२० दिव्यानि

यदा साक्षी न विद्यते विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश् च पृथग्विधैः ॥ २०।१ ॥
सत्यं वाहनशस्त्राणि गोबीजरजतानि च ।
देवतापितृपादाश् च दत्तानि सुकृतानि च ॥ २०।२ ॥
महापराधे दिव्यानि दापयेत् तु महीपतिः ।
अल्पेषु च नरः श्रेष्ठः शपथैः शापयेन् नरम् ॥ २०।३ ॥
एते हि शपथाः प्रोक्ताः सुकरास् स्वल्पसंशये ।
साहसेष्व् अभिशापे च विधिर् दिव्यः प्रकीर्तितः ॥ २०।४ ॥
सन्दिग्धे ऽर्थे ऽभियुक्तानां प्रच्छन्नेषु विशेषतः ।
दिव्यः पञ्चविधो ज्ञेय इत्य् आह भगवान् मनुः ॥ २०।५ ॥
धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमः ।
उक्तान्य् एतानि दिव्यानि दूषितानां विशोधने ॥ २०।६ ॥
सन्दिग्धेष्व् अभियुक्तानां विशुद्ध्यर्थं महात्मना ।
नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः ।
वादिनो ऽनुमतेनैनं कारयेन् नान्यथा बुधः ॥ २०।७ ॥

[धटः]
चतुर्हस्तौ तुलापादाव् उच्छ्रयेण प्रकीर्तितौ ।
षड्ढस्तं तु तयोर् दृष्टं प्रमाणं परिमाणतः ॥ २०।८ ॥
पादयोर् अन्तरं हस्तं भवेद् अध्यर्धम् एव च ।
शिक्यद्वयं समासज्य धटे कर्कटके दृढे ॥ २०।९ ॥
तुलयित्वा नरं पूर्वं चिह्नं कुर्याद् धटस्य तु ।
कक्षास्थानेन तं तुल्यम् अवतार्य ततो धटात् ॥ २०।१० ॥
समयैः परिगृह्यैनं पुनर् आरोपयेन् नरः ।
तस्मिन्न् एवं कृते सा चेत् कक्षे स्थाप्य सुनिश्चला ॥ २०।११ ॥
तुलितो यदि वर्धेत शुद्धः स्यान् नात्रे संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥ २०।१२ ॥
धर्मपर्यायवचनैर् धट इत्य् अभिधीयसे ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वम् एव धट जानीषे न विदुर् यानि मानुषाः ॥ २०।१३ ॥
व्यवहाराभिशस्तो ऽयं मानुषस् तुल्यते तथा ।
तद् एव संशयापन्नं धर्मतस् त्रातुम् अर्हसि ॥ २०।१४ ॥
अत ऊर्ध्वं प्रवक्ष्यामि लोहस्य विधिम् उत्तमम् ।
द्वात्रिंशदङ्गुलानि तु मण्डलान् मण्डलान्तरम् ॥ २०।१५ ॥
अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ।
चतुर्विंशत् समाख्यातं सङ्ख्यातत्त्वार्थदर्शिभिः ॥ २०।१६ ॥
कल्पितैर् मण्डलैर् एवम् उषितस्य शुचेर् अपि ।
सप्ताश्वत्थस्य पत्त्राणि सूत्रेणावेष्ट्य हस्तयोः ॥ २०।१७ ॥
विदध्यात् तप्तलोहस्य पञ्चाशत्पलम् सम्मितम् ।
हस्ताभ्यां पिण्डम् आदाय शनैः सप्तपदं व्रजेत् ॥ २०।१८ ॥
न मण्डलम् अतिक्रामेन् नाप्य् अर्वाक् पादयेत् पदम् ।
न च पातयेताप्राप्तः यावद्भूमिर् प्रकल्पिता ॥ २०।१९ ॥
तीर्त्वानेन विधानेन मण्डलानि समाहितः ।
अदग्धः सर्वतो यस् तु स विशुद्धो भवेन् नरः ॥ २०।२० ॥
भयाद् वा पातयते यस् त्व् अदग्धो यो विभाव्यते ।
पुनस् तं हारयेल् लोहं स्थितिर् एषा पुरातनी ।
अनेन विधिना कार्यो हुताशसमयः स्मृतः ॥ २०।२१ ॥
त्वम् अग्ने सर्वभूतानाम् अन्तश्चरसि साक्षिवत् ।
सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया ॥ २०।२२ ॥
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ।
यथावद् एव जानीषे न विदुर् यानि मानुषाः ॥ २०।२३ ॥
व्यवहाराभिशस्तो ऽयं पुरुषः शुद्धिम् इच्छति ।
तद् एनं संशयापन्नं धर्मतस् त्रातुम् अर्हसि ॥ २०।२४ ॥
अतः परं प्रवक्ष्यामि तोयस्य विधिम् उत्तमम् ।
नातिक्रूरेण धनुषा प्रेरयेत् सायकत्रयम् ॥ २०।२५ ॥

मध्यमस् तु शरो ग्राह्यः पुरुषेण यवीयसा ।
प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन् नरः ॥ २०।२६ ॥
अन्यथा न विशुद्धः स्याद् एकाङ्गम् अपि दर्शयेत् ।
स्थानाद् अन्यत्र वा गच्छेद् यस्मिन् पूर्वं निवेषितः ॥ २०।२७ ॥
स्त्रियस् तु न बलात् कार्या न पुमान् अपि दुर्बलः ।
भीरुत्वाद् योषितो मृत्युः कृशस्यापि बलात् कुर्यात् ।
सहसा प्राप्नुयात् सर्वांस् तस्माद् एतान् न मज्जयेत् ॥ २०।२८ ॥
तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः ॥ २०।२९ ॥
सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ ।
यतश् चाग्निर् अभूद् अस्मात् ततस् तोयं विशिष्यते ॥ २०।३० ॥
क्रियते धर्मतत्त्वज्ञैर् दूषितानां विशोधनम् ।
तस्मात् सत्येन भगवञ् जलेश त्रातुम् अर्हसि ॥ २०।३१ ॥
अतः परं प्रवक्ष्यामि विषस्य विधिम् उत्तमम् ।
तुलयित्वा विषं पूर्वं देयम् एतद् धिमागमे ॥ २०।३२ ॥

न पूर्वाह्णे न मध्याह्ने न सन्ध्यायां तु धर्मवित् ।
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् ॥ २०।३३ ॥
भग्नं च दारितं चैव धूपितं मिश्रितं तथा ।
कालकूटम् अलम्बुं च विषं यत्नेन वर्जयेत् ॥ २०।३४ ॥
शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् ।
महादोषवते देयं राज्ञा तत्त्वबुभुत्सया ॥ २०।३५ ॥
न बालातुरवृद्धेषु नैव स्वल्पापराधिषु ।
विषस्य तु यवान् सप्त दद्याच् छोद्ये घृतप्लुतान् ॥ २०।३६ ॥
विषस्य पलषड्भागाद् भागो विंशतिमस् तु यः ।
तम् अष्टभागहीनं तु शोध्ये दद्याद् घृतप्लुतम् ॥ २०।३७ ॥
यथोक्तेन विधानेन विप्रान् स्प्र्ष्ट्वानुमोदितः ।
सोपवासश् च खादेत देवब्राह्मणसन्निधौ ॥ २०।३८ ॥
विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।
विशुद्धम् इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् ॥ २०।३९ ॥
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः ।
शोधयैनं नरं पापात् सत्येनास्यामृतीभव ॥ २०।४० ॥
अतः परं प्रवक्ष्यामि कोशस्य विधिम् उत्तमम् ॥ २०।४१ ॥
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशूकस्याव्यसनिनः कोशपानं विधीयते ॥ २०।४२ ॥

यद्भक्तः सो ऽभियुक्तः स्यात् तद्दैवत्यं तु पाययेत् ।
सप्ताहाद् यस्य दृश्यते द्विसप्ताहेन वा पुनः ।
प्रत्यात्मिकं तु यत्किञ्चित् सैव तस्य विभावना ॥ २०।४३ ॥
द्विसप्ताहात् परं यस्य महद् वा वैकृतं भवेत् ।
नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् ॥ २०।४४ ॥
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् ॥ २०।४५ ॥
यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् ।
दद्याद् राजाभियुक्तानां प्रेत्य चेह च नन्दति ॥ २०।४६ ॥
न विषं ब्राह्मणे दद्यान् न लोहं क्षत्रियो हरेत् ।
न निमज्ज्याप्सु वैश्यश् च शूद्रः कोशं न पाययेत् ॥ २०।४७ ॥

वर्षासु न विषं दद्यात् हेमन्ते नाप्सु मज्जयेत् ।
न लोहं हारयेद् ग्रीष्मे न कोशं पाययेन् निशि ॥ २०।४८ ॥

नारदीयधर्मशास्त्रः समाप्तः।