विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगनामैतद् विवादपदम् उच्यते ॥ १२।१ ॥
स्त्रीपुंसयोस् तु सम्बन्धाद् वरणं प्राग् विधीयते ।
वरणाद् ग्रहणं पाणेः संस्कारो ऽथ द्विलक्षणः ॥ १२।२ ॥
तयोर् अनियतं प्रोक्तं वरणं दोषदर्शनात् ।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥ १२।३ ॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।
स्वजात्या श्रेयसी भार्या स्वजात्यश् च पतिः स्त्रियाः ॥ १२।४ ॥
ब्राह्मणस्यानुलोम्येन स्त्रियो ऽन्यास् तिस्र एव तु ।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस् त्रयः ॥ १२।५ ॥
द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।
वैश्याया द्वौ पती ज्ञेयाव् एको ऽन्यः क्षत्रियापतिः ॥ १२।६ ॥
आ सप्तमात् पञ्चमाद् वा बन्धुभ्यः पितृमातृताः ।
अविवाह्याः सगोत्राः स्युः समानप्रवरास् तथा ॥ १२।७ ॥
परीक्ष्यः पुरुषः पुंस्त्वे निजैर् एवाङ्गलक्षणैः ।
पुमांश् चेद् अविकल्पेन स कन्यां लब्धुम् अर्हति ॥ १२।८ ॥
सुबद्धजत्रुजान्वस्थिः सुबद्धांसशिरोधरः ।
स्थूलघाटस् तनूरुत्वग् अविलग्नगतिस्वरः ॥ १२।९ ॥
विट् चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् ।
पुमान् स्यांल् लक्षणैर् एतैर् विपरीतैस् तु पण्डकः ॥ १२।१० ॥
चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः ।
चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥ १२।११ ॥
निसर्गपण्डो वध्रिश् च पक्षपण्डस् तथैव च ।
अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ॥ १२।१२ ॥
ईर्ष्यापण्डश् च सेव्यश् च वातरेता मुखेभगः ।
आक्षिप्तो मोघबीजश् च शालीनो ऽन्यपतिस् तथा ॥ १२।१३ ॥
तत्राद्याव् अप्रतीकरौ पक्षाख्यो मासम् आचरेत् ।
अनुक्रमात् त्रयस्यास्य कालः संवत्सरः स्मृतः ॥ १२।१४ ॥
ईर्ष्यापण्डादयो ये ऽन्ये चत्वारः समुदाहृताः ।
सन्त्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः ॥ १२।१५ ॥
आक्षिप्तमोघबीजाभ्याम् पत्याव् अप्रतिकर्मणि ।
पतिर् अन्यः स्मृतो नार्या वत्सरं सम्प्रतीक्ष्य तु ॥ १२।१६ ॥
शालीनस्यापि धृष्टस्त्री- संयोगाद् भज्यते ध्वजः ।
तं हीनवेगम् अन्यस्त्री- बालाद्याभिर् उपक्रमेत् ॥ १२।१७ ॥
अन्यस्याम् यो मनुष्यः स्याद् अमनुष्यः स्वयोषिति ।
लभेत सान्यं भर्तारम् एतत् कार्यं प्रजापतेः ॥ १२।१८ ॥
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥ १२।१९ ॥
पिता दद्यात् स्वयं कन्याम् भ्राता वानुमते पितुः ।
मातामहो मातुलश् च सकुल्या बान्धवास् तथा ॥ १२।२० ॥
माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते ।
तस्याम् अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥ १२।२१ ॥
यदा तु नैव कश्चित् स्यात् कन्या राजानम् आव्रजेत् ।
अनुज्ञया तस्य वरं प्रतीत्य वरयेत् स्वयम् ॥ १२।२२ ॥
सवर्णम् अनुरूपं च कुलरूपवयःश्रुतैः ।
सह धर्मं चरेत् तेन पुत्रांश् चोत्पादयेत् ततः ॥ १२।२३ ॥
प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् ।
त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥ १२।२४ ॥
कन्या नर्तुम् उपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चेन् न दद्युस् तां भर्त्रे ते स्युर् भ्रूणहभिः समाः ॥ १२।२५ ॥
यावन्तश् च र्तवस् तस्याः समतीता पतिं विना ।
तावत्यो भ्रूणहत्याः स्युस् तस्य यो न ददाति ताम् ॥ १२।२६ ॥
अतो ऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् ।
महद् एनः स्पृशेद् एनम् अन्यथैष विधिः सताम् ॥ १२।२७ ॥
सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् ॥ १२।२८ ॥
ब्राह्मादिषु विवाहेषु पञ्चस्व् एषु विधिः स्मृतः ।
गुणापेक्षं भवेद् दानम् आसुरादिषु च त्रिषु ॥ १२।२९ ॥
कन्यायाम् प्राप्तशुल्कायां ज्यायांश् चेद् वर आव्रजेत् ।
धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥ १२।३० ॥
नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् ।
दोषे तु सति नागः स्याद् अन्योन्यं त्यजतोस् तयोः ॥ १२।३१ ॥
दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश् चेद् वरो राज्ञा स दण्ड्यस् तत्र चोरवत् ॥ १२।३२ ॥
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥ १२।३३ ॥
अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः ।
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥ १२।३४ ॥
प्रतिगृह्य तु यः कन्याम् अदुष्टाम् उत्सृजेद् वरः ।
विनेयः सो ऽप्य् अकामो ऽपि कन्यां ताम् एव चोद्वहेत् ॥ १२।३५ ॥
दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना ।
धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ १२।३६ ॥
उन्मत्तः पतितः क्लीबो दुर्भगस् त्यक्तबान्धवः ।
कन्यादोषौ च यौ पूर्वौ एष दोषगणो वरे ॥ १२।३७ ॥
अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।
ब्राह्मस् तु प्रथमस् तेषां प्राजापत्यस् तथैव च ॥ १२।३८ ॥
आर्षश् चैवाथ दैवश् च गान्धर्वश् चासुरस् तथा ।
राक्षसो ऽनन्तरस् तस्मात् पैशाचस् त्व् अष्टमः स्मृतः ॥ १२।३९ ॥
सत्कृत्याहूय कन्यां तु ब्राह्मे दद्याद् त्व् अलङ्कृताम् ।
सह धर्मं चरेत्य् उक्त्वा प्राजापत्यो विधीयते ॥ १२।४० ॥
वस्त्रगोमिथुने दत्त्वा विवाहस् त्व् आर्ष उच्यते ।
अन्तर्वेद्यां तु दैवः स्याद् ऋत्विजे कर्म कुर्वते ॥ १२।४१ ॥
इच्छन्तीम् इच्छते प्राहुर् गान्धर्वो नाम पञ्चमम् ।
विवाहस् त्व् आसुरो ज्ञेयः शुल्कसंव्यवहारतः ॥ १२।४२ ॥
प्रसह्य हरणाद् उक्तो विवाहो राक्षसस् तथा ।
सुप्तमत्तोपगमनात् पैशाचस् त्व् अष्टमो ऽधमः ॥ १२।४३ ॥
एषां तु धर्म्यास् चत्वारो ब्राह्माद्याः समुदाहृताः ।
साधारणः स्याद् गान्धर्वस् त्रयो ऽधर्म्यास् त्व् अतः परे ॥ १२।४४ ॥
परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ १२।४५ ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा सोक्ता पुनः संस्कारम् अर्हति ॥ १२।४६ ॥
कौमारं पतिम् उत्सृज्य यान्यं पुरुषम् आश्रिता ।
पुनः पत्युर् गृहम् यायात् सा द्वितीया प्रकीर्तिता ॥ १२।४७ ॥
असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥ १२।४८ ॥
स्त्री प्रसूताप्रसूता वा पत्याव् एव तु जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥ १२।४९ ॥
मृते भर्तरि या प्राप्तान् देवरान् अप्य् अपास्य तु ।
उपगच्छेत् परं कामात् सा द्वितीया प्रकीर्तिता ॥ १२।५० ॥
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहम् इत्य् उपगता सा तृतीया प्रकीर्तिता ॥ १२।५१ ॥
देशधर्मान् अपेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सान्त्या वै स्वैरिणी स्मृता ॥ १२।५२ ॥
पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः ।
पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा ॥ १२।५३ ॥
अपत्यम् उत्पादयितुस् तासां या शुल्कतो हृता ।
अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत् फलम् ॥ १२।५४ ॥
क्षेत्रिकस्य यद् अज्ञातं क्षेत्रे बीजं प्रदीयते ।
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥ १२।५५ ॥
ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति ।
फलभुग् यस्य तत् क्षेत्रं न बीजी फलभाग् भवेत् ॥ १२।५६ ॥
महोक्षो जनयेद् वत्सान् यस्य गोषु व्रजे चरन् ।
तस्य ते यस्य ता गावो मोघं स्यन्दितम् आर्षभम् ॥ १२।५७ ॥
क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते ।
तदपत्यं द्वयोर् एव बीजिक्षेत्रिकयोर् मतम् ॥ १२।५८ ॥
नर्ते क्षेत्रं भवेत् सस्यं न च बीजं विनास्ति तत् ।
अतो ऽपत्यं द्वयोर् इष्टं पितुर् मातुश् च धर्मतः ॥ १२।५९ ॥
नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह ।
दृष्टं सङ्ग्रहणं तज्ज्ञैर् नागतायाः स्वयं गृहे ॥ १२।६० ॥
प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च ।
स्वेच्छयोपेयुषो दारान् न दोषः साहसो भवेत् ॥ १२।६१ ॥
परस्त्रिया सहाकाले ऽदेशे वा भवतो मिथः ।
स्थानसम्भाषणामोदास् त्रयः सङ्ग्रहणक्रमाः ॥ १२।६२ ॥
नदीनां सङ्गमे तीर्थेष्व् आरामेषु वनेषु च ।
स्त्री पुमांश् च समेयातां ग्राह्यं सङ्ग्रहणं भवेत् ॥ १२।६३ ॥
दूतीप्रस्थापनैश् चैव लेखासम्प्रेषणैर् अपि ।
अन्यैर् अपि व्यभिचारैः सर्वं सङ्ग्रहणं स्मृतम् ॥ १२।६४ ॥
स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्शयेत् तथा ।
परस्परस्यानुमते तच् च सङ्ग्रहणं भवेत् ॥ १२।६५ ॥
भक्षैर् वा यदि वा भोज्यैर् वस्त्रैर् माल्यैस् तथैव च ।
सम्प्रेष्यमानैर् गन्धैश् च सर्वं सङ्ग्रहणं स्मृतम् ॥ १२।६६ ॥
दर्पाद् वा यदि वा मोहाच् छ्लाघया वा स्वयं वदेत् ।
ममेयं भुक्तपूर्वेति सर्वं सङ्ग्रहणं स्मृतम् ॥ १२।६७ ॥
पाणौ यश् च निगृह्णीयद् वेण्यां वस्त्रान्तरे ऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रुयात् सर्वं सङ्ग्रहणं स्मृतम् ॥ १२।६८ ॥
स्वजात्यतिक्रमे पुंसां उक्तम् उत्तमसाहसम् ।
विपर्यये मध्यमस् तु प्रातिलोमे प्रमापणम् ॥ १२।६९ ॥
कन्यायाम् असकामायां द्व्याङ्गुलस्यावकर्तनम् ।
उत्तमायां वधस् त्व् एव सर्वस्वहरणं तथा ॥ १२।७० ॥
सकामायां तु कन्यायां सवर्णे नास्त्य् अतिक्रमः ।
किन्त्व् अलङ्कृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥ १२।७१ ॥
माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ १२।७२ ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ १२।७३ ॥
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनं दण्डो नान्यस् तत्र विधीयते ॥ १२।७४ ॥
पशुयोन्याम् अतिक्रामन् विनेयः स दमं शतम् ।
मध्यमं साहसं गोषु तद् एवान्त्यावसायिषु ॥ १२।७५ ॥
अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः ।
प्रायश्चित्तविधाव् अत्र प्रायश्चित्तं विशोधनम् ॥ १२।७६ ॥
स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥ १२।७७ ॥
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्या अपि हि नोपेयास् ताश् चेद् अन्यपरिग्रहाः ॥ १२।७८ ॥
अनुत्पन्नप्रजायास् तु पतिः प्रेयाद् यदि स्त्रियाः ।
नियुक्ता गुरुभिर् गच्छेद् देवरं पुत्रकाम्यया ॥ १२।७९ ॥
स च तां प्रतिपद्येत तथैवा पुत्रजन्मतः ।
पुत्रे जाते निवर्तेत विप्लवः स्याद् अतो ऽन्यथा ॥ १२।८० ॥
घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा ।
मुखान् मुखं परिहरन् गात्रैर् गात्राण्य् असंस्पृशन् ॥ १२।८१ ॥
स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्काम् अनिच्छन्तीम् ।
न गच्छेद् गर्भिणीं निन्द्याम् अनियुक्तां च बन्धुभिः ॥ १२।८२ ॥
अनियुक्ता तु या नारी देवराज् जनयेत् सुतम् ।
जारजातम् अरिक्थीयं तम् आहुर् धर्मवादिनः ॥ १२।८३ ॥
तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् ।
यवीयसो वा यो ज्यायान् उभौ तौ गुरुतल्पगौ ॥ १२।८४ ॥
कुले तदवशेषे तु सन्तानार्थं न कामतः ।
नियुक्तो गुरुभिर् गच्छेद् भ्रातृभार्यां यवीयसः ॥ १२।८५ ॥
अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः ।
ततस् तद्वचनाद् गच्छेद् अनुशिष्य स्त्रिया सह ॥ १२।८६ ॥
पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः ।
सकृद् आ गर्भाधानाद् वा कृते गर्भे स्नुषैव सा ॥ १२।८७ ॥
अतो ऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः ।
विनेयौ सुभृशं राज्ञा किल्बिषी स्याद् अनिग्रहात् ॥ १२।८८ ॥
ईर्ष्यासूयसमुत्थे तु संरम्भे रागहेतुके ।
दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥ १२।८९ ॥
अन्योन्यं त्यजतोर् नागः स्याद् अन्योन्यविरुद्धयोः ।
स्त्रीपुंसयोर् निगूढाया व्यभिचाराद् ऋते स्त्रियाः ॥ १२।९० ॥
व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च ।
कदन्नं वा कुवासश् च कर्म चावस्करोञ्झनम् ॥ १२।९१ ॥
स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा ।
भर्तुश् च वधम् इच्छन्तीं स्त्रियं निर्वासयेद् गृहात् ॥ १२।९२ ॥
अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
पूर्वाशिनीं च या भर्तुः स्त्रियं निर्वासयेद् बुधः ॥ १२।९३ ॥
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा ।
कामतो नाभिनन्देत कुर्वन्न् एवं स दोषभाक् ॥ १२।९४ ॥
अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ १२।९५ ॥
अज्ञातदोषेणोढा या निर्गता नान्यम् आश्रिता ।
बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयम् आश्रयेत् ॥ १२।९६ ॥
नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥ १२।९७ ॥
अष्टौ वर्षाण्य् उदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।
अप्रसूता तु चत्वारि परतो ऽन्यं समाश्रयेत् ॥ १२।९८ ॥
क्षत्रिया षट् समास् तिष्ठेद् अप्रसूता समात्रयम् ।
वैश्या प्रसूता चत्वारि द्वे समे त्व् इतरा वसेत् ॥ १२।९९ ॥
न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।
विशेषतो ऽप्रसूतायाः संवत्सरपरा स्थितिः ॥ १२।१०० ॥
अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् ।
जीवति श्रूयमाणे तु स्याद् एष द्विगुणो विधिः ॥ १२।१०१ ॥
प्रजाप्रवृत्तौ भूतानां सृष्टिर् एषा प्रजापतेः ।
अतो ऽन्यगमने स्त्रीणाम् एवं दोषो न विद्यते ॥ १२।१०२ ॥
आनुलोम्येन वर्णानां यज् जन्म स विधिः स्मृतः ।
प्रातिलोम्येन यज् जन्म स ज्ञेयो वर्णसङ्करः ॥ १२।१०३ ॥
अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस् तथा ।
द्व्यन्तरश् चानुलोम्येन तथैव प्रतिलोमतः ॥ १२।१०४ ॥
उग्रः पारशवश् चैव निषादश् चानुलोमतः ।
उत्तमेभ्यस् त्रयस् त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥ १२।१०५ ॥
ब्राह्मण्या अपि चाण्डाल- सूतवैदेहका अपि ।
अपरेभ्यस् त्रयस् त्रिभ्या विज्ञेयः प्रतिलोमतः ॥ १२।१०६ ॥
अम्बष्ठो मागधश् चैव क्षत्ता च क्षत्रियासुताः ।
आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः ॥ १२।१०७ ॥
वैश्यापुत्रास् तु दौष्षन्त- यवनायोगवा अपि ।
प्रातिलोम्येन यत्रैको द्वौ ज्ञेयौ चानुलोमजौ ॥ १२।१०८ ॥
सूताद्याः प्रतिलोमास् तु ये जातिप्रतिलोमजाः ।
ते सङ्कराः श्वपाकाद्यास् तेषां त्रिः सप्तको गणः ॥ १२।१०९ ॥
सवर्णो ब्राह्मणीपुत्रः क्षत्रियायाम् अनन्तरः ।
अम्बष्ठोग्रौ तथा पुत्राव् एवं क्षत्रियवैश्ययोः ॥ १२।११० ॥
एकान्तरस् तु दौष्षन्तो वैश्यायां ब्राह्मणात् सुतः ।
शूद्रायां क्षत्रियात् तद्वन् निषादो नाम जायते ॥ १२।१११ ॥
शूद्रा पारशवं सूते ब्राह्मणाद् उत्तरं सुतम् ।
आनुलोम्येन वर्णानां पुत्रा ह्य् एते प्रकीर्तिताः ॥ १२।११२ ॥
सूतश् च मागधश् चैव पुत्राव् आयोगवस् तथा ।
प्रातिलोम्येन वर्णानां तद्वद् एते ऽप्य् अनन्तराः ॥ १२।११३ ॥
अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात् सुतः ।
मागधायोगवौ तद्वद् द्वी पुत्रौ वैश्यशूद्रयोः ॥ १२।११४ ॥
ब्राह्मण्य् एकान्तरं वैश्यात् सूते वैदेहकं सुतम् ।
क्षत्तारं क्षत्रिया शूद्रात् पुत्रम् एकान्तरं तथा ॥ १२।११५ ॥
द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति सङ्करे ।
चाण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥ १२।११६ ॥
राज्ञा परीक्ष्यं न यथा जायते वर्णसङ्करः ।
तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु सङ्करात् ॥ १२।११७ ॥