१७ द्यूतसमाह्वयम्

अक्षवर्ध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश् च पदं द्यूतसमाह्वयम् ॥ १७।१ ॥
सभिकः कारयेद् द्यूतं देयं दद्याच् च तत्कृतम् ।
दशकं तु शतं वृद्धिस् तस्य स्याद् द्यूतकारिता ॥ १७।२ ॥
द्विरभ्यस्ताः पतन्त्य् अक्षा ग्लहे यस्याक्षदेविनः ।
जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥ १७।३ ॥
कितवेष्व् एव तिष्ठेयुः कितवाः संशयं प्रति ।
त एव तस्य द्रष्टारः स्युस् त एव च साक्षिणः ॥ १७।४ ॥
अशुद्धः कितवो नान्यद् आश्रयेद् द्यूतमण्डलम् ।
प्रतिहन्यान् न सभिकं दापयेत् तत् स्वम् इष्टतः ॥ १७।५ ॥
कूटाक्षदेविनः पापान् निर्भजेद् द्यूतमण्डलात् ।
कण्ठे ऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥ १७।६ ॥