०८ क्रीतानुशयः

विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासम्प्रदानं तद् विवादपदम् उच्यते ॥ ८।१ ॥
लोके ऽस्मिन् द्विविधं द्रव्यं जङ्गमं स्थावरं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥ ८।२ ॥
षड्विधस् तस्य तु बुधैर् दानादानविधिः स्मृतः ।
गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥ ८।३ ॥
विक्रीय पण्यं मूल्येन क्रेतुर् यो न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ ८।४ ॥
अर्घश् चेद् अपहीयेत सोदयं पण्यम् आवहेत् ।
स्थायिनाम् एष नियमो दिग्लाभो दिग्विचारिणाम् ॥ ८।५ ॥
उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासम्प्रयच्छतः ॥ ८।६ ॥
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावद् एव च ॥ ८।७ ॥
तथान्यहस्ते विक्रीय यो ऽन्यस्मै सम्प्रयच्छति ।
सो ऽपि तद्द्विगुणं दाप्यो विनेयस् तावद् एव च ॥ ८।८ ॥
दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।
विक्रीणानस् तद् अन्यत्र विक्रेता नापराध्नुयात् ॥ ८।९ ॥
दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।
अदत्ते ऽन्यत्र समयान् न विक्रेतुर् अतिक्रमः ॥ ८।१० ॥
लाभार्थे वणिजां सर्व- पण्येषु क्रयविक्रयः ।
स च लाभो ऽर्घम् आसाद्य महान् भवति वा न वा ॥ ८।११ ॥
तस्माद् देशे च काले च वणिग् अर्घं पराक्रमेत् ।
न जिह्मेन प्रवर्तेत श्रेयान् एवं वणिक्पथः ॥ ८।१२ ॥