुद्रांश् चतुर्थ्यां तु पञ्चम्यां शोभनान् सुतान् ।
षष्ठ्यां दूतम् अवाप्नोति सप्तम्यां लभते कृषिम् ॥।
अष्टम्याम् अपि वाणिज्यं लभते श्राद्धदः सदा ।
स्यान् नवम्याम् एकखुरं दशम्यां द्विखुरं बहु ॥
[३१६] एकादश्यां तथा रूप्यं ब्रह्मचर्चस्विनः सुतान् ।
द्वादश्यां जातरूपं तु रजतं कुप्यम् एव च ॥
ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः। ।
प्रीयन्ते पितरश् चास्य ये शस्त्रेण रणे हताः ॥
श्राद्धदः पञ्चदश्यां तु सर्वान् कामान् समश्नुते ॥ इति । (म्ध् ३।२८१–८६)
याज्ञवल्क्यो ऽपि ।
कन्यां कन्यावेदिनश् च पशून् क्षुद्रान् सुतान् अपि ।
द्यूतं कृषिं च वाणिज्यं तथैकद्विशफान् अपि ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥
प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते ॥ इति । (य्ध् १।२६२–६४)
कन्यावेदिनो जामातारः । एतानि फलानि कृष्णपक्षप्रतिपत्प्भृतिष्व् अमावास्यापर्यन्तासु तिथिषु श्राद्धदः क्रमेण प्राप्नोति । अत एव कात्यायनः- “स्त्रियो ऽतिरूपाः प्रतिपदि । द्वितीयायां स्त्रीजन्म । अश्वस् तृतीयायाम् । चतुर्थ्यां क्षुद्रपशवः । पुत्राः पञ्चम्याम् । द्यूतं षष्ठ्याम् । कृषिः सप्तम्याम् । [३१७] वाणिज्यम् अष्टम्याम् । एकशफं नवम्याम् । दशम्यां गावः । परिचारका एकादश्याम् । द्वादश्यां धनधान्यरूप्यम् । ज्ञतिश्रैष्ठ्यं हिरण्यानि त्रयोदश्याम् । युवानस् तत्र म्रियन्ते शस्त्रहताश् चतुर्दश्याम् । अमावास्यायां सर्वम्” इति । अयं च कृष्णपक्षप्रतिपदादितिथिषु श्राद्धविधिः सर्वेष्व् एवापरपक्षेषु । न भाद्रपदापरपक्ष एव । अत एव शौनकः- “प्रौष्ठपदापरपक्षे मासि मासि चैवम्” इति । आपस्तम्बो ऽपि ।
सर्वेष्व् एवापरपक्षस्याहःसु क्रियमाणे पितॄन् प्रीणाति । कर्तुस् तु कालाभिनियमात् फलविशेषः । प्रथमे ऽहनि क्रियमाणे स्त्रीप्रायम् अपत्ये जायते । द्वितीये स्तेनाः । तृतीये ब्रह्मवर्चस्विनः । चतुर्थे क्षुद्रपशुमान् । पञ्चमे पुमांसः । बह्वपत्यो न चानपत्यः प्रमीयते । षष्ठे ऽध्वशीलो ऽक्षशीलश् च । सप्तमे कर्षे राद्धिः । अष्टमे पुष्टिः । नवम एकखुराः । दशमे व्यवहारे राद्धिः । एकादशे कृष्णायसं त्रपुसीसम् । द्वादशे पशुमान् । त्रयोदशे बहुपुत्रो [३१८] बहुमित्रो दर्शनीयापत्यः युवमारिणस् तु भवन्ति । चतुर्दश आयुधराद्धिः । पञ्चदशे पुष्टिः” इति (आप्ध् २।७।१६।७–२२) ।
भाद्रपदापरपक्षविषये मार्कण्डेयः ।
कन्यागते सवितरि दिनानि दश पञ्च च ।
पार्वणेनैव विधिना तत्र श्राद्धं विधीयते ॥
प्रतिपद् धनलाभाय द्वितीया द्विपदप्रदा ।
वरार्थिनां तृतीया च चतुर्थी शत्रुनाशिनी ॥
श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन् नरः ।
गणाधिपत्यं पञ्चम्यां षष्ठ्यां बुद्धिम् उत्तमाम् ॥
स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।
वेदांस् तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥
द्वादश्यां हेमलाभं च प्राप्नोति पितृपूजकः ।
प्रजां मेधां पशुं पुष्टिं स्वातन्त्र्यं वृद्धिम् उत्तमाम् ॥
दीर्घम् आयुर् अथैश्वर्यं कुर्वाणस् तु त्रयोदशीम् ।
अवाप्नोति न संदेहः श्राद्धं श्राद्धपरो नरः ॥
युवानः पितरो यस्य मृताः शस्त्रेण वै हताः ।
तेन कार्यं चतुर्दश्यां तेषाम् ऋद्धिम् अभीप्सता ॥
[३१९] श्राद्धं कुर्वन्न् अमावास्याम् अन्नेन पुरुषः शुचिः ।
सर्वान् कामान् अवाप्नोति स्वयं चानन्त्यम् अश्नुते ॥ इति । (मार्पु ३३।१–८)
नभस्यकृष्णपक्षप्रतिपत्प्रभृतिदशपञ्चदिनानि कृत्स्नो ऽपि पक्षः सवितरि कन्यागते सति महालय इति प्रोक्तः । तत्र पार्वणेनैव विधिना श्राद्धं कुर्यात् । तद् आह वृद्धमनुः ।
नभस्यस्यापरः पक्षो यत्र कन्यां व्रजेद् रविः ।
स महालयसंज्ञः स्याद् गजछायाह्वयस् तथा ॥ इति ।
यत् तु शाठ्यायनिनोक्तम्,
नभस्यस्यापरे पक्षे तिथिषोडशकं तु यत् ।
कन्यास्थार्कान्वितं चेत् स्यात् स कालः श्राद्धकर्मणि ॥
इति, तत् तिथिवृद्धाव् अधिकदिवसे ऽपि श्राद्धं कुर्यान् न तु पञ्चदशदिनेष्व् एवेत्य् अनेनाभिप्रायेण । अथ वा, आश्वयुजः शुक्लप्रतिपदा सह नभस्यापरपक्षस्य षोडशदिनात्मकत्वम् । तस्या अपि क्षीणचन्द्रत्वाविशेषेणापरपक्षानुप्रवेशसंभवात् । तद् आह देवलः ।
अहःषोडशकं यत् तु शुक्लप्रतिपदा सह ।
चन्द्रक्षयाविशेषेण सापि दर्शात्मिका स्मृता ॥ इति ।
ननु – एतस्मिन् पक्षे “दिनानि दश पञ्च च” इति वचन्स्य का गतिः ।
उच्यते – द्वादशसु कपालेष्व् अष्टाकपालवत् षडशसु दिवसेषु पञ्चदशदिनव्चनम् अवयुत्यानुवादो [३२०] भविष्यति । अथ वा, पञ्चदशदिवसशोडशदिवसविध्योर् व्रीहियववद् विकल्पो ऽस्तु । नभस्यापरपक्षस्य कन्यास्थार्कान्वितत्वेन प्रशस्ततरतोच्यते । तदभावे ऽपि तस्य प्रशस्तत्वात् । तद् आह जाबालिः ।
अगते ऽपि रवौ कन्यां श्राद्धं कुर्वीत सर्वथा ।
आषाढ्याः पञ्चमः पक्षः प्रशस्तः पितृकर्मसु ॥
पुत्रान् आयुस् तथारोग्यम् ऐश्वर्यम् अतुलं तथा ।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांस् तथापरान् ॥
[३२१] इति । बृहन्मनुर् अपि ।
आषाढीम् अवधिं कृत्वा पञ्चमं पक्षम् आश्रिताः ।
काङ्क्षन्ति पितरः क्लिष्टा अन्नम् अप्य् अन्वहं जलम् ॥
तस्मात् तत्रैव दातव्यं दत्तम् अन्यत्र निष्फलम् ।
आषाढीम् अवधिं कृत्वा यः पक्षः पञ्चमो भवेत् ॥
तत्र श्राद्धं प्रकुर्वीत कन्यास्थो ऽर्को भवेन् न वा ॥ इति ।
अस्य पक्षस्य रवेः कन्यागतत्वेन प्रशस्ततरत्वं च आदिपुराणे दर्शितम् ।
पक्षान्तरे ऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यते ।
कन्यागते पञ्चमे तु विशेषेणैव कारयेत् ॥ इति ।
श्लोकगौतमो ऽपि ।
कन्यागते सवितरि यान्य् अहानि तु षोडश ।
क्रतुभिस् तानि तुल्यानि संपूर्णवरदक्षिणैः ॥ इति । (श्ल्गौस्म् ८।१५)
शाठ्यायनिर् अपि ।
पुण्यः कन्यागतः सूर्यः पुण्यः पक्षश् च पञ्चमः ।
कन्यास्थार्कान्वितः पक्षः सो ऽत्यन्तं पुण्य उच्यते ॥ इति ।
आदिमध्यावसानेषु यत्र क्वचन कन्यार्कान्वितत्वेन कृत्स्नः पक्षः पुण्य इत्य् अर्थः । अत एव कार्ष्णाजिनिः ।
आदौ मध्ये ऽवसाने वा यत्र कन्यां व्रजेद् रविः ।
स पक्षः सकलः पुण्यः श्राद्धषोडशकं प्रति ॥ इति ।
प्रतिपदादिदर्शान्तं श्राद्धं कर्तुम् असमर्थश् चेत् [३२२] पञ्चम्यादिदर्शान्तम् अष्टम्यादिदर्शान्तं वा यथाशक्ति श्राद्धं कुर्यात् । तद् आह गौतमः- “अश्राद्धम् अमावास्यायां पितृभ्यो दद्यात् । पञ्चमीप्रभृतिषु वापरपक्षस्य । यथाश्रद्धं सर्वस्मिन् वा” इति (ग्ध् १५।१–३) । ब्रह्माण्डपुराणे ऽपि ।
नभस्यकृष्णपक्षे तु श्राद्धं कुर्याद् दिने दिने ।
त्रिभागहीनपक्षं वा त्रिभागं त्व् अर्धम् एव वा ॥ इति ।
अत्र प्रतिपदादिदर्शान्तम् इत्य् अस्मिन् पक्षे नन्दादिकं न वर्ज्यम् । तद् आह कार्ष्णाजिनिः ।
नभस्यस्यापरे पक्षे श्राद्धं कुर्याद् दिने दिने ।
नैव नन्दादि वर्ज्यं स्यान् नैव वर्ज्या चतुर्दशी ॥ इति ।
ननु – एतत्
प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् । (य्ध् १।२६४)
इति याज्ञवल्क्यवचनेन विरुध्येत – इति चेत्,
न, तस्य वचनस्य पञ्चम्यादिपक्षविषयत्वेनोपपत्तेः । अन्यथा कार्ष्णाजिनिवचनस्यानर्थक्यं प्रसज्येत । अत एव कात्यायनः- “अपरपक्षे श्राद्धं कुर्वीत । ऊर्ध्वं चतुर्थ्याः [३२३] यद् अहः संपद्यते सप्तम्या ऊर्ध्वं यद् अहः संपद्यते ऋते चतुर्दशीम् । शाकेनाप्य् अपरपक्षं नातिक्रामेत्” इति । मनुर् अपि ।
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्ताद् तिथयो यथैता न तथेतराः ॥ इति ।
तत्राप्य् असामर्थ्ये पञ्चमपक्षस्य पञ्चमीम् आरभ्यानन्तरप्रक्षपञ्चमीपर्यन्तासु तिथिष्व् अनिषिद्धायाम् एकस्यां तिथौ यथासंभवं गृही श्राद्धं कुर्यात् । तद् आह यमः ।
हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् ।
पञ्चम्योर् अन्तरे दद्यात् उभयोर् अपि पक्षयोः ॥ इति ।
अशक्त्यादिना पञ्चमपक्षे श्राद्धकरणे यावत् कन्याराशौ सूर्यस् तिष्ठति तावच् छ्राद्धं दद्यात् । तत्राप्य् अकरणे यावद् वृश्चिकदर्शनम् इति । तद् आह सुमन्तुः ।
कन्याराशौ महाराज यावत् तिष्ठेद् विभावसुः ।
तस्मात् कालाद् भवेद् देयं वृश्चिकं यावद् आगतम् ॥ इति ।
पुराणे ऽपि ।
कन्यागते सवितरि पितरो यान्ति वै सुतान् ।
शून्या प्रेतपुरी सर्वा यावद् वृश्चिकदर्शनम् ॥
ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः ।
पुनः स्वभवनं यान्ति शापं दत्वा सुदारुणम् ॥
सूर्ये कन्यागते श्राद्धं यो न कुर्याद् गृहाश्रमी ।
धनं पुत्राः कुतस् तस्य पितृनिःश्वासपीडनात् ॥
[३२४] वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ।
निःश्वस्य प्रतिगच्छन्ति शापं दत्वा सुदारुणम् ॥ इति ।
आदिपुराणे ऽपि ।
प्रावृडृतौ यमः प्रेतान् पित्रॄंश् चाथ यमालयात् ।
विसर्जयित्वा मानुष्ये कृत्वा शून्यं स्वकं पुरम् ॥
क्षुधार्ताः कीर्तयन्तश् च दुष्कृतं च स्वयं कृतम् ।
काङ्क्षन्तः पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ॥
तस्मात् तांस् तत्र विधिना तर्पयेत् पायसेन तु ।
मध्वाज्यतिलमिश्रेण तथा शीतेन चाम्भसा ॥
ग्रासमात्रं परगृहाद् अन्नं यः प्राप्नुयान् नरः ।
भिक्षामात्रेण यः प्राणान् संधारयति वा स्वयम् ॥
यो वा संवर्धते देहं प्रत्यक्षं स्वात्मविक्रयात् ।
श्राद्धं तेनापि कर्तव्यं तैस् तैर् द्रव्यैः सुसंचितैः ॥ इति ।
यमालयाद् विसर्जयित्वा स्वकं पुरं शून्यं कृत्वा मनुष्यलोके पितॄन् वासयतीत्य् अध्याहृत्य योजना । पायसं काङ्क्षन्तः पितरस् तिष्ठन्तीत्य् अध्याहारः । तत्र वर्ज्यान् आह गार्ग्यः ।
नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥ इति ।
त्रिजन्मनि जन्मनक्षत्रं तत्पुर्वोत्तरं चेत्य् अर्थः । वृद्धगार्ग्यो ऽपि ।
प्राजापत्ये तु पौष्णे च पित्र्यर्क्षे भार्गवे तथा ।
यस् तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ॥ इति ।
प्राजापत्यं रोहिणी । पौष्णं रेवती । पित्र्यर्क्षं मघा । अङ्गिरा अपि ।
त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः ।
पञ्चत्वं तस्य जानीयात् ज्येष्ठपुत्रस्य निश्चितम् ॥
मधासु कुर्वतः श्राद्धं ज्येष्ठः पुत्रो विनश्यति ॥ इति ।
अत्र मघात्रयोदश्यां श्राद्धनिषेधः केवलपितृवर्गोद्देशेन श्राद्धविषयः । न तु केवलश्राद्धनिषेधः ।
ननु – केवलपितृवर्गोद्देशेन श्राद्धप्राप्तौ सत्यां तन्निषेधो युक्तः,
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषान् नरकं व्रजेत् ॥
इति धौम्यवचनेन केवलैकवर्गोद्देशश्राद्धनिषेधात् प्राप्तिर् एव नास्ति । अतो नैवं व्यवस्था विवष्यते – इति ।
मैवम् – सत्याम् अपि धौम्यस्मृतौ व्यामोहाद् एव प्राप्तस्यैकवर्गश्राद्धस्य निषेधात् । तथा रागप्राप्तस्य कलञ्जभक्षणस्य “न कलञ्जं भक्षयेत्” इति निषेधस् तद्वत् । अत एव कार्ष्णाजिनिः ।
श्राद्धं तु नैकवर्गस्य त्रयोदश्याम् उपक्रमेत् ।
अतृप्तास् तत्र ये ऽस्य स्युः प्रजां हिंसन्ति तत्र ते ॥ इति ।
स्मृत्यन्तरम् अपि ।
[३२६] इच्छेत् त्रयोदशीश्राद्धं पुत्रवान् यः सुतायुषोः ।
एकस्यैव तु नो दद्यात् पार्वणं तु समाचरेत् ॥ इति ।
यः पुत्रवान् सुतायुषोर् अभिवृद्धिम् इच्छेत् स एकस्यैकवर्गस्यैव श्राद्धं नो दद्यात् । अपि तु मातामहवर्गोद्देशेनापि पार्वणं समाचरेद् इत्य् अर्थः । तस्माद् एकवर्गोद्देशेनैव मघात्रयोदश्यां श्राद्धनिषेधो न तु श्राद्धस्यैव । तत्र श्राद्धस्य प्रशस्तत्वात् । तथा च शङ्खः ।
प्रौष्ठपद्याम् अतीतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धं तु कर्तव्यं मधुना पायसेन च ॥
प्रजाम् इष्टां यशः स्वर्गम् आरोग्यं च धनं तथा ।
नृणां श्राद्धे सदा प्रीताः प्रयच्छन्ति पितामहाः ॥ इति । (शङ्स्म् १४।६–७)
महाभारते ऽपि ।
ज्ञातीनां तु भवेच् छ्रेष्ठः कुर्वन् श्राद्धं त्रयोदशीम् ।
नावश्यं तु युवानो ऽस्य प्रमीयन्ते नरा गृहे ॥ इति ।
अत्र मघात्रयोदश्यां श्राद्धे पिण्डनिर्वपणं न कुर्यात्, तस्यां युगादित्वेन पिण्डनिर्वपणनिषेधात् । तथा च पुलस्त्यः ।
अयनद्वितये श्राद्धं विषुवद्द्वितये (?) तथा ।
युगादिषु च सर्वासु पिण्डनिर्वपणाद् ऋते ॥ इति ।
कर्तव्यम् इत्य् अध्याहारः । मघान्वितत्वेनापि पिण्डनिर्वपणं नास्ति । तथा च आदिपुराणे ।
[३२७] संक्रान्ताव् उपवासेन पारणेन च भारत ।
मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति ॥ इति ।
चतुर्दश्यां श्राद्धनिषेधो ऽप्य् अशस्त्रहतविषयः । अपमृत्युहतानां तु चतुर्दश्याम् अपि श्राद्धं कार्यम् । तद् आह मरीचिः ।
विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विहर्हिता ॥ इति ।
प्रचेता अपि ।
वृक्षारोहणलोहादिविद्युज्जलविषादिभिः ।
नखिदंष्ट्रिविपन्नानाम् एषां शस्ता चतुर्दशी ॥ इति ।
याज्ञवल्क्यो ऽपि ।
शस्त्रेण तु हताये वै तेभ्यस् तत्र प्रदीयते । इति । (य्ध् १।२६४)
अत्र चतुर्दस्यां शस्त्रादिहतानाम् एवेति नियम्यते । न पुनश् चतुर्दश्याम् एवेति । एवं च सति दिनान्तरे ऽपि पितामहादितृप्तिसिद्ध्यर्थं महालयश्राद्धं कार्यम् । चतुर्दश्यां महालयश्राद्धस्यैकोद्दिष्टत्वेन विहितत्वात् तेनात्र पितामहादितृप्तेर् अभावात् । तस्य चैकोद्दिष्टरूपत्वं सुमन्तुर् आह ।
[३२८] समत्वम् आगतस्यापि पितुः शस्त्रहतस्य तु ।
एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये ॥ इति ।
समत्वम् आगतस्य सपिण्डीकृतस्य शस्त्रहतस्य पितुश् चतुर्दश्यां महालये सुतैर् एकोद्दिष्टश्राद्धं कार्यम् इत्य् अर्थः । यस्य पितामहो ऽपि शस्त्रादिना हतः तेन द्वयोर् अपि चतुर्दश्याम् एकोद्दिष्टश्राद्धं कार्यम् । तथा च स्मृत्यन्तरम्- “एकस्मिन् द्वयोर् वैकोद्दिष्टविधिः” इति । अयम् अर्थः – एकस्मिन् पितरि शस्त्रादिना हते द्वयोर् वा पितृपितामहयोः शस्त्रादिना हतयोश् चतुर्दश्यां पुत्रेण तयोः प्रत्येकम् एकोद्दिष्टं श्राद्धं कार्यम् इति । यस्य पितृपितामहप्रपितामहास् त्रयो ऽपि शस्त्रहताः तेन चतुर्दश्यां पार्वणेनैव विधिना श्राद्धं कार्य,। एकस्मिन् द्वयोर् वैकोद्दिष्टविधिर् इति विशेषोपादानात् । इदं च चन्द्रिकाकार-अपरार्कयोर् मतम् । त्रिष्व् अपि पित्रादिषु शत्रहतेषु त्रयाणाम् अपि पृथक् पृथग् एकोद्दिष्टम् एव कार्यम् इति देवस्वामिमतम् । अत्र – त्रयाणां शस्त्रहतत्वे पार्वणश्राद्धस्य [३२९] साक्षद् विधायकवचनाभावाद् एकस्मिन् द्वयोर् वेत्य् अस्योपलक्षणार्थत्वेनाप्य् उपपत्तेर् एकोद्दिष्टत्रयम् एव कार्यम् – इति देवस्वामिमतं युक्तम् इति प्रतिभाति । शस्त्रादिहतानां दिनान्तरे पार्वणविधिनैव श्राद्धं कार्यम् । अत एव प्रजापतिः ।
संक्रान्ताव् उपरागे च वर्षोत्सवमहालये ।
निर्वपेद् अत्र पिण्डांस् त्रीन् इति प्राह प्रजापतिः ॥ इति ।
भ्रातृभगिन्यादीनां महालयश्राद्धम् एकोद्दिष्टविधानेन कार्यम् । तथा च सुमन्तुः ।
सपिण्डीकरणाद् ऊर्ध्वं यत्र यत्र प्रदीयते ।
भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥
मित्राय गुरवे श्राद्धम् एकोद्दिष्टं न पार्वण्म् ॥ इति ।
आपस्तम्बो ऽपि ।
अपुत्रा ये मृताः केचित् स्त्रियश् च पुरुषाश् च ये ।
तेषाम् अपि च देयं स्याद् एकोद्दिष्टं न पार्वणम् ॥ इति ।
स्त्रियो भगिन्यादयः । पुरुषा भ्रात्रादयः । कात्यायनो ऽपि ।
संबन्धिबान्धवादीनाम् एकोद्दिष्टं तु सर्वदा । इति ।
यानि पुनर् एकोद्दिष्टनिषेधकानि वाक्यानि यथा सपिण्डीकरणं प्रकृत्य जातूकर्ण्यः ।
अत ऊर्ध्वं न कर्तव्यम् एकोद्दिष्टं कदाचन ।
[३३०] सपिण्डीकरणान्तं च तत् प्रोक्तम् इति मुद्गलः ॥
प्रेतत्वं चैव निस्तीर्णः प्राप्तः पितृगणं तु सः ।
च्यवते पितृलोकात् तु पृथक्पिण्डे नियोजितः ॥
सपिण्डीकरणाद् ऊर्ध्वं पृथक्त्वेनोपपद्यते ।
पृथक्त्वे तु कृते पश्चात् पुनः कार्या सपिण्डता ॥ इति ।
कार्ष्णागिनिर् अपि ।
अत ऊर्ध्वं न कर्तव्यम् एकोद्दिष्टं कदाचन ।
सपिण्डीकरणान्तं च प्रेतस्यैतद् अमङ्गलम् ॥ इति ।
यमो ऽपि ।
यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ।
विधिघ्नस् तेन भवति पितृहा चोपजायते ॥ इति ।
पुराणे ऽपि ।
प्रदानं यत्र यत्रैषां सपिण्डीकरणात् परम् ।
तत्र पार्वणवत् श्राद्धम् एकोद्दिष्टं त्यजेद् बुधः ॥ इति ।
तानि सर्वाण्य् अपि प्रत्पदोक्तैकोद्दिष्टविध्यभावे द्रष्टव्यानि । एतच् छ्राद्धं सूतकादिना मुख्यकालातिक्रमे त्व् आशौचापगमानन्तरकाल एव कार्यम् । तथा च ऋष्यशृङ्गः ।
देये प्तिॠणां श्राद्धे तु आशौचं जायते तदा ।
आशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते ॥ इति ।
यत् त्व् अत्रिवचनम् ।
[३३१] तद् अहश् चेत् प्रदुष्येत केनचित् सूतकादिना ।
सूतकानन्तरं कुर्यात् पुनस् तद् अहर् एव वा ॥ इति ।
सूतकानन्तरकाले वा अनन्तरे वा मासि तत्पक्षे तत्तिथौ वेति पक्षद्वयम् उपन्यस्तम् । तत्राद्ये पक्षे विरोध एव नास्ति । पुनस् तद् अहर् एव वेत्य् अयं पक्षः सूतकव्यतिरिक्तनिमित्तान्तरेण विघ्ने समुत्पन्ने प्रतिमासं क्षयाहे विहितैकोद्दिष्टमासिकश्राद्धविषय इति ऋष्य्शृङ्गवचनाविरोधाय व्यवस्थाप्यते । अत एव देवलः ।
एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते ।
अन्यस्मिंस् तत्तितौ तस्मिन् श्राद्धं कुर्यात् प्रयत्नतः ॥ इति ।
अन्यस्मिन्न् अनन्तरे मासि । तत्तिथौ मृततिथौ । यसिमिन् शुक्ले कृष्णे वा मृतस् तस्मिन् पक्षे श्राद्धं विघ्नवशात् कुर्याद् इत्य् अर्थः । आशौचनिमित्तकविघ्ने तु मासिकश्राद्धम् अपि सूतकानन्तरम् एव ऋष्यशृङ्गवचनबलाद् अनुष्ठेयम् । देवस्वामिना ऽप्य् एवम् एव विषयव्यवस्था कृता- “एतत् ऋष्यशृङ्गवचनम् आशौचविघ्नविषयम् । निमित्तान्तरतस् तदहर्विघाते ऽएकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायतेऽ इत्यादिस्मृत्यन्तरवचनम्” इति । यत् तु व्यासेनोक्तम्,
श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके ।
अमावास्यां प्रकुर्वीत शुद्धाव् एके मनीषिणः ॥
[३३२] इति । अन्तरा प्रयोगमध्ये पाकोपक्रमात् प्राक् मृतके सूतके वा जाते अमावास्याम् अमावास्यायां शुद्धौ शुद्ध्यनन्तरं वा श्राद्धं प्रकुर्वीतेति । एतद् अनुमासिकसांवत्सरिकश्राद्धविषयम् । अत एवोक्तं षट्त्रिंशन्मते ।
मासिके ऽब्दे तु संप्राप्ते अन्तरा मृतसूतके ।
वदन्ति शुद्धौ तत्कार्यं दर्शे वापि विचक्षणाः ॥ इति ।
दर्शग्रहणं शुक्लकृष्णैकादश्योर् उपलक्षणार्थम् । अत एव मरीचिः ।
श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृते ऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥ इति ।
कृष्णपक्षे या एकादशी तस्यां विशेषतः कर्तव्यम् इति योजना, पितृकार्ये कृष्णपक्षस्यैव विशेषतो ग्राह्यत्वात् । कृष्णैकादशीतो ऽपि अमावास्याया मुख्यत्वं पितृकार्ये दण्डापूपन्यायसिद्धम् । एतद् उक्तं भवति – आशौचसमन्तरकालो मुख्यकालसंनिकृष्टत्वाच् छ्रेष्ठतमः । दर्शकालस् तु मुख्यकालप्रत्यासत्त्यभावात् ततो जघन्य इति । अत एव ऋष्यशृङ्गः ।
शुचिर् भूतेन दातव्यं या तिथिः प्रतिपद्यते ।
सा तिथिस् तस्य कर्तव्या न चान्या वै कदाचन ॥ इति ।
शुचिना तावच् छ्राद्धं कर्तव्यम् । तत्राशौचवशान् मुख्यकाले शुद्ध्यभावे शुद्ध्यनन्तरं या तिथिः प्रतिपद्यते लभ्यते सा तिथिस् तस्य कर्मणो ऽङ्गत्वेन स्वीकर्तव्या । आशौचाद्यनुपघाते तु मुख्यकालो नालस्यादिनातिक्रमणीयः । तद् आह स एव ।
[३३३] तिथिछेदो न कर्तव्यो विनाशौचं यदृच्छया ।
पिण्डः श्राद्धं च दातव्यं विच्छित्तिं नैव कारयेत् ॥ इति ।
चकारेणाग्नौकरणं समुच्चिनोति । श्राद्धशब्देनात्र ब्राह्मणतर्पणमात्रं विवक्षितम्, पिण्डदानस्य पृथगुआत्तत्वात् । “विच्छित्तिं नैव कारयेत्” इति ब्राह्मणतर्पणं कर्तुम् असमर्थश् चेत् पिण्डप्रदानमात्रम् अपि कुर्यात् । सर्वथा पित्रर्चनस्य विच्छेदं न कुर्याद् इत्य् अर्थः । अत एव निगमः- “आहिताग्नेः पित्रर्चनं पिण्डैर् एव ब्राह्मणान् अपि वा भोजयेत्” इति । अत्र व्यवस्थितो विकल्पः । सति सामर्थ्ये ब्राह्मणतर्पणं पिण्डप्रदानं च कुर्यात् । तत्रासामर्थ्ये पिण्डप्रदानमात्रम् इति । यत् तु हारीतेन श्राद्धविघ्ने समुत्पन्ने अमावास्यादिष्व् आमश्राद्धं विहितम् ।
श्राद्धविघ्ने द्विजातीनाम् आमश्राद्धं प्रकीर्तितम् ।
अमावास्यादिनियतं माससांवत्सराद् ऋते ॥ इति । (हार्स्म् २१।१३)
मासं मासिकम् । सांवत्सरं सांवत्सरिकम् । तत् भार्यारजोदर्शनकृतविघ्नविषयम् । तथाह उशनाः ।
अपत्नीकः प्रवासी च यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते ॥ इति । (उश्स्म् ५।८२)
[३३४] कात्यायनो ऽपि ।
आपद्य् अनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि ।
आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥ इति ।
व्याघ्रपादो ऽपि ।
आर्तवे देशकालानां विप्लवे समुपस्थिते ।
आमश्राद्धं द्विजैः कार्यं शूद्रः कुर्यात् सदैव हि ॥ इति ।
न च कात्यायन-व्याघ्रवचनपर्यालोचनया मासिकप्रत्याब्दिकयोर् अप्य् आमश्राद्धं प्राप्नोतीति मन्तव्यम्, “माससांवत्सराद् ऋते” इति विशेषवचनेनामश्राद्धस्य तद्व्यतिरिक्तविषयत्वावगमात् । अत एव मरीचिः ।
अनग्निकः प्रवासी च यस्य भार्या रजस्वला ।
आमश्राद्धं द्विजः कुर्यान् न तत् कुर्यान् मृते ऽहनि ॥ इति ।
तत् श्मश्राद्धं मृते ऽहनि न कुर्यात् । किं तु पक्वान्नेनैव कुर्याद् इत्य् अर्थः । लौगाक्षिर् अपि ।
पुष्पवत्स्व् अपि दारेषु विदेशस्थो ऽप्य् अनग्निकः ।
अन्नेनैवाब्दिकं कुर्यात् हेम्ना नामेन वा क्वचित् ॥ इति ।
यस् तु स्मृत्यन्तरे भार्यायां रजस्वलायां मृते ऽहनि श्राद्धनिषेधः,
मृते ऽहनि तु संप्राप्ते यस्य भार्या रजस्वला ।
श्राद्धं तदा न कर्तव्यं कर्तव्यं पञ्चमे ऽहनि ॥
[३३५] इति, तस्यायं विषयः — अपुत्रायाः पत्न्या एव पत्युर् मृताहश्राद्धे ऽधिकाराद् यदा सा स्वयम् एव रजस्वला स्यात् तदा मृते ऽहनि श्राद्धं न कर्तव्यम् । किं तु पञ्चमे ऽहनीति । तथा च श्लोकगौतमः ।
अपुत्रा तु यदा भार्या संप्राप्ते भर्तुर् आब्दिके ।
रजस्वला भवेत् सा तु कुर्यात् तत् पञ्चमे ऽहनि ॥ इति । (श्लोग्स्म् ५।१४)
प्रभासखण्डे ऽपि ।
शुद्धा स्यात् तु चतुर्थे ऽह्नि स्नाता नारी रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमे ऽहनि शुध्यति ॥ इति ।
अन्ये तु,
श्राद्धीये ऽहनि संप्राप्ते यस्य भार्या रजस्वला ।
श्राद्धं तत्र न कर्तव्यं कर्तव्यं पञ्चमे ऽहनि ॥ (श्ल्ग्स्म् ५।१९)
इति श्लोकगौतमवचनम् अन्यथा पठित्वा श्राद्धादौ कर्मणि भार्यया सहैवाधिकारश्रवणात् तस्यां रजोदर्शनदूषितायाम् अधिकारनिवृत्तेर् मुख्यकालम् अतिक्रम्य पञ्चमे ऽहनि श्राद्धं कर्तव्यम् – इति मन्यन्ते ।
ननु – अस्मिन् पाठे ऽमावास्यादिश्राद्धस्यापि पञ्चमे ऽहन्य् उत्कर्षः प्राप्नोति – इति ।
मैवम्, [३३६] “श्राद्धविघ्ने द्विजातीनाम्” इति हारीतवचनेनामावास्यादिष्व् आमस्यान्नकार्ये सोमकार्ये पूतीकवद् विहितत्वात् । श्राद्धीये ऽह्नीत्य् अस्य वचनस्य मृताहव्यतिरिक्तविषयत्वेन सार्थकत्वम् अस्तु – इति चेत् ।
भवेद् एतद् एवं यदि विषयान्तरं वक्तुं शक्येत । न त्व् एतद् अस्ति । मृताहविषयत्वं तु “मृते ऽहनि तु संप्राप्ते” इति स्मृत्यन्तरवचनाद् एवावगम्यते । तस्माद् एकभार्येण मृताहश्राद्धं रजोदर्शनरूपविघ्नोपरमकाल एव कर्तव्यम् । भार्यान्तरयुक्तेन त्व् अधिकारानपगमान् मुख्य एव काले कर्तव्यम् इति । यद् अत्र युक्तं तद् ग्राह्यम् ॥
अथ श्राद्धे ब्राह्मणपरीक्षा
श्राद्धे भोजनीयब्राह्मणपरीक्षा कर्तव्या । तत्र श्राद्धं प्रकृत्य यमः ।
पूर्वम् एव परीक्षेत ब्राह्मणान् वेदपारगान् ।
शरीरप्रभवैर् दोषैर् विशुद्धांश् चरितव्रतान् ॥
दूराद् एव परीक्षेत ब्राह्मणान् वेदपारगान् ।
इष्टान् वा यदि वानिष्टांस् तत्काले नावमानयेत् ॥ इति ।
पूर्वम् इति निमन्तर्णात् पूर्वम् इत्य् अर्थः । शरीरप्रभवा दोषाः कुष्टापस्मारादयः । दूराद् इति प्रपितामहाद् आरभ्य भोजनीयब्राह्मणपर्यन्तम् । तथा च छागलेयः ।
[३३७] उक्तलक्षणसंपन्नैर् विद्याशीलगुणान्वितैः ।
पुरुषत्रयविख्यातैः सर्वं श्राद्धं प्रकल्पयेत् ॥ इति ।
सर्वं पार्वणैकोद्दिष्टात्मकम् । अत एव मनुनापि पितुः श्रोत्रियत्वेन पुरुषस्य श्रैष्ठ्यम् उक्तम् ।
अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः ।
अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥
ज्यायांसम् अनयोर् विद्याद् यस्य स्याच् छ्रोत्रियः पिता । इति । (म्ध् ३।१३६–३७)
श्राद्धे भोजनीया ब्राह्मणा याज्ञवल्क्येन दर्शिताः ।
अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा ।
वेदार्थवित् ज्येष्ठसमा त्रिमधुस् त्रिसुपर्णिकः ॥
कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः ।
पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदे ॥ (य्ध् १।२१९–२२१)
[३३८] इति । ऋग्वेदादिसर्ववेदेष्व् अस्खलिताध्ययनक्रमाः । श्रोत्रियः श्रुताध्ययनसंपन्नः । ब्रह्मवित् ब्रह्मज्ञानवान् । युवा मध्यमवयस्कः । युवत्वं च सर्वविशेषणम् । वेदार्थविद् धर्मज्ञानवान् । ज्येष्ठसामेति सामविशेषस् तद्व्रतं च । तद्व्रताचरणेन यस् तद् अधीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशः तद्व्रतं च । तव्रताचरणेन तदध्यायी त्रिमधुः । त्रिसुपर्णम् ऋग्यजुषयोर् एकदेशः तद्व्रतं च । तदाचरणेन यस् तद् अधीते स त्रिसुपर्णिकः । ब्राह्मणा न क्षत्रियादयः । उक्तलक्षणा एते ब्राह्मणाः श्राद्धस्याक्षयफलसंपादका इत्य् अर्थः । बृहस्पतिर् अपि ।
यद्य् एकं भोजयेच् छ्राद्धे छन्दोगं तत्र भोजयेत् ।
ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते ॥
अटेत पृथिवीं सर्वां सशैलवनकाननाम् ।
यदि लभ्येत पित्रर्थे साम्नाम् अक्षरचिन्तकः ॥
ऋचा तु तृप्यति पिता यजुषा तु पितामहः ।
पितुः पितामहः साम्ना छन्दोगो ऽभ्यधिकस् ततः ॥ इति ।
शातातपो ऽपि ।
भोजयेद् यस् त्व् अथर्वाणं दैवे पित्र्ये च कर्मणि ।
अनन्तम् अक्षयं चैव फलं तस्येति वै श्रुतिः ॥
[३३९] इति । यमो ऽपि ।
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः ।
स्वधर्मनिरताः शान्ताः क्रियावन्तस् तपस्विनः ॥
तेभ्यो हव्यं च कव्यं च प्रसन्नेभ्यः प्रदीयते । इति ।
मनुर् अपि ।
श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥
एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ इति । (म्ध् ३।१२८–२९)
वसिष्ठो ऽपि- “यतीन् गृहस्थान् साधून् वा” इति । भोजयेद् इति शेषः । ब्राह्माण्डपुराणे ऽपि ।
शिखिभ्यो धातुरक्तेभ्यः त्रिदण्डेभ्यश् च दापयेत् । इति ।
शिखिनो ब्रह्मचारिण्ः । धातुरक्ताः धातुरक्तवस्त्रधारिणो वानप्रस्थाः । त्रिदण्डिनो वाक्कायमनोदण्डैर् उपेता यतयः । अत्र परः परः श्रेष्ठः । अत एव नारदः ।
यो वै यतीन् अनादृत्य भोजयेद् इतरान् द्विजान् ।
विजानन् वसतो ग्रामे कव्यं तद् याति राक्षसान् ॥ इति ।
ब्राह्मण्डपुराण्ē ऽपि ।
[३४०] अलाभे ध्यानिभिक्षूणां भोजयेद् ब्रह्मचारिणम् ।
तदलाभे ऽप्य् उदासीनं गृहस्थम् अपि भोजयेत् ॥ इति ।
उदासीनो ह्य् असंबन्धः । अत एव आपस्तम्बः- “ब्राह्मणान् भोजयेद् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान्” इति (आप्ध् २।७।१७।४) । योनिसंअब्धा मातुलादयः । गोत्रसंबन्धाः सपिण्डाः । मन्त्रसंबन्धा वेदाध्यापकादयः । अन्तेवासिसंबन्धाः शिष्यशास्त्रोपाध्यायाः । एवंविधसंबन्धव्यतिरिक्तान् ब्राह्मणान् गृहस्थादीन् भोजयेद् इत्य् अर्थः । श्राद्धे श्रोत्रियादीनां पङ्क्तिपावनत्वेनापि पात्रविशेषतां स एवाह ।
अपाङ्क्त्योपह्ता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः ।
तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥
त्रिणाचिकेतः पञ्चाग्निः त्रिसुपर्णः षडङ्गवित् ।
[३४१] ब्रह्मदेयात्मसन्तानश् छन्दोगो ज्येष्ठसामगः ॥
वेदार्थवित् प्रवक्ता च ब्रह्म्चारी सहस्रदः ।
शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ इति ।
ब्रह्मदेयात्मसन्तानः ब्राह्मविवाहोढापुत्रः । सहस्रदः गवां सुवर्णस्य वा । यमो ऽपि ।
ये सोमपा विरजसो धर्मज्ञाः शान्तबुद्धयः ।
व्रतिनो नियमस्थाश् च ऋतुकालाभिगामिनः ॥
पञ्चाग्निर् अप्य् अधीयानो यजुर्वेदविद् एव च ।
बह्वृचश् च त्रिसौपर्णः त्रिमधुर् वाथ यो भवेत् ॥
त्रिणाचिकेतो विरजाश् छन्दोगो ज्येष्ठसामगः ।
अथर्वशिरसो ऽध्येता सर्वे ते पङ्क्तिपावनाः ॥
शिशुर् अप्य् अग्निहोत्री च न्यायविच् च षडङ्गवित् ।
मन्त्रब्राह्मणविच् चैव यश् च स्याद् धर्मपाठकः ॥
ब्रह्मदेयासुतश् चैव भावशुद्धः सहस्रदः ।
चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ॥
निष्णातः सर्वविद्यासु शान्तो विगतकल्मषः ।
गुरुवेदाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥
विमुक्तः सर्वदा धीरो ब्रह्मभूतो द्विजोत्तमः ।
अनमित्रो न चामित्रो मैत्र आत्मविद् एव च ॥
स्नातको जप्यनिरतः सदा पुष्पबलिप्रियः ।
ऋजुर् मृदुः क्षमी दान्तः शान्तः सत्यव्रतः शुचिः ॥
[३४२] वेदज्ञः सर्वशास्त्रज्ञः उपवासपरायणः ।
गृहस्थो ब्रह्म्चारी च चतुर्वेदविद् एव च ॥
वेदविद्याव्रतस्नाता ब्राह्मणाः पङ्क्तिपावनाः ॥ इति ।
पैठीनसिर् अपि-
अथातः पङ्क्तिपावना भवन्ति । त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णश् चीर्णव्रतश् छन्दोगो ज्येष्ठसामगो ब्रह्मदेयानुसन्तानः सहस्रदो वेदाध्यायी चतुर्वेदः षडङ्गवित् अथर्वशिरसो ऽध्यायी पञ्चाग्निर् वेदजापी चेति । तेषाम् एकैकः पुनाति पङ्क्तिम् । नियुक्तो मूर्धनि सहस्रैर् अप्य् उपहताम् । इति ।
शङ्खो ऽपि ।
ब्रह्मदेयानुसन्तानो ब्रह्मदेयाप्रदायकः ।
ब्रह्मदेयापतिश् चैव ब्राह्मणाः पङ्क्तिपावनाः ॥
ऋग्यजुःपारगो यश् च साम्नां यश् चापि पारगः ।
अथर्वशिरसो ऽध्येता ब्राह्मणाः पङ्क्तिपावनाः ॥
नित्यं योगपरो विद्वान् समलोष्टाश्मकाञ्चनः ।
ध्यानशीलो यतिर् विद्वान् ब्राह्मणः पङ्क्तिपावनः ॥ इति । (शङ्स्म् १३।६–८)
बौधायनो ऽपि- [३४३] “त्रिमधुस् त्रिणाचिकेतस् त्रिसुपर्णः पञ्चाग्निः षडङ्गवित् त्रिशीर्षको ज्येष्ठसामगा इत् पङ्क्तिपावनाः” इति (ब्ध् २।८।१४।२) । हारीतो ऽपि ।
स्थितिर् अवच्छिन्नवेदवेदितायोनिसङ्करित्वम् आर्षेयत्वं चेति कुलगुणाः । वेदो ऽङ्गानि धर्मो ऽध्यात्मवित्त्वं विज्ञानं स्मृतिश् चेति षड्विधं श्रुतम् । ब्रह्मण्यता देवपितृभक्तता । समता सौम्यता परानुपतापितानसूयतानुद्धतता पारुष्यं मित्रता प्रियवादित्वं कृतज्ञता शरण्यता प्रशान्तिश् चेति त्रयोदशविधं शीलम् ।
क्षमा दमो दया दानम् अहिंसा गुरुपूजनम् ।
शौचं स्नानं जपो होमस् तपः स्वाध्याय एव च ॥
सत्यवचनं सन्तोषो दृढव्रतत्वम् उपव्रतत्वम् इति षोडशगुणं वृत्तम् । तस्मात् कुलीनाः [३४४] श्रुतशीलवन्तो वृत्तस्थाः सत्यवादिनो ऽव्यङ्गाः पाङ्क्तेयाः । द्वादशोभयतः श्रोत्रियस् त्रिणाचिकेतस् त्रिसुपर्णस् त्रिमधुस् त्रिशीर्षको ज्येष्ठसामगः पञ्चाग्निः षडङ्गविद् रुद्रजाप्य् ऊर्ध्वरेताः ऋतुकालगामी तत्त्वविच् चेति पङ्क्तिपावना भवन्ति” इति (हार्स्म् १३।१५–२२) ।
स्थितिर् अविच्छिन्नसन्तानता अविच्छिन्नवेद्वेदितेत्य् अत्र हविरासादनार्थदेशविशेषवाची वेदिशब्दो हविःसाध्यं यागं लक्षयति । आर्षेयत्वं प्रवरवर्तिऋषिज्ञातृत्वम् । धर्मो धर्मशास्त्रम् । विज्ञानं वैशेषिकादिशास्त्राभिज्ञानम् । स्मृतिर् वेदशास्त्राविस्मरणम् । उपव्रतत्वं दशम्यादाव् एकभक्तता । अत्रानुकल्पो याज्ञवल्क्येन दर्शितः ।
स्वस्रीयऋत्विक्जामातृयाजश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ॥ इति । (य्ध् १।२२०)
अत एव मनुः ।
अनुकल्पस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ।
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ॥
दौहित्रं विट्पतिं बन्धुम् ऋत्विग्याज्यौ च भोजयेत् । इति । (म्ध् ३।१४७–४८)
विट्पतिर् जामाता अतिथिर् वा । तद् उक्तम् देवस्वामिना- “विट्पतिर् अतिथिर् अन्ये वदन्ति” इति । आपस्तम्बो ऽपि- [३४५] “गुणवदलाभे सोदर्यो ऽपि भोजयितव्यः । एतेनान्तेवासिनो व्याख्याताः” इति (आप्ध् २।६।१७।५–६) । बौधायनो ऽपि- “तदभावे रहस्यवित् । ऋचो यजूंषि सामानीति श्राद्धस्य महिमा तस्माद् एवंविधं सपिण्डम् अप्य् आशयेत्” इति (ब्ध् २।८।१४।३–४) । विष्णुपुराणे ऽपि ।
पितृव्यगुरुदौहित्रान् ऋत्विक्स्वस्रीयमातुलान् ।
पूजयेद् धव्यकव्येन वृद्धान् अतिथिबान्धवान् ॥ इति ।
अत्र ऋत्विक्पितृव्यसोदर्यसपिण्डा वैश्वदेवस्थाने नियोक्तव्याः । न पित्रादिस्थाने । तथा च अत्रिः ।
पिता पितामहो भ्राता पुत्रो वाथ सपिण्डकः ।
न परस्परम् अर्घ्याः स्युर् न श्राद्धं ऋत्विजस् तथा ॥
ऋत्विक्पुत्रादयो ह्य् एते सकुल्या ब्राह्मणा द्विजाः ।
वैश्वदेवे नियोक्तव्या यद्य् एते गुणवत्तराः ॥ इति ।
शिष्यस्यापि वैश्वदेवस्थान एव निवेशः, सोदर्ये विहितस्यार्थस्य [३४६] “एतेनान्तेवासिनो व्याख्याताः” (आप्ध् २।७।१७।६) इत्य् आपस्तम्बेन शिष्ये ऽतिदेशात् । यत् तु मनुना कल्पान्तरम् उक्तम्,
कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्व् अरिम् ।
द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ (म्ध् ३।१४४)
इति, तन् न साक्षाद् अनुकल्पाभिप्रायेण । किं त्व् अनुकल्पानुकल्पाभिप्रायेण, “न श्राद्धे भोजयेन् मित्रम्” (म्ध् ३।१४४) इति स्वेनैव निषिद्धस्य मित्रस्य “कामम् अर्चयेत्” इति सानुशयम् एवानुज्ञानात् । वसिष्ठो ऽप्य् अनुकल्पानुकल्पम् आह ।
आनृशंस्यं परो धर्मो याचते यत् प्रदीयते ।
अयाचतः सीदमानान् सर्वोपायैर् निमन्त्रयेत् ॥ इति ।
आनृशंस्यम् उत्कृष्टो धर्मः । तेनायाचतः अयाचनशीलान् अत एव सिदमानान् निर्गुणान् अपि सगुणानाम् अनुकल्पानाम् अभावे [३४७] सर्वोपायैर् यथा ते निमन्त्रणम् अङ्गीकुर्वन्ति तादृशैर् उपायैर् निमन्त्रयेत् । अयाचनशीलानाम् अभावे याचमानाय निर्गुणाय प्रदीयते – इति एतद् अप्य् अनुकल्पो भवतीत्य् अर्थः । संभवति मुख्यकल्पे नानुकल्पो ऽनुष्ठेयः । तथाह मनुः ।
प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।
न साम्परायिकं तस्य दुर्मतेर् विद्यते फलम् ॥ इति । (म्ध् ११।३०)
साम्परायिकम् उत्तरकालिकं स्वर्गादिकं फलम् इति । भविषत्पुराणे ऽपि ।
ब्राह्मनातिक्रमो नास्ति मूर्घे वेदविवर्जिते ।
ज्वलन्तम् अग्निम् उत्सृज्य न हि भस्मनि हूयते ॥ इति ।
वेदविवर्जिते इति निर्गुणमात्रोपलक्षणार्थम् । अत एवोक्तं तत्रैव ।
व्यतिक्रान्तुर् न दोषो ऽस्ति निर्गुणम् प्रति कर्हिचित् ।
यस्य त्व् एकगृहे मूर्खो दूरस्थश् च गुणान्वितः ॥
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ इति ।
यत् तु पुराणन्तरे ऽभिहितम्,
यस् त्व् आसन्नम् अतिक्रम्य ब्राह्मणं पतिताद् ऋते ।
दूरस्थं भोजयेन् मूढो गुणाढ्यं नरकं व्रजेत् ॥
तस्मात् संपूजयेद् एनं गुणं तस्य च चिन्तयेत् ।
केवलं चिन्तयेज् जातिं न गुणान्विततां खग ॥
[३४८] संनिकृष्टं द्विजं यस् तु युक्तजातिं प्रियंवदम् ।
मूर्खं वा पण्डितं वापि वृत्तिहीनम् अथापि वा ॥
नातिक्रामेन् नरो विद्वान् दारिद्याभिहतं तथा ।
इति, तद् दौहित्रजामात्रादिविषयम् । अत एव मनुः ।
व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् । इति । (म्ध् ३।२३४)
व्रतस्थं केवलव्रतस्थम् अध्ययनादिरहितम् इत्य् अर्थः । गुणवत्संनिकृष्टातिक्रमे तु प्रत्यवायो ऽस्ति । तथा च पुराणम् ।
सप्त पूर्वान् सप्त परान् पुरुषान् आत्मना सह ।
अतिक्रम्य द्विजवरान् नरके पातयेत् खग ॥
तस्मान् नातिक्रमेत् प्राज्ञो ब्राह्मणान् प्रातिवेशिकान् ।
संबन्धिनस् तथा सर्वान् दौहित्रं विट्पतिं तथा ॥
भागिनेयं विशेषेण तथा बन्धुं खगाधिप ।
नातिक्रामेन् नरश् चैतान् अमूर्खान् अपि गोपते ॥
अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् । इति ।
अपिर् एवकारार्थः । अमूर्खान् एवातिक्रम्य नरकं व्रजेत् । न मूर्खान् इत्य् अभिप्रायः । श्राद्धे वर्जनीया ब्राह्मणा याज्ञवल्क्येन दर्शिताः ।
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥
[३४९] भृतकाध्यापकः क्लीबः कन्यादूष्य् अभिशस्तकः ।
मित्रध्रुक् पिशुनः सोमविक्रयी प्रिविन्दकः ॥
मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टश् च निन्दिताः ॥ इति । (य्ध् १।२२२–२४)
रोगी उन्मादादिपापरोगवान् । ते च देवलेन दर्शिताः- “उन्मादस् त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरो महोदरो ऽश्मरीत्य् अष्टौ पापरोगाः” इति । हीनं न्यूनम् अधिकम् अतिरिक्तम् अङ्गं यस्यासौ हीनातिरिक्ताङ्गः । एकेनाप्य् अक्ष्णा यो न पश्यति असौ काणः । तेन च बधिरमूकादयो लक्ष्यन्ते । द्विरूढा पुनर्भूस् तस्यां जातः पौनर्भवः । अवकीर्णी क्षतव्रतः । वेतनं गृहीत्वा यो ऽध्यापयति स भृतकाध्यापकः । असता सता वा दोषेण कन्यां दूषयिता कन्यादूषी । महापातकाभिशस्तो ऽभिशस्तकः । परिविन्दकः परिवेत्ता । कुण्डस्यान्नं यो ऽश्नाति स कुण्डाशी । कुण्डशब्दो गोलकस्याप्य् उपलक्षकः । विहितकर्मपरित्यागी वृषलः तत्सुतो वृषलात्मजः । परपूर्वापतिः पुनर्भूपतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धाचारोपेताः । एते श्राद्धे निन्दिता वर्ज्या इत्य् अर्थः । मनुर् अपि ।
[३५०] ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥
जटिलं चानधीयानं दुर्वालं कितवं तथा ।
याजयन्ति च ये पूगांस् तांश् च श्राद्धे न भोजयेत् ॥
चिकित्सकान् देवलकान् मांसविक्रयिणस् तथा ।
विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥
प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश् चैव त्यक्ताग्निर् वार्धुषिस् तथा ॥
यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः ।
ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥
कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च ।
पौनर्भवश् च काणश् च यस्य चोपपतिर् गृहे ॥
भृतकाध्यापको यश् च भृतकाध्यापितस् तथा ।
शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥
अकारणपरित्यक्ता मातापित्रोर् गुरोस् तथा ।
ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी बन्दी च तैलकः कूटकारकः ॥
पित्रा विवदमानश् च केकरो मद्यपस् तथा ।
केकरः तिर्यग्दृष्टिः ।
[३५१] पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥
धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः ।
मित्रध्रुक् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥
भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ।
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ।
पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥
स्रोतसां भेदकश् चैव तेषां चावरणे रतः ।
गृहसंवेशको दूतो वृक्षरोपक एव च ॥
श्वक्रीडी श्येनजीवि च कन्यादूषक एव च ।
हिंस्रो वृषलवृत्तिश् च गणानां चैव याजकः ॥
आचारहीनः क्लीबश् च नित्यं याचनकस् तथा ।
कृषिजीवी शिल्पजीवी सद्भिर् निन्दित एव च ॥
औरभ्रिको माहिषिकः परपूर्वापतिस् तथा ।
प्रेतनिर्यातकश् चैव वर्जनीयाः प्रयत्नतः ॥
एतान् विगर्हिताचारान् अपङ्क्तेयान् द्विजाधमान् ।
द्विजातिप्रवरो विद्वान् उभयत्रापि वर्जयेत् ॥ इति । (म्ध् ३।१५०–६७)
स्तेनो ऽत्र ब्रह्मस्वव्यतिरिक्तद्रव्यापहारी विवक्षितः, [३५२] तद्द्रव्यापहारिणः पतितशब्देनोपात्तत्वात् । पारलौकिकफलदं कर्म नास्तीति मन्यमाना नास्तिकाः । तेभ्यो वृत्तिर् जीविका येषां ते नास्तिकवृत्तयः । जटिलो ब्रह्मचारी । “अनधीयानः” इति जटिलविशेषणम् । अतश् चानधीयानो ब्रह्मचारी प्रतिषिध्यते । न तु ब्रह्मचारिमात्रम्, तस्य श्राद्धे “पञ्चाग्निर् ब्रह्मचारिणः” इति पात्रत्वविधानात् । न च – अध्ययनरहितस्य ब्रह्मचारिणो ऽश्रोत्रियत्वेन श्राद्धे प्रसक्त्यभावात् प्रतिषेधो ऽनुपपन्नः – इति मन्तव्यम् । यतः,
व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् । (म्ध् ३।२३४)
इत्य् अत्र दौहित्रग्रहणम् अविवक्षितम् इति भ्रान्त्या अध्ययनरहितो ऽपि ब्रह्मचारी श्राद्धे भोजनीयतया प्रसक्तः प्रतिषिध्यत इति । दुर्वालः खल्वाटः कपिलकेशो वा । तद् उक्तं संग्रहकारेण ।
खल्वाटकश् च दुर्वालः कपिलश् चण्ड एव च । इति ।
कितवो द्यूतासक्तः । पूगयाजकाः गणयाजकाः । अत्र श्राद्धे इति विशेषोपादानाद् दुर्वालादीनां श्राद्ध एव वर्ज्यत्वं न दैव इत्य् अवगम्यते । अन्यथा प्रकरणाद् एवोभयत्र निषेधावगमाद् विशेषोपादानम् अनर्थकं स्यात् । अत एव गौतमः- “हविःषु चैवं दुर्वालादीन् श्राद्द एवैके” इति (ग्ध् १५।२७) । हविःषु च दैवे ऽपि । एवं पित्र्यवत् परीक्ष्य दुर्वालादीन् [३५३] वर्जयेत् । एके मन्वादयः । श्राद्ध एव न भोजयेत् दैवे तु भोजयेद् इत्य् अभिप्रायः । चिकित्सकाः जीवनार्थम् अदृष्टार्थं च भेषजकारिणः,
तस्माद् ब्राह्मणेन भेषजं न कार्यम् ।
अपूतो ह्य् एषो ऽमेध्यो यो भिषक् ।
इति अविशेषेणैव निन्दार्थवाददर्शनात् । धनार्थं संवत्सरत्रयं देवार्चको देवलकः । तद् उक्तं देवलेन ।
देवार्चनपरो नित्यं वित्तार्थी वत्सरत्रयम् ।
असौ देवलको नाम हव्यकव्येषु गर्हितः ॥
अपाङ्क्तेयः स विज्ञेयः सर्वकर्मसु सर्वदा । इति ।
आपद्य् अपि मांसविक्रयिणः । अनापदि विपणजीवित्वेनैव निषेधे सिद्धे “मांसविक्रयिणः” इति पुनर् विशेषोपादानस्य वैयर्थ्यात् । अनापदि वाणिज्येन जीवन्तो विपणजीविनः । न त्व् आपद्य् अपि । तत्र,
क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः । (य्ध् ३।३५)
इति वाणिज्यस्यापत्कल्पतया विहितत्वात् । विहितत्यागकारणम् विना श्रौतस्मार्ताग्निपरित्यक्ता परित्यक्ताग्निः । अलपवृद्ध्या धनं स्वीकृत्याधिकवृद्ध्या धनप्रयोजको वार्धुषिकः । तथा च स्मृतिः ।
समर्घं धनम् उद्धृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ (वध् २।४१)
[३५४] इति । यक्ष्मी क्षयरोगी । अनापदि पशुपालः । अविवाहिते ज्येष्ठे अनाहिताग्नौ वा सति यः कनीयान् कृतदारपरिग्रह आहिताग्निर् वा भवेत् स परिवेत्ता । तज्ज्येष्ठस् तु परिवित्तिः । तथा च मनुः ।
दाराग्निहोत्र्संयोगं कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ इति । (म्ध् ३।१७१)
अग्रजः सोदर्यो विवक्षितः । तथा च गर्गः ।
सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद् दारसंग्रहम् ।
आवसथ्यं तथाधानं पतितस् त्व् अन्यथा भवेत् ॥ इति ।
आवसथ्यम् आवसथ्याधानम् । आधानं गार्हपत्याद्याधानम् । असोदर्ये तु न दोषः । तथा च शातातपः ।
पितृव्यपुत्रान् सापत्नान् परनारीसुतांस् तथा ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥ इति ।
परनारीसुताः क्षेत्रजा भ्रातरः । यमो ऽपि ।
पितृव्यपुत्रान् सापत्नान् परनारीसुतांस् तथा ।
दाराग्निहोत्रसंयोगे च दोषः परिवेदने ॥ इति ।
परपुत्रा दत्तक्रीतादयः भ्रातरः । सोदर्यविषये ऽपि क्वचिद् दोषो नास्ति । तथा च शातातपः ।
क्रीबे देशान्तरस्थे च पतिते भिक्षुके ऽपि वा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥ इति ।
भिक्षुकः प्रव्रजितः । योगशास्त्राभियुक्तो विरक्तः । कात्यायनो ऽपि ।
[३५५] देशान्तरस्थक्लीबैकवृषणान् असहोदरान् ।
वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥
जषमूकान्धबधिरकुब्जवामनखोडकान् ।
अतिवृद्धान् अभार्यांश् च कृषिसक्तान् नृपस्य च ॥
धनवृद्धिप्रसक्तांश् च कामतो ऽकारिणस् तथा ।
कुहकोन्मत्तचोरांश् च परिविन्दन् न दुष्यति ॥ इति ।
खोडो भग्नपादद्वयः । अभार्या नैष्ठिकब्रह्मचारिणः । कामतो ऽकारिणण् स्वेच्छयैव विवाहान् निवृत्ताः । देशान्तरगतादिषु कालप्रतीक्षाम् अन्तरेण परिवेदने दोषो ऽस्ति । तथा च वसिष्ठः- “अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरम् अनिविष्टम् अप्रतीक्षमाणः प्रायश्चित्ती भवति” इति । अनिविष्टम् अकृतविवाहम् । अत्रेयं व्यव्स्था – अदृष्टार्थम् अर्थार्थं वा द्वादशवर्षप्रतीक्षणं देशान्तरगतज्येष्ठविषयम् । अष्टौ दशेति पक्षद्वयं कार्यान्तरार्थं देशान्तरगतविषयम् । तथा च स्मृतिः ।
द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर् गतः ।
न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनः पुनः ॥ इति ।
क्लीबादयस् तु न प्रतीक्षणीयाः । तथा च स्मृतिः ।
उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव वा ।
राजयक्ष्म्य् आमयावी च न न्याय्यः स्यात् प्रतीक्षितुम् ॥
[३५६] इति । विरक्तवेश्यातिसक्तादिषु तु चिरकानानुवृत्त्या विवाहसंभावनानिवृत्ताव् अधिवेदनं न दोषाय । तत्र कालावधेर् अश्रुतत्वात् । आधानविषये ऽपि ज्येष्ठानुमत्याधिवेदने न दोषः । तथा च वृद्धवसिष्ठः ।
अग्रजश् च यदानग्निर् आदध्याद् अनुजः कथम् ।
अग्रजानुमतः कुर्याद् अग्निहोत्रं यथाविधि ॥ इति ।
आधानाधिकारिणि ज्येष्ठे ऽनाहिताग्नाव् अपि कनिष्ठस् तदनुमत्याधानं कुर्याद् इत्य् अभिप्रायः । अयं न्यायः पित्रादिषु द्रष्टव्यः । तथा च उशनाः ।
पिता पितामहो यस्य अग्रजो वाथ कस्यचित् ।
तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने ॥ इति ।
यस्य कस्यचित् पिता पितामहो वाग्रजो वाहिताग्निर् न भवति तस्य तदन्य्मत्याधानकरणे ऽपि न दोष इत्य् अर्थः । एवम् एव कन्यापरिवेदने ऽपि दोषतदपवादौ द्रष्टव्यौ । अधीतविस्मृतवेदो निराकृतिः । तथा च देवलः ।
अधीत्य विस्मृते वेदे भवेद् द्विजो निराकृतिः । इति ।
नानाजातीया अनियतवृत्तयो गणास् तेषां मध्यवर्ती गणाभ्यन्तरः । कुशीलवो गायकादिः । वृषलीपतिस् तु रजस्वलायाः कन्यायाः पतिः । तद् उक्तं देवलेन ।
वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥
[३५७] यस् त्व् एनाम् उद्वहेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेय्म् अपाङ्क्तेयं तं विद्याद् वृषलीपतिम् ॥ इति ।
यस्य गृहे उपपतिर् जारः सदा संवसेत् सो ऽपि वर्ज्यः । तद् उक्तं देवलेन ।
परदाराभिगो मोहात् पुरुषो जार उच्यते ।
स एवोपपतिर् ज्ञेयो यः सदा संवसेद् गृहे ॥ इति ।
वाग्दुष्टो निष्ठुरवाक् । पतितैर् महापातकिसंसर्गिभिः सह ब्राह्मैर् यौनैश् च संबन्धैर् विद्यायोनिसंबन्धैर् यः संयोगं गतः सो ऽत्र विवक्षितः । न तु साक्षात् संसर्गी । तस्य पतितशब्देनैवोपात्तत्वात् । केकरो ऽध्यर्धदृष्टिः । अग्रेदिधिष्वाः पतिर् अग्रेदिधिषूपतिः । ज्येष्ठायाम् अनूढायाम् ऊढा कनिष्ठा या साग्रेदिधिषुः । तद् उक्तं देवलेन ।
ज्येष्ठायां यद्य् अनूढायां कन्यायाम् उह्यते ऽनुजा ।
सा चाग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूर् मता ॥ इति ।
पुत्राचार्यो ऽक्षरपाठकः । भ्रामरी वृत्त्यर्थम् एव भ्रमरवद् अर्थार्जकः । गृहसंवेशको वर्धकिवृत्त्या वर्तमानः । उरभ्राः अवयः । त एव वृत्त्यर्थं पालनीया यस्यासाव् औरभ्रिकः । महिष्यः पाल्या यस्यासौ माहिषकः । अथवा व्यभिचारिणीपुत्रः । तद् आह देवलः ।
महिषीत्य् उच्यते भार्या सा चैव व्यभिचारिणी ।
तस्यां यो जायते गर्भः स वै माहिषकः स्मृतः ॥ इति ।
एतान् पूर्वोक्तान् उभयत्र दैवे पित्र्ये च वर्जयेद् इत्य् अर्थः । यमो ऽपि ।
[३५८] काणाः कुब्जाश् च षण्ढाश् च कृतघ्ना गुरुतल्पगाः ।
ब्रह्मघ्नाश् च सुरापाश् च स्तेना गोघ्नाश् चिकित्सकाः ॥
राष्ट्रकामास् तथोन्मत्ताः पशुविक्रयिणश् च ये ।
मानकूटास् तुलाकूटाः शिल्पिनो ग्रामयाजकाः ॥
राजभृत्यान्धबधिरा मूकखल्वाटपङ्गवः ।
वृषलीफेनपीताश् च श्रेणियाजकयाजकाः ॥
कालोपजिविनश् चैव ब्रह्मविक्रयिणस् तथा ।
दण्डपूजाश् च ये विप्रा ग्रामकृत्यपराश् च ये ॥
अगारदाहिनश् चैव गरदा वनदाहकाः ।
कुण्डाशिनो देवलकाः परदाराभिमर्शकाः ॥
श्यावदन्ताः कुनखिनः शिल्पिनः कुष्ठिनश् च ये ।
वणिजो मधुहर्तारो हस्त्यश्वदमका द्विजाः ॥
कन्यानां दूषकाश् चैव ब्राह्मणानां च दूषकाः ।
सूचकाः प्रेष्यकाश् चैव कितवाश् च कुशीलवाः ॥
समयानां च भेत्तारः प्रदाने ये च बाधकाः ।
अजाविका माहिषिकाः सर्वविक्रयिणश् च ये ॥
धनुःकर्ता द्यूतवृत्तिर् मित्रध्रुक् शस्त्रविक्रयी ।
पाण्डुरोगी गण्डमाली यक्ष्मी च भ्रामरी तथा ॥
पिशुनः कूटसाक्षी च दीर्घरोगी वृथाश्रमी ।
प्रव्रज्योपनिवृत्तश् च वृथा प्रव्रजितश् च यः ॥
यश् च प्रव्रजिताज् जातः प्रव्रज्यावसितश् च यः ।
[३५९] ताव् उभौ ब्रह्मचण्डालाव् आह वैवस्वतो यमः ॥
राज्ञः प्रेष्यकरो यश् च ग्रामस्य नगरस्य वा ।
समुद्रयायी वान्ताशी केशविक्रयिणश् च ये ॥
अवकीर्णी च वीरघ्नो गुरुघ्नः पितृदूषकः ।
गोविक्रयी च दुर्वालः पूगानां चैव याजकः ॥
मद्यपश् च कदर्यश् च सह पित्रा विवादकृत् ।
दाम्भिको वर्धकीभर्ता त्यक्तात्मा दारदूषकः ॥
सद्भिश् च निन्दिताचार्ः स्वकर्मपरिवर्जकः ।
परिवित्तिः परिवेत्ता भृत्याचार्यो निराकृतिः ॥
शूद्राचार्यः सुताचार्यः शूद्रशिष्यस् तु नास्तिकः ।
इष्वस्त्रदारकाचार्यो मानकृत् तैलिकस् तथा ॥
चोरा वार्धुषिका दुष्टाः परस्वानां च दूषकाः ।
चतुराश्रमबाह्याश् च सर्वे ते पङ्क्तिदूषकाः ॥
इत्य् एतैर् लक्षणैर् युक्तांस् तान् द्विजान् न नियोजयेत् ।
द्विजातिगुणयोगे ऽप्य् एतेषां ऽप्य् एतेषां वर्जनीयत्वं ब्रह्माण्डपुराणे ऽभिहितम् ।
श्राद्धार्हगुणयोगे ऽपि नैते जातु कथंचन ।
निमन्त्रणीयाः श्राद्धेषु सम्यक्फलम् अभीप्सता ॥ इति ।
अथ ब्राह्मणनिमन्त्रणम्
एवं ब्राह्मणान् प्राग् एव सम्यक् परीक्ष्य पूर्वेद्युर् निमन्त्रयीत । तथा च हारीतः- [३६०] “यत्नेनैवंविधान् श्राद्धम् आचरिष्यन् पूर्वेद्युर् निमन्त्रयेत्” इति (हार्स्म् १३।२९) । असंभवे परेद्युर् निमन्त्रयीत । तथा च कौर्मे ।
श्वो भविष्यति मे श्राद्धं पूर्वेद्युर् अभिपूजयेत् ।
असंभवे परेद्युर् वा यथोक्तैर् लक्षणैर् युतान् ॥ इति । (कूपु १।२।२२।२)
देवलो ऽपि ।
श्वः कर्तास्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् ।
निरामिषं सकृद् भुक्त्वा सर्वभुक्तजने गृहे ॥
असंभवे परेद्युर् वा ब्राह्मणांस् तान् निमन्त्रयेत् । इति ।
अत्र विशेषो मनुना दर्शितः ।
पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ इति । (म्ध् ३।१८७)
वराहपुराणे ।
वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जानता ।
स्थानोपलेपनं भूमिं कृत्वा विप्रान् निमन्त्रयेत् ॥
दन्तकाष्ठं च विसृजेत् ब्रह्मचारी शुचिर् भवेत् ।
[३६१] इति । श्राद्धभूमिं परिगृह्य गोमयादिना तत्स्थानोपलेपनं कृत्वा विप्रान् रात्रौ निमन्त्रयेद् इत्य् अर्थः । तथा च ब्रह्माण्डपुराणम् ।
पूर्वे ऽह्नि रात्रौ विप्राग्र्यान् कृतसायन्तनाशनान् ।
गत्वा निमन्त्रयेद् देवपित्रुद्देशसमन्विअतः ॥ इति ।
निमन्त्रणप्रकारः प्रचेतसा दर्शितः ।
कृतापसव्यः पूर्वेद्युः पितॄन् पूर्वं निमन्त्रयेत् ।
भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदत ॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत् । इति ।
अत्र प्रणतिपूर्वकं निमन्त्रणं शूद्रविषयम् । तथा च पुराणम् ।
दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस् तथा ।
पादाव् आदाय वैश्यौ द्वौ शूद्रः प्रणतिपूर्वकम् ॥ इति ।
दक्षिणचरणस्पर्शो जानुप्रदेशे कर्तव्यः । तथा च मत्स्यः ।
दक्षिणं जानुम् आलभ्य त्वं मयात्र निमन्त्रितः । इति । (मत्पु १६।१९)
“पूर्वं निमन्त्रयेत्” इत्य् अत्र पूर्वपदस्य वैश्वदेवार्थं निमन्त्रयेद् इति व्यवहितेनान्वयः । अत एव बृहस्पतिः ।
उपवीती ततो भूत्वा देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये च स्वयं शिष्यो ऽथ वा सुतः ॥ इति ।
[३६२]
अथ ब्राह्मणसंख्या
पार्वणश्राद्धे ब्राह्मणसंख्याम् आह पैठीनसिः- “ब्राह्मणान् सप्त पञ्च द्वौ वा श्रोत्रियान् आमन्त्रयेत्” इति । यदा पञ्च ब्राह्मणाः तदा दैवे द्वौ पित्र्ये त्रय इति विभागः, “द्वौ दैवे पितृकार्ये त्रीन्” (म्ध् ३।१२५) इति मनुस्मरणात् । यदा सप्त तदा दैवे चत्वारः । पित्र्ये त्रयः, “अयुजो भोजयेच् छ्राद्धे न समा दैविके समाः” इति अङ्गिरसस्मरणात् ।
नन्व् एतद् वचनं दैवे द्वौ पित्र्ये पञ्च इति विभागे ऽप्य् उप्पद्यते, इति चेत् ।
मैवम्, त्रिषु पञ्चानाम् अयुग्मसङ्ख्यया विभागानुपपत्तेः । न च – एकत्र त्रय इतरत्रैकैक इति विभाग उपपद्यत – इति वाच्यम्, “समं स्याद् अश्रुतत्वात्” (प्म्स् १०।३।५३) इति न्यायेन विषमविभागस्यान्याय्यत्वात् । तस्माद् अयुग्मसंख्यया [३६३] समविभागार्थं पित्र्ये त्रय इति युक्तम् । यत् तु शौनकेन पित्र्ये ऽपि युग्मविधानम् कृतम्, “एकैकस्य द्वौ द्वौ” इति, तद् वृद्धिश्राद्धविषयम् । पित्रादिस्थानेषु सति सामर्थ्ये एकैकस्य त्रींस् त्रीन् विप्रान् भोजयेत् । तथा च शौनकः, “एकैकम् एकैकस्य त्रींस् त्रीन् वा” इति । अत्यन्तविभवे सत्य् एकैकस्य पञ्च सप्त वा ब्राह्मणान् भोजयेत् । तथा च गौतमः- “नवावरान् भोजयेद् अयुजो वा यथोत्साहम्” इति (ग्ध् १५।७) । अस्यार्थः – यथोत्साहं यथाविभवं पित्रादिस्थानेषु प्रत्येकम् अयुजः पञ्च सप्त वा ब्राह्मणान् भोजयेद् इति ।
ननु – अयुजो भोजयेद् इति वचनस्य कथं पञ्चसु सप्तसु वा ब्राह्मणेषु पर्यवसानम्।
सामर्थ्ये ऽपि नवभ्यो ऽर्वाग् भोजयीत सति द्विजान् ।
नोर्ध्वं कर्तव्यम् इत्य् आहुः केचित् तद्दोषदर्शिनः ॥
इति ब्राह्मणादपुराणवचनाद् इति ब्रूमः । शौनक-गौतमाभ्याम् उक्तो ऽयं श्राद्धविस्तरो मनुना नादृतः ।
द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि न प्रसज्जेत विस्तरे ॥
[३६४] सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥ (म्ध् ३।१२५–२६)
इति सकारणम् एव विस्तरप्रतिषेधात् । अत एव वृद्धबृहस्पतिर् अपि ।
एकैकम् अथ वा द्वौ त्रीन् दैवे पित्र्ये च भोजयेत् ।
सत्क्रियाकालपात्रादि न संपद्येत विस्तरे ॥ इति ।
वसिष्ठो ऽपि ।
द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि विस्तरं तु विवर्जयेत् ॥ इति । (वध् ११।२७)
अत एव याज्ञवल्क्येनापि सङ्कोचपक्ष एव विहितः ।
द्वौ दैवे प्राक् त्रयः पित्र्ये उदग् एकैकम् एव वा ।
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ इति । (य्ध् १।२२८)
एकैकम् उभयत्र वेति ब्राह्मणाद्यसंभवे वेदितव्यम् । यत् तु शङ्खेनोक्तम्,
भोजयेद् अथ वाप्य् एकं ब्राह्मणं पङ्क्तिपावनम् ।
इति, तद् अप्य् अलाभविषयम् । यदा त्व् एक एव भोक्ता तदैवम् आह वसिष्ठः ।
[३६५] यद्य् एकं भोजयेच् छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥
देवतायतने कृत्वा यथाविधिवद् अर्चयेत् ।
प्रास्येद् अग्नौ तद् अन्नं तु दद्याद् वा ब्रह्मचारिणे ॥ इति । (वध् ११।३०–३१)
निमन्त्रणे नियमान्तरम् आह मत्स्यः ।
एवं निमन्त्र्य नियमान् श्रावयेत् पैतृकान् बुधः ।
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश् च मया च श्राद्धकारिणा ॥ इति । (मत्पु १६।१–२०)
अथ निमन्त्रितब्राह्मणकर्तव्यम्
निमन्त्रितैर् कर्तव्यं तद् आह अत्रिः ।
ते तं तथेत्य् अविघ्नेन गतेयं रजनी यदि ।
यथाश्रुतं प्रतीक्षेरन् श्राद्धकालम् अतन्द्रिताः ॥ इति ।
ते निमन्त्रिता विप्रास् तं श्राद्धकर्तारम् अविघ्नपूर्वकं तथास्त्व् इत्य् उक्त्वा यथाश्रुतं विहितं नियमजातं श्राद्धकालं श्राद्धे भुक्तं यावत् जीर्यति तावद् अनुतिष्ठेरन्न् इत्य् अर्थः । तथा च प्रचेताः ।
आ चान्नपरिणामात् तु ब्रह्मचर्यं द्वयोः स्मृतम् । इति ।
यमो ऽपि ।
[३६६] आमन्त्रितास् तु विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर् नियताहारा ब्रह्मचर्यपरायणाः ॥
अहिंसा सत्यम् अक्रोधो दूरे च गमनक्रिया ।
अभारोद्वहनं चेति श्राद्धस्योपासनाविधिः ॥ इति ।
तथास्त्व् इत्य् अङ्गीकारः सति सामर्थ्ये अनिन्दितामन्त्रणविषयः । तथा च कात्यायनः- “अनिन्द्येनामन्त्रिते नातिक्रामेत्” इति । शक्तेन न प्रत्याख्यानं कर्तव्यम् इति । यस् त्व् आमन्त्रणम् अङ्गीकृत्य सत्य् अपि सामर्थ्ये पश्चान् निवारयति तस्य दोषो ऽस्ति । तथा च मनुः ।
केतितस् तु यथान्यायं हव्यकव्ये द्विजोत्तमः ।
कथंचिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥ इति । (म्ध् ३।१९०)
केतितो निमन्त्रितः । यमो ऽपि ।
आमन्त्रितश् च यो विप्रो भोक्तुम् अन्यत्र गच्छति ।
नरकाणां शतं गत्वा चण्डालेष्व् अभिजायते ॥ इति ।
निमन्त्रितब्राह्मणपरित्यागे प्रत्यवायो ऽस्ति । तथा च नारायणः ।
निकेतनं कारयित्वा निवारयति दुर्मतिः ।
ब्रह्महत्याम् अवाप्नोति शूद्रयोनौ च जायते ॥ इति ।
यस् एव् आमन्त्रितो विप्रश् चाहूतो ऽपि श्राद्धकालातिक्रमं करोति तस्य प्रत्यवाय आदिपुराणे ऽभिहितः ।
[३६७] आमन्त्रितश् चिरं नैव कुर्याद् विप्रः कदाचन ।
देवतानां पितॄणां च दातुर् अन्नस्य चैव हि ॥
चिरकारी भवेद् द्रोही पच्यते नरकाग्निना । इति ।
दातृभोक्त्रोर् ब्रह्मचर्यनियमातिक्रमे प्रत्यवायस् तु तत्र तत्रोक्तः । तत्र वृद्धमनुः ।
ऋतुकालं नियुक्तो वा नैव गच्छेत् स्त्रियं क्वचित् ।
तत्र गच्छन् समाप्नोति ह्य् अनिष्टफलम् एव तु ॥ इति ।
गौतमः- “सद्यःश्राद्धी शूद्रातल्पगतस् तत्पुरीषे मासं नयति पितॄन्” इति (ग्ध् १५।१८) । श्राद्धी श्राद्धकर्ता । सद्यस् तत्क्षणम् आरभ्येत्य् अर्थः । मनुः ।
आमन्त्रितस् तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ इति । (म्ध् ३।१९१)
यमः ।
आमन्त्रितस् तु यः श्राद्धे अध्वानं प्रतिपद्यते ।
भवन्ति पितरस् तस्य तन् मासं पांशुभोजनाः ॥ इति ।
अथ श्राद्धदिनकृत्यम्
श्राद्धे दिनकृत्यं प्रचेतसा दर्शितम् ।
[३६८] श्राद्धभुक् प्रातर् उत्थाय प्रकुर्याद् दन्तधावनम् ।
श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः ॥ इति ।
देवलो ऽपि ।
तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः ।
आरभेत नवैः पात्रैर् अन्नारम्भं स्वबान्धवैः ॥
तिलान् अवकिरेत् तत्र सर्वतो बन्धयेद् अजान् ।
असुरापहतं सर्वं तिलैः शुध्यत्य् अजेन च ॥
ततो ऽन्नं बहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् ।
चोष्यपेयसमृद्धं च यथाशक्ति प्रकल्पयेत् ॥ इति ।
अथ श्राद्धार्हद्रव्याणि
अत्र द्रव्याणि प्रेचेता आह ।
कृष्णमाषास् तिलाश् चैव श्रेष्ठाः स्युर् यवशालयः ।
महायवा व्रीहियवास् तथैव च मधूलिकाः ॥
कृष्णाः श्वेताश् च लोहाश् च ग्राह्याः स्युः श्राद्धकर्मणि । इति ।
यवाः सितशूकाः । शालयः कलमाद्याः । महायवा व्रीहियवाश् च यवविशेषाः । मधूलिका धान्यविशेषः । कृष्णाः स्थलजाः कृष्णवर्णव्रीहयः । लोहा रक्तशालयः । मार्कण्डेयो ऽपि ।
[३६९] यवव्रीहिसगोधूमतिला मुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश् चात्र शोभनाः ॥ इति । (मार्पु ३२।१०)
अत्र गोधूमानाम् आवश्यकत्वम् अत्रिणोक्तम् ।
अगोधूमं च यच् छ्राद्धं कृतम् अप्य् अकृतं भवेत् । इति ।
वायुपुराणे ऽपि ।
बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् ।
चव्यं पालेवताक्षोटखर्जूराणां फलानि च ॥
कशेरु कोविदारश् च तालकन्दस् तथा बिसम् ।
कालेयं कालशाकं च सुनिषण्णं सुवर्चला ॥
कट्फलं कौङ्कणी द्राक्षा लकुचं मोचम् एव च ।
कर्कन्धूग्रीवकं चारु तिन्दुकं मधुसाह्वयम् ॥
वैकङ्कतं नालिकेरं शृङ्गाटकपरूषकम् ।
पिप्पली मरिचं चैव पटोलं बृहतीफलम् ॥
सुगन्धिमत्स्यमांसं च कलायाः सर्व एव च ।
एवमादीनि चान्यानि स्वादूनि मधुराणि च ॥
नागरं चात्र वै देयं दीर्घमूलकम् एव च । इति ।
मृद्वीका द्राक्षा । आम्रातकः कपीतनः । चव्यं चविका । अक्षोटः शैलोद्भवः पीलुः । कशेरु भद्रमुस्ता । कालेयकं दारुहरिद्रा । सुनिषण्णं वितुन्नशाकम् । कट्फलं श्रीपर्णिका ।
[३७०] लकुचो लिकुचः । मोचं कदलीफलम् । कर्कंधूर् बदरी । तिन्दुकः शितिसारकः । शृङ्गाटकं जलजं त्रिकण्टकम् । बृहतीफलं निदिग्धिकाफलम् । दीर्घमूलकं तुण्डिकेरीफलम् । बिल्वामलकादीनि प्रसिद्धानि । पालेवतग्रीवकपरूषकादीन्य् अप्रसिद्धानि । शङ्खो ऽपि ।
आमान् पालेवतान् इक्षून् मृद्वीकां चव्यदाडिमम् ।
विदार्याश् च भचुण्डांश् च श्राद्धकाले ऽपि दापयेत् ॥
द्राक्षां मधुयुतां दद्यात् सक्तून् शर्करया सह ।
दद्याच् छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ इति । (शङ्स्म् १३।२१–२२)
आदित्यपुराणे ऽपि ।
मधुकं रामठं चैव कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुषं तथा ॥ इति ।
अत्र विशेषो मार्कण्डेयेन दर्शितः ।
गोधूमैर् इक्षुभिर् मुद्रैः क्षीणकैश् चणकैर् अपि ।
श्राद्धेषु दत्तैः प्रीयन्ते मासम् एकं पितामहाः ॥
विदार्याश् च भचुण्डैश् च बिसैः शृङ्गाटकैस् तथा ।
केचुकैश् च तथा कन्दैः कर्कन्धुबदरैर् अपि ॥
पालेवतैर् आतुकश् चाप्य् अक्षोटैः पनसैस् तथा ।
काकोल्याः क्षीरकाकोल्यास् तथा पिण्डालकैः शुभैः ॥
[३७१] लाजाभिश् च शलाभिश् च त्रपुषोर् वारुचिर्भटैः ।
सर्षपाराजशाकाभ्याम् इङ्गुदैर् आजजम्बुभिः ॥
प्रियालामलकैर् मुख्यैः पीलुभिश् चातिलम्बकैः ।
वेत्राङ्कुरैस् तालकन्दैश् चक्रिकाक्षीरिकावचैः ॥
मोचैः समोचैर् लकुचैस् तथा वै बीजपूरकैः ।
मुञ्जातकैः पद्मफलैर् भक्ष्यबोज्यैः सुसंस्कृतैः ॥
रागखाडवचोष्यैश् च त्रिजातकसमन्वितैः ।
दत्तैस् तु मासं प्रीयन्ते श्राद्धेषु पितरो नॄणाम् ॥ इति ।
विदारी कृष्णवर्णभूकूष्माण्डफलम् । केचुकः कचूराख्यशाकम् । कन्दः सूरणः । उर्वारुः स्वादुकर्कटी । चिर्भटस् तिक्तकर्कटी । सर्षपेति दीर्घः छान्दसः । राजशाकं कृष्णसर्षपः । इङ्गुदः तापसतरुः । प्रियालो राजादनम् । चक्रिका चिञ्चा । क्षीरिका फलाध्यक्षम् । रागखाडवाः पानविशेषाः । त्रिजातकं लवङ्गैलागन्धपत्राणि । मत्स्यपुराणे ऽपि ।
अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् ।
मासं प्रीणाति सर्वान् वै पितॄन् इत्य् आह केशवः ॥ इति । (मत्पु १७।३०)
मनुर् अपि ।
तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥
[३७२] द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च वै ॥
षण्मासांश् छागमांसेन पार्षतेनेह सप्त वै ।
अष्टाव् एणस्य मांसेन रौरवेण नवैव तु ॥
दश मासांस् तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥
संवत्सरं तु गव्येन पयसा पायसेन वा ।
वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥
कालशाकं महाशल्कं खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ इति । (म्ध् ३।२६७–७२)
वार्ध्रीणसो रक्तवर्णवृद्धछागः । तद् उक्तं विष्णुधर्मोत्तरे ।
त्रिःपिबं त्व् इन्द्रियक्षीणं यूथस्याग्रसरं तथा ।
रक्तवर्णं तु राजेन्द्र छागं वार्ध्रीणसं विदुः । इति । (विध्पु १।४१।१४९)
पक्षिविशेषो वा,
कृष्णग्रीवओ रक्तशिराः श्वेतपक्षो विहङ्गमः ।
स वै वार्ध्रीणसः प्रोक्तः इत्य् एषा वैदिकी श्रुतिः ।
इति निगमवचनात् । कालशाकम् उत्तरदेशे प्रसिद्धम् । महाशल्को [३७३] मत्स्यविशेषः । खड्गः खड्गमृगः । लोहो लोहितवर्णछागः । मुन्यन्नानि नीवाराद्यन्नानि । श्राद्धे कोद्रवादिधान्यानि वर्जयेत् । तथा च व्यासः ।
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास् तथा ।
हिङ्गुद्रव्येषु शाकेषु कालानलशुभास् तथा ॥ इति ।
कोद्रवाः कोरदूषकाः । पुलकाः पुलाकाः । छान्दसो ऽत्र ह्रस्वः । संस्कारकद्रव्येषु हिङ्गुद्रव्यम् अश्राद्धेयम् । कालः कृष्णजीरकः । अनलश् चित्रकः । शुभा शुभाख्याः शाकविशेषः । एतानि शाकान्य् अश्राद्धेयानि ।
ननु,
मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ।
इति आदिपुराणे हिङ्गुद्रव्यस्य श्राद्धेयत्वम् उक्तं तत् कथं तस्याश्राद्धेयत्वम् उच्यते – इति चेत् ।
सत्यम्, “अतिरात्रे षोडशिनं गृह्णाति । नातिरात्रे षोडशिनं गृह्णाति” इतिवद्, अत्रापि विधिप्रतिषेधदर्शनाद् विकल्पो ऽस्तु । एवम् एवान्यत्रापि । भारद्वाजो ऽपि- “मुद्गाढकीमाषवर्जं द्विदलानि दद्यात्” इति । मुद्गः कृष्णेतरः । आढकी तुवरी । माषो राजमाषः । [३७४] एतैर् विना द्विदलानि दद्याद् इत्य् अर्थः । माषग्रहणं कुलित्थादीनाम् उपलक्षणार्थम् । अत एव चतुर्विंशतिमतम् ।
कोद्रवान् राजमाषांश् च कुलित्थान् वरकांस् तथा ।
निष्पावांस् विशेषेण पञ्चैतांस् तु विवर्जयेत् ॥
यान्वालान् अपि तथा वर्जयन्ति विपश्चितः ॥ इति ।
वरकाः वनमुद्गाः । अन्यत् प्रसिद्धम् । अत्र निष्पावनिषेधः कृष्णनिष्पावविषयः,
कृष्णधान्यानि सर्वाणि वर्जयेत् श्राद्धकर्मणि ।
इति स्मरणात् । “निष्पावाश् चात्र शोभनाः” (मार्पु ३२।१०) इति मार्कण्डेयपुराणं कृष्णेतरनिष्पावविषयतया व्यवस्थापितं भवति । मरीचिर् अपि ।
कुलित्थाश् चणकाः श्राद्धे न देयाश् चैव कोद्रवाः ।
कटुकानि च सर्वाणि विरसानि तथैव च ॥ इति ।
विष्णुपुराणे ऽपि ।
श्राद्धे न देया पालङ्क्या तथा निष्पावकोद्रवाः ।
मसूरक्षारवास्तोककुलित्थशणशिग्रवः ॥ इति ।
पालङ्क्या मुकुन्दः । मसुरो मङ्गल्यकः । क्षारो यवक्षारादिः । विष्णुर् अपि- [३७५] “भृतृणशिग्रुसर्षपसुरसार्जककूष्माण्डालाबुवार्त्ताकपालङ्क्यातण्डुलीयककुसुम्भ-महिषीक्षीरादि वर्जयेत्” इति (विध् ७९।१७) । भूतृणो भूस्तृणः । छान्दसत्वात् सुडभावः । सर्षपो ऽत्र राजसर्षपः, “कुसुम्भं राजसर्षपम्” इति स्मृत्यन्तरे विशेषितत्वात् । सुरसा निर्गुण्डी । अर्जकः श्वेतार्जकः । उशना अपि ।
नालिकाशणछत्राककुसुम्भालाबुविड्भवान् ।
कुम्भीकम्बुकवृन्ताककोविदारांश् च वर्जयेत् ॥
वर्जयेद् गृञ्जनं श्राद्धे काञ्चिकं पीण्डमूलकम् ।
करञ्जं ये ऽपि चान्ये वै रसगन्धोत्कटास् तथा ॥ इति
नालिका दीर्घनालाग्रगताल्पपल्लवा । छत्राकं शिलीन्ध्रः । कुम्भी श्रीपर्णिका । कम्बुकं वृत्तालाबु । गृञ्जनो हरिद्रक्तवर्णः पलाण्डुविशेषः । काञ्जिकम् आरनालकम् । करञ्जं चिरिबिल्वफलम् । पुराणे ऽपि ।
[३७६] वांशं करीरं सुरसं सर्जकं भूतृणानि च ॥
अवेदोक्ताश् च निर्यासा लवणान्य् औषराणि च ।
श्राद्धकर्मणि वर्ज्यानि याश् च नार्यो रजस्वलाः ॥ इति । (वाय्पु २।१६।११,१५)
वांशं करीरं वंशाङ्कुरः । सर्जकः पीतसारकः । अवेदोक्ता वेदनिषिद्धा निर्यासाः व्रश्चनप्रभवादयः । औषराणि लवणानि कृतलवणानि । रजस्वलाः दिनत्रयाद् ऊर्ध्वम् अनिवृत्तरजसः । भरद्वाजो ऽपि ।
नक्तोद्धृतं तु यत् तोयं पल्वलाम्बु तथैव च ।
स्वल्पाम्बु कूष्माण्डफलं वज्रकन्दं च पिप्पली ॥
तण्डुलीयकशाकं च माहिषं च पयो दधि ।
शिम्बिकानि करीराणि कोविदारगवेधुकम् ॥
कुलित्थशणजम्बीरकरम्भाणि तथैव च ।
अब्जाद् अन्यद् रक्तपुष्पं शिग्रुः क्षारं तथैव च ॥
नीरशान्य् अपि सर्वाणि भक्ष्यभोज्यानि यानि च ।
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ॥
आविकं मार्गम् औष्ट्रं च सर्वम् ऐकशफं च यत् ।
माहिषं चामरं चैव पयो वर्ज्यं विजानता ॥ इति ।
आविकम् अवीनां पयः । मार्गं मृगीणां पयः । औष्ट्रम् उष्ट्रीणां पयः । ऐकशफं वडवापयः । माहिषं महिषीपयः । चामरं चमरीपयः । ब्रह्माण्डपुराणे ऽपि ।
[३७७] आसनारूढम् अन्नाद्यं पादोपहतम् एव च ।
अमेध्याद् आगतैः स्पृष्टं शुक्तं पर्युषितं च यत् ॥
द्विःस्विन्नं परिदग्धं च तथैवागाव् अलेहितम् ।
शर्कराकीटपाषाणैः केशैर् यच् चाप्य् उपद्रुतम् ॥
पिण्याकं मथितं चैव तथातिलवणं च यत् ।
दधि शाकं तथा भक्ष्यम् उष्णं चोषविवर्जितम् ॥
वर्जयेच् च तथा चान्यान् सर्वान् अभिमतान् अपि ।
सिद्धाः कृताश् च ये भक्षाः प्रत्यक्षलवणीकृताः ॥
वाग्भावदुष्टाश् च तथा दुष्टैश् चोपहतास् तथा ।
वाससा चोपधूतानि वर्ज्यानि श्राद्धकर्मणि ॥ इति ।
द्विःस्विन्नं द्विःपक्वम् । परिदग्धम् अतिदग्धम् । अग्नाव् अलेहितं पूर्वम् एवान्येनास्वादितम् । मथितं विलोडितं निर्जलं दधि । सिद्धा भक्षा आमलकादयः । प्रत्यक्षलवणेन मिश्रिताः । शङ्खो ऽपि ।
कृष्णाजाजीं विडं चैव शीतपाकीं तथैव च ।
वर्जयेल् लवणं सर्वं तथा जम्बूफलानि च ॥
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ॥ (शंस्म् १३।१८।१९)
[३७८] इति । कृष्णाजाजी कृष्णजीरकः । विडं विडालाख्यम् । लवणं कृतलवणम् । श्राद्धे कूष्माण्डादिनिषिद्धद्रव्योपादाने प्रत्यवायो ऽस्ति । तथा च स्मृत्यन्तरम् ।
कूष्माण्डं महिषीक्षीरं आढक्यो राजसर्षपाः ।
चणका राजमाषाश् च घ्नन्ति श्राद्धम् असंशयम् ॥
पिण्डालुकं च तुण्डीरं करमर्दांश् नालिकाम् ।
कूष्माण्डं बहुबीजानि श्राद्धे दत्वा प्रयात्य् अधः ॥ इति ।
करमर्दः सुषेणः । बहुबीजानि बीजपूरादीनि । नित्यभोजने प्रतिषिद्धम् अपि श्राद्धे न देयम् । अत एवोक्तं षट्त्रिंशन्मते ।
क्षीर्तादि (?) माहिषं वर्ज्यम् अभक्ष्यं यच् च कीर्तितम् । इति ।
नित्यभोजने वर्ज्यानि शाकानि पैठीनसिनोक्तानि- “वृन्ताकनालिकापौतकुसुंभाश्मन्तकाश् चेति शाकानाम् अभक्ष्याश् च” इति । पौतं पौतिका । वृन्ताकनिषेधस् तु श्वेतवृन्ताकविषयः । अत एव देवलः ।
कण्डूरं श्वेतवृन्ताकं कुम्भाण्डं च विवर्जयेत् । इति ।
कण्डूरा प्रावृषायणी तस्याङ् फलं कण्डूरम् । कुम्भबुध्नवद् वर्तुलं वृत्तालाबुसदृशं कुम्भाण्डम् । भविषत्पुराणे ऽपि ।
लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
वृन्ताकनालिकालाबुं जानीयाज् जातिदूषितम् ॥
[३७९] इति । लशुनं श्वेतकन्दः पलाण्डुविशेषः,
लशुनं दीर्घपत्रश् च पिच्छगन्धो महौषधम् ।
करण्यश् च पलाण्डुश् च लतार्कश् च परारिका ॥
गृञ्जनं यवनेष्टश् च पलाण्डोर् दश् जातयः ॥ इति । सुश्रुसं २१।६०–६१)
इति सुश्रुतेनोक्तत्वात् । कवकं छत्राकम् । हारीतो ऽपि- “न वटप्लक्षोदुम्बुरदधित्थनीप-मातुलुङ्गानि वा भक्षयेत्” इति (हार्स्म् १३।२१) । मनुर् अपि ।
लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा ।
शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥ इति । (म्ध् ५।६)
लोहिता वृक्षनिर्यासा लाक्षादयः । लोहितग्रहणात् निर्यासत्वे ऽपि पाटलश्वेतवर्णहिङ्गुकर्पूरादेर् अप्रतिषेधः । शेलुः श्लेष्मातकः । पीयुषो ऽभिनवं पयः । ब्रह्मपुराणे ऽपि ।
घृतात् फेनं घृतान् मण्डं पीयूषम् अथ चार्द्रगोः ।
सगुडं मरिचाक्तं तु तथा पर्युषितं दधि ॥
दीर्णं तक्रम् अपेयं च नष्टस्वादं च फेनवत् ॥ इति ।
घृताद् उद्धृत्य तत् फेनमात्रं न पेयम् । घृताद् उद्धृत्य मण्डं तदग्रं च न पेयम् । आर्द्रगोः प्रसवप्रभृत्यनिवृत्तरजस्काया [३८०] गोः पीयूषं न पेयम् । गुडमरिचोपगतं पर्युषितं दधि च । दीर्णं स्फुटितं तक्रं दीर्घकालस्थित्या नष्टस्वादं च फेनवच् च न पेयम् । याज्ञवल्क्यो ऽपि ।
संधिन्यनिदशावत्सागोपयः परिव्र्जयेत् ।
औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥ इति । (य्ध् १।१७०)
या वृषेण संधीयते सा संधिनी । अनिर्दशा अनिर्गतदशरात्रा । अवत्सा वत्सरहिता । एतासां गवां पयः परिवर्जयेत् । आरण्यकपयोनिषेधश् चारण्यकमहिषीव्यतिरिक्तविषयः । तद् आह मनुः ।
अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश् च गोः पयः ॥
आरण्यानां च सर्वेषां मृगाणां महिषीर् विना ॥ इति । (म्ध् ५।८–९)
वसिष्ठो ऽपि- “गोमहिष्यजानाम् अनिर्दशाहानां पयो न पेयम्” इति (वध् १४।३५) । गौतमो ऽपि- “स्यन्दिनीयमसूसंधिनीनां च” (ग्ध् १७।२३) [३८१] इति । क्षीरं न पेयम् इति शेषः । स्यन्दिनी स्वत एव स्रवत्पयःस्तनी । यमसूर् यमलप्रसूः । बौधायनो ऽपि- “क्षीरम् अपेयम् विवत्साया अन्यवत्सायाश् च” इति (ब्ध् १।५।१२।९–१०) । आपस्तम्बो ऽपि ।
क्षत्रियश् चैव वृत्तस्थो वैश्यः शूद्रो ऽथ वा पुनः ।
यत् पिबेत् कापिलं क्षीरं न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् ॥ इति ।
जात्या विशुद्धम् अपि केशकीटादिसंसर्गदुष्टमात्रं संवर्जयेत् । तथा च देवलः ।
विशुद्धम् अपि चाहारं मक्षिकाकृमिजन्तुभिः ।
केशरोमनखैर् वापि दूषितं परिवर्जयेत् ॥ इति ।
अत्र मक्षिकाकृमिजन्तवो मृता विवक्षिताः । एतैः केशरोमादिभिश् च दूषितं सति संभवे वर्जयेत् । असंभवे तु केशादिकम् उद्धृत्य संप्रोक्ष्य हिरण्यस्पर्शं कृत्वा भूञ्जीत । तथा च सुमन्तुः- “केशकीटक्षुतवचोपहतं श्वभिर् आघ्रातं लेहितं वा अदधि पर्युषितं पुनः सिद्धं चण्डानाद्यवेक्षितम् अभोज्यम् । अन्यत्र हिरण्योदकैः स्पृष्ट्वा” इति । क्ष्तवचः क्षुतवाग्जातो ध्वनिः । आपद्य् अपि श्वादिभिर् अवलीढं न भुञ्जीत । तथा च देवलः ।
[३८१] अवलीढं श्वमार्जारध्वांशकुक्कुटमूषकैः ।
भोजने नोपयुञ्जीत तद् अमेध्यं हि सर्वतः ॥ इति ।
भविष्यत्पुराणे ऽपि ।
सुरालशुनसंस्पृष्टं पीयूषादिसमन्वितम् ।
संसर्गाद् दुष्यते तद् धि शूद्रोच्छिष्टवद् आचरेत् ॥ इति ।
अत्रादिशब्देन छत्राकादिदुष्टद्रव्यं परिगृह्यते । स्मृत्यन्तरे वर्ज्यान्तरम् उक्तम्- “नापणीयम् अन्नम् अश्नीयात् । न द्विःपक्वम् । न पर्युषितम्” इति (आप्ध् १।५।१७।१४–१६) ।
घृतं वा यदि वा तैलं विप्रो नाद्यात् नखच्युतम् ।
यमस् तद् अशुचि प्राह तुल्यं गोमांसभक्षणैः ॥
हस्तदत्ताश् च ये स्नेहा लवणव्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥ (वध् १४।३०–३१)
एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत् । इति ।
आपणस्थान्नप्रतिषेधो ऽत्रापूपादिव्यतिरिक्तविषयः । [३८३] तद् आह शङ्खः ।
अपुपाः सक्तवो धानास् तक्रं दहि घृतं मधु ।
एतत् पण्येषु भोक्तव्यं भाण्डलेपि न चेद् भवेत् ॥ इति ।
पर्युषितनिषेधो ऽपि वटकादिव्यतिरिक्तविषयः । तद् आह यमः ।
अपूपाश् च करम्भाश् च धाना वटकसक्तवः ।
शाकं मांदम् अपूपं च सूपं कृसरम् एव च ॥
यवागूः पायसं चैव यच् चान्यत् स्नेहसंयुतम् ।
सर्वं पर्युषितं भोज्यं शुक्तं चेत् परिवर्जयेत् ॥ इति ।
देवलो ऽपि ।
अभोज्यं प्राहुर् आहारं शुक्तं पर्युषितं च यत् ।
अपूपा यवगोधूमविकारा वटकादयः ॥ इति ।
वटका माषादिपिष्टमयाः प्रसिद्धाः । पुनर् अपूपग्रहणं व्रीह्यादिपिष्टविकारोपादानार्थम् । कृसरं घृष्टतिलचूर्णसंयुतम् ओदनम् । अन्यद् ओदनादिकं स्नेहसंयुक्तं घृतेन दध्ना वाभिघारितम् । एतत् सर्वं पर्युषितम् अशुक्तं बोज्यम् । शुक्तस्वरूपं बृहस्पतिनोक्तम् ।
अत्यम्लं शुक्तम् आख्यात्ं निन्दितं ब्रह्मवादिभिः । इति ।
अनम्लम् ईषदम्लं वा यद् वस्तु कालान्तरेण वा [३८४] द्रव्यान्तरसंसर्गेण वात्यम्लं भवति तच् छुक्तम् । न तु स्वभावतो ऽत्यम्लम् । यद् अग्निपक्वं सद्रात्र्यन्तरितं तत् पर्युषितम् । शुक्तप्रतिषेधो दध्यादिव्यतिरिक्तविषयः । तद् आह शङ्खः ।
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ।
ऋजीषपक्वं भक्ष्यं स्यात् सर्पिर्युक्तम् इति स्थितिः ॥ इति ।
अनग्निक ऊष्मा ऋजीषं तेन पक्वम् । शुक्तं पर्युषितं वापदि प्रक्षालितं भोज्यम् । तद् आह यमः ।
शुक्तानि हि द्विजो ऽन्नानि न भुञ्जीत कदाचन ।
प्रक्षालितानि निर्दोषाण्य् आपद्धर्मो यथा भवेत् ॥
मसूरमाषसंयुक्तं तथा पर्युषितं च यत् ।
तत् तु पक्षालितं कृत्वा भुञ्जीत ह्य् अभिधारितम् ॥ इति ।
आश्रयदुष्टम् अपि न भुञ्जीत । तथा च याज्ञवल्क्यः ।
कदर्यबद्धचोराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्य्गणिकागणदीक्षिणाम् ॥
चिकित्सकातुरक्रुद्ध्पुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्यदांभिकोच्छिष्टभोजिनाम् ॥
अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ॥
नृशंसराजरजककृतघ्नवधजीविनाम् ।
चैलधावसुराजीवसहोपपतिवेश्मनाम् ॥ (य्ध् १।१६१–६५)
[३८५] इति । कदर्यो लुब्धकः । तथा च स्मृत्यन्तरम् ।
आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयेत् ।
लोभाद् यः पितरौ भृत्यान् स कदर्य इत्य् स्मृतः ॥ इति ।
बद्धः शृङ्खलितः । रङ्गावतारी नटः । वैणो वीणावादनोपजीवी । दीक्षी दीक्षासंस्कारवान् । तस्य चाभोज्यान्नत्वम् अग्नीषोमीयपशुवपाहोमपर्यन्तम्, “असंस्थिते ऽग्नीषोमीये यजमानस्य गृह नाशितव्यम्” इति श्रुतेः । आतुरः पापरोगग्रस्तः । क्रुद्धो दृढतरान्तरकोपः । मत्तो धनादिना गर्वितः । क्रूरो निष्कृपः । उग्रः परदुःखकारी । रजको वस्त्ररागकारी । चैलधावो वस्त्रप्रक्षालकः । एषां कदर्यादिसोमविक्रयिपर्त्यन्तानां त्रैवर्णिकानाम् अन्नं न भोक्तव्यम् इत्य् अर्थः । यमो ऽपि ।
चक्रोपजीवी गान्धर्वः कितवस् तस्करस् तथा ।
ध्वजी दारोपजीवी च शूद्राध्यापकयाजकौ ॥
कुलालश् चित्रकर्मा च वार्धुषी चर्मविक्रयी ॥ इति ।
चक्रोपजीवी शकटोअजीवी । गान्धर्वो गायकः । ध्वजी मद्यविक्रयी । इतरे प्रसिद्धाः । एते अभोज्यान्ना इत्य् अर्थः । [३८६] आपस्तम्बो ऽपि ।
द्वाव् एवाश्रमिणौ भोज्यौ ब्रह्मचारी गृही तथा ।
मुनेर् अन्नम् अभोज्यं स्यात् सर्वेषां लिङ्गिनां तथा ॥ इति ।
मुनिशब्देन यतिवानप्रस्थौ गृह्येते । लिङ्गिनः पाशुपतादयः । अङ्गिरा अपि ।
षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
स तु जीवन् भवेच् छूद्रो मृतः श्वा चाभिजायते ॥ इति । (अङ्स्म् ४८)
यत् तु सुमन्तुनोक्तम्,
गोरसं चैव सक्तूंश् च तैलं पिण्याकम् एव च ।
अपूपान् भक्षयेच् छूराद् यच् चान्यत् पयसा कृतम् ॥
इति, यच् च विष्णुपुराणे ऽभिहितम् ।
संप्रोक्ष्य विप्रो गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।
इति, तद् आपद्विषयम् । अत एव याज्ञवल्क्यः ।
अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि । इति । (य्ध् १।१६०)
अग्निहीनः शूद्रः ।
[३८७]
अथ वर्जावर्ज्यमांसानि
मांसेष्व् अपि यद् वर्ज्यं तद् आह मनुः ।
क्रव्यादान् शकुनीन् सर्वांस् तथा ग्रामनिवासिनः ।
अनिर्दिष्टांश् चैकशफांष् टिट्टिभं चैव वर्जयेत् ॥
कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥
प्रतुदान् जालपादांश् च कोयष्टिनखविष्किरान् ।
निमज्जतश् च मत्स्यादान् शौनं वल्लूरम् एव च ॥
बकं चैव बलाकां च काकोलं खञ्जरीटकान् ।
मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥ इति । (म्ध् ५।११–१४)
क्रव्यदाः शकुनयो गृध्रादयः । ग्रामनिवासिनः शकुनयः पारावतादयः । अनिर्दिष्टा अपरिज्ञातजातिविशेषा मृगपक्षिणः । एकशफा अश्वादयः । टिट्टिभः निष्ठुरशब्दभाषी पक्षिविशेषः । कलविङ्कश् चटकः । प्लवो जलकुक्कुटः । चक्राह्वश् चक्रवाकः । सारसः पुष्कराह्वः । रज्जुवालको रज्जुवत्पुच्छकः । दात्यूहः कालकण्टकः । प्रतुदः श्येनः । जालपादः जाजाकारपादः । कोयष्टिः पक्षिविशेषः । नखविष्किराः चकोरादयः । निमज्जन्तो मत्स्यादा निमज्ज्य मत्स्यभक्षकाः पक्षिविशेषाः । शौनं शुनोद्भवं मांसम् । वल्लूरं शुष्कमांसम् । काकोलो गिरिकाकः । खङ्जरीटः खञ्जनः । मत्स्यादा अनिमज्जन्तो मत्स्यादा विवक्षिताः । विड्वराहा ग्रामसूकराः । [३८८] अत्र मत्स्यनिषेधो राजीवसिंहतुण्डकादिव्यतिरिक्तविषयः । अत एवोक्तं तेनैव ।
राजीवान् सिंहतुण्डांश् च सशल्कांश् चैव सर्वशः । इति । (म्ध् ५।१६)
राजीवाः पद्मवर्णा मत्स्याः । सिंहतुण्डाः सिंहमुखाः । शल्कैः शुक्त्याकारावयवैः पृष्ठभागगतैः सह वर्तन्ते इति सशल्काः । एते सर्वशः श्राद्धे नित्यभोजने च भक्ष्या इत्य् अर्थः । देवलो ऽपि ।
वलूककुररश्येनगृध्रकुक्कुटवायसाः ।
चकोरः कोकिलो रज्जुदालकश् चाषमद्गुकौ ॥
पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः ।
अभक्ष्याः पशुजातीनां गोखरोष्ट्राश्वकुञ्जराः ॥
सिंहव्याघ्रर्क्षशरभाः सर्पाजगरकास् तथा ।
आखुमूषकमार्जारनकुलग्रामसूकराः ॥
श्वशृगालवृकद्वीपिगोलाङ्गूलकमर्कटाः । इति ।
कुररः उत्क्रोशः । मद्गुर् जलकाकः । द्वीपिशब्दो व्याघ्रविशेषपरः । गोलाङ्गूलो वानरविशेषः । मर्कटग्रहणं सर्वेषां पञ्चनखानाम् उपलक्षणार्थम् । अत एव मनुः- “सर्वान् पञ्चनखांस् तथा” (म्ध् ५।४७) [३८९] इति । न भक्षयेद् इति योजना । अत्र पञ्चनखानां भक्ष्यत्वनिषेधो गोधादिपञ्चकव्यतिरिक्तविषयः । तथा च देवलः ।
पञ्च पञ्चनखा भक्ष्या धर्मतः परिकीर्तिताः ।
गोधा कूर्मः शशः श्वाविट् शल्यकश् चेति ते स्मृताः ॥ इति ।
धर्मत इति हिंसाम् अकृत्वा क्रयादिप्राप्ता भक्ष्या इत्य् अर्थः । न चायम् अपूर्वविधिः । रागप्राप्तत्वात् तद्भक्षणस्य । नापि नियमः, पक्षप्राप्त्यभावात् । अतो गोधादिपञ्चनखपञ्चकव्यतिरिक्ता न भक्ष्या इति परिसङ्ख्यैव परिशिष्यते । एवं च सति विशेषनिषेधबलात् तन्मांसभक्षणे प्रत्यवायो नेतरत्रेत्य् अवगम्यते । अत एवोक्तं मनुना ।
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ इति । (म्ध् ५।५६)
यत् तेनैवोक्तम्,
नाकृत्वा प्राणिनां हींसां मांसम् उत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ (म्ध् ५।४८–४९)
इति, यच् च याज्ञवल्क्येनापि,
वसेत् स नरके छोरे दिनानि पशुलोमभिः ।
संमितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥ (य्ध् १।१८०)
[३९०] इति, तन् निषिद्धप्राणिहिंसापूर्वकमांसभक्षणविषयम् । न तु क्रयादिप्राप्तमांसभक्षणविषयम् । प्राणिवधनिन्दापूर्वकम् एव मांसनिषेधस्मरणात् । यच् च मनुनैवोक्तम्,
फलमूलाशनैर् मेध्यैर् मुन्यन्नानां च भोजनैः ।
न तत् फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥ (म्ध् ५।५४)
इति, तत्र मांसवर्जनस्य महाफलसाधनत्वं प्रोक्षितादिव्यतिरिक्तविषयम् । अत एवोक्तं तेनैव ।
प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तश् च प्राणानाम् एव चात्यये ॥ इति । (म्ध् ५।२७)
प्रोक्षितम् इष्टशिष्टं मांसं ब्राह्मणानां काम्यया ब्राह्मणकामनया च । यथाविधि नियुक्तः श्राद्धे निमन्त्रितश् च । प्राणात्यये क्षुन्निमित्ते व्याधिनिमित्ते वा मांसं भक्षयेद् इत्य् अलं प्रसक्तानुप्रसक्त्या ॥
अथ निमन्त्रितब्राह्मणेभ्यो देयानि
निमन्त्रितेभ्यो ब्राह्मणेभ्यो यद् देयं तद् आह कात्यायनः ।
तैलम् उद्वर्तनं स्नानं दन्तधावनम् एव च ।
कृत्तरोमनखेभ्यस् तु दद्यात् तेभ्यो ऽपरे ऽहनि ॥ इति ।
स्नानं स्नानसाधनम् । दन्तधावनं दन्तधावनसाधनं काष्ठादि दद्याद् इत्य् अर्थः । एतत् तैलादिदानम् अनिषिद्धतिथिविषयम् । [३९१] निषिद्धतिथिषु तिलतैलप्रतिनिधित्वेनामलकोदकं दद्यात् । तथा च मार्कण्डेयः ।
अह्नः षट्सु मुहूर्त्तेषु गतेष्व् अथ च तान् द्विजान् ।
प्रत्येकं प्रेषयेत् प्रेष्यान् प्रदायामलकोदकम् ॥ इति ।
आमलकोदकदानम् अप्य् अमावास्याव्यतिरिक्तविषयम्, “धात्रीफलैर् अमावास्यायां न स्नायात्” इति स्मृत्यन्तरे निषेधात् । तैलादिदाने विशेषो देवलेन दर्शितः ।
तैलम् उद्वर्तनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैर् औदुम्बरैर् दद्याद् वैश्वदेविकपूर्वकम् ॥ इति ।
औदुम्बरं ताम्रपात्रम् । यत् तु प्रचेतसोक्तम्,
श्राद्धभुग् यो नखश्मश्रुच्छेदनं न तु कारयेत् ।
इति, तन् निषिद्धतिथिविषयम् । श्राद्धदेशे प्रकल्प्यानि द्रव्याणि पुराणे ऽभिहितानि ।
उपमूलं सकृल्मूलान् कुशांस् तत्रोपकल्पयेत् ।
यवांस् तिलान् बृसीः कांस्यम् आपः शुद्धैः समाहृताः ॥
पार्णराजतताम्राणि पात्राणि स्यात् समिन् मधु ।
पुष्पधूपसुगन्धादि क्षौमसूत्रं च मेक्षणम् ॥ इति ।
तिला जर्त्तिला ग्राह्याः । तदसंभवे ग्राम्याः । जर्त्तिललक्षणम् उक्तं सत्यव्रतेन ।
जर्त्तिलास् तु तिलाः प्रोक्ताः कृष्णवर्णा वनेभवाः ।
[३९२] इति । तेषां प्रशस्तत्वम् आपस्तम्ब आह ।
अटव्यां ये समुत्पन्ना अकृष्टफलितास् तथा ।
ते वै श्राद्धे पवित्रास् तु तिलास् ते जर्त्तिलाः स्मृताः ॥ इति ।
निमन्त्रितब्राह्मणानाम् उपवेशनार्थम् आसनं बृसी । तत्र विशेषो मनुनोक्तः- “कुतपं चासनं दद्यात्” इति (म्ध् ३।३४) । कुतपो नेपालदेशप्रभवमेषादिरोमनिर्मितकम्बलः । तद् उक्तं स्मृत्यन्तरे ।
मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः ।
रूप्यं दर्भास् तिला गावो दौहित्रश् चाष्टमः स्मृतः ॥
पापं कुत्सितम् इत्य् आहुस् तस्य सन्तापकारणम् ।
अष्टाव् एते यतस् तस्मात् कुतपा इति विश्रुताः ॥ इति ।
कांस्यपार्णराजतताम्रपात्राणि भोजनार्थम् अर्घ्यार्थं चोपकल्प्यानि । अत्र भोजनार्थं पलाशपत्रपात्राण्य् एवोपकल्प्यानि । न त्व् अन्यपर्णपात्राणि । तथा च अत्रिः ।
न मृण्मयानि कुर्वीत भोजने दैवपित्र्ययोः ।
पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ॥ इति ।
अर्घ्यार्थं त्व् अन्यपर्णपात्राण्य् अनिषिद्धानि । अत एव बैजवापः ।
खादिरोदुम्बराण्य् अर्घ्यपात्राणि श्राद्धकर्मणि ।
अप्य् अश्ममृण्मयानि स्युर् अपि पर्णपुटास् तथा ॥
[३९३] इति । अत्रोपकल्पनीयं पुष्पं ब्रह्माण्डपुराणे दर्शितम् ।
शुक्लाः सुमनसः श्रेष्ठास् तथा पद्मोत्पलानि च ।
गन्धरूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥ इति ।
मार्क्ण्डेयपुराणे ऽपि ।
जात्यश् च सर्वा दातव्या मल्लिकाः श्वेतपूथिकाः ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥ इति ।
यत् त्व् आङ्गिरसोक्तम्- “न जातीकुसुमानि । न कदलीपत्रम्” इति, क्रतुर् अपि ।
असुराणां कुले जाता जाती पूर्वपरिग्रहे ।
तस्या दर्शनमात्रेण निराशाः पितरो गताः ॥
इति, अत्र जातीकुसुमनिषेधो वैकल्पिकः । तत्र वर्ज्यानि कुसुमानि मत्स्येनोक्तानि ।
पद्मबिल्वार्कधत्तूरपारिभद्राटरूषकाः ।
न देयाः पितृकार्येषु पयश् चैवाविकं तथा ॥ इति । (मत्पु १५।३७–३८)
पारिभद्रो मन्दारः आटरूषो । वासकः । शङ्खो ऽपि ।
उग्रगन्धीन्य् अगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥ (शङ्स्म् १३।१४)
[३९४] इति । अत्र रक्तवर्णनिषेधो जलोद्भवव्यतिरिक्तविषयः । अत एवोक्तं तेनैव ।
जलोद्भवानि देयानि रक्तान्य् अपि विशेषतः । इति । (शङ्स्म् १३।१५)
विष्णुर् अपि- “वर्जयेद् उग्रगन्धीन्य् अगन्धीनि कण्टकिजातानि रक्तानि पुष्पाणि च । सितानि सुगन्धीनि कण्टकिजातान्य् अपि दद्यात्” इति (विध् ७९।५–६) । धूपद्रव्यम् अपि विष्णुधर्मोत्तरे दर्शितम् ।
धूपो गुग्गुलको देयस् तथा चन्दनसारजः ।
अगरुश् च सकर्पूरस् तुरुष्कस् त्वक् तथैव च ॥ इति । (विध्पु २।१४१।१४)
तुरुष्कः शल्लकीवृक्षः । त्वक् लवङ्गत्वक् । मरीचिर् अपि ।
चन्दनागरूणी चोभे तमालोशीरपद्मकम् । इति ।
वर्जनीयधूपद्रव्यं विष्णुर् आह- “जीवजं च सर्वं न धूपार्थम्” (विध् ७९।९) [३९५] इति । जीवजं कस्तूर्यादि । “चन्दनकुङ्कुमकर्पूरागरुपद्मकान्य् अनुलेपनार्थे” इति (विध् ७९।११) । दीपार्थं स्नेहद्रव्यम् आह मरीचिः ।
घृताद् वा तिलतैलाद् वा नान्यद्रव्यात् तु दीपकम् । इति ।
अत्र चान्यद्रव्यनिषेधो वसामेदोरूपद्रव्यविषयो न पुनः कौसुम्भादितैलविषयः । अत एव शङ्खः ।
घृतेन दीपो दातव्यस् त्व् अथ वान्यौषधीरसैः ।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥ इति । (शङ्स्म् १३।१६)
क्षौमसूत्रोपकल्पनं वस्त्रालाभविषयम् । सति संभवे क्षौमं वस्त्रम् उपकल्पनीयम् । अत एव स्मृत्यन्तरम् ।
कौशेयं क्षौमकार्पासं दुकूलम् अहतं तथा ।
श्राद्धेष्व् एतानि यो दद्यात् कामान् आप्नोति पुष्कलान् ॥ इति । (वाय्पु २।१८।३७)
कौशेयं कृमिकोशोत्थतन्तुजम् । क्षौमम् अतसीत्वक्संभवतन्तुसंभवम् । दुकूलम् इति सूक्ष्मवस्त्रम् । अहतम्,
[३९६] ईषद्धौतं नवं श्वेतं सदशं यन् न धारितम् ।
अहतं तद् विजानीयात् सर्वकर्मसु पावनम् ॥ इति ।
अथ वासःपरिधानम्
एवं दर्भादिमेक्षणान्तं द्रव्यम् उपकल्प्य स्नात्वा शुक्लं वासः परिदध्यात् । तथा च स्मृतिः ।
स्नातो ऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
श्राद्धकृच् छुक्लवासाः स्यात् । इति ॥
अथ स्नानानन्तरकर्तव्यम्
स्नानानन्तरं यत् कर्तव्यं तद् आह यमः ।
ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः ।
पाद्यम् आचमनीयं च संप्रयच्छेद् यथाक्रमम् ॥ इति ।
कृताञ्जलिः स्वागतम् इत्य् उक्त्वा अध्वकृतोपहतिशुद्ध्यर्थं पादप्रक्षालनार्थम् आचमनीयं चोदकं क्रमेण प्रयच्छेद् इत्य् अर्थः । तदनन्तरं गृहाङ्गणे मण्डलद्वयं कार्यम् । तथा च मत्स्यः ।
……… भवनस्याग्रतो भुवि ।
गोमयेनानुलिप्तायां गोमूत्रेण तु मण्डले ॥ (मत्पु १६।२७–२८)
[३९७] इति । गोमयसहितेन गोसूत्रेण मण्डले कार्ये इति शेषः । अत्र विशेषम् आह शम्भुः ।
उदक्प्लवम् उदीच्यं स्याद् दक्षिणं दक्षिणाप्लवम् । इति ।
उदीच्यं वैश्वदेविकं मण्डलम् उदक्प्रवणम् । दक्षिणं पित्र्यं मण्डलं दक्षिणाप्रवणं कुर्यात् । तत्र मण्डलकरणप्रभृत्या श्राद्धपरिसमाप्तेर् वैश्वदैविकं कर्म प्रदक्षिणं यज्ञोपवीतिना कार्यम् । पित्र्यम् अपसव्यं प्राचीनावीतिना कार्यम् । तथा च मनुः ।
प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा ।
पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भपाणिना ॥ इति । (म्ध् ३।२७९)
अत्रैव विशेषान्तरम् आह कात्यायनः ।
दक्षिणं पातयेत् जानुं देवान् परिचरन् सदा ।
पातयेद् इतरञ् जानु पितॄन् परिचरन्न् अपि ॥ इति । (क्स्म् १।२।५)
शातातपो ऽपि ।
उदङ्मुखस् तु देवानां पितॄणां दक्षिणामुखः । इति ।
बौधायनो ऽपि ।
प्रदक्षिणं तु देवानां पितॄणाम् अप्रदक्षिणम् ।
देवानाम् ऋजवो दर्भाः पितॄणां द्विगुणाः स्मृताः ॥ इति ।
मण्डलकरणानन्तरकर्तव्यम् आह शम्भुः ।
उत्तरे ऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत् कुशान् ।
दक्षिणे दक्षिणाग्रांस् तु सतिलान् विन्यसेद् बुधः ॥
[३९८] इति । मत्स्यपुराणे ऽपि ।
अक्षताभिः सपुष्पाभिस् तद् अभ्यर्च्यापसव्यवत् ।
विप्राणां क्षालयेत् पादाव् अभिवन्द्य पुनः पुनः ॥ इति । (मत्पु १६।२८–२९)
अपसव्यवत् पूर्वम् उदीच्यमण्डलं पश्चाद् दक्षिणमण्डलम् अभ्यर्च्येत्य् अर्थः । दैवपूर्वकं विप्राणां पादप्रक्षालनं कुर्यात् । अत एव च ब्रह्मनिरुक्तम् ।
पाद्यं चैव तथैवार्घ्यं दैवम् आदौ प्रयोजयेत् ।
शन् नो देवीति मन्त्रेण पाद्यम् चैव प्रपादयेत् ॥ इति ।
पाद्यादिदानं नामगोत्रोच्चारणपूर्वकं कर्तव्यम् । तद् उक्तं मत्स्यपुराणे ।
नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ॥ इति । (मत्पु १९।४)
पादप्रक्षालनानन्तरं यत् कर्तव्यं तद् आह सुमन्तुः ।
दर्भपाणिर् द्विर् आचम्य लघुवासा जितेन्द्रियः ।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥
दक्षिणाप्रवणे सम्यग् आचान्तान् प्रयतान् शुचीन् ।
आसनेषु सदर्भेषु विविक्तेषूपवेशयेत् ॥
[३९९] इति । विविक्तेषु परस्परम् असंस्पृष्टेष्व् इत्य् अर्थः । मनुर् अपि ।
आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक् पृथक् ।
उपस्पृष्टोदकान् सम्यग् विप्रांस् तान् उपवेशयेत् ॥ इति । (म्ध् ३।२०८)
उपवेशनप्रकारो यमेन दर्शितः- “आसनं संस्पृशन् सव्येन पाणिना दक्षिणेन ब्राह्मणम् उपसंगृह्य समाध्वम् इति चोक्त्वोपवेशयेत्” इति । धर्मे ऽपि ।
जान्वालभ्य ततो देवान् उपवेश्य ततः पितॄन् ।
समस्ताभिर् व्याहृतिभिर् आसनेषूपवेशयेत् ॥ इति । (विध् १।१४१।२०)
आदिपुराणे ऽपि ।
विप्रौ तु प्राङ्मुखौ तेभ्यो द्वौ तु पूर्वं निवेशयेत् ।
शन् नो देवीति मन्त्रेण पाद्यं चैव प्रदापयेत् ॥
उत्तराभिमुखान् विप्रांस् त्रीन् पितृभ्यश् च सर्वदा ॥ इति ।
याज्ञवल्क्यो ऽपि ।
द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा ।
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदैविकम् ॥ (य्ध् १।२२८)
[४००] इति । मातामहानाम् अप्य् एवम् इति संख्यादिङ्नियमयोर् अतिदेशः । वैश्वदैविकं कर्म श्राद्धद्वयार्थम् आवृत्त्यानुष्ठेयम् तन्त्रेण वेत्य् अभिप्रेत्य तन्त्रं वा वैश्वदैविकम् इत्य् उक्तम् । अत एव मरीचिः ।
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसंपन्नस् तन्त्रं वा वैश्वदैविकम् ॥ इति ।
अत्र द्वयोर् अपि श्राद्धयोर् वैश्वदैविककर्मणः तन्त्रावृत्तिविधानाद् एकप्रयोगविधिप्रयोज्यत्वं भिन्नप्रयोगविधिप्रयोज्यत्वं च प्राप्तम् । ततश् चैकाधिकारापूर्वसाधकत्वं भिन्नाधिकारापूर्वसाधकत्वं चावगम्यते ।
अथ ब्राह्मणनियमाः
उपविष्टब्राह्मणनियमाः स्मृत्यन्तरे दर्शिताः ।
पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंसप्र्शं वर्जयन्तः परस्परम् ॥ इति ।
मौनत्वं च ब्रह्मोद्यकथाव्यतिरिक्तविषयम् । अत एव यमः ।
ब्रह्मोद्याश् च कथाः कुर्युः पितॄणाम् एतद् ईप्सितम् । इति ॥
अथ यतिब्रह्मचारिणोः भोजनीयत्वम्
उपविष्टेष्व् अपि ब्राह्मणेषु यतिर् ब्रह्मचारी वा यद्य् आगच्छति तदा सो ऽपि श्राद्धे भोजयितव्यः । तद् आह यमः ।
भिक्षुको ब्रह्मचारी वा भोजनार्थम् उपस्थितः ।
उपविष्टेष्व् अनुप्राप्तः कामं तम् अपि भोजयेत् ॥
[४०१] इति । छागलेयो ऽपि ।
पूजयेत् श्राद्धकाले ऽपि यतिं च ब्रह्मचारिणम् ।
विप्रान् उद्धरते पापात् पितॄन् मातृगणान् अपि ॥ इति ।
मनुर् अपि ।
ब्राह्मणं भिक्षुकं वापि भोजनार्थम् उपस्थितम् ।
ब्राह्मणैर् अनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ इति । (म्ध् ३।२४३)
अथ ब्राह्मणोपवेशनानन्तरकृत्यम्
ब्राह्मणोपवेशनानन्तरकृत्यं पुराणे ऽभिहितम् ।
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥ इति ।
श्राद्धं करिष्य इत्य् एवम् उपविष्टान् ब्राह्मणान् पृच्छेद् इत्य् अर्थः । अत एवोक्तं तत्रैव ।
उभौ हस्तौ समौ कृत्वा जानुभ्याम् अन्तरे स्थितौ ।
सप्रश्रयश् चोपविष्टान् सर्वान् पृच्छेत् द्विजोत्तमान् ॥ इति ।
कुरुष्वेति तैः अनुज्ञातो “देवताभ्यः पितृभ्यश् च” इत् मन्त्रं त्रिः पठेत् । तद् उक्तं ब्रह्माण्डपुराणे ।
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वधायै सवाहायै नित्यम् एव नमो नमः ॥
आद्ये ऽवसाने श्राद्धस्य त्रिर् आवृत्तं जपेत् सदा ॥ इति ।
अनन्तरं सर्वतस् तिलान् विकिरेत् । तद् उक्तं निगमे- [४०२] “अपहता इत् तिलान् विकिरेत्” इति । तिलान् विकीर्य धर्भासनं दद्यात् । तद् उक्तं पुराणे ।
कुरुष्वेति स तैर् उक्तो दद्याद् दर्भासनं ततः । इति ।
दर्भासनदानं च ब्राह्मणहस्ते उदकदानपूर्वकं कार्यम् । अत एव याज्ञवल्क्यः ।
पाणिप्रक्षालनं दत्वा विष्टरार्थान् कुशान् अपि । इति । (य्ध् १।२२९)
विष्टरार्थान् आसनार्थान् कुशाना आसनेषु दत्वेत्य् अर्थः । तद् उक्तं पुराणे ।
आसने चासनं दद्यात् वामे वा दक्षिणे ऽपि वा । इति ।
वामे वा दक्षिणे ऽपि वेत्य् अयं विकल्पः पित्रर्थदेवार्थब्राह्मणासनदानविषयतया व्यवस्थितो द्रष्टव्यः । अत एवोक्तं तत्रैव ।
पितृकर्मणि वामे वै दैवे कर्मणि दक्षिणे । इति ।
दैवे कर्मण्य् आसनदाने विशेषः काठके ऽभिहितः- “देवानां सयवा दर्भाः” इति । आसनं दत्वा पुनर् निमन्त्रयीय । तद् आह संग्रहकारः- “ततः पुनर् अपो दत्वा निमन्त्रयेत्। दैवे क्षणः क्रियताम् । ततः ओम् तथेति विप्रो ब्रूयात् । प्राप्नोतु भवान् इत् कर्ता पुनर् ब्रूयात् । प्राप्नुवानि इति विप्रः पुनर् ब्रूयात्” इति । निमन्त्रणं च निरङ्गुष्ठं हस्तं गृहीत्वा कर्तव्यम् । तद् उक्तं पुराणे ।
[४०३] निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेत् । इति ।
अङ्गुष्ठव्यतिरिक्तं हस्तं गृहीत्वा निमन्त्र्य विश्वान् देवान् समाह्वयेद् इत्य् अर्थः । आवाहनेतिकर्तव्यताम् आह यमः ।
यवहस्तस् ततो देवान् विज्ञाप्यावाहनं प्रति ।
आवाहयेद् अनुज्ञातो विश्वेदेवास इत्य् ऋचा ॥
विश्वेदेवाः शृणुतेति मन्त्रं जप्त्वा ततो ऽक्षतान् ।
ओषधय इति मन्त्रेण विकिरेत् तु प्रदक्षिणम् ॥ इति ।
प्रदक्षिणं दक्षिणपादादिमस्तकान्तम् अक्षतान् विकिरेत् आरोपयेद् इत्य् अर्थः । विश्वेदेवास् तु दश् बृहस्पतिना दर्शिताः ।
क्रतुर् दक्षो वसुः सत्यः कालः कामस् तथैव च ।
धुनिश् च रोचनश् चैव यथा चैव पुरूरवा ॥
आर्द्रवश् च दशैते तु विश्वेदेवाः प्रकीर्तिताः । इति ।
तेषां मध्ये पुरूरवार्द्रवसंज्ञका विश्वेदेवा अत्रावाह्याः, पार्वणश्राद्धत्वात् । अत एव शङ्खः ।
इष्टिश्राद्धे क्रतुर् दक्षः संकीर्त्यौ वैश्वदैविके ।
नान्दीमुखे सत्यवसू काम्ये च धुनिरोचनौ ॥
पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ ।
नैमित्तिके कालकामाव् एवं सर्वत्र कीर्तयेत् ॥ इति ।
इष्टिश्राद्धं कर्माङ्गश्राद्धम् । तच् च पारस्करेण दर्शितम् ।
[४०४] निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत् कृतम् ॥ इति ।
वृद्धिवद् इत्य् अनेन वृद्दिश्राद्धात् कर्माङ्गश्राद्धम् अन्यद् इति ज्ञायते । नान्दीमुखं वृद्धिश्राद्धम् । तत्स्वरूपं वृद्धवसिष्ठ आह ।
पुत्रजन्मविवाहादौ वृद्धिश्राद्धम् उदाहृतम् । इति ।
आदिशब्देनान्नप्राशनचूडाकरणादिसंस्कारा गृह्यन्ते । न तु गर्भाधानपुंसवन-सीमन्तोन्नयनानि, तत्र क्रियमाणस्य कर्माङ्गश्राद्धत्वात् । काम्यं फलकामनोपाधिकम् । पार्वणम् अमावास्याश्राद्धम् । नैमित्तिकं सपिण्डीकरणम् ।
ननु,
एकोद्दिष्टं तु यत् श्राद्धं तन् नैमित्तिकम् उच्यते ।
इति नैमित्तिकशब्द एकोद्दिष्टे रूढत्वात् कथं सपिण्डीकरणे प्रयुज्यते इति ।
सत्यम्, तथापि “तद् अप्य् अदैवं कर्तव्यम्” इत्य् एकोद्दिष्टस्य दैवहीनत्वेन कामकालसंज्ञकानां विश्वेषां देवानाम् अन्वयानुपपत्तेः एकोद्दिष्टयुक्तं सपिण्डीकरणं नैमित्तिकशब्देन लक्षणयोच्यते ॥
अथार्घ्यादिदानम्
विश्वान् देवान् आवाह्यार्घपात्रासादनादि कुर्यात् । तथा च याज्ञवल्क्यः ।
यवैर् अन्ववकीर्याथ भाजने सपवित्रके ।
[४०५] शन् नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवांस् तथा ॥ इति । (य्ध् १।२३०)
मत्स्यपुराणे ऽपि ।
विश्वान् देवान् यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम् ।
पूरयेत् पात्रयुग्मं तु स्थाप्य दर्भपवित्रके ॥ इति । (मत्पु १७।१४–१५)
प्रचेता अपि ।
एकैकस्य तु विप्रस्य अर्घ्यं पात्रे विनिःक्षिपेत् ।
यवो ऽसीति यवान् कीर्त्त्वा गन्धपुष्पैः सुपूजितम् ॥ इति ।
अर्घ्यपात्राणि सौवर्णराजतादीनि । तद् आह कात्यायनः- “सौवर्णराजतौदुम्बरखड्ग-मणिमयानां पात्राणाम् अन्यतमेषु । यानि वा विद्यन्ते । पत्रपूटके वा” इति । यानि वा तैजसानि कांस्यादीनि तेषु वेत्य् अर्थः राजतं पात्रं पित्र्ये विनियुज्यते । न दैवे । तद् आह मत्स्यो राजतं पात्रम् अधिकृत्य ।
शिवनेत्रोद्भवं यस्माद् अतस् तत् पितृवल्लभम् ।
अमङ्गलं तद् यत्नेन देवकार्येषु वर्जितम् ॥ इति । (मत्पु १७।२३)
अर्घ्यपवित्रकं प्रतिपात्रं भेदेन कार्यम् । तद् उक्तं चतुर्विंशतिमते ।
[४०६] द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत् । इति ।
पवित्रकरणेतिकर्तव्यताम् योगियाज्ञवल्क्यः ।
पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् ।
अन्तर्दर्भे कुशच्छिन्ने कौशे प्रादेशसंमिते ॥ इति ।
कुशच्छिन्न इति कुशम् अन्तरा कृत्वा छिन्ने । अत एव यज्ञपार्श्वः ।
औषधीम् अन्तरे कृत्वा अङ्गुष्ठाङ्गुलिपर्वणोः ।
छिन्द्यात् प्रादेशमात्रं तु पवित्रं विष्णुदैवतम् ॥
न नखेन न काष्ठेन न लोहेन न मृण्मयात् । इति ।
अनन्तरम् “स्वाहार्घ्या” इति मन्त्रेण देवतार्थं ब्राह्मणसमीपे ऽर्घ्यपात्रं स्थापयेत् । तथा च गार्ग्यः ।
स्वाहेति चैव देवानां होमकर्मण्य् उदाहरेत् । इति ।
देवानां होमकर्मण्य् अर्घ्यदाने कर्मण्य् उपस्थिते पात्रं स्थापयितुम् “स्वाहार्घ्या” इति मन्त्रम् उच्चारयेद् इति प्रकरणाद् एव गम्यते । अर्घ्यपात्रं स्थापयित्वा विप्रहस्ते ऽर्घ्यं दद्यात् । तद् आह याज्ञवल्क्यः ।
या द्विया इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिःक्षिपेत् । इति । (य्ध् १।२३१)
अर्घ्यदाने विशेषम् आह गर्ग्यः ।
दत्वा हस्ते पवित्रं तु संपूज्यार्घ्यं विनिःक्षिपेत् । इति ।
हस्तेष्व् इति बहुवचनम् उपक्रमगतैकवचनानुरोधाद् [४०७] अविवक्षितम् । तदनन्तरम् उदकपूर्वकं गन्धादि देयम् । तथा च याज्ञवल्क्यः ।
दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकम् । इति । (य्ध् १।२३१)
गन्धादिदानम् आच्छादनस्याप्य् उपलक्षणम्, तदन्तर्गतत्वात् । एवम् आसनप्रभृत्याच्छादनपर्यन्तं वैश्वदेविकार्चनं काण्डानुसमयेन कृत्वा आसनाद्याच्छादनपर्यन्तं पित्रर्चनं प्राचीनावीत्य् अप्रदक्षिणं कुर्यात् । तद् आह याज्ञवल्क्यः ।
अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् । इति । (य्ध् १।२३२)
ननु – दैवे पित्र्ये च आसनाद्याच्छादनपर्यन्तानां पदार्थानाम् अपि पदार्थानुसमयेनैवानुष्ठानं न्याय्यम्, न तु काण्डानुसमयेन । पदार्थानुसमये हि तेषां प्रधानप्रत्यासत्तिर् भवति अवैषम्यं च । अन्यथा केषांचित् प्रधानप्रत्यासत्तिः केषांचिन् नेति वैषम्यम् आपद्येत् – इति ।
सत्यम् । आसनादिपदार्थेषु वचनबलात् काण्डानुसमय एव स्वीक्रियते । वाचनिकत्वं च “अपसव्यं ततः कृत्वा” इति वैश्वदैविकासनादिपदार्थकाण्डाद् ऊर्ध्वं पित्रर्चनविधानात् । आसनादिदानप्रकारम् आह स एव ।
द्विगुणांस् तु कुशान् दत्वा ह्य् उशन्तस् त्वेत्य् ऋचा सह ।
आवाह्य तदनुज्ञातो जपेद् आयान्तु नस् ततः ॥
[४०८] यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादिपूर्ववत् ॥
दत्वार्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥ इति । (य्ध् १।२३३–३५)
द्विगुणान् द्विगुणभुग्नान् सतिलान् कुशान् आसनार्थं दद्यात् । तद् उक्तं काठके- “पितॄणां द्विगुणांस् तिलैः” इति । आसनदानात् पूर्वं पश्चाच् चोदकं दद्यात् । तथा च आश्वलायनः- “अपः प्रदाय । दर्भान् द्विगुणभुग्नान् आसनं प्रदाय । आपः प्रदाय” इति (आश्गृ ४।७।५–७) । “श्राद्धे क्षणः क्रियताम्” इति पूर्ववत् क्षणं दत्वा । “पितॄन् आवाहयिष्ये” इति ब्राह्मणान् पृष्ट्वा “आवाहय” इति तैर् अनुज्ञातः “उशन्तस् त्वा” इति मन्त्रेणावाह्य् “नमो वः पितरः” इतित् तिलान् मस्तकादिदक्षिणपादान्तम् अवकीर्य “आयान्तु नः पितरः” इति मन्त्रेणोपतिष्ठेत । तथा च प्रचेताः ।
शिरःप्रभृति पादान्तं नमो व इति पैतृके । इति ।
उपस्थानानन्तरकृत्यम् उक्तम् पुराणे ।
जपेद् आयान्तु न इति मन्त्रं सम्यग् अशेषतः ।
रक्षार्थं पितृसत्रस्य त्रिःकृत्वः सर्वतोदिशम् ॥
तिलांस् तु प्रक्षिपेन् मन्त्रम् उच्चार्यापहता इति ॥
[४०९] इति । अर्घ्याद्याच्छादनान्तं पूर्ववत् कुर्यात् । अत्रार्घ्यपात्रासादनादौ विशेषो विष्णुना दर्शितः- “दक्षिनाग्रेषु दक्षिणापवर्गेषु चमसेषु त्रिष्व् अप आसिञ्चेच् छिन्नो देवीर् इति” इति (विध् ७३।१२) । अयम् अर्थः – दक्षिणाग्रेषु दर्भेषु दक्षिणापवर्गतयासादितेषु पवित्रान्तर्हितेषु चमसेषु त्रिष्व् अर्घ्यपात्रेषु शन् नो देवीर् अभिष्टय इति मन्त्रेण प्रतिपात्रम अप आसिञ्चेद् इति । शौनको ऽपि- “पात्रेषु दर्भान्तर्हितेष्व् अपः प्रदाय शन् नो देवीर् अभिष्टय इत्य् अनुमन्त्रितासु तिलान् आवपति । तिलो ऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितॄन् इमांल् लोकान् प्रीणयाहि नः स्वधा नमः” इति । अत्र च पित्रादीनां त्रयाणाम् एकैकस्यानेकब्राह्मणनिमन्त्रणे सर्वेषाम् एकब्राह्मणनिमन्त्रणे ऽपि त्रीन्य् एवार्घ्यपात्राणि, न तु ब्राह्मणसंख्यया । अत एव बैजवापः ।
स्तीर्त्वा पितॄणां त्रीण्य् एव कुर्यात् पात्राणि धर्मवित् ।
एकस्मिन् वा बहुषु वा ब्राह्मणेषु यथाविधि ॥ इति ।
स्तीर्त्वा तिलान् अर्घ्योदकेषु क्षिप्त्वेत्य् अर्थः । अर्घ्यपवित्रं चायुग्मसंख्यया कर्तव्यम् । तद् उक्तं चतुर्विंशतिमते ।
तिस्रस् तिस्रः शलाकाः स्युः पितृपात्रेषु पार्वणे ।
[४१०] इति । तिलप्रक्षेपानन्तरं गन्धपुष्पाणि प्रक्षिपेत् । तद् उक्तं ब्रह्मपुराणे ।
अर्घ्याः पुष्पैश् च गन्धैश् च ताः प्रपूज्याश् च शास्त्रवत् । इति ।
या अर्घ्यार्हा आपस् ता गन्धादिभिः पूज्या इत्य् अर्थः । अनन्तरकर्तव्यम् आह शौनकः- “ताः प्रतिग्राहयिष्यन् स्वधार्घ्या इति” । ता आपो ब्राह्मणैः प्रतिग्राहयिष्यन् “स्वधार्घ्या” इति मन्त्रेण स्थापयेद् इत्य् अर्थः । ततः पवित्रान्तर्हितेषूदकपूर्वकं “या दिव्या” इति मन्त्रेणार्घ्योदकं दद्यात् । तथा च पैठीनसिः- “ततो ब्राह्मणहस्तेषूदकपूर्वं दर्भान् प्रदायोदकपूर्वकम् अर्घोदकं ददाति या दिव्या इत्य् उक्त्वासाव् एतत् ते ऽर्घोदकम् इत्य् अप उपस्पृश्यैवम् एवेतरयोः” इति । अत्र विशेषम् आह धर्मः- “या दिव्या आप इति पात्रं पाणिभ्याम् उद्धृत्य नाम गोत्रं च गृहीत्वा सपवित्रहस्ते ऽर्घ्यं दद्यात्” इति । यत् तु पैठीनसिवचने हस्तेष्व् इति बहुवचनं तत् त्रींस् त्रीन् एकैकत्रेति विहितब्राह्मणसंख्यापक्षे । ब्राह्मणहस्तेषूदकपूर्वं दर्भान् प्रदायेति पित्रर्थब्राह्मणार्चन एव बहुवचनप्रयोगात् । [४११] अन्यथा “एवम् एवेतरयोः” इति पितामहप्रपितामहार्थ-ब्राह्मणार्चनस्य पृथग्विधानं न स्यात् । एवम् अर्घ्यं दत्वा तेषाम् अर्घोदकानां संस्रवान् विप्रहस्तेभ्यः पात्रेषु गलितान् पितृपात्रे संगृह्य तत्पात्रं न्युब्जम् अधोमुखम् “पितृभ्यः स्थानम् असि” इत्य् अधः कुर्यात् भूमौ निदध्यात् इत्य् अर्थः । न्युब्जकरणानन्त्रकर्तव्यम् आह बैजवापः ।
तस्योपरि कुशान् दत्वा प्रदद्याद् दैवपूर्वकम् ।
गन्धपुष्पाणि धूपं च दीपवस्त्रोपवीतकम् ॥ इति ।
दैवपूर्वकम् इत्य् अयं पदार्थानुसमयो याज्ञवल्क्योक्तकाण्डानुसमयेन सह विकल्पते इत्य् अविरोधः ॥
अथाग्नौकरणम्
एवं गन्धपुष्पादिभिर् ब्राह्मणान् अभ्यर्च्याग्नौकरणाख्यं कर्म कुर्यात् । तद् आह कात्यायनः ।
गन्धान् ब्राह्मणसात् कृत्वा पुष्पाण्य् ऋतुभवानि च ।
धूपं चैवानुपूर्व्येण अग्नौकुर्याद् अतः परम् ॥ इति । (क्स्म् २।१७।११)
अग्नौकरणप्रकारम् आह याज्ञवल्क्यः ।
अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृतप्लुतम् ।
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥
[४१२] हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ॥ इति । (य्ध् १।२३६–६७)
अग्नौ करिष्यन् घृतप्लुतम् अन्नम् आदाय “अग्नौ करिष्ये” इति ब्राह्मणान् पृच्छेत् । घृतशब्देन शाकादेर् निरासः । ततः कुरुष्वेति तैर् अनुज्ञातः, “सांनिध्यम् उपसमाध्याय मेक्षणेनावदाय सोमाय पितृमते स्वधा नमो ऽग्नये कव्यवाहनाय स्वधा नमः” इति पिण्डपितृयज्ञविधानेनाग्नौ जुहुयात् । ततो मेक्षणं हुत्वा हुतशेषं यथालाभोपपन्नेषु पित्रादिभाजनेषु दद्यात्, न वैश्वदेवभाजनेषु । तद् उक्तं पुराणे ।
अग्नौकरणशेषं तु दद्याद् वैश्वदैविके । इति ।
अग्नौकरणं च प्राचीनावीत्य् उपवीती वा कुर्यात् । तत्प्रकृतिभूतस्य पिण्डपितृयज्ञस्य दैविकत्वपैतृकत्वाभ्याम् उभयविधत्वेन विकल्पितोभयधर्मकत्वात् तद्विकृतिभूताग्नौकरणहोमे ऽपि प्राचीनावीतित्वोपवीतित्वयोर् विकल्पो ऽवगम्यते । अत्र च यथाशाखं व्यवस्था द्रष्टव्या । अग्नौकरणं च स्मार्तत्वेन विवाहाग्नौ कर्तव्यम् । यदा तु सर्वाधानेनौपासनाग्निर् नास्ति तदा दक्षिणाग्नौ जुहुयात् । तदसंनिधाने लौकिकाग्नौ । तथा च वायुपुराणम् ।
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अग्न्यर्थं लौकिकं वापि जुहुयात् कर्मसिद्धये ॥ (वाय्पु २।१३।५२–५३)
[४१३] इति । अग्न्यर्थम् औपासनाग्निकार्यसिद्ध्यर्थम् । दक्षिणाग्न्यसंनिधाने पाणौ होमः कर्तव्यः । तथा च स्मृत्यन्तरम् ।
हस्ते ऽग्नौकरणं कुर्याद् अग्नौ वा साग्निको द्विजः । इति ।
साग्निकः सर्वाधानेनाहिताग्निः । दक्षिणाग्न्यसंनिधाने हस्ते लौकिके ऽग्नौ वाग्नौकरणं कुर्याद् इत्य् अर्थः । यदा त्व् अर्धाधानेनाहिताग्निर् अप्य् अनग्निमान् तदौपासनाग्नाव् अग्नौकरणं कुर्यात् । तदभावे द्विजपाणाव् अप्सु वा । तथा च मार्कण्डेयः ।
अनाहिताग्निस् त्व् औपासनाग्न्यभावे द्विजे ऽप्सु च । इति ।
चशब्देनार्धाधानेनानाहिताग्निर् गृह्यते । अप्स्व् अग्नौकरणं जलसमीपे श्राद्धकरणे वेदितव्यम् । तद् आह कात्यायनः ।
विष्णुधर्मोत्तरे वाप्सु मार्कण्डेयेन यः स्मृतः ।
स यदापां समीपे स्याच् छ्राद्धं ज्ञेयो विधिस् तदा ॥ इति ।
यत् तु मनुनोक्तम्,
अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् । (म्ध् ३।२१२)
इति, तद् ब्रह्मचारिविषयम् । तद् आह जातूकर्ण्यः ।
अग्न्यभावे तु विप्रस्य पाणौ दद्यात् तु दक्षिणे ।
[४१४] अग्न्यभावः स्मृतस् तावद् यावद् भार्यां न विन्दति ॥ इति ।
विद्यमाने ऽप्य् अग्नौ काम्यादिषु चतुर्षु श्राद्धेषु ब्राह्मणपाणाव् एव होमः । तद् आहुर् गृह्यकाराः ।
अन्वष्टक्यं च पूर्वेद्युर् मासि मासि च पार्वणम् ।
काम्यम् अभ्युदये ऽष्टम्याम् एकोद्दिष्टम् अथाष्टमम् ॥
चतुर्ष्व् आद्येषु साग्नीनाम् अग्नौ होमो विधीयते ।
पित्र्यब्राह्मणहस्ते स्याद् उत्तरेषु चतुर्ष्व् अपि ॥ इति ।
“हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टम्यो अष्टकाः” इति विहितान्य् अष्टकाश्राद्धानि । तत्राष्टकाश्राद्धानाम् उत्तरदिने नवम्यां क्रियमाणं श्राद्धम् अन्वष्टकम् । पूर्वेद्युः सप्तम्यां क्रियमाणं श्राद्धं “पूर्वेद्युः” इति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाणम् अपरपक्षिकं श्राद्धं “मासि मासि” इत्य् अनेनोक्तम् । पार्वणं सर्वश्राद्धप्रकृतिभूतम् अमावास्याश्राद्धम् । काम्यं पुत्रादिफलकामनया क्रियमाणं श्राद्धम् । आभ्युदिकश्राद्धम् “अभ्युदय” इति पदेनोक्तम् । अष्टकाख्यश्राद्धं अष्टम्याम् इति पदेनोक्तम् । एकोद्दिष्टपदेन सपिण्डीकरणं लक्षणयोक्तम् । अपिण्डीकरणे एकोद्दिष्टस्यापि सद्भावात् । एषां मध्ये आद्येषु चतुर्षु साग्निकानाम् अग्नाव् एवाग्नौकरणहोमः । उत्तरेषु साग्नीनां पित्र्यब्राह्मणहस्त एवेति । पाणौ होमे तु विशेषः कात्यायनेन दर्शितः ।
पित्र्ये यः पङ्क्तिमूर्धन्यस् तस्य पाणाव् अनग्निकः ।
हुत्वा मन्त्रवद् अन्येषां तूष्णीं पात्रेषु निःक्षिपेत् ॥ (क्स्म् २।१७।१५)
[४१५] इति । यत् तु यमेनोक्तम्,
दैवविप्रकरे ऽनग्निः कृत्वाग्नौकरणं द्विजः ।
इति, तत्र विकल्पेन व्यवस्था द्रष्टव्या । दैविकब्राह्मणपाणौ होमपक्षे ऽपि पित्र्यब्राह्मणपात्रेष्व् एव शेषं निःक्षिपेत् । अत एव वायुपुराणम् ।
हुत्वा दैवकरे ऽनग्निः शेषं पित्र्ये निवेदयेत् ।
न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः ॥ इति ।
पाणौ होमे यत् कर्तव्यं तद् आह शौनकः- “अनग्निश् चेद् आद्यं गृहीत्वा भवत्स्व् एवाग्नौकरणम् इति पूर्ववत् तथास्त्व् इति” इति । अयम् अर्थः – आद्यं घृतप्लुतम् अन्नं गृहीत्वा “भवत्स्व् एवाग्नौकरंअहोमं करिष्ये” इति पूर्ववत् पृष्ट्वा तथास्त्व् इति तैर् अनुज्ञातो जुहुयात् – इति । यमो ऽपि ।
अग्नौकरणवत् तत्र होमो दैवकरे भवेत् ।
पर्यस्तदर्भान् आस्तीर्य यतो ह्य् अग्निसमो हि सः ॥ इति ।
पर्यस्तदर्भाः परिस्तरण्योग्या दर्भाः । दैवकरग्रहणेन पित्र्यब्राह्मणकरो ऽप्य् उपलक्ष्यते, उभयत्रापि विकल्पेनाग्नौकरणस्य विधानात् । पाणितले हुतस्यान्नस्य विनियोगम् आह गृह्यपरिशिष्टकारः ।
यच् च पाणितले दत्तं यच् चान्यद् उपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥
[४१६] अन्नं पाणितले दत्तं पूर्वम् अश्नन्त्य् अबुद्धयः ।
पितरस् तेन तृप्यन्ति शेषान्नं न लभन्ति ते ॥ इति ।
यदा दैवविप्रकरे होमस् तदा पितृमातामहश्राद्धद्वयार्थं सकृद् एवानुष्ठेयः, वैश्वदेवभेदे ऽपि तत्राधिकरणकारकस्य संप्रतिपन्नत्वात् । यदा पित्र्यब्राह्मणकरे होमस् तदा मातामहब्राह्मणकरे ऽपि पृथग् अनुष्ठेयः, वैश्वदैविकतन्त्रत्वे ऽपि तत्राधिकरणकारकस्यासंप्रतिपन्नत्वात् । तथा च कात्यायनः ।
मातामहस्य भेदे ऽपि कुर्यात् तत्रैव साग्निकः । इति ।
वैश्वदैविकस्य भेदे तन्त्रे च मातामहस्य मातामहार्थब्राह्मणस्यापि पाणौ होमं साग्निकः कुर्याद् इत्य् अर्थः । पात्राणि द्विः प्रक्षालयेत् । तथा च ब्रह्माण्डपुराणम् ।
प्रक्षाल्य हस्तपात्रादि पश्चाद् अद्भिर् विधानवत् ।
प्रक्षालनजलं दर्भैस् तिलमिश्रं क्षिपेच् छुचौ ॥ इति ।
हस्तेन निर्मृष्टं पात्रादीति मध्यमपदलोपी समासः । आदिशब्देन घृतादिधारणार्थं गृह्यते ॥
अथ परिवेषणम्
एवं प्रक्षालितेषु पात्रेषु हुतशेषं प्राचीनावीती पितृपात्रेषु निधाय संपादितान् पदार्थान् परिवेषयेत् । तथा च शौनकः ।
हुत्वाग्नौ परिशिष्टं तु पितृपात्रेष्व् अनन्तरम् ।
निवेद्यैवापसव्येन परिवेषणम् आचरेत् ॥
[४१७] इति । अपसव्येनेति हुतशेषनिवेदनेनान्वेति । न तु परिवेषणेन । अत एव कार्षाणाजिनिः ।
अपसव्येन कर्तव्यं पित्र्यं कृत्यं विशेषतः ।
अन्नदानाद् ऋते सर्वम् एवं मातामहेष्व् इति ॥ इति ।
परिवेषणप्रकारो मनुना दर्शितः ।
पाणिभ्याम् उपसंगृह्य स्वयम् अन्नस्य वर्धितम् ।
विप्रान्तिके पितॄन् ध्यायन् शनकैर् उपनिःक्षिपेत् ॥ इति । (म्ध् ३।२२४)
अन्नस्य वर्धितम् अन्नेन पूर्णं परिवेषणपात्रं विप्रान्तिके भोजनार्थपात्रे । स्वयम् इति वचनात् स्वयं परिवेषणं मुख्यम् । अत एव वायुपुराणम् ।
फलस्यानन्तता प्रोक्ता स्वयं तु परिवेषणे । इति ।
यत् तु तत्रैवोक्तम्,
परिवेषणं प्रशस्तं हि भार्यया पितृतृप्तये ।
पितृदेवमनुष्याणां स्त्रीसहाये यतः स्मृते ॥
इति, तद् इतरापेक्षया वेदितव्यम् । भार्ययापि सवर्णयैव परिवेषणं कार्यम् । तथा च नारायणः ।
यद् द्रव्यं यत् पवित्रं च यत् पित्र्यं यत् सुखावहम् ।
द्विजातिभ्यः सवर्णाया हस्तेनैव तु दीयते ॥
[४१८] इति । हस्तेन हस्तद्वयेनेत्य् अर्थः । तद् आह मत्स्यः ।
उभाभ्याम् अपि हस्ताभ्याम् आहृत्य परिवेषयेत् । इति । (मत्पु १७।२८)
हस्तेनापि न साक्षाद् देयम् । अपि तु दर्व्यादिद्वारा । अत एव वृद्धशातातपः ।
हस्तदत्तास् तु ये स्नेहा लवणव्यञ्जनादयः ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥ इति । (वध् १४।३१)
विष्णुपुराणे ऽपि ।
नापवित्रेण हस्तेन नैकेन च विनाकुशम् ।
नायसेनैव पात्रेण श्राद्धेषु परिवेषयेत् ॥ इति ।
आयसेन अयोमयपात्रेण नैव परिवेषयेत् । परिवेषणे कानि पात्राणि प्रशस्तानीत्य् अपेक्षिते विष्णुः- “घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि [४१९] फल्गुपात्राणि च प्रशस्तानि । अत्र च पितृगाथा भवति ।
सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण च ।
दत्तम् अक्षयतां याति फल्गुपात्रेण वाप्य् अथ ॥ इति । (विध् ७९।२२–२४)
खड्गेन खड्गमृगशृङ्गकृतदर्व्यादिना । फल्गुपात्रेण काकौदुम्बरिकाख्यवृक्षदारुकृत-दर्व्यादिना । अन्यान्य् अपि परिवेषणीयान्य् आह मनुः ।
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥
उपनीय तु तत् सर्वं शनकैः सुसमाहितः ।
परिवेषयेत् तु प्रयतः गुणान् सर्वान् प्रचोदयन् ॥ इति । (म्ध् ३।२२७–२८)
शौनको ऽपि ।
पाकं सर्वम् उपानीय निवेद्य च पृथक् पृथक् ।
विधिना दैवपूर्वं तु परिवेषणम् आरभेत् ॥
[४२०] इति । संपादितं सर्वं पात्रेषु प्रक्षिप्य पात्राभिमन्त्रणं कुर्यात् । तद् आह प्रचेताः- “सर्वं प्रकृतं दत्वा पात्रम् आलभ्य जपेत्” इति । अत्र विशेषम् आह याज्ञवल्क्यः ।
दत्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ इति । (य्ध् १।१३८)
अनन्तरकर्तव्यम् आह अत्रिः ।
हस्तेन मुक्तम् अन्नाद्यम् इत्दम् अन्नम् इतीरयेत् ।
स्वाहेति च ततः कुर्यात् स्वसत्तावनिवर्तनम् ॥
गोत्रसंबन्धनामानि इदम् अन्नं ततः स्वधा ।
पितृक्रमाद् उदीर्येति स्वसत्तां विनिवर्तयेत् ॥ इति ।
अयम् अर्थः – विश्वेभ्यो देवेभ्य इति देवतोद्देशेन शब्दोच्चारणानन्तरम् इदम् अन्नम् इत्य् उच्चारयेत् । ततः स्वाहेति मन्त्रम् उच्चारयेत् । ततो न ममेति स्वत्वपरित्यागं कुर्यात् । ततः पित्रादिक्रमात् संबन्धगोत्रनामोच्चारणपूर्वकं देवतोद्देशं कृत्वेदम् अन्नम् [४२१] इति प्रदेयं द्रव्यं निर्दिश्य स्वधेति कव्यदानप्रकाशकं मन्त्रं उच्चार्य न ममेति स्वत्वपरित्यागं कुर्यात् । अनन्तरकृत्यम् आह लघुयमः ।
अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद् भवेत् ।
सर्वम् अच्छिद्रम् इत्य् उक्त्वा ततो यत्नेन भोजयेत् ॥ इति ।
“अच्छिद्रं जायताम्” इत्य् उक्त्यनन्तरकर्तव्यम् आह प्रचेताः ।
आपोशानं प्रदायाथ सावित्रीं त्रिर् जपेद् अथ ।
मधुवाता इति तृचं मध्व् इत्य् एतत् त्रिकं तथा ॥ इति ।
मधु इत्य् एतत् त्रिर् आवर्तनीयम् इति चतुर्थपादस्यार्थः । सावित्रीं सव्याहृतिकां जपेत् । तथा च याज्ञवल्क्यः ।
सव्याहृतिकां गायत्रीं मधुवाता इति तृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः ॥ इति । (य्ध् १।२३९)
यथासुखम् इत्य् अत्र जुषध्वम् इत्य् अध्याहारह् । अत एव व्यासः ।
जुषध्वम् इति ते चोक्ताः सम्यग् विधृतभाजनाः ।
कृतमौनाः समश्नीयुर् अपोशानाद् अनन्तरम् ॥ इति ।
श्राद्धभोक्ता बलिं न दद्यात् । अत एव अत्रिः ।
दत्ते वाप्य् अथ वादत्ते भूमौ यो निःक्षिपेद् बलिम् ।
तद् अन्नं निष्फलं याति निराशैः पितृभिर् गतम् ॥
[४२२] इति । भोजन्पक्रमानन्तरकर्तव्यम् आह कात्यायनः- “अश्नत्सु जपेद् व्याहृतिपूर्वां गायत्रीं सप्रणवां सकृत् त्रिर् वा रक्षोघ्नीः पित्र्यमन्त्रान् पुरुषसूक्तम् अप्रतिरथम् अन्यानि च पवित्राणि” इति । मनुर् अपि ।
स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश् च पुराणानि खिलानि च ॥ इति । (म्ध् ३।२३२)
अत्र सूक्तजपो यज्ञोपवीतिना कर्तव्यः । अत एव जमदग्निः ।
अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि ।
सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जनम् ॥ इति ।
अथ दातृभोक्तृनियमाः
दातृभोक्तृनियमम्। आह वृद्धशातातपः ।
अपेक्षितं यो न दद्यात् श्राद्धार्थम् उपकल्पितम् ।
कृपणो मन्दबुद्धिस् तु न स श्राद्धफलं लभेत् ॥
अपेक्षितं याचितव्यं श्राद्धार्थम् उपकल्पितम् ।
न याचते द्विजो मूढः स भवेत् पितृघातकः ॥ इति ।
ननु,
[४२३] याचते यदि दातारं ब्राह्मणो ज्ञानवर्जितः ।
पितरस् तस्य कुप्यन्ति दातुर् भोक्तुर् न संशयः ॥
इति ।
कृच्छ्रद्वादशरात्रेण मुच्यते ऽकर्मणस् ततः ।
तस्माद् विद्वान् नैव दद्यान् न याचेन् न च दापयेत् ॥
इति वायुपुराण–स्मृती विरुध्येयाताम् इति चेत्,
मैवम्, तयोर् अनुपकल्पितविषयत्वेनाप्य् उपपत्तेः । उपकल्पितवस्तुनो ऽप्य् अत्यन्ताधिकस्य दानप्रतिग्रहौ शङ्खलिखिताभ्यां निषिद्धौ- “नात्यन्ताधिकं दद्यात् । न प्रतिगृह्णीयात्” इति । अनपेक्षितवस्तुनो निवारणप्रकारम् आह निगमः ।
नान्नपानादिकं श्राद्धे वारेयन् मुखतः क्वचित् ।
अनिष्टत्वाद् बहुत्वाद् वा वारणं हस्तसंज्ञया ॥ इति ।
वारणं याचनस्याप्य् उपलक्षणार्थम्, मुखतो याचने मौनभङ्गाविशेषात् । अपेक्षितं वस्तु ददामीत्य् उक्त्वा न देयम् । तथा च यमः ।
यावद् धविष्यं भवति यावद् इष्टं प्रदीयते ।
तावद् अश्नन्ति पितरो यावन् नाह ददाम्य् अहम् ॥ इति ।
भोजनकाले दातृनियमा ब्रह्माण्डपुराणे दर्शिताः ।
[४२४] न चाश्रु पातयेत् जातु नायुक्तां गिरिम् ईरयेत् ।
न चोद्वीक्षेत भुञ्जानान् न च कुर्वीत मत्सरम् ॥
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रम् आधाय मनः श्राद्धं कुर्यात् सदा बुधः ॥ इति ।
भोक्तृनियमम् आह सुमन्तुः ।
अक्रोधनो रसान् सम्यग् अद्याद् यद् यस्य रोचते ।
आ तृप्तेर् भोजनं तेषां कामतो नावशेषणम् ॥ इति ।
निगमे ऽपि ।
तूष्णीं भुञ्जीरन् न विलोकयमाना अनुद्धृत्य पात्रम् । इति ।
बौधायनो ऽपि ।
पादेन पादम् आक्रम्य यो भुङ्क्ते ऽनापदि द्विजः ।
नैवासौ भोजयेत् श्राद्धे निराशाः पितरो गताः ॥ इति ।
प्रचेता अपि ।
पीत्वापोशानम् अश्नीयात् पात्रे दत्तम् अगर्हितम् ।
सर्वेन्द्रियाणां चापल्यं न कुर्यात् पाणिपादयोः ॥ इति ।
मनुर् अपि ।
अत्युष्णं सर्वम् अन्नं स्याद् अश्नीरंश् चैव वाग्यताः ।
न च द्विजातयो ब्रूयुर् दात्रा पृष्टा हविर्गुणान् ॥ इति । (म्ध् ३।२३६)
अश्नीरंस् चैवेत्य् एवकारः प्रमादात् परस्परसंस्पर्शे ऽपि भोजनानिवृत्त्यर्थः । अत एव शङ्खः ।
[४२५] श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तद् अन्नम् अत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेत् ॥ इति ।
पुनः स एव ।
हुङ्कारेणापि यो ब्रूयाद् धस्ताद् वापि गुणान् वदेत् ।
भूतलाच् चोद्धरेत् पात्रं मुञ्चेद् धस्तेन वापि तत् ॥
पौढपादो बहिःकक्षो बहिर्जानुकरो ऽथ वा ।
अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः ॥
पीतावशिष्टं तोयादि पुनर् उद्धृत्य वा पिबेत् ।
खादितार्धं पुनः खादेन् मोदकानि फलानि वा ॥
मुखेन वा धमेद् अन्नं निष्ठीवेद् भाजने ऽपि वा ।
इत्थम् अश्नन् द्विजः श्राद्धं हत्वा गच्छत्य् अधोगतिम् ॥ इति ।
प्रौढपादः आसनाद्यारूढपादः । बहिःकक्षः उत्तरवासोबहिर्भूतकक्षद्वितयः । दातृनियमम् आह शङ्खः ।
श्राद्धे नियुक्तान् भुञ्जानान् न पृच्छेल् लवणादिषु ।
उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ॥
दातुः पतति बाहुर् वै जिह्वा भोक्तुश् च भिद्यते ॥ इति ।
अन्यान् अपि भोक्तृनियमान् आह प्रचेताः ।
न स्पृशेद् वामहस्तेन भुञ्जानो ऽन्नं कदाचन ।
न पादौ न शिरो बस्तिं न पदा भाजनं स्पृशेत् ॥
भोजनं तु न निःशेषं कुर्यात् प्राज्ञः कथंचन ।
अन्यत्र दध्नः क्षिराद् वा क्षौद्रात् सक्तुभ्य एव च ॥
[४२६] इति । न च, “न निन्देयुर् नावशेषयेयुः” इति जमगग्निवचनविरोधः इति वाच्यम्, तस्याधिकावशेषणविषयत्वात् । अत एवोक्तं तेनैव- “अल्पं पुनर् उत्स्रष्टव्यं तस्यासंस्कृतप्रमीतानां भागदेयत्वात्” इति । उच्छिष्टस्यासंस्कृतप्रमीतादिभागधेयत्वं च मनुर् आह ।
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद् धर्भेषु विकिरश् च यः ॥ इति । (म्ध् ३।२४५)
एवं नियमेन भुक्तवत्सु विप्रेषु यत् कर्तव्यं तद् आह प्रचेताः ।
तृप्तान् बुध्वान्नम् आदाय सतिलं पूर्ववज् जपेत् । इति ।
पूर्ववत् सव्याहृतिकां गायत्रीं मधुमतीं च जपेत् इति । तद् आह कात्यायनः- “गायत्रीं मधुमतीं मधुमध्व् इति च जप्त्वा तृप्ताः स्थेति पृच्छति” इति । प्रश्नानन्तरं व्यासः ।
तृप्ताः स्थेति च पृष्टास् ते ब्रूयुस् तृप्ताः स्म इत्य् अथ । इति ।
**अथ ब्राह्मणभोजनानन्त्रकर्तव्यम् **
अनन्तरकर्तव्यम् आह मनुः ।
[४२७] सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरं भुवि ॥ इति । (म्ध् ३।२४४)
सर्ववर्णा व्यञ्जनविशेषा यस्मिंस् तत् सार्ववर्णिकम् । अत्र विशेषम् आह प्रचेताः- “ये अग्नीति भुवि क्षिपेत्” इति । विकिरं दत्वा आचामेत् । अत एव मरीचिः ।
श्राद्धेषु विकिरं दत्वा यो नाचामेन् मतिक्षयात् ।
पितरस् तस्य षण्मासं भवन्त्य् उच्छिष्टभोजिनः ॥ इति ।
अनन्तरं गण्डूषार्थम् उदकं दद्यात् । तथा च मदालसावाक्यम् ।
तद्वद् आचमनार्थाय दद्याद् आपः सकृत् सकृत् । इति । (मापु ३१।५३)
पित्र्यब्राह्मणपूर्वकं हस्तप्रक्षालनाचमनार्थम् उदकं दद्यात् । तद् आह विष्णुः- “उदङ्मुखेष्व् आचमनम् आदौ दद्यात् ततः [४२८] प्राङ्मुखेषु । ततश् च सुप्रोक्षितम् इति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सर्वं कुर्यात्” इति (विध् ७३।२५) । पैतृकब्राह्मणेषु प्रथमं हस्तप्रक्षालनपूर्वकम् आचमनार्थम् उदकं दत्वा पश्चाद् वैश्वदैवैकब्राह्मणेषु दत्वानन्तरं प्रोक्षितम् इति मन्त्रेण श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सर्वम् उपरि कर्मजातं कुर्याद् इत्य् अर्थः ।\
अथ पिण्डनिर्वपणम्
ततः पिण्डनिर्वपणं कुर्यात् । तद् आह याज्ञवल्क्यः ।
सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान् दद्यात् तु पितृयज्ञवत् ॥ इति । (य्ध् १।२४२)
अयम् अर्थः – ब्राह्मणार्थपक्वं तिलमिश्रं सर्वम् अन्नम् उपादाय पिण्डान् कृत्वा उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान् दद्यात् । एतच् च चरुश्रपणाभावे वेदितव्यम् । यदा [४२९] तु चरुश्रपणसद्भावस् तदाग्नौकरणशिष्टचरुशेषेण सह सर्वम् अन्नम् आदाय अग्निसंनिधौ पिण्डान् दद्यात् । तदाह मनुः ।
त्रींस् तु तस्माद् धविःशेषात् पिण्डान् कृत्वा समाहितः ।
औदकेनैव विधिना निर्वपेद् दक्षिणामिखः ॥ इति । (म्ध्३।२१५)
उच्छिष्टसंधिस्वरूपम् आह अत्रिः ।
पितॄणाम् आसनस्थानाद् अग्रतस् त्रिष्व् अरत्निषु ।
उच्छिष्टसंनिधानं तु नोच्छिष्टासनसंनिधौ ॥ इति ।
त्रिष्व् अरत्निष्व् इति उच्छिष्टसंसर्गरहितासन्नदेशोपलक्षणार्थम् । अत एव व्यासः ।
अरत्निमात्रम् उत्सृज्य पिण्डांस् तत्र प्रदापयेत् ।
यत्रोपस्पृशतां वापि प्राप्नुवन्ति न बिन्दवः ॥ इति ।
पिण्डदाने कालम् आह मनुः ।
पिण्डनिर्वपणं केचित् पुरस्ताद् एव कुर्वते । इति । (म्ध् ३।२६१)
भोजनात् पुरस्ताद् अर्चनानन्तरं अग्नौकरणानन्तरं वा पिण्डनिर्वपणं केचिद् इच्छन्ति । अपरे तु भोजनानन्तरम् आचमनाद् अर्वाग् ऊर्ध्वं वा ब्राह्मणविसर्जनात् पश्चाद् वा पिण्डनिर्वपणं क्वचिद् इच्छन्तीति केचिद् इत्य् अनेनावगम्यते । भोजनात् पुरस्ताद् पिण्डनिर्वपणं सपिण्डीकरणात् प्राग् विहितेष्व् अप्रशस्तेषु श्राद्धेषु । सपिण्डीकरणादिप्रशस्तश्राद्धेषु पश्चाद् एव पिण्डनिर्वपणम् । तद् आह लौगाक्षिः ।
[४३०] अप्रशस्तेषु यागेषु पूर्वं पिण्डावनेजनम् ।
भोजनस्य प्रशस्ते तु पश्चाद् एवोपकल्पयेत् ॥ इति ।
आचमनात् प्राग् ऊर्ध्वं वा ब्राह्मणविसर्जनाद् ऊर्ध्वं वा पिण्डनिर्वपणम् इति पक्षाः शाखाभेदेन व्यवस्थिताः । तथा च स्मृत्यन्तरम् ।
मुनिभिर् भिन्नकालेषु पिण्डदानं तु यत् स्मृतम् ।
तत् स्वशाखामतं यत्र तत्र कुर्याद् विचक्षणः ॥ इति ।
तत्र आश्वलायनशाखिनाम् आचमनात् प्राग् ऊर्ध्वं वेति पक्षयोः समत्वेन विकल्पः । तथा च आश्वलायनः- “भुक्तवत्स्व् आचान्तेषु पिण्डान् निदध्यात् । आचान्तेष्व् एके” इति (आश्गृ ४।८।१२–१३) । यस्यां शाखायां कालविशेषो न श्रुतः तत्र प्रयोगसौकर्यार्थम् आचमनाद् ऊर्ध्वं पिण्डनिर्वपणपक्ष एव ग्रहीतव्यः । पिण्डनिर्वपणेतिकर्तव्यता ब्रह्माण्डपुराणे ऽभिहिता ।
सव्योत्तराभ्यां पाणिभ्यां कुर्याद् उल्लखनं द्विजः ।
प्रघर्षणं ततः कुर्यात् श्राद्धकर्मण्य् अतन्द्रितः ॥
खण्डनं पेषणं चैव तथैवोल्लेखनक्रिया ।
वज्रेणाथ कुशैर् वापि उल्लेखेत् तु महीं द्विजः ॥ इति ।
खण्डनं कुशादेश् छेदनम् । पेषणं भूघर्षणम् । वज्रशब्देन स्फ्य उच्यते । उल्लेखनमन्त्रश् च कात्यायनेन दर्शितः- “उल्लिख्यापहता इति” इति । अनन्तरं प्रोक्षयेत्, [४३१] “ताम् अभ्युक्ष्य” इति आश्वलायनस्मरणात् । तत्र कुशान् आस्तृणुयात् । तद् उक्तं ब्रह्माणपुराणे ।
क्षिपेत् कुशांस् तत्र च दक्षिणाग्रान् । इति ।
ततो ऽवनेजनं कुर्यात् । तद् आह सुमन्तुः ।
असाव् अवनेनिङ्क्ष्वेति पुरुषं पुरुषं प्रति ।
त्रिस् त्रिर् एकेन हस्तेन विदधीतावनेजनम् ॥ इति ।
असाव् इति पित्रादीन् नामगोत्राभ्यां संबोध्य एकेन दक्षिणहस्तेन प्रिपुरुषं त्रिस् त्रिर् अवनेजनम् उदकनिर्वपणं कुर्याद् इत्य् अर्थः । अत्र आश्वलायनेनावनेजने मन्त्रान्तरम् उक्तम्- “प्राचीनावीती लेखां त्रिर् उदकेनोपनयेच् छुन्धन्तां पितरः” इत्यादि तद् अविरुद्धम् । शाखाभेदेन व्यवस्थोपपत्तेः । पिण्डदानमन्त्राः कात्यायनेन दर्शिताः- “असाव् एतत् त इति ये चत्वा (?) मन्त्रान्विति (?) चैके” इति । असाव् इत्य् अमुकगोत्रामुकशर्मन्न् इति संबोध्य एतत् ते इति मन्त्रेण पिण्डदानं कुर्यात् । एके ये च त्वाम् अत्रान्विति मन्त्रेण पिण्डदानं कुर्याद् इत्य् आहुः । पिण्डदानं च सव्यं जान्व् आच्य कर्तव्यम् । तद् उक्तं वायुपुराणे ।
मधुसर्पिस्तिलयुतांस् त्रीन् पिण्डान् निर्वपेद् बुधः ।
जानुं कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ (वाय्पु २।१३।२२)
[४३२] इति । पिण्डदानानन्तरकर्तव्यम् आह मनुः ।
न्युप्य पिण्डान् पितृभ्यस् तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल् लेपभागिनाम् ॥ इति । (म्ध् ३।२१६)
तत्र मन्त्रो विष्णुना दर्शितः- “अत्र पितरो मादयध्वं यथाभागम् आवृषायध्वम् इति दर्भमूलेषु करावघर्षणम्” इति । अनन्तरकर्तव्यम् आह कात्यायनः- “अत्र पितर इत्य् उक्त्वोदङ्मुख आतमनाद् आवृत्यामीमदन्त पितर इति जपति” इति (विस्म् ७।२२) । आतमनात् प्राणायामोत्थवायुपीडावधि उदङ्मुख आसीत् । ततो ऽनुच्छ्वसन्न् एव पर्यावृत्त्यामीमदन्तेति मनसा जपित्वोच्छ्वसेत् । अत्र विशेषः कर्मप्रदीपे दर्शितः ।
वामेनावर्तनं केचिद् उदगन्तं प्रचक्षते ।
सव्यं गौतमशाण्डिल्यौ शाण्डिल्यायन एव च ॥
आवृत्य प्राणम् आयम्य पितॄन् ध्यायन् यथार्हतः ।
जपंस् तेनैव चावृत्य ततः प्राणान् प्रमोचयेत् ॥ इति । (क्स्म् २।१७।२१–२२)
अमीमददन्तेत्य् अनुमन्त्रणानन्तरं विष्णुः [४३३]: “अमीमदन्तेत्य् अनुमन्त्र्य शेषवघ्राणं कृत्वा शुन्धन्तां पितर इति पूर्ववद् उदकनिनयनं पिण्डोपरि ततो ऽसाव् अभ्यङ्क्ष्वेत्य् अभ्यञ्जनं दद्याद् असाव् अङ्क्ष्वेत्य् अञ्जनम् अथ वस्त्रम् अभावे दशाम् ऊर्णां वा एतद् वः पितरो वासो मानोतोन्यत् पितरो युङ्ध्वम्” इति (विध् ७३।२६) । तदनन्तरं व्याघ्रः ।
गन्धपुष्पाणि धूपं च दीपं च विनिवेदयेत् ।
एतद् वः पितरो वासो दशां दत्वा पृथक् पृथक् ॥ इति ।
अर्चनानन्तरं मत्स्यः ।
यत् किंचित् पच्यते गेहे भक्ष्यं भोज्यम् अगर्हितम् ।
अनिवेद्य च भोक्तव्यं पिण्डमूले कथंचन ॥ इति । (मत्पु १७।३६)
तदनन्तरं बृहस्पतिः ।
अनभ्यर्च्योदपात्रं तु तेषाम् उपरि निःक्षिपेत् । इति ।
अनन्तरं विष्णुः- “अथैतान् उपतिष्ठेत नमो वः पितर इत्यादिना मनोन्वाहुवा सह इति तृचान्तेनाथैतान् पिण्डांश् चालयेत् परेतन पितर इति” (विध् ७३।२७) [४३४] इति ।
**अथ पिण्डदानानन्तरकृत्यम् **
अनन्तर्कृत्यम् आह आश्वलायनः- “अग्निं प्रत्येयाद् अग्ने तमधाश्चन्न स्तोमैर् इति अग्निम् अग्नौकरणाग्निं गार्हपत्यं यद् अन्तरिक्षं पृथिवीम्” इति । ब्राह्मणहस्तेषु सकृत् सकृत् अपो दद्याद् इत्य् अर्थः । एतद् आचमनात् प्राक् पिण्डदानपक्षे वेदितव्यम् । आचान्तेषु तु पिण्डदानपक्षे आचम्य पिण्डदानं कृत्वा ब्राह्मणहस्तेषूदकं सकृत् सकृद् दद्यात् । कुशाश् च देयाः । पद्मपुराणे ऽपि ।
आचान्तेषूदकं दद्यात् पुष्पाणि सयवानि च । इति ।
अत्र यवग्रहणं तिलोपलक्षणार्थम् । चशब्दः पुनर् अप्य् उदकदानसमुच्चयार्थः । कृतकार्यत्वेन तेषु च यवादिषु कुत्रचित् शुचौ देशे विसृष्टेषु पुनर् उदकादिकं दद्यात् । तथा च मत्स्यः ।
आचान्तेषु पुनर् दद्यात् जलपुष्पाक्षतोदकम् । इति । (मत्पु १६।४७)
अनन्तरकर्तव्यम् आह स एव ।
दत्वाशीः प्रतिगृह्णीयात् द्विजेभ्यः प्राङ्मुखो बुधः ।
अघोराः पितरः सन्तु सन्त्व् इत्य् उक्ते पुनर् द्विजैः ॥
गोत्रं तथा वर्धतां नस् तथेत्य् उक्तश् च तैः पुनः ।
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च ॥
[४३५] श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ।
एताः सत्या आशिषः सन्तु सन्त्व् इत्य् उक्तश् च तैः पुनः ॥ इति ॥ (मत्पु १७।५३–५५)
**अथ स्वस्तिवाचनकम् **
अनन्तरं पात्रचालनं कृत्वा स्वस्तिवाचनं कुर्यात् । अत एव नारायणः ।
अचालयित्वा तत् पात्रं स्वस्ति कुर्वन्ति ये द्विजाः ।
निराशाः पितरस् तेषां शप्त्वा यान्ति यथागतम् ॥ इति ।
पात्रचालने विशेषम् आह जातूकर्ण्यः ।
पात्राणि चालयेत् श्राद्धे स्वयं शिष्यो ऽथ वा सुतः ।
न स्त्रीभिर् न च बालेन नासजात्या कथंचन ॥ इति ।
स्वस्तिवाचनप्रकारम् आह पारस्करः- “स्वस्तीति भगवन् ब्रूहीति वाचनम्” इति । यज्ञोपवीती वैश्वदैविकहस्ते उदकं दत्वा पुरूरवार्द्रवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वस्तीति भगवन् ब्रूहि – इति कर्ता ब्रूयात् । विप्रेण च स्वस्ति इति वक्तव्यम् । पितृब्राह्मणहस्तेष्व् अप्य् एवम् एव । अनन्तरकृत्यम् आह याज्ञवल्क्यः ।
स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च । (य्ध् १।२४३)
[४३६] इति । अक्षय्यम् अस्त्व् इति ब्राह्मणहस्ते जलं दद्याद् इत्य् अर्थः । मार्कण्डेयो ऽपि ।
पितॄणां नामगोत्रेण जलं देयम् अनन्तरम् ।
ब्राह्मणानां द्विजैर् वाच्यम् अक्षय्यम् इदम् अस्त्व् इति ॥ इति ।
हस्तेष्व् इत्य् अध्याहृत्य योजना ॥
अथ दक्षिणादानम्
अनन्तरं दक्षिणां दद्यात् । मनुः ।
स्वस्तिवाचनकं कुर्यात् अक्षय्योदकम् एव च ।
सतिलं नामगोत्रेण दद्याच् छक्त्या च दक्षिणाम् ॥
गोभूहिरण्यवासांसि भव्यानि शयनानि च ।
दद्याद् यद् इष्टं विप्राणाम् आत्मनः पितुर् एव च ॥
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिम् आचरन् । इति ।
अत्र विशेषम् आह पारस्करः- “हिरण्यं विश्वेभ्यो देवेभ्यो रजतं पितृभ्यः । अन्यच् च गो कृष्णाजिनं यावच्छक्यं दद्यात् ।
एकपङ्क्त्युपविष्टानां विप्राणां श्राद्धकर्मणि ।
भक्ष्यं भोज्यं समं देयं दक्षिणां त्व् अनुसारतः” ॥ इति ।
अनुसारत इति निमन्त्रितब्राह्मणविद्यागुणतारतम्येनेत्य् अर्थः । पुत्रुद्देशेन दक्षिणादानं प्राचीनावीतिना कार्यम् । अत एव जमदग्निः ।
[४३७] अपसव्यं तु तत्रापि मत्स्यो भगवान् हि मे मनः ॥ इति ।
तत्रापि दक्षिणादाने ऽपीति । यत् तु तेनैवोक्तम्,
सर्वं कर्मापसव्येन दक्षिणादानवर्जितम् ।
इति, तद् ब्राह्मणोद्देशेन दक्षिणादानपक्षे द्रष्टव्यम् । स च पक्षो देवलेन दर्शितः ।
आचान्तेभ्यो द्विजेभ्यस् तु प्रयच्छेद् अथ दक्षिणाम् । इति ।
ब्राह्मणोद्देशेन दक्षिणादाने क्रमम् आह स एव ।
दक्षिणां पितृविप्रेभ्यो दद्यात् पूर्वं ततो द्वयोः । इति ।
वैश्वदैविकब्राह्मणयोर् इत्य् अर्थः । अत्र पितृविप्रेभ्य इति समभिव्याहाराच् चतुर्थ्यर्थे षष्ठी । अनन्तरं याज्ञवल्क्यः ।
दत्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् ।
वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥
ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् ।
विश्वेदेवाश् च प्रीयन्तां विप्रैश् चोक्तम् इदं जपेत् ॥
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥
इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य प्रमादयेत् ।
वाजे वाजे इति प्रीतः पितृपूर्वं विसर्जयेत् ॥ इति । (य्ध् १।२४४–४७)
[४३८]
**अथ मध्यमपिण्डाशनम् **
अनन्तरं पुत्रार्थि मध्यमपिण्डं पत्न्यै दद्यात् । तथा च वायुपुराणम् ।
पत्न्यै प्रजार्थी दद्यात् तु मध्यमं मन्त्रपूर्वकम् । इति । (वाय्पु २।१४।३१)
मध्यमं पिण्डम् इत्य् अर्थः । तत्प्रकारः । तत्र प्राचीनावीती “अपां त्व् औषधीनां रसं प्राशयामि भूतकृतं गर्भं धत्स्व” इति पत्न्या अञ्जलौ मध्यमपिण्डं प्रयच्छेत् । तत्प्राशनमन्त्रस् तु मत्स्येन दर्शितः ।
आधत्त पितरो गर्भम् अन्तः सन्तानवर्धनम् । इति । (मत्पु १६।५४)
मनुर् अपि ।
पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डं अद्यात् सम्यक् सुतार्थिनी ॥
आयुष्मन्तं सुतं विन्देत् यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं धार्मिकं सात्विकं तथा ॥ (म्ध् ३।२६२–६३)
[४३९] इति । पिण्डप्रदानस्यायोग्यत्वम् आह स एव ।
अप्राप्तयौवने वृद्धे सगर्भे रोगसंभवे ।
बालपुत्रकलत्रे ऽपि न दद्यात् पिण्डम् अञ्जलौ ॥ इति ।
पत्न्या असंनिधानादौ पिण्डप्रतिपत्तिम् आह बृहस्पतिः ।
अन्यदेशगता पत्नी गर्भिणी रोगिणी तथा ।
तदा तं जीर्णवृषभः छागो वा भोक्तुम् अर्हति ॥ इति ।
आपस्तम्बो ऽपि प्रतिपत्त्यन्तरम् आह ।
यदि पत्नी विदेशस्था उच्छिष्टा यदि वा मृता ।
दुरात्मा नानुकूला च तस्य पिण्डस्य का गतिः ॥
आकाशं गमयेत् पिण्डं जलस्थो दक्षिणामुखः ।
पितॄणां स्थानम् आकाशं दक्षिणा दिक् तथैव च ॥ इति ।
यत् तु देवलेनोक्तम्,
ततः कर्मणि निर्वृत्ते तान् पिण्डांस् तदनन्तरम् ।
ब्राह्मणो ऽग्निर् अजो गौर् वा भक्षयेद् अप्सु वा क्षिपेत् ॥
इति, तत् पुत्रार्थित्वाभावविषयम् । तीर्थश्राद्धे पिण्डानाम् अप्स्व् एव प्रक्षेपः । तद् उक्तं विष्णुधर्मोत्तरे ।
तीर्थश्राद्धे सदा पिण्डान् क्षिपेत् तीर्थे समाहितः ।
दक्षिणाभिमुखो भूत्वा पित्र्या दिक् सा प्रकीर्तिता ॥ इति । (विध्पु १।१४१।८)
[४४०]
अथोच्छिष्टमार्जनम्
अनन्तरम् उच्छिष्टं संमार्जयेत् । अत एव याज्ञ्वल्क्यः ।
[प्रक्षिपेत्] सत्सु विप्रेषु द्विजोच्छिष्टं च मार्जयेत् ॥ इति । (य्ध् १।२५७)
अयम् अर्थः – विप्रविसर्जनात् प्राग् उच्छिष्टं न मार्जयेत् । अपि तु तेषु विसर्जितेषु पिण्डप्रतिपत्तौ च कृतायाम् इति । यत् तु व्यासेनोक्तम्,
उच्छिष्टं न प्रमृज्यात् तु यावन् नास्तम् इतो रविः ।
इति, यच् च वसिष्ठेनोक्तम्,
श्राद्धे नोद्वासनीयानि उच्छिष्टान्य् आ दिनक्षयात् ।
च्योतन्ते वै स्वधाकारास् ताः पिबन्त्य् अकृतोदकाः ॥ (वध् ११,२१)
इति, तद् गृहान्तरसंभवविषयम् । अत एव प्रचेताः ।
भृत्यवर्गावृतो भूक्क्ते कव्यशेषं सव्गोत्रजैः ।
आसायं श्राद्धकालायां द्विजोच्छिष्टं न मार्जयेत् ॥ इति ।
अथ यजमानः स्वयं भुञ्जीत
उच्छिष्टमार्जनानन्तरं वैश्वदेवं कृत्वा शेषम् अन्नं ब्राह्मणैः सह भुञ्जीत । तथा च मत्स्यपुराणम् ।
[४४१] ततश् च वैश्वदेवान्ते सभृत्यसुतबान्धवः ।
भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम् ॥ इति । (मत्पु १६।५५)
यदा श्राद्धं निर्वर्त्य वैश्वदेवादिकं क्रियते तदा तच्छेषाद् एव तत् कार्यम् । तद् आह पैठीनसिः ।
श्राद्धं निर्वर्त्य विधिवद् वैश्वदेवादिकं ततः ।
कुर्याद् भिक्षां ततो दद्याद् धन्तकारादिकं तथा ॥ इति ।
आदिशब्देन नित्यश्राद्धं परिगृह्यते । तत इति पितृपाकशेषाद् इत्य् अर्थः । नित्यश्राद्धं पृथक्पाकेन वा कार्यम् । अत एव तद् अधिकृत्य मार्कण्डेयः- “पृथक्पाकेन वेत्य् अन्ये” इति । अत्र नित्यश्राद्धम् अप्य् अनियतम् । तद् आह स एव ।
नित्यक्रियां पितॄणां च केचिद् इच्छन्ति मानवाः ।
न पितॄणां तथैवान्ये शेषं पूर्ववद् आचरेत् ॥ इति ।
यत् तु लौगाक्षिणोक्तम्,
[४४२] पित्रर्थं निर्वपेत् पाकं वैश्वदेवार्थम् एव च ।
वैश्वदेवं न पित्रर्थं न दार्शं वैश्वदैविकम् ॥
इति, तद् आहिताग्निकर्तृकश्राद्धविषयम् । आहिताग्नेः श्राद्धात् प्राग् एव वैश्वदेवस्य तेनैव विहितत्वात् ।
पक्षान्तं कर्म निर्वर्त्य वैश्व्देवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात् ततो ऽन्वाहार्यकं बुधः ॥ इति ।
पक्षान्तं कर्म अग्न्याधानम् । अन्वाहार्यकं दर्शश्राद्धम् । यत् तु पुराणवचनम्,
प्रतिवासरिको होमः श्राद्धादौ क्रियते यदि ।
देवा हव्यं न गृह्णन्ति कव्यं च पितरस् तथा ॥
इति, तत् पितृपाकाद् वैश्वदेवकरणे वेदितव्यम् । अत एव पैठीनसिः ।
पितृपाकात् समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद् भवेच् छ्राद्धं पितॄणां नोपतिष्ठते ॥ इति ।
यदाग्नौकरणानन्तरं विकिरणानन्तरं वा वैश्वदेविकं कर्म क्रियते तदापि पृथक्पाकाद् एव तत् कार्यम् । तच्छेषाद् वैश्वदेवकरणे दोषस्यात्रापि समानत्वात् । अग्नौकरणानन्तरं वैश्वदेवकरणं च स्मृत्यन्तरे ऽभिहितम् ।
वैश्वदेवाहुतीर् अग्नाव् अर्वाग् ब्राह्मणभोजनात् ।
जुहुयाद् भूतयज्ञादि श्राद्धं कृत्वा ततः स्मृतम् ॥ इति ।
यदि पितृपाकशेषाद् वैश्वदेवं यदि वा पाकान्तरात् उभयथापि पितृपाकशेषाद् एव भोजनम् । तद् आह याज्ञवल्क्यः ।
[४४३] प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् । इति । (य्ध् १।२४९)
असति तु पितृशेषे पाकान्तरं कृत्वापि भोक्तव्यम् एव, अभोजनस्य निषिद्धत्वात् । तथा च देवलः ।
श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते ऽथ कदाचन ।
देवा हव्यं न गृह्णन्ति कव्यानि पितरस् तथा ॥ इति ।
यतः पितृशेषभोजनं नित्यम् । अत एवैकादश्यादौ नित्योपवासपक्षे भोजनप्रत्याम्नायः स्मर्यते ।
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्याद् आघ्राय पितृसेवितम् ॥ इति ।
पितृसेवितभोजननियमो ऽनुज्ञापक्ष एव । अत एव शातातपः ।
शेषम् अन्नम् अनुज्ञातं भुञ्जीत तदनन्तरम् ।
इष्टैः सार्धं तु विधिवद् बुद्धिमान् सुसमाहितः ॥ इति ।
भोजनानन्तरं दातृभोक्त्रोर् नियमम् आह बृहस्पतिः ।
तां निशां ब्रह्मचारी स्याच् छ्राद्धकृच् छ्राद्धिकैः सह ।
अन्यथा वर्तमानौ तौ स्यातां निरयगामिनौ ॥ इति ।
मत्स्यपुराणे ऽपि ।
पुनर्भोजनम् अध्वानं यानम् आयासमैथुनम् ।
श्राद्धकृच् छ्राद्धभुक् चैव सर्वम् एतद् विवर्जयेत् ॥
स्वाध्यायं कलहं चैव दिवास्वापं च स्वेच्छया । (मत्पु १६।५६–५७)
[४४४] इति । श्राद्धभोजिनो विशेषम् आह यमः ।
पुनर्भोजनम् अध्वानं भारम् आयासमैथुनम् ।
संध्यां प्रतिग्रहं होमं श्राद्धभुक् त्व् अष्ट वर्जयेत् ॥ इति ।
संध्याहोमयोः प्रतिषेधस् त्व् अकृतप्रायश्चित्तस्य । कृते तु प्रायश्चित्ते कुर्याद् एव । अत एव भविष्यत्पुराणम् ।
दशकृत्वः पिबेच् चापो गायत्र्या श्राद्धभुग् द्विजः ।
ततः संध्याम् उपासीत जपेच् च जुहुयाद् अपि ॥ इति ।
एवमुक्तरीत्या पार्वणं कर्तुम् असमर्थः संकल्पविधिना श्राद्धं कुर्यात् । त्द् उक्तं स्मृत्यन्तरे ।
अङ्गानि पितृयज्ञस्य यदा कर्तुअम् न शक्नुयात् ।
संकल्पश्राद्धम् एवासौ कुर्याद् अर्घादिवर्जितम् ॥ इति ।
अयम् अर्थः – आलस्येन यो ऽग्निं त्यजति स त्यक्ताग्निः । न तस्य श्राद्धे ऽधिकारः । किं तु त्यक्ताग्निव्यतिरिक्तस्य साग्निकस्य । विधुरादेश् च पिण्डोपलक्षितश्राद्धे ऽपि अधिकार उक्तः । यस्माद् अत्यक्तागिनाधिकारिणा श्राद्धम् अवश्यं कर्तव्यं तस्माद् विस्तृते पार्वणविधाव् अशक्तः संकल्पविधानेन कुर्याद् इति । संकल्पविधानलक्षणं स एवाह ।
[४४५] संकल्पं तु यदा कुर्यात् न कुर्यात् पात्रपूरणम् ।
नावाहनाग्नौकरणं पिण्डांश् चैव न दापपेत् ॥ इति ।
उच्छिष्टपिण्डो न दातव्यः,
संकल्पं तु यदा श्राद्धं न कुर्यात् पात्रपूरणम् ।
विकिरश् च दातव्यः * * * * ॥
इति स्मृत्यन्तरात् ॥
अथ प्रत्याब्दिकश्राद्धम्
एवं दर्शे कर्तव्यं पार्वणश्राद्धम् उक्तम् । अथ तद्विकृतिभूतं प्रत्याब्दिकं निरूप्यते । तत्र लौगाक्षिः ।
श्राद्धं कुर्याद् अवश्यं तु प्रमीतपितृकः स्वयम् ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दम् एव च ॥ इति ।
तत्रेतिकर्तव्यताम् आह जातूकर्ण्यः ।
पितुः पितृगणस्थस्य कुर्यात् पार्वणवत् सुतः ।
प्रत्यब्दं प्रतिमासं च विधिर् ज्ञेयः सनातनः ॥ इति ।
पितृगणस्थः सपिण्डीकृतः । तस्य प्रतिसांवत्सरिकम् अनुमासिकं च श्राद्धं पार्वणविधिना कुर्यात् । जमदग्निर् अपि ।
आसाद्य सहपिण्डत्वम् औरसो विधिवत् सुतः ।
कुर्वीत दर्शवच् छ्राद्धं मातापित्रोर् मृते ऽहनि ॥
[४४६] इति ।
ननु – दर्शातिदेशान् मातामहानाम् अपि श्राद्धं प्रसज्येत ।
नायं दोषः, प्रत्याब्दिके षट्पिण्डानां पर्युदस्तत्वात् । तथा च कात्यायनः ।
कर्षूसमन्वितं मुक्त्वा तथाब्दं श्राद्धषोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षड् इति स्थितिः ॥ इति । (क्स्म् ३।२४।१४)
कर्षूसमन्वितं सपिण्डीकरणम् । यत् तु यमेनोक्तम्,
सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथक् कार्यम् एकोद्दिष्टं मृते ऽहनि ॥ इति ।
यच् च मृताहं प्रकृत्य व्यासेनोक्तम्,
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः ।
अकृतं तद् विजानीयाद् भवेच् च पितृघातकः ॥ इति ।
अत्र पार्वणैकोद्दिष्टयोर् विकल्पः । तत्रापि वृद्धाचारतो व्यवस्था । अमावास्यायां प्रेतपक्षे च मृतानां पार्वणं नियतम् । तद् आह शङ्खः ।
अमायां तु क्षयो यस्य प्रेतपक्षे ऽथ वा पुनः ।
पार्वणं तस्य कर्तव्यं नैकोद्दिष्टं कदाचन ॥ इति ।
यतेस् तु न क्वाप्य् एकोद्दिष्टम् । किं तु सर्वत्र पार्वणम् एव । तथा च प्रेचेताः ।
दण्डग्रहणमात्रेण नैव प्रेतो भवेद् यतिः ।
अतः सुतेन कर्तव्यं पार्वणं तस्य सर्वदा ॥ इति ।
अत्र केचित् पार्वणैकोद्दिष्टयोर् अन्यथा व्यवस्थाम् आहुः,
प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजैरसौ ।
कुर्याताम् इतरे कुर्युर् एकोद्दिष्टं सुता दश ॥
[४४७] इति जातूकर्ण्यवचनात् ।
तद् अयुक्तम्,
एकोद्दिष्टं तु कर्तव्यम् औरसेन मृते ऽहनि ।
सपिण्डीकरणाद् ऊर्ध्वं मातापित्रोस् तु पार्वणम् ॥
इति पैठीनसिवचनविरोधात् । जातूकर्ण्यवचनं तु क्षयाहव्यतिरिक्तप्रत्यब्द-कर्तव्याक्षय्यतृतीयादिविषयत्वेनाप्य् उपपद्यते । यत् तु सुमन्तुनोक्तम्,
कुर्याच् च विधिवच् छ्राद्धं पार्वणं यो ऽग्निमान् द्विजः ।
पित्रोर् अनगिमान् धीर एकोद्दिष्टं मृते ऽहनि ॥
इति, तद् अयुक्तम्,
बह्वग्नयस् तु ये विप्रा ये चैकाग्नय एव च ।
तेषां सपिण्डनाद् ऊर्ध्वम् एकोद्दिष्टं न पार्वणम् ॥
इति स्मृत्यन्तरे साग्निकस्याप्य् एकोद्दिष्टविधानात् । एकोद्दिष्टलक्षणम् आह याज्ञवल्क्यः ।
एकोद्दिष्टं देवहीनम् एकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥
उपतिष्ठताम् इत्य् अक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यताम् इति वदेद् ब्रूयुस् ते ऽभिरताः स्म ह ॥ इति । (य्ध् १।२५१–५२)
कात्यायनो ऽपि- “अथैकोद्दिष्टम् एकं पात्रम् एको ऽर्घ्य एकः पिण्डः नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः [४४८] स्वदितम् इति तृप्तिप्रश्नः सुस्वदितम् इत्य् अनुज्ञानम् उपतिष्ठताम् इत्य् अक्षय्यस्थाने ऽभिरम्यताम् इति विसर्गे अभिरताः स्मेत्य् अपरे” इति । तच् चैकोद्दिष्टं त्रिविधम् नवं नवमिश्रं पुराणं चेति । अत्र प्रथमाहाद्येकादशाहान्तविहितं नवश्राद्धम् । तथा च अङ्गिराः ।
प्रथमे ऽह्नि तृतीये ऽह्नि पञ्चमे सप्तमे ऽपि वा ।
नवमैकादशे चैव तन् नवश्राद्धम् उच्यते ॥ इति ।
वसिष्ठो ऽपि ।
सप्तमे ऽह्नि तृतीये ऽह्नि प्रथमे नवमे तथा ।
एकादशे पञ्चमे स्युर् नवश्राद्धानि षट् तथा ॥
केचित् पञ्चैव नवमं भवेद् अन्तरितं यदि ।
एकादशे ऽह्नि तत् कुर्याद् इति स्मृतिकृतो विदुः ॥ इति ।
अत्र पक्षद्वयस्य व्यवस्था शिवस्वामिना दर्शिता ।
नवश्राद्धानि पञ्चाहुर् आश्वलायनशाखिनः ।
आपस्तम्बाः षड् इत्य् आहुर् विभाषा तैत्तिरीयिणाम् ॥ इति ।
वैश्यादीनां विशेषो भविष्यत्पुराणे दर्शितः ।
नव सप्त विशां राज्ञां नवश्राद्धान्य् अनुक्रमात् ।
आद्यन्तयोर् वर्णयोस् तु षड् इत्य् आहुर् महर्षयः ॥
[४४९] इति । षण्णां नवश्राद्धानाम् उपरि कर्तव्यं मासिकं नवमिश्रम् । तथा च आश्वलायनः- “नवमिश्रं षडुत्तरम्” इति । मासिकानाम् उपरि कर्तव्यं प्रत्याब्दिकादि पुराणम् । अत एव हारीतेन प्रायश्चित्तकाण्डे क्रमेण नवमासिकयोः प्रायश्चित्तम् अभिधायोत्तरकालीनं श्राद्धं पुराणशब्देन व्यवहृत्य प्रायश्चित्तं विहितम् ।
चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके ।
एकाहस् तु पुराणेषु प्रायश्चित्तं विधीयते ॥ इति । (हार्स्म् २१।१७)
अथ सपिण्डीकरणम्
इत्थं पार्वणैकोद्दिष्टे अभिहिते । अथोभयात्मकं सपिण्डीकरणम् उच्यते । तत्र लौगाक्षिः ।
श्राद्धानि षोडशापाद्य विदधीत सपिण्डनम् । इति ।
षोडश श्राद्धानि जातूकर्ण्येन दर्शितानि ।
द्वादश प्रतिमास्यानि आद्यषाण्मासिके तथा ।
त्रैपक्षिकाब्दिके चेति श्राद्धान्य् एतानि षोडश ॥ इति ।
अत्राद्यषाण्मासिकाब्दिकशब्दाः ऊनमासिकोनषाण्मासिकोनाब्दिकपराः । द्वादशमासिकानां कालो याज्ञवल्क्येन दर्शितः ।
[४५०] मृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥ इति । (य्ध् १।२५६)
वत्सरं वत्सरपर्यन्तं मासि मासि मृते ऽहनि श्राद्धं कर्तव्यम् । सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं मृते ऽहनि कर्तव्यम् । आद्यं तु मासिकम् एकादशे ऽहनि कर्तव्यम् । ऊनषाण्मासिकादीनां कालम् आह गालवः ।
ऊनषाण्मासिकं षष्ठे मासार्धे ह्य् ऊनमासिकम् ।
तैपक्षिकं त्रिपक्षे स्याद् ऊनाब्दं द्वादशे तथा ॥ इति ।
श्लोकगौतमो ऽपि ।
एकद्वित्रिदिनैर् ऊने त्रिभागेनओन एव वा ।
श्राद्धान्य् ऊनाब्दिनादीनि कुर्याद् इत्य् आह गौतमः ॥ इति । (श्लोग्स्म् ३।२७)
ऊनमासिकस्य कालविकल्पम् आह गोभिलः ।
मरणाद् द्वादशाहे स्यान् मास्य् ऊने वोनमासिकम् । इति ।
ऊनानां वर्ज्यं कालम् आह गार्ग्यः ।
नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे ।
ऊनश्राद्धे न कुर्वीत गृही पुत्रधनक्षयात् ॥ इति ।
मरीचिर् अपि ।
द्विपुष्करे च नन्दासु सिनीवाल्यां भृगोर् दिने ।
चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्करे ॥ इति ।
तिथिवारनक्षत्रविशेषाणां त्रयाणां मेलनं त्रिपुष्करम् । [४५१] द्वयोर् मेलनं द्विपुष्करम् । के ते विशेषाः । द्वितीयासप्तमीद्वादश्यो भद्रातिथयः, भानुभौमशनैश्चरवाराः, पुनर्वसूत्तराफल्गुनीविशाखोत्तराषाढापूर्वाभाद्रपदानक्षत्राणि ।
एवम् एतानि षोडश श्राद्धानि कृत्वा ततः सपिण्डनं विदधीत । तस्य कालम् आह अत्रिः- “अथ सपिण्डीकरणम् । संवत्सरे पूर्णे द्वादशाहे वा” इति । कात्यायनो ऽपि- “अथ सपिण्डीकरणम् । संवत्सरे पूर्णे त्रिपक्षे वा यद् अहर् वा वृद्धिर् आपद्यते” इति । बौधायनो ऽपि- “अथ संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा तृतीये मासि षष्ठे वैकादशे वा द्वादशाहे वा” इति । एकादशाहद्वादशाहतृतीयपक्षतृतीयमासषष्ठमासैकादशमाससंवत्सरान्तशुभागमाः इत्य् अष्टौ कालाः प्रकीर्तिताः । तत्र व्यवस्थाम् आह हारीतः ।
या तु पूर्वम् अमावास्या मृताहाद् दशमी भह्वेत् ।
सपिण्डीकरणं तस्यां कुर्याद् एव सुतो ऽग्निमान् ॥ इति । (हार्स्म् २०।१९)
मृताहाद् ऊर्ध्वदिनम् आरभ्येत्य् अर्थः । कार्ष्णाजिनिर् अपि ।
[४५२] सपिण्डीकरणं कुर्यात् पूर्ववच् चाग्निमान् सुतः ।
परतो दशरात्राच् चेत् कुहूर् अब्दोपरीतरे ॥ इति ।
आहिताग्निनामावास्यायां पिण्डपितृयज्ञस्यावश्यकर्तव्यत्वात् सपिण्डीकरणम् अन्तरेण तदसंभवाच् चैकादशे ऽह्नि दर्शागमे सपिण्डीकरणं कार्यम् । पिण्डपितृयज्ञकर्तव्यता तु श्रूयते- “अमावास्याम् अपराह्णे पिण्डपितृयज्ञेन चरन्ति” इति । सपिण्डीकरणात् पूर्वं पिण्डपितृयज्ञस्यासंभवो गालवेन दर्शितः ।
सपिण्डीकरणात् प्रेते पैतृकं पदम् आस्थिते ।
आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तते ॥ इति ।
दर्शानागमे तु साग्निर् द्वादशे ऽह्नि सपिण्डनं कुर्यात् । तद् उक्तं भविष्यत्पुराणे ।
यजमानो ऽग्निमान् राजन् प्रेतश् चानग्निमान् भवेत् ।
द्वादशाहे भवेत् कार्यं सपिण्डीकरणं सुतैः ॥ इति ।
गोभिलो ऽपि ।
साग्निकस् तु यदा कर्ता प्रेतश् चानग्निमान् भवेत् ।
द्वादशाहे तदा कार्यं सपिण्डीकरणं सुतैः ॥ इति ।
प्रेतस्य साग्नित्वे तृतीयपक्षे सपिण्डीकरणं कार्यम् । तद् आह सुमन्तुः ।
प्रेतश् चेद् आहिताग्निः स्यात् कर्तानग्निर् यदा भवेत् ।
सपिण्डीकरणं तस्य कुर्यात् पक्षे तृतीयके ॥
[४५३] इति । उभयोः साग्निकत्वे द्वादशाहे सपिण्डीकरणं कार्यम् ।
साग्निकस् तु यदा कर्ता प्रेतो वाप्य् अग्निमान् भवेत् ।
द्वादशाहे तदा कार्यं सपिण्डीकरणं पितुः ॥ इति ।
उभयोर् अनग्नित्वे द्वादशाहादयः सप्त कालाः इच्छया विकल्प्यन्ते । तद् उक्तं भविष्यत्पुराणे ।
सपिण्डीकरणं कुर्यात् यजमानस् त्व अनग्निमान् ।
अनाहिताग्नेः प्रेतस्य पूर्णे ऽब्दे भरतर्षभ ॥
द्वादशे ऽहनि षष्ठे वा त्रिपक्षे वा त्रिमासिके ।
एकादशे ऽपि वा मासि मङ्गलं स्याद् उपस्थितम् ॥ इति ।
एतेषु सप्तसु कालेषु द्वादशाहः प्रशस्तः । तद् आह व्याघ्रः ।
आनन्त्यात् कुलधर्माणां पुंसां चैवायुषः क्षयात् ।
अस्थितेश् च शरीरस्य द्वादशाहः प्रशस्यते ॥ इति ।
एतत् सर्वं त्रैवर्णिकविषयम् । शूद्रस्य तु द्वादशाह एव प्रतिनियतः । अत एव सपिण्डीकरणं कर्तव्यम् इत्य् अनुवृत्तौ विष्णुः ।
मन्त्रवर्जं हि शूद्राणां द्वादशे ऽहनि कीर्तितम् । इति ।
यदा संवत्सरपूर्त्तेः प्राग् एवैकादशाहादिषु षोडशश्राद्धानि कृत्वा सपिण्डीकरणं क्रियते तदा पुनर् अपि स्वस्वकाले मासिकादीन्य् आवर्तनीयानि । तद् आह गोभिलः ।
[४५४] यस्य संवत्सराद् अर्वाग् विहिता तु सपिण्डता ।
विधिवत् तानि कुर्वीत पुनः श्राद्धानि षोडश ॥ इति ।
विधिवद् इति यथायोगम् एकोद्दिष्टेन पार्वणेन वा विधिनेत्य् अर्थः । तद् आह पैठीनसिः ।
सपिण्डीकरणाद् अर्वाक् कुर्याच् छ्राद्धानि षोडश ।
एकोद्दिष्टविधानेन कुर्यात् सर्वाणि तानि तु ॥
सपिण्डीकरणाद् ऊर्ध्वं यदा कुर्यात् तदा पुनः ।
प्रत्यब्दं यो यथा कुर्यात् तथा कुर्यात् सदा पुनः ॥ इति ।
आवर्तनं चोर्ध्वभाविनाम् एव नाधोभाविनाम् । तद् आह कार्ष्णाजिनिः ।
अर्वाग् अब्दाद् यत्र यत्र सपिण्डीकरणं कृतम् ।
तदूर्ध्वं मासिकानां स्याद् यथाकालम् अनुष्ठितिः ॥ इति ।
सपिण्डीकरणाद् ऊर्ध्वम् आवर्तनीयानाम् अनुमासिकादीनां वृद्धिप्राप्तौ पुनर् अपकर्षः कर्तव्यः । तद् आह शाठ्यायनिः ।
सपिण्डीकरणाद् अर्वाग् अपकृष्य कृतान्य् अपि ।
पुनर् अप्य् अपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ इति ।
निषेधश् च कात्यायनेनोक्तः ।
निर्वर्त्य वृद्धितन्त्रं तु मासिकानि न तन्त्रयेत् । इति ।
सपिण्डीकरणस्य गौणकालम् आह ऋष्यशृङ्गः ।
सपिण्डीकरणश्राद्धम् उक्तकाले न चेत् कृतम् ।
रौद्रे हस्ते च रोहिण्यां मैत्रभे वा समाचरेत् ॥ इति ।
सपिण्डीकरणेतिकर्तव्यताम् आह याज्ञवल्क्यः ।
[४५५] गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥
ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् ॥ इति । (य्ध् १।२५६, २५४)
कात्यायनो ऽपि- “ततः संवत्सरे पूर्णे चत्वारि पात्राणि सतिलगन्धोदकैः पूरयित्वा त्रीणि पितॄणाम् । एकं प्रेतस्य । प्रेतपात्रं पितृपात्रेष्व् आसिञ्चति । ये समाना इति द्वाभ्याम् । एतेन पिण्डो व्याख्यातः” इति । यदा पिता म्रियते पितामहस् तिष्ठति तदा प्रपितामहादिभिः सह पितुः सापिण्ड्यम् । तद् उक्तं ब्रह्माण्डपुराणे ।
मृते पितरि यस्याथ विद्यते च पितामहः ।
तेन देयास् त्रयः पिण्डाः प्रपितामहपूर्वकाः ॥ इति ।
केचित् तत्र सापिण्ड्यम् एव नाभ्युपगच्छन्ति,
व्युत्क्रमाच् च प्रमीतानां नैव कार्या सपिण्डता ।
इति वचनात् । अपरे पुनर् अस्य वचनस्य मातृपितृभर्तृव्यतिरिक्तविषयत्वं मन्यन्ते । उदाहरन्ति च स्कन्दपुराणवचनम् ।
व्युत्क्रमेण मृतानां च सपिण्डीकृतिर् इष्यते ।
यदि माता यदि पिता भर्ता चैष विधिः स्मृतः ॥
[४५६] इति । अत्र वृद्धाचाराद् व्यवस्था द्रष्टव्या । मातुः सापिण्ड्यं पितामह्यादिभिह् सह कर्तव्यम् । तद् आह शङ्खः ।
मातुः सपिण्डीकरणं कथं कार्यं भवेत् सुतैः ।
पितामह्यादिभिः सार्धं सपिण्डीकरणं स्मृतम् ॥ इति ।
प्रमीतपितृकस्य विकल्पम् आह यमः ।
जीवत्पिता पितामह्या मातुः कुर्यात् सपिण्डताम् ।
प्रमीतपितृकः पित्रा पितामह्याथ वा सुतः ॥ इति ।
पुत्रिकासुतो मातृसपिण्डं मातामहादिभिः सह कुर्यात् । तथा च बौधायनः ।
आदिशेत् प्रथमे पिण्डे मातरं पुत्रिकासुतः ।
द्वितीय पितरं तस्यास् तृतीये च पितामहम् ॥ इति ।
अन्वारोहणे तु भर्त्रैव सापिण्ड्यं नियतम् । तद् आह शातातपः ।
मृता यानुगता नाथं सा तेन सह पिण्डताम् ।
अर्हति स्वर्गवासे ऽपि यावद् आभूतसंप्लवम् ॥ इति ।
यमो ऽपि ।
पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः ।
सामृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ॥ इति ।
अत्रैक्यशब्दः पितामह्यादिविकल्पव्यावृत्त्यर्थः । न त्रिपुरुषव्यावृत्त्यर्थः । सपिण्डीकरणस्य पार्वणैकोद्दिष्टरूपत्वात् । एतत् सर्वं ब्राह्मादिविवाहेषु द्रष्टव्यम् । आसुरादिविवाहे तु चतुर्धा विकल्पः । तत्र पक्षत्रयम् आह शातातपः ।
[४५७] तन्मात्रा तत्पितामह्या तच्छ्वश्र्वा वा सपिण्डनम् ।
आसुरादिविवाहेषु वर्णानां योषितां भवेत् ॥ इति ।
चतुर्थं पक्षम् आह सुमन्तुः ।
पिता पितामहे योज्यः पूर्णे संवत्सरे सुतैः ।
माता मातामहे तद्वद् इत्य् आह भगवान् शिवः ॥ इति ।
मातुः सापिण्ड्ये गोत्रनियमम् आह मार्कण्डेयः ।
ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत् ।
भर्तृगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥
आसुरादिविवाहेषु पितृगोत्रेण धर्मवित् ॥ इति ।
लौगाक्षिर् अपि ।
मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाः ।
कुर्वीत पुत्रिकापुत्र एवम् आह प्रजापतिः ॥ इति ।
पत्न्याः सापिण्ड्यं दर्शयति पैठीनसिः ।
अपुत्रायां मृतायां तु पतिः कुर्यात् सपिण्डनम् ।
श्वश्र्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥ इति ।
पत्युः सापिण्ड्यम् आह लौगाक्षिः ।
[४५८] सर्वाभावे स्वयं पत्न्यः स्वभर्तॄणाम् अमन्त्रकम् ।
सपिण्डीकरणं कुर्युस् ततः पार्वणम् एव च ॥ इति ।
सुमन्तुर् अपि ।
अपुत्रे प्रस्थिते कर्ता नास्ति चेच् छ्राद्धकर्मणि ।
तत्र पत्न्य् अपि कुर्वीत सापिण्ड्यं पार्वणं तथा ॥ इति ।
यत् तु स्मृत्यन्तरम्,
अपुत्रस्य परेतस्य नैव कुर्यात् सपिण्डताम् ।
आशौचम् उदकं पिण्डम् एकोद्दिष्टं न पार्वणम् ॥
अपुत्रा ये मृताः केचित् पुरुषा वा तथा स्त्रियः ।
तेषां सपिण्डनाभावद् एकोद्दिष्टं न पार्वणम् ॥
इति, तत् पुत्रोत्पादनविधिप्रशंसापरतया व्याख्येयम् । यतीनां सापिण्ड्यं निषेधत्य् उशनाः ।
सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः ।
त्रिदण्डग्रहणाद् एव प्रेतत्वं नैव जायते ॥
एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा ।
अहन्य् एकादशे तेषां पार्वणं तु विधीयते ॥ इति । (उश्स्म् ७।१९–२०)
इत्य् उभयात्मकं सपिण्डीकरणं निरूपितम् ॥
अथ पार्वणविकृतिरूपं वृद्धिश्राद्धं निरूप्यते
तत्र याज्ञवल्क्यः ।
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत दधिकर्कन्धुमिश्राः पिण्डा यवैः क्रिया ॥ (य्ध् १।२५०)
[४५९] इति । एवं पार्वणवद् इत्य् अर्थः । तथा च विष्णुधर्मोत्तरे ।
वृद्धौ समर्चयेद् विद्वान् नित्यं नान्दीमुखान् पितॄन् ।
संपादितो विशेषस् तु शेषं पार्वणवद् भवेत् ॥ इति । (विध्पु १।१४२।१५)
पार्वणवद् इत्य् अनेनावाहनत्रिपुरुषोद्देशादयो ऽतिदिश्यन्ते । अयं तु विशेषः संपादितः नान्दीमुखसंज्ञकाः पितरः इति । एतच् च प्रदक्षिणावृद् बदरदध्यादीनां याज्ञवल्क्योक्तानाम् इतरेषां च विशेषाणाम् उपलक्षणम् । ते च विशेषाः कात्यायनेन दर्शिताः ।
आभ्युदयिके श्राद्धे प्रदक्षिणम् उपचारः । पित्र्यमन्त्रवर्जनम् । ऋजवो दर्भाः । यवैस् तिलार्थः । सुसंपन्नम् इति तृप्तिप्रश्नः । सुसंपन्नम् इत्य् अनुज्ञा । दधिबदराक्षतमिश्राः पिण्डाः । नान्दीमुखान् पितॄन् आवाहयिष्ये – इति पृच्छति । नान्दीमुखाः पितरः प्रीयन्ताम् इत्य् अक्षय्यस्थाने । नान्दीमुखान् पितॄन् अर्चयिष्ये – इति पृच्छति । नान्दीमुखाः पितरः पितामहाः प्रपितामहाश् च प्रीयन्ताम् इत्य् अनेन स्वधां कुर्यात् । युग्मान् आशयेत् । इति ।
प्रचेता अपि ।
मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥
[४६०] न जपेत् पैतृकं जप्यं न मांसं तत्र दापयेत् ।
प्राङ्मुखो देवतीर्थेन क्षिप्रं देशविमार्जनम् ॥ इति ।
प्राङ्मुखः पिण्डदानादिकं कुर्याद् इत्य् अध्याहारः । अत एव प्रचेताः ।
अपसव्यं न कुर्वीत न कुर्याद् अप्रदक्षिणम् ।
यथा चोपचरेद् देवान् तथा वृद्धौ पितॄन् अपि ॥
प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धौ सव्येन वाग्यतः । इति ।
पिण्डदाने विशेषम् आह वसिष्ठः ।
प्राङ्मुखो देवतीर्थेन प्राक्कूलेषु कुशेषु च ।
दत्वा पिण्डान् न कुर्वीत पिण्डपात्रम् अधोमुखम् ॥ इति ।
पिण्डदानं न चोच्छिष्टसंनिधौ प्रदद्यात्,
नावाङ्मुखः पिण्डान् वृद्धौ नाम्ना वावाह्य ददति ।
इति शातातपस्मरणात् । नामोच्चारणं च प्रथमपिण्ड एव, न द्वितीये । तद् उक्तं चतुर्विंशतिमते ।
एकं नाम्ना परं तूष्णीं दद्यात् पिण्डान् पृथक् पृथक् । इति ।
एकैकस्मै द्वौ द्वौ पिण्डौ । तत्राद्यं नाम्ना द्वितीयं तूष्णीं दद्याद् इत्य् अर्थः । वृद्धिश्राद्धे पिण्डदानं वैकल्पिकम् । तथा च भविष्यत्पुराणम् ।
[४६१] पिण्डनिर्वपणं कुर्यात् न वा कुर्यान् नराधिप ।
वृद्धिश्राद्धे महाबाहो कुलधर्मान् अवेक्ष्य तु ॥ इति ।
वृद्धिश्राद्धनिमित्तान्य् आह लौगाक्षिः ।
नवान्नचौलगोदाने सोमोपायनसंसवे ।
स्नानाधानविवाहेषु नान्दीश्राद्धं विधीयते ॥ इति ।
कार्ष्णाजिनिर् अपि ।
कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः ।
नामकर्मणि बालानां चूडाकर्मादिके तथा ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखान् पितृगणान् पूजयेत् प्रयतो गृही ॥ इति ।
वृद्धगार्ग्यो ऽपि ।
अग्न्याधानाभिषेकादाव् इष्टापूर्ते स्त्रिया ऋतौ ।
वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथा ॥ इति ।
अथ श्राद्धकर्तृनिरूपणम्
इत्थं श्राद्धानि निरूपितानि । अधुना तत्कर्ता निरूप्यते । तत्र बृहस्पतिः ।
प्रमीतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नतः ।
ज्ञातिबन्धुसुहृच्छिष्यैर् ऋत्विग्भृत्यपुरोहितैः ॥ इति ।
विष्णुपुराणे ऽपि ।
पुत्रः पौत्रः प्रपौत्रो वा तद्वद् वा भ्रातृसन्ततिः ।
[४६२] सपिण्डसन्ततिर् वापि क्रियार्हा नृप जायते ॥ इति । (विपु ३।१३।३०)
तत्र मुख्यानुकल्पौ विविनक्ति शङ्खः ।
पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ।
पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ॥ इति ।
स्मृतिसंग्रहे ऽपि ।
पुत्रः कुर्यात् पितुः श्राद्धं पत्नी तु तदसंनिधौ ।
धनहार्य् अथ दौहित्रस् ततो भ्राता च तत्सुतः ॥
भ्रातुः सहोदरो भ्राता कुर्याद् दाहादि तत्सुतः ।
ततस् एव् असोदरो भ्राता तदभावे तु तत्सुतः ॥ इति ।
पुत्रशब्देन मुख्या गौणाश् च पुत्रा गृह्यन्ते । तेषां सर्वेषाम् अभावे पौत्रः कुर्यात् । तस्याभावे तु पत्नी । अत एव बृहस्पतिना पौत्रस्य पुत्रिकापुत्रसाम्यम् उक्तम् ।
पौत्रो ऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकराव् उभौ ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥ इति ।
न चैतावता तयोः समविकल्पः शङ्कनीयः,
नैव पौत्रेण कर्तव्यं पुत्रवांश् चेत् पितामहः ।
इति कात्यायनस्मरणात् । “पत्न्यभावे तु सोदरः” इत्य् अयं क्रमः पत्न्या दायहरणे द्रष्टव्यः । अन्यथा यो दायहरः स एव कुर्यात् । अत एव विष्णु-आपस्तम्बौ- [४६३] “यश् चार्थहरः स पिण्डदायी” इति (विस्म् १५।४०) । पुत्रः पितृवित्ताभावे ऽपि पिण्डं दद्यात् तदभावे सपिण्डो दद्यात् सपिण्डाभावे समानोदकादयः कुर्युः । तथा च मार्कण्डेयपुराणम् ।
पुत्राभावे सपिण्डास् तु तदभावे सहोदकाः ।
मातुः सपिण्डा ये वा स्युर् ये वा मातुः सहोदकाः ॥
कुर्युर् एनं विधिं सम्यक् अपुत्रस्य सुतासुतः ।
कुर्यान् मातामहायैव पुत्रिकातनयस् तथा ॥
सर्वाभावे स्त्रियः कुर्युः स्वभ्र्तॄणाम् अमन्त्रकम् ।
तदभावे च नृपतिः कारयेत् तस्य रिक्थतः ॥
तज्जातीयैर् नरैः सम्यक् दाहाद्याः सकलाः क्रियाः ।
सर्वेषाम् एव वर्णानां बान्धवो नृपतिर् यतः ॥ इति । (मार्पु ३०।१९–२३)
सर्वाभावे स्त्रियः कुर्युर् इत्य् आसुरादिविवाहोढस्त्रीविषयम् । अतः पुत्राभावे तु पत्नीत्य् अनेन सहाविरोधः, तस्याः पत्नीत्वाभावात् । अत एव शातातपः तस्याः पत्नीत्वं निषेधति ।
क्रयक्रीता तु या नारी न सा पत्न्य् अभिधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः ॥
[४६४] इति । पूर्वमधमोत्तरासु पुत्रादीनां व्यवस्थितम् अधिकारं दर्शयति पराशरो विष्णुपुराणे ।
पूर्वाः क्रिया मध्यमाश् च तथैवोत्तरसंज्ञिताः ।
त्रिप्रकाराः क्रिया ह्य् एतास् तासां भेदं शृणुष्व मे ॥
आ दाहाद् आ दशाहाच् च मध्ये याः स्युः क्रिया मताः ।
ताः पूर्वा मध्यमा मासि मास्य् एकोद्दिष्टसंज्ञिताः ॥
प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अनु ।
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥
पितृमातृसपिण्डैस् तु समानसलिलैस् तथा ।
तत्सङ्घातगतैश् चैव राज्ञा वा धनहारिणा ॥
पूर्वाः क्रिया मध्यमाश् च पुत्राद्यैर् एव चोत्तराः ।
दौहित्रैर् वा नरश्रेष्ठ कार्यास् तत्तनयैस् तथा ॥ इति । (विपु ३।१३।३४–३८)
सपिण्डाद्यैर् अवनिपत्यन्तैः पूर्वाः क्रिया मधमाश् च कर्तव्याः । पुत्राद्यैर् एव भ्रातृसन्तत्यन्तैः दौहित्राद्यैश् चोत्तराः क्रियाः कर्तव्याः । न सपिण्डाद्यैर् अवनिपत्यन्तैर् इत्य् अर्थः । औरसः सुतो ऽनुपनीतो ऽपि दाहादिकाः क्रियाः कुर्यात् । तद् आह सुमन्तुः ।
श्राद्धं कुर्याद् अवश्यं तु प्रमीतपितृको हि यः ।
व्रतस्थो वाव्रतस्थो वा एक एव भवेद् यदि ॥ इति ।
अव्रतस्थो ऽनुपनीतः । तद् आह वृद्धमनुः ।
[४६५] कुर्याद् अनुपनीतो ऽपि श्राद्धम् एको हि यः सुतः ।
पितृयज्ञाहुतिं पाणौ जुहुयाद् ब्राह्मणस्य च ॥ इति ।
अत्र विशेषः प्रचेतसा दर्शितः ।
कृतचूडस् तु कुर्वीत उदकं पिण्डम् एव च ।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥ इति ।
मातापित्रोर् उभयोर् अपि कुर्वीतेत्य् अर्थः । तथा च स्मृत्यन्तरम् ।
कृतचूडो ऽनुपेतस् तु पित्रोः श्राद्धं समाचरेत् ।
उदाहरेत् स्वधाकारं न तु वेदाक्षराण्य् असौ ॥ इति ।
यत् तु मनुनोक्तम्,
न ह्य् अस्मिन् युज्यते कर्म किंचिद् आ मौञ्जिबन्धनात् ।
नाभिव्याहरेद् ब्रह्म स्वधानिनयनाद् ऋते ॥ (म्ध् २।१७१–७२)
इति, तत् वर्षकृतचूडाविषयम् । तथा च सुमन्तुः ।
अनुपेतो ऽपि कुर्वीत मन्त्रवत् पैतृमेधिकम् ।
यद्य् असौ कृतचूडः स्याद् यदि स्याच् च त्रिवत्सरः ॥ इति ।
**अथ मातामहादिश्राद्धाधिकारनिर्णयः **
तत्र व्यासः ।
पितॄन् मातामहांश् चैव द्विजः श्राद्धेन तर्पयेत् ।
अनृणः स्यात् पितॄणां तु ब्रह्मलोकं च गच्छन्ति ॥
[४६६] इति । मातामहानाम् इति बहुवचनं मातुः पितामहप्रपितामहयोर् अपि संग्रहार्थम् । तथा च पुलस्त्यः ।
मातुः पितरम् आरभ्य त्रयो मातामहाः स्मृताः ।
तेषां तु पितृवच् छ्राद्धं कुर्युर् दुहितृसूनवः ॥ इति ।
पितृश्राद्धवन् मातामहश्राद्धम् अपि नित्यम्, अकरणे प्रत्यवायस्मरणात् । तद् उक्तं स्कन्दपुराणे ।
पार्वणं कुरुते यस् तु केवलं पितृहेतुतः ।
मातामह्यं न कुरुते पितृहा स प्रजायते ॥ इति ।
ऋष्यशृङ्गो ऽपि ।
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषान् नरकं व्रजेत् ॥ इति ।
मातामहश्राद्धं क्वचिद् अपवदति कात्यायनः ।
कर्षूसमन्वितं मुक्त्वा तथा श्राद्धं च षोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षड् इत् स्थितिः । इति । (क्स्म् ३।२४।१४)
कर्षूसमन्वितं सपिण्डीकरणश्राद्धम् । षोडशग्रहणम् एकोद्दिष्टोपलक्षणार्थम् । सङ्घातमरणे श्राद्धक्रमम् आह ऋष्यशृङ्गः ।
भवेद् यदि सपिण्डानां युगपन् मरणं तथा ।
संबन्धासत्तिम् आलोच्य तत्क्रमाच् छ्राद्धम् आचरेत् ॥ इति ।
अत्र पत्न्यादिसपिण्डेषु संबन्धासत्तिर् एवं द्रष्टव्या पतिपत्न्योः संबन्धः प्रत्यासन्नः । एकप्रतियोगिकत्वाद् अव्यवधानाच् च । [४६७] पुत्रस्य तु मातापितृद्वयनिरूप्यत्वेन विलम्बितप्रतिपत्तेर् विप्रकृष्टः संबन्धः । भ्रातुस् तु पितृजत्वव्यवधानेन ततो ऽपि विप्रकृष्टः । एवम् अन्यत्रोहनीयम् । पत्न्यादीनां पित्रोश् च सङ्घातमरणे ऋष्यशृङ्गः ।
पत्न्याः पुत्रस्य तत्पुत्रभ्रात्रोस् तत्तनयस्य च ।
स्नुषाश्वश्र्वोश् च पित्रोश् च सङ्घातमरणम् यदि ॥
अर्वाग् अब्दान् मातृपितृपूर्वं सापिण्ड्यम् आचरेत् ॥ इति ।
तत्पुत्रः पुत्रपुत्रः । तत्तनयो भ्रातृतनयः । यत् तु देवलेनोक्तम्,
प्रमीतौ पितरौ यस्य देहस् तस्याशुचिर् भवेत् ।
न दैवं नापि पित्र्यं च यावत् पूर्णो न वत्सरः ॥
इति, तत् पूर्वोक्तपत्न्यादिव्यतिरिक्तसपिण्डविषयम् । अत एव लौगाक्षिः ।
अन्येषां प्रेतकार्याणि महागुरुनिपातने ।
कुर्यात् संवत्सराद् अर्वाक् श्राद्धम् एकं तु वर्जयेत् ॥ इति ।
प्रेतकार्याणि दहनादीन्य् आद्यश्राद्धान्तानि विवक्षितानि,
आद्यं श्राद्धम् अशुद्धो ऽपि कुर्याद् एकादशे ऽहनि ।
इति विशेषस्मरणात् । एकम् इत्य् अन्यद् इत्य् अर्थः । पित्रोः सङ्घातमरणे देवलः ।
[४६८] पित्रोर् उपरमे पुत्राः क्रियाः कुर्युर् द्वयोर् अपि ।
अनुवृत्तौ च चान्येषां सङ्घातमरणे ऽपि वा ॥ इति ।
सहगमनेन पित्रोः सङ्घातमरणे मातुर् अनुगमनेन दिनान्तरमरणे ऽपि तत् तद् द्वादशाहे क्रियां कुर्युः । अन्येषां पित्रोश् च सङ्घातमरणे यथाकालं न कुर्युः । किं तु त्रिपक्ष एव । तद् आह लौगाक्षिः ।
पत्नी पुत्रस् तथा पौत्रो माता तत्पुत्रका अपि ।
पितरौ च यदैकस्मिन् म्रियेरन् वासरे तदा ॥
आद्यम् एकादशे कुर्यात् त्रिपक्षे तु सपिण्डनम् ॥ इति ।
पित्रोर् अनुगमनं विना सङ्घातमरणे मातुर् अनुगमनं विना दिनान्तरमरणे ऽपि मातुस् त्रिपक्षे सपिण्डनं कुर्यात् । तथा च देवलः ।
एकाहमरणे पित्रोर् अन्यस्यान्यदिने मृतौ ।
सपिण्डनं त्रिपक्षे स्याद् अनुयानमृतिं विना ॥ इति ।
मातृपितृश्राद्धद्वयस्य दैवात् कालैक्ये ऽपि पितृश्राद्धं पूर्वं कुर्यात् । तद् आह कार्ष्णाजिनिः ।
पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषिते ऽपि वा ।
पितृपूर्वं सुतः कुर्याद् अन्यत्रासत्तियोग्यतः ॥ इति ।
अन्यत्र मातृपितृव्यतिरिक्तविषये संबन्धासत्तियोग्यतः कुर्याद् इत्य् अर्थः ।
यत् तु प्रचेतसोक्तम्,
[४६९] नैकः श्राद्धद्वयं कुर्यात् समाने ऽहनि कुत्रचित् ।
इति, तदैकस्मिन् श्राद्धे क्रियमाणे दैवतैक्यात् अन्यस्य प्रसङ्गात् यत्र सिद्धिस् तद् विषयम् । यथा नित्यश्राद्धामावास्याश्राद्धयोर् अमावास्याश्राद्धेन नित्यश्राद्धसिद्धिः प्रासङ्गिकी । यथा वा दार्शिकयुगादिश्राद्धयोर् युगादिश्राद्धेनैव दार्शिकसिद्धिः । पित्रोर् मृताहैक्ये सत्य् अन्वाहोहणविषये लौगाक्षिणा विशेष उक्तः ।
मृते ऽहनि समासेन पिण्डनिर्वपणं पृथक् ।
नवश्राद्धं तु दम्पत्योर् अन्वारोहण एव तु ॥ इति ।
पिण्डनिर्वपणं श्राद्धं समासेन पाकाद्यैक्येन पृथगसपत्नीकं कुर्यात् । नवश्राद्धम् अपि तथा कुर्यात् । स्मृत्यन्तरम् अपि ।
एकचित्यां समारूढौ सम्पती निधनं गतौ ।
पृथक् श्राद्धं तथा कुर्याद् ओदनं ह पृथक् पृथक् ॥ इति ।
अनेकमातृभिर् एकचित्याम् अन्वारोहणे कृते पाकाद्यैक्येन प्रथमं पितुस् तदनन्तरं साक्षान् मातुस् ततो ज्येष्ठादिक्रमेण कुर्यात् । तद् आह भृगुः ।
एककाले गतासूनां बहूनाम् अथ वा द्वयोः ।
तन्त्रेण श्रपणं कुर्यात् श्राद्धं कुर्यात् पृथक् पृथक् ॥
पूर्वकस्य मृतस्यादौ द्वितीयस्य जघन्यतः ।
तृतीयस्य ततः कुर्यात् संनिपातेष्व् अयं क्रमः ॥ इति ।
पूर्वकस्य मुख्यस्य पितुः । द्वितीयस्य ततो जघन्याया जनन्याः । तृतीयस्य ततो ऽपि जघन्यतया परमातुर् इत्य् अर्थः । पार्वणैकोद्दिष्टयोः संनिपाते जाबालिः ।
[४७०] यद्य् एकत्र भवेतां चेद् एकोद्दिष्टं च पार्वणम् ।
पार्वणं त्व् अभिनिर्वर्त्य एकोद्दिष्टं समाचरेत् ॥ इति ।
अनेकनिमित्तसंनिपाते निमित्तानुक्रमेण श्राद्धं कुर्यात् । तथा च कात्यायनः ।
द्वे बहूनि निमित्तानि जायेरन्न् एकवासरे ।
नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात् ॥ इति ।
यद्य् अप्य् एकदेवताकश्राद्धद्वयम् एकस्मिन्न् अहनि न युक्तम् एकानुष्ठानेनेतरप्रयोजनस्यापि प्रसङ्गात् सिद्धेः तथापि नैमित्तिकानि वचनबलाद् अनेकान्य् अप्य् अनुष्ठेयानि । तथा च जाबालिः ।
श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने ।
नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमोदयम् ॥ इति ।
नित्यकाम्ययोर् एकदेवताकयोः संनिपाते काम्येनैव नित्यसिद्धिः । तद् उक्तं स्मृतिसंग्रहे ।
काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यति ॥
इति ॥
यत्राशौचविधानजातम् अजहत् स्वार्थप्रयुक्त्या दृशा
प्रोक्तं यत्र च संगृहीतवपुषां श्राद्धं समृद्ध्यै पदम् ।
अध्यायं तदबाह्यनिर्णयविदां तात्तीर्यम् आर्त्तिछिद्रं
सो ऽयं व्याकुरुते स्वतन्त्रमहिमा मन्त्रीश्वरो माधवः ॥
इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्ग-प्रवर्त्तिकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां तृतीयो ऽध्यायः समाप्तः ॥ ३ ॥