ॐ नमः श्रीगणेशाय ।
पराशरसंहिता
माधवाचार्यकृतव्याख्यासहिता
अथ द्वितीयो ऽध्यायः
वागीशाद्यास् सुमनसः सर्वार्थानाम् उपक्रमे ।
यं नत्वा कृतकृत्याः स्युस् तं नमामि गजाननम् ॥
प्रथमे ऽध्याये व्यासेन पृष्टयोर् वर्णचतुष्टयसाधारनासाधारणधर्मयोर् मध्ये साधारण्धर्मं संक्षिप्यासाधारणधर्मः प्रपञ्चितः । अथेदानीं संक्षिप्तः साधारणधर्मो द्वितीये ऽध्याये प्रपञ्च्यते । अथ वा पूर्वाध्याय आमुष्मिकधर्मप्राधान्येन प्रवृत्तः । अयं तु ऐहिकजीवनहेतुधर्मप्राधान्येन प्रवर्तते । तत्रादाव् अध्यायप्रतिपाद्यम् अर्थं प्रतिजानीते ।
अतः परं गृहस्थस्य
कर्माचारं कलौ युगे ।
धर्मं साधारणं शक्त्या
चातुर्वर्ण्याश्रमागतम् ॥ १ ॥
तं प्रवक्ष्याम्य् अहं पूर्वं
पराशरवचो यथा ।
अतः परं चातुर्वर्ण्यसाधारण-धर्म-संक्षेप-कथनाद्
उत्तरस्मिन् काले
स एव विस्तर-कथनस्योचितो ऽवसरः ।
बहु-ग्रन्थ-पाठे शक्ति-रहितान् मन्द-प्रज्ञान् प्रति
संक्षेपेणाभिहिते सति
समर्थानाम् [२] उत्तम-प्रज्ञानां बुद्धि-स्थत्वात्
तान् प्रति विस्तरेण कथयितुम् उचितत्वात् ।
अत एवाहुर् आचार्याः -
संक्षेपविस्तराभ्यां हि
मन्दोत्तमधियां नृणाम् ।
वस्तूच्यमानम् एत्य् अन्तः-
करणं तेन वर्ण्यते ॥
इति ।
यद् वा अतः परं आमुष्मिक-प्रधान-धर्म-कथनाद् अनन्तरम् ।
“षट्-कर्माभिरतः,” “संध्या-स्नानम्” इत्यादिना ह्य्
आमुष्मिक-फले धर्मे ऽभिहिते सति
ऐहिक-फलस्य कृष्यादि-धर्मस्य बुद्धि-स्थत्वात्
तद्-अभिधानस्य युक्तो ऽवसरः ।
वक्ष्यमाणस्य कृष्यादि-धर्मस्य
ब्रह्मचारि-वन-स्थ-यतिष्व् असंभवम् अभिप्रेत्य
तद्-योग्यम् आश्रमिणं दर्शयति गृहस्थस्य – इति।
कृत-त्रेता-द्वापरेषु वैश्यस्यैव कृष्यादाव् अधिकारो
न तु गृहस्थ-मात्रस्य विप्रादेः -
अतो विशिनष्टि कलौ युगे इति ।
कर्मशब्दो लोके व्यापार-मात्रे प्रयुज्यते,
आचार-शब्दश् च धर्म-रूपे शास्त्रीये व्यापारे।
कृष्यादेस् तु युगान्तरेषु कर्मत्वम्,
कलाव् आचारत्वम् इत्य् उभयरूपत्वम् अस्ति ।
तथैवाश्रमान्तरेषु कर्मत्वं
गार्हस्थ्यस्य चोक्ताचारत्वम्
इत्य् उभयरूपता ।
तद्-विवक्षया कर्माचारम् इत्य् उक्तम् ।
कलौ गृहस्थस्य याजनादीनां दुर्लभत्वाज्
जीवनहेतुतया कृष्यादिविधानाद्
आचारत्वम् उपपन्नम् ।
कृष्यादेः साधारण-धर्मत्वम् उपपादयति – चातुर्वर्ण्याश्रमागतम् [३] इति । चतुर्वर्णा एव चातुर्वर्ण्यम् । तच् च सर्वत्र प्रसिद्धम् । आश्रमो गार्हस्थ्यरूपः । सन्ति हि शूद्रस्यापि विवाहपञ्चमहायज्ञादयो गृहस्थधर्माः । एतच् च सर्वम् अस्माभिः उत्तरत्र आश्रमनिरूपणे विस्पष्टम् अभिधास्यते । तस्मिन्न् आश्रमे विधानात् साधारण्यम् । पराशरशब्देनात्रातीतकल्पोत्पन्नो विवक्षितः । एतद् एवाभिव्यञ्जयितुं पूर्वम् इत्य् उक्तम् । पूर्वकल्पसिद्धं पराशरवाक्यं कलिधर्मे कृष्यादौ यथावृत्तं तथैवाहं संप्रवक्ष्यामि । अतः संप्रदायागतत्वात् कृष्यादेर् आचारतायां न विवादः कर्तव्यः इत्य् आशयः । “गुरुतरविषये विनयः कर्तव्यः” इति शिष्टाचारं शिक्षयितुं शक्त्या संप्रवक्ष्यामि इति उक्तम् । न तु कस्मिंश्चिद् धर्मे स्वस्य अशक्तिं द्योतयितुम् । कलिधर्मप्रवीणस्य पराशरस्य तत्राशक्त्यसंभवात् ॥ १ ॥
प्रतिज्ञातं धर्मं दर्शयति ।
षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत् ॥ २ ॥
षट्कर्माणि पूर्वोक्तानि यजनादीनि संध्यादीनि च । तैः सहितो विप्रः शुश्रूषकैः शूद्रैः कृषिं कारयेत् ।
न च [४] याजनादीनां जीवनहेतुत्वात्
किम् अनया कृष्या इति वाच्यम् ।
कलौ जीवन-पर्याप्ततया याजनादीनां दुर्लभत्वात् ।+++(4)+++ यत् तु मनुनोक्तम्,
वैश्यवृत्त्यापि जीवंस् तु
ब्राह्मणः क्षत्रियो ऽपि वा ।
हिंसाप्रायं पराधीनां कृषिं
यत्नेन वर्जयेत् ॥
कृषिं साध्व् इति मन्यन्ते
सा वृत्तिः सद्विगर्हिता ।
भूमिं भूमिशयांश् चैव
हन्ति काष्ठम् अयोमुखम् ॥
इति । (म्ध् १०।८३–८४)
तत् स्वयंकृताभिप्रायम्, अन्यथा मनोः स्ववचनविरोधात् । यतः तेनैव कृषिर् अभ्युपगता ।
उभाभ्याम् अप्य् अजीवंस् तु
कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्षम् आस्थाय
जीवेद् वैश्यस्य जीविकाम् ॥
इति । (म्ध् १०।८२)
ननु – कूमपुराणे स्वयंकृता कृषिर् अभ्युपगता ।
स्वयं वा कर्षणं कुर्याद् वाणिज्यं वा कुसीदकम् ।
कष्टा पापीयसी वृत्तिः कुसीदं तद् विवर्जयेत् ॥ (कूपु १।२।१५।४)
[५] इति ।
तन् न, अस्य वचनस्य कुसीदनिन्दापर्त्वात् । अत एव नारदः ।
आपत्स्व् अपि च कष्टासु ब्राह्मणस्य न वार्धुषम् । इति । (न्स्म् ४।१११)
ननु – बृहस्पतिः स्वयंकर्तृकां कृषिम् अङ्गीचकार ।
कुसीदकृषिवाणिज्यं प्रकुर्वीतास्वयंकृतम् ।
आपत्काले स्वयं कुर्वन्न् ऐनसा (?) युज्यते द्विजः ॥ इति ।
बाढम् । कारयितुम् अप्य् अशक्तस्य तत्कर्तृत्वम्, “आपत्काले” इति विशेषितत्वा ।
ननु – कारयितृत्वम् अप्य् आपद्विषयम् एव, कृषेर् वैश्यधर्मत्वात् विप्रस्य याजनादीनाम् एव मुख्यजीवनहेतुत्वात् । एवं तर्ह्य् आपत्तारतम्येन व्यवस्थास्तु । अल्पापदि कारयितृत्वं अत्यन्तापदि कर्तृत्वम् इति । अथ वा युगभेदेन व्यवस्थाप्यताम् । युगान्तरेषु कारयितृत्वम् आपद्धर्मः कलौ मुख्यधर्मः, प्राधान्येनोपक्रम्य प्रतिपादनात् ।
तत्र कृषौ हलस्य एकस्य बलीवर्दसंख्यानियमम् आह हारीतः ।
अष्टागवं धर्म्यहलं षड्गवं जीवनार्थिनाम् ।
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥ इति । (हार्स्म् ५।१३)
तत्रान्त्यौ पक्षौ हेयौ इतराव् अपि क्रमेण मुख्यानुकल्पौ द्रष्टव्यौ ॥ २ ॥
कृषौ वर्ज्यान् बलीवर्दान् आह ।
[६]
क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत् ।
हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत् ॥ इति ॥ ३ ॥
क्षुधादयस् तत्तल्लिङ्गैर् अवगन्तव्याः । हीनाङ्गः पादविकलः । क्लीबः पुंस्त्वरहितः ॥ ३ ॥
कीदृशस् तर्हि वलीवर्दः कृषौ योज्य इत्य् अत आह ।
स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम् ।
वाहयेद् दिवसस्यार्धं पश्चात् स्नानं समाचरेत् ॥ इति ॥ ४ ॥
स्थिराङ्गः पादादिवैकल्यरहितः । नीरुजो व्याधिरहितः । तृप्तः क्षुत्तृष्णाभ्याम् अपीडितः । सुनर्दो हिसको (?) दृप्तः श्रमरहितः – इति यावत् । षण्ढेति भावप्रधानो निर्देशः । षण्ढत्ववर्जितः पुंस्त्वोपेतः शक्तः – इति यावत् । दिवसस्यार्धं यामद्वयम् । पश्चात् स्नानं समाचरेत् इति बलीवर्दान् स्नापयेद् इत्य् अर्थः । तथा च हारीतः- “स्नापयित्वानडुहो ऽलंकृत्य ब्राह्मणान् भोजयेत्” इति (हार्श्न् ४।१०) । वाहने विशेष आश्वमेधिके दर्शितः ।
[७] वाहयेद् धुंकृतेनैव शाखया वा सपत्रया ।
न दण्डेन न यष्ट्या वा न पाशेन च वा पुनः ॥
न क्षुत्तृष्णाश्रमश्रान्तं वाहयेद् विकलेन्द्रियम् ।
सुतृप्तेषु च भुञ्जीयात् पिबेत् पीतेष् चोदकम् ॥
अह्नः पूर्वं द्वियामं वा धुर्याणां वाहनं स्मृतम् ।
विश्राम्येन् मध्यमे भागे भागे चान्त्ये यथासुखम् ॥
यत्र वा त्वरया कृत्यं संशयो यत्र चाध्वनि ।
वाहयेत् तत्र दुर्यांस् तु न स पापेन लिप्यते ॥
अन्यथा वाहयन् राजन् नियतं याति रौरवम् ।
रुधिरं वाहयेत् तेषां यस् तु मोहान् नराधमः ॥
भ्रूणहत्यासमं पापं तस्य स्यात् पाण्डुनन्दन ॥ इति ॥ ४ ॥
बलीवर्दस्नापनानन्तरं कर्तव्यम् आह ।
[८]
जप्यं देवार्चनं होमं स्वाध्यायं चैवम् अभ्यसेत् ।
एकद्वित्रिचतुर्विप्रान् भोजयेत् स्नातकान् द्विजः ॥ ५ ॥
यथा बलीवर्दश्रान्तिकृतदोषापनयनाय स्नापनम् एवं प्रान्युपघातदोषापनयनाय यथाशक्ति जप्यादीनाम् अन्यतमम् अनुतिष्ठेत् । एकं द्वौ त्रींश् चतुरो वा विप्रान् स्नातकान् यथाशक्ति भोजयेत् । स्नातका नवविधभिक्षुकाः । तद् आह मनुः ।
सान्तानिकं यक्ष्यमाणम् अध्वगं सर्ववेदसम् ।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनम् ॥ इति । (म्ध् ११।१)
सान्तानिकः सन्तानाय विवाहोपयुक्तद्रव्यार्थी । सर्ववेदसः सर्वस्वदक्षिणं यागं कृत्वा निःस्वत्वम् आपन्नो द्रव्यार्थी तम् इत्य् अर्थः । पितृमात्रर्थं पितृमातृशुश्रूषार्थिनम् । स्वाध्यायार्थी स्वाध्यायप्रवचननिर्वाहाय द्रव्यार्थी । स्वाध्यायार्थिसहितः उपतापी स्वाध्यायार्थ्युपतापी तम् इति मध्यमपदलोपी समासः ॥ ५ ॥
कृषौ फलितस्य धान्यस्य विनियोगम् आह ।
[९] स्वयंकृष्टे तथा क्षेत्रे धान्यैश् च स्वयमर्जितौः ।
निर्वपेत् पञ्चयज्ञांश् च क्रतुदीक्षां च कारयेत् ॥ इति ॥ ६ ॥
यानि स्वयंकृष्टे क्षेत्रे फलितानि धान्यानि यानि दासैः कर्षिते क्षेत्रे स्वयमर्जितानि धान्यानि तैः सर्वैः स्मार्तान् पञ्चमहायज्ञान् श्रौतीम् अग्निष्टोमादिक्रतुदीक्षां च कुर्यात् । कारयेद् इति स्वार्थिको णिच् । अथ वा स्वयं महायज्ञान् कुर्वीत । यियक्षुभ्यो धान्यं दत्वा तैः क्रतुदीक्षां च कारयेत् । कूर्मपुराणे ऽप्य् एवं विनियोगो दर्शितः ।
लब्धलाभः पितॄन् देवान् ब्राह्मणांश् चापि पूजयेत् ।
ते तृप्तास् तस्य तद् दोषं शमयन्ति न संशयः ॥ इति । (कूपु १।२।२५।७)
॥ ६ ॥
कृषीवलस्य तिलादिधान्यसंपन्नस्य धनलोभेन प्रसक्तस् तिलादिविक्रयस् तं निवारयति ।
तिला रसा न विक्रेया विक्रेया धान्यतत्समाः ।
विप्रस्यैवंविधा वृत्तिस् तृणकाष्ठादिविक्रयः ॥ इति ॥ ७ ॥
रसाः दधिमधुघृतादयः । यदि धान्यान्तररहितस्य तिलविक्रयम् अन्तरेण जीवनं वा धर्मो वा न सिद्ध्येत् [१०] तदा तिला धान्यान्तरैर् विनिमातव्याः इत्य् अभिप्रेत्य “विक्रेया धान्यतत्समाः” इत्य् उक्तम् । यावद्भिः प्रस्थैस् तिला दत्तास् तावद्भिर् एव धान्यान्तरम् उपादेयं नाधिकम् इत्य् अर्थः । तद् उक्तं नारदेन ।
अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च ।
यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्समाः ॥ इति । (न्स्म् ४।६६)
याज्ञवल्क्यो ऽपि ।
धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः । इति । (य्ध् ३।३९)
तिलन्यायो रसे ऽपि योजनीयः । अत एव मनुः ।
रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।
कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥ इति । (म्ध् १०।९४)
आपस्तम्बो ऽपि- “अन्नेन चान्नस्य मनुष्याणां च मनुष्यैः रसानां च रसैः गन्धानां च गन्धैर् विद्यया च विद्यानाम्” इति (आप्ध् १।७।२०।१५) । रसविनिमये विशेषम् आह वसिष्ठः- [११] “रसा रसैर् महतो हीनतो वा विमातव्याः” इति (वध् २।३७) । अन्नविनिमये विशेषम् आह गौतमः- “समेनासमेन तु पक्वस्य” इति (ग्ध् ७।३) ।
ननु – तिलविक्रयो ऽभ्यनुगतो मनुना ।
कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलान् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥ इति । (म्ध् १०।९०)
अत्र केचिद् आहुः- तद् एतद् अविनियमाभिप्रायम् इति । अपरे तु मन्यन्ते- ऋणापाकरणाद्यावश्यकधर्मार्थे तिलविक्रयो न विरुद्धः । अयम् एव पक्षो युक्तः, वसिष्ठवचनसंवादात्- “कामं वा स्वयं कृष्योत्पाद्य तिलान् विक्रीणीरन्” इति (वध् २।३१) । विनिमयाभिप्राये तु वचनान्तरेण सह पौनरुक्त्यम् अपरिहार्यं स्यात् । यतो मनुनैव वचनान्तरेण “तिला दान्येन तत्समाः” इत् नियमो दर्शितः । यत् त्व् अन्यस्मिन् वचने [१२] अर्थात् तिलविक्रयनिषेधः प्रतिभाति । तथा हि मनु-यमाभ्याम् उपदर्शितम्-
भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ इति । (म्ध् १०।९१)
नायं दोषः, आवश्यकधर्मव्यतिरिक्तविषयत्वात् । यो ऽयं तिलानां धान्यसमत्वेन विनिमयः यश् च तृणादिविक्रयः सेयम् एवंविधा विप्रस्य जीवनार्था वृत्तिः । तथा च नारदः ।
ब्राह्मणस्य तु विक्रेयं शुष्कदारुतृणादि च । इति । (न्स्म् ४।६४)
॥ ७ ॥
इदानीं कृषाव् आनुषङ्गिकस्य पाप्मनः प्रतीकारं वक्तुं प्रथमतस् तं पाप्मानं दर्शयति ।_
ब्राह्मणश् चेत् कृषिं कुर्यात् तन् महादोषम् आप्नुयात् । इति ।
कृषौ हिंसाया अवर्जनीयत्वात् सावधानस्यापि कृषीवलस्य दोषो ऽनुषज्ज्यते इति । अत्र “हिंसाप्रायाम्” इति मनुवचनं पूर्वम् एवोदाहृतम् ।
[१३]
उक्तस्य दोषस्य महत्त्वं विशदयति ।_
संवत्सरेण यत् पापं मत्स्यघाती समाप्नुयात् ॥ ८ ॥
अयोमुखेन काष्ठेन तद् एकाहेन लाङ्गली । इति ।
लोहसहितेन लाङ्गलमुखेन प्राणिनां चित्रवधो भवतीति मत्स्यवधात् पापाधिक्यम्
उक्तम् ॥ ८ ॥
उक्तरीत्या कर्षकमात्रस्य पापप्रसक्तौ तद् वारयितुं विशिनष्टि_ ।
पाशको मत्स्यघाती च व्याधः शाकुनिकस् तथा ॥ ९ ॥
अदाता कर्षकश् चैव सर्वे ते समभागिनः । इति ।
वागुरां प्रसार्य मृगादिग्राही पाशकः । व्याधो मृगवधाजीवः । शाकुनिकः पक्षिघाती । अदाता खले राशिमूलम् उपागतेभ्यो ऽप्रदाता । तेषां सर्वेषां प्रत्यवायः समानः । ततश् च दृष्टान्तत्वेन पाशकादय इह वर्ण्यन्ते । यथा पाशकादीनां पापं महत् एवम् एवादातुः कर्षकस्येत्य् अर्थः ॥ ९ ॥
यदर्थं कृषीवलस्य पाप्मा दर्शितः तम् इदानीं पापपरिहारप्रकारम् आह ।
वृक्षं छित्त्वा महीं भित्त्वा हत्त्वा च कृमि कीटकान् ॥ १० ॥
कर्षकः खलयज्ञेन सर्वपापैः प्रमुच्यते । इति ।
[१४]
छेदनभेदनहननैर् यावन्ति पापानि निष्पद्यन्ते तेषां सर्वेषां खले धान्यदानं प्रतीकारः । तथा च हारीतः ।
भूमिं भित्त्वौषधीश् छित्त्वा हत्त्वा कीटपिपीलिकाः ।
पुनन्ति खलयज्ञेन कर्षका नात्र संशयः ॥
यूपो ऽयं निहितो मध्ये मेढिर् नाम हि कर्षकैः ।
तस्माद् अतन्त्रितोदद्यात् तत्र धान्यार्थदक्षिणाम् ॥ इति ॥ (हार्स्म् ५।१४–१५)
॥ १०॥
खलयज्ञाकरणे प्रत्यवायम् आह ।
यो न दद्याद् द्विजातिभ्यो राशिमूलम् उपागतः ॥ ११ ॥
स चौरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत् । इति ।
कर्षकस्यायं खलयज्ञो नित्यः काम्यश् च – इति वचनद्वयबलाद् अवगम्यते । अकरणे प्रत्यवायात् नित्यत्वं छेदनादिपापनिवर्तकत्वात् काम्यत्वं च । खलयज्ञस्य नित्यत्वं शैवपुराणे दर्शितम् ।
अदत्वा कर्षको देवि यस् तु धान्यं प्रवेशयेत् ।
तस्य तृष्णाभिभूतस्य देवि पापं ब्रवीम्य् अहम् ॥
दिव्यं वर्षसहस्रं तु दुरात्मा कृषिकारकः ।
मरुदेशे भवेद् वृक्षः स पुष्पफलवर्जितः ॥
तस्यान्ते मानुषो भूत्वा कदाचित् कालपर्ययात् ।
दरिद्रो व्याधितो मूर्खः कुलहीनश् च जायते ॥ इति ॥ ११ ॥
[१५]
दातव्यस्य धान्यस्य परिमाणम् आह ।
राज्ञे दत्वा तु षड्भागं देवानां चैकविंशकम् ॥ १२ ॥
विप्राणां त्रिंशकं भागं सर्वपापैः प्रमुच्यते ।
षट्सु भागेष्व् एको भाग षड्भागः । एकविंशतिसंख्याकेषु भागेष्व् अन्यतमो भाग एकविंशकः । तद्वत् त्रिंशकेषु भागेष्व् अन्यतमो भागस् त्रिंशः इति ज्ञेयम् । देववत् पितृभ्यो ऽपि देयम् । तद् उक्तं कूर्मपुराणे ।
देवेभ्यश् च पितृभ्यश् च दद्याद् भागं तु विंशकम् ।
त्रिंशद्भागं तु विप्राणां कृषिं कुर्वन् न दोषभाक् ॥ इति । (कूपु १।२।२५।८)
॥ १२ ॥
विप्रस्य सेतिकर्तव्यां कृषिम् उक्त्वा वर्णान्तराणाम् अपि ताम् आह ।
क्षत्रियो ऽपि कृषिं कृत्वा देवान् विप्रांश् च पूजयेत् ॥ १३ ॥
वैश्यः शूद्रस् तथा कुर्यात् कृषिवाणिज्यशिल्पकम् ।
[१६] इति । यद्य् अपि वैश्यस्य कृषिः पूर्वाध्याये विहिता तथाप्य् अत्र इतिकर्तव्यताविधानाय पुनर् उपन्यासः । तथा कुर्यात् इत्य् अतिदेशेन ब्राह्मणस्य कृषौ विहितेतिकर्तव्यता सर्वाप्य् अत्र विहिता भवति । कृषिवत् वाणिज्यशिल्पयोर् अपि कलौ वर्णचतुष्टयसाधारण्यं दर्शयितुं वाणिज्यशिल्पकम् इत्य् उक्तम् इति ॥ १३ ॥
यदि शूद्रस्यापि कृष्यादिकम् अभ्युपगम्येत तर्हि तेनैव जीवनसिद्धेः कलौ द्विजशुश्रूषा परित्याज्येत्य् आशङ्क्याह ।
विकर्म कुर्वते शूद्रा द्विजशुश्रूषयोज्झिताः ॥ १४ ॥
भवन्त्य् अल्पायुषस् ते वै निरयं यान्त्य् असंशयम् । इति ।
लाभाधिक्येन विशिष्टजीवनहेतुत्वात् कृष्यादिकं विकर्मेत्य् उच्यते । द्विजशुश्रूषया तु जीर्णवस्त्रादिकम् एव लभ्यते इति न लाभाधिक्यम् । अतो ऽधिकलिप्सया कृष्यादिकम् एव कुर्वन्तो यदि द्विजशुश्रूषां परित्यजेयुस् तदा तेषाम् ऐहिकम् आमुष्मिकं च हीयेत ॥ १४ ॥
इत्थं वर्णचतुष्टयसाधारणं जीवनहेतुं धर्मं प्रतिपाद्य निगमयति ।_
चतुर्णाम् अपि वर्णानाम् एष धर्मः सनातनः ॥ १५ ॥
अतीतेष्व् अपि कलियुगेषु विप्रादीनां कृष्यादिकम् अस्तीति सूचयितुम् “सनातनः” इत्य् उक्तम् ।
[१७] यद्य् अपि स्मृत्यन्तरेष्व् इव वात्रापि वर्णधर्मानन्तरम् आश्रमधर्मा वक्तुम् उचिताः तथापि व्यासेनापृष्टत्वाद् आचार्येणोपेक्षिताः । अस्माभिस् तु श्रोतृहितार्थाय ते ऽपि वर्ण्यन्ते । न च – पूर्वाध्याय एव कृतो न वर्णिता – इति मन्तव्यम्, तत्र प्रसङ्गाभावात् । अत्र तु “चातुर्वर्ण्याश्रमागतम्” इत्य् आश्रमशब्देन तेषां बुद्धिस्थत्वाद् अस्ति प्रसङ्गः । ते चाश्रमाश् चतुर्विधाः । तद् उक्तं स्कान्दे ।
ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽथ भिक्षुकः ।
एते क्रमेण विप्राणां चत्वारः पृथग् आश्रमाः ॥ इति ।
मनुर् अपि ।
ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥ इति । (म्ध् ६।८७)
गृहस्थप्रभवाः गृहस्थोपयोगिन इत्य् अर्थः । तत्रोपनयनेन संस्कृतो ब्रह्मचारी, “ब्रह्मचर्यम् आगाम् उप मा नयस्व” इति मन्त्रवर्णात् । ब्रह्मचर्यम् उद्दिश्यागां माम् उपनयस्व इत्य् अर्थः । उपनयनं च गर्भाधानादिषु पठितत्वात् ब्राह्मः संस्कारः । तद् आह हारीतः- “द्विविधो हि संस्कारो भवति ब्राह्मो दैवश् च । गर्भाधानादिस्मार्थो ब्राह्मः । पाकयज्ञा [१८] हविर्यज्ञाः सौमाश् च दैवः । ब्राह्मेण संस्कृत ऋषीणां समानतां सायुज्यं गच्छति । दैवेनोत्तरेण संस्कृतो देवानां समानतां सायुज्यं गच्छति” इति (हार्स्म् ११।१–५) । गर्भादानादयो गौतमेनानुक्रान्ताः ।
गर्भाधानपुंसवनानवलोभनसीमन्तोन्नयनजातकर्मनामकरणान्न-प्राशनचौलोपनयनम् । चत्वरि वेदव्रतानि । स्नानं सहधर्मचारिणीसंयोगः । पञ्चानां यज्ञानाम् अनुष्ठानं देवपितृमनुष्यभूतब्रह्मणाम् एतेषां च । अष्टका पार्वणश्राद्धं श्रावण्याग्रहायणी चैत्र्य् आश्वयुजी चति सप्त पाकयज्ञसंस्थाः । अग्न्याधेयो ऽग्निहोत्रं दर्शपूर्णमासाग्रयणचातुर्मास्यानि निरूढपशुबन्धाः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः । अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो ऽतिरात्राप्तोर्याम इति सप्त सोमसंस्थाः । इत्य् एते चत्वारिंशत् संस्काराः ।
इति (ग्ध् ८।१३–२०) । तत्र गर्भाधानादयश् चूडान्ताः संस्कारा बीजगर्भजनितदोषनिवृत्त्यर्थाः । अत एव याज्ञवल्क्यः चूडान्तान् संस्कारान् निरूप्याह,
[१९] एवम् एनः शमं याति बीजगर्भसमुद्भवम् । इति । (य्ध् १।१३)
अतो ब्रह्मचर्याश्रमात् प्राक् ते वर्ण्यन्ते । तत्र द्विजानां गर्भाधानादयः समन्त्रकाः कार्याः । तद् आय याज्ञवल्क्यः ।
ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।
निषेकादिश्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ इति । (य्ध् १।१०)
गर्भाधानादीनां कालविशेषम् आह स एव ।
गर्भाधानादीनां पुंसः सवनं स्पन्दनात् पुरा ।
षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥
अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठे ऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ इति । (य्ध् १।११–१२)
रजोदर्शनदिवसम् आरभ्य षोडश दिवसा ऋतुः । तद् आह मनुः ।
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिर् इतरे सार्धम् अहोभिः सद्विगर्हितैः ॥
तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या ।
युग्मासु च शेषाः स्युः प्रशस्ता दश रात्रयः ॥
युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥ (म्ध् ३।४६–४८)
[२०] इति । रजोदर्शनम् आरभ्य चत्वार्य् अहानि सद्विगर्हितानि । युग्मासु समासु । संविशेत् गच्छेत् ।
इति गर्भाधानम्
अथ पुंसवनम् । एवम् ऋतौ गर्भाधानं कृत्वा गर्भचलनात् पुरा पुंसवनं कार्यम् । तद् चलनं द्वितीये वा तृतीये वा भवति । तद् आह बैजवापः- “मासि द्वितीये वा तृतीये वा पुरा स्पन्दने” इति । पारस्करो ऽपि- “मासे द्वितीये तृतीये वा । तद् अहः पुंसा नक्षत्रेण चन्द्रमा युज्येत” इति (पार्गृ १।५।१४।२–३) । पुंनक्षत्राणि च हस्तादीनि ज्योतिःशास्त्रे प्रसिद्धानि । अनवलोभनम् आश्वलायनगृह्यपरिशिष्टे ऽवगन्तव्यम् ।
इति पुंसवनम्
[२१]
अथ सीमन्तोन्नयनम् । सीमन्तोन्नयनस्य याज्ञवल्क्योक्तकालाद् अन्ये ऽपि काला मुनिभिः दर्शिताः । तत्र लौगाक्षिः- “तृतीये गर्भमासे सीमन्तोन्नयनं कार्यम्” इति । आपस्तम्बो ऽपि- “प्रथमे गर्भे चतुर्थे मासि” इति । बैजवापो ऽपि- “अथ सीमन्तोन्नयनं चतुर्थे पञ्चमे षष्ठे वापि” इति । साङ्ख्यायनगृह्ये ऽपि- “सप्तमे मासि प्रथमे गर्भे सीमन्तोन्नयनम्” इति । शङ्खो ऽपि- “गर्भस्पन्दने सीमन्तोन्नयनं यावद् वा न प्रसवः” इति । विशेषाश्रवणात् सकृद् एव कर्तव्यं न प्रतिगर्भम् । तथा च हारीतः- “सकृत् संस्कृतसंस्कारा सीमन्तेन द्विजस्त्रियः” इति । देवलो ऽपि ।
या सकृत् संस्कृता नारी सर्वगर्भेषु संस्कृता । इति ।
गर्भसंस्कारपक्षे तु प्रतिगर्भम् आवर्तनीयम् । तथा च विष्णुः ।
[२२] सीमन्तोन्नयनं कर्म न स्त्रीसंस्कार इष्यते ।
केचिद् गर्भस्य संस्काराद् गर्भं गर्भं प्रयुञ्जते ॥
अनयोः पक्षयोर् यथागृह्यं व्यवस्था । अकृतसीमन्तायाः प्रसवे सत्यव्रत आह ।
स्त्री यद्य् अकृतसीमन्ता प्रसूयेत कथंचन ।
गृहीतपुत्रा विधिवत् पुनः संस्कारम् अर्हति ॥ इति ।
इति सीमन्तोन्नयनम्
अथ जातकर्म । तत्र जातकर्मणः कालो याज्ञवल्क्येन दर्शितः- “मास्य् एते जातकर्म च” इति (य्ध् १।११) । एते आगते जात इति यावत् । विष्णुर् अपि ।
जातकर्म ततः कुर्यात् पुत्रे जाते यथोदितम् । इति ।
स्वगृह्ये इति शेषः । तच् च स्नानानन्तरं कार्यम् । तथा च संवर्तः ।
जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । इति ।
जातकर्म च नाभिवर्धनात् प्राग् एव कार्यम् । तथा च मनुः ।
प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते ।
मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ (म्ध् २।२१)
[२३] इति । वर्धनं छेदनम् । न चाशौचशङ्कया कर्मानधिकारः इति वाच्यम्, नाभिच्छेदात् प्राग् आशौचाभावात् । तद् आह जैमिनिः ।
यावन् न छिद्यते नालं तावन् नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥ इति ।
विष्णुधर्मोत्तरे ।
अच्छिन्ननाभ्यां कर्तव्यं श्राद्धं वै पुत्रजन्मनि ।
आशौचोपरमे कार्यम् अथ वा नियतात्मभिः ॥ इति ।
तच् च श्राद्धं हेमद्रव्येण कार्यम् । तद् आह व्यासः ।
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥ इति ।
आदित्यपुराणे पक्वान्ननिषेधो दर्शितः ।
जातश्राद्धे न दद्यात् तु पक्वान्नं ब्राह्मणेष्व् अपि ।
यस्माच् चान्द्रायणात् शुद्धिस् तेषां भवति नान्यथा ॥ इति ।
तस्मिन् दिने यथाशक्ति दानं कर्तव्यम् । तद् उक्तं आदिपुराणे ।
देवाश् च पितरश् चैव पुत्रे जाते द्विजन्मनाम् ।
आयान्ति तस्मात् तद् अहः पुण्यं पूज्यं च सर्वदा ।
तत्र दद्यात् सुवर्णं तु भूमिं गां तुरगं रथम् ॥ इति ।
शङ्खो ऽपि- [२४] “सर्वेषां सकुल्यानां द्विपदचतुष्पदधान्यहिरण्यादि दद्यात्” इति । एतच् चाशौचमध्ये ऽपि कार्यम् ।
आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस् तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्ध्यति ॥ इति ।
इति जातकर्म
अथ नामकरणम् । तस्य च याज्ञवल्क्योक्तकालाद् अन्ये ऽपि काला मनुना दर्शिता ।
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ इति । (म्ध् २।३०)
कारयेद् इति स्वार्थिको णिच्,
ततस् तु नाम कुर्वीत पितैव दशमे ऽहनि । (विपु ३।१०।८)
इति विष्णुपुराणवचनात् । यद् वा पितुर् अभावे अयोग्यत्वे वान्येन कारयेत् । तद् आह शङ्खः- “कुलदेवतानक्षत्राभिसंबन्धं पिता कुर्याद् अन्यो वा कुलवृद्धः” इति । भविष्यत्पुराणे ।
[२५] नामधेयं दशम्यां च केचिद् इच्छन्ति पार्थिव ।
द्वादश्याम् अथ वा रात्रौ मासे पूर्णे तथापरे ॥
अष्टादशे ऽहनि तथा वदन्त्य् अन्ये मनीषिणः ॥ इति ।
गृह्यपरिशिष्टे ऽपि- “जननाद् दशरात्रे व्युष्टे संवत्सरे च नामकरणम्” इति । तत्र स्वगृह्यानुसारेण व्यवस्था । नामधेयस्वरूपं च वर्णभेदेन दर्शयति मनुः ।
मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥
शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥
स्त्रीणां सुखोद्यम् अक्रूरं विस्पष्टार्थं मनोरमम् ।
मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ इति । (म्ध् २।३१–३३)
मङ्गल्यादीनि पूर्वपदानि । शर्मादीन्य् उत्तरपदानि । तथा च नामान्य् एवंविधानि संपद्यन्ते – श्रीशर्मा, विक्रमपालः, माणिक्यश्रेष्ठी, हीनदासः इत्यादि । स्त्रीणां तु श्रीदासीत्यादि । सुखोद्यं वदितुं शक्यम् इत्य् अर्थः । अत्र विशेषम् आह बैजवापः- “पिता नाम करोत्य् एकाक्षरं द्व्यक्षरं त्र्यक्षरं चतुरक्षरम् अपरिमितं वा घोषवद् आद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम्” [२६] इति । अयम् अर्थः – घोषवन्ति यान्य् अक्षराणि वर्गतृतीयचतुर्थानि तान्य् आदौ कार्याणि । अन्तरस्था य-र-ल-वा मध्ये कर्तव्याः । अन्ते ऽभिनिष्ठानो विसर्जनीयः । तथा च – भद्रपालो जातवेदा इत्यादि नाम भवति । यथोक्तनामकरणस्य फलम् आहतुः शङ्खलिखितौ- “एवं कृते नाम्नि शुचि तत्कुलं भवति” इति ।
इति नामकरणम्
अथ निष्क्रमणम् । तत्र मनुः ।
चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात् । इति । (म्ध् २।३४)
तत्र कर्तव्यम् आह यमः ।
ततस् तृतीय कर्तव्यं मासि सूर्यस्य दर्शनम् ।
चतुर्थे मासि कर्तव्यं शुशोश् चन्द्रस्य दर्शनम् ॥ इति ।
लौगाक्षिर् अपि- [२७] “तृतीये ऽर्धमासे दर्शनम् आदित्यस्य” इति । पुराणे ऽपि ।
द्वादशे ऽहनि राजेन्द्र शिशोर् निष्क्रमणं गृहात् ।
चतुर्थे मासि कर्तव्यं तथान्येषां च संमतम् ॥ इति ।
अत्रापि यथास्वशाखं व्यवस्था ।
इति निष्क्रमणम्
अथान्नप्राशनम् । तत्र यमः ।
ततो ऽन्नप्राशनं मासि षष्ठे कार्यं यथाविधि ।
अष्टमे वापि कर्तव्यं यच् चेष्टं मङ्गलं कुल ॥ इति ।
शङ्खो ऽपि- “संवत्सरे ऽन्नप्राशनम् अर्धसंवर्तर इत्य् एके” इति । लौगाक्षिः- “षष्ठे मास्य् अन्नप्राशनं जातेषु दन्तेषु वा” इति । तत्र विशेषम् आह मार्कण्डेयः ।
देवतापुरतस् तस्य धात्र्युत्सङ्गतस्य च ।
अलंकृतस्य दातव्यम् अन्नं पात्रे च काञ्चने ॥
मध्वाज्यकनकोपेतं प्राशयेत् पायसं तु तम् ।
कृतप्राशम् अथोत्सङ्गाद् धात्री बालं समुत्सृजेत् ॥ इति ।
प्राशनानन्तरं जीविकापरिक्षा मार्कण्डेयेन दर्शिता ।
[२८] अग्रतो ऽथ प्रविन्यस्य शिल्पभाण्डानि सर्वशः ।
शस्त्राणि चैव वस्त्राणि ततः पश्येत् तु लक्षणम् ॥
प्रथमं यत् स्पृशेद् बालस् ततो भाण्डं स्वयं तथा ।
जीविका तस्य बालस्य तेनैव तु भविष्यति ॥ इति ।
इत्य् अन्नप्राशनम्
अथ चूडाकरणम् । तत्र यमः ।
ततः संवत्सरे पूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्तव्यं श्रुतिदर्शनात् ॥ इति ।
बैजवापः- “तृतीये वर्षे चूडाकरणम्” इति । शङ्खो ऽपि- “तृतीये वर्षे चूडाकर्म । पञ्चमे वा” इति । लौगाक्षिर् अपि- “तृतीयस्य वर्षस्य भूयिष्ठे गते चूडाकरणम्” इति । शौनको ऽपि- “तृतीये वर्षे चौलं यथाकुलधर्मं वा” इति । तत्र ऋषिभेदेन चूडानियमम् आह लौगाक्षिः- “दक्षिणतः कमुंजा वासिष्ठानाम् । उभयतो ऽत्रिकाश्यपानाम् । [२९] मुण्डा भृगवः । पञ्चचूडा अङ्गिरसः । मण्डनार्थं शिखिनो ऽन्ये । यथाकुलधर्मं वा” इति । कमुंजा केशपङ्क्तिः । अत्र यथास्वशाखं व्यवस्था । अत्र यथोक्ताः चूडाकरणान्ता अनुपनीतविषयाः अतस् तत्प्रतिसङ्गाद् अन्ये ऽपि केचनानुपनीतधर्माः कथ्यन्ते । तत्र गौतमः- “प्राग् उपनयनात् कामचारकामवादभक्षः” इति (ग्ध् २।१) । कामचार इच्छागतिः । कामवादो ऽश्लीलादिभाषणम् । कामभक्षः पर्युषितादिभक्षणम् । विष्णुपुराणे ऽपि ।
भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते ।
अस्मिन् काले न दोषः स्यात् स यावन् नोपनीयते ॥ इति । (विपु ३।१०।९)
एतच् चाभक्ष्यभक्षणं महापातकहेतुद्रव्यव्यतिरिक्तविषयम् । अत एव स्मृत्यन्तरम् ।
स्यात् कामचारभक्ष्योक्तिर् महतः पातकाद् ऋते । इति ।
यथा भक्ष्याभक्ष्यादिनियमो नास्ति एवम् आचमनादिकर्तव्यानन्तरम् अपि नास्ति । तद् आह वसिष्ठः-
[३०] न ह्य् अस्य विद्यते कर्म किंचिद् आ मौञ्जिबन्धनात् ।
वृत्त्या शूद्रसमस् तावद् यावद् वेदे न जायते ॥ इति । (वध २।६)
गौतमो ऽपि- “यथोपपाद्मूत्रपुरीषो भवति । नास्याचमनकल्पो विद्यते न ब्रह्माभिव्याहरेद् अन्यत्र स्वधानिनयनात्” इति (ग्ध् २।४–९) ।
इति चूडाकरणम्
अथाक्षराभ्यासस् तु कर्तव्यः । तद् आह मार्कण्डेयः ।
प्राप्ते तु पञ्चमे वर्षे ह्य् अप्रसुप्ते जनार्दने ।
षष्ठीं प्रतिपदं चैव वर्जयित्वा तथाष्टमीम् ॥
रिक्तां पञ्चदशीं चैव सौरिभौमदिनं तथा ।
एवं सुनिश्चिते काले विद्यारम्भं तु कारयेत् ॥
पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् ।
स्वविद्यासूत्रकारांश् च स्वां विद्यां च विशेषतः ॥
एतेषाम् एव देवानां नाम्ना तु जुहुयात् घृतम् ।
दक्षिणाभिर् द्विजेन्द्राणां कर्तव्यं चापि पूजनम् ॥
[३१] प्राङ्मुखो गुरुर् आसीनो वरुणाभिमुखं शिशुम् ।
अध्यापयेत् तु प्रथमं द्विजातीभिः सुपूजितैः ॥
ततः प्रभृत्य् अनध्यायान् वर्जनीयान् विवर्जयेत् ।
अष्टमीद्वितयं चैव पक्षान्ते च दिनत्रयम् ॥ इति ।
इति गर्भाधानादिचूडान्तसंस्कारप्रकरणम्
अथोपनयनम् । तत्र मनुः ।
गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥
ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनो ऽष्टमे ॥
आ षोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥
अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालम् असंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्य् आर्यविगर्हिताः ॥
नैतैर् अपूतैर् विधिवद् आपय् अपि हि कर्हिचित् ।
ब्राह्मान् यौनांश् च संबन्धान् आचरेत् ब्राह्मणः सह ॥ इति । (म्ध् २।३६–४०)
आपस्तम्बो ऽपि- [३२] “सप्तमे ब्रह्मवर्चसकामम् अष्टम आयुष्कामं नवमे तेजस्कामं दशमे ऽन्नाद्यकामं एकादश इन्द्रियकामं द्वादशे पशुकामम्” इति (आप्ध् १।१।१।२०) । एतच् च वर्णत्रयस्य साधारणम् । वर्णव्यवस्थया कालनियमम् आह स एव- “वसन्ते ब्राह्मणम् उपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्” इति (आप्ध् १।१।१।१९) । वर्णानुपूर्व्येणोपनयनस्येतिकर्तव्यताम् आह मनुः ।
कार्ष्णरौरवबास्तानि चर्मानि ब्रह्मचारिण्ः ।
वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥ इति ।
कार्ष्णादीनि चर्माणि उत्तरीयाणि । तथा च शङ्खः- “कृष्णरुरुबस्ताजिनान्य् उत्तरीयाणि” इति । वसिष्ठो ऽपि- “कृष्णाजिनम् उत्तरीयं ब्राह्मणस्य । रौरवं राजन्यस्य । गव्यं बस्ताजिनं वा वैश्यस्य” इति (वध् ११।६१–६३) । तथा च पारस्करः- “ऐणेयम् अजिनम् उत्तरीयं ब्राह्मणस्य । [३३] रौरवं राजन्यस्य । आजं गव्यं वा वैश्यस्य । सर्वेषां वा गव्यम्” इति (पार्गृ २।५।१७–२०) । शाणादीन्य् उत्तरीयाणि । तत्र आपस्तम्बः- “वासः । शाणक्षौमाजिनानि । काषायं चैके वस्त्रम् उपदिशन्ति ब्राह्मणस्य । माञ्जिष्ठं राजन्यस्य । हारिद्रं वैश्यस्य” इति (आप्ध् १।१।२।३९–४१, ३।१–२) । वसिष्ठः- “शुक्लम् अहतं वासो ब्राह्मणस्य । कार्पासं माञ्जिष्ठं क्षौमं वा क्षत्रियस्य । हारिद्रं कौशेयं वा वैश्यस्य" इति (वध् ११।६४–६६) । मेखलाम् आह मनुः ।
[३४] मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ इति । (म्ध् २।४२)
त्रिवृत् त्रिगुणा । यमो ऽपि ।
विप्रस्य मेखला मौञ्जी ज्या मौर्वी क्षत्रियस्य तु ।
शाणसूत्री तु वैश्यस्य मेखला धर्मतः स्मृताः ॥
एतासाम् अप्य् अभावे तु कुशाश्मन्तकबल्वजैः ।
मेखला त्रिवृता कार्या ग्रन्थिनैकेन वा त्रिवृत् ॥ इति ।
मनुर् अपि ।
मुञ्जाभावे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥ इति । (म्ध् २।४३)
दण्डम् आह मनुः ।
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवोदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ॥ इति । (म्ध् २।४५)
अनुकल्पम् आह यमः ।
एतेषाम् अप्य् अभावे तु सर्वेषां सर्वयज्ञियाः । इति ।
मनुर् दण्डपरिमाणम् आह ।
[३५] केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसंमितो राज्ञः स्यत् तु नासान्तिको विशः ॥ इति । (म्ध् २।४६)
गौतमो ऽपि- “मूर्धललाटनासाग्रप्रमाणाः” इति (ग्ध् १।२८) । दण्डलक्षणम् आह मनुः ।
ऋजवस् ते सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः ॥ इति । (म्ध् २।४७)
गौतमो ऽपि- “अपीडिता यूपवक्त्राः सशल्काः” इति (ग्ध् १।२७) । यज्ञोपवीतम् आह मनुः ।
कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसूत्रकम् ॥ इति । (म्ध् २।४४)
पैठीनसिर् अपि- “कर्पासम् उपवीतं ब्राह्मणस्य । क्षौमेयं राजन्यस्य । आविकं वैश्यस्य” [३६] इति । उक्तोपवीतालाभे यथासंभवं गोवालादिकं ग्राह्यम् । तद् आह देवलः ।
कार्पासक्षौमगोवालशणवल्कतृणादिकम् ।
सदा संभवतः कार्यम् उपवीतं द्विजातिभिः ॥ इति ।
ऋष्यशृङ्गः- “अपि वा वाससी यज्ञोपवीतार्थं कुर्यात् तदभावे त्रिवृता सूत्रेण” इति । तच् च नवतन्तुकं कार्यम् । तद् आह देवलः ।
यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम् । इति ।
कात्यायनः ।
त्रिवृदूर्ध्ववृतं कार्यं तन्तुत्रयम् अधोवृतम् । इति । (क्स्म् १।१।२)
ऊर्ध्ववृतस्य लक्षणम् आह संग्रहकारः ।
करेण दक्षिणेनोर्ध्वं गतेन त्रिगुणीकृतम् ।
वलितं मानवैः सूत्रं शास्त्र ऊर्ध्ववृतं स्मृतम् ॥ इति ।
ऊर्ध्वं गतेन दक्षिणेन करेण यद् वलितं तद् ऊर्ध्ववृतम् इत्य् अर्थः । यज्ञोपवीतप्रयोगम् आह देवलः ।
ग्रामान् निष्क्रम्य संख्याय् षष्णवत्यङ्गुलीषु तत् ।
तावत्त्रिगुणितं सूत्रं प्रक्षाल्याब्लिङ्गकैस् त्रिभिः ॥
देवागारे ऽथ वा गोष्ठे नद्यां वान्यत्र वा शुचौ ।
सावित्र्या त्रिवृतं कुर्यान् नवसूत्रं तु तद् भवेत् ॥
[३७] बिल्वाश्वत्थादियज्ञियवृक्षस्यान्यतमस्य तु ।
बध्नीयात् तत् सजीवं तु पितृभ्यो नम इत्य् अथ ॥
व्यामं नावेक्षितव्यं स्यात् पितॄणां तृप्तिदं हि तत् ।
त्रिस् ताडयेत् करतलं देवानां तृप्तिदं हि तत् ॥
सव्ये मृदं गृहीत्वास्मिन् स्थापयेद् भूर् इति ब्रुवन् ।
पत्रं पुष्पं फलं वापि व्याहृतिभिः प्रतिक्षिपेत् ॥
अभिमन्त्र्याथ भूर् अग्निश् चेति वृत्तत्रं त्रिभिः ।
हरिब्रह्मेश्वरेभ्यश् च प्रणम्यैवधारेयेत् ॥ इति ।
अवधारणमन्त्रस् तु “यज्ञोपवीतम्” इत्यादिः । ग्रन्थिनियमम् आह कात्यायनः ।
त्रिवृतं चोपवीतं स्यात् तस्यैको ग्रन्थिर् इष्यते ॥ इति । (क्स्म् १।१।२)
यज्ञोपवीतपरिमाणम् आह स एव ।
पृष्ठवंशे च नाभ्यां च धृतं यद् विन्दते कटिम् ।
तद् धार्यम् उपवीतं स्यान् नातिलम्बं न चोच्छ्रितम् ॥ इति । (क्स्म् १।१।३)
देवलो ऽपि ।
[३८] स्तनाद् ऊर्ध्वम् अधो नाभेत् कर्तव्यं कदाचन । इति ।
उपवीतसंख्याम् आह भृगुः ।
उपवीतं बटोर् एकं द्वे तथेतरयोः स्मृते ।
एकम् एव यतीनां स्याद् इति शास्त्रस्य निश्चयः ॥ इति ।
एतच् च नित्याभिप्रायम्, बहुषु कामश्रवणात् । तद् आह देवलः- “बहूनि चायुःकामस्य” इति । एतद् उपवीतं सदा धार्यम् । तद् आह भृगुः ।
सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश् च यत् करोति न तत् कृतम् ॥
मन्त्रपूतं स्थितं काये यस्य यज्ञोपवीतकम् ।
नोद्धरेच् च ततः प्राज्ञो यदीच्छेच् छ्रेय आत्मनः ॥
सकृच् चोद्धरणात् तस्य प्रायश्चित्ती भवेद् द्विजः ॥ इति ।
उपवीते विशेषम् आह देवलः ।
सूत्रं सलोमकं चेत् स्यात् ततः कृत्वा विलोमकम् ।
सावित्र्या दशकृत्वो ऽद्भिर् मन्त्रिताभिस् तद् उक्षयेत् ॥
विच्छिन्नं वाप्य् अधो यातं भुक्त्वा निर्मितम् उत्सृजेत् । इति ।
यज्ञोपवीतादीनां त्रोटनादौ प्रतिपत्तिम् आह मनुः ।
मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ (म्ध् २।६४)
[३९] इति । अथ दण्डादिधारणानन्तरम् आदित्योपस्थानं कार्यम् । तथाह मनुः ।
प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद् भैक्ष्यं यथाविधि ॥ इति । (म्ध् २।४८)
दण्डग्रहणान्तेतिकर्तव्यतायुक्तम् उपनयनं प्राप्य गायत्रीमहावाक्यार्थभूतं भास्करम् उपस्थाय सो ऽहम् इत्य् एवं ज्ञात्वा अग्निं परिचर्य भैक्ष्यं चरेद् इत्य् अर्थः । अग्निपरिचर्या मनुना दर्शिता ।
दूराद् आहृत्य समिधः संनिदध्याद् विहायसि ।
सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥ इति । (म्ध् २।१८६)
विहायसि अन्तरिक्षे स्थापयेन् न तु भूमाव् इत्य् अर्थः । समिदाहरणे विशेषम् आह बैजवापः- “पुरास्तमयात् प्राग् उदीचीं दिशं गत्वा अहिंसन्न् अरण्यात् समिधम् आहरेत् । शुष्का ब्रह्मवर्चसकाम आर्द्रास् त्व् अन्नाद्यकाम उभयोर् उभयकामः” इति । समिल्लक्षणम् आह कात्यायनः ।
नाङ्गुष्ठाद् अधिका कार्या समित् स्थूलतया क्वचित् ।
न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥
प्रादेशान् नाधिका न्यूना तथा न स्याद् विशालिका ।
न सपर्णा नातियामा होमेषु तु विजानता ॥
[४०] विशीर्णा विमला ह्रस्वा वक्रा सुसुषिरा कृशा ।
दीर्घा स्थूला गुणैर् दुष्टा कर्मसिद्धिविनाशिका ॥ इति । (क्स्म् १।८।१७–१९)
समिन्नियम उक्तो वायुपुराणे ।
पालाश्यः समिधः कार्याः खादिर्यस् तदलाभतः ।
शमीरोहितकाश्वत्थास् तदलाभे ऽर्कवेतसौ ॥ इति ।
अग्निकार्याकरणे प्रत्यवायम् आह हारीतः ।
पुरा जग्राह वै मृत्युर् हिंसयन् ब्रह्मचारिणम् ।
अग्निस् तं मोचयामास तस्मात् परिचरेच् च तम् ॥ इति । (हार्स्म् २।२७)
भिक्षाचर्याप्रकारम् आह याज्ञवल्क्यः ।
ब्राह्मणेषु चरेद् भैक्ष्यम् अनिन्द्येष्व् आत्मवृत्तये ।
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्ष्यचर्या यथाक्रमम् ॥ इति । (य्ध् १।२९–३०)
ब्राह्मणेष्व् इति स्वस्वजातीयोपलक्षणम् । अत एव व्यासः ।
ब्राह्मणक्षत्रियविशश् चरेयुर् भैक्ष्यम् अन्वहम् ।
सजातीयगृहेष्व् एव सार्ववर्णिकम् एव वा ॥ इति ।
सार्ववर्णिकत्वम् आपद्विषयम् । अत एव भविष्यत्पुराणे दर्शितम् ।
[४१] चतुर्वर्णं चरेद् भैक्ष्यम् अलाभे कुरुनन्दन । इति ।
आपद्य् अपि न शूद्रात् पक्वं गृह्णीयात् । तद् आह अङ्गिराः ।
आमम् एवाददीतान्त्याद् अवृत्ताव् ऐकरात्रिकम् ।
आमं पूयति संसारे धर्म्यं तेभ्यः प्रतिष्ठितम् ॥
तस्माद् आमं ग्रहीतव्यं शूद्राद् अप्य् अङ्गिराब्रवीत् । इति ।
अनापदि स्वजातीयेष्व् अपि प्रशस्तेष्व् एव भैक्ष्यम् आचरेत् । तद् आह मनुः ।
वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्ष्यं गृहेभ्यः प्रयतो ऽन्वहम् ॥ इति । (म्ध् २।१८३)
“आदिमध्यावसानेषु” इति – अयम् अर्थः- भिक्षाप्रवर्तनावाक्ये वर्णक्रमेण आदिमध्यावसानेषु भवच्छब्दः प्रयोज्यः । तथा च मनुः ।
भवत्पूर्वं चरेद् भैक्ष्यम् उपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥ इति । (म्ध् २।४९)
उक्तेषु केषुचिद् अपवादम् आह स एव ।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं परित्यजेत् ॥
[४२] सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् असंभवे ।
नियम्य प्रयतो वाचम् अभिशस्तांस् तु वर्जयेत् ॥ इति । (म्ध् २।१८४–८५)
यत् तु,
मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ॥ (म्ध् २।५०)
इति तद् उपनयनाङ्गभिक्षाविषयम्, अन्यथा दोषश्रवणात् । तद् आह यमः ।
आहारमात्राद् अधिकं न क्वचिद् भैक्ष्यम् आहरेत् ।
युज्यते स्तेयदोषेण कामतो ऽधिकम् आहरन् ॥ इति ।
तच् च भैक्ष्यं गुर्वनुज्ञापुरःसरं भोक्तव्यम् । तद् आहतुर् मनु-यमौ ।
समाहृत्य तु तद् भैक्ष्यं यावद् अर्थम् अमायया ।
निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥ इति । (म्ध् २।५१)
गुर्वसंनिधौ तद्भार्यादिभ्यो निवदयेत् । तद् आह गौतमः- [४३] “निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत । असंनिधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः” इति (ग्ध् २।३५–३६) । गुर्वनुज्ञातं भैक्ष्यं सत्कृत्य भुञ्जीत । तद् आह याज्ञवल्क्यः ।
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशनक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥ इति । (य्ध् १।३१)
सत्कारश् च हारीतेन दर्शितः- “भैक्ष्यम् अवेक्षितं पर्यग्निकृतम् आदित्यदर्शितं गुरवे निवेदितम् अनुज्ञातम् अमृतसंमितं प्राहुः । यद् अश्नाति ब्रह्मचारी ब्रह्मसिद्धिम् अवाप्नोति” इति (हार्स्म् ३।६–७) । गौतमो ऽपि- “सायंप्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत” इति (ग्ध् ९।३०) । एकान्ननिषेस्हम् आह मनुः ।
[४४] भैक्ष्येण वर्तयेन् नित्यं नैकान्नादी भवेद् व्रती ।
भैक्ष्येण व्रतिनो वृत्तिर् उपवाससमा स्मृता ॥
व्रतवद् देवदैवत्ये पित्र्ये कर्मण्य् अथर्षिवत् ।
कामम् अभ्यर्थितो ऽश्नीयात् व्रतम् अस्य न लुप्यते ॥ इति । (म्ध् २।१८८–८९)
अकरणे प्रत्यवायम् आह स एव ।
अकृत्वा भैक्षचरणम् असमिद्ध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ इति । (म्ध् २।१८७)
उपनीतस्य नियमम् आह यमः ।
दण्डं कमण्डलुं वेदं मौञ्जीं च रशनां तथा ।
धारयेद् ब्रह्मचर्यं च भिक्षान्नाशी गुरौ वसन् ॥ इति ।
वेदो दर्भमुष्टिः । गुरौ गुरुगृहे इत्य् अर्थः । यमः ।
मेखलाम् अजिनं दण्डम् उपवीतं च नित्यशः ।
कौपीनं कटिसूत्रं च ब्रह्मचारी च धारयेत् ॥ इति ।
मनुः ।
अग्नीन्धनं भैक्ष्यचर्याम् अधःशय्यां गुरोर् हितम् ।
आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥ इति । (म्ध् २।१०८)
सुमन्तुर् अपि ।
[४५] ब्रह्मचर्यं तपो भैक्ष्यं संध्ययोर् अग्निकर्म च ।
स्वाध्यायं गुरुवृत्तिश् च चर्येयं ब्रह्मचारिणः ॥ इति ।
गुरुवृत्तिप्रकारम् आह व्यासः ।
जघन्यशायी पूर्वं स्याद् उत्थायी गुरुवेश्मनि ।
यच् च शिष्येण कर्तव्यं यच् च दासेन वा पुनः ॥
कृतम् इत्य् एव तत् सर्वं कृत्वा तिष्ठेत् तु पार्श्वतः ।
किंकरः सर्वकारी च सर्वकर्मसु कोविदः ॥
अभुक्तवति नाश्नीयाद् अपीतवति नो पिबेत् ।
न तिष्ठति तथासीत नासुप्ते प्रस्वपेत् तथा ॥ इति ।
विश्वामित्रः ।
तद्भार्यापुत्रयोश् चैव वृद्धानां धर्मशालिनाम् ।
शुश्रुषा सर्वदा कार्या प्रणामादिभिर् एव च ॥ इति ।
वर्ज्यान् आह याज्ञवल्क्यः ।
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरीवादादि वर्जयेत् ॥ इति । (य्ध् १।३३)
मनुर् अपि ।
वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥
[४६] अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥
द्यूतं च जनवादं च परीवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च ॥
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ॥ इति । (म्ध्२।१७७–८०)
यमः ।
खट्वासनं च शयनं वर्जयेद् दन्तधावनम् ।
स्वपेद् एकः कुशेष्व् एव न रेतः स्कन्दयेत् शुचिः ॥ इति ।
कूर्मपुराणे ।
नादर्शं वै समीक्षेत नाचरेद् दन्तधावनम् ।
गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ॥ इति । कूपु १।२।१४।२०–२१)
आपस्तम्बो ऽपि- “पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोक्तव्यम्” इति (आप्ध् १।१।४।११) । गुरुपुत्राद्युच्छिष्टं तु न भोक्तव्यम् । तद् आह मनुः ।
[४७] उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ इति । (म्ध् २।२०९, २११)
ब्रह्मचर्यकालावधिम् आह याज्ञवल्क्यः ।
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे ॥ इति । (य्ध् १।३६)
केशान्तः गोदानाख्यं कर्म । तच् च षडशे वर्षे कार्यम् । तद् आह मनुः ।
केशान्तः षडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ इति । (म्ध् २।६५)
यमः ।
वसेद् द्वादश वर्षाणि चतुर्विंशतिम् एव वा ।
षट्त्रिंशतं वा वर्षाणि प्रतिवेदं व्रतं चरेत् ॥ इति ।
एतत् त्रिवेदग्रहणाभिप्रायम् । अत एव मनुः ।
षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥ इति । (म्ध् ३।१)
एवमुक्तलक्षणो ब्रह्मचारी द्विविधः । उपकुर्वाणको [४८] नैष्ठिकश् च । उपकुर्वानकस्योक्ता धर्माः । नैष्ठिकस्योच्यन्ते । तत्राह याज्ञवल्क्यः ।
नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ ।
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥ इति । (य्ध् १।४९)
मनुर् अपि ।
यदि त्व् आत्यन्तिको वासो रोचेतास्य गुरोः कुले ।
युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ॥
एतेष्व् अविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥ इति । (म्ध् २।२४३–४८)
एतच् च सद्वृत्तब्राह्मणगुर्वादिविषयम् । अन्यथा दोषः । तद् उक्तं तेनैव ।
नाब्राहणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने काङ्क्षन् गतिम् उत्तमाम् ॥ (म्ध् २।२४२)
[४९] इति । वसिष्ठो ऽपि-
ब्रह्मचार्य् आचार्यं परिचरेद् आ शरीरविमोक्षणात् । आचार्ये च प्रेते ऽग्निं परिचरेत् । संयतवाक् । चतुर्थषष्ठाष्तमकालभोजी । भैक्ष्यम् आचरेत् । गुर्वधीनः । जटिलः शिखाजटो वा । गुरुं गच्छन्तम् अनुगच्छन्न् आसीनं चेत् तिष्ठन् शयानं चेद् आसीन उपासीत । आहूताध्यायी । सर्वं लब्धं निवेद्य तदनुज्ञया बुञ्जीत । खट्वाशयनदन्तधावनप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी । स्थानासनशीलस् त्रिर् अह्नो ऽभ्युपेयाद् अपः — इति (वध् ७।४–१७) ।
अहनि त्रिषवणस्व्नायी स्याद् इत्य् अर्थः । अग्निपरिचर्या हारीत-शङ्खलिखित-यमैर् निरूपिता-
यज्ञियाः समिध आहृत्य संमार्जनोपलेपनोद्व्बोधनसमूहनसमिन्धन-पर्यग्निकरणपरिक्रमणोपस्थान**[५०]** होमस्तोत्रनमस्कारादिभिर् अग्निं परिचरेत् । नाग्निम् अधितिष्ठेत् । न पद्भ्यां कर्षेत् । न मुखेनोपधमेत् । नापश् चाग्निं च युगपद् धारयेत् । नाजीर्णभुक्तो नोच्छिष्टो वाभ्यादध्यात् । विविधैर् हविर्विशेषैर् आग्नेयैर् अहर् अहर् अग्निं समिन्धेत् । आमन्त्र्य गच्छेत् । आहृत्य निवेदयेत् तन्मनाः । शरीरोपरमान्ते ब्रह्मणः सायुज्यं गच्छति – इति (हार्स्म् ३।५–१४)
एवं कुर्वतः फलम् आह याज्ञवल्क्यः ।
अनेन विधिना देहं सादयन् विजितेन्द्रियः ।
ब्रह्मलोकम् अवाप्नोति न चेह जायते पुनः ॥ इति । (य्ध् १।५०)
मनुर् अपि ।
आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम् ।
स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ इति । (म्ध् २।२४४)
ननु – नैष्ठिकब्रह्मचर्याङ्गीकारे गार्हस्थ्यं निर्विषयं स्यात् ।
तन् न, गार्हस्थ्यस्य रागिविषयत्वात् । तद् आह जाबालिः- [५१] “यदि गृहम् एव कामयेत् तदा यावज्जीवम् अग्निहोत्रं जुहुयात्” इति ।
अत्र केचित् नैष्ठिकब्रह्मचर्यं कुब्जादिविषयं मन्वाना गार्हस्थ्यस्य तदितरविषयताम् आहुः । उदाहरन्ति च तत्र विष्णुवचनम् ।
कुब्जवामनजात्यन्धक्लीबपङ्ग्वार्त्तरोगिणाम् ।
व्रतचर्या भवेत् तेषां यावज्जीवम् असंशयम् ॥ इति ।
तन् न, नैष्ठिकब्रह्मचर्यस्य कुब्जादिष्व् एव नियतत्वे समर्थं प्रत्यैच्छिकत्वम् उच्यमानं विरुध्येत । ऐच्छिकत्वं च वसिष्ठेन दर्शितम्- “चत्वार आश्रमाः ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः । तेषां वेदम् अधीत्य वेदौ वेदान् वाविशीर्णब्रह्मचर्यो यम् इच्छेत् तम् आवसेत्” इति (वध् ७।१–३) । भविष्यत्पुराणे ऽपि ।
गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम् ।
ब्रह्मचर्येण वा कालं नयेत् संकल्पपूर्वकम् ॥
वैखानसो वापि भवेत् परिव्राड् अथ वेच्छया ।
[५२] इति । तस्मात् रागिविषयत्वेनैव गार्हस्थ्यं व्यवस्थापनीयम् इति ।
इति ब्रह्मचारिप्रकरणम्
अथ गृहस्थाश्रमं निरूपयितुं तदधिकारहेतु स्नानम् आदौ निरूप्यते । तत्र याज्ञवल्क्यः ।
गुरवे तु वरं दत्वा स्नायीत तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥ इति । (य्ध् १।५१)
तत्र दातव्यो वरो मनुना दर्शितः ।
न पूर्वं गुरवे किंचिद् उपकुर्वीत धर्मवित् ।
स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥
क्षेत्रं हिरण्यं गाम् अश्वं छत्रोपनहम् आसनम् ।
धान्यं वासांसि शाकं वा गुरवे प्रीतिम् आवहेत् ॥ इति । (म्ध् २।२४५–४६)
अयं च वरो गुरुप्रीत्यर्थो न तु विद्यानिष्क्रयार्थः, वेदविद्यार्हस्य मूल्यस्यासंभवात् । तथा च छदोगश्रुतिः- “यद्य् अप्य् अस्मा इमाम् अद्भिः परिगृहीतां धनस्य पूर्णां दद्याद् एतद् एव ततो भूयः” इति (छु ३।११।६) । तापनीयश्रुतिर् अपि [५३]: “सप्तद्वीपवती भूमिर् दक्षिणार्थं न कल्पते” इति (नृउता ५।२) । हारीतस्मृतिर् अपि ।
एकम् अप्य् अक्षरं यस् तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद् द्रव्यं यद् दत्वा त्व् अनृणी भवेत् ॥ इति । (हार्स्म् २।२१)
“वा वेदं व्रतानि” इत्य् अनेन स्नातकत्रैविध्यं दर्शितम् । तत्र वेदमात्रपरिसमापक एकः । व्रतमात्रपरिसमापको द्वितीयः । उभयपरिसमापकस् तृतीयः । व्रतशब्देनात्र गृह्यप्रसिद्धान्य् उपनयनव्रतसावित्रीव्रतवेदव्रतानि विवक्षितानि । स्नातकत्रैविध्यं हारीतेनोक्तम्- “त्रयः स्नातका भवन्ति । विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातकः” इति (ह्श्र्स्म् ४।१–२) । वेदं पारं नीत्वेत्य् अत्रार्थावगतिर् अपि विवक्षिता । अत एव कूर्मपुराणे ।
[५४] वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमाः ॥ इति । (कूपु १।२।१५।१)
स्नानप्रकारश् च गृह्ये प्रसिद्धः । स्नातकधर्माः कूर्मपुराणे दर्शिताः ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ।
छत्रं चोष्णीषम् अमलं पादुके चाप्य् उपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥
स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं च धारयेत् ॥
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेत् तु विभवे सति ॥
न रक्तम् उल्बणं चान्यधृतं वासो न कन्थिकाम् ॥ इति । (कूपु १।२।१५।३–७)
इति स्नातकप्रकरणम्
अथ विवाहः । तत्र मनुः ।
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ इति । (म्ध् ३।४)
याज्ञवल्क्यो ऽपि ।
[५५] अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ।
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥
अरोगिणीं भ्रातृमतीम् असमानार्षगोत्रजाम् ॥ इति । (य्ध् १।५२–५३)
लक्षण्यां बाह्याभ्यन्तरलक्षणयुक्ताम् । बाह्यानि लक्षणानि मनुना दर्शितानि ।
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥ इति । (म्ध् ३।१०)
वर्ज्याम् आह स एव ।
नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ इति । (म्ध् ३।८–९)
कपिला रक्ततण्डुलवर्णा । पिङ्गला अग्निवर्णा । अन्त्येति म्लेच्छनाम्नी । विष्णुपुराणे ऽपि ।
न श्मश्रुव्यञ्जनवती न चैव पुरुषाकृतिम् ।
न घर्घरस्वरां क्षामां तथा काकस्वरां न च ॥
नानिबद्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेद् बुधः ।
यस्याश् च रोमशे जङ्घे गुल्फौ यस्यास् तथोन्नतौ
[५६] गण्डयोः कूपकौ यस्या हसन्त्यास् तां च नोद्वहेत् ।
नातिरूक्षच्छविं पाण्डुकरजाम् अरुणेक्षणाम् ॥
आपीनहस्तपादां च न कन्याम् उद्वहेद् बुधः ।
न वामनां नातिदीर्घां नोद्वहेत् सङ्गतभ्रुवम् ॥
न चातिच्छिद्रदशनां न करालमुखीं नरः ॥ इति । (विपु ३।१०।१८–२२)
आन्तराणि तु लक्षणान्य् आश्वलायनगृह्ये ऽभिहितानि ।
दुर्विज्ञेयानि लक्षणानीति । अष्टौ पिण्डान् कृत्वा – ऋतम् अग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यद् इयं कुमार्य् अभिजाता तद् इयम् इह प्रतिपद्यतां यत् सत्यं तद् दृश्यताम् – इति पिण्डान् अभिमन्त्र्य कुमारीं ब्रूयाद् एषाम् एकं गृहाणेति । क्षेत्राच् चेद् उभयतः सस्याद् गृह्णीयाद् अन्नवत्य् अस्याः प्रजा भविष्यतीति विद्याद् । गोष्ठात् पशुमती । वेदिपुरीषाद् ब्रह्मवर्चस्विनी । अविदासिनो ह्रदात् [५७] सर्वसंपन्ना । देवनात् कितवी । चतुष्पथाद् विप्रव्राजिनी । ईरणाद् अधन्या । श्मशानात् पतिघ्नी” इति (आश्गृ १।५।४–६)
विप्रव्राजिनी विविधं प्रकर्षेण व्रजतीति विप्रव्राजिनी स्वैरिणीत्य् अर्थः । अनन्यपूर्विकाम् इति दानेनोपभोगेन वा पुरुषान्तरागृहीताम् । अनेन पुनर्भूर् व्यावर्त्यते । अत एव काश्यपः ।
सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गलाः ॥
उदकस्पर्शता या च या च पाणिगृहीतिका ।
अग्निं परिगता या च पुनर्भूप्रसवा च या ॥
इत्य् एताः काश्यपेनोक्ता दहन्ति कुलम् अग्निवत् ॥ इति ।
बौधायनः- “वाग्दत्ता मनोदत्ताग्निं परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूता चेति सप्तविधा पुनर्भूः तां गृहीत्वा न प्रजां न धर्मं विन्देत्” इति । नारदो ऽपि ।
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणि ॥ इति । न्स्म् १२।४६)
याज्ञवल्क्यो ऽपि ।
[५८] अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । इति । (य्ध् १।६७)
कान्तां कमनीयां उद्वोढुर् मनोनयनानन्दकारिणीम् । अत एव आपस्तम्बः- “यस्यां मनश् चक्षुषोर् निर्बन्धस् तस्याम् ऋद्धिः” इति (आप्ध् १।३।२०) । असपिण्डाम् इति – समान एकः पिण्डो यस्याः सा सपिण्डा, न सपिण्डा असपिण्डा, ताम् । सपिण्डता च सप्तमपुरुषपर्यवसायिनी । तत्रैकः पिण्डदाता त्रयः पिण्डभाजः पितृपितामहप्रपितामहाः । त्रयो लेपभाजः वृद्धप्रपितामहादयः । तथा च मत्स्यपुराणे ।
लेपभाजश् चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
पिण्डदः सप्तमस् तेषां सापिण्ड्यं साप्तपौरुषम् ॥ इति । (मत्पु १८।२९)
मार्कण्डेयो ऽपि ।
पिता पितामहश् चैव तथैव प्रपितामहः ।
पिण्डसंबन्धिनो ह्य् एते विज्ञेयाः पुरुषास् त्रयः ॥
लेपसंबन्धिनश् चान्ये पितामहपितामहात् ।
प्रभृत्युक्तास् त्रयस् तेषां यजमानस् तु सप्तमः ।
इत्य् एष मुनिभिः प्रोक्तः संबधः साप्तपौरुषः ॥ इति । (मार्पु ३१।३–५)
एतद् उक्तं भवति – सप्तानां पुरुषाणाम् एकपिण्डक्रियानुप्रवेशः सापिण्ड्यहेतुः । तथा च देवदत्तस्य स्वकीयैः पित्रादिभिः [५९] षड्भिः सह सापिण्ड्यम् । तथा पुत्रादिभिः षड्भिः सह सापिण्ड्यम् – इति ।
ननु – एवं सति भ्रातृपितृव्यादिभिः सह सापिण्ड्यं न स्यात्, परिगणितेष्व् अनन्तर्भावात् ।
मैवम्, उद्देश्यदेवतैक्येन क्रियैक्यस्यात्र विवक्षितत्वात् । देवदत्तकर्तृकक्रियायां ये देवतात्वेनानुप्रविशन्ति तेषां मध्ये यः को ऽपि भ्रातृपितृव्यकर्तृक्रियायाम् अप्य् अनुप्रविशतीत्य् अस्ति तैः सह सापिण्ड्यम् । एवं भार्याणाम् अपि भर्तृकर्तृकपिण्डदानक्रियायां सहकर्तृकत्वात् सापिण्ड्यम् इति । तद् इदं निर्वाप्यसापिण्ड्यम् ।
अपरे पुनर् अन्यथा सापिण्ड्यम् आहुः । तथा हि – समान एकः पिण्डो देहावयवो येषां ते सपिण्डाः । तत्र पुत्रस्य साक्षात् पितृदेहावयवान्वयेन पित्रा सह सापिण्ड्यम् । तथा पितामहादिभिर् अपि पितृद्वारेण तच्छरीरावयवान्वयात् । साक्षान्मातृशरीरावयवान्वयेन मात्रा । मातामहादिभिर् अपि मातृद्वारेण तच्छरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्रादिभिर् अपि पितामहदेहावयवान्वयात् । तथा मातृष्वसृमातुलादिभिः सह मातामहदेहान्वयात् । पत्न्या सह एकशरीरारम्भकतया पत्युः । एवं भ्रातृभार्याणाम् अप्य् एकशरीरारम्भकैः स्वस्वपतिभिः सहैकशरीरारम्भकत्वेन । एवं तत्र तत्र साक्षात् परम्परया वा एकशरीरावयवान्वयेन सापिण्ड्यं योजनीयम् ।
उक्तं द्विविधं सापिण्ड्यं यस्या नास्ति सेयम् असपिण्डा ताम् उद्वहेत् ।
ननु – एवं सति न क्वाप्य् उद्वाहः संभवेत्, सर्वत्र सापिण्ड्यस्य कथंचिद् योजयितुं शक्यत्वात् । विधातृशरीरानुवृत्तेर् दुष्परिहरत्वात्, [६०] “बहु स्यां प्रजायेय” (छु ६।२।३) इति श्रुतेः ।
नैष दोषः, अविशेषेण प्राप्तस्य सापिण्ड्यस्य सप्तसु पञ्चसु च पुरुषेषु सङ्कुचितत्वेन तदूर्ध्वं सापिण्ड्यनिवृत्तेः । तथा च गौतमः- “पिण्डनिवृत्तिः सप्तमे पञ्चमे वा” इति (ग्ध् १४।१३) । याज्ञवल्क्यो ऽपि ।
पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा । इति । (य्ध् १।५३)
मातृपक्षे पञ्चमात् पितृपक्षे सप्तमात् पुरुषाद् ऊर्ध्वं “सापिण्ड्यं निवरते” इत्य् अध्याहृत्य योजनीयम्,
सपिण्डता तो पुरुषे सप्तमे विनिवर्तते । (म्ध् ५।६०)
इति मनुस्मरणात् । एतद् उक्तं भवति । पितृपक्षे कूटस्थम् आरभ्य तत्पुत्रादिगणनायां सप्तमाद् ऊर्ध्वं वरवध्वोर् विवाहो न दुष्यति । मातृपक्षे च कूटस्थम् आरभ्य तत्पुत्रादिपरिगणनायां वरवध्वोर् माता चेत् पञ्चमी भवति तदा तयोः सापिण्ड्यनिवृत्तेर् विवाहो न दोषायेति । यत् तु विष्णुपुराणवचनम्,
[६१] पञ्चमीं मातृपक्षात् तु पितृपक्षात् तु सप्तमीम् ।
गृहस्थ उद्वहेत् कन्यां न्याय्येन विधिना नृप ॥ इति । (विपु ३।११।२३)
तत्र सप्तमीं पञ्चमीम् अतीत्येत्य् अध्याहार्यम्, अन्यथा “पञ्चमात् सप्तमाद् ऊर्ध्वम्” (य्ध् १।५३) इति वचनविरोधात्,
पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।
क्रियापरा अपि हि ते सर्वतः शूद्रतां गताः ॥
इति मरीचिवचनविरोधाच् च । यद्य् अपि पैठीनसिना कल्पद्वयम् उक्तम्- “पञ्चमीं मातृतः परिहरेत् सप्तमीं पितृतः । त्रीन् मातृतः पञ्च पितृतो वा” इति । शङ्ख आह ।
यद्य् एकजाता बहवः पृथक्क्षेत्राः पृथग्धनाः ।
एकपिण्डाः पृथक्शौचाः पिण्डस् त्व् आवर्तते त्रिषु ॥ इति ।
अयम् अर्थः – येषाम् एकः पिता मातरो भिन्नजातीयास् ते मातृभेदाद् असमानजातीयाः तथापि पित्रैक्याद् अस्ति तेषां सापिण्ड्यम् । तच् च त्रिषु पुरुषेष्व् अतीतेषु निवर्तते इति ।
ननु – एवं सति पितृपक्षे ऽपि त्रिभिः पुरुषैः सापिण्ड्यनिवृत्तेः “पञ्च पितृतो वा” इति वचनं विरुध्येत । एवं तर्हि [६२] “त्रीन् मातृतः पञ्च पितृतो वा” इति पैठीनसिवचनं सजातीयेष्व् एवार्वाङ्निषेधपरम् । अनुकल्पो वास्तु । “मातृतः पितृतस् तथा” (य्ध् १।५३) इति पितृशब्देन बीजिनो ऽपि संग्रहः । तथा च गौतमः- “ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः । बीजिनश् च । मातृबन्धुभ्यः पञ्चमात्” इति (ग्ध् ४।३–५) । यो हि नियोगात् पुत्रम् उत्पादयति स बीजी । पितृमातृबान्धवाः स्मृत्यन्तरे ।
पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।
पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥ इति ।
ननु – असपिण्डाम् इति न वक्तव्यम् । वक्ष्यमाणेन “असमानार्षगोत्रजाम्” इत्य् अनेनैव सपिण्डाया विवाहनिषेधसिद्धेः ।
सत्यम्, तथापि मातुर् अस्पिण्डा भवति सैवोद्वाहकर्मणि प्रशस्तेति वक्तुम् । तथा च मनुः ।
असपिण्डा च या मातुर् असगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ (म्ध् ३।५)
[६३] इति । या मातुर् असपिण्डा असगोत्रा च, या पितुर् असगोत्रा चकाराद् असपिण्डा च सा मैथुने मिथुनसाध्ये दारकर्मणि द्विजातीनां प्रशस्ता परिणेयेत्य् अर्थः ।
ननु – अत्र मातृग्रहणम् अनर्थकम् । पितृगोत्रसापिण्ड्यनिषेधेनैव मातृगोत्रसापिण्ड्यनिषेधसिद्धेः । तस्याः पृथक् पिण्डगोत्रयोर् अभावात्,
एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके ।
स्वगोत्राद् भ्रश्यते नारी विवाहात् सप्तमे पदे ॥
इति वचनात् ।
मैवम्, गान्धर्वादिविवाहेषु कन्याप्रदानाभावेन पितृगोत्रसापिण्ड्ययोर् अनिवृत्तेः । तथा च मार्कण्डेयपुराणम् ।
ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत् ।
भर्तृगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥
गान्धर्वादिविवाहेषु पितृगोत्रेण धर्मवत् । इति । (गपु २।२६।२१–२२)
एतेन मातुलसुताविवाहविषये विवादो ऽपि परास्तः । तथा हि – तन्निषेधवचनानि गान्धर्वादिविवाहोढविषयाणि । तत्र सापिण्ड्यनिवृत्तेर् अभावात् । तदनुग्राहकश्रुतिस्मृति-सदाचारात् न ब्राह्मादिविवाहोढजविषयाणि । तत्र सापिण्ड्यनिवृत्तेः । तानि च निषेधवचनानि यथा । तत्र शातातपः ।
मातुलस्य सुताम् ऊढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव द्विजश् चान्द्रायणं चरेत् ॥ इति ।
पैठीनसिर् अपि- [६४] “पितृमातृष्वसृदुहितरो मातुलसुताश् च धर्मतस् ता भगिन्यः । ता वर्जयेद् इति विज्ञायते” इति । सुमन्तुर् अपि- “पितृपत्न्यः सर्वा मातरः । तद्भ्रातरो मातुलाः । तद्भगिन्यो मातृष्वसारः । तद्दुहितरश् च भगिन्यः । तदपत्यानि भागिनेयानि । अन्यथा सङ्करकारिण्यः” इति । व्यासः ।
मातुः सपिण्डा यत्नेन वर्जनीया द्विजातिभिः । इति ।
ननु – अविशेषेण प्रवृत्तानाम् एषां वचनानां कथं विशेषविषयता ।
विशेषवचनबलाद् इति ब्रूमः । तथा च मनुः ।
पैतृषवसेयीं भगिनीं स्वस्रीयां मातुर् एव च ।
मातुश् च भ्रातुर् आप्तस्य गत्वा चान्द्रायणं चरेत् ॥
एतास् तिस्रस् तु भार्यार्थे नोपयच्छेतु तु बुद्धिमान् ॥ इति । (म्ध् ११।१७२–७२)
भगिनीपदं पैतृष्वसेयादिविशेषणम् । आप्तस्येति मातुर् भ्रातृविशेषणम् । तत्र सुताम् इत्य् अध्याहारः । आप्तस्य संनिकृष्टस्य सपिण्डस्य गान्धर्वादिविवाहोढायाः मातुर् भ्रातुर् इत्य् अर्थः । पैतृष्वस्रेयीम् इत्य् अत्राप्य् अनिवृत्तसापिण्ड्या गान्धर्वादिनोढा पितृष्वसा विवक्षिता । तथा च सति तद्दुहितुर् भगिनीति विशेषणं सार्थकम् । ब्राह्मादिविवाहेषु सापिण्ड्यनिवृत्तेः [६५] भगिनीपदं नान्वियात् । अयम् एव न्यायो मातृष्व्स्रीयायाम् अपि योजनीयः । तस्माद् भगिन्याप्तपदोपेतमनुवचनबलाद् अविशेषे निषेधो विशेषविषय एवोपसंह्रियते ।
ननु – ब्राह्मादिविवाहविषये मातुलसुताया इव मातृष्वसृसुताया अपि विवाहः प्राप्नुयात् ।
तन् न, शिष्टगर्हितत्वेन तत्र निषेधस्मृतिकल्पनात् । शिष्टगर्हितस्यानुपादेयत्वं याज्ञवल्क्य आह ।
अस्वर्ग्यं लोकविद्विष्टं धर्मम् अप्य् आचरेन् न तु । इति । (य्ध् १।१५६)
यद्य् अपि मातुल-सुता-परिणयनम् उदीच्य-शिष्ट-गर्हितं
तथापि दाक्षिणात्य-शिष्टैर् आचरितत्वेन
नाविगीतो ऽयम् उदीच्यानाम् आचारः।
न च दाक्षिणात्यानां रागमूलत्वं शङ्कनीयम् -
विधि-निषेध-परीक्षकैर् एव तद्-विवाह-करणात् ।+++(4)+++
मातृष्वसुः सुताविवाहस् तु अविगीतेन शिष्टाचारेण गर्हितः ।+++(4)+++
मातुल-सुता-विवाहस्यानुग्राहकाः श्रुत्य्-आदयः । तत्र मन्त्रवर्णः ।
आयाहीन्द्र पथिभिर् ईलितेभिर्
यज्ञम् इमं नो भागधेयं जुषस्व ।
+++(आज्यादिना)+++ तृप्तां +++(→वपां)+++ जहुर्+++(=त्यक्तवन्तः)+++, मातुलस्येव योषा
भागस् ते पैतृष्वसेयी+++(+इव)+++ वपाम् इव ॥
इति । (ऋग्वेदः खिलभागः ७।४।३।२२।६)
अयम् अर्थः –
हे इन्द्र! पथिभिर् ईडितेभिः स्तुतैः सह [६६]
नो ऽस्माकम् इमं यज्ञम् आयाहि ।
आगत्य च अस्मादिभिर् दीयमानं भागधेयं जुषस्व ।
तृप्ताम् आज्यादिना संस्कृतां वपां त्वाम् उद्दिश्य जहुः त्यक्तवन्तः । तत्र दृष्टान्तद्वयम् ।
यथा मातुलस्य योषा दुहिता भागिनेयस्य भागः भजनीया भागिनेयेन परिणेतुं योग्या,
यथा च पैतृ-ष्वसेयी पौत्रस्य भागः
तथास्य ते तव भागो वपाख्यः इति ।
वाजसनेयके ऽपि-
“तस्माद् वा समानाद् एव पुरुषाद्
अत्ता, चाद्यश् च जायते
उत तृतीये संगच्छावहै
चतुर्थे संगच्छवहै”
इति । समानाद् एकस्मात् पुरुषात् अत्ता भोक्ता अद्यश् च भोग्यः द्वाव् अप्य् उत्पद्येते ।
तौ न मिथः संकल्पयतः कूटस्थम् आरभ्य तृतीये चतुर्थे वा पुरुषे संगच्छावहै विवहावहै इत्य् अर्थः ।
यद्य् अप्य् अयम् अर्थवादः
तथापि मानान्तर-विरोधाभावात् स्वार्थे प्रमाणम्,
विरोधि-वचनानाम् अभावात्,
मातृ-सपिण्डाविषयत्वस्य वर्णितत्वात् च ।
तस्माद् अविरुद्धार्थवादेनानूदितत्वाद् उपरिधारणवद् विधिः कल्पयितुं शक्यते ।
तथा हि प्रेताग्नि-होत्रे (प्म्स् वार्त्। ३।४।१५) श्रूयते- “अधस्तात् समिधं धारयन्न् अनुद्रवेत् उपरि हि देवेभ्यो यज्ञं धारयति” इति । तत्र पैतृकस्य हविषो ऽधस्तात् समन्त्रकं समिद्धारणं विधाय तद्वाक्यशेषेण समिधो हविरुपरिधारण्ं दैवे कर्मणि श्रुतं तत् किम् अर्थवादः, उत विधिर् अयम्, इत्य् संशयः । [६७] तत्राधोधारणविधिस् तावकत्वेन तदेकवाक्यतालाभाद् अर्थवाद इति – पूर्वः पक्षः । प्रसिद्धं ह्य् अर्थम् अनूद्य तेन स्तुतिर् युक्ता । उपरिधारणं तु न क्वापि प्रसिद्धम् । अतस् तावकत्वायोगाद् वाक्यभेदम् अभ्युपगम्याप्य् अपूर्वार्थत्वाद् विधिः कल्पितः ।
एवं “तृतीये पुरुषे संगच्छावहै” इत्यादाव् अपि अपूर्वार्थत्वेन मातुलसुतां विवहेत् – इति विधिः कल्प्यते । तस्माच् छ्रुताव् अनुग्रहीतो ऽयम् विवाहः । स्मृतयस् तु ब्राह्मडिषु सापिण्ड्यनिराकरणेन मातुलसुताविवाहप्रापकतया दर्शिताः । शिष्टाचारश् च दाक्षिण्यात्यानाम् अविगीत उदाहृतः ।
केचित् तु – आसुरादिष्व् अपि देशविशेषेण मातुलसुताविवाहो धर्म्य – इति मन्यन्ते । उदाहरन्ति च वचनानि । तत्र बौधायनः ।
पञ्चधा विप्रतिपत्तिर् दक्षिणतः । अनुपनीतेन भार्यया च सह भोजनं पर्युषितभोजनं मातुलदुहितृपितृष्वसृदुहितृपरिणयनम् इति । तथोत्तरत ऊर्णाविक्रयः सीधुपानम् उभयतोदद्भिर् व्यवहारः आयुधीयकं समुद्रयानम् इति । इतरद् इतरस्मिन् कुर्वन् दुष्यति इतर इतरस्मिन् । तत्र तत्र देशप्रामाण्यम् एव स्यात् । (ब्ध् १।१।२।१–६)
[६८] इति । इतरो दाक्षिणात्य इतरस्मिन् उत्तरदेशे मातुलसंबन्धं कुर्वन् दुष्यति । न स्वदेशे । तथेतर उदीच्य इतरस्मिन् दक्षिणदेशे सीधुपानादिकं कुर्वन् दुष्यति । न स्वदेशे । कुतः । देशप्रामाण्यात् । देशनिबन्धनत्वाद् आचारप्रामाण्यस्येत्य् अर्थः । तथा च देवलः ।
यस्मिन् देशे य आचारो न्यायदृष्टः सुकल्पितः ।
स तस्मिन्न् एव कर्तव्यो न तु देशान्तरे स्मृतः ॥ इति ।
भृगुः ।
यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरे ऽपि वा ।
यो यत्र विहितो धर्मस् तं धर्मं न विचालयेत् ॥ इति ।
ननु – शिष्टाचारप्रामाण्ये स्वदुहितृविवाहो ऽपि प्रसज्येत, प्रजापतिना तथाचरणात् । तथा च श्रुतिः- “प्रजापतिर् वै स्वां दुहितरम् अभ्यध्यायत्” इति ।
मैवम्, “न देवचरितं चरेत्” इति न्यायात् । अत एव बौधायनः ।
अनुषिष्ठं तु यद् देवैर् मुनिभिर् यद् अनुष्ठितम् ।
नानुष्ठेयं मनुष्यैस् तद् उक्तं कर्म समाचरेत् ॥ (ब्ध् १।१।२।१२)
[६९] इति । तद् एवं पूर्वोक्तब्राह्मादिविवाहव्यवस्थया देशभेदविषयव्यवस्थया च मातुलसुताविवाहो “असपिण्डाम्” इत्यादिशास्त्राद् एव सिद्धः । तत्र वयोन्यूनताया इयत्ताम् आह मनुः ।
त्रिंशद्वर्षोद्वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।
त्र्यष्टवर्षो ऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ इति । (म्ध् ९।९४)
बृहस्पतिर् अपि ।
त्रिंशद्वर्षो दशाब्दां तु भार्यां विन्देत नग्निकाम् ।
एकविंशतिवर्षो वा सप्तवर्षाम् अवाप्नुयात् ॥ इति ।
विष्णुपुराणे ऽपि ।
वर्षैर् एकगुणां भार्याम् उद्वहेत् त्रिगुणः स्वयम् । इति । (विपु ३।१०।१६)
अरोगिणीम् अचिकित्स्यराजयक्ष्मादिरोगरहिताम् । भ्रातृमतीं ज्येष्ठः कनिष्ठो वा भ्राता यस्याः सा भ्रातृमती । अनेन पुत्रिकाशङ्का व्युदस्यते । अत एव मनुः ।
यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ इति । (म्ध् ३।११)
यस्याः पिता पुत्रिकाकरणाभिप्रायवान् वा न वा इति न विज्ञायते तां नोपयच्छेत् । यत्र तु नैषा शङ्का ताम् [७०] अभ्रातृकाम् अप्य् उपयच्छेद् इत्य् अभिप्रायः । “न विज्ञायेत वा पिता” इत्य् उक्तेः वरेण सह संप्रतिपत्तिं विनापि पितुः संकल्पमात्रेण कन्या पुत्रिका भवतीति द्रष्टव्यम् । तथा च गौतमः- “अभिसंधिमात्रात् पुत्रिकेत्य् एकेषाम् । तत्संशयान् नोपयच्छेद् अभ्रातृकाम्” इति (ग्ध् २९।१९।२०) । मनुर् अपि ।
अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥ इति । (म्ध् ९।१२७)
वरेण सह संप्रतिपत्तिकरणं तु पुत्रिकाकरणे स्पष्टम् एव विज्ञायते । सा च संप्रतिपत्तिर् वसिष्ठेन दर्शिता ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ॥ इति । (वध् १७।१७)
“स नौ पुत्रो भवेद्” इति क्वचित् पाठः । अस्याश् च पुत्रिकाया गान्धर्वादाव् इव स्वपित्रादिभिः सह न सापिण्ड्यसगोत्रत्वनिवृत्तिः । अत एव लौगाक्षिः ।
मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाम् ।
कुर्वीत पुत्रिकापुत्र एवम् आह प्रजापतिः ॥ इति ।
तद् एवम् अभिहितां पुत्रिकां शङ्कमानः पुत्रार्थी भ्रातृमतीम् एवोद्वहेत् । “असमानार्षगोत्रजाम्” ऋषेर् इदम् आर्षं प्रवरः गोत्रप्रवर्तकस्य मुनेर् व्यावर्तकमुनिगण इत्य् अर्थः । तद् यथा – [७१] गोत्रप्रवर्तकस्य भरद्वाजस्य व्यावर्तकाव् अङ्गिरो-बृहस्पती । अत एव आङ्गिरस-बार्हस्पत्य-भारद्वाजगोत्रो ऽहम् इति प्रयुञ्जते । एवम् अन्यद् अप्य् उदाहार्यम् । गोत्रं तु वंशपरम्पराप्रसिद्धम् । यस्या वध्वा वरेण सह प्रवरैक्यं गोत्रैक्यं वा नास्ति सा वधूर् विवाहम् अर्हति । क्वचिद् गोत्रभेदे ऽपि प्रवरैक्यम् अस्ति । तद् यथा – याज्ञवल्क्य-वाधूल-मौन-मौकानां भिन्नगोत्राणां भार्गव-वीतहव्य-सावेतसेति प्रवरस्यैक्यात् । अतस् तत्र विवाहप्रसक्तौ तद्व्यवच्छेदाय असमानार्षजाम् – इत्य् उक्तम् । क्वचित् प्रवरभेदे ऽपि गोत्रैक्यम् । तद् यथा – आङ्गिरसाम्बरीष-यौवनाश्व-मान्धात्रम्बलीष-यौवना-श्वेति-अत्राङ्गिरस-मान्धातृप्रवरभेदे ऽपि यौवनाश्वगोत्रम् एकम् । अतस् तत्र विवाहो मा भूद् इत्य् असमानगोत्रग्रहणम् । गोत्रप्रवर्तकाश् च प्राधान्येनाष्ठौ मुनयः । ते चागस्त्याष्टमाः सप्तर्षयः । तथा च बौधायनः ।
विश्वामित्रो जमदग्निर् भरद्वाजो ऽथ गौतमः ।
सप्तर्षीणाम् अगस्त्याष्टमानां यद् अपत्यं तद् गोत्रम् इत्य् आचक्षते ॥ इति ।
स्मृत्यन्तरे ऽपि ।
जमदग्निर् भरद्वाजो विश्वामित्रो ऽत्रिगौतमौ ।
[७२] वसिष्ठकश्यपागस्त्या मुनयो गोत्रकारिणः ।
एतेषां यान्य् अपत्यानि तानि गोत्राणि मन्वते ॥ इति ।
एतेषां च गोत्राणाम् अवान्तरभेदाः सहस्रसंख्याकास् तेषां गणास् त्व् एकोनपञ्चाशत् । तथा च बौधायनः ।
गोत्राणां च सहस्राणि प्रयुतान्य् अर्बुदानि च ।
ऊनपञ्चाशद् एतेषां प्रवरा ऋषिदर्शनात् ॥ इति ।
प्रवरगोत्रयोः समानत्वासमानत्वे बौधायन-कात्यायन-विश्वामित्र-गर्गादिप्रणीतेषु प्रवरग्रन्थेषु प्रसिद्धे । न चात्र मिलितयोर् गोत्रप्रवरयोः पर्युदासनिमित्तत्वं शङ्कनीयम्, प्रत्येकं दोषाभिधानात् । तद् आह बौधायनः- “सगोत्रां चेद् अमत्योपगच्छेन् मातृवद् एनां बिभृयात्” इति । शातातपो ऽपि ।
परिणीय सगोत्रां तु समानप्रवरां तथा ।
कृत्वा तस्याः समुत्सर्गं तप्तकृच्छ्रं विशोधनम् ॥ इति ।
आपस्तम्बः ।
समानगोत्रप्रवरां कन्याम् ऊढ्वोपगम्य च ।
तस्याम् उत्पाद्य चण्डालं ब्राह्मण्याद् एव हीयते ॥ इति ।
इत्थं कन्यालक्षणं परीक्ष्य कुलम् अपि परीक्षणीयम् । अत एव मनुः ।
महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः ।
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥
[७३] हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ इति । (म्ध् ३।६–७)
हीनक्रियं यागादिक्रियारहितम् । निष्पुरुषं स्त्रीमात्रशेषम् । निश्छन्दो ऽध्ययनवर्जितम् । यमो ऽपि ।
चतुर्दश कुलानीमान्य् अविवाह्यानि निर्दिशेत् ।
अनार्षेयं ब्राह्मणानाम् ऋत्विजां चैव वर्जयेत् ॥
अत्युच्चम् अतिह्रस्वं च अतिवर्णं च वर्जयेत् ।
हीनाङ्गम् अतिरिकाङ्गम् आमयाविकुलानि च ॥
श्वित्रिकुष्ठिकुलादीनां कुर्याद् विपरिवर्जनम् ।
सदाकामिकुलं वर्ज्यं रोमशानां च यत् कुलम् ॥
अपस्मारिकुलं यच् च यच् च पाण्डुकुलं भवेत् । इति ।
अनार्षेयं अविज्ञातप्रवरम् । एतच् च हीनक्रियादिवर्जनं तथाविधापत्यपरिहारार्थम्, “कुलानुरूपाः प्रजाः संभवन्ति” (हार्स्म् २।१३) इति हारीतवचनात् । पुराणे ऽपि ।
मातुलान् भजते पुत्रः कन्यका भजते पितॄन् ।
यथाशीला भवेन् माता तथाशीलो भवेत् सुतः ॥ इति ।
मनुर् अपि ।
पितुर् वा भजते शीलं मातुर् वोभयम् एव वा ।
न कथंचन दुर्योनिः प्रकृतिं स्वां विमुञ्चति ॥
[७४] इति । हेयकुलम् उक्तम् । उपादेयं तु याज्ञवल्क्य आह ।
दशपूरुषविख्यातात् श्रोत्रियाणां महाकुलात् । इति । (य्ध् १।५४)
मातृतः पितृतः पञ्च पञ्च पुरुषा विख्याता यस्मिन् कुले तद् दशपुरुषविख्यातं तस्मात् महाकुलात् पुत्रपश्वादिसमृद्धात् कन्याम् उद्वहेद् इत्य् अर्थः । मनुर् अपि ।
उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत् सह ।
निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥ इति । (म्ध् ४।२४४)
अत्रोत्तमान् स एवाह ।
विशुद्धाः कर्मभिश् चैव श्रुतिस्मृतिनिदर्शितैः ।
अविप्लुतब्रह्मचर्या महाकुलसमन्विताः ॥
महाकुलैश् च संबन्धा महत्स्व् एव व्यवस्थिताः ।
संतुष्टाः सज्जनहिताः साधवः समदर्शिनः ॥
लोभरागद्वेषामर्षमानमोहादिवर्जिताः ।
अक्रोधनाः सुप्रसादाः कार्याः संबन्धिनः सदा ॥ इति ।
अधमान् आह स एव ।
ते स्तेनाः पिशुनाः क्लीबा ये च नास्तिकवृत्तयः ।
विकर्मणा च जीवन्तो विकृताकृतयस् तथा ॥
[७५] प्रबद्धवैराः शूरैर् ये राजकिल्बिषिणस् तथा ।
ब्रह्म्स्वादननित्याश् च कदर्याश् च विहर्हिताः ॥
अप्रजा येषु वंशेषु स्त्रीप्रजाप्रसवस् तथा ।
पतिघ्न्यश् च सुवासिन्यः ताश् च यत्नेन वर्जयेत् ॥ इति ।
कन्यादाने वरनियमो गौतमेन दर्शितः- “विद्याचारित्रबन्धुलक्षणशीलसंपन्नाय दद्यात्” इति (ग्ध् ४।५) । यमो ऽपि ।
कुलं च शीलं च वपुर् वयश् च विद्यां च वित्तं च सनाथतां च ।
एतान् गुणान् सप्त परीक्ष्य देया कन्या बुधैः शेषम् अविन्तनीयम् ॥ इति ।
याज्ञवल्क्यः ।
एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ इति । (य्ध् १।५५)
एतैः कन्यकायाम् उक्तैर् गुणैर् युक्तः । पुंस्त्वपरीक्षोपायस् तु नारदेन दर्शितः ।
यस्याप्सु प्लवते वीर्यं ह्रादि मूत्रं च फेनिलम् ।
पुमान् स्याल् लक्षणैर् एतैर् विपरीतैस् तु षण्ढकः ॥
[७६] चतुर्दशविधः शास्त्रे षण्ढो दृष्टो मनीषिभिः ।
चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥
निसर्गषण्ढो वध्रिश् च पक्षषण्ढस् तथैव च ।
अभिशापाद् गुरो रोगाद् दैवक्रोधात् तथैव च ॥
ईर्ष्याषण्ढश्। च सेव्यश् च वातरेता मुखेभगः ।
आक्षिप्तो मोघबीजश् च शालीनो ऽन्यापतिस् तथा ॥ इति । (न्स्म् १२।१०–१३)
निसर्गषण्ढः स्वभावतो लिङ्गवृषणहीनः । वध्रिः छिन्नमुष्कः । पञ्चदश दिनानि स्त्रियम् आसेव्यमानः सन् सकृद्घोगषमः पक्षषण्ढः । गुरुशापषण्ढादयस् त्रयः स्पष्टाः । ईर्ष्यया पुंस्त्वम् उत्पाद्यते यस्य स ईर्ष्याषण्ढः । स्त्र्युपचारविशेषेण पुंस्त्वशक्तिर् यस्य स सेव्यषाण्ढः । वातोपहतरेतस्को वातरेताः । यस्य मुख एव पुंस्त्वशक्तिः न योनौ स मुखेभगः । रेतोनिरोधात् षण्ढीभूत आक्षिप्तषण्ढः । गर्भाधानासमर्थबीजः मोघबीजः । अप्रगल्भतया क्षोभाद् वा नष्टपुंस्त्वः शालीनः । यस्य भार्याव्यतिरेकेणान्यासु पुरुषभावः सो ऽन्यापतिः । एतच् च परीक्ष्य ज्ञेयम् । अत्र कारणम् आह स एव ।
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनो नराः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥ (न्स्म् १२।१९ )
[७७] इति । षण्ढवद् अन्यान् अपि वर्जनीयान् नरान् आह कात्यायनः ।
दूरस्थानाम् अविद्यानां मोक्षमार्गानुसारिणाम् ।
शूराणां निर्धनानां च न देया कन्यका बुधैः ॥ इति ।
कीदृशाय तर्हि देया इत्य् अत आह मनुः ।
उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि । इति । (म्ध् ९।८८)
अप्राप्ताम् अपीति अप्राप्तविवाहसमयां बालिकाम् अपीत्य् अर्थः । प्राशस्त्यम् आह मरीचिः ।
जन्मतो गर्भाधानाद् वा पञ्चमाब्दात् परं शुभम् ।
कुमारीवरणं दानं मेखलाबन्धनं तथा ॥ इति ।
बौधायनो ऽपि ।
दद्याद् गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरुन्ध्यात् रजस्वलाम् ॥ इति । (ब्ध् ४।१।११)
यत् तु यमेनोक्तम्,
कामम् आ मरणात् तिष्ठेद् गृही कन्यर्तुमत्य् अपि ।
न त्व् एवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥ (म्ध् ९।८९)
[७८] इति, तद् गुणवति संभवति गुणहीनाय कन्यां न दद्याद् इत्य् एवंपरम् । न तु सर्वथा गुणहीननिषेधपरम् । नो चेत् “अपि वा गुणहीनाय” (ब्ध् ४।१।११) इति बौधायनोक्तो ऽनुकल्पो निर्विषयः स्यात् । “ऋतुमत्य् अपि तिष्ठेत्” (म्ध् ९।८९) इति वचनम् उक्तरीत्या न स्वार्थे तात्पर्यवत् । यतः “नोपरुन्ध्याद् रजस्वलाम्” (ब्ध् ४।१।११) इत्य् अनेन विरुध्येत । अत एव वसिष्ठो ऽपि ।
प्रयच्छेन् नग्निकां कन्यां ऋतुकालभयात् पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरम् ऋच्छति ॥ इति ।
संवर्तो ऽपि ।
रोमकाले तु संप्राप्ते सोमो भुङ्क्ते तु कन्यकाम् ।
रजःकाले तु गन्धर्वा वह्निस् तु कुचदर्शने ॥
तस्माद् उद्वाहयेत् कन्यां यवन् नर्तुमती भवेत् ॥ इति । (संस्म् १।६५, ६८)
कन्याशब्देन लज्जाद्यभिज्ञानरहितवयोयुक्ता विवक्षिता । तथा च वायुपुराणम् ।
[७९] यावन् न लज्जयाङ्गानि कन्या पुरुषसंनिधौ ।
योन्यादीन्य् अवगूहेत तावद् भवति कन्यका ॥ इति ।
संगर्हकारो ऽपि ।
यावच् चैलं न गृह्णाति यावत् क्रीडति पांसुभिः।
यावद् दोषं न जानाति तावद् भवति कन्यका ॥ इति ।
वयोविशेषेण दातुः फलविशेषम् आह मरीचिः ।
गौरीं ददन् नाकपृष्ठं वैकुण्ठं रोहिणीं ददन् ।
कन्यां ददद् ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥ इति ।
गौर्यादिशब्दार्हः संवर्तेन दर्शितः ।
अष्टवर्षा भवेद् गौती नववर्षा तु रोहिणी ।
दशदर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला ॥ इति । (संस्म् १।६६)
यमो ऽपि ।
अष्टवर्षा भवेद् गौरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृता ॥ इति ।
मुख्यानुकल्पभेदेन दातृविशेषान् आह नारदः ।
पिता दद्यात् स्वयं कन्यां भ्राता वानुमते पितुः ।
मातामहो मातुलश् च सकुल्यो बान्धवस् तथा ॥
[८०] माता त्व् अभावे सर्वेषां प्रकृतौ यदि वर्तते ।
तस्याम् अप्रकृतिस्थायां कन्यां दद्युः सनाभयः ॥
यदा तु नैव कश्चित् स्यात् कन्या राजानम् आव्रजेत् ॥ इति । (न्स्म् १२।२०–२१)
याज्ञवल्क्यो ऽपि ।
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥
अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ ।
गम्यं त्व् अभावे दातॄणां कन्या कुर्याट् स्वयंवरम् ॥ इति । (य्ध् १।६३–६४)
गम्यं गमनार्हं सावर्ण्यादिगुणयुक्तम् इत्य् अर्थः । तथा च नारदः ।
सवर्णम् अनुरूपं च कुलशीलवयःश्रुतैः ।
सहधर्मं चरेत् तेन पुत्र्ंश् चोत्पादयेत् ततः ॥ इति । (न्स्म् १२।२३)
“सवर्णं वरं प्राप्य” इत्य् अध्याहृत्य योजनीयम् । एतच् चासति रजोदर्शने द्रष्टव्यम् । दृष्टे तु रजसि सत्स्व् अपि पित्रादिषु कंचित् कालं पितुः शासनं परीक्ष्य तदुपेक्षणेन सव्यम् एव वरं वरयेत् । तद् आह बौधायनः ।
[८१] त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।
ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अविद्यमाने सदृश्ē गुणहीनम् अपि श्रयेत् ॥ इति । (ब्ध् ४।१।१४)
मनुर् अपि ।
त्रीणि वर्षाण्य् उदीक्षेत कुमार्य् ऋतुमती सती ।
ऊर्ध्वं तु कालाद् एतस्मात् विन्देत सदृशं पतिम् ॥
अदीयमाना भर्तारम् अधिगच्छेद् यदि स्वयम् ।
नैनः किंचिद् अवाप्नोति न च यं साधिगच्छति ॥ इति । (म्ध् ९।९०–९१)
सा यं भर्तारम् अधिगच्छति सो ऽपि नैनो ऽधिगच्छतीत्य् अर्थः । यत् तु विष्णुनोक्तम्,
ऋतुत्रयम् उपास्यैव कन्या कुर्यात् स्वयंवरम् ।
इति, तद् गुणवद्वरलाभे सति द्रष्टव्यम् ।
ननु – ऋतुमत्यां कन्याशब्दः कथं प्रयुक्तः, यतो यमेन “दशवर्षा भवेत् कन्या” इत्य् उक्तम् । न च दशमे वर्षे ऋतुः संभवति ।
नायं दोषः, गौर्यादिशब्दवत् कन्याशब्दस्यापि यमेन परिभाषितत्वात् । सा च परिभाषा फलकथनादाव् उपयुक्ता । तच् च पूर्वम् एवोदाहृत- “कन्यां ददद् ब्रह्मलोकम्” इति । लोकप्रसिद्धस् तु कन्याशब्दो विवाहरहितस्त्रीमात्रम् आचष्टे । एवं च सति शास्त्रेषु बहवः कन्याशब्दा अनुगृहीता भवन्ति । तथा चानुशसिनिके ऽष्टावक्रोषाख्याने वृद्धस्त्रियां प्रयुक्तः ।
[८२] कौमारं ब्रह्मचर्यंमे कन्यैवास्मि न संशयः । इत् । (म्भ् आनु। २०।२२)
शल्यपर्वण्य् अपि वृद्धस्त्र्यां नारदेन प्रयुक्तः ।
असंस्कृतायाः कन्यायाः कुतो लोकास् तवानघे । इति । (म्भ् शल्य ५१।१०)
उमामहेश्वरसंवादे ऽपि ।
ऋतुस्नाता तु या शुद्धा सा कन्येत्य् अभिधीयते । इति ।
ननु – “असंस्कृतायाः” इति वचने विवाहरहिताया उत्तमलोकाभाव उक्तः सओ ऽनुपपन्नः । विवाहरहितानाम् अपि ब्रह्मवादिनीनाम् उपनयनाध्ययनादिभिः उत्तमलोकसंभवात् । अत एव हारीतेनोक्तम्- “द्विविधाः स्त्रियः । ब्रह्मवादिन्यः सद्योवध्वश् च । तत्र ब्रह्मवादिनीनाम् उपनयनम् अग्नीन्धनं वेदाध्ययनं स्वगृहे च भिक्षाचर्या इति । सद्योवधूनां तूपस्थिते विवाहे कथंचिद् उपनयनमात्रं कृत्वा विवाहः कार्यः" (हार्स्म् २१।२३) [८३] इति ।
मैवम्, तस्य कल्पान्तरविषयत्वात् । तथा च यमः ।
पुरा कल्पे कुमारीणां मौञ्जीबन्धनम् इष्यते ।
अध्यापनं च वेदानां सावित्रीवाचनं तथा ॥
[८४] पिता पितृव्यो भ्राता वा नैनाम् अध्यापयेत् परः ।
स्वगृहे चैव कन्याया भैक्ष्यचर्या विधीयते ॥
वर्जयेद् अजिनं चीरं जटाधारणम् एव च ॥ इति ।
“अष्टवर्षा भवेद् गौरी” इत्यादिना विवाहकाल उक्तः । अथ विवाहभेदा उच्यन्ते । तत्र मनुः ।
चतुर्णाम् अपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥
ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः ।
गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥ इति । (म्ध् ३।२०–२१)
एषां क्रमेण लक्षणम् आह स एव ।
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥
यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते ।
अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥
एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः ।
कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥
सहोभौ चरतां धर्मम् इति वाचानुभाष्य तु ।
कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥
ज्ञातिभ्यो द्रविणं दत्वा कन्यायै च स्वशक्तितः ।
कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥
[८५] इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।
गान्धर्वः स च विज्ञेयो मैथुन्यः कामसंभवः ॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितो ऽष्टमः ॥ इति। (म्ध् ३।२७–३४)
नारदो ऽपि ।
ब्राह्मस् तु प्रथमस् तेषां प्राजापत्यस् तथापरः ।
आर्षश् चैवाथ दैवश् च गान्धर्वश् चासुरस् तथा ॥
राक्षसो ऽनन्तरस् तस्मात् पैशाचश् चाष्टमो मतः ॥ इति । (न्स्म् १२।३८–३९)
वर्णानुपूर्व्येण विवाहनियमम् आह मनुः ।
षडानुपूर्व्या विप्रस्य् क्षत्रस्य चतुरो ऽवरान् ।
विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् । इति । (म्ध् ३।२३)
आदितः षड्विवाहा विप्रस्य धर्म्याः । आसुरादयश् [८६] चत्वारः पाश्चत्याः क्षत्रियाणां धर्म्याः । राक्षसवर्जं त एव वैश्यशूद्रयोर् अपि । एतेषां ब्राह्मादीनां मध्ये प्रशस्तान् आह स एव ।
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियसैकम् आसुरं वैश्यशूद्रयोः ॥ इति । (म्ध् ३।२४)
स्मृत्यन्तरे ऽपि ।
चत्वारो ब्राह्मणस्याद्याः शस्ता गान्धर्वराक्षसौ ।
राज्ञस् तथासुरो वैश्ये शूद्रे चान्त्यस् तु गर्हितः ॥ इति ।
गर्हितो न कस्यापि प्रशस्त इत्य् अर्थः । अन्यविवाहालाभे ब्राह्मणादीनां पैशाचम् अप्य् अनुजानाति वत्सः ।
सर्वोपायैर् असाध्या स्यात् सुकन्या पुरुषस्य या ।
चौर्येणापि विवाहेन सा विवाह्या रहःस्थिता ॥ इति ।
ब्राह्मादीनां फलम् आह मनुः ।
दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥
दैवोढाजः सुतश् चैव सप्त सप्त परावरान् ।
आर्षोढाजः सुतस् त्रींस् त्रीन् षट् षट् कायोढजः सुतः ॥
ब्राहमादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः ॥
[८७] रूपसत्त्वगुणोपेता धनवन्तः यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥
इतरेष्व् अवशिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहे तु ब्रह्मधर्मद्विषः सुताः ॥ इति । (म्ध् ३।३७–४१)
प्रशस्तेष्व् अपि चतुर्षु विवाहेषु पूर्वः पूर्वः प्रशस्ततरः । तत्र बौधायनः ।
तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्व् अपि पूर्वः पूर्वः श्रेयान् ।
उत्तरेषाम् उत्तरोत्तरः पापीयान् । इति ।(ब्ध् १।११।२०।१०–११)
ननु – आसुरव आर्षो ऽपि पापीयान् । क्रयप्राप्तत्वाविशेषात् । अत एव कश्यपः ।
क्रयक्रीता तु या नारी न सा पत्न्य् अभिधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कश्यपो ऽब्रवीत् ॥ इति । (काश्स्म् ४९)
ब्राह्मादीनाम् आसुरान्तानां मध्ये ब्राह्मदैवप्राजापत्याः [८८] त्रयो धर्म्याः, क्रयाभावात् । आर्षासुरौ द्वाव् अधर्म्यौ, क्रयक्रीतत्वात् । तयोर् अप्य् आसुरः पैशाचवद् आपद्य् अपि न कर्तव्यः – इति ।
तन् न, पञ्चानाम् इति वचनस्य मतान्तरोपन्यासपरत्वात् । कुत एतत् । यतः स्वयम् एवोत्तरत्र गोमिथुनस्य शुल्कत्वं मतान्तरत्वेनानूद्य निषेधति,
आर्षे गोमिथुनं शुल्कं केचिद् आहुर् मृषैव तत् ।
अल्पो वापि महान् वापि विक्रयस् तावद् एव सः ॥ इति । (म्ध् ३,५३)
गोमिथुनं शुल्कम् इति यत् केचिद् आहुः
तन् मृषैव, न हि तस्य शुल्कत्वं संभवति, तल्लक्षणाभावात् । क्रयसाधनं हि मूल्यं देशकालाद्यपेक्षया अल्पं वा महद् वा भवति । प्रकृते तु परिमाणं नियतम् । यतः आर्षस् तावतैव गोमिथुनेनैव संपद्यते न त्व् अन्यथा । अतः क्रयक्रीतत्वाभावाद् धर्म्य एवार्षः । अत एव देवलः ।
पूर्वे विवाहाश् चत्वारो धर्म्यास् तोयप्रदानिकाः ।
अशुल्का ब्राह्मणार्हाश् च तारयन्ति द्वयोः कुलम् ॥ इति ।
न च – गान्धर्वादिविवाहेषु सप्तपदाभिक्रमणाद्यभावात् पतित्वभार्यात्वाभावः – इति शङ्कनीयम् । स्वीकारात् प्राक् तदभावे ऽपि पश्चात् तत्सद्भावात् । तद् आह देवलः ।
[८९] गान्धवादिविवाहेषु पुनर् वैवाहिको विधिः ।
कर्तव्यश् च त्रिभिर् वर्णैः समर्थेनाग्निसाक्षिकम् ॥ इति ।
गृह्यपरिशिष्टे ऽपि ।
गान्धर्वासुरपैशाचा विवाहो राक्षसश् च यः ।
पूर्वः परिग्रहस् तेषु पश्चाद् धोमो विधीयते ॥ इति ।
होमाकरणे तुअ न भार्यात्वम् । अत एव वसिष्ठ-बौधायनौ ।
बलाद् अपहृता कन्या मन्त्रैर् यदि न संस्कृता ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥ इति । (वध् १७।७३; ब्ध् ४।१।१५)
तस्माद् गान्धर्वादिष्व् अपि सप्तपदाभिक्रमणसंभवाद् अस्ति भार्यात्वम् । ब्राह्मादिषु विवाहेषु यद् दानम् उक्तं तत् सकृद् एव । तथा च याज्ञवल्क्यः ।
सकृत् प्रदीयते कन्या हरंस् तां चोरदण्डभाक् । इति । (य्ध् १।६५)
मनुर् अपि ।
सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददानीति त्रीण्य् एतानि सतां सकृत् ॥ इति ।
एतच् चादुष्टवराभिप्रायम् । यद् आह नारदः ।
[९०] दत्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश् चेद् वरो राज्ञा स दण्ड्यस् तत्र चोरवत् ॥ इति । (न्स्म् १२।३२)
किम् अयम् उत्सर्गः । नेत्य् आह याज्ञवल्क्यः ।
दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत् । इति । (य्ध् १।६५)
एतद् वाग्दानाभिप्रायम् । यस्मै वाचा दत्ता ततो ऽन्यश् चेत् प्रशस्ततरो लभ्यते ततस् तस्मै देया न तु दुष्टाय पूर्वस्मै । तथा च गौतमः- “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न धद्यात्” इति (ग्ध् ४।५) । वरदोषास् तु कात्यायेनेनोक्ताः ।
उन्मत्तः पतितः कुष्ठी तथा षण्ढः सगोत्रजः ।
चक्षुःश्रोत्रविहीनश् च तथापस्मारदूषितः ॥
वदोषास् तथैवैते कन्यादोषाः प्रकीर्तिताः ॥ इति ।
यस् तु ऊढायाः पुनरुद्वाहो यम-शातातपाभ्यां दर्शितः ।
वरश् चेत् कुलशीलाभ्यां न युज्येत कथंचन ।
न मन्त्राः कारणं तत्र न च कन्यानृतं भवेत् ॥
समाच्छिद्य तु तां कन्यां बलाद् अक्षतयोनिकाम् ।
पुनर् गुणवते दद्याद् इति शातातपो ऽब्रवीत् ॥
[९१] हीनस्य कुलशीलाभ्यां हरन् कन्यां न दोषभाक् ।
न मन्त्राः कारणं तत्र न च कन्यानृतं भवेत् ॥ इति ।
कात्यायनो ऽपि ।
स तु यद्य् अन्यजातीयः पतितः क्लीब एव वा ।
विकर्मस्थः सगोत्रो वा दासो दीर्घामयो ऽपि वा ॥
ऊढापि देया सान्यस्मै सप्रावरणभूषणा ॥ इति ।
मनुर् अपि ।
नष्टे मृते प्रव्रजिते क्लीबे च पतिते तथा ।
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥ इति । (न्स्म् १२।९७)
सो ऽयं पुनर् उद्वाहो युगान्तरविषयः । तथा च आदित्यपुराणम् ।
ऊढायाः पुनर् उद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥ इति ।
यस् तु कन्यादोषम् अनभिधाय प्रयच्छति स राज्ञा दण्डयितव्य इत्य् आह नारदः ।
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥ इति । (न्स्म् १२।३३)
याज्ञवल्क्यो ऽपि ।
अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम् । (य्ध् १।६६)
[९२] इति । कन्यादोषास् तु नारदेन दर्शिताः ।
दीर्थकुत्सितरोगार्त्ता व्यङ्गा संस्पृष्टमैथुना ।
दृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ इति । (न्स्म् १२।३६)
न केवलं दोषम् अनाख्याय ददतो दण्डः अपि तु सापि परित्याज्येत्य् आह मनुः ।
विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् ।
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ इति । (म्ध् ९।७२)
नारदो ऽपि ।
नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् ।
दोषे सति न दोषः स्याद् अन्योन्यं त्यजतोस् तयोः ॥ इति । (न्स्म् १२।३१)
एतत् सप्तमपदाभिक्रमणाद् अर्वाग् वेदितव्यम्, तत्रैव भार्यात्वस्योत्पत्तेः । अत एव मनुः ।
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ इति । (म्ध् ८।२२७)
यमो ऽपि ।
नोदकेन न वा वाचा कन्यायाः पतिर् इष्यते ।
पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥
[९३] इति । पाणिग्रहणसंस्कारात् पूर्वं परिणेतुर् मरणे ऽपि न कन्यात्वं हीयते । तथा च वसिष्ठः ।
अद्भिर् वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुर् एव सा ॥ इति । (वध् १७।७२)
वरणानन्तरं देशान्तरगमने विशेषम् आह कात्यायनः ।
वरयित्वा तु यः कश्चित् प्रणश्येत् पुरुषो यदा ।
ऋत्वागमांस् त्रीन् अतीत्य कन्यान्यं वरयेद् वरम् ॥ इति ।
नारदो ऽपि ।
प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत् ।
त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥ इति । (न्स्म् १२।२४)
शुल्कं दत्वा यदि वरो म्रियते तदा किं कर्तव्यम् इत्य् अत आह मनुः ।
कन्यायां दत्तशुल्कायां म्रियते यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ इति । (म्ध् ९।९७)
देशान्तरगमने तु विशेषः कात्यायनेनोक्तः ।
प्रदाय शुल्कं गच्छेद् यः कन्यायाः स्त्रीधनं तथा ।
धार्या वा वर्षम् एकं तु देयान्यस्मै विधानतः ॥ इति ।
एवं च वाग्दानाद् आरभ्य सप्तमपदाभिक्रमणात् प्राक् [९४] दोषदर्शने मरणादौ वा कन्याम् अन्यस्मै दद्याद् इत्य् उक्तं भवति । अत एव कात्यायनः ।
अनेकेभ्यो हि दत्तायाम् अनूढायां तु तत्र वै ।
पुत्रागतश् च सर्वेषां लभेत तद् इमां सुताम् ॥
अथागच्छेत वोढायां दत्तं पूर्ववरो हरेत् । इति ।
अनूढायां यस्मै पूर्वं प्रतिश्रुता स एव कन्यां लभते । अन्येनोढायां तु स्वदत्तं शुल्कमात्रं हरेत् न कन्याम् इत्य् अर्थः । “लक्षण्यां स्त्रियम् उद्वहेत्” (य्ध् १।५२) इति यद् उक्तं तत्रोद्वहनीया कन्या द्विविधा । सवर्णा चास्वर्णा च । तयोर् आद्या प्रशस्ता । तद् आह मनुः ।
सवर्णाग्रे द्विजातीनां प्रशस्ता दारकमणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ इति । (म्ध् ३।१२)
अग्रे स्नातकस्य प्रथमविवाहे । दारकर्मणि अग्निहोत्रादौ धर्मे । सवर्णा वरेण समानो वर्णो ब्राह्मणादिर् यस्याः सा । यथा ब्राह्मणस्य ब्राह्मणी क्षत्रियस्य क्षत्रिया वैश्यस्य वैश्या प्रशस्ता । धर्मार्थम् आदौ सवर्णाम् ऊढ्वा पश्चाद् रिरंसवश् चेत् तदा तेषाम् अवराः हीनवर्णाः इमाः क्षत्रियाद्याः क्रमेण भार्याः स्मृताः । तथा च याज्ञवल्क्यः ।
[९५] तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविषां भार्या स्वा शूद्रजन्मनः ॥ इति । (य्ध् १।५७)
मनुर् अपि ।
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च सा चैव राज्ञः स्युः ताश् च स्वा चाग्रजन्मनः ॥ इति । (म्ध् ३।१३)
नारदो ऽपि ।
ब्राह्मणस्यानुलोम्येन स्त्रियो ऽन्यास् तिस्र एव तु ।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस् त्रयः ॥
द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।
वैश्याया द्वौ पती ज्ञेयाव् एको ऽन्यः क्षत्रियापतिः ॥ इति । (न्स्म् १२।५–६)
वसिष्ठ-पारस्कराव् अपि- “तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण । द्वे राजन्यस्य । एका वैश्यस्य । सर्वेषां वा शूद्राम् अप्य् एके मन्त्रवर्जम्” इति (वध् १।२४–२५; पार्गृ १।४।८–११) । पतिठीनसिः- [९६] “अलाभे कन्यायाः स्नातकव्रतं चरेत् । अपि वा क्षत्रियायां पुत्रम् उत्पादयीत । शूद्रायां वेत्य् एके” इति । विष्णुर् अपि ।
द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवेत् क्वचित् ।
रत्यर्थम् एव सा तस्य रागान्धस्य प्रकीर्तिता ॥ इति । (विध् २६।५)
एवं तावद् एतेषां मतेन द्विजानाम् आपदि शूद्रासंग्रहणं रतिमात्रफलम् अपि दोषमान्द्याद् (?) अनुज्ञातम् । इदानीम् अपरेषां मतेन ब्राह्मणक्षत्रिययोः तावच् छूद्रावर्जनम् एव युक्ततरं नोद्वाहः इत्य् उच्यते । तत्र मनुः ।
न ब्राह्मणक्षत्रिययोर् आपय् अपि हि तिष्ठतोः ।
कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥
हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।
कुलान्य् एव नयन्त्य् आशु ससन्तानानि शूद्रताम् ॥
शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥
शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥ इति । (म्ध् ३।१४–१९)
आश्वमेधिके ऽपि ।
[९७] शूद्रायोनौ पतद् बीजं हाहाशब्दं द्विजन्मनः ।
कृत्वा पुरीषगर्तेषु पतितो ऽस्मीति दुःखितम् ॥
माम् अधः पातयन्न् एष पापात्मा काममोहितः ।
अधोगतिं व्रजेत् क्षिप्रम् इति शप्त्वा पतत् तु तत् ॥ इति ।
ननु – “ताश् च स्वा चाग्रजन्मनः” (म्ध् ३।१३) इति मनुना शूद्राविवाहो विप्रस्याभ्यनुज्ञातः । पुनश् च तेनैव “न ब्राह्मणक्षत्रिययोः” (म्ध् ३।१४) इति स निषिद्धः अतो व्याहतिः, इति चेत्,
मैवम्, मतभेदेन युगभेदेन वा व्यवस्थोपपत्तेः । अत एव याज्ञवल्क्येन मत भेदः स्पष्टीकृतः ।
तद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः ।
नैतन् मम मतं यस्मात् तत्रायं जायते स्वयम् ॥ इति । (य्ध् १।५६)
आनुशासनिके ऽपि ।
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः ।
रत्यर्थम् अपि शूद्रा स्यान् नेत्याहुर् अपरे जनाः ॥ इति ।
युगभेदेन व्यवस्था च स्मृत्यन्तरे स्पष्टीकृता ।
[९८] असवर्णासु कन्यासु विवाहश् च द्विजातिभिः ।
इत्यादिम् अनुक्रम्य,
कुलौ युगे त्व् इमान् धर्मान् वर्ज्यान् आहुर् मनीषिणः ।
इत्य् उपसंहारात् । विवाहविधिस् तु मनुनाभिहितः ।
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
सवर्णास्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वासोदशा शूद्रया तु वर्णोत्कृष्टस्य वेदने ॥ इति । (म्स्म् ३।४३–४४)
शङ्खलिखिताव् अपि- “इषुं गृह्णाति राजन्या । प्रतोदं वैश्या । दशान्तं शूद्रा । ब्राह्मणस् तु सवर्णायाः पाणिं गृह्णीयात्” इति । पैठीनसिः- “साङ्गुष्ठं ब्राह्मण्याः पाणि गृह्णीयात् । क्षत्रिया शरम् । वैश्या प्रतोदम् । शूद्रा वस्त्रदशाम् । परिक्रमो ब्राह्मणस्योक्तो राजन्यवैश्ययोर् आचार्यपरिक्रमः” इति । कृतोद्वाहस्योपगमनियमम् आह मनुः ।
[९९] ऋतुकालाभिगामि स्यात् स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥ इति । (म्ध् ३।४५)
रजोदर्शनप्रभृति षोडशाहोरात्रात्मकः कालो गर्भग्रहणसमर्थो हि ऋतुः । तस्मिन् ऋताव् अपत्यार्थी सदा स्त्रियम् उपगच्छेत् । तच् चाभिगमनं स्वदारेष्व् एव । ऋताव् अपि पर्वतिथिं वर्जयेत् । अनृताव् अपि तया स्त्रिया प्रार्थितो विनाप्य् अपत्योद्देशं ताम् अभिगच्छेत् । यथानिर्दिष्टम् ऋतुं याज्ञवल्क्यो दर्शयत् ।
षोडशर्तुर् निशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् ।
ब्रह्मचार्य् एव पर्वाणि आद्याश् चतस्रश् च् वर्जयेत् ॥ इति । (य्ध् १।७९)
तस्मिन् ऋतौ पर्वाणि आद्याश् चतस्रो रात्रीश् च वर्जयित्वा युग्मासु समासु षष्ठीप्रभृतिषु गच्छेत् पुत्रार्थम् । अयुग्मासु स्त्रीजन्मभयाद् अगमनम्, न तु प्रतिषिद्धत्वात् । युग्मास्व् अपि रात्राव् एवोपगमनं नाहनि, प्रतिषिद्धत्वात् । तथा च अथर्वणी श्रुतिः- “प्राणं वा एते प्रस्कन्दन्ति । ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यम् एव तद् यद् रात्रौ रत्या संयुज्यन्ते” इति (प्रशुप् १।१३) । शङ्खलिखिताव् अपि- [१००] “नार्तवे दिवा मैथुनं व्रजेत्” इति । “ऋतुकालाभिगामी स्यात्” इत्य् अत्र नियमद्वयं वेदितव्यम् । ऋतौ गच्छेद् एव न तु वर्जयेत् – इत्य् एको नियमः । ऋताव् एव गच्छेन् नानृतौ इत्य् अपरः । अत एव देवलः ।
स्वयं दारान् ऋतुस्नातान् स्वस्थश् चेन् नोपगच्छति ।
भ्रूणहत्याम् अवाप्नोति गर्भं प्राप्तं विनाश्य सः ॥ इति ।
बौधानयो ऽपि ।
त्रीणि वर्षाण्य् ऋतुमतीं यो भार्यां नोपगच्छति ।
स तुल्यं भ्रूणहत्याया दोषम् ऋच्छत्य् असंशयम् ॥
ऋतौ नोपैति यो भार्याम् अनृतौ यश् च गच्छति ।
तुल्यम् आहुस् तयोः पापम् अयोनौ यश् च सिञ्चति ॥ इति । (ब्ध् ४।१।१७, १९)
पर्ववर्जम् इत्य् अनेन निषिद्धतिथिनक्षत्राण्य् उपलक्ष्यन्ते । निषिद्धपर्व त्व् अमावास्या पौर्णमासी च । तत्र स्त्रीगमनं श्रुत्या निषिद्धम्- “नामावास्यायां च पौर्णमास्यां च स्त्रियम् उपेयात् यद्य् उपेयान् निरिन्द्रियः स्यात्” इति (त्स् २।५।६।४) । अन्याश् च निषिद्धास् तिथयो ऽष्टम्यादयः । तत्र मनुः ।
अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ (म्ध् ४।१२८)
[१०१] इति । अमावास्यादयो यास् तिथयः तासु “स्त्रीसङ्गत्यागेन” इत्य् अध्याहृत्य योजनीयम् । ऋतुकाले ऽपि दिनषट्कं वर्ज्यम् इत्य् स एवाह ।
तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या ।
त्रयोदशी च शेषास् तु प्रशस्ता दश रात्रयः ॥ इति । (म्ध् ३।४७)
निषिद्धं नक्षत्रं याज्ञवल्क्यो दर्शयति ।
एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । इति । (य्ध् १।८०)
क्षामां लघ्वाहारादिना कृशाम् इत्य् अर्थः । अत एव बृहस्पतिः स्त्रीपुंसयोर् आहारविशेषं सनिमित्तम् आह ।
स्त्रिया शुक्रे ऽध्के स्त्री स्यात् पुमान् पुंसो ऽधिके भवेत् ।
तस्मात् शुक्रविवृद्ध्यर्थं स्निग्धं वृष्यं च भक्षयेत् ॥
लघ्वाहारां कुर्याद् एवं संजनयेत् सुतम् ॥ इति ।
मनुर् अपि ।
पुमान् पुंसओ ऽध्के शुक्रे स्त्री भवत्य् अधिके स्त्रियाः ।
समे ऽपुमान् पुंस्त्रियोर् वा क्षीणे ऽल्पे च विपर्ययः ॥ इति । (म्ध् ३।४९)
अपुमान् इत् छेदः । संक्रान्तिश् च पञ्चपर्वान्तःपातित्वाद् वर्जनीया । तद् उक्तं विष्णुपुराणे ।
[१०२] चतुर्दश्य् अष्टमी चैव अमावास्या च पूर्णिमा ।
पर्वाण्य् एतानि राजेन्द्र रविसंक्रान्तिर् एव च ॥
तैलस्त्रीमांसभोगी च पर्वस्व् एतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं नृप ॥ इति । (विपु ३।११।११४–१५)
देशाश् च वर्ज्यास् तत्रैव दर्शिताः ।
चैत्यचत्वरसौधेषु नैव देवचतुष्पथे ।
नैव श्मशानोपवनसलिलेषु महीपते ॥
गच्छेद् व्यवायं मतिमान् मूत्रोच्चारप्रपीडितः ॥ इति । (विपु ३।११।११८–१९)
स्वदारनिरत इत्य् अनेन मनसापि परदारगमनं निषिद्धतया विवक्षितम् । एतद् अपि तत्रैव दर्शितम् ।
परदानान् न गच्छेत मनसापि कथंचन ।
परदाररतिः पुंसाम् उभयत्रापि भीतिदा ॥
इति मत्वा स्वदारेषु ऋतुमत्सु व्रजेद् बुधः ॥ इति । (विपु ३।११।१२१–२३)
अन्यद् अपि वर्ज्यं तत्रैव दर्शितम् ।
नास्नातां तु स्त्रियं गच्छेन् नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां नाप्रशस्तां न रोगिणीम् ॥
[१०३] नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।
क्षुत्क्षामां नातिभुक्तां वा स्वयं चैतैर् गुणैर् युतः ॥
स्नातः स्रग्गन्धधृक् प्रीतो व्यवायं पुरुषो व्रजेत् ॥ इति । (विपु ३।११।१११–१३)
तद्व्रतः इत्य् अनेन श्रौतं वरं स्मारयति । तथा च श्रुतिः- “स स्त्रीषं सादम् उपासीददद् अस्यै ब्रह्महत्यायै तृतीयं प्रतिगृह्णीतेति ता अब्रुवन् वरं वृणामहा ऋत्वियात् प्रजां विन्दामहै कामम् आ विजनतोः संभवामेति तस्माद् ऋत्वियात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनतोः संभवन्ति वारे वृतं ह्य् आसां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्त् सा मलवद्वासाभवत्” इति (त्स् २।५।१।५) । अयम् अर्थः – इन्द्रः किल विश्वरूपनाम्नः पुरोहितस्य वधात् ब्रह्महत्याम् उपागताम् अञ्जलिना स्वीकृत्य संवत्सरं घृत्वा लोकापवादाद् भीतस् तां त्रेधा विभज्य प्रथमम् भागं पृथिव्यौ द्वितीयभागं [१०४] वनस्पतिभ्यो वरपूर्वकं दत्वा तृतीयभागदानाय स्त्रीसमूहम् उपागमत् । ताश् च वरम् अयाचन्त । ऋतुकालगमनात् प्रजां लभेमहि आ प्रसवम् अनृताव् अपि यथेच्छं संभवामेति । वरं लब्ध्वा तृतीयं भागं प्रत्यगृह्णन् । स च भागो रजोरूपेण परिणतः । ततः प्रभृति मासि मासि योषिन् मलवद्वासाः संपन्नेति । याज्ञवल्क्यो ऽपि ।
यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् ।
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृतः ॥ इति । (य्ध् १।८१)
बृहस्पतिर् अपि ।
ऋतुकालाभिगमनं पुंसा कार्यं प्रयत्नतः ।
सदैव वा पर्ववर्जं स्त्रीणाम् अभिमतं हि तत् ॥ इति ।
ऋतुकालाभिगमनम् इत्य् अत्र केचिद् एवम् आचक्षते – अजातपुत्रस्यैवैष नियमो न तु जातपुत्रस्य इति । उपपादयन्ति च । तत्र कूर्मपुराणम् ।
ऋतुकालाभिगामी स्याद् यावत् पुत्रो ऽभिजायते । इति । (कूपु १।२।१५।११)
ऋणापाकरणार्थं हि पुत्रोत्पादनम् । तथा च श्रुतिः- “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः [१०५] प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी” इति (त्स् ६।३।१०।५) । मन्त्रवर्णो ऽपि ।
ऋणम् अस्मिन् संन्ययत्य् अमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच् चेज् जीवतो मुखम् ॥ इति । (ऐता ७।३।४)
तद् एतद् ऋणापाकरणम् एकपुत्रोत्पादनेन संपद्यते, तावतापि पुत्रत्वसिद्धेः । तथा च मनुः ।
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणाम् अनृणश् चैव स तस्मात् सर्वम् अर्हति ॥
यस्मिन् ऋणं संन्ययति येन चानन्त्यम् अश्नुते ।
स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ॥ इति । (म्ध् ९।१०६––०७)
ननु – बहुपुत्रत्वम् अपि क्वचित् श्रूयते,
इमां त्वम् इन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
दशास्यां पुत्रान् आधेहि पतिम् एकादशं कृधि ॥ इति । (ऋग्वेदः ८।३।२८।५)
क्रीडन्तौ पुत्रैः । इति । (ऋग्वेदः ८।३।२८।२)
[१०६] रयिं च पुत्रां चादात् । इति च । (ऋग्वेदः ८।३।२८।१)
सत्यम् । नायं विधिः । किं तु बह्वपत्यप्रशंसा । तस्माद् अजातपुत्रस्यैवायं ऋतुगमननियमः इति । एतद् अपरे न क्षमन्ते । यद्य् अपि पुत्रित्वम् आनृण्यं चैकेनैव पुत्रेण संपद्यते तथाप्य् अस्ति बहुपुत्रत्वविधिः- “एतम् उ एवाहम् अभ्यगासिषं तस्मान् मम त्वम् एको ऽसीतीह कौषीतकिः पुत्रम् उचाव । रश्मींस् त्वं पर्यावर्तयाद् बहवो वै ते भवैष्यन्ति” (छु १।५।२) इति छन्दोगैर् आम्नानात् । तस्य चायम् एवार्थः कौषीतकिर् नाम मुनिः स्वयम् आदित्यमण्डलम् एकम् एवोपासीन उद्गानं कृत्वा तत्फलत्वेन पुत्रम् एकं प्रतिलभ्य तम् उवाच अहम् एतम् एकम् एवादित्यं ध्यायन् गानम् अकार्षं तस्माद् दोषान् मम त्वम् एक एव पुत्रो ऽसि । एकपुत्रत्वं च न प्रशस्तम् । अतस् त्वं बहुपुत्रतायै रश्मीन् बहून् उपासितवेलायाम् आवर्तय इति ।
महाभारते ऽपि ।
अपत्यं नस् त्वम् एवैकः कुले महति भारत ॥
अनपत्यं त्व् एकपुत्रम् इत्य् आहुर् धर्मवादिनः ॥
चक्षुर् एकं च पुत्रश् च अस्ति नास्तीति भारत ।
चक्षुर्नाशे तनोर् नाशः पुत्रनाशे कुलक्षयः ॥
[१०७] अनित्यतां च मर्त्यानां मत्वा शोचामि पुत्रक ।
सन्तानस्याविनाशं तु कामये भरद् अस्तु ते ॥ ॥ इति । (म्ध् आदि १००।६१–६४)
ननु – ज्येष्ठेनैव पुत्रेणानृण्यसिद्धेर् निरर्थकं पुत्रान्तरोत्पादनम् ।
तन् न, सर्वेषां पुत्राणाम् आनृण्यहेतुत्वात् । न हि पुत्रजननमात्रेण पितुर् आनृण्यम् । किं तर्हि सम्यग् अनुशिष्ठेन पुत्रेण शास्त्रीयेषु कर्मस्व् अनुष्ठितेषु पश्चाद् आनृण्यं संपद्यते । अत एव वाजसनेयिब्राह्मणे पुत्रानुशासनविधिः समाम्नातः- “तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुस् तस्माद् एनम् अनुशासति । स यद्य् अनेन किंचिद् अक्ष्णयाकृतं भवति तस्माद् एनं सर्वस्मात् पुत्रो मुञ्चति । तस्मात् पुत्रो नाम स पुत्रेणैवास्मिंल् लोके प्रतितिष्ठति” इति (बाउ १।५।१७) । अस्यायम् अर्थः – अस्ति किंचित् संप्रतिपत्तिनामकं कर्म । यदा पितुर् मरणावसरो भवति तदा पुत्रम् आहूय वेदाध्ययने यज्ञे लौकिकव्यापारे च यद् यत् कर्तव्यजातं तस्य सर्वस्य पुत्रे संप्रदानं कर्तव्यम् । सेयं संप्रतिपत्तिः । तस्यां च [१०८] संप्रतिपत्तौ यस्माद् अनुशिष्ट एव पुत्रो ऽधिकारी तस्माद् अनुशिष्टं पुत्रं परलोकहितम् आहुः शास्त्रज्ञाः । अत एव पुत्रानुशासनं कुर्युः पितरः । स चानुशिष्टः पुत्रः यत् किंचित् स्वपित्रा शास्त्रीयं कर्म अक्ष्णया वक्रत्वेन शास्त्रवैपरीत्येन कृतं भवति तस्मात् सर्वस्मात् पापाद् एनं(?) स्वपितरं स्वयं शास्त्रीयं कर्म सम्यग् अनुतिष्ठन् मोचयति । तस्मात् पुन्नाम्नो नरकात् त्रायते – इति व्युत्पत्त्या पुत्रो नाम । स च पिता स्वयं मृतः पुत्रशरीरेणैवास्मिन् लोके यथाशास्त्रं कर्म कुर्वन्न् अनुतिष्ठति – इति ।
एवं सति बहूनां मध्ये यथावदनुशासनं प्रज्ञामांद्यादिप्रतिबन्धबाहुल्यात् कस्यचिद् एव संपद्यते । अनुशिष्टेष्व् अपि बहुषु यथावदनुष्ठानं कस्यविद् एव । अतो ज्येष्ठः कनिष्ठो वा यस् तादृशः स एवानृण्यहेतुः । अत एव पुराणे ऽभिहितम् ।
एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् । इति । (विध् ८५।६७)
“दशास्यां पुत्रान् आधेहि” (ऋग्वेदः ८।३।२८।५) [१०९] इत्यादिमन्त्राश् चैवं सति बहुपुत्रत्वविधिम् उपोद्वलयन्ति । यत् तु “कामजान् इतरान्” इति मनुनोदाहृतं तदननुशिष्टविषयम् । तस्मात् जातपुत्रो ऽप्य् ऋताव् उपेयाद् एव । बहूनां पत्नीनाम् ऋतुयौगपद्ये क्रमम् आह देवलः ।
यौगपद्ये तु तीर्थानां विप्रादिक्रमशो व्रजेत् ।
रक्षणार्थम् अपुत्रां वा ग्रहणक्रमशो ऽपि वा ॥ इति ।
तीर्थम् ऋतुः । तद्यौगपद्ये सत्य् असवर्णासु वर्णक्रमेण सवर्णासु विवाहक्रमेण गच्छेत् । यदा तु काचिद् अपुत्रा पुत्रवत्य इतराः तदा अपुत्रां अग्रतो गच्छेत् । ऋताव् अपि जातिभेदेनोपगमनकालसङ्कोचम् आह देवलः ।
ब्राह्मण्यां द्वादशाहं स्याद् वेदोक्तम् ऋतुधारणम् ।
दशाष्टौ षट् च शेषाणां विधीयन्ते ऽनुपूर्वशः ॥ इति ।
पञ्चमदिवसम् आरभ्य द्वादशाहादिसंख्यावगन्तव्या । चतुर्थे तु दिवसे गमनं वैकल्पिकम्, विहितप्रतिषिद्धत्वात् । तथा च हारीतो विदधाति- “चतुर्थे ऽहनि स्नातायां युग्मासु वा गर्भाधानम्” इति (हार्स्म् २।९) । व्यासो निषेधति ।
[११०] चतुर्थे सा न गम्याह्नि गताल्पायुं प्रसूयते । इति ।
व्यवस्थितविकल्पश् चायम् उदितानुदितहोमवत् । रजोनिवृत्तौ चतुर्थ्यां विधिः तदनुवृत्तौ प्रतिषेधः । तथा च मनुः ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला । इति । (म्ध् ५।६६)
साध्वी गर्भाधानादिविहितकर्मयोग्येत्य् अर्थः । दिनविशेषेणोपगमने फलविशेषो ऽभिहितो लिङ्गपुराणे ।
चतुर्थे सा न गम्याह्नि गताल्पायुं प्रसूयते ।
विद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम् ॥
दारिद्र्यार्णवमग्नं च तनयं संप्रसूयते ।
कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत् पुनः ॥
षष्ठ्यां गम्या महाभागा सत्पुत्रजननी भवेत् ।
सप्तम्यां चैव कन्यार्थी गच्छेत् सैव प्रसूयते ॥
अष्टम्यां सर्वसंपन्नं तनयं संप्रसूयते ॥
नवम्यां दारिकार्थं स्याद् दशम्यां पण्डितं तथा ।
एकादश्यां तथा नारीं जनयत्य् एव पूर्ववत् ॥
द्वदश्यां धर्मतत्त्वज्ञं श्रौतस्मार्तप्रवर्तकम् ।
[१११] त्रयोदश्यां जडां नारीं वर्णसङ्करकारिणीम् ॥
जनयत्य् अङ्गना तस्मान् न गच्छेत् सर्वयत्नतः ।
चतुर्दश्यां यदा गच्छेत् सुपुत्रजननी भवेत् ॥
पञ्चदश्यां च धर्मिष्ठां षोडश्यां ज्ञानपारगम् ॥ इति । लिपु १।८९।१०९–१८)
ऋतुकालानभिगमने यो दोषो ऽभिहितः तस्यापवादम् आह व्यासः ।
व्याधितो बन्धनस्थो वा प्रवासेष्व् अथ पर्वसु ।
ऋतुकाले ऽपि नारीणां भ्रूणहत्या प्रमुच्यते ॥
वृद्धां वन्ध्याम् अवृत्तां च मृतापत्याम् अपुष्पिणीम् ।
कन्यां च बहुपुत्रां च वर्जयन् मुच्यते भयात् ॥ इति ।
भ्रूणहत्या भ्रूणहननम् । उक्तरीत्या यस्यां वृद्धत्वादिदोषरहितायाम् ऋतुकालोपगमनम् अवश्यंभावि यस्यां च वृद्धादौ नावश्यंभावि सा सर्वापि सम्यक् पालनीया । तथा च मनुः ।
पितृभिर् भ्रात्र्भिश् चैताः पतिभिर् देवतैस् तथा ।
पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः ॥
यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥
[११२] शोचन्ति जामयो यत्र विनश्यत्य् आशु तत्कुलम् ।
न शोचन्ति तु यत्रैता वर्धन्ते तद् धि सर्वदा ॥
जामयो यानि गेहानि शपन्त्य् अप्रतिपूजिताः ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥
तस्माद् एताः सदाभ्यर्च्या भूषणाच्छादनाशनैः ।
भूतिकामैर् नरैर् नित्यं सत्कारेषूत्सवेषु च ॥
संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ इति । (म्ध् ३।५५–६०)
पूज्यत्वं चावृत्ताव्यतिरिक्तासु द्रष्टव्यम् । अवृत्तायास् तु प्राणयात्रामात्रभोजनम् । तथा च याज्ञवल्क्यः ।
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥ इति । (य्ध् १।७०)
यथा विन्ना साध्वी भर्तव्या तथैवाधिविन्नापि । तद् आह स एव ।
अधिविन्नापि भर्तव्या महद् एनो ऽन्यथा भवेत् । इति । (य्ध् १।७४)
अधिवेदनं भार्यान्तरपरिग्रहः । अधिवेदननिमित्तान्य् अपि स एवाह ।
[११३] सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा ।
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ इति । (य्ध् १।७३)
सुरापी मद्यपीत्य् अर्थः । सुरापाने तु नाधिवेदनमात्रम् । अपि तु त्याग एव, “तथा महति पातके” (य्ध् १।७२) इति त्यागहेतुत्वेनाभिधानात्,
पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । (वध् २१।१५)
इति वचनाच् च । अत एव मनुः ।
मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥ इति । (म्ध् ९।८०)
व्याधिता दीर्घरोगिणी । ब्रह्मपुराणे ऽपि ।
धर्मविघ्नकरीं भार्याम् असतीं चातिकोपिनीम् ।
त्यजेद् धर्मस्य रक्षार्थं तथैवाप्रियवादिनीम् ॥ इति ।
त्यजेद् अधिविन्देत । न तु भोगं परित्यजेत् ।
[११४] अधिवेदनकालविशेषो मनुना दर्शितः ।
वन्ध्याष्टमे ऽधिवेद्याब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सदस् त्व् अप्रियवादिनी ॥ इति । (म्ध् ९।८१)
व्याधितायां विशेषम् आह स एव ।
या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नावमान्या तु कर्हिचित् ॥ इति । (म्ध् ८।८२)
अधिवेदनं द्विविधम् । धर्मार्थं कामार्थं च । तत्र पुत्रोत्पत्त्यादिधर्मार्थे पूर्वोक्तानि मद्यपेत्यादीन् निमित्तानि । कामार्थे तु न सान्य् अपेक्षणीयानि । किं तु पूर्वोढा तोषणीया । तथा च स्मृत्यन्तरे ।
एकाम् उत्क्रम्य कामार्थम् अन्यां लब्धुं य इच्छति ।
समर्थस् तोषयित्वार्थैः पूर्वोढाम् अपराम् वहेत् ॥ इति ।
यद्य् असौ स्वयं न तोषयेत् तदा तत्तोषणाय राजा द्रव्यं दापयेत् । तद् आह याज्ञवल्क्यः ।
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ (य्ध् १।७६)
**[११५] **इति । सधनस्य तृतीयांशदानं निर्धनस्याशनाच्छादनादिना पोषणम् इति । या तूक्तद्रव्यापरितोषणात् प्रकारान्तरेण वा निर्गच्छेत् तां प्रत्य् आह मनुः ।
अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ इति । (म्ध् ९।८३)
त्यागो नाम तदीयजनककुलप्रेषणम् । “पूज्या भूषयितव्याश् च” (म्ध् ३।५५) इति यद् उक्तं तत्र बहुपत्नीकस्य पूजाक्रमम् आह मनुः ।
यदि स्वाश् चावराश् चैव विन्देरन् योषितो द्विजाः ।
तासां वर्णक्रमेण स्याज् ज्यैष्ठ्यं पूजा च विश्मनि ॥
भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् ।
स्वा स्वैव कुर्यात् सर्वेषां नासजातिः कथंचन ॥ इति । (म्ध् ९।८५–८६)
बह्वीषु पत्नीषु सहधर्मचारिणीं निर्धारयति याज्ञवल्क्यः ।
सत्याम् अन्यां सवर्णायां धर्म्कार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतराः ॥ (य्ध् १।८८)
[११६] इति । सवर्णयैव सह धर्मं चरेत् नासवर्णया । अलाभे तु सवर्णाया इतरयापि सह धर्मं चरेद् इत्य् अर्थाल् लभ्यते । न च – एवं सति शूद्रयापि सहधर्मचरणं प्रसज्येत – इति वाच्यम्, वसिष्ठवचनेन तन्निषेधात्- “कृष्णवर्णा या रामा रमणायैव सा न धर्माय” इति (वध् १८।१८) । सवर्णानेकत्वे तु धर्मानुष्ठाने ज्येष्ठया विना मध्यमा कनिष्ठा च न योक्तव्ये । किं तु ज्येष्ठया कनीयस्यो विनियोक्तव्याः । तथा च बौधायनः- “एकैकाम् एव सान्नाह्येद् एकैकां गार्हपत्यम् ईक्षेत् एकैकाम् आज्यम् अवेक्षयेत्” इत्यादि । कात्याननः ।
नैकयापि विना कार्यम् आधानं भार्यया द्विजैः ।
अकृतं तद् विजानीयात् सर्वान् अन्वारभन्ति यत् ॥ इति । (क्स्म् १।८।५)
यद् यस्मात् सर्वान् अन्वारभन्ते तस्माद् एकया कृतम् अप्य् अकृतम् एव ।
केचिद् अत्र “ज्येष्ठया न विनेतराः” (य्ध् १।८८) [११७] इति वचनम् अन्यथा व्याचक्षते । ज्येष्ठैव सहधर्मचारिणी नेतराः – इति । उदाहरन्ति च तत्र विष्णुवचनम्-
अग्निहोत्रादियज्ञेषु न द्वितीया सहाचरेत् ।
अन्यथा निष्फलं तस्य स्विष्टैः क्रतुशतैर् अपि ॥ इति
एतद् व्याख्यानं बौधायन-कात्यायनवचनविरोधान् नादरणीयम् । विष्णुवचनं त्व् असवर्णद्वितीयाविषयम् । सत्स्व् अग्निषु या परिणीता तद्विषायं वा । नष्टेष्व् अग्निषु पुनराधाने तस्या अपि कर्तृत्वाद् अग्निहोत्रादिषु सहाधिकारः । तत्रैव विशेषम् आह कात्यायनः ।
अग्निहोत्रादिशुश्रूषां बहुभार्यः सवर्णया ।
कारयेत् तद्बहुत्वे च ज्येष्ठया गर्हिता न चेत् ॥
या वा स्यात् वीरसूर् आसाम् आज्ञासंपादिनी च या ।
दक्षा प्रियंवदा शुद्धा ताम् अत्र विनियोजयेत् ॥
दिनक्रमेण वा कर्म यथाज्यैष्ठ्यं स्वशक्तितः ।
विभज्य सह वा कुर्युः यथाज्ञानं च शास्त्रवत् ॥ इति । (क्स्म् २।१९।३–५)
यदि ज्येष्ठा न गर्हिता तदा तया कारयेत् । गर्हिता चेत् कनिष्ठया वीरसुवा कारयेत् । वीरसुवो ऽपि बह्व्यश् चेत् तासाम् अपि मध्ये आज्ञासंपादनादिगुणयुक्तां [११८] विनियोजयेत् । प्रतिदिनम् एका कर्तुम् अशक्ता चेत् तदा दिनक्रमेण यथाज्यैष्ठ्यं कारयेत् । एकस्मिन्न् अपि दिने यद्य् एका कृत्स्नं कर्तुम् अशक्ता तदा सर्वास् तत् कर्म यथाज्ञानं विभज्य कुर्युः । यत् तु कात्यायनेनैवोक्तम्,
प्रथमा धर्मपत्नी स्याद् द्वितीया रतिवर्धिनी ।
दृष्टम् एव फलं तत्र नादृष्टम् उपपद्यते ॥
इति, तद् विष्णुवचनेन समानार्थम् ।
इत्थं सविशेषो विवाहो निरूपितः
अथ सवर्णासवर्णाविवाहप्रसङ्गेन बुद्ध्यारूढानाम् अनुलोमप्रतिलोमजातानां व्यवहारोपयोगिसंज्ञाप्रतिपत्त्यर्थं जातिभेदो निरूप्यते । तत्र याज्ञवल्क्यः ।
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः सन्तानवर्धनाः ॥ इति । (य्ध्१।९०)
सजातयो मातापितृसमानजातीयाः । मनुर् अपि ।
सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु ।
आनुलोम्येन संभूता जात्या ज्ञेयास् त एव ते ॥ इति । (म्ध् १०।५)
ब्राह्मणदम्पतीभ्याम् उत्पन्नो जात्या ब्राह्मणो भवेत् । एवं क्षत्रियादिष्व् अपि । देवलो ऽपि ।
ब्राह्मण्यां ब्राह्मणाज् जातः संस्कृतो ब्राह्मणो भवेत् ।
एवं क्षत्रियविट्शूद्रा ज्ञेयाः स्वेभ्यः स्वयोनिजाः ॥ इति ।
असवर्णास्व् अनुलोमजान् आह मनुः ।
[११९] स्त्रीष्व् अनन्तजातासु द्विजैर् उत्पादितान् सुतान् ।
सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥ इति । (म्ध् १०।६)
ऊढायां क्षत्रियायां ब्राह्मणाद् उत्पन्नो ब्राह्मणसदृशो न तु मुख्यब्राह्मणः, हीनजातीयमातृसंबन्धात् । एवम् अन्यत्रापि । ते चानुलोमजा मूर्धावसिक्तादिजातिभेदेन षड्विधाः । ते च याज्ञवल्क्येन दर्शिताः ।
विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अब्मष्ठः शूद्र्यां निषादो जातः पारसवो ऽपि वा ॥
वैश्याशुद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ इति । (य्ध् १।९१–९२)
तत्र ब्राह्मणाज् जातास् त्रयः । क्षत्रियात् द्वौ । वैश्याद् एकः । तद् उक्तं मनुना ।
विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः ।
वैश्यस्य वर्ण एकस्मिन षड् एते ऽपसदाः स्मृताः ॥ इति । (म्ध् १०।१०)
मुख्यपितृजात्यभावात् अपसदाः ।
ननु – मूर्धावसिक्तत्वादीनि न जात्यन्तराणि अनुलोमजानां मातृजातीयत्वात् । तद् आह विष्णुः- [१२०] “समानवर्णासु पुत्राः समानवर्णा भवन्ति । अनुलोमासु मातृसवर्णाः । प्रतिलोमास्व् आर्यविगर्हिताः” इति (विध् १६।१–३) । शङ्खो ऽपि- “क्षत्रियायां ब्राहणेनोत्पन्नः क्षत्रिय एव भवति । क्षत्रियाद् वैश्यायां वैश्य एव भवति । वैश्येन शूद्र्यां शूद्र एव भवति” इति ।
नैष दोषः, अनयोर् वचनयोर् मातृजात्युदितधर्मप्राप्त्यर्थत्वात्, अन्यथा बीजोत्कर्षवैयर्थ्यापत्तेः । यथा क्षेत्रापकर्ष उत्कृष्टजातिनिवारकः एवं बीजोत्कर्षो ऽपि निकृष्टजातिं कुतो न निवारयेत् । तस्मात् जात्यन्तराण्य् एव मूर्धावसिक्तत्वादीनि ।
ननु – देवेलेनानुलोमजातयो ऽन्यथा वर्णिताः-
ब्राह्मणात् क्षत्रियायां तु सवर्णो नाम जायते ।
क्षत्रियाच् चैव वैश्यायां जातो ऽम्बष्ठ इति स्मृतः ॥ इति ।
नायं दोषः, एकस्याम् एव जातौ मूर्धावसिक्त-सवर्णसंज्ञयोर् विकल्पेन प्रवृत्तत्वात् । एवम् अम्बष्टादिष्व् अपि । न चैकत्र संज्ञाविकल्पे दृष्टान्ताभावः शङ्कनीयः । एकत्र निषादपारसवसंज्ञाविकल्पस्य मनु-देवल-याज्ञवल्क्यैर् उदाहृतत्वात् । प्रतिलोमजास् तु मनुना दर्शिताः ।
[१२१] क्षत्र्याद् विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान् मागधवैदेहौ राजविप्राङ्ग्नासुतौ ॥
शूद्राद् आयगवः क्ष्त्ता चण्डालश् चाधमो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ॥
आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम् ।
प्रातिलोम्येन जायन्ते शूद्राद् अपसदास् त्रयः ॥
वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु ॥ इति । (म्ध् १०।११–१७)
देवलो ऽपि ।
शूद्राद् आयोगवः क्षत्ता चण्डालः प्रतिलोमजाः \
वैश्यायां क्षत्रियायां च ब्राह्मण्यां च यथाक्रमम् ॥
तथैव मागधो वैश्याज् जातो वैदेहकस् तथा ।
ब्राह्मण्यां क्षत्रियाज् जातः सूतो जात्या च कर्मणा ॥ इति ।
याज्ञवल्क्यो ऽपि ।
ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहिकस् तथा ।
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥
क्षत्रिया मागधं वैश्यात् शूद्रात् क्षत्तारम् एव च ।
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ इति । (य्ध् १।९३–९४)
वर्णानाम् अनुलोमजानां प्रतिलोमजानां च परस्परसांकर्येणोत्पन्नाः श्वपाकपुल्कसकुक्कुटादयो जातिविशेषास् त्व् [१२१] अनेकविधाः । ते च तद्वृत्तयश् च पुराणसारे प्रपञ्चिताः । तेषु च जातिविशेषेषूत्तमाधमभावं विविनक्ति देवलः ।
तेषां सवर्णजाः श्रेष्ठास् तेभ्यो ऽन्वग् अनुलोमजाः ।
अन्तराला बहिर्वर्णाः पतिताः प्रतिलोमजाः ॥ इति ।
विजातीयान् मिथुनाद् उत्पन्ना अन्तरालाः । ते च द्विविधाः अनुलोमजाः प्रतिलोमजाश् च । तत्रानुलोमजाः सवर्णजेभ्यो हीना अपि न वर्णबाह्याः, मातृसमानवर्णत्वात् । प्रतिलोमजास् तु वर्णबाह्यत्वात् पतिता अधमाः । याज्ञवल्क्यो ऽपि ।
असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः । इति । (य्ध् १।९५)
क्वचिद् अधमजातेर् अप्य् उत्तमजातिप्राप्तिर् भवति । तद् आह स एव ।
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा । इति । (य्ध् १।९५)
कूटस्थस्त्रीपुंसयुगम् आरभ्य परिगणनायां पञ्चमे षष्ठे सप्तमे वानुलोमेन युग्मे जातिर् उत्कृष्यते । तद् यथा । पुमान् विप्रः वधूः शूद्रा तयोर् युग्मं कूटस्थम् । तस्माद् उत्पन्ना विषादी सापि विप्रेणोढा तयोर् युग्मं द्वितीयम् । एवं तदुत्पन्नायां वध्वां विप्रेणोढायां तृतीयादियुग्मपरम्परा भवति । तत्र सप्तमे युग्मे जातम् अपत्यं ब्राह्मण्योपेतं भवति । एवं वैश्याविप्रयुगुलं कूटस्थम् । तस्माद् उत्पन्नाम्बष्ठा तस्याश् च विप्रस्य च युग्मं द्वितीयम् । एवं तदुत्पन्नाया विप्रेणोढायां षष्ठं यद् युग्मं तस्माद् उत्पन्नस्य ब्राह्मण्यं भवति । तथा क्षत्रियाविप्रयोर् युग्मं कूटस्थम् । [१२३] तदुत्पन्ना मूर्धावसिक्ता । तस्याश् च विप्रस्य च युग्मं द्वितीयम् । तत्परम्परायां पञ्चमाद् युग्माद् उत्पन्नस्य ब्राह्मण्यं भवति । एतद् उक्तं भवति – पञ्चमे षष्ठे सप्तमे वेति व्यवस्थितविकल्पाः । कूटस्थयोर् दम्पत्योः समनन्तरैकान्तरद्व्यन्तरजातियोगे पञ्चमादयो ऽवगन्तव्याः इति । तथा च स्ति शूद्रावैश्ययोर् वैश्याक्षत्रिययोश् च समन्तरत्वात् पञ्चमे, शूद्राक्ष्त्रिययोस् तु षष्ठे जातिर् उत्कृष्यते । क्वचिद् उत्तमजातेर् अप्य् अधमजातिप्राप्तिर् भवति । तद् आह स एव ।
व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् । इति । (य्ध् १।९६)
विप्रादीनां चतुर्णां वर्णानां मुख्यवृत्तितया विहितानि याजनपालनपासुपाल्यद्विजशुश्रूषादीनि यानि कर्माणि तेषाम् आपदि व्यत्यये विपर्यासे सति यदि निवृत्तायाम् अप्य् आपदि ताम् अधमवृत्तिं न परित्यजेत् तथा पुत्रपौत्रादयो ऽपि तां न परित्यजेयुः तदानीं पूर्ववत् पञ्चमषष्ठसप्तमेषु युग्मेषु जातम् अपत्यं तद्वृत्त्युचितजातिसाम्यं प्रतिपद्यते – इति । तद् यथा – ब्राह्मणः शूद्रवृत्त्या जीवन् यदि पुत्रम् उत्पादयति सो ऽपि तथैव इत्य् एवं परम्परायां सप्तमाद् उत्पन्नस्य शूद्रत्वं भवति । एवं क्षत्रियः शूद्रवृत्त्या जीवन् षष्ठे युग्मे शूद्रं जनयति । वैश्यस् तु पञ्चमे युग्मे – इति द्रष्टव्यम् । ‘पूर्ववत्’ – इति आरभ्येत्य् अर्थः । अधरोत्तरम् इति भावप्रधानो निर्देशः । यथा वर्णसांकर्ये प्रातिलोम्यम् अधमम् आनुलोम्यम् उत्तमं तथा वृत्तिसांकर्ये ऽपि । तद् यथा । क्षत्रियस्यापद्य् अपि याजनादिब्राह्मणवृत्त्युपजीवनम् अधमम् । “न तु कदाचिज् ज्यायसीम्” (वध् २।२३) इति वसिष्ठेन निषिद्धत्वात् पाशुपाल्यादिवैश्यवृत्त्युपजीवनम् उत्तमम्, “अजीवन्तः स्वधर्मेणानन्तरां यवीयसीं वृत्तिम् आतिष्ठेरन्” (वध् २।२२) इति वसिष्ठेनापि विधानाद् इति । पूर्ववच् चाधरोत्तरम् इत्य् अस्यापरा व्याख्या – विविधो हि संकरः । वर्णसंकरः संकीर्णसंकरो वर्णसंकीर्णसंकरश् चेति । तद् यथा – उत्तमाधमवर्णयोर् दाम्पत्यं वर्णसंकरः । तज्जन्ययोर् माहिष्यकरण्योर् दाम्पत्यं संकीर्णसंकरः । वर्णसंकीर्णयोर् दाम्पत्यं वर्णसंकीर्णसंकरः । तत्र ऽविप्रान् मूर्धावसिक्तःऽ इत्यानुलोम्येन वर्णसंकरजा दर्शिताः । ऽब्राह्मण्यां क्षत्रियात् सूतःऽ इति प्रातिलोम्येन वर्णसंकरजा दर्शिताः ।
महिष्येण करण्यां तु रथकारः प्रजायते । (य्ध् १।९५)
**[१२५] **इति संकीर्णसंकरजा दर्शिताः । इदानीम् अधरोत्तरम् इत्य् अनेन वर्णसंकीर्णसंकरजाः प्रदर्श्यन्ते । अधरे प्रतिलोमजाः । उत्तरे अनुलोमजाः । तद् यथा । मूर्धावसिक्तायां संकीर्णायाम् उत्तमायां क्षत्रियवैश्यशूद्रैर् वर्णैर् अधमैर् उत्पादिताः अधरे । निषाद्यां संकीर्णायाम् अधमायां ब्राह्मणक्षत्रियवैश्यैर् उत्तमैर् वर्णैर् उत्पादिता उत्तरे । अधरे चोत्तरे च अधरोत्तरम् । पूर्ववद् इति पदेन “असत्सन्तस् तु विज्ञेयाः” (य्ध् १।९५) इति वचनार्थो ऽतिदिश्यते । यथा पूर्ववर्णैर् उत्पादिता वर्णसंकरजाः संकीर्णसंकरजाश् च प्रतिलोमजा असन्तः अनुलोमजाश् च सन्तः तथा वर्णसंकीर्णसंकरजा अपि अनुलोमजाः सन्तः प्रतिलोमजास् त्व् असन्त – इति द्रष्टव्यम् । उक्तत्रैविध्ये वर्णसंकरं वर्णसंकीर्णसंकरं वाश्रित्योत्पद्यमाना वर्णाभासाः षष्तिर् भवन्ति । संकीर्णसंकरम् आश्रित्योत्पद्यमाना जात्याभासा अनन्ताः । तद् उक्तं स्मृत्यन्तरे ।
प्रातिलोम्यानुलोम्येन वर्णैस् तज्जैश् च वर्णतः ।
षष्टिर् वान्ये प्रजायन्ते तत्प्र्सूतेस् त्व् अनन्तता ॥ इति ।
प्रातिलोम्यानुलोम्याभ्यां वर्णैर् उत्पादिता द्वादश । षड् अनुलोमवर्णजाः सूत-वैदेह-चण्डाल-मागध-क्षत्त्र-आयोगवाः प्रतिलोमवर्णजाः । इत्थं वर्णजैस् तैर् द्वादशभिर् वर्णसंबन्धाद् उत्पादिता अष्टचत्वारिंशत् । एवं षष्टिसंख्ययैवोपलक्षिता अन्ये [१२६] वर्णाभासा जायन्ते । तद् यथा । मूर्धावसिक्ताम्बष्ठनिषादमाहिष्योग्रकरणाः षड् अनुलोमवर्णजाः । इत्थं द्वादश । तत्र मूर्धावसिक्तेनानुलोमेन क्षत्रियावैश्याशूद्रासूत्पादितास् त्रयः । प्रातिलोम्येन ब्राह्मण्याम् एकः । अम्बष्ठस्यानुलोम्येन द्वौ, प्रातिलोम्येन द्वौ । निषादस्यानुलोम्येनैकः, प्रातिलोम्येन त्रयः । माहिष्यस्यानुलोम्येन द्वौ, प्रातिलोम्येन द्वौ । उग्रस्यानुलोमेनैकः, प्रातिलोम्येन त्रयः । करणस्यानुलोम्येनैकः, प्रातिलोम्येन त्रयः – इति पूर्वषट्कोत्पादिताश् चतुर्विंशतिः । एवं सूत्रादीनां षण्णां वर्णानाम् एकैकस्य चतसृषु वर्णेष्व् एकैकः – इति ते ऽपि चतुर्विंशतिः । एवं मिलित्वा षष्टिः संपद्यते । तेभ्यः षष्टिसंख्याकेभ्य उत्पादितैर् अपत्यैर् आभासानां संख्याया आनन्त्यं भवतीति समाप्ता प्रासङ्गिकी जातिभेदकथा ॥
इति जातिभेदनिरूपणम्
विवाहानन्तरभाविनः प्रकृताः पञ्चमहायज्ञादयः सोमसंस्थान्ताः संस्कारा आह्निकवचने षट्कर्मवचने च निरूपिताः – इति नात्र पुनर् उच्यन्ते । अथावशिष्टा गृहस्थधर्मा निरूप्यन्ते । तत्रोपाकर्मविधिम् आह याज्ञवल्क्यः ।
अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रवणस्य तु ॥ इति । (य्ध् १।१४२)
अधीयन्ते इत्य् अध्यायाः वेदाः । तेषाम् उपाकर्म प्रारम्भः । [१२७] स च श्रावणमासस्य पौर्णमास्याम् अन्यस्यां वा श्रवणनक्षत्रयुक्तायां तिथौ हस्तनक्षत्रयुक्तायां श्रावणमासस्य पञ्चम्यां वा कर्तव्यः । यदा तु श्रावणमासे ओषधयो न प्रादुर् भवन्ति तदा भाद्रपदे मासे प्रोक्ततिथिषु कुर्यात् । तद् आह वसिष्ठः- “अथातः स्व्याध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा” इति (वध् १२।९) । मनुर् अपि ।
श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।
युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥ इति । (म्ध् ४।९५)
अर्धं पञ्चमं येषां ते तथा, सार्धान् चतुरो मासान् इत्य् अर्थः । यदा पुनः श्रावण्यां प्रौष्ठपद्यां वा शुक्रास्तमयादिप्रतिबन्धः तदानीम् आषाढ्यां कर्तव्यम् । तद् उक्तं कूर्मपुराणे ।
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।
आषाढ्यां प्रौष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ इति । (कूपु १।२।१४।६२)
बौधायनो ऽपि- “श्रावणपौर्णमास्याम् आषाढ्यां वोपाकृत्य तैष्यां माघ्यां वोत्सृजेत्” (ब्ध् १।५।१२।१६) [१२८] इति । तेषु त्रिष्व् अपि मासेषु पूर्णिमा-श्रण-हस्ताः शाखाभेदेन व्यवस्थिताः । तद् आह गोभिलः ।
पर्वण्य् औदयिके कुर्युः श्रावण्यां तैत्तिरीयकाः ।
बह्वृचाः श्रवणर्क्षे तु हस्तर्क्षे सामवेदिनः ॥ इति ।
गार्ग्यो ऽपि ।
पर्वण्य् औदयिके कुर्युः श्रावण्यां तैत्तिरीयकाः ।
बह्वृचाः श्रवणे कुर्युर् ग्रहसंक्रान्तिवर्जिते ॥ इति ।
अत्र औदयिके इति पर्वादिषु सर्वत्र संबध्यते । पर्वण औदयिकत्वे विशेषम् आह स एव ।
श्रावणी पौर्णमासी तु सङ्गवात् परतो यदि ।
तदा त्व् औदयिकी ग्राह्या नान्यथैदयिकी भवेत् ॥ इति ।
श्रवणस्य त्व् औदयिक्तवम् अन्वयव्यतिरेकाभ्यां व्यासेन दर्शितम् ।
श्रवणेन तु यत् कर्म ह्य् उत्तराषाढसंयुते ।
संवत्सरकृते ऽध्यायस् तत्क्षणाद् एव नश्यति ॥
[१२९] धनिष्ठासंयुते कुर्याच् छ्रावणं कर्म यद् भवेत् ।
तत् कर्म सफलं ज्ञेयम् उपाकरणसंज्ञितम् ॥ इति ।
श्रवेणे यत् कर्म विहितं तद् उत्तराषाढसंयुते न कुर्यात् । यदि कुर्यात् तदा नश्यतीति योजनीयम् । “ग्रहसंक्रान्तिवर्जिते” इत्य् यद् उक्तं तत्र विशेषम् आह गार्ग्यः ।
अर्धरात्राद् अधस्ताच् चेत् संक्रान्तिर् ग्रहणं तथा ।
उपाकर्म न कुर्वीत परतश् चेन् न दोषकृत् ॥
यत्रार्धरात्राद् अर्वाक् चेद् ग्रहः संक्रम एव वा ।
नोपाकर्म तदा कुर्यात् श्रावण्यां श्रवणे ऽपि च ॥ इति ।
यत् तु — कर्कटमासे नोपाकर्म कर्तव्यम् । तथा च स्मृत्यन्तरे ।
वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ ।
उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके ॥ इति ।
— तद् एतद् देशान्तरविषयम् । तथा च बृहस्पतिः ।
नर्मदोत्तरभागे तु कर्तव्यं सिंहसंयुते ।
कर्कटे संस्थिते भानाव् उपाकुर्यात् तु दक्षिणे ॥
[१३०] इति ।
ननु – उपाकरणं ब्रह्मचारिधर्मः, “उपाकृत्याधीयीत” इति तस्य ग्रहणाध्ययनाङ्गत्वप्रतीतेः । ग्रहणाध्ययनं च ब्रह्मचारिण एव, “वेदम् अधीत्य स्नायात्” इति स्नानात् प्राचीनत्वावगमनात् ।
नायं दोषः, गृहस्थस्यापि ग्रहणाध्ययने ऽधिकारसंभवात् । अत एव “अधीयीत” इत्य् अनुवृत्तौ शौनक आह- “समावृत्तो ब्रह्मचारिकल्पेन । यथान्यायम् इतरे । जायोपेतो ऽप्य् एवम्” इति । अस्यार्थः – येन नियमविशेषेण युक्तो ब्रह्मचारी अधीते तेनैव नियमेन समावृत्तो ऽप्य् अधीयीत । समावृत्ताद् इतरे ब्रह्मचारिणस् तु यथान्यायं स्वविध्युक्तप्रकारेणाधीयीरन् । तथा जायोपेतो गृहस्थो ऽपि ब्रह्मचारिवन् नियमोपेतो ऽधीयीतेति । न च समावृत्तगृहस्थयोर् ग्रहणाध्ययनाधिकारे “वेदम् अधीत्य स्नायात्” इति विरुध्येत – इति शङ्कनीयम् । तस्य वचनस्य विद्यास्नातकविषयत्वात् । अत एव,
[१३१] वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा । (य्ध् १।५१)
इति पक्षद्वयोपन्यासो दर्शितः । उपाकरणस्य गृहस्थधर्मत्वाभ्युपगमे मनु-याज्ञवल्क्यस्मृत्योर् गृहस्थधर्मप्रकरणपाठो ऽप्य् अनुगृहीतो भवति । उपाकरणस्येतिकर्तव्यता कार्ष्णाजिनिना दर्शिता ।
उपाकर्मणि चोत्सर्गे यथाकालं समेत्य च ।
ऋषीन् दर्भमयान् कृत्वा पूजयेत् तर्पयेत् ततः ॥ इति ।
बौधायनो ऽपि ।
गौतमादीन् ऋषीन् सप्त कृत्वा धर्ममयान् पुनः ।
पूजयित्वा यथाशक्ति तर्पयेद् वंशम् उद्धरन् ॥ इति ।
इत्य् उपाकर्म
अथोत्सर्जनम् । तत्र याज्ञवल्क्यः ।
पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा ।
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः ॥ इति । (य्ध् १।१४३)
मनुर् अपि ।
पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥ (म्ध् ४।९६)
[१३२] इति । यदा श्रावण्याम् उपाकर्म तदा पुष्यमासस्य शुक्लप्रतिपदि पूर्वाह्णे, यदि प्रौष्ठपद्याम् उपाकर्म तदा माघस्येति व्यवस्थितो ऽयं विकल्पः । उत्सृष्टस्यापिपुनर् अध्ययनं प्राग् उपाकरणात् कालविशेषे विदधाति मनुः ।
अतः परं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि रहस्यं च कृष्णपक्षेषु संपठेत् ॥ इति । (म्ध् ४।९८)
कूर्मपुराणे ऽपि ।
छन्दांस्य् ऊर्ध्वम् अतो ऽभ्यसेत् शुक्लपक्षेषु वै द्विजः ।
वेदाङ्गानि पुराणानि कृष्णपक्षेषु मानवः ॥ इति । (कूपु १।२।१४।६५)
यदि भाविविघ्नभयात् सहसाध्येतव्यम् इति बुद्धिः तदा संवत्सराने प्राग् उपाकरणाद् उत्सृजेत्, “यत् स्वाध्यायम् अधीते ऽब्दम्” इति श्रुतेः । उपाकरणोत्सर्जने प्रशंसति कात्यायनः ।
प्रत्यब्दं यद् उपाकर्म सोत्सर्गं विधिवद् द्विजैः ।
क्रियते छन्दसां तेन पुनर् आप्यायनं भवेत् ॥
अयातयामैश् छन्दोभिर् यत् कर्म क्रियते द्विजैः ।
क्रीडमानैर् अपि सदा तत् तेषां सिद्धिकारकम् ॥ (क्स्म् ३।२७।१७–१८)
[१३३] अन्ये ऽपि धर्माः कूर्मपुराणे दर्शिताः ।
नाधार्मिकैर् वृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेन् न पाषण्डिजनैर् वृते ॥
हिमवद्विन्ध्ययोर् मध्यं पूर्वपश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर् देशं नान्यत्र निवसेत् द्विजः ॥
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश् च विश्रुतो नद्यस् तत्र वा निवसेत् द्विजः ॥
परस्त्रियं न भाषेत नायाज्यं याजयेद् बुधः ।
न देवायतनं गच्छेत् कदाचिच् चाप्रदक्षिणम् ॥
न वीजयेद् वा वस्त्रेण समवायं च वर्जयेत् ।
नैको ऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ॥
न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस् तथा ॥ इति । (कूपु १।२।१६।२३–९४)
मनुर् अपि ।
देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा ।
नाक्रामेत् कामतश् छायां बुभ्रुणो दीक्षितस्य च ॥
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशान् अप् कदाचन ॥
आ मृत्योः श्रियम् अन्विच्छेन् नैनां मन्येत दुर्लभाम् ॥
[१३४] सत्यम् ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ।
नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ॥
हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ।
रूपद्रविणहीनांश् च जातिहीनांश् च नाक्षिपेत् ॥
वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ इति । (म्ध् ४।१३०–४१)
मार्केण्डेयो ऽपि ।
असदालापम् अनृतं वाक्पारुष्यं विवर्जयेत् ।
असच्छास्त्रम् असद्वादम् असत्सेवां च पुत्रक ॥
न म्लेच्छभाषां शिक्षेत न पश्येद् आत्मनः शकृत् ।
नाधितिष्ठेच् छकृन्मूत्रकेशभस्मकपालिकाः ॥
तुषाङ्गारास्थिशीर्णानि रज्जुवस्त्रादिकानि च ।
वर्जेयेन् मार्जनीरेणुं नापेयं च पिबेद् द्विजः ॥ इति ।
सामान्येन च धर्मं संक्ष्प्याह मनुः ।
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥
[१३५] यत् कर्म कुर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः ।
तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ इति । (म्ध् ४।१६१–७८)
इत्थं ब्रह्मचारिगृहस्थाश्रमधर्मौ निरूपितौ
अथ वानप्रस्थाश्रमो निरूप्यते ।
ननु – केचन गार्हस्थ्यव्यतिरिक्तम् आश्रमान्तरं नेच्छन्ति उदाहरन्ति च तत्र गौतमस्मृतिम्- “ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य” इति (ग्ध् ३।३६) । आचार्यास् तु गार्हस्थ्यम् एवाश्रमो नान्यः कश्चिद् अस्तीति मन्यन्ते । हेतुं चाचक्षते गार्हस्थ्यस्य प्रत्यक्षश्रुतिषु विधानाद् इतरस्य तदभावात् – इति । यथा हि – बह्वृचाः “अग्निम् ईऌए” (ऋग्वेदः १।१।१।१) इत्य् आरभ्य मन्त्रब्राह्मणात्मके कृत्स्ने ऽपि वेदे होतृकर्तव्यम् एवामनन्ति । यजुर्वेदिनश् च “इषे त्वा” (त्स् १।१।१।१) इत्यादिना अध्वर्युकर्तव्यम् । सामगा अपि “अग्न आयाहि” (स्व् १।१।१।१) इत्यादिनोद्गातृकर्तव्यम् । होत्रादयश् च गृहस्था एव । तथा चाधीयमानेषु प्रत्यक्षवेदेषु गृहस्थकर्तव्याभिधानेन तदाश्रमविधिः **[१३६) **परिकल्प्यते न त्व् एवम् इतराश्रमविधिकल्पकं किंचिद् पश्यामः । अत एव “यावज्जीवम् अग्निहोत्रं जुहोति” इति श्रुतिः कृत्स्नं पुरुषायुषं गृहिकर्मस्व् एव विनियुङ्क्ते । श्रुत्यन्तरं च- “एतद् वै जरामर्यं सत्त्रं यद् अग्निहोत्रम् । जरया वा ह्य् एवास्मान् मुच्यते मृत्युना वा” इति । न चैवं सति कथं ब्रह्मचर्याश्रमाङ्गीकारः शङ्कनीयम्, नैष्ठिकस्य पक्षकोटिनिःक्षिप्तत्वाद् उपकुर्वाणकस्य व्रतित्वेन आश्रमित्वाभावात् । यदा कर्मित्वेनाभिमतयोर् ब्रह्मचारिवानप्रस्थयोर् ईदृशी गतिः तदा कैव कथा कृत्स्नकर्मत्यागिनो यतेः । तस्मात् गार्हस्थ्यम् एक एवाश्रमः — इत्य् आचार्याणां पक्षः ।
अत्रोच्यते । अस्ति हि चतुर्णाम् आश्रमाणां प्रत्यक्षश्रुतिविधानम् । तथा च जाबाला आमनन्ति- “ब्रह्मचर्यं समाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत्” (जाबुप् ४) [१३७] इति । आचार्यास् तु रागिणम् अभिप्रेत्य तस्योर्ध्वरेतःसु नैष्ठिकब्रह्मचार्यादिषु त्रिष्व् आश्रमेष्व् अनधिकारं मन्यमाना गार्हस्थ्यम् एव वर्णयामासुः । यत् तु कृत्स्ने ऽपि वेदे गृहस्थधर्मस्यैवाम्नानम् इत्य् उक्तम्, तद् अयुक्तम्, वानप्रस्थस्यापि सदारस्याग्निहोत्रादिसद्भावात् । नैष्ठिकब्रह्मचारिधर्मस् तु छन्दोगैः पठ्यते- “ब्रह्मचार्य् आचार्यकुलवासी तृतीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयन्” (छु २।२३।२) इति । उपकुर्वाणकधर्माः सर्वशाखासूपनयनप्रकरणेषु प्रसिद्धाः । यतिधर्माश् चोपनिषद्भागे । अतो यावज्जीवादिश्रुतेः कामिविषयत्वेनाश्रमान्तराणि न चापलपितुं शय्कन्ते । साधिताश् चोत्तरमीमांसायां चत्वार आश्रमाः ।
तस्मात् क्रमप्राप्तो वानप्रस्थाश्रमः प्रस्तूयते । तत्र याज्ञवल्क्यस् तं विधत्ते ।
सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ इति । (य्ध् ३।४५)
वानप्रस्थो बुभूषुः स्वस्य ब्रह्मचर्यनियमेन पत्न्या अनुपयोगात् तां रक्षणीयत्वेन पुत्रेषु निःक्षिप्य वनं व्रजेत् । यदा सापि नियता सती पतिशुश्रूषां कामयते तदा तया सह वनं व्रजेत् । तस्मिन् पक्षे वैतानिकगृह्याभ्याम् अग्निभ्यां सह [१३७] गच्छेत् । सुतनिक्षेपपक्षे त्व् आत्मनि अग्नीन् समारोप्य प्रव्रजेत् । तद् आह छागलेयः- “अपत्नीकः समारोप्य ब्राह्मणः प्रव्रजेद् गृहात्” इति । तादृशो ऽरण्यं गत्वा वैखनससूत्रोक्तमार्गेणाग्निम् आदध्यात् । तद् आह वसिष्ठः- “वानप्रस्थो जटिलश् चीराजिनवासाः । न फालकृष्टम् अधितिष्ठेत् । अकृष्टं मूलफलं संचिन्वीत । ऊर्ध्वरेताः । क्ष्माशयः । दद्याद् एव न प्र्तिगृह्णीयात् । ऊर्ध्वं पञ्चभ्यो मासेभ्यः । श्रामणकेनाग्निम् आधायाहिताग्निः स्यात् । वृक्षमूलनिकेतन ऊर्ध्वं षड्भ्यो मासेभ्यो ऽनग्निर् अनिकेतः । [१३९] दद्याद् देवर्षिपितृमनुष्येभ्यः स गच्छेत् स्वर्गम् आनन्त्यम्” इति (वध् ९।१–१३) । श्रामणकं तपस्विधर्मप्रतिपादकं वैखानससूत्रम् । अकृष्टमूलम् आहारत्वेन ब्रुवन् ग्राम्याहारपरित्यागं सूचयति । अत एव मनुः ।
संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् ।
पुत्रेषु भायां निक्षिप्य वनं गच्छेत् सहैव वा ॥ इति । (म्ध् ६।३)
गृहस्थस्य वनप्रवेशावसरम् आह यमः ।
द्वितीयम् आयुषो भागम् उषित्वा तु गृहे द्विजः ।
तृतीयम् आयुषो भागं गृहमेधी वने वसेत् ॥
उत्पाद्य धर्मतः पुत्रान् इष्ट्वा यज्ञैश् च शक्तितः ।
दृष्ट्वापत्यस्य चापत्यं ब्राह्मणो ऽरण्यम् आविशेत् ॥ इति ।
अत्र ब्राह्मणग्रहणं त्रैवर्णिकोपलक्षणार्थम्, “उषित्वा तु गृह द्विजः” इत्य् उपक्रमानुसारात् । मनुर् अपि ।
गृहस्थस् तु यदा पश्येद् विलीपलितम् आत्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ इति । (म्ध् ६।२)
शङ्खलिखिताव् अपि- [१४०] “पुत्रान् उत्पाद्य संस्कृत्य वेदम् अध्याप्य वृत्तिं विधाय दारैः संयोज्य गुणवति पुत्रे कुटुम्बम् आवेश्य कृतप्रस्थानलिङ्गो वृत्तिविशेषान् अनुक्रामेत् । क्रमशो यायावराणां वृत्तिम् उपास्य वनम् आश्रयेद् उत्तरायणे पूर्वपक्षे” इति । एतच् चाश्रमसमुच्चयपक्षे द्रष्टव्यम् । असमुच्चयपक्षे त्व् अकृतगार्हस्थ्यो ऽपि वानप्रस्थे ऽधिक्रियते । तद् आह वसिष्ठः- “चत्वार आश्रमाः । ब्रह्मचारिगृहस्थवानप्रस्थपरिवाजकाः । तेषां वेदम् अधीत्य वेदौ वेदान् वाविशीर्णब्रह्मचर्यो यम् इच्छेत् तम् आवसेत्” इति (वध् ७।१–३) । आपस्तम्बो ऽपि- “चत्वार आश्रमा गार्हस्थ्यं आचार्यकुलं मौनं वानप्रस्थम्” इत्य् उपक्रम्य, “यत् कामयेत तद् आरभेत” (आप्ध् २।९।२१।१) इत्य् उपसंहरति । वनप्रतिष्ठस्य कर्तव्यम् आह याज्ञवल्क्यः ।
अफालकृष्टेनाग्नींश् च पितॄन् देवातिथीन् अपि ।
भृत्यांश् च तर्पयेच् छश्वज् जटालोमभृद् आत्मवान् ॥ इति । (य्ध् ३।४६)
अफालकृष्टं शाकमूलनीवारादि । तथा च मनुः ।
[१४१] मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन च ।
एतैर् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ इति । (म्ध् ६।५)
न च – ब्रह्मचारिविधुरयोर् अनग्निकयोर् वनस्थयोः कथम् अग्नीनां तर्पणम् – इति वाच्यम्, वैखानसशास्त्रोक्तस्याग्नेः सद्भावात् । न च – अफालकृष्टनीवारादिना पुरोडाशकरणे “व्रीहिभिर् यजेत” इति श्रुतिर् बाध्येत – इति शङ्कनीयम्, व्रीहीणाम् अप्य् अफालकृष्टानां संभवात् । तस्माद् अकृष्टपच्यैर् व्रीह्यादिभिर् वैतानिकं कर्म कुर्यात् । तथा च मनुः ।
वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।
दर्शम् अस्कन्दयन् पर्व पौर्णमासं विशेषतः ॥
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशो दक्षस्यायनम् एव च ॥
वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः ।
पुरोडाशं चरुं चैव निर्वपेद् विधिपूर्वकम् ॥ इति । (म्ध् ६।९–११)
मेध्यैर् यज्ञार्हैर् मुन्यन्नैर् अकृष्टपच्यैर् इत्य् अर्थः । संग्राह्यद्रव्यस्येयत्ताम् आह याज्ञवल्क्यः ।
[१४२] अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥ इति । (य्ध् ३।४७)
एकदिनसाध्यस्य कर्मणो यावत् पर्याप्तं तावतो ऽर्थस्य संचयं कुर्यात् । एवम् एकमाससंवत्सरपक्षे ऽपि योजनीयम् । तत्र यदि किंचित् संचितम् अवशिष्येत् तत् सर्वम् आश्वयुज्यां त्यजेत् । यद् आह विष्णुः- “मासनिचयः संवत्सरनिचयो वा । संवत्सरनिचयी पूर्वं निचयम् आश्वयुज्यां जह्यात्” इति । पूर्वं संत्यज्य ततो नूतनं संचिनुयात् ।
मनुर् अपि ।
त्यजेद् आश्वयुजे मासे मुन्यन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥
सद्यःप्रक्षालको वा स्यान् माससंचयिको ऽपि वा ।
षण्मासनिचयो वापि समानिचय एव वा ॥ इति । (म्ध् ६।१५–१८)
तत्र वर्ज्यान् आह स एव ।
वर्जयेन् मधुमांसं च भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥
[१४३] न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केनचित् ।
न ग्रामजाजान्य् आर्तो ऽपि पुष्पाणि च फलानि च ॥ इति । (म्ध् ६।१४, १६)
कवकानि छत्राकाणि । तपोनियमम् आह याज्ञवल्क्यः ।
दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् ।
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥
दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः ।
श्रौतं स्मार्थं फलस्नेहैः कर्म कुर्यात् क्रियास् तथा ॥
चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा ।
पक्षे गते चाप्य् अश्नीयान् मासे वाहनि वा गते ॥
स्वप्याद् भूमौ शुची रात्रौ दिवा संप्रपदैर् नयेत् ।
स्थानासनविहारैर् वा योगाभ्यासेन वा तथा ॥
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत् ॥ इति । (य्ध् ३।४८–५२)
दन्ता एवोलूखलं निस्तुषीकरणसाधनं तस् यस्यास्ति स दन्तोलूखलिकः । बाह्योलूखलादिसाधननिरपेक्ष इत्य् अर्थः । [१४४] कालपक्वं बदरेङ्गुदपनसफलादि । अश्मना कुट्टनम् अवहननं यस्य सो ऽश्मकुट्टकः । फलसेन्हो लिकुचमधुकादिमेध्यतरुफलजन्मानि तैलानि । क्रियाः भोजनाभ्यञ्जनाद्याः । विष्णुर् अपि- “पुष्पाशी । फलाशी । मूलाशी । शाकाशी । पर्णाशी । यवान्नं पक्षान्तयोर् वा सकृद् अश्नीयात् । (विध् ९५।७–१२) इति । कूर्मपुराणे ऽपि ।
एकपादेन तिष्ठेत मरीचीन् वा पिबेत् सदा ।
पञ्चाग्निधूमपो वा स्याद् ऊष्मपः सोमपो ऽथ वा ॥
पयः पिबेत् शुक्लपक्षे कृष्णपक्षे च् गोमयम् ।
शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर् वा वर्तयेत् सदा ॥
अथर्वशिरसो ऽध्येता वेदान्ताभ्यासतत्परः ।
यमान् सेवेत सततं नियमांश् चाप्य् अतन्द्रितः ॥
[१४५] जितेन्द्रियो जितक्रोधस् तत्त्वज्ञानविचिन्तकः ।
ब्रह्मचारी भवेन् नित्यं न पत्नीं प्रतिसंश्रयेत् ॥
यस् तु पत्न्या वनं गत्वा मैथुनं कामतश् चरेत् ।
तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥
नक्तं चान्नं समश्नीयाद् दिवा चाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद् वा चाष्टमकालिकः ॥
चान्द्रायणविधानैर् वा शुक्ले कृष्णे च वर्तयेत् ।
पक्षे पक्षे समश्नीयाद् यवागूं क्वथितां सकृत् ॥
पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।
स्वाभाविकैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥ इति । (कूपु १।२।२७।१६–३४)
अग्निपरिचर्यायाम् अक्षमं प्रत्य् आह याज्ञवल्क्यः ।
अग्नीन् वाप्य् आत्मसात् कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्ष्यम् आचरेत् ॥
ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः ॥ इति । (य्ध् ३।५४–५५)
मनुर् अपि ।
अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि ।
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥
[१४६] ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् ।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥
एताश् चान्याश् च सेवेत दीक्षा विप्रो वने वसन् ।
आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ इति । (म्ध् ६।२५–३२)
ननु – अष्टग्रासविधाने “षोडशारण्यवासिनःऽ (आप्/ध् २।४।९।१३) इति वचनं विरुध्येत ।
तन् न, शक्ताशक्तविषयत्वेन व्यवस्थोपपत्तेः । सर्वानुष्ठानासमर्थं प्रत्य् आह याज्ञवल्क्यः ।
वायुभक्षः प्रागुदीचीं गच्छेद् आ वर्ष्मसंक्षयात् । इति । (य्ध् ३।५५)
कूर्मपुराणे ऽपि ।
महाप्रस्थानिकं वासौ कुर्याद् अनशनं तु वा ।
अग्निप्रवेशम् अन्यद् वा ब्रह्मापर्णविधौ स्थितः ॥
यस् तु सम्यग् इमम् आश्रमं शिवं संश्रयत्य् अशिवपुञ्जनाशनम् ।
तापहन्तृपदम् ऐश्वरं परं याति यत्र जगतो ऽस्य संस्थितिः ॥
इति (कूपु १।२।२७।३८–३९)
इत्थं वानप्रस्थाश्रमो निरूपितः
[१४७]
अथ चतुर्थाश्रमो निरूप्यते । तत्र मनुः ।
वनेषु तु विहृत्यैवं तृतीयं भागम् आयुषः ।
चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥ इति । (म्ध् ६।३३)
याज्ञवल्क्यो ऽपि ।
वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥
अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽग्निमान् ।
शक्त्या च यज्जकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ इति । (य्ध् ३।५६–५७)
आश्रमचतुष्टयसमुच्चयम् अभिप्रेत्य वनान् मोक्षे मनः कुर्याद् इत्य् उक्तम् । आश्रमत्रयसमुच्चयाभिप्रायेण गृहद् वेति पक्षान्तरोपन्यासः ।
ननु – अत्रापि चतुष्टयसमुच्चय एवाभिप्रेयताम् । परिव्राज्यानन्तरं वानप्रस्थ्यानुष्ठातुं शक्यत्वात् ।
मैवम्, ब्रह्मचर्यादीनां चतुर्णाम् आश्रमाणाम् आरोहस्य प्रतिनियतत्वात् । तथा च जाबाला आश्रमाणाम् आहोहम् आमनन्ति- “ब्रह्मचर्यं समाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत्” (जाबुप् ४) [१४८] इति । न त्व् एवम् अवरोहः क्वचिद् अप्य् आम्नातः । प्रत्युतावरोहं दक्षो निषेधति ।
त्रयाणाम् आनुलोम्यं स्यात् प्रातिलोम्यं न विद्यते ।
प्रातिलोम्येन यो याति न तस्मात् पापकृत्तमः ॥
यो गृहाश्रमम् आस्थाय ब्रह्मचारी भवेत् पुनः ।
न यतिर् न वनस्थश् च स सर्वाश्रमवर्जितः ॥ इति । (दस्म् १।९–१३)
यदि गृही कथंचित् प्रत्यवरुह्य ब्रह्मचारी भवेत् तदासौ सर्वाश्रमबहिष्कृतः, आरूढपतितत्वात् । अतो न वनस्थादिभिर् आश्रमवाचिभिः शब्दैर् अभिलप्यो भवति । अयं चावरोहाभाव उत्तरमीमांसायां तृतीयाध्याये वर्णितः । “वनाद् गृहाद् वा” इत्य् अत्र “ब्रह्मचर्याद् वा” इत्य् अपि द्रष्टव्यम् । यदा जन्मान्तरानुष्ठितसुकृतपरिपाकवशात् बाल्य एव वैराग्यम् उपजायते तदानीम् अकृतोद्वाहो ब्रह्मचर्याद् एव प्रव्रजेत् । तथा च जाबालश्रुतिः- [१४९] “यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा” इति (जाबुप् ४) । पूर्वम् अविरक्तं जाबालं प्रत्य् आश्रमचतुष्टयसमुच्चयम् आयुर्विभागेनोपन्यस्य, विरक्तं उद्दिश्य यदि वेति पक्षान्तरोपन्यासः । इतरथेति बाल्य एव सति वैराग्य इत्य् अर्थः । अकृतोद्वाहस्य संन्यासो नृसिंहपुराणे दर्शितः ।
यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं शिरः ।
संन्यसेद् अकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥ इति । (नृपु ५८।३६)
अङ्गिरा अप्य् आह ।
संसारम् एव निःसारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजत्य् अकृतोद्वाहः परं वैराग्यम् आश्रितः ॥
प्रव्रजेद् ब्रह्मचर्येण प्रव्रजेच् च गृहाद् अपि ।
वनाद् वा प्रव्रजेद् विद्वान् आतुरो वाथ दुःखितः ॥ इति ।
दुःखितो व्याधिचोरव्याघ्राद्युपद्रुतः । आतुरो मुमूर्षुः । तत्र महाभारतम् ।
उत्पन्ने सङ्कटे घोरे चोरव्याघ्रादिसङ्कटे ।
भयभीतस्य संन्यासम् अङ्गिरा मुनिर् अब्रवीत् ॥
आतुराणां च संन्यासे न विधिर् नैव च क्रिया ।
प्रेषमात्रं समुच्चार्य संन्यासं तत्र कीर्तयेत् ॥
[१५०] इति ।
ननु – ब्रह्मचर्याद् एव प्रव्रज्याङ्गीकारे मनुवचनानि विरुध्येरन् ।
ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥
अधीत्य विधिवद् वेदान् पुत्रान् उत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ॥
अनधीत्य गुरोर् वेदान् अनुत्पाद्य तथात्मजान् ।
अनिष्ट्वा चैव यज्ञैश् च मोक्षं इच्छन् व्रजत्य् अधः ॥ इति । (म्ध् ६।३५–३७)
ऋअणत्रयं श्रुत्या दर्शितम्- “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वासि” इति (ब्ध् २।९।२६।७) । यदा स्वर्गप्रापकः पितृयाणमार्गो ऽप्य् ऋणापाकरणम् अन्तरेण न संभवति तदा कैव कथा मोक्षमार्गे । अत एव मन्त्रवर्णः-
अनृणा अथो ऽस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणा स्याम् ।
ये देवयाना उत पितृयाणाः सर्वान् पथो अनृणा अक्षियेम ॥
**[१५१] **इति । ब्राह्मणम् अपि- “सर्वान् लोकान् अनृणो ऽनुसंचरति” इति ।
मैवम् – अविरक्तविषयत्वाद् एतेषां वचनानाम् । अत एव विरक्तस्य प्रव्रज्यायां कालविलम्बं निषेधति जाबालश्रुतिः- “यद् अहर् एव विरजेत् तद् अहर् एव प्रव्रजेत्” इति (जाबुप् ४) ।
ननु – उक्तरीत्या ब्रह्मचर्यादिषु आश्रमेषु यथावद् धर्मानुष्ठायिनां तत् तद् आश्रमात् प्रव्रजेत् – इति प्रतीयते । तथा सति स्नातकविधुरादीनाम् अनाश्रमिणाम् आश्रमिणां च केषांचित् केनचित् प्रतिबन्धेन विहितधर्माननुष्ठायिनां सत्य् अपि वैराग्ये संन्यासो न प्राप्नुयात् ।
मैवम् – तेषां प्रत्यक्षश्रुत्यैव तद्विधानात्- “अथ पुनर् व्रती वाव्रती वा स्नातको वास्नातको वा उत्सन्नाग्निर् अनग्निको वा यद् अहर् एव विरजेत् तद् अहर् एव प्रव्रजेत्” इति (जाबुप् ४) । यमो ऽपि ।
पुनर्दारक्रियाभावे मृतभार्यः परिव्रजेत् ।
वनस्थो धूतपापो वा परं पन्थानम् आश्रयेत् ॥ इति ।
स्नातकविधुरादीनाम् अन्तरालवर्तिनाम् आश्रमनिरपेक्षैर् [१५२] जपोपवासतीर्थयात्रादिकर्मभिश् चित्तशुद्धिसंभवेन मोक्षाश्रमे ऽधिकारो ऽस्तीति तृतीये ऽध्याये मीमांसितम् । धर्मलोपे ऽप्य् अनुतापवतस् तत्प्रायश्चित्तत्वेन संन्यासः संभवति । तथा च स्मृत्यन्तरम् ।
ये च सन्तानजा दोषा ये च स्युः कर्मसंभवाः ।
संन्यासस् तान् दहेत् सर्वान् मूषाग्निर् इव काञ्चनम् ॥ इति ।
मनुर् अपि ।
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टाः संन्यासेन द्विजोत्तमः ॥ इति । (म्ध् ५।१०८)
अत्र केचित् – ब्राह्मणस्यैव संन्यासाधिकारो न क्षत्रियवैश्ययोः इत्य् आहुः । उदाहरन्ति च श्रुतिस्मृती । तत्र वाजसनेयकब्राह्मणम्- “एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति” इति (बाउप् ३।५।३) । मनुर् अप्य् उपक्रमोपसंहारयोर् ब्राह्मणशब्दं प्रयुङ्क्ते-
आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहाद् ॥ (म्ध् ६।३८)
इत्य् उपक्रमः,
[१५३] एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । (म्ध् ६।९७)
इत्य् उपसंहारः । नारदो ऽपि ।
प्रथमाद् आश्रमाद् वापि विरक्तो भवसागरात् ।
ब्राह्मणो मोक्षम् अन्विच्छंस् त्यक्त्वा सङ्गान् परिव्रजेत् ॥
इति । योगियाज्ञवल्क्यो ऽपि ।
चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुतिचोदिताः ।
क्षत्रियस्य त्रयः प्रोक्ता द्वाव् एको वैश्यशूद्रयोः ॥ (योग्य् १।२८)
इति । वामनपुराणे ऽपि ।
चत्वार आश्रमाश् चैते ब्राह्मणस्य प्रकीर्तिताः ।
गार्हस्थ्यं ब्रह्मचर्यं च वानप्रस्थं त्रयो ऽश्रमाः ॥
क्षत्रियस्यापि कथिता य आचारा द्विजस्य हि ।
ब्रह्मचर्यं च गार्हस्थ्यम् आश्रमद्वितयं विशः ॥
गार्हस्थ्यम् उचितं त्व् एकं शूद्रस्य क्षणदाचर ॥ (वाय्पु १४।१६–१८)
इति । ननु – शूद्रस्याश्रम एव नास्ति,
चत्वार आश्रमास् तात तेषु शूद्रस् तु नार्हति ।
इति निषेधात् । ततः कथं तस्य गार्हस्थ्याङ्गीकारः । उच्यते – समन्त्रक एव विवाहो निषिध्यते, न त्व् अमन्त्रकः । अन्यथा विवाहप्रकरणोदाहृतानि शूद्राविषयाणि वचनानि पञ्चमहायज्ञादिगृहस्थधर्मेषु शूद्राधिकारवचनानि च विरुध्येरन् । तस्मा [१५४] अस्ति शूद्रस्य गार्हस्थ्यम् । संन्यासद् तूक्तरीत्या विप्रस्यैव । अत एव स्मृत्यन्तरे काषायदण्डादिलिङ्गधारणं क्षत्रियवैश्ययोर् निषिद्धम् ।
मुखजानाम् अयं धर्मो यद् विष्णोर् लिङ्गधारणम् ।
बाहुजातोरुजातानां नायं धर्मो विधीयते ॥
इति ।
अपरे पुनः संन्यासं त्रैवर्णिकाधिकारम् इच्छन्ति, अधीतवेदस्य द्विजातिमात्रस्य समुच्चयविकल्पाभ्याम् आश्रमचतुष्टयस्य बहुस्मृतिषु विधानात् । अत एव याज्ञवल्क्येन संन्यासप्रकरणे द्विजशब्दः प्रयुक्तः ।
संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हृत्वा च भूतानाम् अमृतीभवति द्विजः ॥ (य्ध् ३।६१)
इति । स्मृत्यन्तरं तु शृङ्गग्राहिकयैव वर्णत्रयस्य संन्यासं विदधाति ।
ऋणतयम् अपाकृत्य निर्ममो निरहंकृतिः ।
ब्राह्मणः क्षत्रियो वाथ वैश्यो वा प्रव्रजेद् गृहात् ॥
इति । कूर्मपुराणे ऽपि द्विजग्रहणं कृतम् ।
अग्नीन् आत्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ (कूपु १।२।२८।२)
इति । यानि पूर्वोदाहृतवचनानि तानि क्षत्रियवैश्ययोः [१५५] काषायदण्डनिषेधपराणि । तथा च “मुखजानाम्” इति वचनम् उदाहृतम् । बौधायनो ऽपि ।
ब्राह्मणानाम् अयं धर्मो यद् विष्णोर् लिङ्गधारणम् ।
राजन्यवैश्ययोर् नेति दत्तात्रेयमुनेर् वचः ॥
इति । परिव्राड्बुभूषुः सर्वस्वदक्षिणां प्राजापत्याम् इष्टिं निर्वपेत् । तद् आह मनुः ।
प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ (म्ध् ६।३८)
इति । यद् वा आग्नेयीम् इष्टिं कुर्यात् । तद् उक्तं श्रुत्या- “तद् वैके प्राजापत्यम् एवेष्टिं कुर्वन्ति तद् उ तथा न कुर्यात् आग्नेयीम् एव कुर्यात् । अग्निर् हि प्राणः प्राणम् एवैतया करोति” (जाबुप् ४) इति । कूर्मपुराणे ऽपि ।
प्राजापत्यां निरूप्येष्टिम् आग्नेयीम् अथ वा पुनः ।
अन्तःपक्वकषायो ऽसौ ब्रह्माश्रमम् उपाश्रयेत् ॥ (कूपु १।२।२८।४)
[१५६] इति । तत्र प्राजापत्येष्टिर् आहिताग्निविषया “अग्नीन् समारोप्य” इत्य् अग्निबहुत्वाभिधानात् । आग्नेयी त्व् अनाहिताग्निविषया तद्वाक्यशेषे “अग्निम् आजिघ्रेत्” इत्य् एकाग्न्यभिधानात् । सा चेष्टिः श्राद्धादिपुरःसरं प्रकर्तव्या । तथा च नृसिंहपुराणम् ।
एवं वनाश्रमे तिष्ठन् तपसा दग्धकिल्बिषः ।
चतुर्थम् आश्रमं गच्छेत् संन्यस्य विधिना द्विजः ॥
देयं पितृभ्यो देवेभ्यः स्वपितृभ्यो ऽपि यत्नतः ।
दत्वा श्राद्धम् ऋषिभ्यश् च मनुजेभ्यस् तथात्मने ॥
इष्टिं वैश्वानरीं कृत्वा प्राजापत्याम् अथापि वा ।
अग्निं स्वात्मनि संस्थाप्य मन्त्रवत् प्रव्रजेत् पुनः ॥ इति । (नृपु ६०।२–४)
श्राद्धानि चाष्टौ दैवादीनि । तथा चाह बौधायनः ।
दैवम् आर्षं तथा दिव्यं पित्र्यं मातृकमानुषे ।
भौतिकं चात्मनश् चान्ते अष्टौ श्राद्धानि निर्वपेत् ॥ इति ।
उक्तश्राद्धादौ योग्यता कृच्छ्रैः संपादनीया । तद् आह कात्यायनः ।
[१५७] कृच्छ्रांस् तु चतुरः कृत्वा पावनार्थम् अनाश्रमी ।
आश्रमी चेत् तप्तकृच्छ्रं तेनासौ योग्यतां व्रजेत् ॥ इति ।
श्राद्धानन्तरभाविनीम् इष्टेः प्राचीनाम् इतिकर्तव्यताम् आह बौधायनः ।
कृत्वा श्राद्धानि सर्वाणि पित्रादिभ्यो ऽष्टकं पृथक् ।
वापयित्वा च केशादीन् मार्जयेन् मातृका इमाः ॥
त्रीन् दण्डान् अङ्गुलिस्थूलान् वैणवान् मूर्धसंमितान् ।
एकादशनवद्वित्रिचतुःसप्ताष्टपर्वकान् ॥
सत्वक्कान् अव्रणान् सौम्यान् समसंनतपर्वकान् ।
वेष्टितान् कृष्णगोवालरज्वा तु चतुरङ्गुलान् ॥
एको वा तादृशो दण्डो गोवालरहितो भवेत् ।
कुशकार्पाससूत्रैर् वा क्षौमसूत्रैर् अथापि वा ॥
कुशलैर् ग्रथितं शिक्यं पद्माकारसमन्वितम् ।
षट्पादं पञ्चपादं वा मुष्टिद्वयविसर्पितम् ॥
विकेशं सितम् अस्पष्टम् उभयद्वादशाङ्गुलम् ।
द्विगुणं त्रिगुणं वापि सर्वतो ऽष्टाङ्गुलं तु वा ॥
प्रादेशमात्रं वा सूक्ष्मकार्पासैः कृतम् अव्रणम् ।
[१५८] चण्डालाद्यहतं चैतत् स्मृतं जलपवित्रकम् ॥
गृहीतं मन्त्रवत् तच् चेत् सशिक्यं च कमण्डलुम् ।
दारवं वैणवं वापि मृदलाबुमयं तु वा ॥
पात्रं शिलामयं ताम्रं पर्णादिमयम् एव वा ।
चतुरस्रं वर्तुलं वाप्य् आसनं दारवं शुभम् ॥
कौपीनाच्छादनं वासः कन्थां शीतनिवारणीम् ।
पादुके चापि शौचार्थं दश मात्रा उदाहृताः ॥
छत्रं पवित्रं सौचीं च त्रिविष्टब्धं तथाजिनम् ।
पद्मानि चाक्षसूत्रं च मृत्खनित्री कृपाणिका ॥
योगपट्टं बहिर्वास इत्य् एता एकविंशतिः ।
तासां पञ्चादिका नित्या दश वा सर्वशो ऽपि वा ॥
गृहीत्वेमा अथागत्य देवागारे ऽग्निवेश्मनि ।
ग्रामान्ते ग्रामसीमान्ते यद् वा शुचिमनोहरे ॥
आज्यं पयो दधीत्य् एतत् त्रिवृद् वा जलम् एव वा ।
ॐ भूर् इत्यादिना प्राश्य रात्रिं चोपवसेत् ततः ॥
एतावतैव विधिना भिक्षुः स्याद् आपदि द्विजः ।
अथादित्यस्यास्तमयात् पूर्वम् अग्नीन् विहृत्य सः ॥
[१५९] आज्यं च गार्हपत्ये तु संस्कृत्यैतेन च स्रुवा ।
पूर्णयाहवनीये तु जुहुयात् प्रणवेन तत् ॥
ब्रह्मान्वाधानम् एतत् स्याद् अग्निहोत्रे हुते ततः ।
स्तीर्त्वा तु गार्हपत्यस्य दर्भान् उत्तरतो ऽत्र तु ॥
पात्राणि सादयित्वाथ ब्रह्मायतन एव तु ।
स्तीर्णेषु दर्भेष्व् आसीत त्व् अजिनान्तरितेषु वा ॥
जागृयाद् रात्रिम् एतां तु यावद् ब्राह्मो मुहूर्तकः ।
एताम् अवस्थां संप्राप्य मृतो ऽप्य् आनन्त्यम् अश्नुते ॥
अग्निहोत्रं स्वकाले तु हुत्वा प्रातस्तनं ततः ।
इष्टिं वैश्वानरीं कुर्यात् प्राजापत्याम् अथापि वा ॥ इति ।
आज्यादिप्राशनानन्तरम् अग्निवहरणात् पूर्वं सावित्रीप्रवेशं कुर्यात् । तद् उक्तं बौधायनधर्मे-
ॐ भूः सावित्रीं प्रविशामि – तत्सविरुर् वरेण्यम्
ॐ भुवः सावित्रीं प्रविशामि – भर्गो देवस्य धीमहि
ॐ सुवः सावित्रीं प्रविशामि – धियो यो नः प्रचोदयात्
इति अर्धर्चशः समस्तया वा । (ब्ध् २।१०।१४)
इति । इष्टिं परिसमाप्याग्नींश् चात्मनि समारोप्य प्रैषम् उच्चारयेत् । तद् आह कात्यायनः ।
आत्मन्य् अग्नीन् समारोप्य वेदिमध्ये स्थितो हरिम् ।
ध्यात्वा हृदि त्व् अनुज्ञातो गुरुणा प्रैषम् ईरयेत् ॥
[१६०] इति । अथ प्रैषम् उच्चार्याभयदानं कुर्यात् । तद् उक्तं कपिलमते ।
विधिवत् प्रैषम् उच्चार्य त्रिर् उपांशु द्विर् उच्चकैः ।
अभयं सर्वभूतेभ्यो मत्तः स्वाहेत्य् अपो भुवि ॥
निनीषन् दण्डशिक्यादि गृहीत्वाथ बहिर् व्रजेत् ॥ इति ।
दण्डादीनां मन्त्रान् आह बौधायनः ।
सखा मेत्यादिना दण्डं गृह्णीयाद् गुरुणार्पितम् ।
येन देवाः पवित्रेणेत्य् उक्त्वा जलपवित्रकम् ॥
यद् अस्य पारे रजसः शुक्रम् इत्य् अपि शिक्यकम् ।
व्याहृतीभिस् तथा पात्रम् अथ कौपीनम् इत्य् ऋचा ॥
युवा सुवासा इत्य् एवं तच् छं योर् उपवीतकम् ।
एतद् गृहीत्वा निष्क्रम्य स्वग्रामं बान्धवांस् त्यजेत् ॥
निःस्पृहो ऽन्यत्र गत्वैव व्रतैः स्वैर् वर्तयेत् सदा ॥ इति ।
एतच् च जलपवित्रादिकं चतुर्विधेषु भिक्षुषु प्रथमद्वितीयविषयम् । चातुर्विध्यं तु भिक्षूणां हारीत आह ।
चतुर्विधा भिक्षवस् तु प्रोक्ताः सामान्यलिङ्गिनः ।
तेषां पृथक् पृथक् ज्ञानं वृत्तिभेदादिकं श्रुतम् ॥
कुटीचको बहूदको हंसश् चैव तृतीयकः ।
चतुर्थः परमो हंसो यो यः पश्चात् स उत्तमः ॥ इति । (हार्स्म् १०।१३–१४)
पितामहो ऽपि ।
[१६१] चतुर्विधा भिक्षवस् तु प्रख्याता ब्रह्मणो मुखात् ।
कुटीचको बहूदको हंसश् चैव तृतीयकः ॥
चतुर्थः परहंसश् च संज्ञाभेदैः प्रकीर्तिताः ॥ इति ।
तत्राधिकारविशेषः पुराणे दर्शितः ।
विरक्तिर् द्विविधा प्रोक्ता तीव्रा तीव्रतरेति च ।
सत्याम् एव तु तीव्रायां न्यसेद् योगी कुटीचकः ॥
शक्तो बहूदके तीव्रतयायां हंससंज्ञिते ।
मुमुक्षुः परमे हंसे साक्षाद् विज्ञानसाधने ॥ इति । (नृपु ६०–१३?)
तत्र कुटीचकस्य वृत्तिविशेषम् आह प्रजापतिः- “कुटीचको नाम स्वगृहे वर्तमानः शुचिर् अकलुष आहिताग्निषु भिक्षां भुञ्जानो ऽपगतकामक्रोधलोभमोहो ऽहंकारवर्जित आत्मानुग्रहं कुरुते” इति । वृद्धपराशरो ऽपि- “कुटीचका नाम पुत्रादिभिः कुटीं कारयित्वा कामक्रोधलोभमोहमदमात्सर्यादीन् हित्वा विधिवत् संन्यासं गृहीत्वा त्रिदण्डजलपवित्रकाषायवस्त्रधारिणः स्नानशौचाचमनजपस्वाध्यायब्रह्मचर्यध्यान-तत्पराः पुत्रादेर् एव [१६२] भिक्षाकाले ऽन्नं यात्रामात्रम् उपभुञ्जानाः तस्यां कुट्यां नित्यं वसन्त आत्मानं मोक्षयन्ति” इति । स्कन्दपुराणे ऽपि ।
कुटीचकस् तु संन्यस्य स्वे च सद्मनि नित्यशः ।
भिक्षाम् आदाय भुञ्जीत स्वबन्धूनां गृहे ऽथ वा ॥
शिखी यज्ञोपवीती स्यात् त्रिदण्डी सकमण्डलुः ॥ इति ।
कुटीचकस्याशक्तविषयत्वाद् युक्तो गृहवासादिः । तद् उक्तं बौधायनेन ।
कुटीचकाः परिव्रज्य स्वे स्वे वेश्मनि नित्यशः ।
भिक्षां बन्धुभ्य आदाय भुञ्जते शक्तिसंक्षयात् ॥ इति ।
बहूदकस्य वृत्तिविशेषम् आह स्कन्दः ।
बहूदकस् तु संन्यस्य बन्धुपुत्रादिवर्जितः ।
सप्तागारं चरेद् भैक्ष्यम् एकान्नं च परित्यजेत् ॥
गोवालरज्जुसंबद्धं त्रिदण्डं शिक्यम् उद्धृतम् ।
जलपात्रं पवित्रं च खनित्रं च कृपाणिकाम् ॥
शिखां यज्ञोपवीतं च देवताराधनं चरेत् ॥ इति ।
वृद्धपराशरो ऽपि- “तत्र बहूदका नाम त्रिदण्डकमण्डलुपद्मपवित्रपात्रकाषायवस्त्रधारिणो वेदान्तार्थावबोधकाः [१६३] साधुवृत्तेषु ब्राह्मणगृहेषु भैक्षचर्यां चरन्त आत्मानं मोक्षयन्ते” इति । पितामहो ऽपि ।
बहूदकः स विज्ञेयः सर्वसङ्गविवर्जितः ।
बन्धुवर्गे न भिक्षेत स्वभूमौ नैव संवसेत् ॥
निश्चलः स्थाणुभूतश् च सदा मोक्षपरायणः ।
न कुट्यां नोदके सङ्गं कुर्याद् वस्त्रे च चेतसा ॥
नागारे नासने नान्ने नास्तरे च त्रिदण्डके ।
स्वमात्रायां न कुर्याद् वै रागं दण्डादिके यतिः ॥ इति ।
हंसवृत्तिः स्कन्दपुराणे दर्शिता ।
हंसः कमण्डलुं शिक्यं भिक्षापात्रं तथैव च ।
कन्थां कौपीनम् आच्छादनम् अङ्गवस्त्रं बहिःपटम् ॥
एकं तु वैणवं दण्डं धारयेन् नित्यम् आदरात् ।
देवतानाम् अभेदेन कुर्याद् ध्यानं समर्चयेत् ॥ इति ।
विष्णुर् अपि ।
यज्ञोपवीतं दण्डं च वस्त्रं जन्तुनिवारणम् ।
तावान् परिग्रहः प्रोक्तो नान्यो हंसपरिग्रहः ॥ इति ।
पितामहो ऽपि ।
हंसस् तृतीयो विज्ञेयो भिक्षुर् मोक्षपरायणः ।
नित्यं त्रिषवणस्नायी त्व् आर्द्रवासा भवेत् सदा ॥
चान्द्रायणेन वर्तेत यतिधर्मानुशासनात् ।
वृक्षमूले वसेन् नित्यं गुहायां वा सर्त्तटे ॥ इति ।
बौधायनो ऽपि ।
[१६४] हंसा कमण्डलुं शिक्यं दण्डपात्राणि बिभ्रतः ।
ग्रामतीर्थैकरात्राश् च नगरे पञ्चरात्रकाः ॥
त्रिषड्रात्रोपवासाश् च पक्षमासोपवासिनः ।
कृच्छ्रसान्तपनाद्यैश् च व्रतैः कृशवपुर्धराः ॥ इति ।
परमहंसवृत्तिः स्कन्दपुराणे दर्शिताः ।
कौपीनाच्छादनं वस्त्रं कन्थां शीतनिवारिणीम् ।
अक्षमालां च गृह्णीयात् वैणवं दण्डम् अव्रणम् ॥
माधूकरम् अथैकान्नं परहंसः समाचरेत् ।
परहंसस् त्रिदण्डं च रज्जुं गोवालनिर्मिताम् ॥
शिखां यज्ञोपवीतं च नित्यं कर्म परित्यजेत् ॥ इति ।
अत्र केचिच् छ्रद्धाजाड्येन संध्यावन्दनगायत्रीशिखायज्ञोपवीतत्यागम् असहमानाः यथावर्णितं पारमहंस्यं विद्विषन्ति । उदाहरन्ति च कानिच्द् वचनानि । तत्र हारीतः ।
चत्वारो ऽप्य् आश्रमा ह्य् एते संध्यावन्दनवर्जिताः ।
ब्राह्मण्याद् एव हीयन्ते यद्य् अप्य् उग्रतपोधराः ॥ इति । (हार्स्म् १४।१८)
बौधायनो ऽपि ।
अनागतां तु ये पूर्वाम् अनतीतां तु पश्चिमाम् ।
सम्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ॥ इति । (ब्ध् २।४।१५)
स्मृत्यन्तरे ऽपि ।
[१६५] सायं प्रातः सदा संध्यां ये विप्रा नो उपासते ।
कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेत् ॥ इति । (क्स्म् १।५)
मनुर् अपि ।
सावित्रीपतिता व्रात्या भवन्त्य् आर्यविगर्हिताः । इति । (म्ध् २।३९)
अत्रिर् अपि ।
यज्ञोपवीतं सर्वेषां द्विजानां मुक्तिसाधनम् ।
परित्यजन्ति ये मोहान् नरा निरयगामिनः ॥ इति । (अत्र्स्म् ३)
पद्मपुराणे ऽपि ।
शिखायज्ञोपवीतेन त्यक्तेनासौ कथं द्विजः । इति ।
मैवम्, एतेषां वचनानां परमहंसव्यतिरिक्तविषयत्वेनाप्य् उपपत्तेः । पारमहंस्यं तु बहुषु प्रत्यक्षश्रुतिषूपलभ्यमानं केन प्रद्वेष्टुं शक्यम् । तथा च जाबालश्रुतिः- “तत्र परमहंसा नाम संवर्तक-आरुणि-श्वेतकेतु-दुर्वासा-ऋभु-निदाघ-जडभरत-दत्तात्रेय-रैवतकप्रभृतयो ऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवद् आचरन्ति” इति (जाबुप् ६) । तेषां च शिखादित्याग आत्मज्ञानादिधर्माश् च तत्रैव श्रुताः- [१६६]
दण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रकम् । शिखां यज्ञोपवीतं च – इत्य् एतत् सर्वं भूः स्वाहेत्य् अप्सु परित्यज्यात्मानम् अन्विच्छेत् । यथाजातरूपधरो निर्द्वन्द्वो निष्परिग्रहः तत्त्वब्रह्ममार्गे सम्यक् संपन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले विमुक्तो भैक्ष्यम् आचरन् करपात्रेण लाभालाभयोः समो भूत्वा शून्यागारदेवगृह-तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दर-स्थण्डिलेष्व् अनिकेतवास्य् अप्रयत्नो निर्ममः शुक्लध्यानपरायणो ऽध्यात्मनिष्ठो ऽशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम । इति । (जाबुप् ६)
तस्याम् एव च श्रुतौ जनक-याज्ञवल्क्यसंवादरूपेण यज्ञोपवीतत्यागम् आक्षिप्य समाहितम्- “पृच्छामि त्वां याज्ञवल्क्य अयज्ञोपवीती कथं ब्राह्मणः इति । स होवाच याज्ञवल्क्यः । इदम् एवास्य तद् यज्ञोपवीतं य आत्मेति” इति (जाबुप् ५) । आरुणिश्रुताव् अपि पारमहंस्यं प्रपञ्चितम्-
[१६७] आरुणिः प्रजापतेर् लोकं जगाम । तं गत्वोवाच केन भगवन् कर्माण्य् अशेषतो
विसृजानीति । तं होवाच प्रजापतिः । तव पुत्रान् भ्रातृव्यबन्ध्वादीन् शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भूर्लोकं भुवर्लोकं स्वर्लोकं चातलवितलसुतलतलातलमहातलरसातलपातालं ब्रह्माण्डं च विसर्जयेत् । दण्डम् आच्छादनं कौपीनं परिग्रहेत् । शेषं विसृजेत् । ब्रह्मचारी गृहस्थो वानप्रस्थो वा लौकिकाग्नीन् उदराग्नौ समारोपयेत् । उपवीतं भूमौ वाप्सु वा विसृजेत् । कुटीचको ब्रह्मचारी कुटुम्बं विसृजेत् । पात्रं विसृजेत् । दण्डान् लोकाग्नीन् विसृजेद् इति होवाच । अत ऊर्ध्वम् अमन्त्रवद् आचरेद् ऊर्ध्वगमनं विसृजेत् त्रिसम्ध्यादौ स्नानम् आचरेत् । संधिं समाधाव् [१६८] आत्मन्य् आचरेत् । सर्वेषु वेदेष्व् आरण्यकम् आवर्तयेद् उपनिषदम् आवर्तयेत् । (आरुप् १)
इति । मैत्रायणश्रुताव् अपि- “इन्द्रस्य वज्रो ऽसीति त्रीन् वैणवान् दण्डान् दक्षिणपानौ धारयेद् एकं वा । यद्य् एकं तदा सशिखं वपनं कृत्वा विसृज्य यज्ञोपवीतम्” इति । पिप्पलादशाखायाम् अपि ।
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः ।
यद् अक्षरं परं ब्रह्म तत् सूत्रम् इति धारयेत् ॥
सूचनात् सूत्रम् इत्य् आहुः सूत्रं नाम परं पदम् ।
तत् सूत्रं विदितं येन स विप्रो वेदपारगः ॥
येन सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ।
तत् सूत्रं धारयेद् योगी योगवित् तत्त्वदर्शिवान् ॥
बहिःसूत्रं त्यजेद् विद्वान् योगम् उत्तमम् आस्थितः ।
ब्रह्मबावम् इदं सूत्रं धारयेद् यः स चेतनः ॥
धारणाद् अस्य सूत्रस्य नोच्छिष्टो नाशुचिर् भवेत् ।
सूत्रम् अन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥
[१६९] ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ।
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ॥
ज्ञानम् एव परं तेषां पवित्रं ज्ञानम् उच्यते ।
अग्नेर् इव शिखा नान्या यस्य ज्ञानमयी शिखा ॥
स शिखीत्य् उच्यते विद्वान् नेतरे केशधारिणः ।
कर्मण्य् अधिकृता ये तु वैदिके ब्राह्मणादयः ॥
एभिर् धाऋयम् इदं सूत्रं क्रियाङ्गं तद् धि वै स्मृतम् ।
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ॥
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ।
इदं यज्ञोपवीतं तु परमं यत् परायणम् ॥
विद्वान् यज्ञोपवीती स्यात् स यज्ञः स च यज्ञवित् ॥ इति ।
व्यासस्मृताव् अपि ।
यज्ञोपवीतं कर्माङ्गं वदन्त्य् उत्तमबुद्धयः ।
उपपूर्वनयात् पूर्वं यतो लोके न दृश्यते ॥
यावत् कर्माणि कुरुते तावद् एवास्य धारणम् ।
तस्माद् अस्य परित्यागः क्रियते कर्मभिः सह ॥
[१७०] अग्निहोत्रविनाश्ē तु जुह्वादीनि यथा त्यजेत् ।
यथा च मेखलादीनि गृहस्थाश्रमवाञ्छया ॥
पत्नी योक्त्रं यथेष्ट्यन्ते सोमान्ते च यथा ग्रहान् ।
तद्वद् यज्ञोपवीतस्य त्यागम् इच्छन्ति योगिनः ॥ इति ।
विश्वामित्रो ऽपि- “अथापरं परिव्राजकलिङ्गं सर्वतः परिमोक्षम् एके । सत्यानृते सुखदुःखे वेदान् इमं लोकम् अमुं च परित्य्ज्यात्मानम् अन्विच्छेत् । शिखायज्ञोपवीतकमण्डलुकपालानां त्यागी” इति । बौधायनो ऽपि- “अत ऊर्ध्वं यज्ञोपवीतं मन्त्रम् आच्छादनं यष्टयः शिक्यं जलपवित्रं कमण्डलुं पात्रम् इत्य् एतानि वर्जयित्वा एकं दण्डम् आदत्ते सखा म गोपायेति” इति । स्मृत्यन्तरे ऽपि ।
यदा तु विदितं तत् स्यात् परं ब्रह्म सनातनम् ।
तदैकदण्डं संगृह्य उपवीतं शिखां त्यजेत् ॥ इति ।
अत्र केचिद् आहुः – उपवीतत्यागवचनानि पुरातनयज्ञोपवीतविषयाणि । तथा च स्मृतिः- [१७१] “नखानि निकृत्य पुराणं वस्त्रं यज्ञोपवीतं कमण्डलुं त्यक्त्वा नवानि गृहीत्वा ग्रामं प्रविशेत्” इति । यदाचमनाङ्गयज्ञोपवीतं स्यात् तदा ब्राह्मण्याद् एव हीयते । तस्माद् अस्ति परमहंसस्यापि यज्ञोपवीतम् – इति ।
तद् अयुक्तम्, उदाहृतस्मृतेर् बहूदकादिविषयत्वात्, “न यज्ञोपवीतं नाच्छादनं चरति परमहंसः” (परुप् २) इति श्रुतेः, “अयज्ञोपवीती शौचनिष्ठः कामम् एकं वैणवं दण्डम् आददीत” (आशुप् ४) इति श्रुत्यन्तराच् च । न च – बाह्योपवीतम् अन्तरेणाचमनाद्यसंभवः, कौषीतकिब्राह्मणे प्रश्नोत्तराभ्यां तदुपपादनात्- “किम् अस्य यज्ञोपवीतं । का वास्य शिखा । कथं वास्योपस्पर्शनम्” इति प्रश्नः, “इदम् एवास्य तद् यज्ञोपवीतं यद् आत्मध्यानं विद्या शिखा” (कठुप् १) इत्याद्युत्तरम् । ब्राह्मण्यं तु ज्ञानमयशिखायज्ञोपवितिन एव पुष्कलम् इति पिप्पलादश्रुताव् उदाहृतम् ।
केचित् तु – परमहंसस्यापि त्रिदण्डम् इच्छन्ति । उदाहरन्ति च [१७२] वचनानि । तत्र दक्षः सर्वेषाम् आश्रमिणां क्रमेण लक्षणम् अभिदधानः “त्रिदण्डेन यतिश् चैव” (दस्म् १।१४) इति यतेर् लक्षणम् अभिधाय त्रिदण्डरहितस्य यतित्वं निषेधति- “यस्यैतल् लक्षणं नास्ति प्रायश्चित्ती न चाश्रमी” (दस्म् १।१५) इति । हारीत-दत्तात्रेय-पितामहाः कुटीचकादीन् चतुरो ऽप्य् उपन्यस्य सर्वेषां त्रिदण्डम् एव विदधते ।
वृत्तिभेदेन भिन्नाश् च नैव लिङ्गेन ते द्विजाः ।
लिङ्गं तु वैणवं तेषां त्रिदण्डं सपवित्रकम् ॥ इति ।
अत्रिर् अपि ।
शिखिनस् तु श्रुताः केचित् केचित् मुण्डाश् च भिक्षुकाः ।
चतुर्धा भिक्षुकाः प्रोक्ताः सर्वे चैव त्रिदण्डिनः ॥ इति । (अत्र्स्म् १।१३)
एकदण्डवचनानि तु त्रिदण्डालाभविषयाणि । तद् आह मेधातिथिः ।
यावन् न स्युस् त्रिदण्डास् तु तावद् एकेन पर्यटेत् । इति ।
हारीतो ऽपि ।
नष्टे जलपवित्रे वा त्रिदण्डे वा प्रमादतः ।
एकं तु वैणवं दण्डं पालाशं बैल्वम् एव वा ॥
गृहीत्वा विचरेत् तावद् यावल् लभ्येत् त्रिदण्डकम् ॥ (हार्स्म् ११।१४)
[१७३] इति ।
अत्रोच्यते – परमहंसस्यैकदण्डनिराकरण्र् बह्वागमविरोधः स्यात् । उदाहृताश् च परमहंसस्यैकदण्डप्रतिपादिकाः श्रुतिस्मृतयः । एवं सति मेधातिथि-हारीताभ्यां यद् एकदण्डस्यानुकल्पत्वम् उक्तं तद् बहूदकादिविषयं भवैष्यति । परमहंसस्य तु नैकदण्डो ऽनुकल्पः । यतो व्यास आह ।
त्रिदण्डस्य परित्याग एकदण्डस्य धारणम् ।
एकस्मिन् दृश्यते वाके तस्माद् अस्य प्रधानता ॥ इति ।
यत् तु “सर्वे चैव त्रिदण्डिनः” इति तद् वाग्दण्डादिविषयम्, न तु यष्टित्रयाभिप्रायम् । तथा च मनुः ।
वाग्दण्डो ऽथ मनोदण्डः कायदण्डस् तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥
त्रिदण्डम् एतं निःक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ तु संयम्य ततः सिद्धिं निगच्छति ॥ इति । (म्ध् १२।१०–११)
दक्षो ऽपि ।
वाग्दण्डो ऽथ मनोदण्डः कर्मदण्डस् तथैव च ।
यस्यैते नियता दण्डास् त्रिदष्डीति स उच्यते ॥ इति ।
एतेषां च त्रयाणां दण्डानां सव्रूपं स एवाह ।
वागदण्डो मौनता प्रोक्ता कर्मदण्डस् त्व् अनीहता ।
मानसस्य तु दण्डस्य प्राणायामो विधीयते ॥
[१७४] इति । यद् अपि पितामहेनोक्तम्,
परः परमहंसस् तु तुर्याख्यः श्रुतिर् अब्रवीत् ।
यमैश् च नियमैर् युक्तो विष्णुरूपी त्रिदण्डभृत् ॥
इति, तद् अप्य् उक्तरीत्या वाग्दण्डाद्यभिप्रायम् । यद् अपि,
लिङ्गं तु वैणवं तेषां त्रिदण्डं सपवित्रकम् ।
इति यष्टित्रयाभिधानम्, तद् अपि बहूदकविषयत्वेनोपपन्नम् । यो हि बहूदक एव सन् ग्रामैकरात्रादिकां हंसवृत्तिम् आचरति स वृत्तितो हंसो भवति । वेदान्तश्रवणादिकां परमहंसवृत्तिं चेद् आश्रयति तदा वृत्तितः परमहंसो भवति । तेषां हंसादीनां त्रिदण्डम् एव लिङ्गम् । अनेनैवाभिप्रायेण,
वृत्तिभेदेन भिन्नाश् च नैव लिङ्गेन ते द्विजाः ।
इत्य् उक्तम् । अन्यथा मुख्ययोर् हंसपरहंसयोर् एकदण्डविधायकान्य् उदाहृतानि वचनानि निर्विषयाणि स्युः । तस्माद् एक एव दण्डः परमहंसस्य ।
ननु – परमहंसोपनिषदि एकदण्डो ऽप्य् अमुख्यत्वेनैव श्रूयते- “कौपीनं दण्डम् आच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत् । तच् च न [१७५] मुख्यम् अस्ति । को मुख्यः इति चेत्, अयं मुख्यो – न दण्डं न शिक्यं नाच्छादनं चरति परमहंसः” इति (परुप् १)
बाढम् । नास्त्य् एव विद्वत्परमहंसस्य बाह्ययष्ठ्युपयोगः । अत एव च वाक्यशेषे ज्ञानम् एव तस्य दण्डः इत्य् उक्तम्-
ज्ञानदण्डो धृतो येन एकदण्डो स उच्यते । इति । (परुप् ३)
यष्टिधारणं तु विविदिषोः परमहंसस्य । न च विद्वद्विविदिषुभेदेन पारमहंस्यद्विविध्ये मानाभावः शङ्कनीयः, वाजसनेयिब्राह्मणे तदुपलम्भात् । “एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रेषणायाश् च वित्तेषणायाश् च लोकेषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति” (बाउप् ३।५।१) इति विद्वत्संन्यासे प्रमाणम् । “एतम् एव विदित्वा मुनिर् भवति । एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति” (बाउप् ४।४।२२) [१७६] इत्य् एतद्वाक्ये विद्वद्विविदिषुसंन्यासौ उभाव् अपि विस्पष्टम् अवगम्येते । “एतत् सर्वं भूः स्वाहेत्य् अप्सु परित्यज्यात्मानम् अन्विच्छेत्” (जाबुप् ६) इति जाबालवाक्ये त्रिदण्डादिपरित्यागात्मकं विविदिषुपारमहंस्यम् आम्नातम् । श्रुतिश् च “न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्य् अवराणि तपांसि न्यास एवात्यरेचयत्” (म्नु २१।२) इत्य् अग्निहोत्रयज्ञदानादितपोनिन्दापुरःसरं पारमहंस्यं विधाय तस्य परमहंसस्य विविदिषोर् आत्मविद्याधिकारं दर्शयति “ओम् इत्य् एतम् आत्मानं युञ्जीत” (म्नु २४।२) इति । तस्माद् द्वैविध्यसद्भावाद् दण्डादिनिवारणम् अशेषकर्मशून्यविद्वत्परमहंसविषयम् । विदुषः कर्तव्यशून्यतां भगवान् आह ।
यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः ।
आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥ (ब्घ् ३।१७)
[१७७] इति । दक्षो ऽपि ।
नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन ।
एतैः सर्वेषु निष्णातो यतिर् भवति नान्यथा ॥ इति । (दस्म् ७।३३)
स्मृत्यन्तरे ऽपि ।
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किंचित् कर्तव्यम् अस्ति चेन् न स सर्ववित् ॥ इति ।
बह्वृचब्राह्मणे ऽपि- “एतद् ध सम् वै तद्विद्वांस आहुर् ऋषयः कावषेयाः किमर्था वयम् अध्येष्यामहे किमर्था वयं यक्ष्यामहे” इति । विविदिषोस् तु श्रवणमननादिकर्तव्यसद्भावात् तदुपकारित्वेन दण्डधारणादिनियम उपपद्यते ।
ननु – ज्ञानरहितस्यापि दण्डप्रतिषेध आम्नायते-
काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।
स याति नरकान् घोरान् महारौरवसंज्ञितान् ॥ इति । (परुप् ३)
नायं दोषः, विद्यां विविदिषां च विना जीवनार्थम् एव केवलम् एकदण्डं यो धत्ते तद्विषयत्वात् प्रतिषेधस्य । अत एव सर्वाशीति विशेषितम् । स्मृताव् अपि ।
[१७८] एकदण्डं समाश्रित्य जीवन्ति बहवो नराः ।
नरके रौरवे घोरे कर्मत्यागात् पतन्ति ते ॥ इति ।
युक्तश् च नरके पातः । सत्य् अपि बाह्यदण्डे पापनिवर्तकानाम् आन्तरदण्डानाम् अभावात् । पापनिवर्तकत्वं च कालिकापुराणे दर्शितम् ।
वैणवा ये स्मृता दण्डा लिङ्गमात्रप्रबोधकाः ।
लिङ्गव्यक्त्यै हि धार्यास् ते न पुनर् धर्महेतवः ॥
कायजा ये बुधैर् नित्यं नृणां पापप्रमोक्षणात् ।
जितेन्द्रियैर् जितक्रोधैर् धार्या वै तत्त्वदर्शिभिः ॥ इति ।
ये कायजास् त्रयो दण्डास् ते पापविमोक्षणाय धार्या इत्य् अन्वयः ।
ननु – एकदण्डत्रिदण्डयोर् विकल्पः क्वचित् स्मर्यते । तत्र विष्णु-बौधायनौ ।
एकदण्डी भवेद् वापि त्रिदण्डो वा मुनिर् भवेत् । इति ।
व्यासः ।
त्रिदण्डम् एकदण्डं वा व्रतम् आस्थाय तत्त्ववित् ।
पर्यटेत् पृथिवीं नित्यं वर्षाकाले स्थिरो भवेत् ॥ इति ।
शौनको ऽपि- “अथ काषायवासाः सखा म गोपायेति त्रिदण्डम् एकदण्डं वा गृह्णाति” इति । आश्वमेधिके भगवद्वचनम् ।
[१७९] एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा ।
काषायमात्रसारो ऽपि यतिः पूज्यो युधिष्ठिर ॥ इति । (म्ध् आश्व १०५।८–९)
बाढम् । उक्तरीत्या तयोर् व्यवस्था द्रष्टव्या । तत्र कुटीचकबहूदकयोस् त्रिदण्डः । हंसपरमहंसयोर् एकदण्डः । तथा च सति तत्र तत्रोदाहृतानि वचनानि उपपद्यन्ते ॥।
तद् एवं चतुर्विधः संन्यासो निरूपितः
अथ तद्धर्मा निरूप्यन्ते । तत्र बौधायनः ।
उषःकाले समुत्थाय शौचं कृत्वा यथाविधि ।
दन्तान् विधाव्य चाचम्य पर्ववर्जं यथाविधि ॥
स्नात्वा चाचम्य विधिवत् तिष्ठन्न् आसीन एव वा ।
बिभज् जलपवित्रं वाप्य् अक्षसूत्रं करद्वये ॥
तद्वत् पवित्रे गोवालैः कृते दुष्कृतनाशने ।
उदये विधिवत् संध्याम् उपास्य त्रिकजप्यवान् ॥
मित्रस्य चर्षणीत्याद्यैर् उपस्थाय पवित्रिभिः ।
पूर्ववत् तर्पयित्वाथ जपेत् सम्यक् समाहितः ॥ इति ।
मनुर् अपि ।
एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायकः ।
सिद्धिम् एकस्य संपश्यन् न जहाति न हीयते ॥ (म्ध् ६।४२)
[१८०] इति । एकस्यासहायस्य विचरतो रागद्वेषादिप्रतिबन्धाभावात् ज्ञानलक्षणां सिद्धिं निश्चिन्वन् तां सिद्धिं न जहाति । तस्यां सिद्धाव् अप्रत्यूहेन प्रवर्तते । प्रवृत्तश् च तस्याः सिद्धेर् न हीयते किं तु पारं गच्छति । यदा तु द्वितीयतृतीयपुरुषसहायवान् विचरेत् तदा रागद्वेषसंभवाद् उक्तसिद्धेर् हीयते । अत एव दक्षः ।
एको भिक्षुर् यथोक्तस् तु द्वाव् एव मिथुनं स्मृतम् ।
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥
नगरं न हि कर्तव्यं ग्रामो ऽपि मिथुनं तथा ।
एतत् त्रयं प्रकुर्वाणः स्वधर्माच् च्यवते यतिः ॥
राजवार्ता हि तेषां च भिक्षावार्ता परस्परम् ।
स्नेहपैशुन्यमात्सर्यं संनिकर्षान् न संशयः ॥ इति । (दस्म् ७।३५–३७)
यदा तु श्रवणादिसंपत्त्यभावाद् आत्मज्ञानसिद्धौ स्वयम् अशक्तः स्यात् तदा तत्र शक्तेन द्वितीयेन सह विचरेत् । यथाह श्रुतिः- “वर्षासु ध्रुवशीलो ऽष्टौ मासम् एकाकी यतिश् चरेत् द्वौ वा” इति (आरुप् ३) । चरेत् चरेताम् इत्य् अर्थः । शौनको ऽपि- “एकाकी विचरेत् सर्वभूतेभ्यो हितम् आचरेत्” [१८१] इति । तद् आह याज्ञवल्क्यः ।
सर्वभूतहितः शान्तः त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत् ॥ इति । (य्ध् ३।५८)
हिताचरणं नाम हिंसाननुष्ठानमात्रम् । न पुनर् उपकारेषु प्रवृत्तिः, “हिंसानुग्रहयोर् अनारम्भः” (ग्ध् ३।२४) इति गौतमस्मरणात् । अत एव अहिंसादीन् आह अत्रिः ।
अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यापरिग्रहौ ।
भावशुद्धिर् हरेर् भक्तिः संतोषः शौचम् आर्जवम् ॥
आस्तिक्यं ब्रह्मसंस्पर्शः स्वाध्यायः समदर्शनम् ।
अनौद्धत्यम् अदीनत्वं प्रसादः स्थैर्यमार्दवे ॥
स्वस्नेहो गुरुशुश्रूषा श्रद्धा क्षान्तिर् दमः शमः ।
उपेक्षा धैर्यमाधुर्ये तितिक्षा करुणा तथा ॥
ह्रीस् तपो ज्ञानविज्ञाने योगो लघ्वशनं धृतिः ।
भिक्षाटनं जपः संध्या त्यागः कर्मफलस्य च ।
एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् ॥ इति ।
प्रव्रज्यां कृत्वापि गुरोः समीपे ब्रह्मज्ञानपर्यन्तं निवसेत् । तद् उक्तं लिङ्गपुराणे ।
[१८२] आश्रमत्रयम् उक्तस्य प्राप्तस्य परमाश्रमम् ।
ततः संवत्सरस्यान्ते प्राप्य ज्ञानम् अनुत्तमम् ॥
अनुज्ञाप्य गुरुं चैव चरेद् धि पृथिवीम् इमाम् ।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥
पिधाय बुद्ध्या द्वाराणि ध्यानेनैकमना भवेत् ॥ इति । (लिङ्पु १।९०।१५)
मत्स्यपुराणे ऽपि ।
गुरोर् अभिहिते युक्तः स तु संवत्सरं वसेत् ।
नियमेष्व् अप्रमत्तस् तु यमेषु च सदा भवेत् ॥
प्राप्य चान्ते ततश् चैव ज्ञानयोगम् अनुत्तमम् ।
अविरोधेन धर्मस्य विचरेत् पृथिवीं यतिः ॥ इति । (लिङ्पु १।८९।५–६)
संवतसरम् इत्य् उपलक्षणम् । यावज् ज्ञानं तावन् निवसेत् । गुरुसमीपवासस्य ज्ञानार्थत्वात् । पृथिवीविचरणे विशेषम् आह कण्वः ।
एकरात्रं वसेत् ग्रामे नगरे पञ्चरात्रकम् ।
वर्षाभ्यो ऽन्यत्र वर्षासु मासांश् च चतुरो वसेत् ॥ इति ।
मत्स्यपुराणे ऽपि ।
अष्टौ मासान् विहारः स्याद् यतीनां संयतात्मनाम् ।
[१८३] एकत्र चतुरो मासान् वार्षिकान् निवसेत् पुनः ॥
न देहो भविता तत्र दृष्टं शास्त्रं पुरातनम् ॥ इति । (मत्पु १८४।२१–२३)
चातुर्मास्यनिवासे प्रयोजनम् आह मेधातिथिः ।
संरक्षणार्थं जन्तूनां वसुधातलचारिणाम् ।
आषाढादींश् च चतुर आ मासात् कार्तिकाद् यतिः ॥
धर्माढ्ये जलसंपन्ने ग्रामान्ते निवसेच् छुचिः ॥ इति ।
अन्यान् अपि हेयोपादेयांश् च् धर्मान् संगृह्याह स एव ।
श्रद्धया परयोपेतः परमात्मपरायणः ।
स्थूलसूक्ष्मशरीराभ्यां मुच्यन्ते दशषट्कवित् ॥
त्रिदण्डं कुण्डिकां कन्यां भैक्षभाजनम् आसनम् ।
कौपीनाच्छादनं वासः षड् एतानि परिग्रहेत् ॥
स्थावरं जङ्गमं बीजं तैजसं विषम् आयुधम् ।
षड् एतानि न गृह्णीयाद् यतिर् मूत्रपुरीषवत् ॥
रसायनक्रियावादं ज्योतिषं क्रयविक्रयम् ।
विविधानि च शिल्पानि वर्जयेत् परदारवत् ॥
भिक्षाटनं जपं स्नानं ध्यानं शौचं सुरार्चनम् ।
कर्तव्यानि षड् एतानि सर्वथा नृपदण्डवत् ॥
[१८४] नटादिप्रेक्षणं द्यूतं प्रमदां सुहृदं तथा ।
भक्ष्यं भोज्यम् उदक्यां च षण् न पश्येत् कदाचन ॥
स्कन्धावारे खले सार्थे पुरे ग्रामे वसद्गृहे ।
न वसेत यतिः षट्सु स्थानेष्व् एतेषु कर्हिचित् ॥
रागं द्वेषं मदं मायां दम्भं मोहं परात्मसु ।
षड् एतानि यतिर् नित्यं मनसापि न चिन्तयेत् ॥
मञ्चकं शुक्लवस्त्रं च स्त्रीकथां लौल्यम् एव च ।
दिवा स्वापं च यानं च यतीनां पतनानि षट् ॥
संयोगं च वियोगं च वियोगस्य च साधनम् ।
जीवेश्वरप्रधानानां स्वरूपाणि विचिन्तयेत् ॥
आसनं पात्रलोपश् च संचयः शिष्यसंग्रहः ।
दिवास्वापो वृथाजल्पो यतेर् बन्धकराणि षट् ॥
एकाहात् परतो ग्रामे पञ्चाहात् परतः पुरे ।
वर्षाभ्यो ऽन्यत्र यत् स्थानम् आसनं तद् उदाहृतम् ॥
उक्तानां यतिपात्राणाम् एकस्यापि न संग्रहः ।
भिक्षोर् भैक्षभुजश् चापि पात्रलोपः स उच्यते ॥
गृहीतस्य त्रिदण्डादेर् द्वितीयस्य परिग्रहः ।
कालान्तरोपभोगार्थं संचयः परिकीर्तितः ॥
[१८५] शुश्रूषालाभपूजार्थं यशोऽर्थं वा परिग्रहः ।
शिष्याणां न तु कारुण्यात् स स्नेहः शिष्यसंग्रहः ॥
विद्या दिनं प्रकाशत्वाद् अविद्या रात्रिर् उच्यते ।
विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते ॥
आध्यात्मकीं कथां मुक्त्वा भैक्षचर्यां सुरस्तुतिम् ।
अनुग्रहपरः प्रश्नो वृथा जल्पः स उच्यते ॥
अजिह्वः षण्ढकः पङ्गुर् अन्धो बधिर एव च ।
मुग्धश् च मुच्यते भिक्षुः षड्भिर् एतैर् न संशयः ॥
इदं मृष्ट्म् इदं नेति यो ऽश्नन्न् अपि न सज्जति ।
हितं सत्यं मितं वक्ति तम् अजिह्वं प्रचक्षते ॥
सद्योजातां यथा नारीं तथा षोडशवार्षिकीम् ।
शतवर्षां च यो दृष्ट्वा निर्विकारः स षण्ढकः ॥
भिक्षार्थम् अटनं यस्य विण्मूत्रकरणाय च ।
योजनान् न परं याति सर्वथा पङ्गुर् एव सः ॥
तिष्ठतो व्रजतो वापि यस्य चक्षुर् न दूरगम् ।
चतुर्युगाद् भयं त्यक्त्वा परिव्राट् सो ऽन्ध उच्यते ॥
[१८६] हिताहितं मनोरामं वचः शोकावहं तु यत् ।
श्रुत्वा यो न शृणोतीव बधिरः स प्रकीर्तितः ॥
सांनिध्ये विषयाणां यः समर्थो ऽविकलेन्द्रियः ।
सुप्त्वद् वर्तते नित्यं स भिक्षुर् मुग्ध उच्यते ॥ इति ।
भिक्षाटनविधिम् आह मनुः ।
एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।
भैक्षप्रसक्तो हि यतिर् विषयेष्व् अपि सज्जते ॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ॥
अलाभे न विषादी स्याल् लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ इति । (म्ध् ६।५५–५७)
मीयन्ते इति मात्रा विषयास् तेषां सङ्गाद् विनिर्गतः । यततस्तो (?) न हर्षविषादौ कार्यौ इत्य् अर्थः । यमो ऽपि ।
स्नात्वा शुचिः शुचौ देशे कृतजप्यः समाहितः ।
भिक्षार्थी प्रविशेद् ग्रामं रागद्वेषविवर्जितः ॥
चरेन् माधूकरं भैक्षं यतिर् म्लेच्छकुलाद् अपि ।
एकान्नं न तु भुञ्जीत बृहस्पतिसमो यदि ॥
[१८७] मेध्यं भक्षं चरेन् नित्यं सायाह्ने वाग्यतः शुचिः ।
एकवासा विशुद्धात्मा मन्दगामी युगान्तदृक् ॥
यथालब्धं तथाश्नीयाद् आज्यसंस्कारवर्जितम् ।
भैक्षं माधूकरं नाम सर्वपातकनाशनम् ॥ इति ।
बौधायनो ऽपि ।
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
काले ऽपराह्णभूयिष्ठे भिक्षाटणम् अथाचरेत् ॥
ऊर्ध्वं जान्वोर् अधो नाभेः परिधायैकम् अम्बरम् ।
द्वितीयम् आन्तरं वासः पात्री दण्डी च वाग्यतः ॥
सव्ये चादाय पात्रं तु त्रिदण्डं दक्षिणे करे ।
उपतिष्ठेत सूर्यं तु ध्यात्वा चैकत्वम् आत्मना ॥
उक्त्वा विरजसं मन्त्रम् आकृष्णेन प्रदक्षिणम् ।
कृत्वा पुनर् जपित्वा च ये ते पन्थान इत्य् अपि ॥
यो ऽसौ विष्ण्वाख्यं आदित्ये पुरुषो ऽन्तर्हृदि स्थितः ।
सो ऽहं नारायणो देव इति ध्यात्वा प्रणम्य तम् ॥
भिक्षापात्रादिशुद्ध्यर्थम् अवमुच्याप्य् उपानहौ ।
ततो ग्रामं व्रजेन् मन्दं युगमात्रावलोककः ॥
ध्यायन् हरिं च तच्चित्त इदं च समुदीरयेत् ।
विष्णुस् तिर्यग् अधोर्ध्वं मे वैकुण्ठो विदिशं दिशम् ॥
पातु मां सर्वतो रामो धन्वी चक्री च केशवः ।
अभिगम्य गृहाद् भिक्षां भवत्पूर्वं प्रचोदयेत् ॥
[१८८] गोदोहमात्रं तिष्ठेच् च वाग्यतो ऽधोमुखस् ततः ।
दृष्त्वा भिक्षां दृष्टिपूतां दातुश् च करसंस्थिताम् ॥
त्रिदण्डं दक्षिणे त्व् अङ्गे ततः सन्धाय बाहुना ।
उत्पाटयेच् च कवचं दक्षिणेन करेण सः ॥
पात्रं वामकरे क्षिप्त्वा श्लेषयेद् दक्षिणेन तु ।
प्राणयात्रिकम् अन्नं तु भिक्षेत विगतस्पृहः ॥ इति ।
भिक्षस्य पञ्चविधत्वम् आह उशनाः ।
माधूकरम असंकॢप्तं प्राक्प्रणीतम् अयाचितम् ।
तात्कालिकोपपन्नं च भैक्षं पञ्चविधं स्मृतम् ॥
मनःसंकल्परहितान् गृहांस् त्रीन् सप्त पञ्चकान् ।
मधुवद् आहरणं यत् तु माधूकरम् इति स्मृतम् ॥
शयनोत्थापनात् प्राग् यत् प्रार्थितं भक्तिसंयुतैः ।
तत् प्राक्प्रणीतम् इत्य् आह भगवान् उशना मुनिः ॥
भिक्षाटनसमुद्योगात् प्राक् केनापि निमन्त्रितम् ।
अयाचितं हि तद् भैक्षं भोक्तव्यं मनुर् अब्रवीत् ॥
उपस्थाने च यत् प्रोक्तं भिक्षार्थं ब्राह्मणेन ह ।
तात्कालिकम् इति ख्यातं तद् अत्तव्यं मुमुक्षुणा ॥
सिद्धम् अन्नं भक्तजनैर् आनीतं यन् मठं प्रति ।
उपपन्नं तद् इत्य् आहुर् मुनयो मोक्षकाङ्क्षिणः ॥ इति ।
भ्क्षान्नं प्रशंसति यमः ।
यश् चरेत् सर्ववर्णेषु भैक्षम् अभ्यवहारतः ।
न स किंचिद् उपाश्नियाद् आपो भैक्षम् इति स्थितिः ॥
[१८९] अब्बिन्दुं यः कुशाग्रेण मासि मासि त्रयं पिबेत् ।
न्यायतो यस् तु भिक्षाशी पूर्वोक्तात् तु विशिष्यते ॥
तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् ।
पिबेत् द्वादश वर्षाणि न तद् भैक्षसमं भवेत् ॥
शाकभक्षाः पयोभक्षा ये ऽन्ये यावकभक्षकाः ।
सर्वे भैक्षभुजस् तस्य कलां नार्हन्ति षोडशीम् ॥
न भैक्षं परपाकान्नं न च भैक्षं प्रतिग्रहः ।
सोमपानसमं भैक्षं तस्माद् भैक्षेण वर्तयेत् ॥ इति ।
अत्र सर्ववर्णेष्व् इत्य् आपद्विषयम् । अत एव बौधायनः ।
ब्राह्मणक्षत्रियविशां मेध्यानाम् अन्नम् आहरेत् ।
असंभवे तु पूर्वस्याप्य् आददीतोत्तरोत्तरम् ॥
सर्वेषाम् अप्य् अभावे तु भैक्षद्वयम् अनश्नता ।
भैक्षं शूद्राद् अपि ग्राह्यं रक्ष्याः प्राणा विजानता ॥ इति ।
न च भिक्षां लब्धुम् उल्कापाताद्युत्पातकथनं ग्रहदौस्थ्यादिकथनम् अन्यं वा कंचिद् उपाधिं संपादयेत् । तद् आह मनुः ।
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ इति । (म्ध् ६।५०)
वर्ज्यम् अन्नम् आह अत्रिः ।
हितं मितं सदाश्नीयाद् यत् सुखेनैव जीर्यति ।
धातुः प्रकुप्यते येन तद् अन्नं वर्जयेद् यतिः ॥
[१९०] उदक्या चोदितं चान्नं द्विजान्नं शूद्रचोदितम् ।
प्राण्यङ्गे वायसे कॢप्तं तद् अन्नं वर्जयेद् यतिः ॥
पित्रर्थं कल्पितं पूर्वम् अन्नं देवादिकारणात् ।
वर्जयेत् तादृशीं भिक्षां परबाधाकरीं तथा ॥ इति ।
परबाधाप्रसक्तिम् एवाभिप्रेत्य मनुर् आह ।
न तापसैर् ब्राह्मणैर् वा वयोभिर् अथ वा श्वभिः ।
आकीर्णं भिक्षुकैर् वान्यर् अगारम् उपसंव्रजेत् ॥ इति । (म्ध् ६।५१)
यस् तु भिक्षां दातुं शक्तो ऽपि नास्तिक्यान् न प्रयच्छति तद्गृहं वर्जयेद् इत्य् आह बौधायनः ।
भिक्षां न दद्युः पञ्चाहं सप्ताहं वा कदाचन ।
यस्मिन् गृहे जना मौर्ख्यात् त्यजेच् चाण्डालवेश्ववत् ॥ इति ।
अनिन्द्यगृहस्य वर्जने बाधम् आह स एव ।
साधुं चापतितं विप्रं यो यतिः परिवर्जयेत् ।
स तस्य सुकृतं दत्वा दुष्कृतं प्रतिपद्यते ॥ इति ।
यस् तु दरिद्रः श्रद्धालुतया स्वयम् उपोष्यापि भिक्षां प्रयच्छति तस्य भिक्षा न ग्राह्या । तद् उक्तं स्मृत्यन्तरे ।
आत्मानं पीडयित्वापि भिक्षां यः संप्रयच्छति ।
सा भिक्षा हिंसिता ज्ञेया नादद्यात् तादृशीं यतिः ॥
[१९१] इति । भिक्षार्थं बहुषु गृहेषु पर्यटितुम् अलसम् प्रत्य् आह बौधायनः ।
एकत्र लोभाद् यो भिक्षुः पात्रपूरणम् इच्छति ।
दाता स्वर्गम् अवाप्नोति भोक्ता भुञ्जीत किल्बिषम् ॥ इति ।
यतिपात्रं विविनक्ति मनुः ।
अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥
अलाबुं दारुपात्रं वा मृण्मयं वैदलं तथा ।
एतानि यतिपात्राणि मनुः स्वायंभुवो ऽब्रवीत् ॥ इति । (म्ध् ६।५३–५४)
यमो ऽपि ।
हिरण्मयानि पात्राणि कृष्णायसमयानि च ।
यतीनां तान्य् अपात्राणि वर्जयेत् तानि भिक्षुकः ॥ इति ।
बौधायनो ऽपि ।
स्वयम् आहृतपर्णेषु स्वयं शीर्णेषु वा पुनः ।
भुञ्जीत न वटाश्वत्थकरञ्जानां तु पर्णके ॥
कुम्भीतिन्दुकयोर् वापि कोविदारार्कयोस् तथा ।
आपद्य् अपि न कांस्ये तु मलाशी कांश्यभोजनः ॥
सौवर्णे राजते ताम्रमये वा त्रपुसीसयोः ॥ इति ।
भोजननियमम् आह स एव- “भैक्षचर्याद् उपावृत्य … हस्तौ पादौ च प्रक्षाल्य [१९२] आचम्यादित्यस्याग्रे निवेदयन् उद् उ त्यं चित्रम् इति । … ब्रहजज्ञानम् इति च । … उद् वयं तमसस् परीति च … जपित्वा । … भुञ्जीत” इति (ब्ध् २।१०।१८।७–१२) । नृसिंहपुराणे ऽपि ।
ततो निवृत्य तत्पात्रं संस्थाप्याचम्य संयमि ।
चतुरङ्गुलेन प्रक्षाल्य ग्रासमात्रं समाहितः ॥
सर्वव्यञ्जनसंयुक्तं पृथक् पात्रे निवेदयेत् ।
सूर्यादिदेवभूतेभ्यो दत्वान्नं प्रोक्ष्य वारिणा ॥
भुञ्जीत पर्णपुटके पात्रे वा वाग्यतो यतिः ।
भुक्त्वा पात्रं यतिर् नित्यं क्षालयेन् मन्त्रपूर्वकम् ॥
न दुष्येत् तस्य तत् पात्रं यज्ञेषु चमसा इव ।
अथाचम्य निरुद्धासुर् उपतिष्ठेत भास्करम् ॥
जपध्यानविशेषेण दिनशेषं नयेद् बुधः ।
कृतसंध्यस् ततो रात्रिं नयेद् देवगृहादिषु ॥
[१९३] हृत्पुण्दरीकनिलये ध्यात्वात्मानम् अकल्मषम् ।
यतिर् धर्मरतः शान्तः सर्वभूतसमो वशी ॥
प्राप्नोति परमं स्थानं यत् प्राप्य न निवर्तते ॥ इति । (नृपु ६०।१३–२०)
कूर्मपुराणे ऽपि ।
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखो ऽत्वरः ।
हुत्वा प्राणाहुतीः पञ्च ग्रासान् अष्टौ समाहितः ॥
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ।
प्राग्रात्रे ऽप्रररात्रे च मध्यरात्रे तथैव च ॥
संध्यास्व् अह्नि विशेषेण चिन्तयेन् नित्यम् ईश्वरम् ॥ इति । (कूपु १।२।२२।७–१०)
अथान्ये ऽपि यतिधर्माः । तत्राह अत्रिः ।
अतः परं प्रवक्ष्यामि आचारो यो यतेः स्मृतः ।
अभ्युत्थानप्रियालापैर् गुरुवत् प्रतिपूजनम् ॥
यतीनां व्रतवृद्धानां स्वधर्मम् अनुवर्तिनाम् ।
विष्णुरूपेण वै कुर्यान् नमस्कारं विधानतः ॥ इति ।
मनुर् अपि ।
कृत्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥
[१९४] कपालं वृक्षमूलानि कुचेलम् असहायता ।
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालम् एव प्रतीक्षेत निदेशं भृतको यथा ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥
अतिवादांस् तितिक्षेत नावमन्येत कथंचन ।
न चेकं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥
क्रुध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥
अध्यात्मरतिर् आसीनो निरपक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थी विचरेद् इह ॥
संरक्षणार्थं जन्तूनां रात्राव् अहनि संध्ययोः ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ (म्ध् ६।४४–६८)
[१९५] इति । दक्षो ऽपि ।
नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कथंचन ।
एतैः सर्वैः सुनिष्पन्नो यतिर् भवति नेतरः ॥ इति । (दस्म् ७।३३)
बृहस्पतिर् अपि ।
न किंचिद् भेषजाद् अन्यद् अन्यद् वा दन्तधावनात् ।
विना भोजनकालं तु भक्षयेद् आत्मवान् यतिः ॥
नैवाददीत पाथेयं यतिः किंचिद् अनापदि ।
पक्वम् आपत्सु गृह्णीयाद् यावद् अह्नोपभुज्यते ॥
न तीर्थवासी नित्यं स्यान् नोपवासपरो यतिः ।
न चाध्ययनशीलः स्यान् न व्याख्यानपरो भवेत् ॥ इति ।
नाध्येतव्यम् इत्य् एतत् कर्मकाण्डविषयम्, अन्यथा “उपनिषदम् आवर्तयेत्” (आशुप् २) इति श्रुतिर् बाध्येत । न श्रोतव्यम् इत्य् एतद् ब्रह्ममीमांसाव्यतिरिक्तविषयम्, “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति तन्मीमांसाया विहितत्वात् । उपपन्नश् च तीर्थोपवासाध्ययनव्याख्यान-तात्पर्यनिषेधो निवृत्तिधर्मप्रधानत्वात् कैवल्याश्रमस्य । यतः स एवाह ।
[१९६] यस्मिन् वाचः प्रविष्टाः स्युः कूपे प्रास्ताः शिला इव ।
न वक्तारं पुनर् यान्ति स कैवल्याश्रमे वसेत् ॥
यस्मिन् कामाः प्रविशन्ति विषयेभ्योपसंहृताः ।
विषयान् न पुनर् यान्ति स कैवल्याश्रमे वसेत् ॥
यस्मिन् क्रोधः शमं याति विफलः सम्यग् उत्थितः ।
आकाशे ऽसिर् यथा क्षिप्तः स कैवल्याश्रमे वसेत् ॥
यस्मिन् क्षान्तिः शमः शौचं सत्यं संतोष आर्जवम् ।
आकिंचन्यम् अदम्भश् च स कैवल्याश्रमे वसेत् ॥
वृथा प्रलापी यो न स्यान् न लोकाराधने रतः ।
नान्यविद्याभियुक्तश् च स कैवल्याश्रमे वसेत् ॥
अतीतान् न स्मरेद् भोगांस् तथैवानागतान् अपि ।
प्राप्तांश् च नाभिनन्देत स कैवल्याश्रमे वसेत् ॥
अन्धवन् मूकवत् पङ्गुबधिरक्लीबवच् च यः ।
आस्ते व्रजति यो नित्यं स कैवल्याश्रमे वसेत् ॥ इति ।
उक्तधर्मोपेतं यतिं प्रशंसति दक्षः ।
संचितं यद् गृहस्थस्य पापम् आमरणान्तिकम् ।
निर्दहिष्यति तत् सर्वम् एकरात्रोषितो यतिः ॥
संन्यस्यन्तं द्विजं दृष्ट्वा स्थानाच् चलति भास्करः ।
एष मे मण्डलं भित्वा परं स्थानं प्रयास्यति ॥ इति । (दस्म् ७।४५–४६)
तद् एवं यतिधर्मा निरूपिताः
उक्तानां ब्रह्मचर्यादीनां संन्यासान्तानां चतुर्णाम् आश्रमाणां प्रत्येकम् अवान्तरभेदाश् चतुर्विधाः । तद् उक्तं महाभारते ।
[१९७] ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽथ भिक्षुकः ।
चत्वार आश्रमाः प्रोक्ता एकैकस्य चतुर्विधाः ॥ इति
तत्र चातुर्विध्यं कात्यायनस्मृतिर् व्याचचक्षे-
ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाश् चत्वार आश्रमाः षोडशभेदा भवन्ति । तत्र ब्रह्मचारिणश् चतुर्विधा भवन्ति । गायत्रो ब्राह्मः प्राजापत्यो बृहन्न् इति । उपननय्नाद् ऊर्ध्वं त्रिरात्रम् अक्षारलवणाशी गायत्रीम् अधीते स गायत्रः । अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरेत् प्रतिवेदं द्वादश द्वादश वा यावद्ग्रहणान्तं वा वेदस्य स ब्राह्मः । स्वदारनिरतो ऋतुकालगामी सदा परदारवर्जी स प्राजापत्यः । अथ वा चतुर्विंशतिवर्षाणि गुरुकुलवासी ब्राह्मः । अष्टाचत्वारिंशद्वर्षवासी च प्राजापत्यः । [१९७] आ प्रायणाद् गुरोर् अपरित्यागी स नैष्ठिको बृहन्न् इति । [=आश्रुप् १]
गृहस्था अपि चतुर्विधा भवन्ति । वार्ताकवृत्तयः शालीनवृत्तयो यायावरा घोरसंन्यासिकाश् चेत् । तत्र वार्ताकवृत्तयः कृषिगोरक्षवाणिज्यम् अगर्हितम् उपयुञ्जानाः शतसंवत्सराभिः क्रियाभिर् यजन्त आत्मानं प्रार्थयन्ते । शालीनवृत्तयो यजन्तो न याजयन्तो ऽधीयाना नाध्यापयन्तो ददतो न प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर् यजन्त आत्मानं प्रार्थयन्ते । यायावरा यजन्तो याजनतो ऽधीयाना अध्यापयन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर् यजन्त आत्मानं प्रार्थयन्ते । घोरसंन्यासिका उद्भूतपरिपूताभिर् अद्भिः कार्यं कुर्वन्तः प्रतिदिवसम् आहृतोञ्छवृत्तिम् उपयुञ्जानाः शतसंवत्सराभिः क्रियाभिर् यजन्त आत्मानं प्रार्थयन्ते ॥ [आश्रुप् २]
वानप्रस्था अपि चतुर्विधा भवन्ति । वैखानसा औदुम्बरा वालखिल्याः फेनपाश् चेति । तत्र वैखानसा अकृष्टपच्योषधिवनस्पतिभिर् ग्रामबहिष्कृताभिर् अग्निपरिचरणं कृत्वा [१९९] पञ्चमहायज्ञक्रिया निर्वर्तयन्त आत्मानं प्रार्थयन्ते । औदुम्बराः प्रातर् उत्थाय यां दिशम् अभिप्रेक्षन्ते तदाहृतोदुम्बरबदरनीवारश्यामाकैर् अग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रिया निर्वर्तयन्त आत्मानं प्रार्थयन्ते । वालखिल्या जटाधराश् चीरचर्मवल्कलपरिवृताः कार्तिक्यां पौर्णमास्यां पुष्पफलम् उत्सृजन्तः शेषान् अष्टौ मासान् वृत्त्युपार्जनं कृत्वाग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रिया निर्वर्तयन्त आत्मानं प्रार्थयन्ते । फेनपा उन्मत्तकाः श्रीर्णपर्णफलभोजिनो यत्र तत्र वा वसन्तो ऽग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रिया निर्वर्तयन्त आत्मानं प्रार्थयन्ते । (आश्रुप् ३)
परिव्राजका अपि चतुर्विधा भवन्ति । कुटीचका बहूदका हंसाः परमहंसाश् चेति । [२००] कुटीचकाः स्वपुत्रगृहेषु भैक्षचर्यं चरन्त आत्मानं प्रार्थयन्ते । बहूदकास् त्रिदण्डकमण्डलुशिक्यपद्मजलपवितर्-पादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारिणः साधुवृत्तेषु ब्राह्मणकुलेषु भैक्षवर्यं चरन्त आत्मानं प्रार्थयन्ते । हंसा एकदण्डधराः शिखावर्जिता यज्ञोपवीतधारिणः शिक्यकमण्डलुहस्ता ग्रामैकरात्रवासिनो नगरे तीर्थेषु पञ्चरात्रं वसन्त एकरात्रद्विरात्रकृच्छ्रचान्द्रायणादि चरन्त आत्मानं प्रार्थयन्ते । परमहंसा न दण्डधरा मुण्डाः कन्थाकौपीनवाससो ऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवद् आचरन्तस् त्रिदण्डकमण्डलुशिक्यपद्म-जलपवित्रपादुकासनशिखायज्ञोप्वीतत्यागिनः [२०१] शून्यागारदेवगृहवासिनो न तेषां धर्मो नाधर्मो न सत्यं नापि चानृतं सर्वसहाः सर्वसमाः समलोक्ष्टाश्मकाञ्चना यथोपपन्नचातुर्वर्ण्ये भैक्षचर्यं चरन्त आत्मानं मोक्षयन्ते । (आश्रुप् ४) इति ।
कात्यायनो ऽपि ।
तेषाम् उपशमो धर्मो नियमो वनवासिनाम् ।
दानम् एकं गृहस्थानां शुश्रूषा ब्रह्मचारिणाम् ॥ इति ।
युक्तं च परिव्राजकाणाम् आत्ममोक्षणम् । तत्त्वज्ञानपर्यवसायित्वात् पारिव्रज्यस्य । एतद् एवाभिप्रेत्य तन्निर्वचनं स्मृत्यन्तरे दर्शितम् ।
परिबोधात् परिच्छेदात् परिपूर्णावलोकनात् ।
परिपूर्णफलत्वाच् च परिव्राजक उच्यते ॥
परितो व्रजते नित्यं परं वा व्रजते पुनः ।
हित्वा चैवापरं जन्म परिव्राजक उच्यते ॥ इति ।
तद् एवम् अध्यायादौ मूलवचने “चातुर्वर्ण्याश्रमागतम्” इत्याश्रमशब्देन बुद्धिस्था आश्रमचतुष्टयधर्माः परिसमापिता इति ।
द्वितीये त्व् अध्याये स्फुटम् अभिहितो जीवनकृतेर्
उपायः कृष्यादिः पुनर् अथ समस्ताश्रमगताः । [२०२]
गरीयांसो धर्माः किम् अपि विवृतास् त्व् आश्रमपदाः
तम् एवं व्याकार्षीन् महितधिषणो माधवविभुः ॥
इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्ग-प्रवर्त्तिकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराश्रस्मृतिव्याख्यायां माधवीयायां द्वितीयो ऽध्यायः ॥ १ ॥