०१ ऋणादानम्

ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्माच् च ऋणादानम् इति स्मृतम् ॥ १।०१ ॥
पितर्य् उपरते पुत्रा ऋणं दद्युर् यथांशतः ।
विभक्ता ह्य् अविभक्ता वा यस् ताम् उद्वहते धुरम् ॥ १।०२ ॥
पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् ।
मात्रा वा यत् कुटुम्बार्थे दद्युस् तद् रिक्थिनो ऽखिलम् ॥ १।०३ ॥
क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ १।०४ ॥
इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् यतस् ततः ।
उत्तमर्णाधमर्णेभ्यो माम् अयं मोचयिष्यति ॥ १।०५ ॥
अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
पिता मोक्षितव्य ऋणाद् यथा न नरकं पतेत् ॥ १।०६ ॥
तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
तपश् चैवाग्निहोत्रं च सर्वं तद् धनिनां धनम् ॥ १।०७ ॥
न पुत्रर्णं पिता दद्याद् दद्यात् पुत्रस् तु पैतृकम् ।
कामक्रोधसुराद्यूत- प्रातिभाव्यकृतं विना ॥ १।०८ ॥
पितुर् एव नियोगाद् यत् कुटुम्बभरणाय च ।
कृतं वा यद् ऋणं कृच्छ्रे दद्यात् पुत्रस्य तत् पिता ॥ १।०९ ॥
शिष्यान्तेवासिदासस्त्री- वैयावृत्त्यकरैश् च यत् ।
कुटुम्बहेतोर् उत्क्षिप्तं वोढव्यं तत् कुटुम्बिना ॥ १।१० ॥
नार्वाग् विंशतिमाद् वर्षात् पितरि प्रोषिते सुतः ।
ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्य् अथापि वा ॥ १।११ ॥
दाप्यः परर्णम् एको ऽपि जीवत्स्व् अधिकृतैः कृतम् ।
प्रेतेषु तु न तत्पुत्रः परर्णं दातुम् अर्हति ॥ १।१२ ॥
न स्त्री पतिकृतं दद्याद् ऋणं पुत्रकृतं तथा ।
अभ्युपेताद् ऋते यद्वा सह पत्या कृतं भवेत् ॥ १।१३ ॥
दद्याद् अपुत्रा विधवा नियुक्ता या मुमूर्षुणा ।
यो वा तद्रिक्थम् आदद्याद् यतो रिक्थम् ऋणं ततः ॥ १।१४ ॥
न च भार्याकृतम् ऋणं कथञ्चित् पत्युर् आभवेत् ।
आपत्कृताद् ऋते पुंसां कुटुम्बार्थो हि विस्तरः ॥ १।१५ ॥
अन्यत्र रजकव्याध- गोपशौण्डिकयोषिताम् ।
तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् ॥ १।१६ ॥
पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यम् आश्रयेत् ।
ऋक्थं तस्या हरेत् सर्वं निःस्वायाः पुत्र एव तु ॥ १।१७ ॥
या तु सप्रधनैव स्त्री सापत्या चान्यम् आश्रयेत् ।
सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥ १।१८ ॥
अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते तद् एवास्य धनं स्मृतम् ॥ १।१९ ॥
धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ १।२० ॥
उत्तमा स्वैरिणी या स्याद् उत्तमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद् यस् ताम् उपाश्नुते ॥ १।२१ ॥
स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि ।
विशेषतो गृहक्षेत्र- दानाधमनविक्रयाः ॥ १।२२ ॥
एतान्य् अपि प्रमाणानि भर्ता यद्य् अनुमन्यते ।
पुत्रः पत्युर् अभावे वा राजा वा पतिपुत्रयोः ॥ १।२३ ॥
भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ १।२४ ॥
तथा दासकृतं कार्यम् अकृतं परिचक्षते ।
अन्यत्र स्वामिसन्देशान् न दासः प्रभुर् आत्मनः ॥ १।२५ ॥
पुत्रेण च कृतं कार्यं यत् स्यात् पितुर् अनिच्छतः ।
तद् अप्य् अकृतम् एवाहुर् दासः पुत्रश् च तौ समौ ॥ १।२६ ॥
अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपि हि न र्णभाक् ।
स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥ १।२७ ॥
त्रयः स्वतन्त्रा लोके ऽस्मिन् राजाचार्यस् तथैव च ।
प्रति प्रति च वर्णानां सर्वेषां स्वगृहे गृही ॥ १।२८ ॥
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ॥ १।२९ ॥
अस्वतन्त्राः स्त्रियः पुत्रा दासाश् च सपरिग्रहाः ।
स्वतन्त्रस् तत्र तु गृही यस्य यत् स्यात् क्रमागतम् ॥ १।३० ॥
गर्भस्थैः सदृशो ज्ञेय आ वर्षाद् अष्टमाच् छिषुः ।
बाल आ षोडशाज् ज्ञेयः पोगण्डश् चापि शब्द्यते ॥ १।३१ ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरौ विना ।
जीवतोर् अस्वतन्त्रः स्याज् जरयापि समन्वितः ॥ १।३२ ॥
तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ १।३३ ॥
स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा ।
अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः ॥ १।३४ ॥
यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च ।
अकृतं तद् इति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ १।३५ ॥
स्वतन्त्रो ऽपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः ।
तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रः स हेतुतः ॥ १।३६ ॥
कामक्रोधाभियुक्तार्त- भयव्यसनपीडिताः ।
रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥ १।३७ ॥
कुले ज्येष्ठस् तथा श्रेष्ठः प्रकृतिस्थश् च यो भवेत् ।
तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥ १।३८ ॥
धनमूलाः क्रियाः सर्वा यत्नस् तत्साधने मतः ।
रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् ॥ १।३९ ॥
तत् पुनस् त्रिविधं ज्ञेयं शुक्लं शबलम् एव च ।
कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पृथक् ॥ १।४० ॥
श्रुतशौर्यतपःकन्या- शिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुक्लम् उदयो ऽप्य् अस्य तद्विधः ॥ १।४१ ॥
कुसीदकृषिवाणिज्य- शुल्कशिल्पानुवृत्तिभिः ।
कृतोपकाराद् आप्तं च शबलं समुदाहृतम् ॥ १।४२ ॥
पार्श्विकद्यूतदौत्यार्ति- प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥ १।४३ ॥
तेन क्रयो विक्रयश् च दानं ग्रहणम् एव च ।
विविधाश् च प्रवर्तन्ते क्रियाः सम्भोग एव च ॥ १।४४ ॥
यथाविधेन द्रव्येण यत् किञ्चित् कुरुते नरः ।
तथाविधम् अवाप्नोति स फलं प्रेत्य चेह च ॥ १।४५ ॥
तत् पुनर् द्वादशविधं प्रतिवर्णाश्रयात् स्मृतम् ।
साधारणं स्यात् त्रिविधं शेषं नवविधं स्मृतम् ॥ १।४६ ॥
क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।
अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम् ॥ १।४७ ॥
वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् ।
प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस् तथा ॥ १।४८ ॥
त्रिविधं क्षत्रियस्यापि प्राहुर् वैशेषिकं धनम् ।
युद्धोपलब्धं कारश् च दण्डश् च व्यवहारतः ॥ १।४९ ॥
वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षवाणिज्यैः शूद्रस्यैभ्यस् त्व् अनुग्रहात् ॥ १।५० ॥
सर्वेषाम् एव वर्णानाम् एष धर्म्यो धनागमः ।
विपर्ययाद् अधर्म्यः स्यान् न चेद् आपद् गरीयसी ॥ १।५१ ॥
आपत्स्व् अनन्तरा वृत्तिर् ब्राह्मणस्य विधीयते ।
वैश्यवृत्तिस् ततश् चोक्ता न जघन्या कथञ्चन ॥ १।५२ ॥
न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम् ।
वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥ १।५३ ॥
उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ १।५४ ॥
आपदं ब्राह्मणस् तीर्त्वा क्षत्रवृत्त्या हृतैर् धनैः ।
उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनम् आत्मनः ॥ १।५५ ॥
तस्याम् एव तु यो वृत्तौ ब्राह्मणो रमते रसात् ।
काण्डपृष्ठश् च्युतो मार्गात् सो ऽपाङ्क्तेयः प्रकीर्तितः ॥ १।५६ ॥
वैश्यवृत्ताव् अविक्रेयं ब्राह्मणस्य पयो दधि ।
घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः ॥ १।५७ ॥
मांसौदनतिलक्षौम- सोमपुष्पफलपलाः ।
मनुष्यविषशस्त्राम्बु- लवणापूपवीरुधः ॥ १।५८ ॥
नीलीकौषेयचर्मास्थि- कुतपैकशफा मृदः ।
उदश्वित्केशपिण्याक- शाकाद्यौषधयस् तथा ॥ १।५९ ॥
ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च ।
गन्धद्रव्यैरकावेत्र- तूलमूलतुशाद् ऋते ॥ १।६० ॥
स्वयं शीर्णं च विदलं फलानां बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच् चेद् अविकृतं भवेत् ॥ १।६१ ॥
अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च ।
यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्सामाः ॥ १।६२ ॥
अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः ।
मार्गे पुनर् अवस्थाप्य राज्ञा दण्डेन भूयसा ॥ १।६३ ॥
प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैर् अव्यवस्थितैः ॥ १।६४ ॥
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतं ।
धनस्वीकरणे येन धनी धनम् उपाश्नुते ॥ १।६५ ॥
लिखितं बलवन् नित्यं जीवन्तस् त्व् एव साक्षिणः ।
कालातिहरणाद् भुक्तिर् इति शास्त्रेषु निश्चयः ॥ १।६६ ॥
त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् ।
पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिर् एभ्यो गरीयसी ॥ १।६७ ॥
विद्यमाने ऽपि लिखिते जीवत्स्व् अपि हि साक्षिषु ।
विशेषतः स्थावराणां यन् न भुक्तं न तत् स्थिरम् ॥ १।६८ ॥
भुज्यमानान् परैर् अर्थान् यः स्वान् मौर्ख्याद् उपेक्षते ।
समक्षं जीवतो ऽप्य् अस्य तान् भुक्तिः कुरुते वशे ॥ १।६९ ॥
यत्किञ्चिद् दश वर्षाणि सन्निधौ प्रेक्षते धनी ।
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ १।७० ॥
उपेक्षां कुर्वतस् तस्य तूष्णीं भूतस्य तिष्ठतः ।
काले ऽतिपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ १।७१ ॥
अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते ।
भुक्तं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥ १।७२ ॥
आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः ।
राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यते ॥ १।७३ ॥
प्रत्यक्षपरिभोगाच् च स्वामिनो द्विदशाः समाः ।
आध्यादीन्य् अपि जीर्यन्ते स्त्रीनरेन्द्रधनाद् ऋते ॥ १।७४ ॥
स्त्रीधनं च नरेन्द्राणां न कदाचन जीर्यते ।
अनागमं भुज्यमानं वत्सराणां शतैर् अपि ॥ १।७५ ॥
निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न भोगस् तत्र कारणम् ॥ १।७६ ॥
अनागमं भुज्यते यन् न तद् भोगो ऽतिवर्तते ।
प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् ॥ १।७७ ॥
आहर्तैवाभियुक्तः सन्न् अर्थानाम् उद्धरेत् पदम् ।
भुक्तिर् एव विशुद्धिः स्यात् प्राप्तानां पितृतः क्रमात् ॥ १।७८ ॥
अन्वाहितं हृतं न्यस्तं बलावष्टब्धं याचितम् ।
अप्रत्यक्षं च यद् भुक्तं षड् एतान्य् आगमं विना ॥ १।७९ ॥
तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सो ऽर्थः संशोध्यो न तं भोगो ऽतिवर्तते ॥ १।८० ॥
यद् विनागमम् अप्य् ऊर्ध्वं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।
न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥ १।८१ ॥
सन्तो ऽपि न प्रमाणं स्युर् मृते धनिनि साक्षिणः ।
अन्यत्र श्रावितं यत् स्यात् स्वयम् आसन्नमृत्युना ॥ १।८२ ॥
न हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः ।
साक्षिमत् करणं तत्र प्रमाणं स्याद् विनिश्चये ॥ १।८३ ॥
श्रावितस् त्व् आतुरेणापि यस् त्व् अर्थो धर्मसंहितः ।
मृते ऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ॥ १।८४ ॥
क्रिय र्णादिषु सर्वेषु बलवत्य् उत्तरोत्तरा ।
प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥ १।८५ ॥
स्थानलाभनिमित्तं हि दानग्रहणम् इष्यते ।
तत् कुसीदम् इति प्रोक्तं तेन वृत्तिः कुसीदिनाम् ॥ १।८६ ॥
कायिका कालिका चैव कारिता च तथा स्मृता ।
चक्रवृद्धिश् च शास्त्रेषु तस्य वृद्धिश् चतुर्विधा ॥ १।८७ ॥
कायाविरोधिनी शश्वत् पणपाद्या तु कायिका ।
प्रतिमासं स्रवति या वृद्धिः सा कालिका स्मृता ॥ १।८८ ॥
वृद्धिः सा कारिता नाम य र्णिकेन स्वयङ्कृता ।
वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता ॥ १।८९ ॥
ऋणानां सार्वभौमो ऽयं विधिर् वृद्धिकरः स्मृतः ।
देशाचारविधिस् त्व् अन्यो यत्र र्णम् अवतिष्ठति ॥ १।९० ॥
द्विगुणं त्रिगुणं चैव तथान्यस्मिंश् चतुर्गुणम् ।
तथाष्टगुणम् अन्यस्मिन् देशे देशे ऽवतिष्ठते ॥ १।९१ ॥
हिरण्यधान्यवस्त्राणां वृद्धिर् द्वित्रिचतुर्गुणा ।
घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां च सन्ततिः ॥ १।९२ ॥
सूत्रकर्पासकिण्वानां त्रपुषः सीसकस्य च ।
आयुधानां च सर्वेषां चर्मणस् ताम्रलोहयोः ॥ १।९३ ॥
अन्येषां चैव सर्वेषाम् इष्टकानां तथैव च ।
अक्षय्या वृद्धिर् एतेषां मनुर् आह प्रजापतिः ॥ १।९४ ॥
तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् ।
वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ १।९५ ॥
न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।
अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥ १।९६ ॥
एष वृद्धिविधिः प्रोक्तः प्रतिवृद्धस्य धर्मतः ।
वृद्धिस् तु योक्ता धान्यानां वार्धुष्यं तद् उदाहृतम् ॥ १।९७ ॥
आपदं निस्तरेद् वैश्यः कामं वार्धुषकर्मणा ।
आपत्स्व् अपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् ॥ १।९८ ॥
ब्राह्मणस्य तु यद् देयं सान्वयस्य न चास्ति सः ।
स्वकुल्यस्यास्य निवपेत् तदभावे ऽस्य बन्धुषु ॥ १।९९ ॥
यदा तु न स्वकुल्याः स्युर् न च सम्बन्धिबान्धवाः ।
तदा दद्यात् स्वजातिभ्यस् तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥ १।१०० ॥
गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी ।
अददद् याच्यमानस् तु शेषहानिम् अवाप्नुयात् ॥ १।१०१ ॥
लेख्यं दद्याद् ऋणे शुद्धे तदभावे प्रतिश्रवम् ।
धनिकर्णिकयोर् एवं विशुद्धिः स्यात् परस्परम् ॥ १।१०२ ॥
विश्रम्भहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च ।
लिखितं साक्षिणश् च द्वे प्रमाणे व्यक्तिकारके ॥ १।१०३ ॥
उपस्थानाय दानाय प्रत्ययाय तथैव च ।
त्रिविधः प्रतिभूर् दृष्टस् त्रिष्व् एवार्थेषु सूरिभिः ॥ १।१०४ ॥
ऋणिष्व् अप्रतिकुर्वत्सु प्रत्यये वा विवादिते ।
प्रतिभूस् तद् ऋणं दद्याद् अनुपस्थापयंस् तथा ॥ १।१०५ ॥
बहवश् चेत् प्रतिभुवो दद्युस् ते ऽर्थं यथाकृतम् ।
अर्थे ऽविशेषिते ह्य् एषु धनिनश् छन्दतः क्रिया ॥ १।१०६ ॥
यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।
ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥ १।१०७ ॥
अधिक्रियत इत्य् आधिः स विज्ञेयो द्विलक्षणः ।
कृतकालोपनेयश् च यावद्देयोद्यतस् तथा ॥ १।१०८ ॥
स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ।
प्रतिदानं तथैवास्य लाभहानिर् विपर्यये ॥ १।१०९ ॥
प्रमादाद् धनिनस् तद्वद् आधौ विकृतिम् आगते ।
विनष्टे मूलनाशः स्याद् दैवराजकृताद् ऋते ॥ १।११० ॥
रक्ष्यमाणो ऽपि यत्राधिः कालेनेयाद् असारताम् ।
आधिर् अन्यो ऽधिकर्तव्यो देयं वा धनिने धनम् ॥ १।१११ ॥
अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् ।
शक्यप्रेक्षम् ऋणं दाप्यः काले काले यथोदयम् ॥ १।११२ ॥
शक्तो वा यदि दौरात्म्यान् न दद्याद् धनिने धनम् ।
राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥ १।११३ ॥
नश्येद् ऋणपरीमाणं कालेनेह र्णिकस्य चेत् ।
जातिसञ्ज्ञाधिवासानाम् आगमो लेख्यतः स्मृतः ॥ १।११४ ॥
लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ १।११५ ॥
देशाचाराविरुद्धं यद् व्यक्ताधिकृतलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥ १।११६ ॥
मत्ताभियुक्तस्त्रीबाल- बलात्कारकृतं च यत् ।
तद् अप्रमाणकरणं भीतोपधिकृतं तथा ॥ १।११७ ॥
मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तद् अप्य् अपार्थं लिखितम् ऋते त्व् आधेः स्थिराश्रयात् ॥ १।११८ ॥
आधिर् यो द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।
सिद्धिर् अत्रोभयस्यास्य भोगो यद्य् अस्ति नान्यथा ॥ १।११९ ॥
दर्शितं प्रतिकालं यच् छ्रावितं श्रावितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥ १।१२० ॥
अश्रुतार्थम् अदृष्टार्थं व्यवहारार्थम् एव च ।
न लेख्यं सिद्धिम् आप्नोति जीवत्स्व् अपि हि साक्षिषु ॥ १।१२१ ॥
लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते ।
सतस् तत्कालकरणम् असतो दृष्टदर्शनम् ॥ १।१२२ ॥
यस्मिन् स्यात् संशयो लेख्ये भूताभूतकृते क्वचित् ।
तत्स्वहस्तक्रियाचिह्न- प्राप्तियुक्तिभिर् उद्धरेत् ॥ १।१२३ ॥
लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत् सम्बन्धागमहेतुभिः ॥ १।१२४ ॥
लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत् सम्बन्धागमहेतुभिः ॥ १।१२४१ ॥
लिखितं लिखितेनैव साक्षिमत् साक्षिभिर् हरेत् ।
साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥ १।१२५ ॥
छिन्नभिन्नहृतोन्मृष्ट- नष्टदुर्लिखितेषु च ।
कर्तव्यम् अन्यल् लेख्यं स्याद् एष लेख्यविधिः स्मृतः ॥ १।१२६ ॥
सन्दिग्धेषु तु कार्येषु द्वयोर् विवदमानयोः ।
दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥ १।१२७ ॥
समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः ।
श्रोत्रस्य यत् परो ब्रूते चक्षुषः कायकर्म यत् ॥ १।१२८ ॥
एकादशविधः साक्षी स तु दृष्टो मनीषिभिः ।
कृतः पञ्चविधस् तेषां षड्विधो ऽकृत उच्यते ॥ १।१२९ ॥
लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ १।१३० ॥
अकृतः षड्विधश् चापि सूरिभिः परिकीर्तितः ।
ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ॥ १।१३१ ॥
कार्येष्व् अभ्यन्तरो यः स्याद् अर्थिना प्रहितश् च यः ।
कुलं कुलविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥ १।१३२ ॥
कुलीना ऋजवः शुद्धा जन्मतः कर्मतो ऽर्थतः ।
त्र्यवराः साक्षिणो ऽनिन्द्याः शुचयः स्युः सुबुद्धयः ॥ १।१३३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्य् अनिन्दिताः ।
प्रतिवर्णं भवेयुस् ते सर्वे सर्वेषु वा पुनः ॥ १।१३४ ॥
श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्याश् च स्त्रियः स्त्रिषु च साक्षिणः ॥ १।१३५ ॥
श्रेण्यादिषु तु वर्गेषु कश्चिच् चेद् द्वेष्यताम् इयात् ।
तेभ्य एव न साक्षी स्याद् द्वेष्टारः सर्व एव ते ॥ १।१३६ ॥
असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तेर् मृतान्तरः ॥ १।१३७ ॥
श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद् विप्रतिपत्तिः स्याद् विवादे यत्र साक्षिणः ॥ १।१३८ ॥
स्वयमुक्तेर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् ।
मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ॥ १।१३९ ॥
श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजिता नराः ।
असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥ १।१४० ॥
स्तेनाः साहसिकाश् चण्डाः कितवा वधकास् तथा ।
असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥ १।१४१ ॥
राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिश्चये ।
वचनं यत्र भिद्यते ते स्युर् भेदाद् असाक्षिणः ॥ १।१४२ ॥
अनिर्दिष्टस् तु साक्षित्वे स्वयम् एवैत्य यो वदेत् ।
सूचीत्य् उक्तः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥ १।१४३ ॥
यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।
क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ १।१४४ ॥
यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।
क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ १।१४४
१ ॥
द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ १।१४५ ॥
आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थे वशाद् भवेत् ।
प्रष्टव्याः साक्षिणस् तत्र विवादे प्रतिवादिनः ॥ १।१४६ ॥
न परेण समुद्दिष्टम् उपेयात् साक्षिणं रहः ।
भेदयेत् तं न चान्येन हीयेतैवं समाचरन् ॥ १।१४७ ॥
साक्ष्य् उद्दिष्टो यदि प्रेयाद् गच्छेद् वापि दिगन्तरम् ।
तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्य् उत्तरक्रिया ॥ १।१४८ ॥
सुदीर्घेणापि कालेन लिखितं सिद्धिम् आप्नुयात् ।
जानता चात्मना लेख्यं अजानानस् तु लेखयेत् ॥ १।१४९ ॥
सिद्धिर् उक्ताष्टमाद् वर्षात् स्मारितस्येह साक्षिणः ।
आ पञ्चमात् तथा सिद्धिर् यदृच्छोपगतस्य तु ॥ १।१५० ॥
आ तृतीयात् तथा वर्षात् सिद्धिर् गूढस्य साक्षिणः ।
आ वै संवत्सरात् सिद्धिं वदन्त्य् उत्तरसाक्षिणः ॥ १।१५१ ॥
अथवा कालनियमो न दृष्टः साक्षिणं प्रति ।
स्मृत्यपेक्षं हि साक्षित्वम् आहुः शास्त्रविदो जनाः ॥ १।१५२ ॥
यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः ।
सुदीर्घेणापि कालेन स साक्षी साक्ष्यम् अर्हति ॥ १।१५३ ॥
असाक्षिप्रत्ययास् त्व् अन्ये षड्विवादाः प्रकीर्तिताः ।
लक्षणान्य् एव साक्षित्वं एषाम् आहुर् मनीषिणः ॥ १।१५४ ॥
उल्काहस्तो ऽग्निदो ज्ञेयः शस्त्रपाणिस् तु घातकः ।
केशाकेशिगृहीतश् च युगपत् पारदारिकः ॥ १।१५५ ॥
कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारपाणिश् च वनछेत्ता प्रकीर्तितः ॥ १।१५६ ॥
अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन् नरः ।
असाक्षिप्रत्यया ह्य् एते पारुष्ये तु परीक्षणम् ॥ १।१५७ ॥
कश्चित् कृत्वात्मनश् चिह्नं द्वेषात् परम् उपद्रवेत् ।
हेत्वर्थगतिसामर्थ्यैस् तत्र युक्तं परीक्षणम् ॥ १।१५८ ॥
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः प्रष्टव्याश् न व्याध्यार्ता न दूषिताः ॥ १।१५९ ॥
दासनैकृतिकाश्रद्ध- वृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्त- कितवग्रामयाजकाः ॥ १।१६० ॥
महापथिकसामुद्र- वणिक्प्रव्रजितातुराः ।
लुब्धकश्रोत्रियाचार- हीनक्लीबकुशीलवाः ॥ १।१६१ ॥
नास्तिकव्रात्यदाराग्नि- त्यागिनो ऽयाज्ययाजकाः ।
एकस्थालीसहायारि- चरज्ञातिसनाभयः ॥ १।१६२ ॥
प्राग्दृष्टदोषशैलूष विषजीव्यहितुण्डिकाः ।
गरदाग्निदकीनाश- शूद्रापुत्रोपपातिकाः ॥ १।१६३ ॥
क्लान्तसाहसिकश्रान्त- निर्धनान्त्यावसायिनः ।
भिन्नवृत्तासमावृत्त- जडतैलिकमूलिकाः ॥ १।१६४ ॥
भूताविष्टनृपद्विष्ट वर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृ- हीनाङ्गभगवृत्तयः ॥ १।१६५ ॥
कुनखी श्यावदन् श्वित्रि- मित्रध्रुक्शठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्र श्रेणीगणविरोधिनः ॥ १।१६६ ॥
वधकृच्चित्रकृन्मङ्खः पतितः कूटकारकः ।
कुहकः प्रत्यवसितस् तस्करो राजपूरुषः ॥ १।१६७ ॥
मनुष्यविषशस्त्राम्बु- लवणापूपवीरुधाम् ।
विक्रेता ब्राह्मणश् चैव द्विजो वार्धुषिकश् च यः ॥ १।१६८ ॥
च्युतः स्वधर्मात् कुलिकः स्तावको हीनसेवकः ।
पित्रा विवदमानश् च भेदकृच् चेत्य् असाक्षिणः ॥ १।१६९ ॥
असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः ।
कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥ १।१७० ॥
साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च ।
पारुष्ययोश् चाप्य् उभयोर् न परीक्षेत साक्षिणः ॥ १।१७१ ॥
तेषाम् अपि न बालः स्यान् नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥ १।१७२ ॥
बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ।
विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनाद् अरिः ॥ १।१७३ ॥
अथवानुमतो यः स्याद् द्वयोर् विवदमानयोः ।
असाक्ष्य् एको ऽपि साक्षित्वे प्रष्टव्यः स्यात् स संसदि ॥ १।१७४ ॥
यस् त्व् आत्मदोषभिन्नत्वाद् अस्वस्थ इव लक्ष्यते ।
स्थानात् स्थानान्तरं गच्छेद् एकैकं चोपधावति ॥ १।१७५ ॥
कासते ऽनिभृतो ऽकस्माद् अभीक्ष्णं निश्वसत्य् अपि ।
भूमिं लिखति पादाभ्यां बाहु वासो धुनोति च ॥ १।१७६ ॥
भिद्यते मुखवर्णो ऽस्य ललाटं स्विद्यते तथा ।
शोषम् आगच्छतश् चोष्ठाव् ऊर्ध्वं तिर्यक् च वीक्षते ॥ १।१७७ ॥
त्वरमाण इवाबद्धम् अपृष्टो बहु भाषते ।
कूटसाक्षी स विज्ञेयस् तं पापं विनयेन् नृपः ॥ १।१७८ ॥
श्रावयित्वा च यो ऽन्येभ्यः साक्षित्वं तद् विनिह्नुते ।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ १।१७९ ॥
आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥ १।१८० ॥
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ १।१८१ ॥
पुराणैर् धर्मवचनैः सत्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रास्य साक्षिणः ॥ १।१८२ ॥
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
दीनः शत्रुगृहं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥ १।१८३ ॥
नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः ।
अमित्रान् भूयशः पश्येद् यः साक्ष्यम् अनृतं वदेत् ॥ १।१८४ ॥
यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् ॥ १।१८५ ॥
साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् ।
सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति ॥ १।१८६ ॥
तस्य वर्षशते पूर्णे पाशम् एकं प्रमुच्यते ।
एवं स बन्धनात् तस्मान् मुच्यते नियुताः समाः ॥ १।१८७ ॥
यावतो बान्धवांस् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ १।१८८ ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ १।१८९ ॥
हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ १।१९० ॥
एकम् एवाद्वितीयं तत् प्राहुः पावनम् आत्मनः ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव ॥ १।१९१ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते ॥ १।१९२ ॥
वरं कूपशताद् वापि वरं वापीशतात् क्रतुः ।
वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् ॥ १।१९३ ॥
भूर् धारयति सत्येन सत्येनोदेति भास्करः ।
सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ १।१९४ ॥
सत्यम् एव परं दानं सत्यम् एव परं तपः ।
सत्यम् एव परो धर्मो लोकानाम् इति नः श्रुतम् ॥ १।१९५ ॥
सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं स्मृतम् ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ १।१९६ ॥
सत्यं ब्रूह्य् अनृतं त्यक्त्वा सत्येन स्वर्गम् एष्यसि ।
उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यते ॥ १।१९७ ॥
निरयेषु च ते शश्वज् जिह्वाम् उत्कृत्य दारुणाः ।
असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥ १।१९८ ॥
शूलैर् भेत्स्यन्ति चाक्रुद्धाः क्रोशन्तम् अपरायणम् ।
अवाक्शिरसम् उत्क्षिप्य क्षेप्स्यन्त्य् अग्निह्रदेषु च ॥ १।१९९ ॥
अनुभूय च दुःखास् ताश् चिरं नरकवेदनाः ।
इह यास्यस्य् अभव्यासु गृध्रकाकादियोनिषु ॥ १।२०० ॥
ज्ञात्वैतान् अनृते दोषाञ् ज्ञात्वा सत्ये च सद्गुणान् ।
सत्यं वदोद्धरात्मानं मात्मानं पातयिष्यसि ॥ १।२०१ ॥
न बान्धवा न सुहृदो न धनानि महान्त्य् अपि ।
अलं तारयितुं शक्तास् तमस्य् उग्रे निमज्जतः ॥ १।२०२ ॥
पितरस् त्व् अवलम्बन्ते त्वयि साक्षित्वम् आगते ।
तारयिष्यति किंवास्मान् आत्मानं पातयिष्यति ॥ १।२०३ ॥
सत्यम् आत्मा मनुष्यस्य सत्ये सर्वं प्रतिष्ठितम् ।
सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि ॥ १।२०४ ॥
यां च रात्रिम् अजनिष्ठा यां रात्रिं च मरिष्यसि ।
वृथा तदन्तरं ते स्यात् कुर्याश् चेत् सत्यम् अन्यथा ॥ १।२०५ ॥
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यम् एव वदेत् ततः ॥ १।२०६ ॥
यः परार्थे प्रहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थे किं न कुर्यात् स पापो नरकनिर्भयः ॥ १।२०७ ॥
अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः ।
यो ह्य् एतां स्तेनयेद् वाचं स सर्वस्तेयकृन् नरः ॥ १।२०८ ॥
साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः ।
तत्साम्ये शुचयो ग्राह्यास् तत्साम्ये स्मृतिमत्तराः ॥ १।२०९ ॥
स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते ।
सूक्ष्मत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते पुनः ॥ १।२१० ॥
निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्यम् आगतः ।
न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥ १।२११ ॥
देशकालवयोद्रव्य- प्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् असद् उच्यते ॥ १।२१२ ॥
ऊनम् अभ्यधिकं चार्थं प्रब्रूयुर् यत्र साक्षिणः ।
तद् अप्य् अनुक्तं विज्ञेयम् एष साक्ष्यविधिः स्मृतः ॥ १।२१३ ॥
प्रमादाद् धनिनो यत्र न स्याल् लेख्यं न साक्षिणः ।
अर्थं चापह्नुयाद् वादी तत्रोक्तस् त्रिविधो विधिः ॥ १।२१४ ॥
चोदना प्रतिकालं च युक्तिलेशस् तथैव च ।
तृतीयः शपथश् चोक्तस् तैर् एवं साधयेत् क्रमात् ॥ १।२१५ ॥
अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान् न तद्वचः ।
त्रिचतुःपञ्चकृत्वो वा परतो ऽर्थं तम् आवहेत् ॥ १।२१६ ॥
चोदनाप्रतिघाते तु युक्तिलेशैस् तम् अन्वियात् ।
देशकालार्थसम्बन्ध- परिमाणक्रियादिभिः ॥ १।२१७ ॥
युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अर्दयेत् ।
अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ॥ १।२१८ ॥
दीप्ताग्निर् यं न दहति यम् अन्तर्धारयन्त्य् आपः ।
स तरत्य् अभिशापं तं किल्बिषी स्याद् विपर्यये ॥ १।२१९ ॥
स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोर् अपि ।
एष एव विधिर् दृष्टः सर्वार्थापह्नवेषु च ॥ १।२२० ॥
शपथा ह्य् अपि देवानाम् ऋषीणाम् अपि च स्मृताः ।
वसिष्ठः शपथं शेपे यातुधाने तु शङ्कितः ॥ १।२२१ ॥
सप्तर्षयस् तथेन्द्राय पुष्करार्थे समागताः ।
शेपुः शपथम् अव्यग्राः परस्परविशुद्धये ॥ १।२२२ ॥
अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः ।
ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः ॥ १।२२३ ॥
गूहमानस् तु दौरात्म्याद् यदि पापं स जीयते ।
सभ्याश् चात्र न तुष्यन्ति तीव्रो दण्डश् च पात्यते ॥ १।२२४ ॥