१ व्यवहारः

मातृका १

धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः ।
तदा न व्यवहारो ऽभून् न द्वेषो नापि मत्सरः ॥ १।१ ॥
नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते ।
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥ १।२ ॥
लिखितं साक्षिणश् चात्र द्वौ विधी सम्प्रकीर्तितौ ।
सन्दिग्धार्थविशुद्ध्यर्थं द्वयोर् विवदमानयोः ॥ १।३ ॥
सोत्तरो ऽनुत्तरश् चैव स विज्ञेयो द्विलक्षणः ।
सोत्तरो ऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥ १।४ ॥
विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते ।
स पणं स्वकृतं दाप्यो विनयं च पराजये ॥ १।५ ॥
सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥ १।६ ॥
कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥ १।७ ॥
स चतुष्पाच् चतुःस्थानश् चतुःसाधन एव च ।
चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥ १।८ ॥
अष्टाङ्गो ऽष्टादशपदः शतशाखस् तथैव च ।
त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ॥ १।९ ॥
धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥ १।१० ॥
तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।
चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥ १।११ ॥
सामाद्युपायसाध्यत्वाच् चतुःसाधन उच्यते ।
चतुर्णाम् आश्रमाणां च रक्षणात् स चतुर्हितः ॥ १।१२ ॥
कर्तॄन् अथो साक्षिणश् च सभ्यान् राजानम् एव च ।
व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥ १।१३ ॥
धर्मस्यार्थस्य यशसो लोकपक्तेस् तथैव च ।
चतुर्णां करणाद् एषां चतुष्कारी प्रकीर्तितः ॥ १।१४ ॥
राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ।
हिरण्यम् अग्निर् उदकम् अष्टाङ्गः स उदाहृतः ॥ १।१५ ॥
ऋणादानं ह्य् उपनिधिः सम्भूयोत्थानम् एव च ।
दत्तस्य पुनर् आदानम् अशुश्रूषाभ्युपेत्य च ॥ १।१६ ॥
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासम्प्रदानं च क्रीत्वानुशय एव च ॥ १।१७ ॥
समयस्यानपाकर्म विवादः क्षेत्रजस् तथा ।
स्त्रीपुंसयोश् च सम्बन्धो दायभागो ऽथ साहसम् ॥ १।१८ ॥
वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च ।
द्यूतं प्रकीर्णकं चैवेत्य् अष्टादशपदः स्मृतः ॥ १।१९ ॥
एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं स्मृतम् ।
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥ १।२० ॥
कामात् क्रोधाच् च लोभाच् च त्रिभ्यो यस्मात् प्रवर्तते ।
त्रियोनिः कीर्त्यते तेन त्रयम् एतद् विवादकृत् ॥ १।२१ ॥
द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्कासतां तु संसर्गात् तत्त्वं होढादिदर्शनात् ॥ १।२२ ॥
पक्षद्वयाभिसम्बन्धाद् द्विद्वारः समुदाहृतः ।
पूर्ववादस् तयोः पक्षः प्रतिपक्षस् तदुत्तरम् ॥ १।२३ ॥
भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ १।२४ ॥
तत्र शिष्टं छलं राजा मर्षयेद् धर्मसाधनः ।
भूतम् एव प्रपद्येत धर्ममूला यतः श्रियः ॥ १।२५ ॥
धर्मेणोद्धरतो राज्ञो व्यवहारान् कृतात्मनः ।
सम्भवन्ति गुणाः सप्त सप्त वह्नेर् इवार्चिषः ॥ १।२६ ॥
धर्मश् चार्थश् च कीर्तिश् च लोकपक्तिर् उपग्रहः ।
प्रजाभ्यो बहुमानश् च स्वर्गे स्थानं च शाश्वतम् ॥ १।२७ ॥
तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः ।
समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥ १।२८ ॥
धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद् व्यवहारान् अनुक्रमात् ॥ १।२९ ॥
आगमः प्रथमं कार्यो व्यवहारपदं ततः ।
विवित्सा निर्णयश् चैव दर्शनं स्याच् चतुर्विधम् ॥ १।३० ॥
धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन मार्गतः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥ १।३१ ॥
यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् ।
कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥ १।३२ ॥
यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आचारेत् ॥ १।३३ ॥
धर्मशास्त्रविरोधे तु युक्तियुक्तो ऽपि धर्मतः ।
व्यवहारो हि बलवान् धर्मस् तेनावहीयते ॥ १।३४ ॥
सूक्ष्मो हि भगवान् धर्मः परोक्षो दुर्विचारणः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥ १।३५ ॥
यात्य् अचौरो ऽपि चौरत्वं चौरश् चायात्य् अचौरताम् ।
अचौरश् चौरतां प्राप्तो माण्डव्यो व्यवहारतः ॥ १।३६ ॥
स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मन्य् अरातिषु ।
व्यवहारः कृतो ऽप्य् एषु पुनः कर्तव्यताम् इयात् ॥ १।३७ ॥
गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ १।३८ ॥
गोभूहिरण्यस्त्रीस्तेय- पारुष्यात्ययिकेषु च ।
साहसेष्व् अभिशापे च सद्य एव विवादयेत् ॥ १।३९ ॥
अनावेद्य तु यो राज्ञे सन्दिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चास्यार्थो न सिध्यति ॥ १।४० ॥
वक्तव्ये ऽर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥ १।४१ ॥
स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधो नासिद्धस् तं विलङ्घयेत् ॥ १।४२ ॥
नदीसन्तारकान्तार- दुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥ १।४३ ॥
आसेधकाल आसिद्ध आसेधम् यो व्यतिक्रमेत् ।
स विनेयो ऽन्यथा कुर्वन्न् आसेद्धा दण्डभाग् भवेत् ॥ १।४४ ॥
निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥ १।४५ ॥
गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः ।
शिल्पिनः चापि तत्कालम् आयुधीयाश् च विग्रहे ॥ १।४६ ॥
अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थश् च नासेध्यो न चैनान् आह्वयेन् नृपः ॥ १।४७ ॥
नाभियुक्तो ऽभियुञ्जीत तम् अतीर्त्वार्थम् अन्यतः ।
न चाभियुक्तम् अन्येन न विद्धं वेद्धुम् अर्हति ॥ १।४८ ॥
यम् अर्थम् अभियुञ्जीत न तं विप्रकृतिं नयेत् ।
नान्यत् पक्षान्तरं गच्छेद् गच्छन् पूर्वात् स हीयते ॥ १।४९ ॥
न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः ।
यस् तत्र विनयः प्रोक्तः सो ऽभियोक्तारम् आव्रजेत् ॥ १।५० ॥
सापदेशं हरन् कालम् अब्रुवंश् चापि संसदि ।
उक्त्वा वचो विब्रुवंश् च हीयमानस्य लक्षणम् ॥ १।५१ ॥
पलायते य आहूतः प्राप्तश् च विवदेन् न यः ।
विनेयः स भवेद् राज्ञा हीन एव स वादतः ॥ १।५२ ॥
निर्णिक्तव्यवहारेषु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ १।५३ ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥ १।५४ ॥
अभूतम् अप्य् अभिहितं प्राप्तकालं परीक्ष्यते ।
यत् तु प्रमादान् नोच्येत तद् भूतम् अपि हीयते ॥ १।५५ ॥
तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥ १।५६ ॥
दुर्दृष्टे व्यवहारे तु सभ्यास् तं दण्डम् आप्नुयुः ।
न हि जातु विना दण्डं कश्चिन् मार्गे ऽवतिष्ठते ॥ १।५७ ॥
रागाद् अज्ञानतो वापि लोभाद् वा यो ऽन्यथा वदेत् ।
सभ्यो ऽसभ्यः स विज्ञेयस् तं राजा विनयेद् भृशम् ॥ १।५८ ॥
किन्तु राज्ञा विशेषेण स्वधर्मम् अनुरक्षता ।
मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ॥ १।५९ ॥
पुरुषाः सन्ति ये लोभात् प्रब्रूयुः साक्ष्यम् अन्यथा ।
सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥ १।६० ॥
अतः परीक्ष्यम् उभयम् एतद् राज्ञा विशेषतः ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ १।६१ ॥
असत्याः सत्यसङ्काशाः सत्याश् चासत्यदर्शनाः ।
दृश्यन्ते विविधा भावास् तस्माद् युक्तं परीक्षणम् ॥ १।६२ ॥
तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।
न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥ १।६३ ॥
तस्मात् प्रत्यक्षदृष्टो ऽपि युक्तम् अर्थः परीक्षितुम् ।
परीक्ष्य ज्ञापयन् अर्थान् न धर्मात् परिहीयते ॥ १।६४ ॥
एवं पश्यन् सदा राजा व्यवहारान् समाहितः ।
वितत्येह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम् ॥ १।६५ ॥