१८ प्रकीर्णकम्

प्रकीर्णके पुनर् ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥ १८।१ ॥
पुरप्रदानं सम्भेदः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणी- गणधर्मविपर्ययाः ॥ १८।२ ॥
पितृपुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश् च कोप आश्रमिणाम् अपि ॥ १८।३ ॥
वर्णसङ्करदोषश् च तद्वृत्तिनियमस् तथा ।
न दृष्टं यच् च पूर्वेषु तत् सर्वं स्यात् प्रकीर्णके ॥ १८।४ ॥
राजा त्व् अवहितः सर्वान् आश्रमान् परिपालयेत् ।
उपायैः शास्त्रविहितैश् चतुर्भिः प्रकृतैस् तथा ॥ १८।५ ॥
यो यो वर्णो ऽवहीयेत यो वोद्रेकम् अनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥ १८।६ ॥
अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।
प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् ॥ १८।७ ॥
श्रुतिस्मृतिविरुद्धं च जनानाम् अहितं च यत् ।
न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥ १८।८ ॥
न्यायापेतं यद् अन्येन राज्ञाज्ञानकृतं च यत् ।
तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥ १८।९ ॥
राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
दण्ड्यः स पापो वध्यश् च लोपयन् राजशासनम् ॥ १८।१० ॥
आयुधान्य् आयुधीयानां वाह्यादीन् वाह्यजीविनाम् ।
वेश्यास्त्रीणाम् अलङ्कारं वाद्यातोद्यानि तद्विदाम् ॥ १८।११ ॥
यच् च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणे ऽप्य् एतान् न राजा हर्तुम् अर्हति ॥ १८।१२ ॥
अनादिश् चाप्य् अनन्तश् च द्विपदां पृथिवीपतिः ।
दीप्तिमत्वाच् छुचित्वाच् च यदि न स्यात् पथश् च्युतः ॥ १८।१३ ॥
यदि राजा न सर्वेषां वर्णानां दण्डधारणम् ।
कुर्यात् पथो व्यपेतानां विनश्येयुर् इमाः प्रजाः ॥ १८।१४ ॥
ब्राह्मण्यं ब्राह्मणो जह्यात् क्षत्रियः क्षात्रम् उत्सृजेत् ।
स्वकर्म जह्याद् वैश्यस् तु शूद्रः सर्वान् विशेषयेत् ॥ १८।१५ ॥
राजानश् चेन् नाभविष्यन् पृथिव्यां दण्डधारणम् ।
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ १८।१६ ॥
सताम् अनुग्रहो नित्यम् असतां निग्रहस् तथा ।
एष धर्मः स्मृतो राज्ञाम् अर्थश् चामित्रपीडनात् ॥ १८।१७ ॥
न लिप्यते यथा वह्निर् दहञ् छश्वद् इमाः प्रजाः ।
न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् ॥ १८।१८ ॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
ते यद् ब्रूयुर् असत् सद् वा स धर्मो व्यवहारिणाम् ॥ १८।१९ ॥
राजा नाम चरत्य् एष भूमौ साक्षात् सहस्रदृक् ।
न तस्याज्ञाम् अतिक्रम्य सन्तिष्ठेरन् प्रजाः क्वचित् ॥ १८।२० ॥
रक्षाधिकाराद् ईशत्वाद् भूतानुग्रहदर्शनात् ।
यद् एव राजा कुरुते तत् प्रमाणम् इति स्थितिः ॥ १८।२१ ॥
निर्गुणो ऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां विगुणो ऽप्य् एवं पूज्य एव नराधिपः ॥ १८।२२ ॥

तपःक्रीताः प्रजा राज्ञा प्रभुर् आसां ततो नृपः ।
ततस् तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥ १८।२३ ॥
पञ्च रूपाणि राजानो धारयन्त्य् अमितौजसः ।
अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च ॥ १८।२४ ॥
कारणाद् अनिमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस् तदाग्निर् अभिधीयते ॥ १८।२५ ॥
यदा तेजः समालम्ब्य विजिगीषुर् उदायुधः ।
अभियाति परान् राजा तदेन्द्रः स उदाहृतः ॥ १८।२६ ॥
विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्य् उच्यते तदा ॥ १८।२७ ॥
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतः यमः ॥ १८।२८ ॥

यदा त्व् अर्थिगुरुप्राज्ञ- भृत्यादीन् अवनीपतिः ।
अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ १८।२९ ॥
तस्मात् तं नावजानीयान् नाक्रोशेन् न विशेषयेत् ।
आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमात् ॥ १८।३० ॥
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणाम् आत्मनश् चाभिरक्षणम् ॥ १८।३१ ॥

ब्राह्मणान् उपसेवेत नित्यं राजा समाहितः ।
संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥ १८।३२ ॥
ब्राह्मणस्यापरीहारो राजन्यासनम् अग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेभ्यश् चाभिवादनम् ॥ १८।३३ ॥
अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।
भैक्षहेतोः परागारे प्रवेशस् त्व् अनिवारितः ॥ १८।३४ ॥
समित्पुष्पोदकादानेष्व् अस्तेयं सपरिग्रहात् ।
अनाक्षेपः परेभ्यश् च सम्भाषश् च परस्त्रिया ॥ १८।३५ ॥
नदीष्व् अवेतनस् तारः पूर्वम् उत्तरणं तथा ।
तरेष्व् अशुल्कदानं च न चेद् वाणिज्यम् अस्य तत् ॥ १८।३६ ॥
वर्तमानो ऽध्वनि श्रान्तो गृह्णन्न् अनिवसन् स्वयम् ।
ब्राह्मणो नापराध्नोति द्वाव् इक्षू पञ्च मूलकान् ॥ १८।३७ ॥
नाभिशस्तान् न पतितान् न द्विषो न च नास्तिकात् ।
न सोपधान् नानिमित्तं न दातारं प्रपीड्य च ॥ १८।३८ ॥

अर्थानां भूरिभावाच् च देयत्वाच् च महात्मनाम् ।
श्रेयान् प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणाद् ऋते ॥ १८।३९ ॥
ब्राह्मणश् चैव राजा च द्वाव् अप्य् एतौ धृतव्रतौ ।
नैतयोर् अन्तरं किञ्चित् प्रजाधर्माभिरक्षणात् ॥ १८।४० ॥
धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतो ऽशुचीन् ।
मेध्यम् एव धनं प्राहुस् तीक्ष्णस्यापि महीपतेः ॥ १८।४१ ॥
शुचीनाम् अशुचीनां च सन्निपातो यथाम्भसाम् ।
समुद्रे समतां याति तद्वद् राज्ञो धनागमः ॥ १८।४२ ॥
यथा चाग्नौ स्थितं दीप्ते शुद्धिम् आयाति काञ्चनम् ।
एवम् एवागमा सर्वे शुद्धिम् आयान्ति राजसु ॥ १८।४३ ॥
य एव कश्चित् स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति ।
तद् राज्ञाप्य् अनुमन्तव्यम् एष धर्मः सनातनः ॥ १८।४४ ॥

अन्यप्रकाराद् उचिताद् भूमेः षड्भागसञ्ज्ञितात् ।
बलिः स तस्य विहितः प्रजापालनवेतनम् ॥ १८।४५ ॥
शक्यं तत् पुनर् आदातुं यद् अब्राह्मणसात्कृतम् ।
ब्राह्मणाय तु यद् दत्तं न तस्य हरणं पुनः ॥ १८।४६ ॥
दानम् अध्ययनं यज्ञस् तस्य कर्म त्रिलक्षणम् ।
याजनाध्यापने वृत्तिस् तृतीयस् तु प्रतिग्रहः ॥ १८।४७ ॥
स्वकर्मणि द्विजस् तिष्ठेद् वृत्तिम् आहारयेत् कृताम् ।
नासद्भ्यः प्रतिगृह्णीयाद् वर्णेभ्यो नियमे ऽसति ॥ १८।४८ ॥
अशुचिर् वचनाद् यस्य शुचिर् भवति पुरुषः ।
शुचिश् चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ १८।४९ ॥
विदुर् य एव देवत्वं राज्ञो ह्य् अमिततेजसः ।
तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः ॥ १८।५० ॥
लोके ऽस्मिन् मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः ।
हिरण्यं सर्पिर् आदित्य आपो राजा तथाष्टमः ॥ १८।५१ ॥

एतानि सततं पश्येन् नमस्येद् अर्चयेच् च तान् ।
प्रदक्षिणं च कुर्वीत तथा ह्य् आयुर् न हीयते ॥ १८।५२ ॥

परिशिष्टम्