०२ निक्षिपः

स्वद्रव्यं यत्र विश्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ २।०१ ॥
अन्यद्रव्यव्यवहितं द्रव्यम् अव्याकृतं च यत् ।
निक्षिप्यते परगृहे तद् औपनिधिकं स्मृतम् ॥ २।०२ ॥
स पुनर् द्विविधः प्रोक्तः साक्षिमान् इतरस् तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥ २।०३ ॥
याच्यमानस् तु यो दात्रा निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञा दाप्यश् च नष्टे दाप्यश् च तत्समम् ॥ २।०४ ॥
यश् चार्थं साधयेत् तेन निक्षेप्तुर् अननुज्ञया ।
तत्रापि दण्ड्यः स भवेत् तच् च सोदयम् आवहेत् ॥ २।०५ ॥
ग्रहीतुः सह यो ऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन् न चेत् तज् जिह्मकारितम् ॥ २।०६ ॥
एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ २।०७ ॥
प्रतिगृह्णाति पोगण्डं यश् च सप्रधनं नरः ।
तस्याप्य् एष भवेद् धर्मः षड् एते विधयः समाः ॥ २।०८ ॥