दत्त्वा द्रव्यम् असम्यग् यः पुनर् आदातुम् इच्छति ।
दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥ ४।०१ ॥
अदेयम् अथ देयं च दत्तं चादत्तम् एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥ ४।०२ ॥
तत्र ह्यष्टाव् अदेयानि देयम् एकविधं स्मृतम् ।
दत्तं सप्तविधं विद्याद् अदत्तं षोडशात्मकम् ॥ ४।०३ ॥
अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥ ४।०४ ॥
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ ४।०५ ॥
कुटुम्बभरणाद् द्रव्यं यत्किञ्चिद् अतिरिच्यते ।
तद् देयम् उपहृत्यान्यद् ददद् दोषम् अवाप्नुयात् ॥ ४।०६ ॥
पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ ४।०७ ॥
अदत्तं तु भयक्रोध- शोकवेगरुजान्वितैः ।
तथोत्कोचपरीहास- व्यत्यासच्छलयोगतः ॥ ४।०८ ॥
बालमूढास्वतन्त्रार्त- मत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥ ४।०९ ॥
अपात्रे पात्रम् इत्य् उक्ते कार्ये चाधर्मसंहिते ।
यद् दत्तं स्याद् अविज्ञानाद् अदत्तं तद् अपि स्मृतम् ॥ ४।१० ॥
गृह्णात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति ।
अदत्तादायको दण्ड्यस् तथादेयस्य दायकः ॥ ४।११ ॥