०९ विक्रीयासम्प्रदानम्

क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीत्वानुशय इत्य् एतद् विवादपदम् उच्यते ॥ ९।१ ॥
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥ ९।२ ॥
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् ।
द्विगुणं तत् तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ ९।३ ॥
क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥ ९।४ ॥
त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यम् एव तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥ ९।५ ॥
द्विपदाम् अर्धमासं स्यात् पुंसां तद्द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानाम् एकाहं लोहवाससाम् ॥ ९।६ ॥
परिभुक्तं च यद् वासः क्लिष्टरूपं मलीमसम् ।
सदोषम् अपि विक्रीतं विक्रेतुर् न भवेत् पुनः ॥ ९।७ ॥
मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः ।
द्विः पादस् त्रिस् त्रिभागस् तु चतुःकृत्वो ऽर्धम् एव च ॥ ९।८ ॥
अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षये ॥ ९।९ ॥
लोहानाम् अपि सर्वेषां हेतुर् अग्निक्रियाविधौ ।
क्षयः संस्क्रियमाणानां तेषां दृष्टो ऽग्निसङ्गमात् ॥ ९।१० ॥
सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् ।
शतम् अष्टपलं ज्ञेयं क्षयस् स्यात् त्रपुसीसयोः ॥ ९।११ ॥
ताम्रे पञ्चपलं विद्याद् विकारा ये च तन्मयाः ।
तद्धातूनाम् अनेकत्वाद् अयसो ऽनियमः क्षये ॥ ९।१२ ॥
तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते ।
सूत्रकार्पासिकोर्णानां वृद्धिर् दशपलं शतम् ॥ ९।१३ ॥
स्थूलसूत्रवतां तेषां मध्यानां पञ्चकं शतम् ।
त्रिपलं तु सुसूक्ष्माणाम् अन्तःक्षय उदाहृतः ॥ ९।१४ ॥
त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य तु ।
कौषेयवल्कलानां तु नैव वृद्धिर् न च क्षयः ॥ ९।१५ ॥

क्रीत्वा नानुशयं कुर्याद् वणिक् पण्यविचक्षणः ।
वृद्धिक्षयौ तु जानीयात् पण्यानाम् आगमं तथा ॥ ९।१६ ॥