MUM

प्रथमोऽध्यायः
श्रीगणेशायनमः
तत्रादौ धर्मोपदेशं तल्लक्षणञ्चाह
अथातो हिमशैलाग्रे देवदारुवनालये
व्यासमेकाग्ग्रमासीनमपृच्छन्नृषयः पुरा १
मानुषाणां हितं धर्मं वर्तमाने कलौ युगे
शौचाचारं यथावच्च वदसत्यवती सुतः २
तच्छ्रुत्वर्षिवाक्यं तु सशिष्योऽङ्ग्यर्कसम्निभः
प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ३
न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्यहम्
अस्मत्पितैवप्रष्टव्येति व्यासः सुतोऽब्रवीत् ४
ततस्तर्षयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः
ऋषिं व्यासं पुरस्कृत्यगता बदरिकाश्रमम् ५
नाना पुष्पललाकीर्णं फलवृष्कैरलंकृतम्
नदी प्रस्रवणोपेतं पुण्यतीर्थोपशोभितं च ६
मृगपक्षिनिनादाढ्यं देवतायतनावृतम्
यक्षगन्धर्वसिद्धैश्च नृत्यगीतैरलंकृतम् ७
तस्मिन्नृषिसभा मध्ये शक्तिपुत्रं पराशरम्
सुखासीनं महातेजा मुनिमुख्यगणावृतम् ८
कृताञ्जलिपुटो भूत्वा व्यासस्त्वृषिभिः सह
प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत् ९
ततः संतुष्टहृदयः पराशरमहामुनिः
आहसुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः १०
कुशलं सम्यगित्युक्त्वा व्यासः पृच्छत्यनन्तरम्
यदि जानासि भक्तिं मे स्नेहाद्वा भक्तवत्सल ११
२७६
धर्मकथयमे तातानुग्राह्यो ह्यहं तव
श्रुता मे मानवा धर्मा वासिष्ठा काश्यपास्तथा १२
गर्गेया गौतमीयाश्च तथाञ्चोशनसास्मृताः
अत्रेर्विष्णोश्च संवर्तात्दक्षादङ्गिरसस्तथा १३
शातातपाच्च हारीताद्याज्ञवल्क्यात्तथैव च
आपस्तम्बकृता धर्मा शङ्खस्य लिखितस्य च १४
कात्यायनकृताश्चैव तथा प्राचेतसान्मुनेः
श्रुता ह्येते भवत्प्रोक्ताः श्रुत्यर्था मे न विस्मृताः १५
अस्मिन्मन्वन्तरे धर्माः कृतत्रेतादिके युगे
सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे १६
चातुर्वर्ण्यसमाचारं किंचित्साधारणं वद
चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः १७
ब्रूहि धर्मस्वरूपज्ञसूक्ष्मं स्थूलं च विस्तरात्
व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः १८
धर्मस्यनिर्णयं प्राहसूक्ष्मं स्थूलं च विस्तरात्
शृणु पुत्रप्रवक्ष्यामि शृण्वन्तु मुनयस्तथा १९
कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः
श्रुतिस्मृतिसदाचारनिर्णतारश्च सर्वदा २०
न कश्चिद्वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः
तथैवधर्मान्स्मरति मनुः कल्पान्तरेऽन्तरे २१
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे युगे
अन्ये कलियुगे नॄणां युगरूपानुसारतः २२
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते
द्वापरे यज्ञमेवाहुः दानमेवकलौ युगे २३
कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः
द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः २४

२७७

त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत्
द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे २५
कृते सम्भाषणादेवत्रेतायां स्पर्शनेन च
द्वापरे त्वन्नमादायकलौ पतति कर्मणा २६
कृते तात्कालिकः शापः त्रेतायां दशभिर्दिनैः
द्वापरे चैकमासेन कलौ संवत्सरेणतु २७
अभिगम्यकृते दानं त्रेतास्वाहूयदीयते
द्वापरे या च मानायसेवया दीयते कलौ २८
अभिगम्योत्तमं दानमाहूयैव तु मध्यमम्
अधमं या च मानायसेवादानं तु निष्फलम् २९
जितो धर्मो ह्यधर्मेणसत्यं चैवानृतेन च
जिताश्चोरैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ ३०
सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति
कुमार्यश्च प्रसूयन्तेऽस्मिन्कलियुगे सदा ३१
कृते त्वस्थि गताः प्राणास्त्रेतायां मांसमाश्रिताः
द्वापरे रुधिरं चैव कलौ त्वन्नादिषु स्थिताः ३२
युगे युगे च ये धर्मास्तत्रतत्रचये द्विजाः
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ३३
युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम्
पराशरेणचाप्युक्तं प्रायश्चित्तं विधीयते ३४
अहमद्यैवतत्सर्वमनुस्मृत्यब्रवीमि वः
चातुर्वर्ण्यसमाचारं शृण्वन्त्वृषिपुङ्गवाः ३५
पराशरमतं पुण्यं पवित्रं पापनाशनम्
चिन्तितं ब्राह्मणार्थायधर्मसंस्थापनाय च ३६
चतुर्णामपि वर्णानामाचारो धर्मपालकः
आचारभ्रष्टदेहानां भवेद्धर्मः परान्मुखः ३७
र्

२७८

षट्कर्माभिरतो नित्यं देवतातिथिपूजकः
हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति ३८
संध्या स्नानं जपो होमो देवतातिथिपूजनम्
आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ३९
इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डितैववा
सम्प्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंग्रमः ४०
दूराध्वोपगतं श्रान्तं वैश्वदेवोपस्थितम्
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ४१
नैकग्रामीणमतिथिं संगृह्णीत कदा च न
अनित्यमागतो यस्मात्तस्मादतिथिरुच्यते ४२
अतिथिं तत्रसम्प्राप्तं पूजयेत्स्वागतादिना
अर्घ्यासनप्रदानेन पादप्रक्षालनेन च ४३
श्रद्धया चान्न दानेन प्रियप्रश्नोत्तरेण च
गच्छन्तं चानुयानेन प्रीतिमुत्पादयेत्गृही ४४
अतिथिर्यस्यभग्नाशो गृहात्प्रतिनिवर्तते
पितरस्तस्यनाश्नन्ति दशवर्षाणि पञ्च च ४५
काष्ठभारसहस्रेणघृतकुम्भशतेन च
अतिथिर्यस्यभग्नाशस्तस्यहोमो निरर्थकः ४६
सुक्षेत्रे वापयेद्बीजं सुपात्रे निक्षिपेद्धनम्
सुक्षेत्रे च सुपात्रे च ह्युप्तं दत्तं न नश्यति ४७
न पृच्छेद्गोत्रचरणे न स्वध्यायं श्रुतं तथा
हृदये कल्पयेद्देवं सर्वदेवमयो हि सः ४८
अपूर्वः सुव्रती विप्रो ह्यपूर्वश्चातितिहिर्यथा
वेदाब्भ्यासरतो नित्यं तावपूर्वौ दिने दिने ४९
वैश्वदेवे तु सम्प्राप्ते भिक्षुके गृहमागते
उद्धृत्यवैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ५०

२७९

यतिश्च ब्रह्मचारी च पक्वान्न स्वामिनावुभौ
तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ५१
दद्याच्च भिक्षा त्रितयं परिव्राड्ब्रह्मचारिणाम्
इच्छया च ततो दद्याद्विभवे सत्यवारितम् ५२
यति हस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम्
तद्भैक्ष्यं मेरुणा तुल्यं तज्जलं सागरोपमम् ५३
यस्यछत्रं हयश्चैव कुञ्जरारोहमृद्धिमत्
ऐन्द्रं स्थानमुपासीततस्मात्तं न विचारयेत् ५४
वैश्वदेवकृतं पापं शक्तो भिक्षुर्व्यपोहितुम्
न हि भिक्षुकृतान्दोषान्वैश्वदेवो व्यपोहति ५५
अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः
सर्वे ते निष्फला ज्ञेयाः पतन्ति नरकेऽशुचौ ५६
वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च ५७
पापो वा यदि चण्डालो विप्रघ्नः पितृग्घातकः वैश्वदेवे तु सम्प्राप्तः सोक्अतिथिः स्वर्गसंक्रमः ५८
यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः वामपादे करं न्यस्य तद्वै रक्षांसि भुञ्जते ५९
अव्रता ह्यनधीयाना यत्रभैक्षचरा द्विजाः
तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ६०
क्षत्रियो हि प्रजा रक्षन्शस्त्रपाणिः प्रदण्डवान्
निर्जित्यपरसैन्यानि क्षितिं धर्मेणपालयेत् ६१
पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत्
माला कारेवारामे न यथाङ्गारकारकः ६२
लाभकर्मतथा रत्नं गवां च परिपालनम्
कृषिकर्म च वाणिज्यं वैश्यवृत्तिरुदाहृता ६३
र्

२८०

शूद्रस्यद्विजशुश्रूषा परमो धर्मोच्यते
अन्यथा कुरुते किंचित्तद्भवेत्तस्यनिष्फलम् ६४
लवणं मधुतैलं च दधितक्रं घृतं पयः
न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयम् ६५
विक्रीणन्मध्यमांसानि ह्यभक्षस्य च भक्षणम्
कुर्वन्न गम्यागमनं शूद्रः पतति तत्क्षणात् ६६
कपिलाक्षीरपानेन ब्राह्मणी गमनेन च
वेदाक्षरविचारेणशूद्रश्चाण्डालतां व्रजेत् ६७
इति पाराशरे धर्मशास्त्रे प्रथमोऽध्यायः
द्वितीयोऽध्यायः
गृहस्थाश्रमधर्मवर्णनम्
अतः परं गृहस्थस्य कर्माचारं कलौ युगे
धर्मं साधारणं शक्त्याचातुर्वर्ण्याश्रमागतम् १
तं प्रवक्ष्याम्यहं पूर्वं पराशरवचो यथा
षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत् २
क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत्
हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत् ३
स्थिराङ्गं बलीवर्दः तृप्तं सुनर्दं षण्ढवर्जितम्
वाहयेद्दिवसस्यार्धं पश्चात्स्नानं समाचरेत् ४
जप्यं देवार्चनं होमं स्वाध्यायं चैवमभ्यसेत्
एकद्वित्रिचतुर्विप्रान्भोजयेत्स्नातकान्द्विजः ५
स्वयं कृष्टे तथा क्षेत्रे धान्यैश्च स्वयमर्जितैः
निर्वपेत्पञ्चयज्ञांश्च क्रतु दीक्षां च कारयेत् ६
तिला रसा न विक्रेता विक्रेता धान्यतत्समाः
विप्रस्यैवं विधा वृत्तिस्तृणकाष्ठादि विक्रयः ७

२८१

ब्राह्मणश्चेत्कृषिं कुर्यात्तन्महादोषमाप्नुयात्
संवत्सरेणयत्पापं मत्स्यघाती समाप्नुयात् ८
अयोमुखेन काष्ठेन तदेकाहेन लाङ्गली
पाशकोमत्स्य घाती च व्याधः शाकुनिकस्तथा ९
अदाता कर्षकश्चैव सर्वे ते समभागिनः
वृक्षं छित्त्वा महीं भित्वा हत्वा च कृमिकीटकान् १०
कर्षकः खलयज्ञेन सर्वपापैः प्रमुच्यते
यो न दद्याद्द्विजातिभ्यो राशिमूलमुपागतः ११
स च उरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत्
राज्ञे दत्त्वा तु षड्भागं देवानां चैकविंशकम् १२
विप्राणां त्रिंशकं भागं सर्वपापैः प्रमुच्यते
क्षत्रियोऽपि कृषिं कृत्वा देवान्विप्रांश्च पूजयेत् १३
वैश्यः शूद्रस्तथा कुर्यात्कृषिवाणिज्यशिल्पकम्
विकर्मकुर्वते शूद्रा द्विजशुश्रूषयोज्झिताः १४
भवन्त्यल्पायुषस्ते वै निरयं यान्त्यसंशयम्
चतुर्णामपि वर्णानामेषधर्मः सनातनः १५
इति पाराशरे धर्मशास्त्रे द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अशौचव्यवस्थावर्णनम्
अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा
दिनत्रयेण शुध्यन्ति ब्राह्मणाः प्रेतसूतके १
क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः
शूद्रः शुध्यति मासेन पराशरवचो यथा २
उपासने तु विप्राणामङ्गशुद्धिश्च जायते
ब्राह्मणानां प्रसूतौ तु देवस्पर्शे विधीयते ३
र्

२८२

जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ४
एकाहाच्छुध्यते विप्रो योऽग्नि वेदसमन्वितः
त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः ५
जन्मकर्मपरिभ्रष्टः संध्योपासन वर्जितः
नामधारकविप्रस्तु दशाहं सूतकी भवेत् ६
एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः
जन्मन्यपि विपत्तौ च तेषां तत्सूतकं भवेत् ७
तावत्तत्सूतकं गोत्रे चतुर्थपुरुषेणतु
दायाद्विच्छेदमाप्नोति पञ्चमो वात्मवंशजः ८
चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे
षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात् ९
भृग्वग्निमरणे चैव देशान्तरमृते तथा बाले प्रेते च संन्यस्ते सद्यः शौचं विधीयते १०
देशान्तरमृतः कश्चित्सगोत्रः श्रूयते यदि
न त्रिरात्रमहो रात्रं सद्यः स्नात्वा शुचिर्भवेत् ११
देशान्तरगतो विप्रः प्रयासात्कालकारितात्
देहनाशमनुप्राप्तस्तिथिर्न ज्ञायते यदि १२
कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या
उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् १३
अजातदन्ता ये बाला ये च गर्भाद्विनिह्सृताः
न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया १४
यदि गर्भो विपद्येतस्रवते वापि योषितः
यावन्मासं स्थितो गर्भो दिनं तावत्तु सूतकम् १५
आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः
अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् १६

२८३

दन्तजातेऽनुजाते च कृतचूडे च संस्थिते
अग्निसंस्करणे तेषां त्रिरात्रमशुचिर्भवेत् १६
आदन्तजन्मनः सद्या चूडान्नैषिकी स्मृता
ट्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् १७
ब्रह्मचारी गृहे येषां हूयते च हुताशनः
सम्पर्कं न च कुर्वन्ति न तेषां सूतकं भवेत् १८
सम्पर्काद्दुष्यते विप्रो जनने मरणे तथा
सम्पर्काच्च निवृत्तस्यन प्रेतं नैव सूतकम् १९
शिल्पिनः कारुका वैद्यादासीदासाश्च नापिताः
राजानः श्रोत्रियाश्चैव सद्यः शौचाः प्रकीर्तिताः २०
सव्रतः सत्रपूतश्चाहिताग्निश्च यो द्विजः
राज्ञश्च सूतकं नास्ति यस्यचेच्छति पार्थिवः २१
उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः
तदर्षिभिर्दृष्टं यथाकालेन शुध्यति २२
प्रसवे गृहमेधी तु न कुर्यात्संकरं यदि
दशाहाच्छुध्यते माता त्ववगाह्यपिता शुचिः २३
सर्वेषां शावमाशौचं माता पित्रोस्तु सूतकम्
सूतकं मातुरेवस्यादुपस्पृश्यपिताशुचिः २४
यदि पत्न्यां प्रसूतायां सम्पर्कं कुरुते द्विजः
सूतकं तु भवेत्तस्ययदि विप्रः षडङ्गवित् २५
सम्पर्काज्जायते दोषो नान्यो दोषोऽस्ति वै द्विजे
तस्मात्सर्वप्रयत्नेन सम्पर्कं वर्जयेद्बुधः २६
विवाहोत्सवयज्ञेषु त्वन्तरामृतसूतके
पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति २७
अन्तरा दशाहस्यपुनर्मरणजन्मनी
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् २८
र्

२८४

ब्राह्मणार्थे विपन्नानां बन्दिगोग्रहणे तथा
आहवेषु विपन्नानामेकरात्रमशौचम् २९
द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ
परिव्राड्योगयुक्तश्चरणे चाभिमुखो हतः ३०
यत्रयत्रहतः शूरः शत्रुभिः परिवेष्टितः
अक्षयांलभते लोकान्यदि क्लीबं न भाषते ३१
सम्न्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच्चलति भास्करः
एषमे मण्डलं भित्त्वा परं स्थानं प्रयास्यति ३२
यस्तु भग्नेषु सैन्येषु विद्रवत्सु समन्ततः
परित्राता यदा गच्छेत्सच क्रतु फलं लभेत् ३३
यस्यछेदक्षतं गात्रं शरमुद्गरयष्टिभिः
देवकन्यास्तु तं वीरं हरन्ति रमयन्ति च ३४
देवाङ्गनासहस्राणि शूरमायोधने हतम्
त्वरमाणाः प्रधावन्ति ममभर्ता ममेति च ३५
यं यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणो वात्रयथा यान्ति
क्षणेन यान्त्येवहि तत्रवीराः प्राणान्सुयुद्धेन परित्यजन्तः ३६
जितेन लभ्यते लक्ष्मीर्मृतेनापि सुराङ्गनाः
क्षणध्वंसिनिकायेऽस्मिन्का चिन्ता मरणे रणे ३७
ललाटदेशे रुधिरं स्रवच्च यस्याहवे तु प्रविशेच्च वक्त्रम्
तत्सोमपानेन किलास्यतुल्यं संग्रामयज्ञे विधिवच्च दृष्टम् ३८
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः
पदे पदे यज्ञफलमानुपूर्व्याल्लभन्ति ते ३९
न तेषामशुभं किंचित्पापं वा शुभकर्मणाम्
जलावगाहनात्तेषां सद्यः शौचं विधीयते ४०
असतोरमबन्धुं च प्रेतीभूतं द्विजोत्तमम्
वहित्वा च दहित्वा च प्राणायामेन शुध्यति ४१

२८५

अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेववा
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्यविशुध्यति ४२
क्षत्रियं मृतमज्ञानाद्ब्राह्मणो योऽनुगच्छति
एकाहमशुचिर्भूत्वा पञ्चगव्येन शुध्यति ४३
शवं च वैश्यमज्ञानाद्ब्राह्मणे योऽनुगच्छति
कृत्वाशौचं द्विरात्रं च प्राणायामान्षडाचरेत् ४४
प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ४५
त्रिरात्रे तु ततः पूर्ण नदीं गत्वा समुद्रगाम्
प्राणायामशतं कृत्वा घृतं प्राश्यविशुध्यति ४६
विनिर्वर्त्ययदाशूद्रोदकान्तमुपस्थितः
द्विजैस्तदानुगन्तव्यैषधर्मः सनातनः ४७
इति पाराशरे धर्मशास्त्रे तृतीयोऽध्यायः
चतुर्थोऽध्यायः
अनेकविधप्रकरणप्रायश्चित्तम्
अतिमानादतिक्रोधात्स्नेहाद्वा यदिवा भयात्
उद्वध्नीयात्स्त्रीपुमान्वा गतिरेषा विधीयते १
पूयशोणितसम्पूर्ण त्वन्धे तमसि मज्जति
षष्ठीर्वर्षसहस्राणि नरकं प्रतिपद्यते २
नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत्
वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा ३
तप्तकृच्छ्रेणशुध्यन्तीत्येवमाहप्रजापतिः
गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितम् ४
संस्पृशन्ति तु ये विप्रा वो ढारश्चाग्निदाश्च ये
अन्ये ये वानुगन्तारः पाशच्छेदकराश्च ये ५
र्

२८६

तप्तकृच्छ्रेणशुद्धास्ते कुर्युर्ब्राह्मणभोजनम्
अनडुत्सहितां गां च दद्युर्विप्रायदक्षिणाम् ६
त्र्यहमुष्णं पिबेद्वारि त्र्यहमुष्णं पयः पिबेत्
त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम् ७
षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत्
पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रं विधीयते ८
यो वै समाचरेद्विप्रः पतितादिष्वकामतः
पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ९
मासार्धं मासमेकं वा मासद्वयमथापि वा
अब्दार्धमब्दमेकं वा तदूर्ध्वं चैव तत्समः १०
त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत्
तृतीये चैव पक्षे तु कृच्छ्रं सांतपनं चरेत् ११
चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे मतः
कुर्याच्चान्द्रायणं षष्ठे सप्तमे त्वैन्दवद्वयम् १२
शुद्ध्यर्थमष्टमे चैव षण्मासान्कृच्छ्रमाचरेत्
पक्षसंख्या प्रमाणेन सुवर्णान्यपिदक्षिणा १३
ऋतुस्नाता तु या नारीभर्तारं नोपसर्पति
सा मृता नरकं याति विधवा च पुनः पुनः १४
ऋतुस्नातां तु यो भार्यां सम्निधौ नोपगच्छति
घोरायां भ्रूणहत्यायां युज्यते नात्रसंशयः १५
दरिद्रं व्याधितं मूर्खं भर्तारं यावमन्यते
सा शुनी जायते मृत्वा सूकरी च पुनः पुनः १६
पत्यौ जीवति या नार्युपोष्यव्रतमाचरेत्
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् १७
अपृष्ट्वा चैव भर्तारं या नारी कुरुते व्रतम्
सर्वं तद्राक्षसान्गच्छेदित्येवं मनुरब्रवीत् १८

२८७

बान्धवानां सजातीनां दुर्वृत्तं कुरुते तु या
गर्भपातं च याकुर्यान्नतां सम्भाषयेत्क्वचित् १९
यत्पापं ब्रह्महत्यायां द्विगुणं गर्भपातने
प्रायश्चित्तं न तस्याः स्यात्तस्यास्त्यागो विधीयते २०
न कार्यमावसथेन नाग्निहोत्रेणवा पुनः
सभवेत्कर्मचाण्डालो यस्तु धर्मपरान्मुखः २१
ओघवाताहृतं बीजं यस्यक्षेत्रे प्ररोहति
सक्षेत्री लभते बीजं न बीजीभागमर्हति २२
तद्वत्परस्त्रियाः पुत्रौद्वौस्मृतौ कुण्डगोलकौ
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः २३
औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः
दद्यान्मातापितावापि सपुत्रो दत्तको भवेत् २४
परिवित्तिः परिवेत्ता यया च परिविद्यते
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः २५
द्वौ कृछ्रौ परिवित्तेस्तु कन्यायाः कृच्छ्रैव च
कृछ्रातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत् २६
कुब्जवामनषण्ढेषु गद्गदेषु जडेषु च
जात्यन्धे बधिरे मूके न दोषः परिवेदने २७
पितृव्यपुत्रः सापत्नः परनारी सुतस्तथा
दाराग्निहोत्रसम्योगे न दोषः परिवेदने २८
ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैवकारयेत्
अनुज्ञातस्तु कुर्वीतशङ्खस्यवचनं यथा २९
नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ३०
मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता
सा मृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ३१
र्

२८८

तिस्रः कोट्योडर्धकोटी च यानि रोमाणि मानुषे
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ३२
व्यालग्राही यथाव्यालं बलादुद्धरते बिलात्
एवं स्त्रीपतिमुद्धृत्य तेनैव सह मोदते ३३
इति पाराशरे धर्मशास्त्रे चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः
प्रायश्चित्तवर्णनम्
वृकश्वानसृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः
स्नात्वा जपेत्सगायत्रीं पवित्रां वेदमातरम् १
गवां शृङ्गोदकैः स्नानं महानद्योस्तु संगमे
समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् २
वेदविद्या व्रतस्नातः शुना दष्टो द्विजो यदि
सहिरण्योदकैः स्नात्वा घृतं प्राश्यविशुध्यति ३
सव्रतस्तु शुना दष्टो यस्त्रिरात्रमुपावसेत्
घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ४
अव्रतः सव्रतो वापि शुना दष्टो भवेद्द्विजः
प्रणिपत्यभवेत्पूतो विप्रैश्चक्षुर्निरीक्षितः ५
शुना घ्रातावलीढस्यनखैर्विलिखितस्य च
अद्भिः प्रक्षालनं प्रोक्तमग्निना चोपचूलनम् ६
शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेणवा
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ७
कृष्णपक्षे यदा सोमो न दृश्येतकदाचन
यां दिशं व्रजते सोमस्तां दिशं वावलोकयेत् ८
असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः
वृषं प्रदक्षिणी कृत्यसद्यः स्नात्वा शुचिर्भवेत् ९

२८९

चण्डालेन श्वपाकेन गोभिर्विप्रैर्प्रहतो यदि
आहिताग्निर्मृतो विप्रो विषेणात्महतो यदि १०
दहेत्तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम्
स्पृष्ट्वा वोढ्वा च दग्ध्वा च सपिण्डेषु च सर्वथा ११
प्राजापत्यं चरेत्पश्चाद्विप्राणामनुशासनात्
दग्धास्थीनि पुनर्गृह्यक्षीरैः प्रक्षालयेद्द्विजः १२
पुनर्दहेत्स्वाग्निना तु स्वतन्त्रेण पृथक्पृथक्
आहिताग्निर्द्विजः कश्चित्प्रवसन्कालचोदितः १३
देहनाशमनुप्राप्तस्तस्याग्निर्वसते गृहे
प्रेताग्निहोत्रसंस्कारः श्रूयतामृषिपुङ्गवाः १४
कृष्णाजिनं समास्तीर्यकुशैस्तु पुरुषाकृतिम्
षट्शतानि शतं चैव पलाशानां च वृन्ततः १५
चत्वारिंशच्छिरे दद्याच्छतं कण्ठे तु विन्यसेत्
बाहुभ्यां शतकं दद्यादङ्गुलीषु दशैवतु १६
शतं तु जघने दद्याद्द्विशतं तूदरे तथा
दद्यादष्टौ वृषणयोः पञ्चमेध्रे तु विन्यसेत् १७
एकविंशतिमूरुभ्यां द्विशतं जानुजङ्घयोः
पादाङ्गुलीषु षड्दद्याद्यज्ञपात्रं ततो न्यसेत् १८
शम्यं शिश्ने विनिःक्षिप्यारणीं मुष्कयोरपि
जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत् १९
कर्ण चोलूखलं दद्या पृष्ठे च मुसलं न्यसेत्
उरसि क्षिप्यदृषदं तण्डुलाज्यतिलान्मुखे २०
श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थलीं तु चक्षुषोः
कर्ण नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् २१
अग्निहोत्रोपकरणमशेषं तत्रनिक्षिपेत्
असौ स्वर्गायलोकायस्वाहेत्येकाहुतिं सकृत् २२
र्

२९०

दद्यात्पुत्रोऽथवा भ्राताप्यन्यो वापि च बान्धवः
यथा दहनसंस्कारस्तथा कार्यं विचक्षणैः २३
ईदृशं तु विधिं कुर्याद्ब्रह्मलोकगतिः स्मृता
दहन्ति ये द्विजास्तं तु ते यान्ति परमां गतिम् २४
अन्यथा कुर्वते कर्मत्वात्मबुद्ध्या प्रचोदिताः
भवन्त्यल्पायुषस्ते वै पतन्ति नरकेऽशुचौ २५
इति पाराशरे धर्मशास्त्रे पञ्चमोऽध्यायः
अथ षष्ठोऽध्यायः
प्राणिहत्याप्रायश्चित्तवर्णनम्
अतः परं प्रवक्ष्यामि प्राणि हत्यासु निष्कृतिम्
पराशरेन पूर्वोक्ता मन्वर्थेऽपि च विस्तृताम् १
क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम्
जालपादं च शरभमहो रात्रेणशुध्यति २
बलाकाटिट्टिभौ वापि शुकपारावतावपि
अहि न क्रविघाती च शुध्यते नक्तभोजनात् ३
वृककाककपोतानां शारि तित्तिरिघातकः
अन्तर्जलोभे संध्ये प्राणायामेन शुध्यति ४
गृध्रश्येन शशादानामुलूकस्य च घातकः
अपक्वाशी दिनं तिष्ठेत्त्रिकालं मारुताशनः ५
वल्गुणी टिट्टिभानां च कोकिलाखञ्जरीटके
लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात् ६
कारण्डवचकोराणां पिङ्गलाकुररस्य च
भारद्वाजादिकं हत्वा शिवं पूज्यविशुध्यति ७
भेरुण्डचाषभासांश्च पारावतकपिञ्जलौ
पक्षिणां चैव सर्वेषामहो रात्रमभोजनम् ८

२९१

हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान्
कृसरं भोजयेद्विप्रांलोहदण्डस्यदक्षिणा ९
शिशुमारं तथागोधां हत्वा कूर्मं च शल्यकम्
वृन्ताकफलभक्षीचाप्यहो रात्रेणशुध्यति १०
वृकजम्बूकर्क्षाणां तरक्षश्वानघातकः
तिलप्रस्थं द्विजे दद्याद्वायुभक्षो दिनत्रयम् ११
गजस्यचतुरङ्गस्यमहिषोष्ट्रनिपातने
प्रायश्चित्तमहो रात्रं त्रिसंध्यमवगाहनम् १२
कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन्
शुध्यते सत्रिरात्रेणविप्राणां तर्पणेन च १३
मृगरोहिद्वराहाणामवेर्बस्तस्यघातकः
अफालकृष्टमश्नीयादहो रात्रमुपोष्यसः १४
एवं चतुष्पदानां च सर्वेषां वनचारिणाम्
अहो रात्रोषितस्तिष्ठेज्जपेद्वै जातवेदसम् १५
शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत्
प्राजापत्यद्वयं कृत्वा वृषैकादशदक्षिणा १६
वैश्यं वा क्षत्रियं वापि निर्दोषं योऽभिघातयेत्
सोऽपि कृच्छ्रद्वयं कुर्याद्गो विंशद्दक्षिणं ददेत् १७
वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम्
हत्वा चान्द्रायणं तस्यत्रिंशद्गोश्चैव दक्षिणाम् १८
चण्डालं हतवान्कश्चिद्ब्राह्मणे यदि कंचन
प्राजापत्यं चरेत्कृच्छ्रं गो द्वयं दक्षिणां ददत् १९
क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेणवा
चण्डालस्यवधे प्राप्ते कृच्छ्रार्धेन विशुध्यति २०
चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि
अहो रात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति २१
र्

२९२

चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि
अहो रात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति २२
चण्डालैः सहसुप्तं तु त्रिरात्रमुपवासयेत्
चण्डालैकपथं गत्वा गायत्री स्मरणाच्छुचिः २३
चण्डालदर्शने सद्यादित्यमवलोकयेत्
चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत् २४
चण्डालखातवापीषु पीत्वा सलिलमग्रजः
अज्ञानाच्च्चैकभक्तेन त्वहो रात्रेणशुध्यति २५
चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम्
गो मूत्रयावकाहारस्त्रिरात्राच्छुद्धिमाप्नुयात् २६
चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः
तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् २७
यदि नक्षिपते तोयं शरीरे यस्यजीर्यति
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् २८
चरेत्सांतपनं विप्रः प्राजापत्यमनन्तरः
तदर्धं तु चरेद्वैश्यः पादं शूद्रस्तदाचरेत् २९
भाण्डस्थमन्त्यजानां तु जलं दधिपयः पिबेत्
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ३०
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः
शूद्रस्यचोपवासेन तथा दानेन शक्तितः ३१
भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नं कथंचन
गोमूत्रयावकाहारो दशरात्रेणशुध्यति ३२
एकैकं ग्रासमश्नीयाद्गोमूत्रयावकस्य च
दशाहं नियमस्थस्यव्रतं तत्तु विनिर्दिशेत् ३३
अविज्ञानातस्तु चण्डालो यत्रवेश्मनि तिष्ठति
विज्ञाते तूपसन्नस्य द्विजाः कुर्वन्त्यनुग्रहम् ३४

२९३

मुनिवक्त्रोद्गतान्धर्मान्गायन्तो वेदपारगाः
पतन्तमुद्धरेयुस्तं धर्मज्ञाः पापसंकरात् ३५
दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम्
भुञ्जीतसहसर्वैश्च त्रिसंध्यमवगाहनम् ३६
त्र्यहं भुञ्जीतदध्ना च त्र्यहं भुञ्जीतसर्पिषा
त्र्यहं क्षीरेणभुञ्जीतैकैकेन दिनत्रयम् ३७
भावदुष्टं न भुञ्जीतनोच्छिष्टं कृमिदूषितम्
दधिक्षीरस्यत्रिपलं पलमेकं घृतस्यतु ३८
भस्मना तु भवेच्छुद्धिरुभयोस्ताम्रकांस्ययोः
जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ३९
कुसुम्भगुडकार्पासलवणं तैलसर्पिषी
द्वारे कृत्वा तु धान्यानि दद्याद्वेश्मनि पावकम् ४०
एवं शुद्धस्ततः पश्चात्कुर्याद्ब्राह्मणतर्पणम्
त्रिंशतं गोवृषं चैकं दद्याद्विप्रेषु दक्षिणाम् ४१
पुनर्लेपनखातेन होमजप्येन शुध्यति
आधारेणच विप्राणां भूमिदोषो न विद्यते ४२
चण्डालैः सहसम्पर्कं मासं मासार्धमेववा
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ४३
रजकी चर्मकारी च लुब्धकी वेणुजीविनी
चातुर्वर्ण्यस्य च गृहे त्वविज्ञाता तु तिष्थति ४४ ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धमेव च
गृहदाहं न कुर्वीतशेषं सर्वं च कारयेत् ४५
गृहस्याब्भ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित्
तमगाराद्विनिर्वास्यमृद्भाण्डं तु विसर्जयेत् ४६
रसपूर्णं तु यद्भाण्डं न त्यजेत्तु कदाचन
गोमयेन तु सम्मिश्रैर्जलैः प्रोक्षेद्गृहं तथा ४७
र्

२९४

ब्राह्मणस्यव्रणद्वारे पूयशोणितसम्भवे
कृमिरुत्पद्यते यस्यप्रायश्चित्तं कथं भवेत् ४८
गवां मूत्रपुरीषेणदध्ना क्षीरेणसर्पिषा
त्र्यहं स्नात्वा च पीत्वा च कृमि दुष्टः शुचिर्भवेत् ४९
क्षत्रियोऽपि सुवर्णस्यपञ्चमाषान्प्रदायतु
गोदक्षिणां तु वैश्यस्याप्युपवासं विनिर्दिशेत् ५०
शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति
अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ५१
प्रणम्यशिरसा ग्राह्यमग्निष्टोमफलं हि तत्
जपच्छिद्रं तपच्छिद्रं यच्छिद्रं यज्ञकर्मणि ५२
सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम्
व्याधि व्यसनिनि श्रान्ते दुर्भिक्षे डामरे तथा ५३
उपवासो व्रतं होमो द्विजसम्पादितानि वै
अथवा ब्राह्मणास्तुष्टाः सर्वं कुर्वन्त्यनुग्रहम् ५४
सर्वान्कामानवाप्नोति द्विजसम्पादितैरिह
दुर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवृद्धयोः ५५
अतोऽन्यथा भवेद्दोषः तस्मान्नानुग्रहः स्मृतः
स्नेहाद्वा यदिवा लोभाद्भयादज्ञानतोऽपि वा ५६
कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति
शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये ५७
महत्कार्योपरोधेन न स्वस्थस्यकदाचन
स्वस्थस्यमूढाः कुर्वन्ति वदन्त्यनियमं तु ये ५८
ते तस्यविघ्नकर्तारः पतन्ति नरकेऽशुचौ
स्वयमेवव्रतं कृत्वा ब्राह्मणं योऽवमन्यते ५९
वृथा तस्योपवासः स्यान्न सपुण्येन युज्यते
सैवनियमो ग्राह्यो यद्येकोऽपि वदेद्द्विजः ६०

२९५

कुर्याद्वाक्यं द्विजानां त्वन्यथा भ्रूणहा भवेत्
ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः ६१
तेदां वाक्योदकेनैवशुध्यन्ति मलिना जनाः
ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः ६२
सर्वदेवमयो विप्रो न तद्वचनमन्यथा
उपवासो व्रतं चैव स्नानं तीर्थं जपस्तपः ६३
विप्रसम्पादितं यस्यसम्पूर्णं तस्यतत्फलम्
अन्नाद्ये कीटसम्युक्ते मक्षिका केशदूषिते ६४
तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत्
भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् ६५
स्वमुच्छिष्टमसौ भुङ्क्ते पाणिना मुक्तभाजने
पादुकास्थो न भुञ्जीतपर्यङ्के संस्थितोऽपि वा ६६
श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत्
यदन्नं प्रतिषिद्धं स्यादन्नशुद्धिस्तथैव च ६७
यथा पराशरेणोक्तं तथैवाहं वदामि वः
शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितम् ६८
केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत्
काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत् ६९
वेदवेदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः
प्रस्था द्वात्रिंशतिर्द्रोणः स्मृतो द्विप्रस्थाढकः ७०
ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः
काकश्वानावलीढं तु गवाघ्रातं खरेणवा ७१
स्वल्पमन्नं त्यजेद्विप्रः शुद्धिर्द्रोणाढके भवेत्
अन्नस्योद्धृत्यतन्मात्रं यच्चलाला हतं भवेत् ७२
सुवर्णोदकमभ्युक्ष्यहुताशेनैवतापयेत्
हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ७३
र्

२९६

विप्राणां ब्रह्मघोषेणभोज्यं भवति तत्क्षणात्
स्नेहो वा गोरसो वापि तत्रशुद्धिः कथं भवेत् ७४
अल्पं परित्यजेत्तत्रस्नेहस्योत्पवनेन च
अनलज्वालया शुद्धिर्गोरसस्यविधीयते ७५
इति पाराशरे धर्मशास्त्रे षष्ठोऽध्यायः
अथ सप्तमोऽध्यायः
द्रव्यशुद्धिवर्णनम्
अथातो द्रव्यशुद्धिस्तु पराशरवचो यथा
दारवाणां पात्राणां तक्षणाच्छुद्धिरिष्यते १
भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति
रजसा शुध्यते नारी विकलं या न गच्छति २
नदी वेगेन शुध्येतलोपो यदि न दृश्यते
वापी कूपतडागेषु दूषितेषु कथंचन ३
उद्धृत्यवैघटशतं पञ्चगव्येन शुध्यति
अष्टवर्षा भवेद्गौरी न ववर्षा तु रोहिणी ४
दशवर्षा भवेत्कन्यात ऊर्ध्वं रजस्वला
प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ५
मासिमासिरजस्तस्याः पिबन्ति पितरः स्वयम्
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ६
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्
यस्तां समुद्वहेत्कन्यां ब्राह्मणो मदमोहितः ७
असम्भाष्यो ह्यपाङ्क्तेयः सविप्रो वृषली पतिः
यः करोत्येकरात्रेणवृषली सेवनं द्विजः ८
सभैक्षभुग्जपन्नित्यं त्रिर्वर्षैर्विशुध्यति
अस्तं गते यदा सूर्ये चण्डालं पतितं स्त्रियम् ९

२९७

सूतिकां स्पृशतश्चैव कथं शुद्धिर्विधीयते
जातवेदः सुवर्णं च सोममार्गं विलोक्य च १०
ब्राह्मणानुमतश्चैव स्नानं कृत्वा विशुध्यति
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा ११
तावत्तिष्ठेन्निराहारा त्रिरात्रेणैवशुध्यति
स्पृष्ट्त्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा १२
अर्धकृच्छ्रं चरेत्पूर्वा पादमेकमनन्तरा
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा १३
पादहीनं चरेत्पूर्वा पादमेकमनन्तरा
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा १४
कृच्छ्रेणशुध्यते पूर्वा शूद्रा दानेन शुध्यति
स्नाता रजस्वलाया तु चतुर्थेऽहनि शुध्यति १५
कुर्याद्रजोनिवृत्तौ तु दैवपित्र्यादि कर्म च
रोगेणयद्रजः स्त्रीणामन्वहं तु प्रवर्तते १६
नाशुचिः सा ततस्तेन तत्स्याद्वैकालिकं मतम्
साध्वाचारा न तावत्स्याद्रजो यावत्प्रवर्तते १७
रजोनिवृत्तौ गम्या स्त्रीगृहकर्मणि चैव हि
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी १८
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति
आतुरे स्नानोत्पन्ने दशकृत्वो ह्यनातुरः १९
स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्येत्सातुरः
उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेणवा द्विजः २०
उपोष्यरजनीमेकां पञ्चगव्येन शुध्यति
अनुच्छिष्टेन शूद्रेणस्पर्शे स्नानं विधीयते २१
तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत्
भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते २२
र्

२९८

सुरा मात्रेणसंस्पृष्टं शुध्यतेऽग्न्युपलेखनैः
गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च २३
शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्ट्नि यानि च
गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने २४
षण्मासान्भुविनिःक्षिप्योद्धृत्यपुनराहरेत्
आयसेष्वायसानां च सीसस्याग्नौ विशोधनम् २५
डन्तमस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम्
मणिपाषाणपात्राणीत्येतान्प्रक्षालयेज्जलैः २६
पाषाणे तु पुनर्घर्षः शुद्धिरेवमुदाहृता
मृण्मये दहनाच्छुद्धिर्धान्यानां मार्जनादपि २७
वेणुवल्कलचीराणां क्षौमकार्पासवाससाम्
और्णनेत्रपटानां च प्रोक्षणाच्छुद्धिरिष्यते २८
मुञ्जोपस्करशूर्पाणां शणस्यफलचर्मणाम्
तृणकाष्ठस्यरज्जूणामुदकाभ्युक्षणं मतम् २९
तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च
शोषयित्वातपेनैवप्रोक्षणाच्छुद्धितामियुः ३०
मार्जारमक्षिका कीटपतङ्गकृमिदर्दुराः
मेध्यामेध्यं स्पृशन्तोऽपि नोच्छिष्टं मनुरब्रवीत् ३१
महीं स्पृष्ट्वागतं तोयं याश्चाप्यन्योन्यविप्रुषः
भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुरब्रवीत् ३२
ताम्बूलेक्षु फले चैव भुक्तस्नेहानुलेपने
मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः ३३
रथ्या कर्दमतोयानि नावः पन्थास्तृणानि च
मारुतार्केणशुध्यन्ति पक्वेष्टकचितानि च ३४
अदुष्टा संतता धारा वातोद्धूताश्चरेणवः
स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन ३५

२९९

देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि
रक्षेदेवस्वदेहादि पश्चाद्धर्मं समाचरेत् ३६
येन केन च धर्मेण मृदुना दारुणेन वा
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ३७
आपत्काले तु निस्तीर्ण शौचाचारं तु चिन्तयेत्
शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत् ३८
इति पाराशरे धर्मशास्त्रे सप्तमोऽध्यायः
अष्टमोऽध्यायः
धर्माचरणवर्णनम्
गवां बन्धनयोक्त्रेषु भवेन्मृत्युरकामतः
अकामकृतपापस्यप्रायश्चित्तं कथं भवेत् १
वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम्
स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् २
सावित्र्याश्चापि गायत्र्याः संध्योपास्त्यग्निकार्ययोः
अज्ञानात्कृषिकर्तारो ब्राह्मणानामधारकाः ३
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्
सहस्रशः समेतानां परिषत्त्वं न विद्यते ४
यद्वदन्ति तमो मूढा मूर्खा धर्ममतद्विदः
तत्पापं शतधा भूत्वा तद्वक्तॄनधिगच्छति ५
अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः
प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदि व्रजेत् ६
चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः
सधर्मेति विज्ञेयो नेतरैस्तु सहस्रशः ७
प्रमाणमार्गं मार्गन्तो ये धर्मं प्रवदन्ति वै
तेषामुद्विजते पापं सद्भूतगुणवादिनाम् ८
र्

३००

यथाश्मनि स्थितं तोयं मारुतार्केणशुध्यति
एवं परिषदादेशान्नाशयेत्तस्यदुष्कृम् ९
नैवगच्छति कर्तारं नैवगच्छति पर्षदम्
मारुतार्कादि सम्योगात्पापं नश्यति तोयवत् १०
चत्वारो वा त्रयो वापि वेदवन्तोऽग्निहोत्रिणः
ब्राह्मणां समर्था ये परिषत्साभिधीयते ११
अनाहिताग्नयो येऽन्ये वेदवेदाङ्गपारगाः
पञ्चत्रयो वा धर्मज्ञाः परिषत्सा प्रकीर्तिता १२
मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम्
वेदव्रतेषु स्नातानामेकोऽपि परिषद्भवेत् १३
पञ्चपूर्वं मया प्रोक्तास्तेषां चासम्भवे त्रयः
स्ववृत्तिपरितुष्टो ये परिषत्सा प्रकीर्तिता १४
अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः
परिषत्त्वं नतेष्वस्ति सहस्रगुणितेष्वपि १५
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः
ब्राह्मणस्त्वनधीयानस्त्रयस्ते नामधारकाः १६
ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः
यथा हुतमनग्नौ चामन्त्रो ब्राह्मणस्तथा १७
यथा षण्ढोऽफलः स्त्रीषु यथा गौरूषराफला
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः १८
चित्रकर्मयथानेकैरङ्गैरुन्मील्यते शनैः
ब्राह्मण्यमपि तद्वद्धि संस्कारैर्मन्त्रपुर्वकैः १९
प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः
ते द्विजा पापकर्माणः समेता नरकं ययुः २०
ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये
त्रैलोक्यं तारयन्त्येते पञ्चेन्द्रियरतापि २१

३०१

सम्प्रणीतः श्मशानेषु दीप्तोऽग्निः सर्वभक्षकः
एवं च वेदविद्विप्रः सर्वभक्षोऽपि दैवतम् २२
अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके
तथैवकिल्बिषं सर्वं प्रक्षिपेच्च द्विजानले २३
गायत्री रहितो विप्रः शूद्रादप्यशुचिर्भवेत्
गारत्री ब्रह्मतत्त्वज्ञाः सम्पूज्यन्ते जनैर्द्विजाः २४
दुह्शीलोऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः
कः परित्यज्यगां दुष्टां दुहेच्छीरवतीं खरीम् २५
धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः
क्रीड्र्थमपि यद्ब्रूयुः सधर्मः परमः स्मृतः २६
चातुर्वेद्यो विकल्पी चाङ्गविद्धर्मपाठकः
त्रयश्चाश्रमो मुख्याः पर्षदेषा दशावरा २७
राज्ञश्चानुमते स्थित्वा प्रायश्चितं विनिर्दिशेत्
स्वयमेवन कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः २८
ब्राह्मणांस्तानतिक्रम्यराजा कर्तुं यदिच्छति
तत्पापं शतधा भूत्वा राजानमनुगच्छति २९
प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः
आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम् ३०
सशिखं वपनं कृत्वा त्रिसंध्यमवगाहनम्
गवां मध्ये वसेद्रात्रौ दिवा गाश्चाप्यनुव्रजेत् ३१
उष्णे वर्षति शीते वा मारुते वाति वा भृशम्
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ३२
आत्मनो यदि वान्येषां गृहे क्षेत्रे खलेऽथवा
भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् ३३
पिबन्तीषु पिबेत्तोयं संविशन्तीषु संविशेत्
पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत् ३४
र्

३०२

ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान्परित्यजेत्
मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ३५
गोधनस्यानुरूपेणप्राजापत्यं विनिर्दिशेत्
प्राजापत्यं ततः कृच्छ्रं विभजेत्तच्चतुर्विधम् ३६
एकाहमेकभक्ताशी एकाहं नक्तभोजनः
अयाचिताश्येकमहरेकाहं मारुताशनः ३७
दिनद्वयं चैकभक्तो द्विदिनं चैकभोजनः
दिनद्वयमयाचीस्याद्द्विदिनं मारुताशनः ३८
त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः
दिनत्रयमयाची स्यात्त्रिदिनं मारुताशनः ३९
चतुरहं चैकभक्ताशी चतुरहं नक्तभोजनः
चतुर्दिनमयाची स्याच्चतुरहं मारुताशनः ४०
प्रायश्चित्ते ततचीर्ण कुर्याद्ब्राह्मणभोजनम्
विप्राणां दक्षिणां दद्यात्पवित्राणि जपेद्द्विजः ४१
ब्राह्मणान्भोजयित्वा तु गोघ्नः शुद्धो न संशयः ४२
इति पाराशरे धर्मशास्त्रेऽष्टमोऽध्यायः
नवमोऽध्यायः
गोसेवोपदेशवर्णनम्
गवां सम्रक्षणार्थाय न दुष्येद्रोधबन्धयोः
तद्वधं तु नतं विद्यात्कामाकामकृतं तथा १
दण्डादूर्ध्वं यदन्येन प्रहाराद्यदि पातयेत्
प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् २
रोधबन्धनयोक्त्राणि घातश्चेति चतुर्विधम्
एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ३
योत्रेषु पादहीनं स्याच्चरेत्सर्वं निपातने

३०३

गोवाटे वा गृहेए वापि दुर्गे वाप्यसमस्थले ४
नदीष्वथसमुद्रेषु त्वन्येषु न नदी मुखे
दग्धदेशे मृता गावः स्तम्भनाद्रोधोच्यते ५
योक्त्रदामकदोरैश्च कण्ढाभरणभूषणैः
गृहे वापि वने वापि बद्धा स्याद्गओर्मृता यदि ६
तदेवबन्धनं विद्यात्कामाकामकृतं च यत्
हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः ७
गोपतिर्मृत्युमाप्नोति योक्त्रो भवति तद्विधः
मत्तः प्रमत्तोन्मत्तश्चेतनो वाप्यचेतनः ८
कामाकामकृतक्रोधो दण्डैर्हन्यादथोपलैः
प्रहृता वा मृता वापि तद्धि हेतुर्निपातने ९
मूर्छितः पतितो वापि दण्डेनाभिहितः सतु
उत्थितस्तु यदा गच्छेत्पञ्चसप्तदशैववा १०
ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि
पूर्वं व्याध्युपसृष्टश्चेत्प्रायश्चित्तं न विद्यते ११
पिण्डस्थे पादमेकं तु द्वौ पादौ गर्भसम्मिते
पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् १२
पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च
त्रिपादे तु शिखा वर्जं सशिखं तु निपातने १३
पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम्
त्रिपादे गोवृषं दद्याच्चतुर्थे गोद्वयं स्मृतम् १४
निष्पन्न सर्वगात्रस्तु दृश्यते वा सचेतनः
अङ्गप्रत्यङ्गसम्पूर्णो द्विगुणं गोव्रतं चरेत् १५
पाषाणेनाथदण्डेन गावो येनाभिघातिताः
शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रघातने १६
पाषाणेनाथदण्डेन गावो येनाभिघातिताः
र्

३०४

शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रघातने १७
लाङ्गूले पादकृच्छ्रं तु द्वौ पादावस्थिभञ्जने
त्रिपादं चैव कर्ण तु चरेत्सर्वं निपातने १८
शृङ्गभङ्गेऽस्थि भङ्गे चकटि भङ्गे तथैव च
यदि जीवति षण्मासान्प्रायश्चित्त्तं न विद्यते १९
व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गस्तु पाणिना
यवसश्चोपहर्तव्यो यावद्दृढबलो भवेत् २०
यावत्सम्पूर्णसर्वाङ्गस्तावत्तं पोषयेन्नरः
गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् २१
यद्यसम्पूर्णसर्गाङ्गो हीनदेहो भवेत्तदा
गोघातकस्यतस्यार्थं प्रायश्चित्तं विनिर्दिशेत् २२
काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात्
व्यापादयति यो गां तु तस्यशुद्धिं विनिर्दिशेत् २३
चरेत्सांतपनं काष्ठे प्राजापत्यं तु लोष्टके
तप्तकृच्छ्रं तु पाषाणे सस्त्रे चैवातिकृच्छ्रकम् २४
पञ्चसंतपने गावः प्राजापत्ये तथा त्रयः
तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश २५
प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम्
तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः २६
अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा
सायं संगोपनार्थं च न दुष्येद्रोधबन्धयोः २७
अतिदाहेऽतिवाहे च नासिका भेदने तथा
नदी पर्वतसंचारे प्रायश्चित्तं विनिर्दिशेत् २८
अतिदाहे चरेत्पादं द्वौ पादौ वाहने चरेत्
नासिक्ये पदहीनं तु चरेत्सर्वं निपातने २९
दहानात्तु विपद्यतेऽनड्वान्योक्त्रयन्त्रितः

३०५

उक्तं पराशरेणैवह्येकपादं यथा विधि ३०
रोधनं बन्धनं चैव भारः प्रहरणं तथा
दुर्गप्रेरणयोक्त्रं च निमित्तानि वधस्यषट् ३१
बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः
भवने तस्यपापी स्यात्प्रायश्चित्तार्धमर्हति ३२
न नारि केलैर्न च शाणवालैः न वापि मौञ्जैर्न च वल्कशृङ्खलैः
एतैस्तु गावो न निबन्धनीया बद्ध्वापि तिष्ठेत्परशुं गृहीत्वा ३३
कुशैः काशैश्च बध्नीयाद्गोपशुं दक्षिणामुखम्
पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ३४
यदि तत्रभवेत्काष्ठं प्रायश्चित्तं कथं भवेत्
जपित्वा पावनीं देवीं मुच्यते तत्रकिल्बिषात् ३५
प्रेरयन्कूपवापीषु वृक्षच्छेदेषु पातयन्
गवाशनेषु विक्रीणंस्ततः प्राप्नोति गोवधम् ३६
आराधितस्तु यः कश्चिद्भिन्नकक्षो यदा भवेत्
श्रवणं हृदयं भिन्नं मग्नो वा कूपसंकटे ३७
कूपादुत्क्रमणे चैव भग्नो वा ग्रीवपादयोः
सैवम्रियते तत्रत्रीन्पादांस्तु समाचरेत् ३८
कूपखाटे तटाबन्धे नदी बन्धे प्रपासु च
पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ३९
कूपखाते तटा खाते दीर्घखाते तथैव च
अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ४०
वेश्मद्वारे निवासेषु यो नरः खातमिच्छति
स्वकार्यगृहखतेषु प्रायश्चित्तं विनिर्दिशेत् ४१
निशिबन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च
अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते ४२
ग्रामघाते शरौघेणवेश्मभङ्गान्निपातने
र्

३०६

अतिवृष्टि हतानां च प्रायश्चित्तं न विद्यते ४३
संग्रामे प्रहतानां च ये दग्धा वेश्मकेषु च
दावाग्नि ग्रामघातेषु प्रायश्चित्तं न विद्याते ४४
यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने
यत्ने कृते विपद्येतप्रायश्चित्तं न विद्व्यते ४५
व्यापन्नानां बहूनां च बन्धने रोधनेऽपि वा
भिषन्मिथ्योपचारे च प्रायश्चित्तं विनिर्दिशेत् ४६
गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः
अनिवारयतां तेषां सर्वेषां पातकं भवेत् ४७
एको हतो यैर्बहुभिः समेतैर्न ज्ञायते यस्यहतोऽभिघातात्
दिव्येन तेषामुपलभ्यहन्ता निवर्तनीयो नृपसम्नियुक्तैः ४८
एका चेद्बहुभिः काचिद्दैवाद्व्यापादिता यदि
पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ४९
हते तु रुधिरं दृश्यं व्याधि ग्रस्तः कृशो भवेत्
लाला भवति दष्टेष्वेवमन्वेषणं भवेत् ५०
ग्रासार्थं चोदितो वाप्यध्वानं नैवगच्छति
मनुना चैवमेकेन सर्वशास्त्राणि जानता ५१
प्रायश्चित्तं तु तेनोक्तं गोघ्नश्चान्द्रायणं चरेत्
केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् ५२
द्विगुणे व्रतादिष्टे द्विगुणा दक्षिणा भवेत्
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ५३
अकृत्वा वपनं तस्यप्रायश्चित्तं विनिर्दिशेत्
सर्वान्केशान्समुद्धृत्यछेदयेदङ्गुलद्वयम् ५४
एवं नारी कुमारीणां शिरसो मुण्डनं स्मृतम्
न स्त्रियाः केशवपनं न दूरे शयनाशनम् ५५
न च गोष्ठे वसेद्रात्रौ न दिवा गानुव्रजेत्

३०७

नदीषु संगमे चैवारण्येषु विशेषतः ५६
न स्त्रीणामजिनं वासो व्रतमेवसमाचरेत्
त्रिसंध्यं स्नानमित्युक्तं सुराणामर्चनं तथा ५७
बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम्
गृहेषु सततं तिष्ठेच्छुचिर्नियममाचरेत् ५८
इहयो गोवधं कृत्वा प्रछादयितुमिच्छति
सयाति नरकं घोरं कालसूत्रमसंशयम् ५९
विमुक्तो नरकात्तस्मान्मर्त्यलोके प्रजायते
क्लीबो दुःखी च कुष्ठी च सप्तजन्मानि वै नरः ६०
तस्मातर्पकाशयेत्पापं स्वधर्मं सततं चरेत्
स्त्रीबालभृत्यगोविप्रेष्वतिकोपं विवर्जयेत् ६१
इति पाराशरे धर्मशास्त्रे नवमोऽध्यायः
दशमोऽध्यायः
अगम्यागमनप्रायश्चित्तवर्णनम्
चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम्
अगम्या गमने चैव शुद्ध्यै चान्द्रायणं चरेत् १
एकैकं ह्रासयेद्ग्रासं कृष्णे शुल्के च वर्धयेत्
अमावास्यां न भुञ्जीतह्येषचान्द्रायणो विधिः २
कुक्कुटाण्डा प्रमाणं तु ग्रासं वै परिकल्पयेत्
अन्याथा भावदोषेण न धर्मो न च शुध्यति ३
प्रायश्चित्तं ततश्चीर्ण कुर्याद्ब्रह्मणभोजनम्
गोद्वयं वस्त्रयुग्मं च दद्याद्विप्रेषु दक्षिणाम् ४
चण्डालीं वा श्वपाकीं वा ह्यभिगच्छति यो द्विजः
त्रिरात्रमुपवासित्वा विप्राणामनुशासनम् ५
सशिखं पवनं कृत्वा प्राजापत्यद्वयं चरेत्
र्

३०८

गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत् ६
क्षत्रियो वाथवैश्यो वा चण्डालीं गच्छतो यदि
प्राजापत्यद्वयं कुर्याद्दद्याद्गोमिथुन द्वयम् ७
श्वपाकीं वाथचण्डालीं शूद्रो वा यदि गच्छति
प्राजापत्यं चरेत्कृच्छ्रं चतुर्गोमिथुनं ददेत् ८
मातरं यदि गच्छेत्तु भगिनीं स्वसुतां तथा
एतास्तु मोहितो गत्वा त्रीणि कृच्छ्राणि संचरेत् ९
चान्द्रायणत्रयं कुर्याच्छिश्नच्छेदेन शुध्यति
मातृष्वसृगमे चैवमात्ममेध्रनिकर्तनम् १०
अज्ञानेन तु यो गच्छेत्कुर्याच्चान्द्रायणद्वयाम्
दशगोमिथुनं दद्याच्छुद्धिं पारशरोऽब्रवीत् ११
पितृदारान्समारुह्यमातुराप्तां तु भ्रातृजाम्
गुरुपात्नीं स्नुषां चैव भ्रातृभार्यां तथैवच १२
मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत्
गोद्वयं दक्षिणां दद्याच्छुध्यते नात्रसंशयः १३
पशुवेष्यादि गमने महिष्युष्ट्री कपीस्तथा
खरीं च सूकरीं गत्वा प्राजापत्यव्रतं चरेत् १४
गोगामी च त्रिरात्रेणगामेकां ब्राह्मणे ददन्
महिष्युष्ट्री खरी गामी त्वहो रात्रेणशुध्यति १५
डामरे समरे वापि दुर्भिक्षे वा जनक्षये
बन्दिग्राहे भयार्ता वा सदा स्वस्त्रीं निरीक्षयेत् १६
चण्डालैः सहसम्पर्कं या नारी कुरुते ततः
विप्रान्दशवरान्कृत्वा स्वकं दोषं प्रकाशयेत् १७
आकण्ठसम्मिते कूपे गोमयोदककर्दमे
तत्रस्थित्वा निराहारा त्वहो रात्रेणनिष्क्रमेत् १८
सशिखं वपनं कृत्वा भुञ्जीयाद्यावकौदनम्

३०९

त्रिरात्रमुपवासित्वा त्वेकरात्रं जले वसेत् १९
शंखपुष्पी लतामूलं पत्रं वा कुसुमं फलम्
सुवर्णं पञ्चगव्यंच क्वाथयित्वा पिबेज्जलम् २०
एकभक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत्
व्रतं चरति तद्यावत्तावत्संवसते बहिः २१
प्रायश्चित्ते ततश्चीर्ण कुर्याद्ब्राह्मणभोजानम्
गोद्वयं दक्षिणां दद्यच्छुद्धिं पाराशरोऽब्रवीत् २२
चातुर्वण्यस्यनारीणां कृच्छ्रं चान्द्रायणं व्रतम्
यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत् २३
बन्दिग्राहेणया भुक्ता हत्वा बद्ध्वा बलाद्भयात्
कृत्वा सांतपनं कृच्छ्रं शुध्येत्पाराशरोऽब्रवीत् २४
सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः
प्राजापत्येन शुध्येतर्तु प्रस्रवणेन च २५
पतत्यर्धं शरीरस्ययस्यभार्यासुरां पिबेत्
पतितार्धशरीरस्यनिष्कृतिर्न विधीयते २६
गायत्रीं जपमानस्तु कृच्छ्रं सांतपनं चरेत्
गायत्रीं गोमयं क्षीरं दधिसर्पिः कुशोदकम् २७
एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्
जारेण जनयेद्गर्भं मृतेऽव्यक्ते गते पतौ २८
तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम्
ब्राह्मणी तु यदा गच्छेत्परपुंसा समन्विता २९
सा तु नष्टा विनिर्दिष्टा न तस्यागमनं पुनः
कामान्मोहात्तु या गच्छेत्त्यक्त्वा बन्धून्सुतान्पतिम् ३०
सा तु नष्टा परे लोके मानुषेषु विशेषतः
मदमोहगता नारी क्रोधाद्दण्डादिताडिता ३१
अद्वितीया गता चैव पुनरागमनं भवेत्
र्

३१०

दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ३२
दशाहं न त्यजेन्नारीं त्यजेन्नष्टश्रुतां तथा
भर्ता चैव चरेत्कृच्छ्रं कृच्छार्धं चैव बान्धवाः ३३
तेषां भुक्त्वा च पीत्वा चाहो रात्रेणशुध्यति
ब्राह्मणी तु यदा गच्छेत्परपुंसा विवर्जिता ३४
गत्वा पुंसां शतं याति जयेयुस्तां तु गोत्रिणः
पुंसो यदि गृहे गच्छेत्तदशुद्धं गृहं भवेत् ३५
पतिमातृगृहं यच्च जारस्यैवतु तद्गृहम्
उल्लिख्यतद्गृहं पश्चात्पञ्चगव्येन सेचयेत् ३६
त्यजेच्च मृण्मयं पात्रं वस्त्रं काष्ठं च शोधयेत्
सम्भारान्पञ्चगव्येन सर्वान्गोबालैश्च फलोद्भवान् ३७
ताम्राणि पञ्चगव्येन कांस्यानि दशभस्मभिः
प्रायश्चित्तं चरेद्विप्रो ब्राह्मणैरुपपादितम् ३८
गोद्वयं दक्षिणां दद्यात्प्राजापत्यद्वयं चरेत्
इतरेषामहो रात्रं पञ्चगव्यं च शोधनम् ३९
उपवासैर्व्रतैः पुण्यैः स्नानसंध्यार्च नादिभिः
जपहोमदया दानैः शुध्यन्ते ब्राह्मणादयः ४०
आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम्
न प्रदुष्यन्ति दर्भाश्च यज्ञेषु चमसा यथा ४१
इति पाराशरे धर्मशास्त्रे दशमोऽध्यायः
एकादशोऽध्यायः
अभक्ष्यभक्षणप्रायश्चित्तवर्णनम्
अमेध्यरेतो गोमांसं चण्डालान्नमथापि वा
यदि भुक्तं तु विप्रेणकृच्छ्रं चान्द्रायणं चरेत् १

३११

तथैवक्षत्रियो वैश्योऽप्यर्धं चान्द्रायणं चरेत्
शूद्रोऽप्येवं यदा भुङ्क्ते प्राजापत्यं समाचरेत् २
पञ्चगव्यं पिबेच्छूद्रो ब्रह्मकूर्चं पिबेद्द्विजः
एकद्वित्रिचतुर्गा वा दद्याद्विप्राद्यनुक्रमात् ३
शूद्रान्नं सूतकान्नं चाभोज्यस्यान्नमेव च
शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ४
यदि भुक्तं तु विप्रेणाज्ञानादापदापि वा
ज्ञात्वा समाचरेत्कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ५
बालैर्नकुलमार्जारैरन्नमुच्छिष्टं यदा
तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्रसंशयः ६
एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने
यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ७
मोहाद्भुञ्जीतयस्तत्रपङ्क्तावुच्छिष्टभोजने
प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सांतपनं तथा ८
पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने
पलाण्डुवृक्षनिर्यासदेवस्वकवकानि च ९
उष्ट्रीक्षीरमविक्षीरमज्ञानाद्भुञ्जते द्विजः
त्रिरात्रमुपवासेन पञ्चगव्येन शुध्यति १०
मण्डूकं भक्षयित्वा तु मूषिकामांसमेव च
ज्ञात्वा विप्रस्त्वहो रात्रं यावकान्नेन शुध्यति ११
क्षत्रियश्चापि वैश्यश्च क्रियावन्तौ शुचिव्रतौ
तद्गृहे तु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः १२
घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम्
गत्वा नदी तटे विप्रो भुञ्जीयाच्छूद्रभोजनम् १३
मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम्
तं शूद्रं वर्जयेद्विप्रः श्वपाकमिवदूरतः १४
र्

३१२

द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान्
स्वकर्मणि रतान्नित्यं नतान्शूद्रान्त्यजेद्द्विजः १५
अज्ञानाद्भुञ्जते विप्राः सूतके मृतकेऽपि वा
प्रायश्चित्तं कथं तेषां वर्ण वर्ण विनिर्दिशेत् १६
गायव्यष्टसहस्रेणशुद्धिः स्याच्छूद्रसूतके
वैश्ये पञ्चसहस्रेण त्रिसहस्रेणक्षत्रिये १७
ब्राह्मणस्ययदा भुङ्क्ते द्वे सहस्रे तु दापयेत्
अथवा वामदैव्येन साम्नैवैकेन शुध्यति १८
शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मनागतम्
पक्वं विप्रगृहे भुक्तं भोज्यं तन्मनुरब्रवीत् १९
आपत्कालेषु विप्रेणभुक्तं शूद्रगृहे यदि
मनस्तापेन शुध्येतद्रुपदां वा जपेच्छतम् २०
दासनापितगो पालकुलमित्रार्धसीरिणः
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् २१
शूद्रकन्या समुत्पन्ने ब्राह्मणेन तु संस्कृतः
संस्कारात्तु भवेद्दासः असंस्कारात्तु नापितः २२
क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस्तु यः सुतः
सगोपालेति ज्ञेयो भोज्यो विप्रैर्नसंशयः २३
वैश्यकन्या समुत्पन्नो ब्राह्मणेन तु संस्कृतः
साह्यार्धिकेति ज्ञेयो भोज्यो विप्रैर्न संशयः २४
भाण्डस्थितमभोज्येषु जलं दधिघृतं पयः
अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् २५
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वोपसर्पति
ब्रह्मकूर्चोपवासेन याज्यवर्णस्यनिष्कृतिः २६
शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति
ब्रह्मकूर्चमहो रात्रं श्वपाकमपि शोधयेत् २७

३१३

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्
निर्दिष्टं पञ्चगव्यं तु पवित्रं पापशोधनम् २८
गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोमयम्
पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि २९
कपिलायाघृतं ग्राह्यं सर्वं कापिलमेववा
मूत्रमेकपलं दद्यादग्नुष्ठार्धं तु गोमयम् ३०
क्षीरं सप्तपलं दद्याद्दधित्रिपलमुच्यते
घृतमेकपलं दद्यात्पलमेकं कुशोदकम् ३१
गायत्र्यादायगोमूत्रं गन्धद्वारेति गोमयम्
आप्यायस्वेतिचक्षीरं दधिक्राव्णस्तथा दधि ३२
तेजोऽसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकम्
पञ्चगव्यमृचा पूतं स्थापयेदग्निसम्निधौ ३३
आपो हि ष्ठेति चालोड्यमानस्तोकेति मन्त्रयेत्
सप्तावरास्तु ये दर्भाछिन्नाग्राः शुकत्विषः ३४
एतैरुद्धृत्यहोतव्यं पञ्चगव्यं यथा विधि
इरावतीदं विष्णुर्मानस्तोकेति शंवती ३५
एताभिश्चैव होतव्यं हुतशेषं पिबेद्द्विजः
आलोड्यप्रणवेनैवनिर्मन्थ्यप्रणवेन तु ३६
उद्धृत्यप्रणवेनैवपिबेच्च प्रणवेन तु
यत्त्वस्थिगतं पापं देहे तिष्ठति देहिनाम् ३७
ब्रह्मकूर्चो दहेत्सर्वं प्रदीप्ताग्निरिवेन्धनम्
पवित्रं त्रिषु लोकेषु देवताभिरधिष्ठितम् ३८
वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः
दध्निवायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ३९
पिबतः पतितं तोयं भाजने मुखनिह्सृतम्
अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् ४०
र्

३१४

कूपे च पतितं दृष्ट्वा श्वसृगालौ च मर्कटम्
अस्थिचर्मादिपतितं पीत्वामेध्यापो द्विजः ४१
नारं तु कुणपं काकं विड्वराहखरोष्ट्रकम्
गावयं सौप्रतीकं च मायूरं खाड्गकं तथा ४२
वैय्याघ्रमार्क्षं सैंहं वा कूपे यदि निमज्जति
तटाकस्याथदुष्टस्यपीतं स्यादुदकं यदि ४३
प्रायश्चित्तं भवेत्पुंसः क्रमेणैतेन सर्वशः
विप्रः शुध्येत्त्रिरात्रेणक्षत्रियस्तु दिनद्वयात् ४४
एकाहेन तु वैश्यस्तु शूद्रो नक्तेन शुध्यति
परपाकनिवृत्तस्यपरपाकरतस्य च ४५
अपचस्य च भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत्
अपचस्य च यद्दानं दातुश्चास्य कुतः फलम् ४६
दाताप्रतिग्रहीता च तौ द्वौ निरयगामिनौ
गृहीत्वाग्निं समारोप्यपञ्च यज्ञान्न निर्वपेत् ४७
परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः
पञ्चयज्ञान्स्वयं कृत्वा परान्नेनोपजीवति ४८
सततं प्रातरुत्थायपरपाकरतस्तु सः
गृहस्थधर्मा यो विप्रो ददाति परिवर्जितः ४९
ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः
युगे युगे तु धर्मास्तेषु तेषु च ये द्विजाः ५०
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः
हुं कारं ब्राह्मणस्योक्त्वा त्वं कारं च गरीयसः ५१
स्नात्वा तिष्ठन्नहः शेषमभिवाद्यप्रसादयेत्
ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा ५२
विवादेनापि निर्जित्यप्रणिपत्यप्रसादयेत्
अवगूर्यत्वहो रात्रं त्रिरात्रं क्षितिपातने ५३

३१५

अतिकृच्छ्रं च रुधिरे कृच्छ्रोऽभ्यन्तरशोणिते
न वाहमतिकृच्छ्री स्यात्पाणिपूरान्न भोजनः ५४
त्रिरात्रमुपवासी स्यादतिकृच्छ्रः सोच्यते
सर्वेषामेवपापानां संकरे समुपस्थिते ५५
दशसाहस्रमभ्यस्ता गायत्री शोधनं परम् ५६
इति पाराशरे धर्मशास्त्रे एकादशोऽध्यायः
द्वादशोऽध्यायः
तत्रादौ–पुनः संस्कारादिप्रायश्चित्तवर्णनम्
दुःस्वप्नं यदि पश्येत्तु वान्ते तु क्षुरकर्मणि
मैथुने प्रेतधूमे च स्नानमेवविधीयते १
अज्ञानात्प्राश्यविण्मूत्रं सुरा संस्पृष्टमेव च
पुनः संस्कारमर्हन्ति त्रयोवर्णा द्विजातयः २
अजिनं मेखला दण्डो भैक्षचर्या व्रतानि च
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ३
विण्मूत्रभोजी शुध्यं प्राजापत्यं समाचरेत्
पञ्चगव्यं च कुर्वीतस्नात्वा पीत्वा शुचिर्भवेत् ४
जलाग्निपतने चैव प्रव्रज्यानाशकेषु च
प्रत्यावसितवर्णानां कथं शुद्धिर्विधीयते ५
प्राजपत्यद्वयेनैवतीर्थाभिगनमेन च
वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः ६
ब्राह्मणस्यप्रवक्ष्यामि वनं गत्वा चतुष्पथे
सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ७
गोद्वयं दक्षिणां दद्याच्छुद्धिं स्वायम्भुवोऽब्रवीत्
मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति ८
स्नानानि पञ्चपुन्यानि कीर्तितानि मनीषिभिः
र्

३१६

आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च ९
आग्नेयं भस्मना स्नानमवगाह्यतु वारुणम्
आपो हि ष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् १०
यत्तु सातपवर्षेणतत्स्नानं दिव्यमुच्यते
तत्रस्नात्वा तु गङ्गायां स्नातो भवति मानवः ११
स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह
वायुभूतास्तु गच्छन्ति तृषार्ताः सलिलार्थिनः १२
निराशास्ते निवर्तन्ते वस्त्रनिष्पीडने कृते
तस्मान्नपीडयेद्वस्त्रमकृत्वा पितृतर्पणम् १३
रोमकूपेऽववस्थाप्ययस्तिलैर्तर्पयेत्पितॄन्
पितरस्तर्पितास्तेन रुधिरेणमलेन च १४
अवधुनोति यः केशान्स्नात्वा यस्तूत्सृजेन्मलं आचामेद्वा जलस्थेऽपि सबाह्यः पितृदैवतैः १५
शिरः प्रावृत्त्यकण्ठं वा मुक्तकच्छशिखोऽपि वा
विना यज्ञोपवीतेनाचान्तोऽप्यशुचिर्भवेत् १६
जले स्थलस्थो नाचामेज्जलस्थश्च बहिः स्थले
उभे स्पृष्ट्वा समाचान्तोभयत्रशुचिर्भवेत् १७
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे
आचान्तः पुनराचामेद्वासो विपरिधाय च १८
क्षुते निष्ठीवनेए चैव दन्तोच्छिष्टे तथानृते
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् १९
प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा
विप्रस्यदक्षिणे कर्ण सन्तीति मनुरब्रवीत् २०
अग्निरापश्च वेदाश्च सोमसूर्यानिलास्तथा
सर्वैवतु विप्रस्यश्रोते तिष्ठन्ति दक्षिणे २१
भास्करस्यकरैः पूतं दिवा स्नानं प्रशस्याते

३१७

अप्रशस्तं निशिस्नानं राहोरन्यत्रदर्शनात् २२
स्नानं दानं जपो होमः कर्तव्यो राहुदर्शने
अन्यदा त्वशुची रात्रिस्तस्मात्तां परिवर्जयेत् २३
मरुतो वसवो रुद्रादित्याश्चैव देवताः सर्वे सोमे प्रलीयन्ते तस्माद्दानं तु तद्ग्रहे २४
खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा
शर्वर्यां दानमस्त्येवनान्यत्रैवविधीयते २५
पुत्रजन्मजि यज्ञे च तथा चात्ययकर्मणि
राहोश्च दर्शने दानं प्रशस्तं नान्यदा निशि २६
महा निशा तु विज्ञेया मध्यस्थं प्रहरद्वयम्
प्रदोषपश्चिमौ यामौ दिनवत्स्नानमाचरेत् २७
चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी
एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासाजलमाविशेत् २८
अस्थिसंचयनात्पूर्वं रुदित्वा स्नानमाचरेत्
अन्तर्दशाहे विप्रस्यह्यूर्ध्वमाचमनं भवेत् २९
सर्वं गङ्गा समं तोयं राहुग्रस्ते दिवा करे
सोमग्रहे तथैवोक्तं स्नानदानादि कर्मसु ३०
कुशैः पूतं तु यत्स्नानं कुशेनोपस्पृशेद्द्विजः
कुशेन चोद्धृतं तोयं सोमपानसमं भवेत् ३१
अग्निकार्यात्परिभ्रष्टाः संध्योपासनवर्जिताः
वेदं चैवानधीयानास्सर्वे ते वृषलाः स्मृताः ३२
तस्माद्वृषलभीतेन ब्राह्मणेन विशेषतः
अध्येतव्योऽप्येकदेशो यदि सर्वं न शक्यते ३३
शूद्रान्न रसपुष्टस्याप्यधीयानस्यनित्यशः
जपतो जुह्वतो वापि गतिरूर्ध्वा न विद्यते ३४
शूद्रान्नं शूद्रसम्पर्कः शूद्रेणतु सहासनम्
र्

३१८

शूद्राज्ज्ञानागमश्चैव ज्वलन्तमपि पातयेत् ३५
यः शूद्र्या पाचयेन्नित्यं शूद्री च गृहमेधिनी
वर्जितः पितृदेवेभ्यो रौरवं याति सद्विजः ३६
मृतसूतकपुष्टाङ्गोद्विजः शूद्रान्न भोजनः
अहं तन्न विजानामि कां कां योनिं गमिष्यति ३७
गृध्रो द्वादशजन्मानि दशजन्मानि सूकरः
श्वयोनौ सप्तजन्मा स्यादित्येवं मनुरब्रवीत् ३८
दक्षिणार्थं तु यो विप्रः शूद्रस्यजुहुयाद्धविः
ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ३९
मौनव्रतं समाश्रित्यासीनो न वदेद्द्विजः
भुञ्जानो हि वदेद्यस्तु तदन्नं परिवर्जयेत् ४०
अर्धे भुक्ते तु यो विप्रः तस्मिन्पात्रे जलं पिबेत्
हतं दैवं च पित्र्यं चात्मानं चोपघातयेत् ४१
भुञ्जानेषु तु विप्रेषु योऽग्रे पात्रं विमुञ्चति
समूढः सच पापिष्ठो ब्रह्मघ्नः सखलूच्यते ४२
भाजनेषु च तिष्ठत्सु स्वस्ति कुर्वन्ति ये द्विजाः
न देवास्तृप्तिमायान्ति निराशाः पितरस्तथा ४३
अस्नात्वा नैवभुञ्जीताजप्त्वाग्निमहूय च
पर्णपृष्ठे न भुञ्जीतरात्रौ दीपं विना तथा ४४
गृहस्थस्तु दया युक्तो धर्ममेवानुचिन्तयेत्
पोष्यवर्गार्थसिद्ध्यर्थं न्यायवर्ती सुबुद्धिमान् ४५
न्यायोपार्जितवित्तेन कर्तव्यं ह्यात्मरक्षणम्
अन्यायेन तु यो जीवेत्सर्वकर्मबहिष्कृतः ४६
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः
दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत्तु नित्यशः ४७
अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम्

३१९

तिलान्कृष्णाजिनं छागं गृहे चैतानि रक्षयेत् ४८
गवां शतं सैकवृषं यत्रतिष्ठत्ययन्त्रितम्
तत्क्षेत्रं दशगणितं गोचर्मपरिकीर्तितम् ४९
ब्रह्महत्यादिभिर्मर्त्यो मनो वाक्कायकर्मजैः
एतद्गोचर्मदानेन मुच्यते सर्वकिल्बिषैः ५०
कुटुम्बिने दरिद्रायश्रोत्रियायविशेषतः
यद्दानं दीयते तस्मै तद्दानं शुभकारकम् ५१
वापी कूपतडागाद्यैर्वाजपेयशतैर्मुखैः
गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ५२
अष्टादशदिनादर्वाक्स्नानमेवरजस्वला
अत ऊर्ध्वं त्रिरात्रं स्यादुशना मुनिरब्रवीत् ५३
युगं युगद्वयं चैव त्रियुगं च चतुर्युगम्
चाण्डालसूतिकोदक्या पतितानामधः क्रमात् ५४
ततः सम्निधिमात्रेणसचैलं स्नानमाचरेत्
स्नात्वावलोकयेत्सूर्यमज्ञानात्स्पृशते यदि ५५
विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः
तोयं पिबति वक्त्रेणश्वयोनौ जायते ध्रुवम् ५६
यस्तु क्रुद्धः पुमान्ब्रूयाज्जायायास्त्वगम्यताम्
पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत् ५७
श्रान्तः क्रुद्धस्तमोऽन्धो वा क्षुत्पिपासा भयार्दितः
दानं पुण्यमकृत्वा तु प्रायश्चित्तं दिनत्रयम् ५८
उपस्पृशेत्त्रिषवणं महानद्युपसंगमे
चीर्णान्ते चैव गां दद्याद्ब्राह्मणान्भोजयेद्दश ५९
दुराचारस्यविप्रस्यनिषिद्धाचरणस्य च
अन्नं भुक्त्वा द्विजः कुर्याद्दिनमेकमभोजनम् ६०
सदाचारस्यविप्रस्यतथा वेदान्तवेदिनः
र्

३२०

भुक्त्वान्नं मुच्यते पापादहोरात्रान्तरान्नरः ६१
ऊर्ध्वोच्छिष्टमधो उच्छिष्टमन्तरिक्षमृतौ तथा
कृच्छ्रत्रयं प्रकुर्वीताशौचमरणे तथा ६२
कृच्छ्रं देव्ययुतं चैव प्राणायामशतद्वयम्
पुण्यतीर्थेऽनार्द्रशिरः स्नानं द्वादशसंख्यया ६३
द्वियोजने तीर्थयात्रा कृच्छ्रमेकं प्रकल्पितम्
गृहस्थः कामतः कुर्याद्रेतः स्खलनः भुवि ६४
सहस्रं तु जपेद्देव्याः प्राणायामैस्त्रिभिः सह
चतुर्विद्योपपन्नस्तु विधिवद्ब्रह्मघातके ६५
समुद्रसेतु गमनं प्रायश्चित्तं विनिर्दिशेत्
सेतुबन्धपथे भिक्षां चातुर्वण्यात्समाचरेत् ६६
वर्जयित्वा विकर्मस्थान्छत्रोपानद्विवर्जितः
अहं दुष्कृतकर्मा वै महापातककारकः ६७
गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः
गोकुलेषु वसेच्चैव ग्रामेषु नगरेषु वा ६८
तपो वनेषु तीर्थेषु नदीप्रस्रवणेषु वा
एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम् ६९
दशयोजनविस्तीर्णं शतयोजनमायतम्
रामचन्द्रसमादिष्टनलसंचयसंचितम् ७०
सेतुं दृष्ट्वा समुद्रस्यब्रह्महत्यां व्यपोहति
सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेतसागरम् ७१
यजेतवाश्वमेधेन राजा तु पृथिवीपतिः
पुनः प्रत्यागते वेश्मवासार्थमुपसर्पति ७२
सपुत्रः सहभृत्यैश्च कुर्याद्ब्राह्मणभोजनम्
गाश्चैवैकशतं दद्याच्चतुर्विध्येषु दक्षिणाम् ७३
ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते

३२१

सवनस्थां स्त्रियं हत्वा ब्रह्महत्या व्रतं चरेत् ७४
मद्यपश्च द्विजः कुर्यान्नदीं गत्वा समुद्रगाम्
चान्द्रायणे ततश्चीर्ण कुर्याद्ब्राह्मणभोजनम् ७५
अनडुत्सहितां गां च दद्याद्विप्रेषु दक्षिणाम्
सुरापानं सकृत्कृत्वाग्निवर्णं सुरां पिबेत् ७६
सपावयेदथात्मानमिहलोके परत्र च अपहृत्यसुवर्णं तु ब्राह्मणस्यततः स्वयम् ७७
गच्छेन्मुसलमादायराजाभ्याशं वधायतु
ततः शुद्धिमवाप्नोति राज्ञासौ मुक्तैव च ७८
कामतस्तु कृतं यत्स्यान्नान्यथा वधमर्हति
आसनाच्छयनाद्यानात्सम्भाषात्सहभोजनात् ७९
संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि
चान्द्रायणं यावकं तु तुलापुरुषैव च ८०
गवां चैवानुगमनं सर्वपापप्रणाशनम्
एतत्पराशरं शास्त्रं श्लोकानां शतपञ्चकम् ८१ द्विनवत्यासमायुक्तं धर्मसास्त्रस्यसंग्रहः
यथाध्ययन कर्माणि धर्मशास्त्रमिदं तथा ८२
अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना ८३
इति पाराशरे धर्मशास्त्रे द्वादशोऽध्यायः
समाप्ता चेयं पराशरसंहिता
च्रेदतिस
सेुरचेसख् ृन तहे बअससि ोफ तहे ेदतिनिो ब्स्स् नोभ ४७ण ैतिह पअरतलिअ चोललअतनिो ोफ तहे ेदतिनिो
बी २९८्रेपरभ १९७३-४।भ
त्यपेसचरपितख् ीनपुत बय मुनेो तेकुनअगअ
चेनवेरसनिो तो ज्ञेवअनअगअरसि ुनिग वेदअपअद सेफतैअरे बय ᐀्अलपह बुनकेर
फेरमअततेद फोर म्अहअरसिहनि ूविेरसतिय ोफ म्अनअगेमेनत वेदचि ल्तिेरअतुरे चेललेचतनिो
र्

३२२