निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते ऽसमक्षं यद् विज्ञेयो ऽस्वामिविक्रयः ॥ ७।१ ॥
द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् ।
प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥ ७।२ ॥
अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ।
हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥ ७।३ ॥
न गूहेतागमं क्रेता शुद्धिस् तस्य तदागमात् ।
विपर्यये तुल्यदोषः स्तेयदण्डं च सो ऽर्हति ॥ ७।४ ॥
विक्रेता स्वामिने ऽर्थं च क्रेतुर् मूल्यं च तत्कृतम् ।
दद्याद् दण्डं तथा राज्ञे विधिर् अस्वामिविक्रये ॥ ७।५ ॥
परेण निहितं लब्ध्वा राजन्य् उपहरेन् निधिम् ।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाद् ऋते ॥ ७।६ ॥
ब्राह्मणो ऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।
तेन दत्तं च भूञ्जीत स्तेनः स्याद् अनिवेदयन् ॥ ७।७ ॥
स्वम् अप्य् अर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।
गृह्णीयात् तत्र तं शुद्धम् अशुद्धं स्यात् ततो ऽन्यथा ॥ ७।८ ॥