३ सभा

मातृका ३

नियुक्तेन तु वक्तव्यम् अपक्षपतितं वचः ॥ ३।१ ॥
युक्तरूपं ब्रुवन् सभ्यो नाप्नुयाद् द्वेषकिल्बिषे ।
ब्रुवाणस् त्व् अन्यथा सभ्यस् तद् एवोभयम् आप्नुयात् ॥ ३।२ ॥
राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुपरीक्षितान् ।
व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ॥ ३।३ ॥
धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः ।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ ३।४ ॥
तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलश् च पार्थिवः ।
सह सद्भिर् अतो राजा व्यवहारान् विशोधयेत् ॥ ३।५ ॥
शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः ।
शुद्धिश् च तेषां धर्माद् धि धर्मम् एव वदेत् ततः ॥ ३।६ ॥
यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥ ३।७ ॥
विद्धो धर्मो ह्य् अधर्मेण सभां यत्रोपतिष्ठते ।
न चेद् विशल्यः क्रियते विद्धास् तत्र सभासदः ॥ ३।८ ॥
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ ३।९ ॥
ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायन्त आसते ।
यथाप्राप्तं न ब्रुवते सर्वे ते ऽनृतवादिनः ॥ ३।१० ॥
पादो ऽधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ ३।११ ॥
राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ ३।१२ ॥
अन्धो मत्स्यान् इवाश्नाति निरपेक्षः सकण्टकान् ।
परोक्षम् अर्थवैकल्याद् भाषते यः सभां गतः ॥ ३।१३ ॥
तस्मात् सभ्यः सभां प्राप्य रागद्वेषविवर्जितः ।
वचस् तथाविधं ब्रूयाद् यथा न नरकं पतेत् ॥ ३।१४ ॥
यथा शल्यं भिषग् विद्वान् उद्धरेद् यन्त्रयुक्तितः ।
प्राड्विवाकस् तथा शल्यम् उद्धरेद् व्यवहारतः ॥ ३।१५ ॥
यत्र सभ्यो जनः सर्वः साध्व् एतद् इति मन्यते ।
स निःशल्यो विवादः स्यात् सशल्यः स्याद् अतो ऽन्यथा ॥ ३।१६ ॥
न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यम् अस्ति न तत् सत्यं यच् छलेनानुविद्धम् ॥ ३।१७ ॥