सहसा क्रियते कर्म यत्किञ्चिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ १४।१ ॥
तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ १४।२ ॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ १४।३ ॥
वासःपश्वन्नपानानाम् गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥ १४।४ ॥
व्यापादो विषशस्त्राद् यैः परदारप्रधर्षणम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥ १४।५ ॥
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर् ज्ञेयः पञ्चशतावरः ॥ १४।६ ॥
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥ १४।७ ॥
अविशेषेण सर्वेषाम् एष दण्डविधिः स्मृतः ।
वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥ १४।८ ॥
शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥ १४।९ ॥
स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः ।
धृतदण्डो ऽप्य् असम्भोज्यो ज्ञेय उत्तमसाहसे ॥ १४।१० ॥
तस्यैव भेदः स्तेयं स्याद् विशेषस् तत्र चोच्यते ।
अतिसाहसम् आक्रम्य स्तेयम् आहुश् छलेन तु ॥ १४।११ ॥
तद् अपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः ।
क्षुद्रमध्योत्तमानां तु द्रव्याणाम् अपकर्षणात् ॥ १४।१२ ॥
मृद्भाण्डासनखट्वास्थि- दारुचर्मतृणादि यत् ।
शमीधान्यमुद्गादीनि क्षुद्रद्रव्यम् उदाहृतम् ॥ १४।१३ ॥
वासः कौशेयवर्जं च गोवर्जं पशवस् तथा ।
हिरण्यवर्जं लोहं च मध्यं व्रीहियवा अपि ॥ १४।१४ ॥
हिरण्यरत्नकौशेय- स्त्रीपुङ्गोगजवाजिनः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयम् उत्तमम् ॥ १४।१५ ॥
उपायैर् विविधैर् एषां छलयित्वापकर्षणम् ।
सुप्तप्रमत्तमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥ १४।१६ ॥
सहोढग्रहणात् स्तेयं होढे ऽसत्य् उपभोगतः ।
शङ्का त्व् असज्जनैकार्थ्याद् अनायव्ययतस् तथा ॥ १४।१७ ॥
भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् ।
शक्ताश् च य उपेक्षन्ते ते ऽपि तद्दोषभागिनः ॥ १४।१८ ॥
उत्क्रोशतां जनानां च ह्रियमाणे धने ऽपि च ।
श्रुत्वा ये नाभिधावन्ति ते ऽपि तद्दोषभागिनः ॥ १४।१९ ॥
साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ १४।२० ॥
गवादिषु प्रणष्टेषु द्रव्येष्व् अपहृतेषु वा ।
पदेनान्वेषणं कुर्युर् आ मूलात् तद्विदो जनाः ॥ १४।२१ ॥
ग्रामे व्रजे विवीते वा यत्र सन्निपतेत् पदम् ।
वोढव्यं तद् भवेत् तेन न चेत् सो ऽन्यत्र तन् नयेत् ॥ १४।२२ ॥
पदे प्रमूढे भग्ने वा विषमत्वाज् जनान्तिके ।
यस् त्व् आसन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥ १४।२३ ॥
समे ऽध्वनि द्वयोर् यत्र तेन प्रायो ऽशुचिर् जनः ।
पूर्वापदानैर् दृष्टो वा संसृष्टो वा दुरात्मभिः ॥ १४।२४ ॥
ग्रामेष्व् अन्वेषणं कुर्युश् चण्डालवधकादयः ।
रात्रिसञ्चारिणो ये च बहिः कुर्युर् बहिश्चराः ॥ १४।२५ ॥
स्तेनेष्व् अलभ्यमानेषु राजा दद्यात् स्वकाद् धनात् ।
उपेक्षमाणो ह्य् एनस्वी धर्माद् अर्थाच् च हीयते ॥ १४।२६ ॥