द्विविधास् तस्करा ज्ञेयाः
परद्रव्यापहारिणः ।
प्रकाशाश् चाप्रकाशाश् च
तान् विद्याद् आत्मवान् नृपः ॥ १९।१ ॥
प्रकाशवञ्चकास् तत्र कूटमानतुलाश्रिताः ।
उत्कोटकाः साहसिकाः कितवाः पण्ययोषितः ॥ १९।२ ॥
प्रतिरूपकराश् चैव मङ्गलोद्देशवृत्तयः ।
इत्य् एवमादयो ज्ञेयाः प्रकाशलोकवञ्चकाः ॥ १९।३ ॥
अप्रकाशाश् च विज्ञेया बहिरभ्यन्तराश्रिताः ।
सुप्तान् प्रमत्तांश् च नरा मुष्णन्त्य् आक्रम्य चैव ते ॥ १९।४ ॥
देशग्रामगृहघ्नाश् च पथिघ्ना ग्रन्थिमोचकाः ।
इत्य् एवमादयो ज्ञेया अप्रकाशाश् च तस्कराः ॥ १९।५ ॥
तान् विदित्वा सुकुशलैश् चारैस् तत्कर्मकारिभिः ।
अनुसृत्य गृहीतव्या गूढप्रणिहितैर् नरैः ॥ १९।६ ॥
सभाप्रपापूपशाला- वेशमद्यान्नविक्रयाः ।
चतुष्पथाश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ १९।७ ॥
शून्यागाराण्य् अरण्यानि देवतायतनानि च ।
चारैर् विनेयान्य् एतानि चौरग्रहणतत्परैः ॥ १९।८ ॥
तथैवान्ये प्रणिहिताः श्रद्धेयाश् चित्रवादिनः ।
चरा ह्य् उत्साहयेयुस् तांस् तस्करान् पूर्वतस्कराः ॥ १९।९ ॥
अन्नपानसमादानैः समाजोत्सवदर्शनैः ।
तथा चौर्यापदेशैश् च कुर्युस् तेषां समागमम् ॥ १९।१० ॥
ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि ।
ते ऽभिसार्य गृहीतव्याः सपुत्रपशुबान्धवाः ॥ १९।११ ॥
यांस् तत्र चौरान् गृह्णीयात् तान् विताड्य विडम्ब्य च ।
अवघुष्य च सर्वत्र वध्याश् चित्रवधेन ते ॥ १९।१२ ॥
न त्व् अहोढान्विताश् चौरा राज्ञा वध्या ह्य् अनागमाः ।
सहोढान् सोपकरणान् क्षिप्रं चौरान् प्रशासयेत् ॥ १९।१३ ॥
स्वदेशघातिनो ये स्युस् तथा पन्थावरोधिनः ।
तेषां सर्वस्वम् आदाय भूयो निन्दां प्रकल्पयेत् ॥ १९।१४ ॥
अहोढान् विमृशेच् चौरान् गृहीतान् परिशङ्कया ।
भयोपधाभिश् चित्राभिर् ब्रूयुस् तथा यथाकृतम् ॥ १९।१५ ॥
देशं कालं दिशं जातिं नाम वा सम्प्रतिश्रयम् ।
कृत्यं कर्मकरा वा स्युः प्रष्टव्यास् ते विनिग्रहे ॥ १९।१६ ॥
वर्णस्वराकारभेदात् ससन्दिग्धनिवेदनात् ।
अदेशकालदृष्टत्वाद् वासस्याप्य् अविशोधनात् ॥ १९।१७ ॥
असद्व्ययात् पूर्वचौर्याद् असत्संसर्गकारणात् ।
लेशैर् अप्य् अवगन्तव्या न होढेनैव केवलम् ॥ १९।१८ ॥
दस्युवृत्ते यदि नरे शङ्का स्यात् तस्करे ऽपि वा ।
यदि स्पृश्येत लेशेन कार्यः स्याच् छपथः ततः ॥ १९।१९ ॥
चौराणां भक्तदा ये स्युस् तथाग्न्युदकदायकाः ।
आवासदा देशिकदास् तथैवोत्तरदायकाः ॥ १९।२० ॥
क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृता ह्य् एते ये च प्रच्छादयन्ति तान् ॥ १९।२१ ॥
राष्ट्रेषु राष्ट्राधिकृताः सामन्ताश् चैव चोदिताः ।
अभ्याघातेषु मध्यस्था यथा चौरास् तथैव ते ॥ १९।२२ ॥
गोचरे यस्य मुष्येत तेन चौराः प्रयत्नतः ।
मृग्या दाप्यो ऽन्यथा मोषं पदं यदि न निर्गतम् ॥ १९।२३ ॥
निर्गते तु पदे तस्मिन् नष्टे ऽन्यत्र निपातिते ।
सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥ १९।२४ ॥
गृहे वै मुषिते राजा चौरग्राहांस् तु दापयेत् ।
आरक्षकान् राष्ट्रिकांश् च यदि चौरो न लभ्यते ॥ १९।२५ ॥
यदि वा दाप्यमानानां तस्मिन् मोषे तु संशयः ।
मुषितः शपथं शाप्यो मोषे वैशोध्यकारणात् ॥ १९।२६ ॥
अचौरे दापिते मोषं चौर्यवैशोध्यकारणात् ।
चौरे लब्धे लभेयुस् ते द्विगुणं प्रतिपादिताः ॥ १९।२७ ॥
चौरहृतं प्रयत्नेन सरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्याद् दण्डं दाप्यश् च तत्समम् ॥ १९।२८ ॥
काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च ।
वेणुवैणवभाण्डानां वेत्रस्नाय्वस्थिचर्मणाम् ॥ १९।२९ ॥
शाकहरितमूलानां हरणे फलपुष्पयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ १९।३० ॥
पक्वान्नानां कृतान्नानां मद्यानाम् आमिषस्य च ।
सर्वेषाम् अल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥ १९।३१ ॥
तुलाधरिममेयानां गणिमानां च सर्वशः ।
एभ्यस् तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः ॥ १९।३२ ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
न्यूनं त्व् एकादशगुणं दण्डं दाप्यो ऽब्रवीन् मनुः ॥ १९।३३ ॥
सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।
रत्नानां चैव मुख्यानां शताद् अभ्यधिकं वधः ॥ १९।३४ ॥
पुरुषं हरतः पात्यो दण्ड उत्तमसाहसः ।
सर्वस्वं स्त्रीं तु हरतः कन्यां तु हरतो वधः ॥ १९।३५ ॥
महापशून् स्तेनयतो दण्ड उत्तमसाहसः ।
मध्यमो मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् ॥ १९।३६ ॥
चतुर्विंशावरः पूर्वः परः षण्णवतिर् भवेत् ।
शतानि पञ्च तु परो मध्यमो द्विशतावरः ॥ १९।३७ ॥
सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः ।
त्रिविधः साहसेष्व् एव दण्डः प्रोक्तः स्वयम्भुवा ॥ १९।३८ ॥
प्रथमे ग्रन्थिभेदानाम् अङ्गुल्यङ्गुष्ठयोर् वधः ।
द्वितीये चैव तच्छेषं दण्डः पूर्वश् च साहसः ॥ १९।३९ ॥
गोषु ब्राह्मणसंस्थासु स्थूरायाश् छेदनं भवेत् ।
दासीं तु हरतो नित्यम् अर्धपादविकर्तनम् ॥ १९।४० ॥
येन येन विशेषेण स्तेनाङ्गेन विचेष्टते ।
तत् तद् एवास्य छेत्तव्यं तन् मनोर् अनुशासनम् ॥ १९।४१ ॥
गरीयसि गरीयांसम् अगरीयसि वा पुनः ।
स्तेने निपातयेद् दण्डं न यथा प्रथमे तथा ॥ १९।४२ ॥
दश स्थानानि दण्डस्य मनुः स्वायम्भुवो ऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर् ब्राह्मणो रक्षितः सदा ॥ १९।४३ ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ १९।४४ ॥
अपराधं परिज्ञाय देशकालौ च तत्त्वतः ।
सारानुबन्धाव् आलोक्य दण्डान् एतान् प्रकल्पयेत् ॥ १९।४५ ॥
न मित्रकारणाद् राज्ञा विपुलाद् वा धनागमात् ।
उत्स्रष्टव्यः साहसिकस् त्यक्तात्मा मनुर् अब्रवीत् ॥ १९।४६ ॥
यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे ।
भवत्य् अधर्मो नृपतेर् धर्मस् तु विनियच्छतः ॥ १९।४७ ॥
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।
निर्वासं कारयेत् कामम् इति धर्मो व्यवस्थितः ॥ १९।४८ ॥
सर्वस्वं वा हरेद् राजा चतुर्थं वावशेषयेत् ।
भृत्येभ्यो ऽनुस्मरन् धर्मं प्राजापत्यम् इति स्थितिः ॥ १९।४९ ॥
ब्राह्मणस्यापराधे तु चतुःस्व् अङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥ १९।५० ॥
गुरुतल्पे भगः कार्यः सुरापाने ध्वजः स्मृतः ।
स्तेये तु श्वपदं कृत्वा शिखिपित्तेन कूटयेत् ॥ १९।५१ ॥
विशिराः पुरुषः कार्यो ललाटे भ्रूणघातिनः ।
असम्भाष्यश् च कर्तव्यस् तन् मनोर् अनुशासनम् ॥ १९।५२ ॥
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्स्तेयम् एवं कर्तास्मि शाधि माम् ॥ १९।५३ ॥
अनेना भवति स्तेनः स्वकर्मप्रतिपादनात् ।
राजानं तत् स्पृशेद् एन उत्सृजन्तं सकिल्बिषम् ॥ १९।५४ ॥
राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ १९।५५ ॥
शासनाद् वा विमोक्षाद् वा स्तेनो मुच्यते किल्बिषात् ।
अशासनात् तु तद् राजा स्तेनस्याप्नोति किल्बिषम् ॥ १९।५६ ॥
गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १९।५७ ॥
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
द्विर् अष्टापाद्यं वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ १९।५८ ॥
ब्राह्मणस्य चतुःषष्टीत्य् एवं स्वायम्भुवो ऽब्रवीत् ।
तत्रापि च विशेषेण विद्वत्स्व् अभ्यधिकं भवेत् ॥ १९।५९ ॥
शारीरश् चार्थदण्डश् च दण्डस् तु द्विविधः स्मृतः ।
शारीरा दशधा प्रोक्ता अर्थदण्डास् त्व् अनेकधा ॥ १९।६० ॥
काकण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ।
शारीरस् त्व् अवरोधादिर् जीवितान्तस् तथैव च ॥ १९।६१ ॥
काकण्यादिस् तु यो दण्डः स तु माषापरः स्मृतः ।
माषावराद्यो यः प्रोक्तः कार्षापणपरस् तु सः ॥ १९।६२ ॥
कार्षापणापराद्यस् तु चतुःकार्षापणः परः ।
द्व्यवरो ऽष्टापरश् चान्यस् त्र्यवरो द्वादशोत्तरः ॥ १९।६३ ॥
कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश् चतुर्गुणाः ।
एवम् अन्ये तु विज्ञेयाः प्राक् च ते पूर्वसाहसात् ॥ १९।६४ ॥
कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते ।
पणैर् निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥ १९।६५ ॥
माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागो माषस्य च पणस्य च ॥ १९।६६ ॥
पाञ्चनद्याः प्रदेशे तु सञ्ज्ञा या व्यावहारिकी ।
कार्षापणप्रमाणं तु निबद्धम् इह वै तया ॥ १९।६७ ॥
कार्षापणो ऽण्डिका ज्ञेयाश् चतस्रस् तास् तु धानकः ।
तद्द्वादश सुवर्णस्य दीनारश् चित्रकः स्मृतः ॥ १९।६८ ॥
वार्त्तां त्रयीं चाप्य् अथ दण्डनीतिम् राजानुवर्तेत् सन्तताप्रमत्तः ।
हन्याद् उपायैर् निपुणैर् गृहीतान् पुरे च राष्ट्रे निगृह्णीयात् पापान् ॥ १९।६९ ॥