विभागो ऽर्थस्य पित्र्यस्य पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद् विवादपदं बुधैः ॥ १३।१ ॥
पितर्य् ऊर्ध्वं मृते पुत्रा विभजेयुर् धनं पितुः ।
मातुर् दुहितरो ऽभावे दुहितारं तदन्वयः ॥ १३।२ ॥
मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निरष्टे वाप्य् अमरणे पितर्य् उपरतस्पृहे ॥ १३।३ ॥
पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः ।
ज्येष्ठं श्रेष्ठविभागेन यथा वास्य मतिर् भवेत् ॥ १३।४ ॥
बिभृयाद् वेच्छतः सर्वाञ् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षः कुले क्रिया ॥ १३।५ ॥
शौर्यभार्याधने हित्वा यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥ १३।६ ॥
मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् ।
तस्याप्य् एष विधिर् दृष्टो मातापीष्टे यथा पिता ॥ १३।७ ॥
अध्यग्न्यध्यावहनिकं भर्तृदायस् तथैव च ।
भ्रातृमातृपितृभ्यश् च षड्विधं स्त्रीधनं स्मृतम् ॥ १३।८ ॥
स्त्रीधनं तदपत्यानां भर्तृगाम्य् अप्रजासु च ।
ब्राह्मादिषु चतुःष्व् आहुः पितृगामीतरेषु तु ॥ १३।९ ॥
कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥ १३।१० ॥
वैद्यो ऽवैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।
पितृद्रव्यं तद् आश्रित्य न चेत् तेन तद् आहृतम् ॥ १३।११ ॥
द्वाव् आंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ।
समांशभागिनी माता पुत्राणां स्यान् मृते पतौ ॥ १३।१२ ॥
ज्येष्ठायांशो ऽधिको देयः ज्येष्ठाय तु वरः स्मृतः ।
समांशभाजः शेषाः स्युर् अप्रत्ता भगिनी तथा ॥ १३।१३ ॥
क्षेत्रजेष्व् अपि पुत्रेषु तद्वज् जातेषु धर्मतः ।
वर्णावरेष्व् अंशहानिर् ऊढाजातेष्व् अनुक्रमात् ॥ १३।१४ ॥
पित्रैव तु विभक्ता ये हीनाधिकसमैर् धनैः ।
तेषां स एव धर्मः स्यात् सर्वस्य हि पिता प्रभुः ॥ १३।१५ ॥
कानीनश् च सहोढश् च गूढायां यश् च जायते ।
तेषां वोढापिता ज्ञेयस् ते च भागहराः स्मृताः ॥ १३।१६ ॥
अज्ञातपितृको यश् च कानीनो ऽनूढमातृकः ।
मातामहाय दद्यात् स पिण्डं रिक्थं हरेत च ॥ १३।१७ ॥
जाता ये त्व् अनियुक्तायाम् एकेन बहुभिस् तथा ।
अरिक्थभाजस् ते सर्वे बीजिनाम् एव ते सुताः ॥ १३।१८ ॥
दद्युस् ते बीजिने पिण्डं माता चेच् छुल्कतो हृता ।
अशुल्कोपगतायां तु पिण्डदा वोढुर् एव ते ॥ १३।१९ ॥
पितृद्विट् पतितः पण्डो यश् च स्याद् औपपातिकः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजाः कुतः ॥ १३।२० ॥
दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः ।
भर्तव्याः स्युः कुले चैते तत्पुत्रास् त्व् अंशभागिनः ॥ १३।२१ ॥
द्विरामुष्यायणा दद्युर् द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थाद् अर्धांशम् आदद्युर् बीजिक्षेत्रिकयोस् तथा ॥ १३।२२ ॥
संसृष्टिनां तु यो भागस् तेषाम् एव स इष्यते ।
अतो ऽन्यथांशभाजो हि निर्बीजिष्व् इतरान् इयात् ॥ १३।२३ ॥
भ्राताम् अप्रजः प्रेयात् कश्चिच् चेत् प्रव्रजेत् तु वा ।
विभजेयुर् धनं तस्य शेषास् तु स्त्रीधनं विना ॥ १३।२४ ॥
भरणम् चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्द्युर् इतरासु तु ॥ १३।२५ ॥
स्याद् यस्य दुहिता तस्याः पित्रंशो भरणे मतः ।
आ संस्काराद् भजेद् एनां परतो बिभृयात् पतिः ॥ १३।२६ ॥
मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥ १३।२७ ॥
परिक्षीणे पतिकुले निर्मणुष्ये निराश्रये ।
तत्सपिण्डेषु वासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥ १३।२८ ॥
पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।
स तस्या भरणं कुर्यान् निगृह्णीयात् पथश् च्युताम् ॥ १३।२९ ॥
स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।
अस्वातन्त्र्यम् अतस् तासां प्रजापतिर् अकल्पयत् ॥ १३।३० ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रा रक्षन्ति वैधव्ये न स्त्री स्वातन्त्र्यम् अर्हति ॥ १३।३१ ॥
यच् छिष्टं पितृदायेभ्यो दत्त्व र्णं पैतृकं च यत् ।
भ्रातृभिस् तद् विभक्तव्यम् ऋणी न स्याद् यथा पिता ॥ १३।३२ ॥
येषां च न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस् तेषां पैतृकाद् एव ते धनात् ॥ १३।३३ ॥
अविद्यमाने पित्र्ये ऽर्थे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातरं पूर्वसंस्कृतैः ॥ १३।३४ ॥
कुटुम्बार्थेषु चोद्युक्तस् तत्कार्यं कुरुते च यः ।
स भ्रातृभिर् बृंहणीयो ग्रासाछादनवाहनैः ॥ १३।३५ ॥
विभागधर्मसन्देहे दायादानां विनिर्णये ।
ज्ञातिभिर् भागलेख्यैश् च पृथक्कार्यप्रवर्तनात् ॥ १३।३६ ॥
भ्राताम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेद् एषां पृथक् पृथक् ॥ १३।३७ ॥
दानग्रहणपश्वन्न- गृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः ॥ १३।३८ ॥
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कूर्युर् नाविभक्ता परस्परम् ॥ १३।३९ ॥
येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् ।
विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥ १३।४० ॥
यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न ते कृत्येषु सम्मताः ॥ १३।४१ ॥
स्वान् भागान् यदि दद्युस् ते विक्रीणीरन्न् अथापि वा ।
कुर्युर् यथेष्टं तत् सर्वम् ईशन्ते स्वधनस्य ते ॥ १३।४२ ॥
औरसः क्षेत्रजश् चैव पुत्रिकापुत्र एव च ।
कानीनश् च सहोढश् च गूढोत्पन्नस् तथैव च ॥ १३।४३ ॥
पौनर्भवो ऽपविद्धश् च लब्धः क्रीतः कृतस् तथा ।
स्वयं चोपगतः पुत्रा द्वादशैत उदाहृताः ॥ १३।४४ ॥
तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः ।
पूर्वः पूर्वः स्मृतः श्रेयाज् जघन्यो यो य उत्तरः ॥ १३।४५ ॥
क्रमाद् ध्य् एते प्रपद्येरन् मृते पितरि तद्धनम् ।
ज्यायसो ज्यायसो ऽभावे जघन्यस् तद् अवाप्नुयात् ॥ १३।४६ ॥
पुत्राभावे तु दुहिता तुल्यसन्तानदर्शनात् ।
पुत्रश् च दुहिता चोक्तौ पितुः सन्तानकारकौ ॥ १३।४७ ॥
अभावे तु दुहितॄणां सकुल्या बान्धवास् ततः ।
ततः सजात्याः सर्वेषाम् अभावे राजगामि तत् ॥ १३।४८ ॥
अन्यत्र ब्राह्मणात् किन्तु राजा धर्मपरायणः ।
स स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ १३।४९ ॥