मातृका २ ( मातृका २ इस् फ़ोउन्द् ओन्ल्य् इन् म्स् प्। )
[थे सेचोन्द् छप्तेर् ओफ़् थे मातृका इन्च्लुदेद् इन् जोल्ल्य्ऽस् एदितिओन् अन्द् त्रन्स्लतिओन्
इस् नोत् तो बे पर्त् ओफ़् थे ओरिगिनल् नारदस्मृति (सेए थे इन्त्रोदुच्तिओन् तो थे तेxत्)।
इत्स् त्रन्स्लतिओन् इस् गिवेन् इन् थे अप्पेन्दिx।]
सुनिश्चितबलाधानस् त्व् अर्थी स्वार्थप्रचोदितः ।
लेखयेत् पूर्वपक्षं तु कृतकार्यविनिश्चयः ॥ २।१ ॥
पूर्वपक्षश्रुतार्थस् तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसम्बन्धं प्रतिपक्षं निवेशयेत् ॥ २।२ ॥
श्वो लेखनं वा स लभेत् त्र्यहं सप्ताहम् एव वा ।
अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी ॥ २।३ ॥
मिथ्या सम्प्रतिपत्तिर् वा प्रत्यवस्कन्दम् एव वा ।
प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच् चतुर्विधम् ॥ २।४ ॥
मिथ्यैतन् नाभिजानामि तदा तत्र न सन्निधिः ।
अजातश् चास्मि तत्काल एवं मिथ्या चतुर्विधा ॥ २।५ ॥
मिथ्या च विपरीतं च पुनः शब्दसमागमम् ।
पूर्वपक्षार्थसम्बन्धम् उत्तरं स्याच् चतुर्विधम् ॥ २।६ ॥
भाषाया उत्तरं यावत् प्रत्यर्थी न निवेशयेत् ।
अर्थी तु लेखयेत् तावद् यावद् वस्तु विवक्षितम् ॥ २।७ ॥
अन्यार्थम् अर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यं हीनाधिकं भ्रष्टं भाषादोषास् तूदाहृताः ॥ २।८ ॥
लब्धव्यं येन यद् यस्मात् स तत् तस्माद् अवाप्नुयात् ।
न त्व् अन्यो ऽन्यद् अथान्यस्माद् इत्य् अन्यार्थम् इदं त्रिधा ॥ २।९ ॥
मनसाहम् अपि ध्यातस् त्वन्मित्रेणेह शत्रुवत् ।
अतो ऽन्यथा महाक्षान्त्या त्वम् इहावेदितो मया ॥ २।१० ॥
द्रव्यप्रमाणहीनं यत् फलोपाश्रयवर्जितम् ।
प्रमाणवर्जितं नाम लेख्यदोषं तद् उत्सृजेत् ॥ २।११ ॥
आगमवर्जितं दोषं पूर्वपादे विवर्जयेत् ।
एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ॥ २।१२ ॥
बिन्दुमात्रापदवर्णेष्व् एकाविधिष्टया (?) ।
हीनाधिका भवेद् व्यर्था तां यत्नेन विवर्जयेत् ॥ २।१३ ॥
भ्रष्टं तु दुःस्थितं यत् स्याज् जलतैलादिभिर् हतम् ।
भाषायां तद् अपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ॥ २।१४ ॥
सत्या भाषा न भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भ्रश्यते धर्मान् नियताद् व्यवहारिकात् ॥ २।१५ ॥
गन्धमादनसंस्थस्य मयास्यासीत् तद् अर्पितम् ।
व्यवहारिकधर्मस्य बाह्यम् एतन् न सिध्यति ॥ २।१६ ॥
अन्याक्षरनिवेशेन अन्यार्थगमनेन च ।
आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥ २।१७ ॥
रागादीनां यद् एकेन कोपितः करणे वदेत् ।
तद् आदौ तु लिखेत् सर्वं वादिनः फलकादिषु ॥ २।१८ ॥
निराकुलावबोधाय धर्मस्थैः सुविचारितम् ।
तस्माद् अन्यद् व्यपोह्यं स्याद् वादिनः फलकादिषु ॥ २।१९ ॥
वादिभ्याम् अभ्यनुज्ञातं शेषं च फलके स्थितम् ।
ससाक्षिकं लिखेयुस् ते प्रतिपत्तिं च वादिनोः ॥ २।२० ॥
वादिभ्यां लिखिताच् छेषं यत् पुनर् वादिना स्मृतम् ।
तत् प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ॥ २।२१ ॥
अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥ २।२२ ॥
यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारे ऽपि विब्रुवन् ॥ २।२३ ॥
पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते पुनः ।
वादसङ्क्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥ २।२४ ॥
सर्वेष्व् अपि विवादेषु वाक्छले नापहीयते ।
पशुस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥ २।२५ ॥
अभियुक्तो ऽभियोगस्य यदि कुर्याद् अपह्नवम् ।
अभियोक्ता दिशेद् देश्यं प्रत्यवस्कन्दितो न चेत् ॥ २।२६ ॥
पूर्वपादे हि लिखितं यथाक्षरम् अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ २।२७ ॥
क्रियापि द्विविधा प्रोक्ता मानुषी दैविकी तथा ।
मानुषी लेख्यसाक्षिभ्यां धटादिर् दैविकी स्मृता ॥ २।२८ ॥
दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा ।
सम्भवे साक्षिणां चैव दिव्या न भवति क्रिया ॥ २।२९ ॥
अरण्ये निर्जने रात्राव् अन्तर्वेश्मनि साहसे ।
न्यासस्यापह्नवे चैव दिव्या सम्भवति क्रिया ॥ २।३० ॥
कारणप्रतिपत्त्या च पूर्वपक्षे विरोधिते ।
अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ॥ २।३१ ॥
पलायते य आहूतो मौनी साक्षिपराजितः ।
स्वयम् अभ्युपपन्नश् च अवसन्नश् चतुर्विधः ॥ २।३२ ॥
अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ २।३३ ॥
मणयः पद्मरागाद्या दीनारादि हिरण्मयम् ।
मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः ॥ २।३४ ॥
गन्धमाल्यम् अदत्तं तु भूषणं वास एव वा ।
पादुकेति राजोक्तं तद् आक्रामन् वधम् अर्हति ॥ २।३५ ॥
पण्यमूल्यं भृतिर् न्यासो दण्डो यच् चावहारकम् ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥ २।३६ ॥
मिथ्याभियोगिनो ये स्युर् द्विजानां शूद्रयोनयः ।
तेषां जिह्वां समुत्कृत्य राजा शूले विधापयेत् ॥ २।३७ ॥
आज्ञा लेखः पट्टकः शासनं वा आधिः पत्त्रं विक्रयो वा क्रयो वा ।
राज्ञे कुर्यात् पूर्वम् आवेदनं यस् तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः ॥ २।३८ ॥
साक्षिकदूषणे कार्यं पूर्वसाक्षिविशोधनम् ।
शुद्धेषु साक्षिषु ततः पश्चात् साक्ष्यं विशोधयेत् ॥ २।३९ ॥
साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ॥ २।४० ॥
स्वयम् अभ्युपपन्नो ऽपि स्वचर्यावसितो ऽपि सन् ।
क्रियावसन्नो ऽप्य् अर्हेत परं सभ्यावधारणम् ॥ २।४१ ॥
पक्षान् उत्सार्य कार्यस् तु सभ्यैः कार्यविनिश्चयः ।
अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ॥ २।४२ ॥
सभैर् एव जितः पश्चाद् राज्ञा शास्यः स्वशास्त्रतः ।
जयिने चापि देयं स्याद् यथावज् जयपत्रकम् ॥ २।४३ ॥
व्यवहारमुखं चैतत् पूर्वम् उक्तं स्वयम्भुवा ।
मुखशुद्धौ हि शुद्धिः स्याद् व्यवहारस्य नान्यथा ॥ २।४४ ॥