१५-१६ वाग्दण्डपारुष्ये

देशजातिकुलादीनाम् आक्रोशन्यङ्गसंहितम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥ १५१६।१ ॥
निष्ठुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् ।
गौरवानुक्रमाद् अस्य दण्डो ऽप्य् अत्र क्रमाद् गुरुः ॥ १५१६।२ ॥
साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् ।
पातनीयैर् उपक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥ १५१६।३ ॥
परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥ १५१६।४ ॥
तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमं क्रमात् ।
अवगूरणनिःसङ्ग- पातनक्षतदर्शनैः ॥ १५१६।५ ॥
हीनमध्योत्तमानां तु द्रव्याणाम् समतिक्रमात् ।
त्रीण्य् एव साहसान्य् आहुस् तत्र कण्टकशोधनम् ॥ १५१६।६ ॥
विधिः पञ्चविधस् तूक्त एतयोर् उभयोर् अपि ।
विशुद्धिर् दण्डभाक्त्वं च तत्र सम्बध्यते यथा ॥ १५१६।७ ॥
पारुष्ये सति संरम्भाद् उत्पन्ने क्षुब्धयोर् द्वयोः ।
स मन्यते यः क्षमते दण्डभाग् यो ऽतिवर्तते ॥ १५१६।८ ॥
पारुष्यदोषावृतयोर् युगपत् सम्प्रवृत्तयोः ।
विशेषश् चेन् न दृश्येत विनयः स्यात् समस् तयोः ॥ १५१६।९ ॥
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥ १५१६।१० ॥
द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः ।
स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वेतरः ॥ १५१६।११ ॥
श्वपाकपण्डचण्डाल- व्यङ्गेषु वधवृत्तिषु ।
हस्तिपव्रात्यदारेषु गुर्वाचार्याङ्गनासु च ॥ १५१६।१२ ॥
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ।
न च तद्दण्डपारुष्ये दोषम् आहुर् मनीषिणः ॥ १५१६।१३ ॥
यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु ।
स एव विनयं कुर्यान् न तद्विनयभाङ् नृपः ॥ १५१६।१४ ॥
मला ह्य् एते मनुष्येषु धनम् एषां मलात्मकम् ।
अपि तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ १५१६।१५ ॥

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽध्यर्धं शतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ १५१६।१६ ॥
विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ १५१६।१७ ॥
समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ १५१६।१८ ॥
काणम् अप्य् अथवा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो राज्ञा कार्षापणावरम् ॥ १५१६।१९ ॥
न किल्बिषेणापवदेच् छास्त्रतः कृतपावनम् ।
न राज्ञा धृतदण्डं च दण्डभाक् तद्व्यतिक्रमात् ॥ १५१६।२० ॥
लोके ऽस्मिन् द्वाव् अवक्तव्याव् अदण्ड्यौ च प्रकीर्तितौ ।
ब्राह्मणश् चैव राजा च तौ हीदं बिभृतो जगत् ॥ १५१६।२१ ॥
पतितं पतितेत्य् उक्त्वा चौरं चौरेति वा पुनः ।
वचनात् तुल्यदोषः स्यान् मिथ्या द्विर् दोषतां व्रजेत् ॥ १५१६।२२ ॥
नामजातिग्रहं तेषाम् अभिद्रोहेण कुर्वतः ।
निखेयो ऽयोमयः शङ्कुः शूद्रस्याष्टादशाङ्गुलः ॥ १५१६।२३ ॥
धर्मापदेशं दर्पेण द्विजानाम् अस्य कुर्वतः ।
तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ १५१६।२४ ॥
येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तद् अङ्गं तस्य छेत्तव्यम् एवं शुद्धिम् अवाप्नुयात् ॥ १५१६।२५ ॥
सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यावकृष्टजः ।
कट्यां कृटाङ्को निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ॥ १५१६।२६ ॥
अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतः शिश्नम् अवशर्धयतो गुदम् ॥ १५१६।२७ ॥
केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् ।
पादयोर् नासिकायां च ग्रीवायां वृषणेषु च ॥ १५१६।२८ ॥
उपक्रुश्य तु राजानं वर्त्मनि स्वे व्यवस्थितम् ।
जिह्वाछेदाद् भवेच् छुद्धिः सर्वस्वहरणेन वा ॥ १५१६।२९ ॥
राजनि प्रहरेद् यस् तु कृतागस्य् अपि दुर्मतिः ।
शूले तम् अग्नौ विपचेद् ब्रह्महत्याशताधिकम् ॥ १५१६।३० ॥
पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् ।
न मर्कटे च तत्स्वामी तैर् एव प्रहितो न चेत् ॥ १५१६।३१ ॥