०० टिकाकारोपक्रमणिका

टीकाकारोपक्रमणिका

[१] वागीशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे ।
यं नत्वा कृतकृत्याः स्युस् तं नमामि गजाननम् ॥ १ ॥
सो ऽहं प्राप्य विवेकतीर्थपदवीम् आम्नायतीर्थे परम्
मज्जन् सज्जनतीर्थसङ्गनिपुणः सद्वृत्ततीर्थं श्रयन् ।
लब्धाम् आकलयन् प्रभावलहरीं श्रीभारतीतीर्थतो
विद्यातीर्थम् उपाश्रयन् हृदि भजे श्रीकण्ठम् अव्याहतम् ॥ २ ॥
[२] सत्यैकव्रतपालको द्विगुणधीस् त्र्यर्थी चतुर्वेदिता
पञ्चस्कन्धकृती षडन्वयदृढः सप्ताङ्गसर्वंसहः ।
अष्टव्यक्तिकलाधरो नवनिधिः पुष्यद्दशप्रत्ययः
स्मार्तोच्छ्रायधुरन्धरो विजयते श्रीबुक्कणक्ष्मापतिः ॥ ३ ॥
[३] इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर्
दौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर् गौतमिः ।
प्रत्यग्दृष्टिर् अरुन्धतीसहचरो रामस्य पुण्यात्मनो
यद्वत् तस्य विभोर् अभूत् कुलगुरुर् मन्त्री तथा माधवः ॥ ४ ॥
[४] प्रज्ञामूलमही विवेकसलिलैः सिक्ता बलोपघ्निका
मन्त्रैः पल्लविता विशालविटपा सन्ध्यादिभिः षड्गुणैः ।
शक्त्या कोरकिता यज्ञः सुरभिता सिद्ध्या समुद्यत्फला
संप्राप्ता भुवि भाति नीतिलतिका सर्वोत्तरं माधवम् ॥ ५ ॥
श्रीमती जननी यस्य सुकीर्तिर् मायणः पिता ।
सायणो भोगनाथश् च मनोबुद्धिसहोदरौ ॥ ६ ॥
यस्य बौधायनं सूत्रं शाखा यस्य च याजुषी ।
भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ ७ ॥
स माधवः सकलपुराणसंहिताप्रवर्तकः स्मृतिसुषमा पराशरः ।
[५] पराशरस्मृतिजगदीहिताप्तये पराशरस्मृतिविवृतौ प्रवर्तते ॥ ८ ॥
पराशरस्मृतिः पूर्वैर् न व्याख्याता निबन्धृभिः ।
मयातो माधवार्येण तद्व्याख्यायां प्रयत्यते ॥ ९ ॥

ननु नेयं स्मृतिर् व्याख्यानम् अर्हति, तत्प्रामाण्यस्य दुर्निरूप्यत्वात् । यत् तु वेदप्रामान्यकारणं जैमिनिना सूत्रितम्- “तत् प्रमाणं बादरायणस्यान्यानपेक्षत्वात्” (प्म्स् १।१।५) इति, न तत् पौरुषेयेषु मूलप्रमाणसापेक्षेषु ग्रन्थेषु [६] योजयितुं शक्यते । तर्ह्य् अस्तु मूलप्रमाणम् उपजीव्य प्रामाण्यम् ।

तन् न, मूलस्य दुर्भणत्वात् । न तावत् प्रत्यक्षं मूलम्, तस्यातीन्द्रियत्वात् । नाप्य् अनुमानम्, तस्य प्रत्यक्षसापेक्षत्वात् । नापि पुरुषान्तरवाक्यम्, विप्रलम्भकस्य पुंसो यथादृष्टार्थवादित्वाभावात्, अविप्रलम्भकरस्यापि संशयविपर्ययसंभवात् । नापि चोदना, तस्या अनुपलब्धेः । न खलु स्मर्यमाणानां शौचाद्याचाराणां [७] मूलभूतां कांचिच् चोदनां प्रत्यक्षत उपलभामहे । नप्य् अनुमातुं शक्यते, शाक्यादिप्रणीतचैत्यवन्दनादिष्व् अतिप्रसङ्गात् ।

अथोच्येत – मन्वादिस्मृतीनां शाक्यादिस्मृतीनां चास्ति महद् वैषम्यम्, प्रत्यक्षवेदेनैव साक्षान् मन्वादिप्रामाण्याङ्गीकारात् । “यद् वै किं च मनुर् अवदत् तद् भैषजम्” (त्स् २।२।६।२) इति ह्य् आम्नायते । न त्व् एवं शाक्यादिस्मृत्यनुग्राहकं किंचिद् [८] वैदिकं वचो ऽस्ति । अतो नोक्तातिप्रसङ्गः इति ।

तन् न, “यद् वै किं च” इत्य् अस्यार्थवादत्वेन स्वार्थे तात्पर्याभावात्, “मानवी ऋचौ धाय्ये कुर्यात्” (त्स् २।२।६।२) इत् विधाय तद्विधिस् तावकत्वेन “यद् वै किं च” इत्यादेः पठितत्वात् । तस्य च विधेर् अयम् अर्थः – इष्टिविकृतिरूपे सोमारौद्रे चरावतिदेशतः प्राप्तासु सामिधेनीषु मध्ये प्रक्षेप्तव्यौ धाय्यासंज्ञकौ यौ द्वौ मन्त्रौ तौ मानवौ कर्तव्यौ इति । तत्र मानवत्वम् उक्तेनार्थवादेन शस्यते । अतो न स्मृतिप्रामाण्यं वेदेनोक्तम् – इति शाक्यादिस्मृतिवद् अप्रमाणभूता एव मन्वदिस्मृतयः । तथा चोक्तम् –

प्रायेनानृतवादित्वात् पुंसां भ्रान्त्यादिसंभवात् ।
चोदनानुपलब्धेश् च श्रद्धामात्रात् प्रमाणता ॥ इति ।

अस्तु वा कथंचित् मनुस्मृतेः प्रामाण्यं तथापि प्रकृतायाः पराशरस्मृतेः किम् आयातम् । न हि मनोर् इव [९] पराशरस्य महिमानं क्वचिद् वेदः प्रख्यापयति । तस्मात् तदीयस्मृतेः प्रामाण्यं दुर्निरूपम् इति ।

अत्रोच्यते । प्रामाण्यस्य स्वतस्त्वात् अप्रामाण्ये कारणाभावाच् च स्मृतयः प्रमाणम् । यत् तु अप्रामाण्यसाधकम् अनृतवादित्वादिहेतुत्रयम् उपन्यस्तम्, तद् असिद्धम् । आजन्मसिद्धेषु मनु-पराशरादिषु अनृतवदनभ्रान्त्योर् अत्यन्तानाशङ्कितत्वेन हेतोः स्वरूपसिद्धेः । न च आजन्मसिद्धाव् एव विवदितव्यम् । पराशरादिसद्भावावबोधकानाम् एव मन्त्रार्थवादेतिहसपुराणानां तदीयसिद्धिबोधकत्वात् । मन्त्राद्यप्रामाण्ये च पराशराद्यसद्भावेनाश्रयासिद्धिः केन वार्येत । मानान्तराविरुद्धानाम् अननुवादिनां मन्त्रादीनां स्वर्थे प्रामाण्यम् उत्तरमीमांसायां देवताधिकरणे [१०] (उम्स् १।३। अधि। ९) व्यवस्थापितम् । अर्थवादाधिकरणे तु (प्म्स् १।२। अधि। १) स्वार्थप्रामाण्यनिराकरणं विरुद्धानुवदयोः सावकाशम् । अतः “यद् वै किं च” इत्य् अर्थवादस्य विधिस् तावकस्य स्वार्थे ऽपि तात्पर्यम् अस्ति – इति न शाक्यादिप्रतिबन्दी युक्ता । एतद् एवाभिप्रेत्य चतुर्विंशतिमते शाक्यादिवाक्यानाम् अनादरणीयत्वम् उक्तम् ।

अर्हच्चार्वाकवाक्यानि बौद्धादिपठितानि तु ।
विप्रलम्भकवाक्यानि तानि सर्वाणि वर्जयेत् ॥ इति ।

न च पराशरमहिम्नो ऽश्रौतत्वम्, “स होवाच व्यासः पाराशर्यः” (त्स् १।१।३।३७) इति श्रुतौ पराशरपुत्रत्वम् उपजीव्य व्यासस्य स्तुतत्वात् । यदा सर्वसंप्रतिपन्नमहिम्नो वेदव्यासस्यापि स्तुतये पराशरपुत्रत्वम् उपजीव्यते तदा किम् उ वक्तव्यम् अचिन्त्यमहिमा पराशर इति । किं च वाजसनेयिशाखायां वंशब्राह्मणे वेदसंप्रदायप्रवर्तकगुरुशिष्यपरम्परायां पराशरस्य पुत्रपौत्रौ श्रूयेते- “घृतकौशिकः पाराशर्यायनात्, पाराशर्यायणः पाराशर्यात्, पाराशर्यो जातूकर्ण्यात्” [११] इति । तस्मात् पराशरो ऽपि मनुसमान एव ।

एष एव न्यायो वसिष्ठ-अत्रि-याज्ञवल्क्यादिषु योजनीयः, तत्तद्विषयश्रुतीनाम् उपलम्भात् । “ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन् । तं वसिष्ठः प्रत्यक्षम् अपश्यत्” (त्स् ३।५।२।५), “अत्रिर् अददाद् और्वाय प्रजां पुत्रकामाय” (त्स् ७।१।८।१), “अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः” इत्याद्याः श्रुतयः । न चैवं सति मन्वादिस्मृतौ कुतो ऽनादरः इति शङ्कनीयम्, मन्वादिस्मृतेर् मेधातिथ्यादिभिर् व्याख्यातत्वात् ।

या च मूलभूतचोदनानुपलब्धिर् उपन्यस्ता, साप्य् असिद्धा । “पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति सन्तिष्ठन्ते – देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः” (ता २।१०।७) इत्यादीनां स्मार्तधर्ममूलभूतचोदनानाम् उपलम्भात् । ‘सतति’ [१२] सततं नित्यम् इत्य् अर्थः । यत्रापि शौचदौ चोदना नोपलभ्यते तत्रापि सा संभाव्यते । तथा चोक्तं भट्टाचार्यैः ।

वैदिकैः स्मर्यमाणत्वात् तत्परिग्रहदार्ढ्यतः ।
संभाव्यवेदमूलत्वात् स्मृतीनां मानतोचिता ॥ इति ।

मनुनाप्य् एतद् एवोक्तम् ।

श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतिम् ।
तस्मात् प्रमाणम् उभयं प्रमाणैः प्रमितं भुवि ॥
[१३] यो ऽवमन्येत ते तूभे हेतुशास्त्राश्रयान् नरः ।
स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ इति । (म्ध् २।११)

आनुशासनिके ऽपि ।

धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः ।
द्वितीयं धर्मशास्त्रं तु तृतीयं लोकसंग्रहः ॥ इति ।

तस्मात् व्याख्यातुं योग्या पराशरस्मृतिर् इति सिद्धम् ।

[१४] पराशरस्मृताव् अस्यां ग्रन्थकॢप्तिर् विविच्यते ।
द्वे काण्डे द्वादशाध्यायाः श्लोका अष्टोनषट्शतम् ॥
आचार्स्यादिमः काण्डः प्रायश्चित्तस्य चान्तिमः ।
इष्टप्राप्तिर् अनिष्टस्य निवृत्तिश् चानयोः क्रमात् ॥
“एते सर्वे पुण्यलोका भवन्तीति” श्रुतिर् जगौ ।
विहिताद् आश्रमाचाराद् इष्टाप्तिं पारलौकिकीम् ॥
प्रसक्तो नरको ऽनिष्टो निषिद्धाचरेणेन यः ।
तन्निवृत्तिः स्फुटा शास्त्रे प्रायश्चित्ताभिधायिनी ॥
परलोकप्रधानस्य धर्मस्यैषा द्वयी गतिः ।
प्रायश्चित्तं तथाचारः श्रौते धर्मे तथेक्षणात् ॥
श्रौतो धर्मो ऽग्निहोत्रादिर् आचारस् तदनुष्ठितिः ।
अयथाविध्यनुष्ठाने प्रायश्चित्तं श्रुतौ श्रुतम् ॥
कलसूत्रकृतः श्रौते प्रायश्चित्तम् अनुष्थितम् ।
[१५] असूत्रयन्न् उभे एव व्यवहारं तु नाब्रुवन् ॥
तद्वद् एवायम् आचार्यः परलोकप्रधानकम् ।
स्मार्तं धर्मं विवक्षुः सन् काण्डद्वयम् अवोचत ॥
ननु – चोदनया गम्ये व्यवहारे ऽपि धर्मता – ।
अस्तीति चेद् अस्तु, सा तु लोके ऽस्मिन्न् उपयुज्यते ॥
कारीर्यादिश्रौतधर्मो दृष्टैकफलको यथा ।
लाभ-पूजा-ख्यातिमात्रफला व्यवहृतिस् तथा ॥
जेतुर् लाभादिकं तद्वत् पराजेतुश् च दण्डनम् ।
ताव् एव स्वर्ग-नरकौ विहित-प्रतिषिद्धजौ ॥
[१६] ननु – राज्ञश् च सभ्यानां साक्षिणां चान्यथाकृतौ ।
प्रत्यवायात् व्यवहृतिः परलोकप्रयोजना ॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चापि गच्छति ॥
[अ। ८, श्लो। १२८]
सभा च न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥
[अ। ८, श्लो। १३]
साक्ष्ये ऽनृतं वदन् पाशैर् बध्यते वारुणैर् भृशम् ।
विवशः शतम् आजातीः तस्मात् साक्षी वदेद् ऋतम् ॥
[अ। ८, श्लो। ८२]
राजादेः प्रत्यवायो ऽस्तु व्यवहारे क्रियागतम् ।
व्यवहारो न राजादेर् अर्थिप्रत्यर्थिनोस् तु सः ॥
प्रत्यर्थिनो ऽर्थिनो वात्र प्रत्यवायो न हि स्मृतः ।
पराजयनिमित्तेन प्रायश्चित्तं च न स्मृतम् ॥
[१७] ऋणाद्यैर् नरकोक्तिर् या साप्य् आचारनिबन्धना ।
अस्तु वा नरकः शास्त्रविरुद्धव्यवहारिणः ॥
परलोकप्रधानत्वम् एवास्माभिर् निवार्यते ।
एतल्लोकप्रधानो यः परलोकोपसर्जनः ॥
स धर्मो व्यवहारः स्याद् आचारस् तु विपर्यये ।
प्राधान्ये ऽप्य् अस्य लोकस्य स्याद् एवाम्नायमूलता ॥
गान्धर्वाध्युपवेदेषु तादृशेषु तदीक्षणात् ।
जग्राह पाठ्यम् ऋग्वेदात् सामभ्यो गीतिम् एव च ॥
[१८] यजुर्वेदाद् अभिनयान् रसान् आथर्वणाद् अपि ।
किं बहूक्त्यायम् आचार्यः परलोकैकदृष्टिमान् ॥
व्यवहारं तु नावोचत् किं तु सूचितवान् अमुम् ।
राजधर्मप्रसङ्गेन क्षितिं धर्मेण पालयन् ॥
इति ब्रुवन् राजदृश्यं व्यवहारम् असूचयन् ।
साक्षाद् इष्टाप्तिहेतुत्वाद् आचारः पूर्वम् ईर्यते ॥
आचारस्यान्यथात्वे तु प्रायश्चित्तगवेषणम् ।
इहाचारे त्रयो ऽध्यायाः प्रायश्चित्ते नवेरिताः ॥
आचारतश् चतुर्वर्णधर्मौ साधारणेतरौ ।
शिष्टाचारान्वितस् तत्र धर्मः साधारणः स्मृतः ॥
[१९] षट्कर्मक्षितिरक्षाद्याः वर्णासाधारणाः स्मृताः ।
आचारे प्रथमाध्याये त एते ऽर्थाः प्रकीर्तिताः ॥
कृष्यादिजीवनोपाया द्वितीये ऽध्याय ईरिताः ।
चतुराश्रमधर्माश् च सूचिता आश्रमोक्तितः ॥
उक्तौ तृतीय आशौचविस्तारश्राद्धसंग्रहौ ।
अध्यायत्रयगा अर्थाः प्रोक्ता आचारकाण्डगाः ॥
तुर्ये प्रकीर्णपापस्य प्रायश्चित्तं प्रपञ्चितम् ।
प्रसङ्गात् पुत्रभेदादि प्रोक्तं च परिवेदनम् ॥
[२०] प्रकीर्णशेषः संस्कारः आहिताग्नेश् च पञ्चमे ।
मलावहे च संकीर्णे तथा चैवोपपातके ॥
प्रायश्चित्तं षष्ठ उक्तं शुद्धिश् चान्ने रसे ऽपि च ।
अवशिष्टद्रव्यशुद्धिः सप्तमआध्याय ईरिता ॥
प्रायश्चित्तं गोवधे च सामान्येनाष्टमे स्मृतम् ।
रोधनादिविशेषेण नवमे तद् उदीरितम् ॥
अवगम्यागमने प्रायश्चित्तं दशम ईरितम् ।
अभोज्यभोजनादौ तद् एकादश उदीरितम् ॥ द्वादशः प्रतिशेषः स्यात् काण्डयोर् उभयोर् तयोः ।
अत्रान्येषाम् अनुक्तानाम् उपलक्षणम् ईक्ष्यताम् ॥
[२१] अनुपातकमुख्येषु प्रायश्चित्तं क्वचित् क्वचित् ।
नोक्तं तथा रहस्यं च प्रायश्चित्तं च वर्णितम् ॥
सौम्यवर्णादिकृच्छ्राणि नोदितान्य् अत्र कानिचित् ।
नोक्तः कर्मविपाकश् च तत् सर्वम् उपलक्षितम् ॥
इत्थं नवभिर् अध्यायैः प्रायश्चित्तं प्रपञ्चितम् ।
कलिं प्रति प्रवृत्तत्वात् प्रायश्चित्तप्रपञ्चनम् ॥
कलौ हि पापबाहुल्यं दृश्यते स्मर्यते ऽपि च ।
नराः प्रायो ऽल्पसामर्थ्यास् तेषाम् अनुजिघृक्षया ॥
समकोचयद् आचारं प्रायश्चित्तं व्रतानि च ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥
[पर्। स्मृ। १।३३; ११।५१]
[२२] इत्य् उक्तिम् आदाव् अन्ते च प्रायुक्तैषा कृपालुता ।
वेदैकदेशाध्ययनं कृष्या विप्रादिजीवनम् ॥
इत्यादिवचसाचारे सङ्कोचो भासते स्फुटम् ।
पाजापत्यं गोवधे स्यात् ब्रहघ्ने सेतुदर्शनम् ॥
इति मुख्यव्रत्वोक्तेः सङ्कोचो ऽत्रापि गम्यते ।
स्मृत्यन्त्रानुसारेण विषयस्य व्यवस्थितिः ॥
कल्पनीया इति चेत् ब्रूहि सर्वज्ञम् अन्यसाधकम् ।
यावत्यः स्मृतयस् तासां सर्वासाम् अनुसारतः ॥
साकल्यात् चेद् अस्मदादेस् तत्र शक्तिर् न विद्यते ।
स्वेन दृष्टास् तु यावत्यस् तासाम् इत्य् अप्य् अयुक्तिमत् ॥
[२३] क्वचित् कदाचिद् अन्यासां दर्शनाद् अव्यवस्थितेः ।
अल्पिकां मानिषीं बुद्धिः सा च न व्यवतिष्ठते ॥
अत एव निबन्धेषु दृश्यते नैकवाक्यता ।
हन्तैवं खण्डने शास्त्रं भवेद् दत्तजलाञ्जलि ॥
न खण्डये वारये तु पण्डितं मन्यतां तव ।
शृणु निर्णयम् अत्र त्वं स्वतःप्रामाण्यवादिनः ॥
प्रतीते ऽर्थे ऽखिलं प्रमाणं बाधया विना ।
न पराशरवाक्यस्य बाधः स्मृत्यन्तरे क्वचित् ॥
[२४] व्रतान्तरोपदेशश् च न बाधो ऽस्यानिवारणात् ।
प्रियङ्गु-कोद्रव-व्रीहि-गोधूमादीन्य् अनेकशः ॥
साधनानि यथैकस्यास् तृप्तेर् दृष्टान्य् अबाधया ।
यथा च स्वर्ग एकस्मिन् विश्वजिच् चाग्निहोत्रकम् ॥
अग्निष्टोमश् च दर्शाद्या हेतवो बहवः श्रुताः ।
यथा वा ब्रह्मलोकस्य ह्य् एकस्य प्रातिहेतवः ॥
उपास्तयो विकल्प्यन्ते शाण्डिल्य-दहरादयः ।
तथैवैकस्य पापस्य निवृत्तौ बहवः स्मृताः ॥
[२५] व्रतभेदा विकल्प्यन्तां श्रद्धाजाड्यं तु ते वृथा ।
ननु क्व पञ्चगव्यादिः कुत्र वा मरणान्तिकम् ॥
तयोः समविकल्पत्वं वदतस् ते ऽतिसाहसम् ।
क्व विश्वजित् क्वाग्निहोत्रं स्वर्गं साधयतोस् तयोः ॥
विकल्पं वदतस् ते वा कुतो नैवातिसाहसम् ।
कर्माधिक्यात् फलाधिक्यम् इति न्यायसमाश्रयात् ॥
[२६] साहसं परिहर्तव्य्म् इत्य् एतद् उभयोः समम् ।
न्यायाश्रये त्व् अस्मदुक्ता व्यवस्था द्विष्यते कुतः ॥
इति चेद् अव्यवस्थोक्ता त्वयातो द्वेष्मि ते वचः ।
देशभेदात् कालभेदात् पुंभेदाद् अन्यथान्यथा ॥
विपर्यस्यति शास्त्रार्थ इति पूर्वम् अवादिषम् ।
अतो ऽपास्यार्थवादांशं विधिवाक्येषु यद् यथा ॥
[२७] प्रतीतं तत् तथा ग्राह्यं बाधं वाचनिकं विना ।
स्मृतिव्याख्यातृभिः सर्वैर् वचनानां व्यवस्थितिम् ॥
ब्रुवाणैर् मन्दमतयो व्युत्पाद्यन्ते हि केवलम् ।
अन्यथाल्पस्य पापस्य कृते द्वादशवार्षिके ॥
न स्यान् निवृत्तिस् त्वत्प्रोक्ता व्यवस्था तादृशी यतः ।
अथाल्पं महता नश्येन् नाल्पेनान्यत् तदा वद ॥
इदम् अल्पं महच् चेदम् इति ते किं नियामकम् ।
अल्पायासमहायासौ यद्य् अल्पत्वमहत्त्वयोः ॥
[२८] हेतू, महाव्रतास् तर्हि भवेयुः कृषिकादयः ।
सिंहव्याघ्रादिमूत्रादौ प्रयासबहुलत्वतः ॥
पञ्चगव्यात् प्रशस्तत्वं व्रताङ्गत्वं च ते भवेत् ।
इतिकर्तव्यबाहुल्यं महत्त्वं चेत् तदाल्पता ॥
जलाङ्न्यादिप्रवेशस्य प्रसज्येत व्रतान्तरात् ।
तस्माच् छास्त्रेण् यस्योक्ता प्रशंसा तन् महाव्रतम् ॥
अस्तु वा चैव दुःखस्य बहुलत्वान् महाव्रतम् ।
यथाल्पनाशो महता महन्नाशस् तथाल्पतः ॥
[२९] किं न स्यात् विस्फुलिङ्गेन तृणराशिर् हि दह्यते ।
विस्फुलिङ्गो वर्धमानो दहत्य् एवं न तु व्रतम् ॥
वर्धते ऽतो महानाशो निःशेषो न भवेद् यति ।
तर्ह्य् एकदेशनाशो ऽस्तु तच्छेषस् तूपभुज्यताम् ॥
अमूर्त्तस्यापि पापस्य सन्ति भागा यथोचितम् ।
अन्यथैकेन पापेन दुःखं बहुविधं कुतः ॥
तथा महाव्रतस्यापि भागेनाल्पे विनाशिते ।
व्रतशेषविपाकेन स्मर्यते बहुले सुखम् ॥
[३०] अतो ऽल्पं वा महद् वापि व्रतं पापनिवर्तकम् ।
स्मर्तॄणाम् अखिलानां च वाक्यम् एवं समञ्जसम् ॥
न महाव्रतवैय्यर्थ्यं पापस्याशेषनाशने ।
अल्पनाशोर्ध्वभाविन्यां सुखाप्तौ चोपयोगतः ॥
एवं चैकस्य पापस्य व्रतेषूक्तेष्व् अयम् पुमान् ।
प्रवर्तयति विस्रम्भात् यस्मिन् कस्मिंश्चिद् इच्छया ॥
[३१] अन्यथा नास्य विस्रम्भो विषयस्य व्यवस्थितम् ।
अजानतो जानतो ऽपि वचनान्तरशङ्कया ॥
संभावितेषु सर्वेषु व्रतेषु महति व्रते ।
प्रवर्तमानः पुरुषः श्रेयः प्राप्नोत्य् असंशयम् ॥
कलौ पराशरोक्तानां व्रतानाम् एव मुख्यता ।
तैर् अल्पैर् अपि तत् पापं निःशेषं विनिवर्तते ॥
एतद् एव विवक्षित्वा प्रतिजज्ञे विशेषतः ।
पराशरेण् यत् प्रोक्तं प्रायश्चित्तम् इतीदृशम् ॥
मुन्यन्तरप्र्णीतानां स्वल्पानां महताम् अपि ।
व्रतानाम् उपयोगः स्यात् कलौ पूर्वोक्तनीतितः ॥
[३२] मुनिनैकेन यत् प्रोक्तं तद् अन्यो न निषेधति ।
प्रत्युतोदाहरेत् तस्मात् सर्वोक्तिः सर्वसंमता ॥
हन्तैवं सति मीमांसा निष्फला ते प्रसज्यते ।
शास्त्रान्तरप्रणीतानां गुणानाम् अप्य् असंहृतेः ॥
शृणु मीमांसकर्मन्य मुनिवाक्येषु किं बलात् ।
उत्पाद्यापि विरोधं तु पाण्डित्यं व्यज्यते त्वया ॥
व्रतान्तरोक्तिमात्रेण न विरोधः प्रसज्यते ।
समुच्चये विकल्पे वा का हानिस् तत्र ते भवेत् ॥
स्नानं दानं जपो होम इति नैमित्तिका यथा ।
उपरामे समुच्चेयास् तथा व्रतसमुच्चयः ॥
[३३] एकेन नाशिते पापे द्वितीयं चेन् निरर्थकम् ।
न तपोरूपतस् तस्य स्वर्गहेतुत्वसंभवात् ॥
चान्द्रायणादाव् अस्त्व् एवं तपस्त्वेन तदीक्षणात् ।
भिक्षाब्रह्मकपालादौ स्यात् कथं नष्टपाप्मनः ॥
एवं तर्हीदृशे स्थाने विकल्पो ऽस्तु निजेच्छया ।
न्यूनाधिकत्वसंदेहे दत्तम् एवोत्तरं पुरा ॥
[३४] सर्वथापि त्वया प्रोक्तां निर्मूलां बुद्धिकल्पिताम् ।
कामाकामादिभेदेन नाङ्गीकुर्मो व्यवस्थितिम् ॥
वचनेष्व् एव कामादिव्यवस्था लभ्यते यदि ।
सुखेनाभ्युपगच्छामो वाक्यैकशरणा वयम् ॥
कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा ।
इति न्यायः प्रसज्येत बुद्धिमात्रव्यवस्थितौ ॥
मीमांसकत्वम् एतत् स्याद् वाक्यानुसरणेन यत् ।
व्यवस्थापनम् अन्यत् तु पाण्डित्यख्यापनं परम् ॥
इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
[म्ध् ११।८९]
इत्य् अकामकृते पापे नाशो निःशेष उच्यते ॥
[३५] न तु कामकृते शुद्धेर् अकिंचित्करतोच्यते ।
स्मृत्यन्तरेषु तच्छुद्धेः सामान्येनाभिधानतः ॥
विशेषादर्शनं यावत् तावत् सामान्यदर्शनम् ।
मानम् एवान्यथा ते स्यात् सर्वज्ञत्वे ऽधिकारिता ॥
गुणोपसंहृतिश् चैवं यथादर्शनम् इष्यताम् ।
अदृष्टानुपसंहारेणाकिंचित्करतैव ते ॥
यद् यावत् दृश्यते वाक्यं शक्तिश् चात्रास्य यावती ।
[३६] तावत् कार्यं न तूपेक्षा युक्ता वैगुण्यशङ्कया ॥
प्रायश्चित्ते तथाचारे यानि स्मृत्यन्तराण्य् अहम् ।
दृष्टवांस् तान्य् उदाहृत्य संहरिष्ये गुणांस् ततः ॥
विषयस्य व्यवस्थां च मन्दव्युत्पत्तिसिद्धये ।
प्रवक्ष्यामि यथा पूर्वे निबन्धनकृतस् तथा ॥
यत् यस्मिन् विषये प्रोक्तं तत्र तस्य प्रशस्तता ।
विवक्षिता नेतरस्य निषेधो ऽत्र विवक्ष्यते ॥
तद्विवेकाय कुर्वे ऽहं व्याख्यां पाराशरस्मृतेः ॥

(इति टीकाकारोपक्रमणिका)