पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ १०।१ ॥
पाषण्डनैगमश्रेणी- पूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥ १०।२ ॥
यो धर्मः कर्म यच् चैषाम् उपस्थानविधिश् च यः ।
यच् चैषां वृत्त्युपादानम् अनुमन्येत तत् तथा ॥ १०।३ ॥
प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत् ।
बाधकं च यद् अर्थानां तत् तेभ्यो विनिवर्तयेत् ॥ १०।४ ॥
मिथः सङ्घातकरणम् अहितं शस्त्रधारणम् ।
परस्परोपघातं च तेषां राजा न मर्षयेत् ॥ १०।५ ॥
पृथग् गणांश् च ये भिन्द्युस् ते विनेया विशेषतः ।
आवहेयुर् भयं घोरं व्याधिवत् ते ह्य् उपेक्षिताः ॥ १०।६ ॥
दोषवत् करणं यत् स्याद् अनाम्नायप्रकल्पितम् ।
प्रवृत्तम् अपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥ १०।७ ॥