१२

प्रस्तावः

001 चातुर्वर्ण्यस्य कृत्स्नो ...{Loading}...

चातुर्वर्ण्यस्य कृत्स्नो ऽयम्
उक्तो धर्मस् त्वयानघः ।
कर्मणां फलनिर्वृत्तिं
शंस नस् तत्त्वतः पराम् ॥ १२.१ ॥

002 स तान् ...{Loading}...

स तान् उवाच धर्मात्मा
महर्षीन् मानवो+++(5)+++ भृगुः ।
अस्य सर्वस्य शृणुत
कर्मयोगस्य निर्णयम् ॥ १२.२ ॥

003 शुभाशुभ-फलङ् कर्म ...{Loading}...

शुभाशुभ-फलं कर्म
मनो-वाग्-देह-संभवम् ।
कर्मजा गतयो नॄणाम्
उत्तमाधम-मध्यमः ॥ १२.३ ॥

कर्मविभागः

004 तस्येह त्रिविधस्याऽपि ...{Loading}...

तस्येह +++(उत्तमाधम-मध्यम-गतिभेदेन)+++ त्रिविधस्याऽपि
+++(वाङ्-मनः-काय-साधन-भेदेन)+++ त्र्य्-अधिष्ठानस्य देहिनः ।
+++(वक्ष्यमाण-)+++दश-लक्षण-युक्तस्य +++(कर्मयोगस्य)+++
मनो विद्यात् प्रवर्तकम् ॥ १२.४ ॥
१० लक्षणानि = ३ मानसिकानि, ४ वाचिकानि, ३ कायिकानि।

005 परद्रव्येष्व् अभिध्यानम् ...{Loading}...

पर-द्रव्येष्व् अभिध्यानं
मनसा ऽनिष्ट-चिन्तनम् ।
+++(चिन्तनविषयेषु)+++ वितथाभिनिवेशश् च
त्रिविधं कर्म मानसम् ॥ १२.५ ॥+++(4)+++

006 पारुष्यम् अनृतम् ...{Loading}...

पारुष्यम्, अनृतं चैव,
पैशुन्यं चाऽपि सर्वशः ।
असंबद्ध-प्रलापश् च
वाङ्-मयं स्याच् चतुर्विधम् ॥ १२.६ ॥+++(5)+++

007 अदत्तानाम् उपादानम् ...{Loading}...

अदत्तानाम् उपादानं
हिंसा चैवाऽविधानतः ।
पर-दारोपसेवा च
शारीरं त्रिविधं स्मृतम् ॥ १२.७ ॥

008 मानसम् मनसैवाऽयम् ...{Loading}...

मानसं मनसैवाऽयम्
उपभुङ्क्ते शुभाशुभम् ।
वाचा वाचा कृतं कर्म
कायेनैव च कायिकम् ॥ १२.८ ॥

009 शरीरजैः कर्मदोषैर् ...{Loading}...

शरीरजैः कर्मदोषैर्
याति स्थावरतां नरः ।
वाचिकैः पक्षि-मृगतां
मानसैर् अन्त्यजातिताम् ॥ १२.९ ॥+++(4)+++

आत्मनियन्त्रणम्

010 वाग्दण्डो ऽथ ...{Loading}...

वाग्-दण्डो+++(=दमनम्)+++ ऽथ मनोदण्डः
कायदण्डस् तथैव च ।
यस्यैते निहिता बुद्धौ
त्रिदण्डीति स उच्यते ॥ १२.१० ॥

011 त्रिदण्डम् एतन् ...{Loading}...

त्रिदण्डम् एतन् निक्षिप्य
सर्वभूतेषु मानवः ।
काम-क्रोधौ तु संयम्य
ततः सिद्धिं नियच्छति
[मेधातिथिपाठः - काम-क्रोधौ सुसंयम्य
ततः सिद्धिं निगच्छति] ॥ १२.११ ॥

##आत्मविभागः

012 यो ऽस्यात्मनः ...{Loading}...

यो ऽस्यात्मनः कारयिता
तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि
स भूतात्मोच्यते बुधैः ॥ १२.१२ ॥

013 जीवसञ्ज्ञो ऽन्तरात्मान्यः ...{Loading}...

जीवसंज्ञो ऽन्तरात्मान्यः
सहजः सर्व-देहिनाम् ।
येन वेदयते सर्वं
सुखं दुःखं च जन्मसु ॥ १२.१३ ॥

014 ताव् उभौ ...{Loading}...

ताव् उभौ भूत-संपृक्तौ
महान् +++(जीवाख्यं)+++, क्षेत्रज्ञ+++(=कारयिता)+++ एव च ।
उच्चाऽवचेषु भूतेषु +++(यः स्थितः)+++
स्थितं तं व्याप्य तिष्ठतः ॥ १२.१४ ॥

015 असङ्ख्या मूर्तयस् ...{Loading}...

असंख्या मूर्तयस् तस्य
निष्पतन्ति शरीरतः ।
उच्चावचानि भूतानि
सततं चेष्टयन्ति याः ॥ १२.१५ ॥

016 पञ्चभ्य एव ...{Loading}...

पञ्चभ्य एव मात्राभ्यः
प्रेत्य दुष्कृतिनां नृणाम् [मेधातिथिपाठः - पञ्चभ्य एव भूतेभ्यः] ।
+++(पीडा-दण्डनार्थं)+++ शरीरं यातनार्थीयम्
अन्यद् उत्पद्यते ध्रुवम् ॥ १२.१६ ॥+++(4)+++

017 तेनाऽनुभूय ता ...{Loading}...

तेनाऽनुभूय ता यामीः+++(←यमः)+++
शरीरेणेह यातनाः ।
तास्व् एव +++(पञ्च)+++भूत-मात्रासु
प्रलीयन्ते विभागशः ॥ १२.१७ ॥

018 सो ऽनुभूयाऽसुखोदर्कान् ...{Loading}...

सो ऽनुभूयाऽसुखोदर्कान्
दोषान् विषय-सङ्ग-जान् ।
व्यपेत-कल्मषो ऽभ्येति
ताव् एवोभौ महौजसौ +++(भूतात्मानं, क्षेत्रज्ञं = कारयितारं च)+++ ॥ १२.१८ ॥

019 तौ धर्मम् ...{Loading}...

तौ धर्मं पश्यतस् तस्य
पापं चाऽतन्द्रितौ सह ।
याभ्यां +++(धर्म-पापाभ्यां)+++ प्राप्नोति संपृक्तः
प्रेत्येह च सुखासुखम् ॥ १२.१९ ॥

020 यद्य् आचरति ...{Loading}...

यद्य् आचरति धर्मं स
प्रायशो ऽधर्मम् अल्पशः [मेधातिथिपाठः - यथाचरति] ।
तैर् एव चावृतो भूतैः
स्वर्गे सुखम् उपाश्नुते ॥ १२.२० ॥+++(5)+++

021 यदि तु ...{Loading}...

यदि तु प्रायशो ऽधर्मं
सेवते धर्मम् अल्पशः ।
तैर् +++(स्वर्ग्य-)+++भूतैः स परित्यक्तो
यामीः+++(←यम)+++ प्राप्नोति यातनाः ॥ १२.२१ ॥

022 यामीस् ता ...{Loading}...

यामीस्+++(←यम)+++ ता यातनाः प्राप्य
स जीवो वीत-कल्मषः ।
तान्य् एव पञ्च भूतानि
पुनर् अप्येति भागशः ॥ १२.२२ ॥

023 एता दृष्ट्वास्य ...{Loading}...

एता दृष्ट्वास्य जीवस्य
गतीः स्वेनैव चेतसा ।
धर्मतो ऽधर्मतश् चैव
धर्मे दध्यात् सदा मनः ॥ १२.२३ ॥+++(4)+++

गुणाः

024 सत्त्वं रजस् ...{Loading}...

सत्त्वं रजस् तमश् चैव
त्रीन् विद्याद् आत्मनो गुणान् ।
यैर् व्याप्येमान् स्थितो भावान्
महान् +++(जीवो ऽनुभोक्ता)+++ सर्वान् अशेषतः ॥ १२.२४ ॥

025 यो यदैषाम् ...{Loading}...

यो यदैषां गुणो देहे
साकल्येनाऽतिरिच्यते ।
स तदा तद्-गुण-प्रायं
तं करोति शरीरिणम् ॥ १२.२५ ॥+++(5)+++

026 सत्त्वञ् ज्ञानम् ...{Loading}...

सत्त्वं ज्ञानं तमो ऽज्ञानं
राग-द्वेषौ रजः स्मृतम् ।
एतद् व्याप्तिमद् एतेषां
सर्वभूताश्रितं +++(कल्पित)+++वपुः ॥ १२.२६ ॥+++(5)+++

027 तत्र यत् ...{Loading}...

तत्र यत् प्रीतिसंयुक्तं
किं चिद् आत्मनि लक्षयेत् ।
प्रशान्तम् इव शुद्धाभं
सत्त्वं तद् उपधारयेत् ॥ १२.२७ ॥+++(5)+++

028 यत् तु ...{Loading}...

यत् तु +++(सुखम् अपि)+++ दुःख-समायुक्तम्
अप्रीति-करम् आत्मनः ।
तद् रजो प्रतीपं विद्यात्
सततं +++(इन्द्रिय-)+++हारि देहिनाम् [मेधातिथिपाठः - हर्तृ] ॥ १२.२८ ॥

029 यत् तु ...{Loading}...

यत् तु स्यान् मोह-संयुक्तम्
अव्यक्तं विषयात्मकम् ।
अप्रतर्क्यम् अविज्ञेयं
तमस् तद् +++(इत्य्)+++ उप-धारयेत् ॥ १२.२९ ॥

गुणफलम्

030 त्रयाणाम् अपि ...{Loading}...

त्रयाणाम् अपि चैतेषां
गुणानां यः फलोदयः ।
अग्र्यो मध्यो जघन्यश् च
तं प्रवक्ष्याम्य् अशेषतः ॥ १२.३० ॥

031 वेदाभ्यासस् तपो ...{Loading}...

वेदाभ्यासस् तपो ज्ञानं
शौचम् इन्द्रिय-निग्रहः ।
धर्म-क्रिया ऽऽत्म-चिन्ता च
सात्त्विकं गुण-लक्षणम् ॥ १२.३१ ॥+++(5)+++

032 आरम्भरुचिताधैर्यम् असत्कार्य-परिग्रहः ...{Loading}...

आरम्भ-रुचिता धैर्यम्
असत्कार्य-परिग्रहः ।
विषयोपसेवा चाऽजस्रं
राजसं गुण-लक्षणम् ॥ १२.३२ ॥+++(5)+++

033 लोभः स्वप्नो ...{Loading}...

लोभः स्वप्नो ऽधृतिः क्रौर्यं
नास्तिक्यं भिन्न-वृत्तिता ।
याचिष्णुता प्रमादश् च
तामसं गुण-लक्षणम् ॥ १२.३३ ॥

कर्मसु गुणलक्षणानि

034 त्रयाणाम् अपि ...{Loading}...

त्रयाणाम् अपि चैतेषां
गुणानां त्रिषु +++(कर्मविधेषु)+++ तिष्ठताम् ।
इदं सामासिकं ज्ञेयं
क्रमशो गुण-लक्षणम् ॥ १२.३४ ॥

035 यत् कर्म ...{Loading}...

यत् कर्म कृत्वा कुर्वंश् च
करिष्यंश् चैव लज्जति ।
तज् ज्ञेयं विदुषा सर्वं
तामसं गुण-लक्षणम् ॥ १२.३५ ॥+++(4)+++

036 येनाऽस्मिन् कर्मणा ...{Loading}...

येनाऽस्मिन् कर्मणा लोके
ख्यातिम् इच्छति पुष्कलाम् ।
न च शोचत्य् असंपत्तौ
तद् विज्ञेयं तु राजसम् ॥ १२.३६ ॥+++(5)+++

037 यत् सर्वेणेच्छति ...{Loading}...

यत् +++(कर्म)+++ सर्वेणेच्छति ज्ञातुं
यन् न लज्जति चाचरन् ।
येन तुष्यति चात्मास्य
तत् सत्त्वगुणलक्षणम् ॥ १२.३७ ॥+++(5)+++

038 तमसो लक्षणम् ...{Loading}...

तमसो लक्षणं कामो
रजसस् त्व् अर्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः
श्रैष्ठ्यम् एषां यथोत्तरम् ॥ १२.३८ ॥+++(5)+++

गुणफलम्

039 येन यस् ...{Loading}...

येन यस् +++(जनः)+++ तु गुणेनैषां +++(गुणानां मध्ये)+++
+++(प्रेत्य)+++ संसरान् प्रतिपद्यते [मेधातिथिपाठः - येन यांस् तु] ।
तान् समासेन वक्ष्यामि
सर्वस्याऽस्य यथाक्रमम् ॥ १२.३९ ॥

040 देवत्वं सात्त्विका ...{Loading}...

देवत्वं सात्त्विका यान्ति
मनुष्यत्वं च राजसाः ।
तिर्यक्त्वं तामसा नित्यम्
इत्य् एषा त्रिविधा गतिः ॥ १२.४० ॥+++(4)+++

041 त्रिविधा त्रिविधैषा ...{Loading}...

+++(दृष्ट्यन्तरेणापि)+++ त्रिविधा त्रिविधैषा +++(→गतिः)+++ तु
विज्ञेया गौणिकी गतिः
अधमा मध्यमाग्र्या च
कर्म-विद्या-विशेषतः ॥ १२.४१ ॥

042 स्थावराः कृमि-कीटाश् ...{Loading}...

स्थावराः कृमि-कीटाश् च
मत्स्याः सर्पाः स-कच्छपाः ।
पशवश् च मृगाश् चैव
जघन्या तामसी गतिः ॥ १२.४२ ॥

043 हस्तिनश् च ...{Loading}...

हस्तिनश् च तुरङ्गाश् च
शूद्रा म्लेच्छाश् च गर्हिताः ।
सिंहा व्याघ्रा वराहाश् च
मध्यमा तामसी गतिः ॥ १२.४३ ॥+++(4)+++

044 चारणाश् च ...{Loading}...

चारणाश्+++(=कथक-गायक-स्त्री-संयोजकादयः)+++ च सुपर्णाश् च
पुरुषाश् चैव दाम्भिकाः ।
रक्षांसि च पिशाचाश् च
तामसीषूत्तमा गतिः ॥ १२.४४ ॥

045 झल्ला मल्ला ...{Loading}...

झल्ला+++(=गदादियोद्धा)+++ मल्ला नटाश् चैव
पुरुषाः शस्त्र-वृत्तयः ।
द्यूत-पान-प्रसक्ताश् च
जघन्या राजसी गतिः ॥ १२.४५ ॥

046 राजानः क्षत्रियाश् ...{Loading}...

राजानः क्षत्रियाश् चैव
राज्ञां चैव पुरोहिताः ।
वाद-युद्ध-प्रधानाश् च
मध्यमा राजसी गतिः ॥ १२.४६ ॥

047 गन्धर्वा गुह्यका ...{Loading}...

गन्धर्वा गुह्यका यक्षा
विबुधानुचराश् च ये ।
तथैवाऽप्सरसः सर्वा
राजसीषूत्तमा गतिः ॥ १२.४७ ॥

048 तापसा यतयो ...{Loading}...

तापसा यतयो विप्रा
ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश्+++(=असुराः सिद्धिमन्तः??)+++ च
प्रथमा सात्त्विकी गतिः ॥ १२.४८ ॥

049 यज्वान ऋषयो ...{Loading}...

यज्वान ऋषयो देवा
वेदा ज्योतींषि वत्सराः ।
पितरश् चैव साध्याश् च
द्वितीया सात्त्विकी गतिः ॥ १२.४९ ॥

050 ब्रह्मा विश्वसृजो ...{Loading}...

ब्रह्मा विश्वसृजो+++(→प्रजापतयः, ऋभवः)+++ धर्मो
महान्, अव्यक्तम् +++(ब्रह्म)+++ एव च ।
उत्तमां सात्त्विकीम् एतां
गतिम् आहुर् मनीषिणः ॥ १२.५० ॥

051 एष सर्वः ...{Loading}...

एष सर्वः समुद्दिष्टस्
त्रि-प्रकारस्य कर्मणः [मेधातिथिपाठः - त्रिष्-प्रकारस्य] ।
+++(उत्तमाधममध्यत्वात्)+++ त्रिविधस् त्रिविधः +++(→गतिः)++ कृत्स्नः
संसारः सार्वभौतिकः ॥ १२.५१ ॥

कुगतयः

052 इन्द्रियाणाम् प्रसङ्गेन ...{Loading}...

इन्द्रियाणां प्रसङ्गेन
धर्मस्याऽसेवनेन च ।
पापान् संयान्ति संसारान्
अविद्वांसो नराधमाः ॥ १२.५२ ॥

053 यां याम् ...{Loading}...

यां यां योनिं तु जीवो ऽयं
येन येनेह कर्मणा ।
क्रमशो याति लोके ऽस्मिंस्
तत् तत् सर्वं निबोधत ॥ १२.५३ ॥

054 बहून् वर्षगणान् ...{Loading}...

बहून् वर्ष-गणान् घोरान्
नरकान् प्राप्य तत्-क्षयात् ।
संसारान् प्रति-पद्यन्ते
महापातकिनस् त्व् इमान् ॥ १२.५४ ॥

055 श्व-सूकर-खरोष्ट्राणाङ् गो-ऽजावि-मृग-पक्षिणाम् ...{Loading}...

श्व-सूकर-खरोष्ट्राणां
गो-ऽजावि-मृग-पक्षिणां ।
चण्डाल-पुक्कसानां च
ब्रह्महा योनिम् ऋच्छति ॥ १२.५५ ॥

056 कृमि-कीट-पतङ्गानां विड्-भुजाम् ...{Loading}...

कृमि-कीट-पतङ्गानां
विड्-भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां
सुरापो ब्राह्मणो व्रजेत् ॥ १२.५६ ॥

057 लूताहि-सरटानाञ् च ...{Loading}...

लूताहि-सरटानां च
तिरश्चां चाऽम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां
स्तेनो विप्रः सहस्रशः ॥ १२.५७ ॥

058 तृण-गुल्म-लतानाञ् च ...{Loading}...

तृण-गुल्म-लतानां च
क्रव्यादां दंष्ट्रिणाम् अपि ।
क्रूरकर्मकृतां चैव
शतशो गुरुतल्पगः ॥ १२.५८ ॥

059 हिंस्रा भवन्ति ...{Loading}...

हिंस्रा भवन्ति क्रव्यादाः
कृमयो ऽमेध्यभक्षिणः ।
परस्परादिनः स्तेनाः
प्रेत्याऽन्त्यस्त्रीनिषेविणः ॥ १२.५९ ॥

060 संयोगम् पतितैर् ...{Loading}...

संयोगं पतितैर् गत्वा
परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं
भवति ब्रह्मराक्षसः ॥ १२.६० ॥

061 मणि-मुक्ता-प्रवालानि हृत्वा ...{Loading}...

मणि-मुक्ता-प्रवालानि
हृत्वा लोभेन मानवः ।
विविधाणि च रत्नानि
जायते हेमकर्तृषु ॥ १२.६१ ॥

062 धान्यं हृत्वा ...{Loading}...

धान्यं हृत्वा भवत्य् आखुः
कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको
रसं श्वा नकुलो घृतम् ॥ १२.६२ ॥

063 मांसङ् गृध्रो ...{Loading}...

मांसं गृध्रो वपां मद्गुस्
तैलं तैलपकः खगः ।
चीरीवाकस् तु लवणं
बलाका शकुनिर् दधि ॥ १२.६३ ॥

064 कौशेयन् तित्तिरिर् ...{Loading}...

कौशेयं तित्तिरिर् हृत्वा
क्षौमं हृत्वा तु दर्दुरः ।
कार्पासतान्तवं क्रौञ्चो
गोधा गां वाग्गुदो गुडम् ॥ १२.६४ ॥

065 छुच्छुन्दरिः शुभान् ...{Loading}...

छुच्छुन्दरिः शुभान् गन्धान्
पत्रशाकं तु बर्हिणः [मेधातिथिपाठः - छुच्छुन्दरीः] ।
श्वावित् कृतान्नं विविधम्
अकृतान्नं तु शल्यकः ॥ १२.६५ ॥

066 बको भवति ...{Loading}...

बको भवति हृत्वाग्निं
गृहकारी ह्य् उपस्करम् ।
रक्तानि हृत्वा वासांसि
जायते जीवजीवकः ॥ १२.६६ ॥

067 वृको मृगेभम् ...{Loading}...

वृको मृगेभं व्याघ्रो ऽश्वं
फल-मूलं तु मर्कटः ।
स्त्रीम् ऋक्षः स्तोकको वारि
यानान्य् उष्ट्रः पशून् अजः ॥ १२.६७ ॥

068 यद् वा ...{Loading}...

यद् वा तद् वा परद्रव्यम्
अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं
जग्ध्वा चैवाऽहुतं हविः ॥ १२.६८ ॥

069 स्त्रियो ऽप्य् ...{Loading}...

स्त्रियो ऽप्य् एतेन कल्पेन
हृत्वा दोषम् अवाप्नुयुः ।
एतेषाम् एव जन्तूनां
भार्यात्वम् उपयान्ति ताः ॥ १२.६९ ॥

070 स्वेभ्यः स्वेभ्यस् ...{Loading}...

स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश्
च्युता वर्णा ह्य् अनापदि ।
पापान् संसृत्य संसारान्
प्रेष्यतां यान्ति शत्रुषु [मेधातिथिपाठः - यान्ति दस्युषु] ॥ १२.७० ॥

071 वान्ताश्य् उल्कामुखः ...{Loading}...

वान्ताश्य् उल्कामुखः प्रेतो
विप्रो धर्मात् स्वकाच् च्युतः ।
अमेध्य-कुणपाशी च
क्षत्रियः कटपूतनः [मेधातिथिपाठः - कूटपूतनः] ॥ १२.७१ ॥

072 मैत्राक्षज्योतिकः प्रेतो ...{Loading}...

मैत्राक्षज्योतिकः प्रेतो
वैश्यो भवति पूयभुक् [मेधातिथिपाठः - मैत्राक्षिज्योतिकः] ।
चैलाशकश् च भवति
शूद्रो धर्मात् स्वकाच् च्युतः ॥ १२.७२ ॥

073 यथा यथा ...{Loading}...

यथा यथा निषेवन्ते
विषयान् विषयात्मकाः ।
तथा तथा कुशलता
तेषां तेषूपजायते ॥ १२.७३ ॥

074 ते ऽभ्यासात् ...{Loading}...

ते ऽभ्यासात् कर्मणां तेषां
पापानाम् अल्प-बुद्धयः ।
संप्राप्नुवन्ति दुःखानि
तासु तास्व् इह योनिषु ॥ १२.७४ ॥

075 तामिस्रादिषु चोग्रेषु ...{Loading}...

तामिस्रादिषु चोग्रेषु
नरकेषु विवर्तनम् ।
असिपत्रवनादीनि
बन्धन-छेदनानि च ॥ १२.७५ ॥

076 विविधाश् चैव ...{Loading}...

विविधाश् चैव संपीडाः
काकोलूकैश् च भक्षणम् ।
करम्भवालुकातापान्
कुम्भीपाकांश् च दारुणान् ॥ १२.७६ ॥

077 सम्भवांश् च ...{Loading}...

संभवांश् च वियोनीषु
दुःख-प्रायासु नित्यशः ।
शीतातपाभिघातांश् च
विविधानि भयानि च ॥ १२.७७ ॥

078 असकृद् गर्भवासेषु ...{Loading}...

असकृद् गर्भवासेषु
वासं जन्म च दारुणम् ।
बन्धनानि च काष्ठानि
परप्रेष्यत्वम् एव च [मेधातिथिपाठः - कष्टानि] ॥ १२.७८ ॥

079 बन्धु-प्रिय-वियोगांश् च ...{Loading}...

बन्धु-प्रिय-वियोगांश् च
संवासं चैव दुर्जनैः ।
द्रव्यार्जनं च नाशं च
मित्रामित्रस्य चाऽर्जनम् ॥ १२.७९ ॥

080 जराञ् चैवाऽप्रतीकाराम् ...{Loading}...

जरां चैवाऽप्रतीकारां
व्याधिभिश् चोपपीडनम् ।
क्लेशांश् च विविधांस् तांस् तान्
मृत्युम् एव च दुर्-जयम् ॥ १२.८० ॥

081 यादृशेन तु ...{Loading}...

यादृशेन तु भावेन
यद् यत् कर्म निषेवते ।
तादृशेन शरीरेण
तत् तत् फलम् उपाश्नुते ॥ १२.८१ ॥

082 एष सर्वः ...{Loading}...

एष सर्वः समुद्दिष्टः
कर्मणां वः फलोदयः ।
नैःश्रेयसकरं कर्म
विप्रस्येदं निबोधत ॥ १२.८२ ॥

083 वेदाभ्यासस् तपो ...{Loading}...

वेदाभ्यासस् तपो ज्ञानम्
इन्द्रियाणां च संयमः ।
अहिंसा गुरुसेवा च
निःश्रेयसकरं परम् ॥ १२.८३ ॥

084 सर्वेषाम् अपि ...{Loading}...

सर्वेषाम् अपि चैतेषां
शुभानाम् इह कर्मणाम् ।
किं चिच् छ्रेयस्करतरं
कर्मोक्तं पुरुषं प्रति ॥ १२.८४ ॥

085 सर्वेषाम् अपि ...{Loading}...

सर्वेषाम् अपि चैतेषाम्
आत्मज्ञानं परं स्मृतम् ।
तद् +ध्य् अग्र्यं सर्वविद्यानां
प्राप्यते ह्य् अमृतं ततः ॥ १२.८५ ॥

086 षण्णाम् एषाम् ...{Loading}...

षण्णाम् एषां तु सर्वेषां
कर्मणां प्रेत्य चेह च ।
श्रेयस्करतरं ज्ञेयं
सर्वदा कर्म वैदिकम् ॥ १२.८६ ॥

087 वैदिके कर्मयोगे ...{Loading}...

वैदिके कर्मयोगे तु
सर्वाण्य् एतान्य् अशेषतः ।
अन्तर्भवन्ति क्रमशस्
तस्मिंस् तस्मिन् क्रियाविधौ ॥ १२.८७ ॥

088 सुखाभ्युदयिकञ् चैव ...{Loading}...

सुखाभ्युदयिकं चैव
नैःश्रेयसिकम् एव च ।
प्रवृत्तं च निवृत्तं च
द्विविधं कर्म वैदिकम् ॥ १२.८८ ॥

089 इह चाऽमुत्र ...{Loading}...

इह चाऽमुत्र वा काम्यं
प्रवृत्तं कर्म कीर्त्यते ।
निष्-कामं ज्ञातपूर्वं तु
निवृत्तम् उपदिश्यते ॥ १२.८९ ॥

090 प्रवृत्तङ् कर्म ...{Loading}...

प्रवृत्तं कर्म संसेव्यं
देवानाम् एति साम्यताम् ।
निवृत्तं सेवमानस् तु
भूतान्य् अत्येति पञ्च वै ॥ १२.९० ॥

091 सर्वभूतेषु चात्मानम् ...{Loading}...

सर्वभूतेषु चात्मानं
सर्वभूतानि चात्मनि ।
समं पश्यन्न् आत्मयाजी
स्वाराज्यम् अधिगच्छति ॥ १२.९१ ॥

092 यथोक्तान्य् अपि ...{Loading}...

यथोक्तान्य् अपि कर्माणि
परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्
वेदाभ्यासे च यत्नवान् ॥ १२.९२ ॥

093 एतद् +धि ...{Loading}...

एतद् +धि जन्मसाफल्यं
ब्राह्मणस्य विशेषतः ।
प्राप्यैतत् कृत-कृत्यो हि
द्विजो भवति नाऽन्यथा ॥ १२.९३ ॥

094 पितृ-देव-मनुष्याणां वेदश् ...{Loading}...

पितृ-देव-मनुष्याणां
वेदश् चक्षुः सनातनम् ।
अशक्यं चाऽप्रमेयं च
वेदशास्त्रम् इति स्थितिः ॥ १२.९४ ॥

095 या वेदबाह्याः ...{Loading}...

या वेदबाह्याः स्मृतयो
याश् च काश् च कुदृष्टयः [मेधातिथिपाठः - श्रुतयो] ।
सर्वास् ता निष्-फलाः प्रेत्य
तमो-निष्ठा हि ताः स्मृताः ॥ १२.९५ ॥

096 उत्पद्यन्ते च्यवन्ते ...{Loading}...

उत्पद्यन्ते च्यवन्ते च
यान्य् अतो ऽन्यानि कानि चित् [मेधातिथिपाठः - उत्पद्यन्ते विनश्यन्ति] ।
तान्य् अर्वाक्कालिकतया
निष्-फलान्य् अनृतानि च ॥ १२.९६ ॥

097 चातुर्वर्ण्यन् त्रयो ...{Loading}...

चातुर्वर्ण्यं त्रयो लोकाश्
चत्वारश् चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च
सर्वं वेदात् प्रसिध्यति [मेधातिथिपाठः - भूतं भवद् भविष्यं
च] ॥ १२.९७ ॥

098 शब्दः स्पर्शश् ...{Loading}...

शब्दः स्पर्शश् च रूपं च
रसो गन्धश् च पञ्चमः ।
वेदाद् एव प्रसूयन्ते
प्रसूतिर् गुण-कर्मतः ॥ १२.९८ ॥

099 बिभर्ति सर्वभूतानि ...{Loading}...

बिभर्ति सर्वभूतानि
वेदशास्त्रं सनातनम् ।
तस्माद् एतत् परं मन्ये
यज् जन्तोर् अस्य साधनम् ॥ १२.९९ ॥

100 सेनापत्यञ् च ...{Loading}...

सेनापत्यं च राज्यं च
दण्डनेतृत्वम् एव च [मेधातिथिपाठः - सैनापत्यं] ।
सर्वलोकाधिपत्यं च
वेदशास्त्रविद् अर्हति ॥ १२.१०० ॥

101 यथा जात-बलो ...{Loading}...

यथा जात-बलो वह्निर्
दहत्य् आर्द्रान् अपि द्रुमान् ।
तथा दहति वेदज्ञः
कर्मजं दोषम् आत्मनः ॥ १२.१०१ ॥

102 वेदशास्त्रार्थतत्त्वज्ञो यत्र ...{Loading}...

वेदशास्त्रार्थतत्त्वज्ञो
यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन् स
ब्रह्मभूयाय कल्पते ॥ १२.१०२ ॥

103 अज्ञेभ्यो ग्रन्थिनः ...{Loading}...

अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा
ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा
ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३ ॥

104 तपो विद्या ...{Loading}...

तपो विद्या च विप्रस्य
निःश्रेयसकरं परम् ।
तपसा किल्बिषं हन्ति
विद्ययामृतम् अश्नुते ॥ १२.१०४ ॥

105 प्रत्यक्षञ् चाऽनुमानम् ...{Loading}...

प्रत्यक्षं चाऽनुमानं च
शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं
धर्मशुद्धिम् अभीप्सता ॥ १२.१०५ ॥

106 आर्षन् धर्मोपदेशम् ...{Loading}...

आर्षं धर्मोपदेशं च
वेदशास्त्राविरोधिना ।
यस् तर्केणाऽनुसंधत्ते
स धर्मं वेद नेतरः ॥ १२.१०६ ॥

107 नैःश्रेयसम् इदम् ...{Loading}...

नैःश्रेयसम् इदं कर्म
यथोदितम् अशेषतः ।
मानवस्याऽस्य शास्त्रस्य
रहस्यम् उपदिश्यते [मेधातिथिपाठः - उपदेक्ष्यते] ॥ १२.१०७ ॥

108 अनाम्नातेषु धर्मेषु ...{Loading}...

अनाम्नातेषु धर्मेषु
कथं स्याद् इति चेद् भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः
स धर्मः स्याद् अशङ्कितः ॥ १२.१०८ ॥

109 धर्मेणाऽधिगतो यैस् ...{Loading}...

धर्मेणाऽधिगतो यैस् तु
वेदः स-परिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः
श्रुति-प्रत्यक्षहेतवः ॥ १२.१०९ ॥

110 दशावरा वा ...{Loading}...

दशावरा वा परिषद्
यं धर्मं परिकल्पयेत् ।
त्र्य्-अवरा वापि वृत्तस्था
तं धर्मं न विचालयेत् ॥ १२.११० ॥

111 त्रैविद्यो हेतुकस् ...{Loading}...

त्रैविद्यो हेतुकस् तर्की
नैरुक्तो धर्मपाठकः ।
त्रयश् चाश्रमिणः पूर्वे
परिषत् स्याद् दशावरा ॥ १२.१११ ॥

112 ऋग्वेदविद् यजुर्विच् ...{Loading}...

ऋग्वेदविद् यजुर्विच् च
सामवेदविद् एव च ।
त्र्य्-अवरा परिषज् ज्ञेया
धर्मसंशयनिर्णये ॥ १२.११२ ॥

113 एको ऽपि ...{Loading}...

एको ऽपि वेदविद् धर्मं
यं व्यवस्येद् द्विजोत्तमः ।
स विज्ञेयः परो धर्मो
नाऽज्ञानाम् उदितो ऽयुतैः ॥ १२.११३ ॥

114 अव्रतानाम् अमन्त्राणाम् ...{Loading}...

अव्रतानाम् अमन्त्राणां
जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां
परिषत्त्वं न विद्यते ॥ १२.११४ ॥

115 यं वदन्ति ...{Loading}...

यं वदन्ति तमोभूता
मूर्खा धर्मम् अतद्विदः ।
तत्पापं शतधा भूत्वा
तद्वक्तॄन् अनुगच्छति ॥ १२.११५ ॥

116 एतद् वो ...{Loading}...

एतद् वो ऽभिहितं सर्वं
निःश्रेयसकरं परम् ।
अस्माद् अप्रच्युतो विप्रः
प्राप्नोति परमां गतिम् ॥ १२.११६ ॥

117 एवं स ...{Loading}...

एवं स भगवान् देवो
लोकानां हितकाम्यया ।
धर्मस्य परमं गुह्यं
ममेदं सर्वम् उक्तवान् ॥ १२.११७ ॥

118 सर्वम् आत्मनि ...{Loading}...

सर्वम् आत्मनि संपश्येत्
सच् चाऽसच् च समाहितः ।
सर्वं ह्य् आत्मनि संपश्यन्
नाऽधर्मे कुरुते मनः [मेधातिथिपाठः - मतिम्] ॥ १२.११८ ॥

119 आत्मैव देवताः ...{Loading}...

आत्मैव देवताः सर्वाः
सर्वम् आत्मन्य् अवस्थितम् ।
आत्मा हि जनयत्य् एषां
कर्मयोगं शरीरिणाम् ॥ १२.११९ ॥

120 खं सन्निवेशयेत् ...{Loading}...

खं संनिवेशयेत् खेषु
चेष्टन-स्पर्शने ऽनिलम् ।
पक्ति-दृष्ट्योः परं तेजः
स्नेहे ऽपो गां च मूर्तिषु ॥ १२.१२० ॥

121 मनसीन्दुन् दिशः ...{Loading}...

मनसीन्दुं दिशः श्रोत्रे
क्रान्ते विष्णुं बले हरम् ।
वाच्य् अग्निं मित्रम् उत्सर्गे
प्रजने च प्रजापतिम् ॥ १२.१२१ ॥

122 प्रशासितारं सर्वेषाम् ...{Loading}...

प्रशासितारं सर्वेषाम्
अणीयांसम् अणोर् अपि ।
रुक्माभं स्वप्नधीगम्यं
विद्यात् तं पुरुषं परम् ॥ १२.१२२ ॥

123 एतम् एके ...{Loading}...

एतम् एके वदन्त्य् अग्निं
मनुम् अन्ये प्रजापतिम् ।
इन्द्रम् एके परे प्राणम्
अपरे ब्रह्म शाश्वतम् ॥ १२.१२३ ॥

124 एष सर्वाणि ...{Loading}...

एष सर्वाणि भूतानि
पञ्चभिर् व्याप्य मूर्तिभिः ।
जन्म-वृद्धि-क्षयैर् नित्यं
संसारयति चक्रवत् ॥ १२.१२४ ॥

125 एवं यः ...{Loading}...

एवं यः सर्वभूतेषु
पश्यत्य् आत्मानम् आत्मना ।
स सर्वसमताम् एत्य
ब्रह्माऽभ्येति परं पदम् ॥ १२.१२५ ॥

126 इत्य् एतन् ...{Loading}...

इत्य् एतन् मानवं शास्त्रं
भृगुप्रोक्तं पठन् द्विजः ।
भवत्य् आचारवान् नित्यं
यथेष्टां प्राप्नुयाद् गतिम् ॥ १२.१२६ ॥


  1. M G: sāmānyārtham ↩︎

  2. M G: yāni ↩︎

  3. M G: yāny atulyāni ↩︎

  4. M G J: svargāyuś (my reading is conjectural, based on Āp and the presence of the final “ca”) ↩︎

  5. M G: vihitāni ↩︎

  6. M G: kṛte for ityādinā ↩︎

  7. M G: na ca ↩︎

  8. M G: śāstrācoditaṃ ↩︎

  9. M G: tatra nānuṣṭhānam ↩︎

  10. M G: apekṣā ↩︎

  11. M G: atra kāṃkṣā ↩︎

  12. M G: pravartamānasya ↩︎

  13. M G: yadākāṃkṣīyata ↩︎

  14. J omit: kartṛkaraṇa iti ca śrūyate ↩︎

  15. M G: vidhis ↩︎

  16. M G: niyojyaṃ viṣa- ↩︎

  17. M G omit: na ↩︎

  18. M G: tadatikrameṇa ↩︎

  19. M G: tatra ↩︎

  20. M G: na cāśrutāpy ↩︎

  21. M G omit: karma ↩︎

  22. M G: kriyāmātra ↩︎

  23. M G: śubham ↩︎

  24. M G: -sādhanādivat ↩︎

  25. M G: sarva- ↩︎

  26. M G: īdṛśa etasya ↩︎

  27. M G: kāraṇāt ↩︎

  28. M G: meghavarṇasādṛśyāt ↩︎

  29. M G: santamāsaṃbhavāt pravṛtti saṃtamāsaṃbhavati ↩︎

  30. M G: vividhasya ↩︎

  31. M G add: īdṛśam ↩︎

  32. M G: vidāṃ prāmāṇyam; J: vedāḥ prāmāṇyam (my reading is conjectural, also based on Jha’s translation) ↩︎

  33. M G: -ārthaṃ param ↩︎

  34. M G: vā na | atra ↩︎

  35. M G: te sarve ↩︎

  36. M G: kriyāṃ pari- ↩︎

  37. M G omit: vṛttiḥ ↩︎

  38. M G: pāṇādi- ↩︎

  39. M G: mahad abhibhūtaṃ sūkṣmapariveṣṭitaṃ ↩︎

  40. M G: nānārūpaṃ bhogabhāvair adhivāsitaṃ ↩︎

  41. M G: sahaśabdasya ↩︎

  42. M G: tad api yogena ↩︎

  43. M G place nātra bhūtāni at the beginning of the com. on the next verse. ↩︎

  44. M G: tejasā- ↩︎

  45. M G omit: tadarthīyam ↩︎

  46. M G: yady ↩︎

  47. M G: chalena ↩︎

  48. M G: mahākṣetrajñāc ↩︎

  49. M G: na śloke ↩︎

  50. M G: evamuktaṃ ↩︎

  51. M G: tataḥ ↩︎

  52. M G: yābhyāṃ; J: tābhyāṃ ↩︎

  53. M G: atha ↩︎

  54. M G: kāraṇāpekṣā ↩︎

  55. M G: -pravaṇabhāsāpi ↩︎

  56. M G: -vilakṣaṇā- ↩︎

  57. M G: yāni svargaśarīrāṇi bhakṣyāṇi ↩︎

  58. M G: cānya- ↩︎

  59. M G J read: sukhānubhavena, without the elided “a”. I think it is asukhānubhavena, thus when there is a small amount of adharma, the asukha is experience in this very world, and after death the person goes to heaven. ↩︎

  60. M G: tadanubhave; DK (5: 631) suggests: na tv anubhavena ↩︎

  61. M G omit: jīvatau ↩︎

  62. M G: pramāvasthā vāpy atra bhavān ↩︎

  63. M G places yathā . . . acaitanyam eva after ucyate ↩︎

  64. M G J: cātiprasādaḥ (but Jha’s translation assumes pramāma) ↩︎

  65. M G: place anucchedād bījavāsanāyā ā brahmaprāptisthitatvāt under verse 27, after evaṃ sarvam ↩︎

  66. M G: svasaṃvedyaiva kasyāṃ ↩︎

  67. M G: bhartṛviṣayeṣu ↩︎

  68. M G: tat kasyeti saṃbandha- (see kasyeti given later) ↩︎

  69. M G: saṃbandhasya ↩︎

  70. M G: gaṇanaṃ ↩︎

  71. M G: apāyaparihāre ↩︎

  72. M G: -dhanānām ↩︎

  73. M G: -kālebhyo ↩︎

  74. M G: saṃcarante ↩︎

  75. M G: buddhipūrvaprayogaś ↩︎

  76. M G add: ca ↩︎

  77. M G omit: vā ↩︎

  78. M G: acetanāditacchaktiḥ ↩︎

  79. M G: dharmādeś ca ↩︎

  80. M G: kṛtir ↩︎

  81. M G: eva paraṃ ↩︎

  82. M G: ye ye prakārāḥ santi ↩︎

  83. M G omit: vā ↩︎

  84. M G: aguṇatyāgā ↩︎

  85. M G: ceti ↩︎

  86. M G omit: nikṛṣṭataraṃ ↩︎

  87. M G omit: na ↩︎

  88. M G: indriyasaṅgo ‘pratiṣiddha- ↩︎

  89. M G: paramāt saṃsārāt ↩︎

  90. M G: tatra ↩︎

  91. M G: ghorā ↩︎

  92. M G: kṣayaṃ ↩︎

  93. M G: naraka- ↩︎

  94. M G omit: ’ntyāḥ ↩︎

  95. M G: prakaṭaḥ pūtano ↩︎

  96. M G: ādityalokaḥ ↩︎

  97. M G: ādityāl loke ↩︎

  98. M G: pravṛttasya syāt tatsvabhāvatayaiva ↩︎

  99. M G omit: na ↩︎

  100. M G: tadātmatve ca ↩︎

  101. M G: aśiṣṭā- ↩︎

  102. M G add: ity arthaḥ ↩︎

  103. M G J omit: vihitānāṃ (I follow the suggested emendation of DK 5: 632) ↩︎

  104. M G: vartitavyam ↩︎

  105. M G J: śreyase (I follow the suggested emendation of DK 5: 632) ↩︎

  106. M G J: -kāraṇatve (I follow the suggested emendation of DK 5: 633) ↩︎

  107. M G: -opasenābhyā- ↩︎

  108. M G J: -śvarabhāvasyātmanaḥ (I follow the suggested emendation of DK 5: 634) ↩︎

  109. M G omit: na ↩︎

  110. J omits: teṣu mokṣatvaṃ pratipadyate ↩︎

  111. DK (5: 634) suggests: samudāyāntarbhūtaviśeṣasya ↩︎

  112. DK (5: 634) suggests: na copapadya- ↩︎

  113. M G add: na hi bhavati ↩︎

  114. DK (5: 634) vedābhyāsādīni, thus omitting the initial antar- ↩︎

  115. M G: uddiṣṭaṃ ↩︎

  116. M G: sāmānyasāmānyāt ↩︎

  117. DK (5: 634) suggests: vaidikāni ↩︎

  118. M G: śreyaskaram ↩︎

  119. M G: -dīnām avaidikatvāt ↩︎

  120. M G: vaidikādīni ↩︎

  121. M G J: sarve (I follow the suggestion of DK 5: 634) ↩︎

  122. M G: agatvena tadbhāvaḥ ↩︎

  123. M G: vedābhyāsādīnām ↩︎

  124. M G: parimāṇavat ↩︎

  125. M G J: caitenoktena (I follow DK 5: 634; Jha translation also presupposed the negative) ↩︎

  126. M G: -karataratve vacanam; DK (5: 634) -karatvavacanam ↩︎

  127. M G: yathoktakalpavirodhe ↩︎

  128. M G: atulyāyāḥ śruteḥ smṛtyābādhaḥ ↩︎

  129. M G omit: śruti- ↩︎

  130. M G: anuvāda- ↩︎

  131. M G: arthayuktaṃ ↩︎

  132. DK ( 5: 635) suggests: tathāsyārthaḥ ↩︎

  133. M G: vidhis tair ↩︎

  134. M G add: agnihotrādyupadeśaḥ (omitted in J and DK, but found in Jha’s translation; the phrase is given later in this passage) ↩︎

  135. M G place tair vyākhyātam iti after kathaṃ ca ↩︎

  136. J notes a lacuna here, but not M G or DK (5: 635. ↩︎

  137. M G: vaidikaṃ mana ātmajñānam evam arthasya ↩︎

  138. M G: śākhābhyāsa- ↩︎

  139. M G: svavedā- ↩︎

  140. M G: sati ↩︎

  141. M G: karmavidhir vaidikakarmayoge ↩︎

  142. M G J: kratuṃ yajñebhya iti ↩︎

  143. M G J: tad vā (I follow the suggestion of DK 5: 636) ↩︎

  144. M G: sarvatrāntarbhavati ↩︎

  145. M G: -opadeśasoma-; DK (5: 636): -opasatsoma- ↩︎

  146. DK (5: 636) suggests: payo vrataṃ ↩︎

  147. M G: jñānaṃ sarvatrāpi duḥkhānadhikārāt; DK (5: 363) suggests: viduṣām adhikārāt ↩︎

  148. M G: pratyahagāminaḥ; J: pratiyāgagāmi na ↩︎

  149. M G: apeyān ↩︎

  150. M G J: ahiṃsāniratāṃ rātriṃ (clearly the editors failed to note the citation; DK 5: 636 has the correct reading) ↩︎

  151. M G J: prāṇenācchindyād ↩︎

  152. M G: ajānānasya ↩︎

  153. M G: kṛtiniṣkṛtitvāt ↩︎

  154. M G: vīpsāyāvidhir ↩︎

  155. M G DK (5: 636): brāhmaṇānyupāsīta; J: brāhmāṇyupāsīta (my reading is conjectural based in ChU) ↩︎

  156. M G J: tasyaivādhastāt ↩︎

  157. M G: nivṛttaṃ ↩︎

  158. M G add: na punar agnihotrādīni ↩︎

  159. DK (5: 637) suggests: vaidikatvaṃ ↩︎

  160. M G: upetyo- ↩︎

  161. DK (5: 637) suggests: vā matvartho ↩︎

  162. M G: pravṛttapade ↩︎

  163. DK (5: 637) suggests: pūrvatra ↩︎

  164. J: kārīrā- ↩︎

  165. M G omit: tat- ↩︎

  166. M G: kāmyata ↩︎

  167. M G: jñātaṃ pūrvam; J: jñātapūrvam (I think it should be jñāna, as Jha’s translation and the vigraha of the compound given below suggest) ↩︎

  168. M G: anayor api ↩︎

  169. M G: tadubhayaśeṣaḥ ↩︎

  170. DK (5: 638) suggests: ādyārthaṃ ↩︎

  171. M G: prabhūtāny apyeti paṃcadheti ↩︎

  172. M G: tathāpy ↩︎

  173. M G: apyeti ↩︎

  174. M G: anyatrāpyayo ↩︎

  175. M G: brahmarūpāpattiṃ ye paṭhanti ↩︎

  176. M G: na ↩︎

  177. M G omit: na ↩︎

  178. M G: tejomūrtiṃ cānveti ↩︎

  179. M G J: śarīram ekaṃ (I follow DK 5: 639) ↩︎

  180. M G: vābhavat ↩︎

  181. M G: ca ↩︎

  182. M G: nityākāmaphalatvāt ↩︎

  183. M G: pravṛttaṃ ↩︎

  184. M G: kiṃcana ↩︎

  185. M G: atha na ↩︎

  186. M G omit: praśaṃsā | santi ca kānicit devatvaprāptiphalāni karmāṇi ↩︎

  187. J: yat kartavyaṃ tathā ↩︎

  188. M G: tadabhāvo ↩︎

  189. M G: avyatikriyamāṇāni ↩︎

  190. M G: ca ↩︎

  191. M G: ātmajñānasyopabhogaḥ vidyamānaṃ tasyaiva vidyayā ↩︎

  192. DK (5: 639) suggests: mokṣārthī na ↩︎

  193. M G: pravartate ↩︎

  194. M G: kāmyayor ↩︎

  195. M G J: uktam | bhagavadbhinnaṃ (I follow DK 5: 639); bhagavadbhiḥ refers to Kumārila. ↩︎

  196. M G: uktagarbhavad bhinnaṃ ↩︎

  197. M G: na cānuṣṭhitayogavidyāyā ↩︎

  198. M G: ye cāpi bhūtāny apy etīty apy ayaṃ prati ↩︎

  199. M G J: aya (I follow DK 5: 639) ↩︎

  200. M G: puṇyaprāṇi ↩︎

  201. M G: pratiṣedhavad bhedāvabhāsasvaparavyavahāraṃ ↩︎

  202. M G: adya te bandhyaḥ ↩︎

  203. M G: na svārājyadevatārthaḥ ↩︎

  204. M G: nāsty ↩︎

  205. M G: ātmāpadeśena ↩︎

  206. M G: cocyate ↩︎

  207. M G: svārājyān ↩︎

  208. M G: bhavāḥ svārājyāḥ ↩︎

  209. M G omit: na ↩︎

  210. M G: apekṣatendriyāṇi ↩︎

  211. M G: mana āditaḥ paśyantīti ↩︎

  212. M G: bhāve tad ucyate ↩︎

  213. M G omit: na ↩︎

  214. M G: tadbāvanāparasyāt ↩︎

  215. M G: tvālaṃbanaṃ ↩︎

  216. M G: mukto ↩︎

  217. M G: puruṣamedhādiṣu ↩︎

  218. M G: dvijanmanāṃ ↩︎

  219. M G: ca rāṇakaśrutiḥ ↩︎

  220. M G omit: tat ↩︎

  221. M G: bhinnābhāvaḥ ↩︎

  222. DK (5: 109) suggests: cakṣuḥ ↩︎

  223. M G: cakṣuṣā paricchinno ‘rtho niścitaḥ; DK (5: 109) suggests: -chinneṣu niścitaḥ ↩︎

  224. M G: anenāpuruṣakṛtatvāt mahāpuruṣakṛtatve ↩︎

  225. M G: puruṣagataguṇadoṣasadṛśād bhāvaniśvayāt ↩︎

  226. M G: cādīpayet ↩︎

  227. DK (5: 109) suggests: vākyānāṃ ↩︎

  228. M G: bhāvānmahattvena ↩︎

  229. M G: svārājyaphalāyāṃ ↩︎

  230. M G: bhāvanātiśayayogāṃgā na śakyante ↩︎

  231. DK (5: 109) suggests: dveṣād ↩︎

  232. M G: pṛṣṭaṃ ↩︎

  233. DK (5: 109) suggests: bhāvanayā ↩︎

  234. DK (5: 109) suggests: kāminīm eva ↩︎

  235. DK (5: 109) suggests: stutipadāni ↩︎

  236. DK (5: 109) suggests: siddhisaṃyuktā ↩︎

  237. DK (5: 109) suggests: cedṛśaṃ ↩︎

  238. M G: atha vā ↩︎

  239. M G: śakyam ↩︎

  240. M G J: vedāṅgaṃ (I follow DK 5: 109) ↩︎

  241. M G: -saṃdṛpteṣu ↩︎

  242. DK (5: 111): nirgranthasaugatādi- ↩︎

  243. M G: -siddhāntaprasiddhāḥ ↩︎

  244. M G: kudṛṣṭyā ↩︎

  245. M G: -dṛṣṭāntaḥ ↩︎

  246. M G: rātriyati ↩︎

  247. M G: upadeśenāprāmāṇye ↩︎

  248. M G: śakyam api śakter uddeśikasya ↩︎

  249. M G add: na ↩︎

  250. M G: devatāsiddhiḥ ↩︎

  251. M G: pretyamatyāsyatāniṣphalās tā niṣṭās ↩︎

  252. DK (5: 111) suggests: durlabam ↩︎

  253. M G: yadi nāma kecid ↩︎

  254. M G: vipralambhamodakādilakṣaṇaṃ siddhe ‘pi ↩︎

  255. M G: sarvavarṇeṣv atulyatvād ↩︎

  256. M G: tā ↩︎

  257. DK (5: 112) suggests: āśramā api ↩︎

  258. M G: vedā vedabhūtam ↩︎

  259. M G: bhaviṣyati ↩︎

  260. M G: chrutikarma- ↩︎

  261. M G: vedāḥ ↩︎

  262. DK (5: 112) omits: etan ↩︎

  263. DK (5: 113) suggests omitting: ataḥ śarīrārambhakāḥ śabdādayas tābhyām ↩︎

  264. M G: citrādiṣu; DK (5: 1123) suggests: agnihotrādi ↩︎

  265. M G: prasūter ↩︎

  266. M G: tasyāvasthāyāḥ ↩︎

  267. M G puts at the beginning: tasmād etat paraṃ manye ↩︎

  268. DK (5: 113): tena vṛṣṭir ↩︎

  269. DK (5: 113): utpattiḥ sthitir ↩︎

  270.  ↩︎
  271. M G: daṇḍena tāvad ↩︎

  272. M G: -prekṣaṇāniyuktāḥ ↩︎

  273. M G omit: yatra ↩︎

  274. DK (5: 114): anuvidya ↩︎

  275. M G: na punar ↩︎

  276. M G: amatyā paratāṃ ↩︎

  277. M G: śreṣṭham ↩︎

  278. M G: anyavaśānām ↩︎

  279. M G: nirviciktsādyā ↩︎

  280. M G: naitad ↩︎

  281. M G omit: na ↩︎

  282. M G: tadarthā naiva ↩︎

  283. M G: tu bhāvena ↩︎

  284. M G: balānandarūpatā ↩︎

  285. M G: vivaraṇapūrvakāśayanirākaraṇe ‘ṅga- ↩︎

  286. M G: utaitat ↩︎

  287. M G: śabdanityatvāt siddhiḥ ↩︎

  288. M G omit: nāsti ↩︎

  289. M G: sa ubhayor ↩︎

  290. M G: cānumānenopari dṛṣṭaśabde ‘pi ↩︎

  291. M G: -śāstrānta- ↩︎

  292. M G: anuvivecitaṃ (omit yena na) ↩︎

  293. M G: pakṣayor ↩︎

  294. M G omit: -vidhi- ↩︎

  295. M G: svādhyāyavidyākṣepaḥ ↩︎

  296. M G: śuddhabhāvenopadiṣṭaḥ ↩︎

  297. M G: places this under 12.208 erroneously. ↩︎

  298. DK (5: 121) suggests: yathā ↩︎

  299. M G: -ārthasamavāyād ↩︎

  300. DK ( 5: 121) suggests adding: iti ↩︎

  301. M G: -virodho ↩︎

  302. M G: uccāraṇena ↩︎

  303. M G omit: prayojyatvaṃ manyate, “ataś cāvikṛta eva mantraḥ prayoktavyaḥ” iti, so ‘pi śāstravirodhī tarkaḥ ↩︎

  304. M G omit: na ca ↩︎

  305. M G: -svarūpanirūpaṇa- ↩︎

  306. M G omit: na ↩︎

  307. M G: -pamā śabdāḥ ↩︎

  308. M G: tadvacanād āmnāyasya prāmāṇyam ↩︎

  309. M G: tayedam ↩︎

  310. M G: kiṃcit vedaḥ ↩︎

  311. M G: prāmāṇiko ↩︎

  312. M G: upayujyate ↩︎

  313. M G J: aviśuddhiḥ kṣayā- ↩︎

  314. M G: karmamīmāṃsāvedyaṃ tarkabhāṣābhyām ↩︎

  315. M G: prayacchata ↩︎

  316. M G: brāhmaṇa uktavāṃs tarkayaty ↩︎

  317. DK (5: 122) suggests: -āpekṣatvād ↩︎

  318. M G: siddha- ↩︎

  319. M G: -śruter ↩︎

  320. M G J: yatredam (I follow DK 5: 122) ↩︎

  321. M G: tūcchiṣṭavacanaṃ pramāṇaṃ kartavyam ↩︎

  322. M G: brūte ↩︎

  323. M G: kāpi cikitsā ↩︎

  324. M G J: kathaṃ ca (I follow DK 5: 122) ↩︎

  325. M G J: mānave ↩︎

  326. M G: pratigotra- ↩︎

  327. M G J: yo ’tra saṃdeha (I follow DK 5: 123) ↩︎

  328. M G place this passage under 12.105: sa hi jijñāsā ca . . . yo ’tra saṃdeha utpadyate ↩︎

  329. M G: vidvattayā ↩︎

  330. M G J: śrutatvāt (I follow DK 5: 123) ↩︎

  331. DK (5: 123) suggests: aparipūrṇatvāt ↩︎

  332. M G: viditaḥ paribṛṃhaṇāni ↩︎

  333. M G: api ↩︎

  334. M G: anyābhidhānam ucyate ↩︎

  335. M G: śrutaḥ ↩︎

  336. M G omit: te ↩︎

  337. DK (5: 123) suggests adding: na ↩︎

  338. DK (5: 123) suggests: cemāṃ nāpramāṇīkurvanti ↩︎

  339. M G: śruteḥ pratyakṣaśruteḥ ↩︎

  340. M G J: daśāvarāḥ ↩︎

  341. M G J: tryavarāḥ ↩︎

  342. M G: -hetur guṇān ↩︎

  343. M G add: pūrvoktāc cetoviṣāṇīvaruddhān pratibāladhiḥ sāprāvaniti gotrelipsām iti (the reading here is unclear) ↩︎

  344. DK (5: 124) suggests adding: haitukaḥ ↩︎

  345. M G: vedanamātrā ↩︎

  346. M G: vedārthaṃ gra- ↩︎

  347. M G: -smṛtiśrutiśāstrāṇām ↩︎

  348. M G: pūrvo ↩︎

  349. M G J: nāniṣiddhaḥ (I follow DK 5: 124) ↩︎

  350. M G: ceyaṃ mānuṣī ↩︎

  351. DK (5: 125) suggests: adharmam ↩︎

  352. M G: dharmāśrayāt; J: dharmāśrayet (my reading is a conjecture) ↩︎

  353. M G: jñāyate ’nyasya ↩︎

  354. J: uditaḥ ↩︎

  355. J: vyākhyātaḥ ↩︎

  356. M G omit: yaṃ ↩︎

  357. M G: vikalpate ↩︎

  358. M G: pratijñāna- ↩︎

  359. DK (5: 340) suggests: śrūyatām iti (here with two “iti”) ↩︎

  360. M G: mamāpi ↩︎

  361. M G: vānyaḥ ↩︎

  362. M G: yac ca ↩︎

  363. M G: saddarśanena darśanasyāpy ↩︎

  364. M G: -karmaṇi ↩︎

  365. M G: aśrutopanyāsa- ↩︎

  366. M G: vikaraṇakṣetrajñata uttaraṃ ↩︎

  367. M G: naitasya ↩︎

  368. M G J: gārgī ↩︎

  369. M G: neha pratya- ↩︎

  370. M G J: -ādidaiva- ↩︎

  371. M G: vyavasthito nāmādhyātmam ↩︎

  372. M G: kāraṇātmanā jitasya ↩︎

  373. M G: yatra ↩︎

  374. J: vākakpadoye; M G: vākyapradīpe ↩︎

  375. M G: darśayann ↩︎

  376. M G: vikārasya grāmyasya ↩︎

  377. M G: -ākṣarāvadhāratvāt ↩︎

  378. M G: buddhiś cetaso ↩︎

  379. M G: prativilāpayeta ↩︎

  380. M G: aniyato ↩︎

  381. M G: vāyvādi- ↩︎

  382. M G: kuśalo ↩︎

  383. M G: sarvaṃ tatparaṃ ↩︎

  384. M G: ityātma- ↩︎

  385. M G: tato ↩︎

  386. M G: yatrālpam atikrāmati ↩︎

  387. M G: ekānte karmaṇā ↩︎

  388. M G: evaṃ ca tehara ↩︎

  389. M G: yaṃ yaṃ ↩︎

  390. M G: ca bhittyādīnām ↩︎

  391. M G: jagata-; J: jagat- ↩︎

  392. M G: -ādisvavyāpāro ↩︎

  393. M G: -ābhipretapratiniyamena ca ↩︎

  394.  ↩︎