०६ वेतनस्यानपाकर्म

भृतानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ ६।१ ॥
भृताय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्ये ऽवसाने वा कर्मणो यद् विनिश्चितम् ॥ ६।२ ॥
भृतावनिश्चितायां तु दशभागं समाप्नुयुः ।
लाभगोबीजसस्यानां वणिग्गोपकृषीबलाः ॥ ६।३ ॥
कर्मोपकरणं चैषां क्रियां प्रति यद् आहृतम् ।
आप्तभावेन कुर्वीत न जिह्मेन समाचरेत् ॥ ६।४ ॥
कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिम् आवहेत् ॥ ६।५ ॥
काले ऽपूर्णे त्यजेत् कर्म भृतिनाशो ऽस्य चार्हति ।
स्वामिदोषाद् अपाक्रामन् यावत् कृतम् अवाप्नुयात् ॥ ६।६ ॥
भृतिषड्भागम् आभाष्य पथि युग्यकृतं त्यजन् ।
अददत् कारयित्वा तु कर्मैवं सोदयां भृतिम् ॥ ६।७ ॥
अनयन् भाटयित्वा तु भाण्डवान् यानवाहने ।
दाप्यो भृतिचतुर्भागं समम् अर्धपथे त्यजन् ॥ ६।८ ॥
अनयन् वाहको ऽप्य् एवं भृतिहानिम् अवाप्नुयात् ।
द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नम् आचरन् ॥ ६।९ ॥
भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नष्टं स्याद् दैवराजकृताद् ऋते ॥ ६।१० ॥
गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रति सम्वत्सरं गोपे सदोहश् चाष्टमे ऽहनि ॥ ६।११ ॥
उपानयेत् गा गोपाय प्रत्यहं रजनीक्षये ।
चीऋणाः पीताश् च ता गोपः सायाह्ने प्रत्युपानयेत् ॥ ६।१२ ॥
स्याच् चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः ।
अशक्तस् तूर्णम् आगम्य स्वामिने तन् निवेदयेत् ॥ ६।१३ ॥
अव्यायच् छन्नविक्रोशन् स्वामिने चानिवेदयन् ।
वोढुम् अर्हति गोपस् तां विनयं चापि राजनि ॥ ६।१४ ॥
नष्टविनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण गोपायैव निपातयेत् ॥ ६।१५ ॥
अजाविके तथारुद्धे वृकैः पाले त्व् अनायति ।
यत् प्रसह्य वृको हन्यात् पाले तत्किल्बिषम् भवेत् ॥ ६।१६ ॥
तासां चैवानिरुद्धानां चरन्तीनां मिथो वने ।
याम् उत्पत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥ ६।१७ ॥
विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ ६।१८ ॥
एतेन सर्वपालानां विवादः समुदाहृतः ।
मृतेषु च विशुद्धिः स्यात् पालस्याङ्कादिदर्शनात् ॥ ६।१९ ॥
शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस् तद् आवहेत् ।
अप्रयच्छंस् तदा शुल्कम् अनुभूय पुमान् स्त्रियम् ॥ ६।२० ॥
अयोनौ क्रमते यस् तु बहुभिर् वापि वासयेत् ।
शुल्कम् अष्टगुणं दाप्यो विनयस् तावद् एव च ॥ ६।२१ ॥
पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः ।
स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम् ॥ ६।२२ ॥
स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् ।
ग्रहीतुर् आभवेद् भग्नं नष्टं चान्यत्र सम्प्लवात् ॥ ६।२३ ॥