११ क्षेत्रजविवादः

सेतुकेदारमर्यादा- विकृष्टाकृष्टनिश्चयाः ।
क्षेत्राधिकारा यत्र स्युर् विवादः क्षेत्रजस् तु सः ॥ ११।१ ॥
क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥ ११।२ ॥
ग्रामसीमासु च बहिर् ये स्युस् तत्कृषिजीविनः ।
गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥ ११।३ ॥
समुन्नयेयुस् ते सीमां लक्षणैर् उपलक्षिताम् ।
तुषाङ्गारकपालैश् च कुम्भैर् आयतनैर् द्रुमैः ॥ ११।४ ॥
अभिज्ञातैश् च वल्मीक- स्थलनिम्नोन्नतादिभिः ।
केदाराराममार्गैश् च पुराणैः सेतुभिस् तथा ॥ ११।५ ॥
निम्नगापहृतोत्सृष्ट- नष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच् च प्रमाणैर् भोगदर्शनैः ॥ ११।६ ॥
अथ चेद् अनृतं ब्रूयुः सामन्तास् तद्विनिश्चये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ ११।७ ॥
गणवृद्धादयस् त्व् अन्ये दण्डं दाप्याः पृथक् पृथक् ।
विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः ॥ ११।८ ॥
नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य धर्मस्य क्रियैषा बहुषु स्थिता ॥ ११।९ ॥
एकश् चेद् उन्नयेत् सीमां सोपवासः समाहितः ।
रक्तमाल्याम्बरधरः क्षितिम् आरोप्य मूर्धनि ॥ ११।१० ॥
यदा च न स्युर् ज्ञातारः सीमाया न च लक्षणम् ।
तदा राजा द्वयोः सीमाम् उद्धरेद् इष्टतः स्वयम् ॥ ११।११ ॥
एतेनैव गृहोद्यान- निपानायतनादिषु ।
विवादविधिर् आख्यातस् तथा ग्रामान्तरेषु च ॥ ११।१२ ॥
अवस्करस्थलश्वभ्र- भ्रमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थान- रथ्यामार्गान् न रोधयेत् ॥ ११।१३ ॥
परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिषिध्यते ।
महागुणो ऽल्पबाधश् च वृद्धिर् इष्टा क्षये सति ॥ ११।१४ ॥
सेतुस् तु द्विदिधो ज्ञेयः खेयो बन्ध्यस् तथैव च ।
तोयप्रवर्तनान् खेयो बन्ध्यः स्यात् तन्निवर्तनात् ॥ ११।१५ ॥
नान्तरेणोदकं सस्यं नश्येद् अभ्युदकेन तु ।
य एवानुदके दोषः स एवाभ्युदके स्मृतः ॥ ११।१६ ॥
पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत्फलभाग् भवेत् ॥ ११।१७ ॥
मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत् ॥ ११।१८ ॥
अतो ऽन्यथा क्लेशभाक् स्यान् मृगव्याधानुदर्शनात् ।
इषवस् तस्य नश्यन्ति यो विद्धम् अनुविध्यति ॥ ११।१९ ॥
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥ ११।२० ॥
विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनर् आव्रजेत् ।
खिलोपचारं तत् सर्वं दत्त्वा स्वक्षेत्रम् आप्नुयात् ॥ ११।२१ ॥
तदष्टभागापचयाद् यावत् सप्त गताः समाः ।
सम्प्राप्ते त्व् अष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः ॥ ११।२२ ॥
संवत्सरेणार्धखिलं खिलं तद् वत्सरैस् त्रिभिः ।
पञ्चवर्षावसन्नं तु स्यात् क्षेत्रम् अटवीसमम् ॥ ११।२३ ॥
क्षेत्रं त्रिपुरुषं यत् स्याद् गृहं वा स्यात् क्रमागतम् ।
राजप्रसादाद् अन्यत्र न तद्भोगः परं नयेत् ॥ ११।२४ ॥
उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः ।
पालः शास्यो भवेत् तत्र न चेच् छक्त्या निवारयेत् ॥ ११।२५ ॥
समूलसस्यनाशे तु तत्स्वामी समम् आप्नुयात् ।
वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ॥ ११।२६ ॥
गौः प्रसूता दशाहात् च महोक्षाजाविकुञ्जराः ।
निवार्यास् तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥ ११।२७ ॥
माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
अजाविके सवत्से तु दण्डः स्याद् अर्धमाषकः ॥ ११।२८ ॥
अदण्ड्या हस्तिनो ऽश्वाश् च प्रजापाला हि ते स्मृताः ।
अदण्ड्या गर्भिणी गौश् च सूतिका चाभिसारिणी ॥ ११।२९ ॥

प्रोक्तस् तु द्विर् निषण्णानां वसन्त्यां तु चतुर्गुणम् ।
प्रत्यक्षचारकाणां तु चौरदण्डः स्मृटस् तथा ॥ ११।३० ॥
या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः ।
न तत्र गोमिनो दण्डः पालस् तं दण्डम् अर्हति ॥ ११।३१ ॥
राजग्राहगृहीतो वा वज्राशनिहतो ऽपि वा ।
अथ सर्पेण दष्टो वा गिर्य् अग्रात् पतितो ऽपि वा ॥ ११।३२ ॥
सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः ।
न तत्र दोषः पालस्य न च दोषो ऽस्ति गोमिनाम् ॥ ११।३३ ॥
गोभिस् तु भक्षितं धान्यं यो नरः प्रतिमार्गति ।
सामन्तस्य शदो देयो धान्यं यत् तत्र वापितम् ।
गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु ॥ ११।३४ ॥
ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे ।
अनावृते चेत् तन्नाशे न पालस्य व्यतिक्रमः ॥ ११।३५ ॥
पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।
न लङ्घयेत् पशुर् नाश्वो न भिद्याद् यां च सूकरः ॥ ११।३६ ॥
गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् ।
तस्मात् तन् नाक्षिपेद् राजा तद् धि मूलं कुटुम्बिनाम् ॥ ११।३७ ॥
वृद्धे जनपदे राज्ञो धर्मः कोशश् च वर्धते ।
हीयते हीयमाने च वृद्धिहेतुम् अतः श्रयेत् ॥ ११।३८ ॥