०५ अभ्युपेत्याशुश्रूषा

अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥ ५।०१ ॥
शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरस् तेषां दासास् त्रिपञ्चकाः ॥ ५।०२ ॥
शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकराः प्रोक्ता दासास् तु गृहजादयः ॥ ५।०३ ॥
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तिर् एव च ॥ ५।०४ ॥
कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ ५।०५ ॥
गृहद्वाराशुचिस्थान- रथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्ट- विण्मूत्रग्रहणोज्झनम् ॥ ५।०६ ॥
इष्टतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥ ५।०७ ॥
आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् ।
तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥ ५।०८ ॥
ब्रह्मचारी चरेद् भैक्षम् अधःशाय्य् अनलङ्कृतः ।
जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर् गृहे ॥ ५।०९ ॥
नासन्दिष्टः प्रतिष्ठेत तिष्ठेद् वापि गुरुं क्वचित् ।
सन्दिष्टः कर्म कुर्वीत शक्तश् चेद् अविचारयन् ॥ ५।१० ॥
यथाकालम् अधीयीत यावन् न विमना गुरुः ।
आसीनो ऽधो गुरोः कूर्चे फलके वा समाहितः ॥ ५।११ ॥
अनुशास्यश् च गुरुणा न चेद् अनुविधीयते ।
अवधेनाथवा हन्यात् रज्ज्वा वेणुदलेन वा ॥ ५।१२ ॥
भृशं न ताडयेद् एनं नोत्तमाङ्गे न वक्षसि ।
अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥ ५।१३ ॥
समावृत्तश् च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥ ५।१४ ॥
स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥ ५।१५ ॥
आचार्यः शिक्षयेद् एनं स्वगृहाद् दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥ ५।१६ ॥
शिक्षयन्तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥ ५।१७ ॥
शिक्षितो ऽपि कृतं कालम् अन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥ ५।१८ ॥
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तयेत् ॥ ५।१९ ॥
भृतकस् त्रिविधो ज्ञेय उत्तमो मध्यमो ऽधमः ।
शक्तिभक्त्यनुरूपा स्याद् एषां कर्माश्रया भृतिः ॥ ५।२० ॥
उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाहः स्याद् इत्य् एवं त्रिविधो भृतः ॥ ५।२१ ॥
अर्थेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।
सो ऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥ ५।२२ ॥
शुभकर्मकरास् त्व् एते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः ॥ ५।२३ ॥
गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आधत्तः स्वामिना च यः ॥ ५।२४ ॥
मोक्षितो महतश् चर्णात् प्राप्तो युद्धात् पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥ ५।२५ ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाभृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः ॥ ५।२६ ॥
तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादाद् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥ ५।२७ ॥
यश् चैषां स्वामिनं कश्चिन् मोक्षयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥ ५।२८ ॥
अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ।
सम्भक्षितं यद् दुर्भिक्षे न तच् छुध्येत कर्मणा ॥ ५।२९ ॥
आधत्तो ऽपि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् ।
अथोपगमयेद् एनं स विक्रीताद् अनन्तरः ॥ ५।३० ॥
दत्त्वा तु सोदयम् ऋणं ऋणी दास्यात् प्रमुच्यते ।
कृतकालाभ्युपगमात् कृतको ऽपि विमुच्यते ॥ ५।३१ ॥
तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥ ५।३२ ॥
राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथञ्चन ॥ ५।३३ ॥
भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद् वडवायाश् च मुच्यते वडवाभृतः ॥ ५।३४ ॥
विक्रीणीते य आत्मानं स्वतन्त्रः सन् नराधमः ।
स जघन्यतरस् तेषां नैव दास्यात् प्रमुच्यते ॥ ५।३५ ॥
चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोक्षयितव्यास् ते दासत्वं तेषु नेष्यते ॥ ५।३६ ॥
वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥ ५।३७ ॥
तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥ ५।३८ ॥
अधनास् त्रय एवोक्ता भार्या दासस् तथा सुतः ।
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ ५।३९ ॥
स्वदासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्यापि भिन्द्यात् कुम्भं सहाम्भसा ॥ ५।४० ॥
अक्षताभिः सपुष्पाभिर् मूर्धन्य् एनम् अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अथोत्सृजेत् ॥ ५।४१ ॥
ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नः प्रतिगृह्यश् च भवत्य् अभिमतश् च सः ॥ ५।४२ ॥