वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत् सम्भूयसमुत्थानं व्यवहारपदं स्मृतम् ॥ ३।०१ ॥
फलहेतोर् उपायेन कर्म सम्भूय कुर्वताम् ।
आधारभूतः प्रक्षेपस् तेनोत्तिष्ठेयुर् अंशतः ॥ ३।०२ ॥
समो ऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस् तस्य तत्र तथाविधाः ॥ ३।०३ ॥
भाण्डपिण्डव्ययोद्धार- भारसारान्ववेक्षणम् ।
कुर्युस् ते ऽव्यभिचारेण समये स्वे व्यवस्थिताः ॥ ३।०४ ॥
प्रमादान् नाशितं दाप्यः प्रतिषिद्धकृतं च यत् ।
असन्दिष्टश् च यत् कुर्यात् सर्वैः सम्भूयकारिभिः ॥ ३।०५ ॥
दैवतस्करराजोत्थे व्यसने समुपस्थिते ।
यस् तत् स्वशक्त्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥ ३।०६ ॥
एकस्य चेत् स्याद् व्यसनं दायादो ऽस्य तद् आप्नुयात् ।
अन्यो वासति दायादे शक्ताश् चेत् सर्व एव वा ॥ ३।०७ ॥
ऋत्विजां व्यसने ऽप्य् एवम् अन्यस् तत् कर्म निस्तरेत् ।
लभेत दक्षिणाभागं स तस्मात् सम्प्रकल्पितम् ॥ ३।०८ ॥
ऋत्विग् याज्यम् अदुष्टं यस् त्यजेद् अनपकारिणम् ।
अदुष्टं व र्त्विजं याज्यो विनेयौ ताव् उभाव् अपि ॥ ३।०९ ॥
ऋत्विक् तु त्रिविधो दृष्टः पूर्वजुष्टः स्वयङ्कृतः ।
यदृच्छया च यः कुर्याद् आर्त्विज्यं प्रीतिपूर्वकम् ॥ ३।१० ॥
क्रमागतेष्व् एष धर्मो वृतेष्व् ऋत्विक्षु च स्वयम् ।
यादृच्छिके तु संयाज्ये तत्त्यागे नास्ति किल्बिषम् ॥ ३।११ ॥
शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोपगम् ।
न तद् व्यतिहरेद् राज्ञां बलिर् एष प्रकल्पितः ॥ ३।१२ ॥
शुल्कस्थानं परिहरन् न काले क्रयविक्रयी ।
मिथ्योक्त्वा च परीमाणं दाप्यो ऽष्टगुणम् अत्ययम् ॥ ३।१३ ॥
कश्चिच् चेत् सञ्चरन् देशात् प्रेयाद् अभ्यागतो वणिक् ।
राजास्य भाण्डं तद् रक्षेत् यावद् दायाददर्शनम् ॥ ३।१४ ॥
दायादे ऽसति बन्धुभ्यो ज्ञातिभ्यो वा तद् अर्पयेत् ।
तदभावे सुगुप्तं तद् धारयेद् दशतीः समाः ॥ ३।१५ ॥
अस्वामिकम् अदायादं दशवर्षस्थितं ततः ।
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥ ३।१६ ॥