११

001 सान्तानिकं यक्ष्यमाणम् ...{Loading}...

सान्तानिकं यक्ष्यमाणम्
अध्वगं सार्ववेदसम् ।
गुर्व्-अर्थं पितृ-मात्र्-अर्थं
स्वाध्यायार्थ्य् उपतापिनः ॥ ११.१ ॥

002 न वै ...{Loading}...

न वै तान् स्नातकान् विद्याद्
ब्राह्मणान् धर्मभिक्षुकान् ।
निःस्वेभ्यो देयम् एतेभ्यो
दानं विद्याविशेषतः ॥ ११.२ ॥

003 एतेभ्यो हि ...{Loading}...

एतेभ्यो हि द्विजाग्र्येभ्यो
देयम् अन्नं स-दक्षिणम् ।
इतरेभ्यो बहिर्वेदि
कृतान्नं देयम् उच्यते ॥ ११.३ ॥

004 सर्वरत्नानि राजा ...{Loading}...

सर्वरत्नानि राजा तु
यथार्हं प्रतिपादयेत् ।
ब्राह्मणान् वेदविदुषो
यज्ञार्थं चैव दक्षिणाम् ॥ ११.४ ॥

005 कृत-दारो ऽपरान् ...{Loading}...

कृत-दारो ऽपरान् दारान्
भिक्षित्वा यो ऽधिगच्छति ।
रति-मात्रं फलं तस्य
द्रव्यदातुस् तु संततिः ॥ ११.५ ॥

006 धनानि तु ...{Loading}...

धनानि तु यथाशक्ति
विप्रेषु प्रतिपादयेत् [Not in M] ।
वेदवित्सु विविक्तेषु
प्रेत्य स्वर्गं समश्नुते [Not in M] ॥ ११.६ ॥

007 यस्य त्रैवार्षिकम् ...{Loading}...

यस्य त्रैवार्षिकं भक्तं
पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत
स सोमं पातुम् अर्हति ॥ ११.७ ॥ [०६ मेधातिथिपाठे]

008 अतः स्वल्पीयसि ...{Loading}...

अतः स्वल्पीयसि द्रव्ये
यः सोमं पिबति द्विजः ।
स पीतसोम-पूर्वो ऽपि
न तस्याप्नोति तत्फलम् ॥ ११.८ ॥ [०७ मेधातिथिपाठे]

009 शक्तः परजने ...{Loading}...

शक्तः परजने दाता
स्वजने दुःखजीविनि ।
मध्व्-आपातो विषास्वादः
स धर्म-प्रतिरूपकः ॥ ११.९ ॥ [०८ मेधातिथिपाठे]

010 भृत्यानाम् उपरोधेन ...{Loading}...

भृत्यानाम् उपरोधेन
यत् करोत्य् और्ध्वदेहिकम् ।
तद् भवत्य् असुखोदर्कं
जीवतश् च मृतस्य च ॥ ११.१० ॥ [०९ मेधातिथिपाठे]

011 यज्ञश् चेत् ...{Loading}...

यज्ञश् चेत् प्रतिरुद्धः स्याद्
एकेनाऽङ्गेन यज्वनः ।
ब्राह्मणस्य विशेषेन
धार्मिके सति राजनि ॥ ११.११ ॥ [१० मेधातिथिपाठे]

012 यो वैश्यः ...{Loading}...

यो वैश्यः स्याद् बहुपशुर्
हीन-क्रतुर् असोमपः ।
कुटुम्बात् तस्य तद् द्रव्यम्
आहरेद् यज्ञसिद्धये ॥ ११.१२ ॥ [११ मेधातिथिपाठे]

013 आहरेत् त्रीणि ...{Loading}...

आहरेत् त्रीणि वा द्वे वा
कामं शूद्रस्य वेश्मनः ।
न हि शूद्रस्य यज्ञेषु
कश् चिद् अस्ति परिग्रहः ॥ ११.१३ ॥ [१२ मेधातिथिपाठे]

014 यो ऽनाहिताग्निः ...{Loading}...

यो ऽनाहिताग्निः शतगुर्
अयज्वा च सहस्रगुः [क्:अयज्ञश्] ।
तयोर् अपि कुटुम्बाभ्याम्
आहरेद् अविचारयन् ॥ ११.१४ ॥ [१३ मेधातिथिपाठे]

015 आदान-नित्याच् चादातुर् ...{Loading}...

आदान-नित्याच् चादातुर्
आहरेद् अप्रयच्छतः ।
तथा यशो ऽस्य प्रथते
धर्मश् चैव प्रवर्धते ॥ ११.१५ ॥ [१४ मेधातिथिपाठे]

016 तथाऐव सप्तमे ...{Loading}...

तथाऐव सप्तमे भक्ते
भक्तानि षड् अनश्नता ।
अश्वस्तनविधानेन
हर्तव्यं हीन-कर्मणः ॥ ११.१६ ॥ [१५ मेधातिथिपाठे]

017 खलात् क्षेत्राद् ...{Loading}...

खलात् क्षेत्राद् अगाराद् वा
यतो वाप्य् उपलभ्यते ।
आख्यातव्यं तु तत् तस्मै
पृच्छते यदि पृच्छति ॥ ११.१७ ॥ [१६ मेधातिथिपाठे]

018 ब्राह्मणस्वन् न ...{Loading}...

ब्राह्मणस्वं न हर्तव्यं
क्षत्रियेण कदा चन ।
दस्यु-निष्क्रिययोस् तु स्वम्
अजीवन् हर्तुम् अर्हति ॥ ११.१८ ॥ [१७ मेधातिथिपाठे]

019 यो ऽसाधुभ्यो ...{Loading}...

यो ऽसाधुभ्यो ऽर्थम् आदाय
साधुभ्यः संप्रयच्छति ।
स कृत्वा प्लवम् आत्मानं
संतारयति ताव् उभौ ॥ ११.१९ ॥ [१८ मेधातिथिपाठे]

020 यद् धनम् ...{Loading}...

यद् धनं यज्ञशीलानां
देवस्वं तद् विदुर् बुधाः ।
अयज्वनां तु यद् वित्तम्
आसुरस्वं तद् उच्यते ॥ ११.२० ॥ [१९ मेधातिथिपाठे]

021 न तस्मिन् ...{Loading}...

न तस्मिन् धारयेद् दण्डं
धार्मिकः पृथिवीपतिः ।
क्षत्रियस्य हि बालिश्याद्
ब्राह्मणः सीदति क्षुधा ॥ ११.२१ ॥ [२० मेधातिथिपाठे]

022 तस्य भृत्यजनम् ...{Loading}...

तस्य भृत्यजनं ज्ञात्वा
स्वकुटुम्बान् महीपतिः ।
श्रुत-शीले च विज्ञाय
वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२२ ॥ [२१ मेधातिथिपाठे]

023 कल्पयित्वास्य वृत्तिम् ...{Loading}...

कल्पयित्वास्य वृत्तिं च
रक्षेद् एनं समन्ततः ।
राजा हि धर्मषड्भागं
तस्मात् प्राप्नोति रक्षितात् ॥ ११.२३ ॥ [२२ मेधातिथिपाठे]

024 न यज्ञार्थम् ...{Loading}...

न यज्ञार्थं धनं शूद्राद्
विप्रो भिक्षेत कर्हि चित् ।
यजमानो हि भिक्षित्वा
चण्डालः प्रेत्य जायते ॥ ११.२४ ॥ [२३ मेधातिथिपाठे]

025 याज्ञार्थम् अर्थम् ...{Loading}...

याज्ञार्थम् अर्थं भिक्षित्वा
यो न सर्वं प्रयच्छति ।
स याति भासतां विप्रः
काकतां वा शतं समाः ॥ ११.२५ ॥ [२४ मेधातिथिपाठे]

026 देवस्वम् ब्राह्मणस्वम् ...{Loading}...

देवस्वं ब्राह्मणस्वं वा
लोभेनोपहिनस्ति यः ।
स पापात्मा परे लोके
गृध्रोच्छिष्टेन जीवति ॥ ११.२६ ॥ [२५ मेधातिथिपाठे]

027 इष्टिं वैश्वानरीम् ...{Loading}...

इष्टिं वैश्वानरीं नित्यं
निर्वपेद् अब्दपर्यये ।
कॢप्तानां पशु-सोमानां
निष्कृत्यर्थम् असंभवे ॥ ११.२७ ॥ [२६ मेधातिथिपाठे]

028 आपत्कल्पेन यो ...{Loading}...

आपत्कल्पेन यो धर्मं
कुरुते ऽनापदि द्विजः ।
स नाप्नोति फलं तस्य
परत्रेति विचारितम् ॥ ११.२८ ॥ [२७ मेधातिथिपाठे]

029 विश्वैश् च ...{Loading}...

विश्वैश् च देवैः साध्यैश् च
ब्राह्मणैश् च महर्षिभिः ।
आपत्सु मरणाद् भीतैर्
विधेः प्रतिनिधिः कृतः ॥ ११.२९ ॥ [२८ मेधातिथिपाठे]

030 प्रभुः प्रथमकल्पस्य ...{Loading}...

प्रभुः प्रथमकल्पस्य
यो ऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य
दुर्-मतेर् विद्यते फलम् ॥ ११.३० ॥ [२९ मेधातिथिपाठे]

031 न ब्राह्मणो ...{Loading}...

न ब्राह्मणो वेदयेत
किं चिद् राजनि धर्मवित् ।
स्ववीर्येणैव ताञ् शिष्यान्
मानवान् अपकारिणः ॥ ११.३१ ॥ [३० मेधातिथिपाठे]

032 स्ववीर्याद् राजवीर्याच् ...{Loading}...

स्ववीर्याद् राजवीर्याच् च
स्ववीर्यं बलवत्तरम् ।
तस्मात् स्वेनैव वीर्येण
निगृह्णीयाद् अरीन् द्विजः ॥ ११.३२ ॥ [३१ मेधातिथिपाठे]

033 श्रुतीर् अथर्वाङ्गिरसीः ...{Loading}...

श्रुतीर् अथर्वाङ्गिरसीः
कुर्याद् इत्य् अविचारयन् ।
वाक्शस्त्रं वै ब्राह्मणस्य
तेन हन्याद् अरीन् द्विजः ॥ ११.३३ ॥ [३२ मेधातिथिपाठे]

034 क्षत्रियो बाहुवीर्येण ...{Loading}...

क्षत्रियो बाहुवीर्येण
तरेद् आपदम् आत्मनः ।
धनेन वैश्य-शूद्रौ तु
जप-होमैर् द्विजोत्तमः ॥ ११.३४ ॥ [३३ मेधातिथिपाठे]

035 विधाता शासिता ...{Loading}...

विधाता शासिता वक्ता
मैत्रो ब्राह्मण उच्यते ।
तस्मै नाऽकुशलं ब्रूयान्
न शुष्कां गिरम् ईरयेत् ॥ ११.३५ ॥ [३४ मेधातिथिपाठे]

036 न वै ...{Loading}...

न वै कन्या न युवतिर्
नाऽल्प-विद्यो न बालिशः ।
होता स्याद् अग्निहोत्रस्य
नार्तो नाऽसंस्कृतस् तथा ॥ ११.३६ ॥ [३५ मेधातिथिपाठे]

037 नरके हि ...{Loading}...

नरके हि पतन्त्य् एते
जुह्वन्तः स च यस्य तत् [मेधातिथिपाठः - जुह्वतः] ।
तस्माद् वैतानकुशलो
होता स्याद् वेदपारगः ॥ ११.३७ ॥ [३६ मेधातिथिपाठे]

038 प्राजापत्यम् अदत्त्वाश्वम् ...{Loading}...

प्राजापत्यम् अदत्त्वाश्वम्
अग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निर् भवति
ब्राह्मणो विभवे सति ॥ ११.३८ ॥ [३७ मेधातिथिपाठे]

039 पुण्यान्य् अन्यानि ...{Loading}...

पुण्यान्य् अन्यानि कुर्वीत
श्रद्दधानो जितेन्द्रियः ।
न त्व् अल्प-दक्षिणैर् यज्ञैर्
यजेतेह कथं चन ॥ ११.३९ ॥ [३८ मेधातिथिपाठे]

040 इन्द्रियाणि यशः ...{Loading}...

इन्द्रियाणि यशः स्वर्गम्
आयुः कीर्तिं प्रजाः पशून् ।
हन्त्य् अल्प-दक्षिणो यज्ञस्
तस्मान् नाऽल्प-धनो यजेत् ॥ ११.४० ॥ [३९ मेधातिथिपाठे]

041 अग्निहोत्र्य् अपविध्याऽग्नीन् ...{Loading}...

अग्निहोत्र्य् अपविध्याऽग्नीन्
ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन् मासं
वीरहत्यासमं हि तत् ॥ ११.४१ ॥ [४० मेधातिथिपाठे]

042 ये शूद्राद् ...{Loading}...

ये शूद्राद् अधिगम्याऽर्थम्
अग्निहोत्रम् उपासते ।
ऋत्विजस् ते हि शूद्राणां
ब्रह्मवादिषु गर्हिताः ॥ ११.४२ ॥ [४१ मेधातिथिपाठे]

043 तेषां सततम् ...{Loading}...

तेषां सततम् अज्ञानां
वृषलाग्न्युपसेविनाम् ।
पदा मस्तकम् आक्रम्य
दाता दुर्गाणि संतरेत् ॥ ११.४३ ॥ [४२ मेधातिथिपाठे]

044 अकुर्वन् विहितम् ...{Loading}...

अकुर्वन् विहितं कर्म
निन्दितं च समाचरन् ।
प्रसक्तश् चेन्द्रियार्थेषु
प्रायश्चित्तीयते नरः [मेधातिथिपाठः - प्रसज्जन् इन्द्रियार्थेषु] ॥ ११.४४ ॥ [४३ मेधातिथिपाठे]

045 अकामतः कृते ...{Loading}...

अकामतः कृते पापे
प्रायश्चित्तं विदुर् बुधाः ।
कामकारकृते ऽप्य् आहुर्
एके श्रुतिनिदर्शनात् ॥ ११.४५ ॥ [४४ मेधातिथिपाठे]

046 अकामतः कृतम् ...{Loading}...

अकामतः कृतं पापं
वेदाभ्यासेन शुध्यति ।
कामतस् तु कृतं मोहात्
प्रायश्चित्तैः पृथग्विधैः ॥ ११.४६ ॥ [४५ मेधातिथिपाठे]

047 प्रायश्चित्तीयताम् प्राप्य ...{Loading}...

प्रायश्चित्तीयतां प्राप्य
दैवात् पूर्वकृतेन वा ।
न संसर्गं व्रजेत् सद्भिः
प्रायश्चित्ते ऽकृते द्विजः ॥ ११.४७ ॥ [४६ मेधातिथिपाठे]

048 इह दुश्चरितैः ...{Loading}...

इह दुश्चरितैः के चित्
के चित् पूर्वकृतैस् तथा ।
प्राप्नुवन्ति दुर्-आत्मानो
नरा रूपविपर्ययम् ॥ ११.४८ ॥ [४७ मेधातिथिपाठे]

049 सुवर्णचौरः कौनख्यम् ...{Loading}...

सुवर्णचौरः कौनख्यं
सुरापः श्यावदन्तताम् ।
ब्रह्महा क्षयरोगित्वं
दौश्चर्म्यं गुरुतल्पगः ॥ ११.४९ ॥ [४८ मेधातिथिपाठे]

050 पिशुनः पौतिनासिक्यम् ...{Loading}...

पिशुनः पौतिनासिक्यं
सूचकः पूतिवक्त्रताम् ।
धान्यचौरो ऽङ्गहीनत्वम्
आतिरैक्यं तु मिश्रकः ॥ ११.५० ॥ [४९ मेधातिथिपाठे]

051 अन्नहर्तामयावित्वम् मौक्यम् ...{Loading}...

अन्नहर्तामयावित्वं
मौक्यं वागपहारकः ।
वस्त्रापहारकः श्वैत्र्यं
पङ्गुताम् अश्वहारकः ॥ ११.५१ ॥ [५० मेधातिथिपाठे]

[बुह्लर-पाठे ऽत्राधिकः श्लोकः।]

052 एवङ् कर्मविशेषेण ...{Loading}...

एवं कर्मविशेषेण
जायन्ते सद्विगर्हिताः ।
जड-मूकान्ध-बधिरा
विकृताकृतयस् तथा ॥ ११.५२ ॥ [५१ मेधातिथिपाठे]

053 चरितव्यम् अतो ...{Loading}...

चरितव्यम् अतो नित्यं
प्रायश्चित्तं विशुद्धये ।
निन्द्यैर् हि लक्षणैर् युक्ता
जायन्ते ऽनिष्कृतैनसः ॥ ११.५३ ॥ [५२ मेधातिथिपाठे]

054 ब्रह्महत्या सुरापानम् ...{Loading}...

ब्रह्महत्या सुरापानं
स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्य् आहुः
संसर्गश् चाऽपि तैः सह ॥ ११.५४ ॥ [५३ मेधातिथिपाठे]

055 अनृतञ् च ...{Loading}...

अनृतं च समुत्कर्षे
राजगामि च पैशुनम् ।
गुरोश् चालीक-निर्बन्धः
समानि ब्रह्महत्यया ॥ ११.५५ ॥ [५४ मेधातिथिपाठे]

056 ब्रह्मोज्झता वेदनिन्दा ...{Loading}...

ब्रह्मोज्झता वेदनिन्दा
कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर् जग्धिः
सुरापानसमानि षट् ॥ ११.५६ ॥ [५५ मेधातिथिपाठे]

057 निक्षेपस्याऽपहरणन् नराश्व-रजतस्य ...{Loading}...

निक्षेपस्याऽपहरणं
नराश्व-रजतस्य च ।
भूमि-वज्र-मणीनां च
रुक्मस्तेयसमं स्मृतम् ॥ ११.५७ ॥ [५६ मेधातिथिपाठे]

058 रेतःसेकः स्वयोनीषु ...{Loading}...

रेतःसेकः स्वयोनीषु
कुमारीष्व् अन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु
गुरुतल्पसमं विदुः ॥ ११.५८ ॥ [५७ मेधातिथिपाठे]

059 गोवधो ऽयाज्य-संयाज्यम् ...{Loading}...

गोवधो ऽयाज्य-संयाज्यं
पारदार्यात्मविक्रयः ।
गुरु-मातृ-पितृ-त्यागः
स्वाध्यायाग्न्योः सुतस्य च ॥ ११.५९ ॥ [५८ मेधातिथिपाठे]

060 परिवित्तितानुजे ऽनूढे ...{Loading}...

परिवित्तितानुजे ऽनूढे
परिवेदनम् एव च ।
तयोर् दानं च कन्यायास्
तयोर् एव च याजनम् ॥ ११.६० ॥ [५९ मेधातिथिपाठे]

061 कन्याया दूषणम् ...{Loading}...

कन्याया दूषणं चैव
वार्धुष्यं व्रतलोपनम् ।
तडागाराम-दाराणाम्
अपत्यस्य च विक्रयः ॥ ११.६१ ॥ [६० मेधातिथिपाठे]

062 व्रात्यता बान्धवत्यागो ...{Loading}...

व्रात्यता बान्धवत्यागो
भृत्याध्यापनम् एव च ।
भृत्या चाऽध्ययनादानम्
अपण्यानां च विक्रयः [मेधातिथिपाठः - भृताच् चाऽध्ययनादानम्] ॥ ११.६२ ॥ [६१ मेधातिथिपाठे]

063 सर्वाकारेष्व् अधीकारो ...{Loading}...

सर्वाकारेष्व् अधीकारो
महायन्त्रप्रवर्तनम् ।
हिंसौषधीनां स्त्र्य्-आजीवो
ऽभिचारो मूलकर्म च ॥ ११.६३ ॥ [६२ मेधातिथिपाठे]

064 इन्धनार्थम् अशुष्काणाम् ...{Loading}...

इन्धनार्थम् अशुष्काणां
द्रुमाणाम् अवपातनम् ।
आत्मार्थं च क्रियारम्भो
निन्दितान्नादनं तथा ॥ ११.६४ ॥ [६३ मेधातिथिपाठे]

065 अनाहिताग्निता स्तेयम् ...{Loading}...

अनाहिताग्निता स्तेयम्
ऋणानाम् अनपक्रिया ।
असच्-छाष्ट्राधिगमनं
कौशीलव्यस्य च क्रिया ॥ ११.६५ ॥ [६४ मेधातिथिपाठे]

066 धान्य-कुप्य-पशुस्तेयम् मद्यपस्त्रीनिषेवणम् ...{Loading}...

धान्य-कुप्य-पशुस्तेयं
मद्यपस्त्रीनिषेवणम् ।
स्त्री-शूद्र-विट्-क्षत्रवधो
नास्तिक्यं चोपपातकम् ॥ ११.६६ ॥ [६५ मेधातिथिपाठे]

067 ब्राह्मणस्य रुजः ...{Loading}...

ब्राह्मणस्य रुजः कृत्वा
घ्रातिर् अघ्रेय-मद्ययोः [मेधातिथिपाठः - रुजःकृत्यं] ।
जैह्म्यं च मैथुनं पुंसि
जातिभ्रंशकरं स्मृतम् ॥ ११.६७ ॥ [६६ मेधातिथिपाठे]

068 खराश्वोष्ट्र-मृगेभानाम् अजाविकवधस् ...{Loading}...

खराश्वोष्ट्र-मृगेभानाम्
अजाविकवधस् तथा ।
संकरीकरणं ज्ञेयं
मीनाहि-महिषस्य च ॥ ११.६८ ॥ [६७ मेधातिथिपाठे]

069 निन्दितेभ्यो धनादानम् ...{Loading}...

निन्दितेभ्यो धनादानं
वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयम्
असत्यस्य च भाषणम् ॥ ११.६९ ॥ [६८ मेधातिथिपाठे]

070 कृमि-कीट-वयो-हत्या मद्यानुगतभोजनम् ...{Loading}...

कृमि-कीट-वयो-हत्या
मद्यानुगतभोजनम् ।
फलैधः-कुसुम-स्तेयम्
अधैर्यं च मलावहम् ॥ ११.७० ॥ [६९ मेधातिथिपाठे]

071 एतान्य् एनांसि ...{Loading}...

एतान्य् एनांसि सर्वाणि
यथोक्तानि पृथक् पृथक् ।
यैर् यैर् व्रतैर् अपोह्यन्ते
तानि सम्यङ् निबोधत ॥ ११.७१ ॥ [७० मेधातिथिपाठे]

072 ब्रह्महा द्वादश ...{Loading}...

ब्रह्महा द्वादश समाः
कुटीं कृत्वा वने वसेत् ।
भैक्षाश्य् आत्मविशुद्ध्यर्थं
कृत्वा शवशिरो ध्वजम् ॥ ११.७२ ॥ [७१ मेधातिथिपाठे]

073 लक्ष्यं शस्त्रभृताम् ...{Loading}...

लक्ष्यं शस्त्रभृतां वा स्याद्
विदुषाम् इच्छयात्मनः ।
प्रास्येद् आत्मानम् अग्नौ वा
समिद्धे त्रिर् अवाक्-शिराः ॥ ११.७३ ॥ [७२ मेधातिथिपाठे]

074 यजेत वाश्वमेधेन ...{Loading}...

यजेत वाश्वमेधेन
स्वर्जिता गोसवेन वा ।
अभिजिद्-विश्वजिद्भ्यां वा
त्रिवृताग्निष्टुतापि वा ॥ ११.७४ ॥ [७३ मेधातिथिपाठे]

075 जपन् वान्यतमम् ...{Loading}...

जपन् वान्यतमं वेदं
योजनानां शतं व्रजेत् ।
ब्रह्महत्यापनोदाय
मितभुङ् नियतेन्द्रियः ॥ ११.७५ ॥ [७४ मेधातिथिपाठे]

076 सर्वस्वं वेदविदुषे ...{Loading}...

सर्वस्वं वेदविदुषे
ब्राह्मणायोपपादयेत् ।
धनं हि जीवनायाऽलं
गृहं वा स-परिच्छदम् ॥ ११.७६ ॥ [७५ मेधातिथिपाठे]

077 हविष्यभुग् वानुसरेत् ...{Loading}...

हविष्यभुग् वानुसरेत्
प्रतिस्रोतः सरस्वतीम् ।
जपेद् वा नियताहारस्
त्रिर् वै वेदस्य संहिताम् ॥ ११.७७ ॥ [७६ मेधातिथिपाठे]

078 कृत-वापनो निवसेद् ...{Loading}...

कृत-वापनो निवसेद्
ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा
गो-ब्राह्मणहिते रतः ॥ ११.७८ ॥ [७७ मेधातिथिपाठे]

079 ब्राह्मणार्थे गवार्थे ...{Loading}...

ब्राह्मणार्थे गवार्थे वा
सद्यः प्राणान् परित्यजेत् [मेधातिथिपाठः - संयक् प्राणान्] ।
मुच्यते ब्रह्महत्याया
गोप्ता गोर् ब्राह्मणस्य च ॥ ११.७९ ॥ [७८ मेधातिथिपाठे]

080 त्रिवारम् प्रतिरोद्धा ...{Loading}...

त्रिवारं प्रतिरोद्धा वा
सर्वस्वम् अवजित्य वा [मेधातिथिपाठः - त्र्यवरं] ।
विप्रस्य तन्निमित्ते वा
प्राणालाभे विमुच्यते [मेधातिथिपाठः - प्राणालाभे ऽपि मुच्यते] ॥ ११.८० ॥ [७९ मेधातिथिपाठे]

081 एवन् दृढ-व्रतो ...{Loading}...

एवं दृढ-व्रतो नित्यं
ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे
ब्रह्महत्यां व्यपोहति ॥ ११.८१ ॥ [८० मेधातिथिपाठे]

082 शिष्ट्वा वा ...{Loading}...

शिष्ट्वा वा भूमिदेवानां
नरदेवसमागमे ।
स्वम् एनो ऽवभृथस्नातो
हयमेधे विमुच्यते ॥ ११.८२ ॥ [८१ मेधातिथिपाठे]

083 धर्मस्य ब्राह्मणो ...{Loading}...

धर्मस्य ब्राह्मणो मूलम्
अग्रं राजन्य उच्यते ।
तस्मात् समागमे तेषाम्
एनो विख्याप्य शुध्यति ॥ ११.८३ ॥ [८२ मेधातिथिपाठे]

084 ब्रह्मणः सम्भवेनैव ...{Loading}...

ब्रह्मणः संभवेनैव
देवानाम् अपि दैवतम् ।
प्रमाणं चैव लोकस्य
ब्रह्मात्रैव हि कारणम् ॥ ११.८४ ॥ [८३ मेधातिथिपाठे]

085 तेषां वेदविदो ...{Loading}...

तेषां वेदविदो ब्रूयुस्
त्रयो ऽप्य् एनः सुनिष्कृतिम् ।
सा तेषां पावनाय स्यात्
पवित्रा विदुषां हि वाक् [मेधातिथिपाठः - पवित्रं] ॥ ११.८५ ॥ [८४ मेधातिथिपाठे]

086 अतो ऽन्यतमम् ...{Loading}...

अतो ऽन्यतमम् आस्थाय
विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं
व्यपोहत्य् आत्मवत्तया ॥ ११.८६ ॥ [८५ मेधातिथिपाठे]

087 हत्वा गर्भम् ...{Loading}...

हत्वा गर्भम् अविज्ञातम्
एतद् एव व्रतं चरेत् ।
राजन्य-वैश्यौ चेजानाव्
आत्रेयीम् एव च स्त्रियम् ॥ ११.८७ ॥ [८६ मेधातिथिपाठे]

088 उक्त्वा चैवाऽनृतम् ...{Loading}...

उक्त्वा चैवाऽनृतं साक्ष्ये
प्रतिरुध्य गुरुं तथा [मेधातिथिपाठः - प्रतिरभ्य] ।
अपहृत्य च निःक्षेपं
कृत्वा च स्त्री-सुहृद्-वधम् [मेधातिथिपाठः - निक्षेपं] ॥ ११.८८ ॥ [८७ मेधातिथिपाठे]

089 इयं विशुद्धिर् ...{Loading}...

इयं विशुद्धिर् उदिता
प्रमाप्याऽकामतो द्विजम् ।
कामतो ब्राह्मणवधे
निष्कृतिर् न विधीयते ॥ ११.८९ ॥ [८८ मेधातिथिपाठे]

090 सुराम् पीत्वा ...{Loading}...

सुरां पीत्वा द्विजो मोहाद्
अग्नि-वर्णां सुरां पिबेत् ।
तया स काये निर्दग्धे
मुच्यते किल्बिषात् ततः ॥ ११.९० ॥ [८९ मेधातिथिपाठे]

091 गोमूत्रम् अग्नि-वर्णम् ...{Loading}...

गोमूत्रम् अग्नि-वर्णं वा
पिबेद् उदकम् एव वा ।
पयो घृतं वा० मरणाद्
गोशकृद्रसम् एव वा ॥ ११.९१ ॥ [९० मेधातिथिपाठे]

092 कणान् वा ...{Loading}...

कणान् वा भक्षयेद् अब्दं
पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं
वालवासा जटी ध्वजी ॥ ११.९२ ॥ [९१ मेधातिथिपाठे]

093 सुरा वै ...{Loading}...

सुरा वै मलम् अन्नानां
पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मण-राजन्यौ
वैश्यश् च न सुरां पिबेत् ॥ ११.९३ ॥ [९२ मेधातिथिपाठे]

094 गौडी पैष्टी ...{Loading}...

गौडी पैष्टी च माध्वी च
विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा
न पातव्या द्विजोत्तमैः ॥ ११.९४ ॥ [९३ मेधातिथिपाठे]

095 यक्ष-रक्षः-पिशाचान्नम् मद्यम् ...{Loading}...

यक्ष-रक्षः-पिशाचान्नं
मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नाऽत्तव्यं
देवानाम् अश्नता हविः ॥ ११.९५ ॥ [९४ मेधातिथिपाठे]

096 अमेध्ये वा ...{Loading}...

अमेध्ये वा पतेन् मत्तो
वैदिकं वाप्य् उदाहरेत् ।
अकार्यम् अन्यत् कुर्याद् वा
ब्राह्मणो मदमोहितः ॥ ११.९६ ॥ [९५ मेधातिथिपाठे]

097 यस्य कायगतम् ...{Loading}...

यस्य कायगतं ब्रह्म
मद्येनाप्लाव्यते सकृत् ।
तस्य व्यपैति ब्राह्मण्यं
शूद्रत्वं च स गच्छति ॥ ११.९७ ॥ [९६ मेधातिथिपाठे]

098 एषा विचित्राभिहिता ...{Loading}...

एषा विचित्राभिहिता
सुरापानस्य निष्कृतिः ।
अत ऊर्ध्वं प्रवक्ष्यामि
सुवर्णस्तेयनिष्कृतिम् ॥ ११.९८ ॥ [९७ मेधातिथिपाठे]

099 सुवर्णस्तेयकृद् विप्रो ...{Loading}...

सुवर्णस्तेयकृद् विप्रो
राजानम् अभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान्
मां भवान् अनुशास्त्व् इति ॥ ११.९९ ॥ [९८ मेधातिथिपाठे]

100 गृहीत्वा मुसलम् ...{Loading}...

गृहीत्वा मुसलं राजा
सकृद् धन्यात् तु तं स्वयम् ।
वधेन शुध्यति स्तेनो
ब्राह्मणस् तपसैव तु ॥ ११.१०० ॥ [९९ मेधातिथिपाठे]

101 तपसापनुनुत्सुस् तु ...{Loading}...

तपसापनुनुत्सुस् तु
सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजो ऽरण्ये
चरेद् ब्रह्महणो व्रतम् ॥ ११.१०१ ॥ [१०० मेधातिथिपाठे]

102 एतैर् व्रतैर् ...{Loading}...

एतैर् व्रतैर् अपोहेत
पापं स्तेयकृतं द्विजः ।
गुरुस्त्रीगमनीयं तु
व्रतैर् एभिर् अपानुदेत् ॥ ११.१०२ ॥ [१०१ मेधातिथिपाठे]

103 गुरुतल्प्य् अभिभाष्यैनस् ...{Loading}...

गुरुतल्प्य् अभिभाष्यैनस्
तप्ते स्वप्याद् अयोमये [मेधातिथिपाठः - तल्पे स्वप्याद्] ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्
मृत्युना स विशुध्यति [मेधातिथिपाठः - वाश्लिष्येन्] ॥ ११.१०३ ॥ [१०२ मेधातिथिपाठे]

104 स्वयं वा ...{Loading}...

स्वयं वा शिष्ण-वृषणाव्
उत्कृत्याधाय चाऽञ्जलौ ।
नैरृतीं दिशम् आतिष्ठेद्
आ निपाताद् अजिह्मगः ॥ ११.१०४ ॥ [१०३ मेधातिथिपाठे]

105 खट्वाङ्गी चीर-वासा ...{Loading}...

खट्वाङ्गी चीर-वासा वा
श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत् कृच्छ्रम्
अब्दम् एकं समाहितः ॥ ११.१०५ ॥ [१०४ मेधातिथिपाठे]

106 चान्द्रायणं वा ...{Loading}...

चान्द्रायणं वा त्रीन् मासान्
अभ्यस्येन् नियतेन्द्रियः ।
हविष्येण यवाग्वा वा
गुरुतल्पापनुत्तये ॥ ११.१०६ ॥ [१०५ मेधातिथिपाठे]

107 एतैर् व्रतैर् ...{Loading}...

एतैर् व्रतैर् अपोहेयुर्
महापातकिनो मलम् ।
उपपातकिनस् त्व् एवम्
एभिर् नानाविधैर् व्रतैः ॥ ११.१०७ ॥ [१०६ मेधातिथिपाठे]

108 उपपातकसंयुक्तो गोघ्नो ...{Loading}...

उपपातकसंयुक्तो
गोघ्नो मासं यवान् पिबेत् ।
कृत-वापो वसेद् गोष्ठे
चर्मणा तेन संवृतः ॥ ११.१०८ ॥ [१०७ मेधातिथिपाठे]

109 चतुर्थकालम् अश्नीयाद् ...{Loading}...

चतुर्थकालम् अश्नीयाद्
अक्षार-लवणं मितम् ।
गोमूत्रेणाचरेत् स्नानं
द्वौ मासौ नियतेन्द्रियः ॥ ११.१०९ ॥ [१०८ मेधातिथिपाठे]

110 दिवानुगच्छेद् गास् ...{Loading}...

दिवानुगच्छेद् गास् तास् तु
तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य
रात्रौ वीरासनं वसेत् [मेधातिथिपाठः - वीरासनो] ॥ ११.११० ॥ [१०९ मेधातिथिपाठे]

111 तिष्ठन्तीष्व् अनुतिष्ठेत् ...{Loading}...

तिष्ठन्तीष्व् अनुतिष्ठेत् तु
व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनासु तथासीनो
नियतो वीत-मत्सरः ॥ ११.१११ ॥ [११० मेधातिथिपाठे]

112 आतुराम् अभिशस्ताम् ...{Loading}...

आतुराम् अभिशस्तां वा
चौर-व्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नं वा
सर्वोपायैर् विमोचयेत् [क्:सर्वप्राणैर्] ॥ ११.११२ ॥ [१११ मेधातिथिपाठे]

113 उष्णे वर्षति ...{Loading}...

उष्णे वर्षति शीते वा
मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं
गोर् अकृत्वा तु शक्तितः ॥ ११.११३ ॥ [११२ मेधातिथिपाठे]

114 आत्मनो यदि ...{Loading}...

आत्मनो यदि वान्येषां
गृहे क्षेत्रे ऽथ वा खले ।
भक्षयन्तीं न कथयेत्
पिबन्तं चैव वत्सकम् ॥ ११.११४ ॥ [११३ मेधातिथिपाठे]

115 अनेन विधिना ...{Loading}...

अनेन विधिना यस् तु
गोघ्नो गाम् अनुगच्छति ।
स गोहत्याकृतं पापं
त्रिभिर् मासैर् व्यपोहति ॥ ११.११५ ॥ [११४ मेधातिथिपाठे]

116 वृषभैकादशा गाश् ...{Loading}...

वृषभैकादशा गाश् च
दद्यात् सुचरित-व्रतः ।
अविद्यमाने सर्वस्वं
वेदविद्भ्यो निवेदयेत् ॥ ११.११६ ॥ [११५ मेधातिथिपाठे]

117 एतद् एव ...{Loading}...

एतद् एव व्रतं कुर्युर्
उपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं
चान्द्रायणम् अथाऽपि वा [मेधातिथिपाठः - अवकीर्णिवर्जं] ॥ ११.११७ ॥ [११६ मेधातिथिपाठे]

118 अवकीर्णी तु ...{Loading}...

अवकीर्णी तु काणेन
गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन
यजेत निरृतिं निशि ॥ ११.११८ ॥ [११७ मेधातिथिपाठे]

119 हुत्वाग्नौ विधिवद् ...{Loading}...

हुत्वाग्नौ विधिवद् +धोमान्
अन्ततश् च समेत्य् ऋचा ।
वातेन्द्र-गुरु-वह्नीनां
जुहुयात् सर्पिषाहुतीः ॥ ११.११९ ॥ [११८ मेधातिथिपाठे]

120 कामतो रेतसः ...{Loading}...

कामतो रेतसः सेकं
व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्
धर्मज्ञा ब्रह्मवादिनः ॥ ११.१२० ॥ [११९ मेधातिथिपाठे]

121 मारुतम् पुरुहूतम् ...{Loading}...

मारुतं पुरुहूतं च
गुरुं पावकम् एव च ।
चतुरो व्रतिनो ऽभ्येति
ब्राह्मं तेजो ऽवकीर्णिनः ॥ ११.१२१ ॥ [१२० मेधातिथिपाठे]

122 एतस्मिन्न् एनसि ...{Loading}...

एतस्मिन्न् एनसि प्राप्ते
वसित्वा गर्दभाजिनम् ।
सप्तागारांश् चरेद् भैक्षं
स्वकर्म परिकीर्तयन् ॥ ११.१२२ ॥ [१२१ मेधातिथिपाठे]

123 तेभ्यो लब्धेन ...{Loading}...

तेभ्यो लब्धेन भैक्षेण
वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणं त्व्
अब्देन स विशुध्यति [मेधातिथिपाठः - त्रिषवणम् अब्देन] ॥ ११.१२३ ॥ [१२२ मेधातिथिपाठे]

124 जातिभ्रंशकरङ् कर्म ...{Loading}...

जातिभ्रंशकरं कर्म
कृत्वान्यतमम् इच्छया ।
चरेत् सांतपनं कृच्छ्रं
प्राजापत्यम् अनिच्छया ॥ ११.१२४ ॥ [१२३ मेधातिथिपाठे]

125 सङ्करापात्रकृत्यासु मासम् ...{Loading}...

संकरापात्रकृत्यासु
मासं शोधनम् ऐन्दवम् [मेधातिथिपाठः - ऐन्दवः] ।
मलिनीकरणीयेषु
तप्तः स्याद् यावकैस् त्र्यहम् ॥ ११.१२५ ॥ [१२४ मेधातिथिपाठे]

126 तुरीयो ब्रह्महत्यायाः ...{Loading}...

तुरीयो ब्रह्महत्यायाः
क्षत्रियस्य वधे स्मृतः ।
वैश्ये ऽष्टमांशो वृत्तस्थे
शूद्रे ज्ञेयस् तु षोडशः ॥ ११.१२६ ॥ [१२५ मेधातिथिपाठे]

127 अकामतस् तु ...{Loading}...

अकामतस् तु राजन्यं
विनिपात्य द्विजोत्तमः ।
वृषभैकसहस्रा गा
दद्यात् सुचरित-व्रतः ॥ ११.१२७ ॥ [१२६ मेधातिथिपाठे]

128 त्र्यब्दञ् चरेद् ...{Loading}...

त्र्यब्दं चरेद् वा नियतो
जटी ब्रह्महणो व्रतम् ।
वसन् दूरतरे ग्रामाद्
वृक्षमूल-निकेतनः ॥ ११.१२८ ॥ [१२७ मेधातिथिपाठे]

129 एतद् एव ...{Loading}...

एतद् एव चरेद् अब्दं
प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं
दद्याच् चैकशतं गवाम् [मेधातिथिपाठः - दद्याद् वैकशतं] ॥ ११.१२९ ॥ [१२८ मेधातिथिपाठे]

130 एतद् एव ...{Loading}...

एतद् एव व्रतं कृत्स्नं
षण्मासाञ् शूद्रहा चरेत् ।
वृषभैकादशा वापि
दद्याद् विप्राय गाः सिताः ॥ ११.१३० ॥ [१२९ मेधातिथिपाठे]

131 मार्जार-नकुलौ हत्वा ...{Loading}...

मार्जार-नकुलौ हत्वा
चाषं मण्डूकम् एव च ।
श्व-गोधोलूक-काकांश् च
शूद्रहत्याव्रतं चरेत् ॥ ११.१३१ ॥ [१३० मेधातिथिपाठे]

132 पयः पिबेत् ...{Loading}...

पयः पिबेत् त्रिरात्रं वा
योजनं वाध्वनो व्रजेत् ।
उपस्पृशेत् स्रवन्त्यां वा
सूक्तं वाब्-दैवतं जपेत् ॥ ११.१३२ ॥ [१३१ मेधातिथिपाठे]

133 अभ्रिङ् कार्ष्णायसीम् ...{Loading}...

अभ्रिं कार्ष्णायसीं दद्यात्
सर्पं हत्वा द्विजोत्तमः ।
पलालभारकं षण्ढे
सैसकं चैकमाषकम् ॥ ११.१३३ ॥ [१३२ मेधातिथिपाठे]

134 घृतकुम्भं वराहे ...{Loading}...

घृतकुम्भं वराहे तु
तिलद्रोणं तु तित्तिरौ ।
शुके द्विहायनं वत्सं
क्रौञ्चं हत्वा त्रिहायनम् ॥ ११.१३४ ॥ [१३३ मेधातिथिपाठे]

135 हत्वा हंसम् ...{Loading}...

हत्वा हंसं बलाकां च
बकं बर्हिणम् एव च ।
वानरं श्येन-भासौ च
स्पर्शयेद् ब्राह्मणाय गाम् ॥ ११.१३५ ॥ [१३४ मेधातिथिपाठे]

136 वासो दद्याद् ...{Loading}...

वासो दद्याद् +धयं हत्वा
पञ्च नीलान् वृषान् गजम् ।
अज-मेषाव् अनड्वाहं
खरं हत्वैकहायनम् ॥ ११.१३६ ॥ [१३५ मेधातिथिपाठे]

137 क्रव्यादांस् तु ...{Loading}...

क्रव्यादांस् तु मृगान् हत्वा
धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादान् वत्सतरीम्
उष्ट्रं हत्वा तु कृष्णलम् ॥ ११.१३७ ॥ [१३६ मेधातिथिपाठे]

138 जीन-कार्मुक-बस्तावीन् पृथग् ...{Loading}...

जीन-कार्मुक-बस्तावीन्
पृथग् दद्याद् विशुद्धये ।
चतुर्णाम् अपि वर्णानां
नारीर् हत्वानवस्थिताः ॥ ११.१३८ ॥ [१३७ मेधातिथिपाठे]

139 दानेन वधनिर्णेकम् ...{Loading}...

दानेन वधनिर्णेकं
सर्पादीनाम् अशक्नुवन् ।
एकैकशश् चरेत् कृच्छ्रं
द्विजः पापापनुत्तये ॥ ११.१३९ ॥ [१३८ मेधातिथिपाठे]

140 अस्थिमतान् तु ...{Loading}...

अस्थिमतां तु सत्त्वानां
सहस्रस्य प्रमापणे ।
पूर्णे चाऽनस्य् अनस्थ्नां तु
शूद्रहत्याव्रतं चरेत् ॥ ११.१४० ॥ [१३९ मेधातिथिपाठे]

141 किञ् चिद् ...{Loading}...

किं चिद् एव तु विप्राय
दद्याद् अस्थिमतां वधे ।
अनस्थ्नां चैव हिंसायां
प्राणायामेन शुध्यति ॥ ११.१४१ ॥ [१४० मेधातिथिपाठे]

142 फलदानान् तु ...{Loading}...

फलदानां तु वृक्षाणां
छेदने जप्यम् ऋक्-शतम् ।
गुल्म-वल्ली-लतानां च
पुष्पितानां च वीरुधाम् ॥ ११.१४२ ॥ [१४१ मेधातिथिपाठे]

143 अन्नाद्यजानां सत्त्वानाम् ...{Loading}...

अन्नाद्यजानां सत्त्वानां
रसजानां च सर्वशः ।
फल-पुष्पोद्भवानां च
घृतप्राशो विशोधनम् ॥ ११.१४३ ॥ [१४२ मेधातिथिपाठे]

144 कृष्टजानाम् ओषधीनाम् ...{Loading}...

कृष्टजानाम् ओषधीनां
जातानां च स्वयं वने ।
वृथालम्भे ऽनुगच्छेद् गां
दिनम् एकं पयो-व्रतः ॥ ११.१४४ ॥ [१४३ मेधातिथिपाठे]

145 एतैर् व्रतैर् ...{Loading}...

एतैर् व्रतैर् अपोह्यं स्याद्
एनो हिंसा-समुद्भवम् ।
ज्ञानाज्ञानकृतं कृत्स्नं
शृणुताऽनाद्यभक्षणे ॥ ११.१४५ ॥ [१४४ मेधातिथिपाठे]

146 अज्ञानाद् वारुणीम् ...{Loading}...

अज्ञानाद् वारुणीं पीत्वा
संस्कारेणैव शुध्यति ।
मतिपूर्वम् अनिर्देश्यं
प्राणान्तिकम् इति स्थितिः ॥ ११.१४६ ॥ [१४५ मेधातिथिपाठे]

147 अपः सुराभाजनस्था ...{Loading}...

अपः सुराभाजनस्था
मद्यभाण्डस्थितास् तथा ।
पञ्चरात्रं पिबेत् पीत्वा
शङ्खपुष्पीशृतं पयः ॥ ११.१४७ ॥ [१४६ मेधातिथिपाठे]

148 स्पृष्ट्व दत्त्वा ...{Loading}...

स्पृष्ट्व दत्त्वा च मदिरां
विधिवत् प्रतिगृह्य च ।
शूद्रोच्छिष्टाश् च पीत्वापः
कुशवारि पिबेत् त्र्यहम् ॥ ११.१४८ ॥ [१४७ मेधातिथिपाठे]

149 ब्राह्मणस् तु ...{Loading}...

ब्राह्मणस् तु सुरापस्य
गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सु त्रिर् आयम्य
घृतं प्राश्य विशुध्यति ॥ ११.१४९ ॥ [१४८ मेधातिथिपाठे]

150 अज्ञानात् प्राश्य ...{Loading}...

अज्ञानात् प्राश्य विण्-मूत्रं
सुरासंस्पृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति
त्रयो वर्णा द्विजातयः ॥ ११.१५० ॥ [१४९ मेधातिथिपाठे]

151 वपनम् मेखला ...{Loading}...

वपनं मेखला दण्डो
भैक्षचर्या व्रतानि च [मेधातिथिपाठः - भैक्ष्यचर्या] ।
निवर्तन्ते द्विजातीनां
पुनःसंस्कारकर्मणि ॥ ११.१५१ ॥ [१५० मेधातिथिपाठे]

152 अभोज्यानान् तु ...{Loading}...

अभोज्यानां तु भुक्त्वान्नं
स्त्री-शूद्रोच्छिष्टम् एव च ।
जग्ध्वा मांसम् अभक्ष्यं च
सप्तरात्रं यवान् पिबेत् ॥ ११.१५२ ॥ [१५१ मेधातिथिपाठे]

153 शुक्तानि च ...{Loading}...

शुक्तानि च कषायांश् च
पीत्वा मेध्यान्य् अपि द्विजः ।
तावद् भवत्य् अप्रयतो
यावत् तन् न व्रजत्य् अधः ॥ ११.१५३ ॥ [१५२ मेधातिथिपाठे]

154 विड्वराह-खरोष्ट्राणाङ् गोमायोः ...{Loading}...

विड्वराह-खरोष्ट्राणां
गोमायोः कपि-काकयोः ।
प्राश्य मूत्र-पुरीषाणि
द्विजश् चान्द्रायणं चरेत् ॥ ११.१५४ ॥ [१५३ मेधातिथिपाठे]

155 शुष्काणि भुक्त्वा ...{Loading}...

शुष्काणि भुक्त्वा मांसानि
भौमानि कवकानि च ।
अज्ञातं चैव सूनास्थम्
एतद् एव व्रतं चरेत् ॥ ११.१५५ ॥ [१५४ मेधातिथिपाठे]

156 क्रव्याद-सूकरोष्ट्राणाङ् कुक्कुटानाम् ...{Loading}...

क्रव्याद-सूकरोष्ट्राणां
कुक्कुटानां च भक्षणे ।
नर-काक-खराणां च
तप्तकृच्छ्रं विशोधनम् ॥ ११.१५६ ॥ [१५५ मेधातिथिपाठे]

157 मासिकान्नन् तु ...{Loading}...

मासिकान्नं तु यो ऽश्नीयाद्
असमावर्तको द्विजः ।
स त्रीण्य् अहान्य् उपवसेद्
एकाहं चोदके वसेत् ॥ ११.१५७ ॥ [१५६ मेधातिथिपाठे]

158 ब्रह्मचारी तु ...{Loading}...

ब्रह्मचारी तु यो ऽश्नीयान्
मधु मांसं कथं चन [मेधातिथिपाठः - व्रतचारी तु] ।
स कृत्वा प्राकृतं कृच्छ्रं
व्रतशेषं समापयेत् ॥ ११.१५८ ॥ [१५७ मेधातिथिपाठे]

159 बिडाल-काकाखूच्छिष्टञ् जग्ध्वा ...{Loading}...

बिडाल-काकाखूच्छिष्टं
जग्ध्वा श्व-नकुलस्य च ।
केश-कीटावपन्नं च
पिबेद् ब्रह्मसुवर्चलाम् ॥ ११.१५९ ॥ [१५८ मेधातिथिपाठे]

160 अभोज्यम् अन्नम् ...{Loading}...

अभोज्यम् अन्नं नाऽत्तव्यम्
आत्मनः शुद्धिम् इच्छता ।
अज्ञानभुक्तं तूत्तार्यं
शोध्यं वाप्य् आशु शोधनैः ॥ ११.१६० ॥ [१५९ मेधातिथिपाठे]

161 एषो ऽनाद्यादनस्योक्तो ...{Loading}...

एषो ऽनाद्यादनस्योक्तो
व्रतानां विविधो विधिः ।
स्तेयदोषापहर्तॄणां
व्रतानां श्रूयतां विधिः ॥ ११.१६१ ॥ [१६० मेधातिथिपाठे]

162 धान्यान्न-धनचौर्याणि कृत्वा ...{Loading}...

धान्यान्न-धनचौर्याणि
कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहाद् एव
कृच्छ्राब्देन विशुध्यति ॥ ११.१६२ ॥ [१६१ मेधातिथिपाठे]

163 मनुष्याणान् तु ...{Loading}...

मनुष्याणां तु हरणे
स्त्रीणां क्षेत्र-गृहस्य च ।
कूप-वापीजलानां च
शुद्धिश् चान्द्रायणं स्मृतम् ॥ ११.१६३ ॥ [१६२ मेधातिथिपाठे]

164 द्रव्याणाम् अल्प-साराणाम् ...{Loading}...

द्रव्याणाम् अल्प-साराणां
स्तेयं कृत्वान्यवेश्मतः [मेधातिथिपाठः - कृत्वान्यवेश्मनि] ।
चरेत् सांतपनं कृच्छ्रं
तन् निर्यात्य् आत्मशुद्धये ॥ ११.१६४ ॥ [१६३ मेधातिथिपाठे]

165 भक्ष्य-भोज्यापहरणे यान-शय्यासनस्य ...{Loading}...

भक्ष्य-भोज्यापहरणे
यान-शय्यासनस्य च ।
पुष्प-मूल-फलानां च
पञ्चगव्यं विशोधनम् ॥ ११.१६५ ॥ [१६४ मेधातिथिपाठे]

166 तृण-काष्ठ-द्रुमाणाञ् च ...{Loading}...

तृण-काष्ठ-द्रुमाणां च
शुष्कान्नस्य गुडस्य च ।
चेल-चर्मामिषाणां च
त्रिरात्रं स्याद् अभोजनम् [मेधातिथिपाठः - चैल-चर्मामिक्षाणां] ॥ ११.१६६ ॥ [१६५ मेधातिथिपाठे]

167 मणि-मुक्ता-प्रवालानान् ताम्रस्य ...{Loading}...

मणि-मुक्ता-प्रवालानां
ताम्रस्य रजतस्य च ।
अयः-कांस्योपलानां च
द्वादशाहं कणान्नता ॥ ११.१६७ ॥ [१६६ मेधातिथिपाठे]

168 कार्पास-कीटजोर्णानान् द्विशफैकशफस्य ...{Loading}...

कार्पास-कीटजोर्णानां
द्विशफैकशफस्य च [मेधातिथिपाठः - द्वेशफैकखुरस्य च] ।
पक्षि-गन्धौषधीनां च
रज्ज्वाश् चैव त्र्यहं पयः ॥ ११.१६८ ॥ [१६७ मेधातिथिपाठे]

169 एतैर् व्रतैर् ...{Loading}...

एतैर् व्रतैर् अपोहेत
पापं स्तेयकृतं द्विजः ।
अगम्यागमनीयं तु
व्रतैर् एभिर् अपानुदेत् ॥ ११.१६९ ॥ [१६८ मेधातिथिपाठे]

170 गुरुतल्पव्रतङ् कुर्याद् ...{Loading}...

गुरुतल्पव्रतं कुर्याद्
रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु
कुमारीष्व् अन्त्यजासु च ॥ ११.१७० ॥ [१६९ मेधातिथिपाठे]

171 पैतृस्वसेयीम् भगिनीम् ...{Loading}...

पैतृस्वसेयीं भगिनीं
स्वस्रीयां मातुर् एव च ।
मातुश् च भ्रातुस् तनयां
गत्वा चान्द्रायणं चरेत् [भ्रातुर् आप्तस्य गत्वा] ॥ ११.१७१ ॥ [१७० मेधातिथिपाठे]

172 एतास् तिस्रस् ...{Loading}...

एतास् तिस्रस् तु भार्यार्थे
नोपयच्छेत् तु बुद्धिमान् ।
ज्ञातित्वेनाऽनुपेयास् ताः
पतति ह्य् उपयन्न् अधः ॥ ११.१७२ ॥ [१७१ मेधातिथिपाठे]

173 अमानुषीषू पुरुष ...{Loading}...

अमानुषीषू पुरुष
उदक्यायाम् अयोनिषु ।
रेतः सिक्त्वा जले चैव
कृच्छ्रं सांतपनं चरेत् ॥ ११.१७३ ॥ [१७२ मेधातिथिपाठे]

174 मैथुनन् तु ...{Loading}...

मैथुनं तु समासेव्य
पुंसि योषिति वा द्विजः ।
गो-याने ऽप्सु दिवा चैव
स-वासाः स्नानम् आचरेत् ॥ ११.१७४ ॥ [१७३ मेधातिथिपाठे]

175 चण्डालान्त्यस्त्रियो गत्वा ...{Loading}...

चण्डालान्त्यस्त्रियो गत्वा
भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो
ज्ञानात् साम्यं तु गच्छति ॥ ११.१७५ ॥ [१७४ मेधातिथिपाठे]

176 विप्रदुष्टां स्त्रियम् ...{Loading}...

विप्रदुष्टां स्त्रियं भर्ता
निरुन्ध्याद् एकवेश्मनि ।
यत् पुंसः परदारेषु
तच् चैनां चारयेद् व्रतम् ॥ ११.१७६ ॥ [१७५ मेधातिथिपाठे]

177 सा चेत् ...{Loading}...

सा चेत् पुनः प्रदुष्येत् तु
सदृशेनोपमन्त्रिता [क्:सदृशेनोपयन्त्रिता?] ।
कृच्छ्रं चान्द्रायणं चैव
तद् अस्याः पावनं स्मृतम् ॥ ११.१७७ ॥ [१७६ मेधातिथिपाठे]

178 यत् करोत्य् ...{Loading}...

यत् करोत्य् एकरात्रेण
वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुग् जपन् नित्यं
त्रिभिर् वर्षैर् व्यपोहति ॥ ११.१७८ ॥ [१७७ मेधातिथिपाठे]

179 एषा पापकृताम् ...{Loading}...

एषा पापकृताम् उक्ता
चतुर्णाम् अपि निष्कृतिः ।
पतितैः संप्रयुक्तानाम्
इमाः शृणुत निष्कृतीः ॥ ११.१७९ ॥ [१७८ मेधातिथिपाठे]

180 संवत्सरेण पतति ...{Loading}...

संवत्सरेण पतति
पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनान्
न तु यानासनाशनात् ॥ ११.१८० ॥ [१७९ मेधातिथिपाठे]

181 यो येन ...{Loading}...

यो येन पतितेनैषां
संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात्
तत्संसर्गविशुद्धये ॥ ११.१८१ ॥ [१८० मेधातिथिपाठे]

182 पतितस्योदकङ् कार्यम् ...{Loading}...

पतितस्योदकं कार्यं
सपिण्डैर् बान्धवैर् बहिः ।
निन्दिते ऽहनि सायाह्ने
ज्ञाति-र्त्विग्-गुरुसंनिधौ ॥ ११.१८२ ॥ [१८१ मेधातिथिपाठे]

183 दासी घटम् ...{Loading}...

दासी घटम् अपां पूर्णं
पर्यस्येत् प्रेतवत् पदा ।
अहोरात्रम् उपासीरन्न्
अशौचं बान्धवैः सह ॥ ११.१८३ ॥ [१८२ मेधातिथिपाठे]

184 निवर्तेरंश् च ...{Loading}...

निवर्तेरंश् च तस्मात् तु
संभाषण-सहासने ।
दायाद्यस्य प्रदानं च
यात्रा चैव हि लौकिकी ॥ ११.१८४ ॥ [१८३ मेधातिथिपाठे]

185 ज्येष्ठता च ...{Loading}...

ज्येष्ठता च निवर्तेत
ज्येष्ठावाप्यं च यद् धनम् [मेधातिथिपाठः - यद् वसु] ।
ज्येष्ठांशं प्राप्नुयाच् चाऽस्य
यवीयान् गुणतो ऽधिकः ॥ ११.१८५ ॥ [१८४ मेधातिथिपाठे]

186 प्रायश्चित्ते तु ...{Loading}...

प्रायश्चित्ते तु चरिते
पूर्णकुम्भम् अपां नवम् ।
तेनैव सार्धं प्रास्येयुः
स्नात्वा पुण्ये जलाशये ॥ ११.१८६ ॥ [१८५ मेधातिथिपाठे]

187 स त्व् ...{Loading}...

स त्व् अप्सु तं घटं प्रास्य
प्रविश्य भवनं स्वकम् ।
सर्वाणि ज्ञातिकार्याणि
यथापूर्वं समाचरेत् ॥ ११.१८७ ॥ [१८६ मेधातिथिपाठे]

188 एतद् एव ...{Loading}...

एतद् एव विधिं कुर्याद्
योषित्सु पतितास्व् अपि [मेधातिथिपाठः - एतम् एव विधिं] ।
वस्त्रान्न-पानं देयं तु
वसेयुश् च गृहान्तिके ॥ ११.१८८ ॥ [१८७ मेधातिथिपाठे]

189 एनस्विभिर् अनिर्णिक्तैर् ...{Loading}...

एनस्विभिर् अनिर्णिक्तैर्
नाऽर्थं किं चित् सहाचरेत् ।
कृतनिर्णेजनांश् चैव
न जुगुप्सेत कर्हि चित् [मेधातिथिपाठः - कृतनिर्णेजनांश् चैतान्] ॥ ११.१८९ ॥ [१८८ मेधातिथिपाठे]

190 बालघ्नांश् च ...{Loading}...

बालघ्नांश् च कृतघ्नांश् च
विशुद्धान् अपि धर्मतः ।
शरणागतहन्तॄंश् च
स्त्रीहन्तॄंश् च न संवसेत् ॥ ११.१९० ॥ [१८९ मेधातिथिपाठे]

191 येषान् द्विजानाम् ...{Loading}...

येषां द्विजानां सावित्री
नाऽनूच्येत यथाविधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान्
यथाविध्य् उपनाययेत् ॥ ११.१९१ ॥ [१९० मेधातिथिपाठे]

192 प्रायश्चित्तञ् चिकीर्षन्ति ...{Loading}...

प्रायश्चित्तं चिकीर्षन्ति
विकर्मस्थास् तु ये द्विजाः ।
ब्रह्मणा च परित्यक्तास्
तेषाम् अप्य् एतद् आदिशेत् ॥ ११.१९२ ॥ [१९१ मेधातिथिपाठे]

193 यद् गर्हितेनाऽर्जयन्ति ...{Loading}...

यद् गर्हितेनाऽर्जयन्ति
कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति
जप्येन तपसैव च ॥ ११.१९३ ॥ [१९२ मेधातिथिपाठे]

194 जपित्वा त्रीणि ...{Loading}...

जपित्वा त्रीणि सावित्र्याः
सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा
मुच्यते ऽसत्प्रतिग्रहात् ॥ ११.१९४ ॥ [१९३ मेधातिथिपाठे]

195 उपवासकृशन् तम् ...{Loading}...

उपवासकृशं तं तु
गोव्रजात् पुनर् आगतम् ।
प्रणतं प्रति पृच्छेयुः
साम्यं सौम्येच्छसीति किम् ॥ ११.१९५ ॥ [१९४ मेधातिथिपाठे]

196 सत्यम् उक्त्वा ...{Loading}...

सत्यम् उक्त्वा तु विप्रेषु
विकिरेद् यवसं गवाम् ।
गोभिः प्रवर्तिते तीर्थे
कुर्युस् तस्य परिग्रहम् ॥ ११.१९६ ॥ [१९५ मेधातिथिपाठे]

197 व्रात्यानां याजनम् ...{Loading}...

व्रात्यानां याजनं कृत्वा
परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च
त्रिभिः कृच्छ्रैर् व्यपोहति ॥ ११.१९७ ॥ [१९६ मेधातिथिपाठे]

198 शरणागतम् परित्यज्य ...{Loading}...

शरणागतं परित्यज्य
वेदं विप्लाव्य च द्विजः ।
संवत्सरं यवाहारस्
तत् पापम् अपसेधति ॥ ११.१९८ ॥ [१९७ मेधातिथिपाठे]

199 श्व-शृगाल-खरैर् दष्टो ...{Loading}...

श्व-शृगाल-खरैर् दष्टो
ग्राम्यैः क्रव्याद्भिर् एव च ।
नराश्वोष्ट्र-वराहैश् च
प्राणायामेन शुध्यति ॥ ११.१९९ ॥ [१९८ मेधातिथिपाठे]

200 षष्ठान्नकालता मासम् ...{Loading}...

षष्ठान्नकालता मासं
संहिताजप एव वा ।
होमाश् च सकला नित्यम्
अपाङ्क्त्यानां विशोधनम् [मेधातिथिपाठः - होमाश् च शाकला] ॥ ११.२०० ॥ [१९९ मेधातिथिपाठे]

201 उष्ट्रयानं समारुह्य ...{Loading}...

उष्ट्रयानं समारुह्य
खरयानं तु कामतः ।
स्नात्वा तु विप्रो दिग्-वासाः
प्राणायामेन शुध्यति ॥ ११.२०१ ॥ [२०० मेधातिथिपाठे]

202 विनाद्भिर् अप्सु ...{Loading}...

विनाद्भिर् अप्सु वाप्य् आर्तः
शारीरं संनिषेव्य च ।
स-चैलो बहिर् आप्लुत्य
गाम् आलभ्य विशुध्यति ॥ ११.२०२ ॥ [२०१ मेधातिथिपाठे]

203 वेदोदितानान् नित्यानाम् ...{Loading}...

वेदोदितानां नित्यानां
कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च
प्रायश्चित्तम् अभोजनम् ॥ ११.२०३ ॥ [२०२ मेधातिथिपाठे]

204 हुङ्कारम् ब्राह्मणस्योक्त्वा ...{Loading}...

हुङ्कारं ब्राह्मणस्योक्त्वा
त्वम्कारं च गरीयसः ।
स्नात्वानश्नन्न् अहः शेषम्
अभिवाद्य प्रसादयेत् ॥ ११.२०४ ॥ [२०३ मेधातिथिपाठे]

205 ताडयित्वा तृणेनाऽपि ...{Loading}...

ताडयित्वा तृणेनाऽपि
कण्ठे वाबध्य वाससा ।
विवादे वा विनिर्जित्य
प्रणिपत्य प्रसादयेत् ॥ ११.२०५ ॥ [२०४ मेधातिथिपाठे]

206 अवगूर्य त्व् ...{Loading}...

अवगूर्य त्व् अब्दशतं
सहस्रम् अभिहत्य च ।
जिघांसया ब्राह्मणस्य
नरकं प्रतिपद्यते ॥ ११.२०६ ॥ [२०५ मेधातिथिपाठे]

207 शोणितं यावतः ...{Loading}...

शोणितं यावतः पांसून्
संगृह्णाति महीतले ।
तावन्त्य् अब्दसहस्राणि
तत्कर्ता नरके वसेत् [मेधातिथिपाठः - नरके व्रजेत्] ॥ ११.२०७ ॥ [२०६ मेधातिथिपाठे]

208 अवगूर्य चरेत् ...{Loading}...

अवगूर्य चरेत् कृच्छ्रम्
अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत
विप्रस्योत्पाद्य शोणितम् ॥ ११.२०८ ॥ [२०७ मेधातिथिपाठे]

209 अनुक्तनिष्कृतीनान् तु ...{Loading}...

अनुक्तनिष्कृतीनां तु
पापानाम् अपनुत्तये ।
शक्तिं चाऽवेक्ष्य पापं च
प्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०९ ॥ [२०८ मेधातिथिपाठे]

210 यैर् अभ्युपायैर् ...{Loading}...

यैर् अभ्युपायैर् एनांसि
मानवो व्यपकर्षति ।
तान् वो ऽभ्युपायान् वक्ष्यामि
देवर्षि-पितृसेवितान् ॥ ११.२१० ॥ [२०९ मेधातिथिपाठे]

211 त्र्यहम् प्रातस् ...{Loading}...

त्र्यहं प्रातस् त्र्यहं सायं
त्र्यहम् अद्याद् अयाचितम् ।
त्र्यहं परं च नाऽश्नीयात्
प्राजापत्यं चरन् द्विजः ॥ ११.२११ ॥ [२१० मेधातिथिपाठे]

212 गोमूत्रङ् गोमयम् ...{Loading}...

गोमूत्रं गोमयं क्षीरं
दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च
कृच्छ्रं सांतपनं स्मृतम् ॥ ११.२१२ ॥ [२११ मेधातिथिपाठे]

213 एकैकङ् ग्रासम् ...{Loading}...

एकैकं ग्रासम् अश्नीयात्
त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम्
अतिकृच्छ्रं चरन् द्विजः ॥ ११.२१३ ॥ [२१२ मेधातिथिपाठे]

214 तप्तकृच्छ्रञ् चरन् ...{Loading}...

तप्तकृच्छ्रं चरन् विप्रो
जल-क्षीर-घृतानिलान् ।
प्रति-त्र्यहं पिबेद् उष्णान्
सकृत्स्नायी समाहितः ॥ ११.२१४ ॥ [२१३ मेधातिथिपाठे]

215 यतात्मनो ऽप्रमत्तस्य ...{Loading}...

यतात्मनो ऽप्रमत्तस्य
द्वादशाहम् अभोजनम् ।
पराको नाम कृच्छ्रो ऽयं
सर्वपापापनोदनः ॥ ११.२१५ ॥ [२१४ मेधातिथिपाठे]

216 एकैकं ह्रासयेत् ...{Loading}...

एकैकं ह्रासयेत् पिण्डं
कृष्णे शुक्ले च वर्धयेत् ।
उपस्पृशंस् त्रिषवणम्
एतच् चाण्द्रायणं स्मृतम् ॥ ११.२१६ ॥ [२१५ मेधातिथिपाठे]

217 एतम् एव ...{Loading}...

एतम् एव विधिं कृत्स्नम्
आचरेद् यवमध्यमे ।
शुक्लपक्षादिनियतश्
चरंश् चान्द्रायणं व्रतम् ॥ ११.२१७ ॥ [२१६ मेधातिथिपाठे]

218 अष्टाव् अष्टौ ...{Loading}...

अष्टाव् अष्टौ समश्नीयात्
पिण्डान् मध्यंदिने स्थिते ।
नियतात्मा हविष्याशी
यतिचान्द्रायणं चरन् ॥ ११.२१८ ॥ [२१७ मेधातिथिपाठे]

219 चतुरः प्रातर् ...{Loading}...

चतुरः प्रातर् अश्नीयात्
पिण्डान् विप्रः समाहितः ।
चतुरो ऽस्तम् इते सूर्ये
शिशुचान्द्रायणं स्मृतम् ॥ ११.२१९ ॥ [२१८ मेधातिथिपाठे]

220 यथा कथम् ...{Loading}...

यथा कथं चित् पिण्डानां
तिस्रो ऽशीतीः समाहितः ।
मासेनाऽश्नन् हविष्यस्य
चन्द्रस्यैति सलोकताम् ॥ ११.२२० ॥ [२१९ मेधातिथिपाठे]

221 एतद् रुद्रास् ...{Loading}...

एतद् रुद्रास् तथादित्या
वसवश् चाचरन् व्रतम् ।
सर्वाकुशलमोक्षाय
मरुतश् च महर्षिभिः ॥ ११.२२१ ॥ [२२० मेधातिथिपाठे]

222 महाव्याहृतिभिर् होमः ...{Loading}...

महाव्याहृतिभिर् होमः
कर्तव्यः स्वयम् अन्वहम् ।
अहिंसा सत्यम् अक्रोधम्
आर्जवं च समाचरेत् ॥ ११.२२२ ॥ [२२१ मेधातिथिपाठे]

223 त्रिर् अह्नस् ...{Loading}...

त्रिर् अह्नस् त्रिर् निशायां च
स-वासा जलम् आविशेत् ।
स्त्री-शूद्र-पतितांश् चैव
नाऽभिभाषेत कर्हि चित् ॥ ११.२२३ ॥ [२२२ मेधातिथिपाठे]

224 स्थानासनाभ्यां विहरेद् ...{Loading}...

स्थानासनाभ्यां विहरेद्
अशक्तो ऽधः शयीत वा ।
ब्रह्मचारी व्रती च स्याद्
गुरु-देव-द्विजार्चकः ॥ ११.२२४ ॥ [२२३ मेधातिथिपाठे]

225 सावित्रीञ् च ...{Loading}...

सावित्रीं च जपेन् नित्यं
पवित्राणि च शक्तितः ।
सर्वेष्व् एव व्रतेष्व् एवं
प्रायश्चित्तार्थम् आदृतः ॥ ११.२२५ ॥ [२२४ मेधातिथिपाठे]

226 एतैर् द्विजातयः ...{Loading}...

एतैर् द्विजातयः शोध्या
व्रतैर् आविष्कृतैनसः ।
अनाविष्कृत-पापांस् तु
मन्त्रैर् होमैश् च शोधयेत् ॥ ११.२२६ ॥ [२२५ मेधातिथिपाठे]

227 ख्यापनेनानुतापेन तपसाध्ययनेन ...{Loading}...

ख्यापनेनानुतापेन
तपसाध्ययनेन च ।
पापकृन् मुच्यते पापात्
तथा दानेन चापदि ॥ ११.२२७ ॥ [२२६ मेधातिथिपाठे]

228 यथा यथा ...{Loading}...

यथा यथा नरो ऽधर्मं
स्वयं कृत्वानुभाषते ।
तथा तथा त्वचेवाऽहिस्
तेनाऽधर्मेण मुच्यते ॥ ११.२२८ ॥ [२२७ मेधातिथिपाठे]

229 यथा यथा ...{Loading}...

यथा यथा मनस् तस्य
दुष्कृतं कर्म गर्हति ।
तथा तथा शरीरं तत्
तेनाऽधर्मेण मुच्यते ॥ ११.२२९ ॥ [२२८ मेधातिथिपाठे]

230 कृत्वा पापम् ...{Loading}...

कृत्वा पापं हि संतप्य
तस्मात् पापात् प्रमुच्यते ।
नैवं कुर्यां पुनर् इति
निवृत्त्या पूयते तु सः ॥ ११.२३० ॥ [२२९ मेधातिथिपाठे]

231 एवं सञ्चिन्त्य ...{Loading}...

एवं संचिन्त्य मनसा
प्रेत्य कर्मफलोदयम् ।
मनो-वाङ्-गूर्तिभिर् नित्यं
शुभं कर्म समाचरेत् ॥ ११.२३१ ॥ [२३० मेधातिथिपाठे]

232 अज्ञानाद् यदि ...{Loading}...

अज्ञानाद् यदि वा ज्ञानात्
कृत्वा कर्म विगर्हितम् ।
तस्माद् विमुक्तिम् अन्विच्छन्
द्वितीयं न समाचरेत् ॥ ११.२३२ ॥ [२३१ मेधातिथिपाठे]

233 यस्मिन् कर्मण्य् ...{Loading}...

यस्मिन् कर्मण्य् अस्य कृते
मनसः स्याद् अलाघवम् ।
तस्मिंस् तावत् तपः कुर्याद्
यावत् तुष्टिकरं भवेत् ॥ ११.२३३ ॥ [२३२ मेधातिथिपाठे]

234 तपोमूलम् इदम् ...{Loading}...

तपोमूलम् इदं सर्वं
दैव-मानुषकं सुखम् ।
तपोमध्यं बुधैः प्रोक्तं
तपो-ऽन्तं वेददर्शिभिः ॥ ११.२३४ ॥ [२३३ मेधातिथिपाठे]

235 ब्राह्मणस्य तपो ...{Loading}...

ब्राह्मणस्य तपो ज्ञानं
तपः क्षत्रस्य रक्षणम् ।
वैश्यस्य तु तपो वार्ता
तपः शूद्रस्य सेवनम् ॥ ११.२३५ ॥ [२३४ मेधातिथिपाठे]

236 ऋषयः संयतात्मानः ...{Loading}...

ऋषयः संयतात्मानः
फल-मूलानिलाशनाः ।
तपसैव प्रपश्यन्ति
त्रैलोक्यं स-चराचरम् ॥ ११.२३६ ॥ [२३५ मेधातिथिपाठे]

237 औषधान्य् अगदो ...{Loading}...

औषधान्य् अगदो विद्या
दैवी च विविधा स्थितिः ।
तपसैव प्रसिध्यन्ति
तपस् तेषां हि साधनम् ॥ ११.२३७ ॥ [२३६ मेधातिथिपाठे]

238 यद् दुस्तरम् ...{Loading}...

यद् दुस्तरं यद् दुरापं
यद् दुर्गं यच् च दुष्करम् ।
सर्वं तु तपसा साध्यं
तपो हि दुरतिक्रमम् [मेधातिथिपाठः - सर्वं तत् तपसा] ॥ ११.२३८ ॥ [२३७ मेधातिथिपाठे]

239 महापातकिनश् चैव ...{Loading}...

महापातकिनश् चैव
शेषाश् चाऽकार्यकारिणः ।
तपसैव सुतप्तेन
मुच्यन्ते किल्बिषात् ततः ॥ ११.२३९ ॥ [२३८ मेधातिथिपाठे]

240 कीताश् चाऽहि-पतङ्गाश् ...{Loading}...

कीताश् चाऽहि-पतंगाश् च
पशवश् च वयांसि च ।
स्थावराणि च भूतानि
दिवं यान्ति तपोबलात् ॥ ११.२४० ॥ [२३९ मेधातिथिपाठे]

241 यत् किम् ...{Loading}...

यत् किं चिद् एनः कुर्वन्ति
मनो-वाङ्-गूर्तिभिर् जनाः [मेधातिथिपाठः - मनो-वाक्-कर्मभिर्] ।
तत् सर्वं निर्दहन्त्य् आशु
तपसैव तपो-धनाः ॥ ११.२४१ ॥ [२४० मेधातिथिपाठे]

242 तपसैव विशुद्धस्य ...{Loading}...

तपसैव विशुद्धस्य
ब्राह्मणस्य दिवौकसः ।
इज्याश् च प्रतिगृह्णन्ति
कामान् संवर्धयन्ति च ॥ ११.२४२ ॥ [२४१ मेधातिथिपाठे]

243 प्रजापतिर् इदम् ...{Loading}...

प्रजापतिर् इदं शास्त्रं
तपसैवाऽसृजत् प्रभुः ।
तथैव वेदान् ऋषयस्
तपसा प्रतिपेदिरे ॥ ११.२४३ ॥ [२४२ मेधातिथिपाठे]

244 इत्य् एतत् ...{Loading}...

इत्य् एतत् तपसो देवा
महाभाग्यं प्रचक्षते [मेधातिथिपाठः - यद् एतत् तपसो] ।
सर्वस्याऽस्य प्रपश्यन्तस्
तपसः पुण्यम् उत्तमम् [मेधातिथिपाठः - पुण्यं उद्भवम्] ॥ ११.२४४ ॥ [२४३ मेधातिथिपाठे]

245 वेदाभ्यासो ऽन्वहम् ...{Loading}...

वेदाभ्यासो ऽन्वहं शक्त्या
महायज्ञक्रिया क्षमा ।
नाशयन्त्य् आशु पापानि
महापातकजान्य् अपि ॥ ११.२४५ ॥ [२४४ मेधातिथिपाठे]

246 यथैधस् तेजसा ...{Loading}...

यथैधस् तेजसा वह्निः
प्राप्तं निर्दहति क्षणात् ।
तथा ज्ञानाग्निना पापं
सर्वं दहति वेदवित् ॥ ११.२४६ ॥ [२४५ मेधातिथिपाठे]

247 इत्य् एतद् ...{Loading}...

इत्य् एतद् एनसाम् उक्तं
प्रायश्चित्तं यथाविधि ।
अत ऊर्ध्वं रहस्याऽनां
प्रायश्चित्तं निबोधत ॥ ११.२४७ ॥ [२४६ मेधातिथिपाठे]

248 स-व्याहृति-प्रणवकाः प्राणायामास् ...{Loading}...

स-व्याहृति-प्रणवकाः
प्राणायामास् तु षोडश ।
अपि भ्रूणहनं मासात्
पुनन्त्य् अहर् अहः कृताः ॥ ११.२४८ ॥ [२४७ मेधातिथिपाठे]

249 कौत्सञ् जप्त्वाप ...{Loading}...

कौत्सं जप्त्वाप इत्य् एतद्
वसिष्ठं च प्रतीत्य् ऋचम् ।
माहित्रं शुद्धवत्यश् च
सुरापो ऽपि विशुध्यति ॥ ११.२४९ ॥ [२४८ मेधातिथिपाठे]

250 सकृज् जप्त्वास्यवामीयम् ...{Loading}...

सकृज् जप्त्वास्यवामीयं
शिवसंकल्पम् एव च ।
अपहृत्य सुवर्णं तु
क्षणाद् भवति निर्-मलः ॥ ११.२५० ॥ [२४९ मेधातिथिपाठे]

251 हविष्पान्तीयम् अभ्यस्य ...{Loading}...

हविष्पान्तीयम् अभ्यस्य
न तमं ह इतीति च ।
जपित्वा पौरुषं सूक्तं
मुच्यते गुरुतल्पगः ॥ ११.२५१ ॥ [२५० मेधातिथिपाठे]

252 एनसां स्थूल-सूक्ष्माणाम् ...{Loading}...

एनसां स्थूल-सूक्ष्माणां
चिकीर्षन्न् अपनोदनम् ।
अवेत्य् ऋचं जपेद् अब्दं
यत् किं चेदम् इतीति वा ॥ ११.२५२ ॥ [२५१ मेधातिथिपाठे]

253 प्रतिगृह्याऽप्रतिग्राह्यम् भुक्त्वा ...{Loading}...

प्रतिगृह्याऽप्रतिग्राह्यं
भुक्त्वा चाऽन्नं विगर्हितम् ।
जपंस् तरत्समन्दीयं
पूयते मानवस् त्र्यहात् ॥ ११.२५३ ॥ [२५२ मेधातिथिपाठे]

254 सोमारौद्रन् तु ...{Loading}...

सोमारौद्रं तु बह्व्-एनाः
मासम् अभ्यस्य शुध्यति [मेधातिथिपाठः - समाम् अभ्यस्य] ।
स्रवन्त्याम् आचरन् स्नानम्
अर्यम्णाम् इति च तृचम् ॥ ११.२५४ ॥ [२५३ मेधातिथिपाठे]

255 अब्दार्धम् इन्द्रम् ...{Loading}...

अब्दार्धम् इन्द्रम् इत्य् एतद्
एनस्वी सप्तकं जपेत् ।
अप्रशस्तं तु कृत्वाप्सु
मासम् आसीत भैक्षभुक् ॥ ११.२५५ ॥ [२५४ मेधातिथिपाठे]

256 मन्त्रैः शाकलहोमीयैर् ...{Loading}...

मन्त्रैः शाकलहोमीयैर्
अब्दं हुत्वा घृतं द्विजः ।
सुगुर्व् अप्य् अपहन्त्य् एनो
जप्त्वा वा नम इत्य् ऋचम् ॥ ११.२५६ ॥ [२५५ मेधातिथिपाठे]

257 महापातकसंयुक्तो ऽनुगच्छेद् ...{Loading}...

महापातकसंयुक्तो
ऽनुगच्छेद् गाः समाहितः ।
अभ्यस्याऽब्दं पावमानीर्
भैक्षाहारो विशुध्यति ॥ ११.२५७ ॥ [२५६ मेधातिथिपाठे]

258 अरण्ये वा ...{Loading}...

अरण्ये वा त्रिर् अभ्यस्य
प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः
पराकैः शोधितस् त्रिभिः ॥ ११.२५८ ॥ [२५७ मेधातिथिपाठे]

259 त्र्यहन् तूपवसेद् ...{Loading}...

त्र्यहं तूपवसेद् युक्तस्
त्रिर् अह्नो ऽभ्युपयन्न् अपः ।
मुच्यते पातकैः सर्वैस्
त्रिर् जपित्वाघमर्षणम् ॥ ११.२५९ ॥ [२५८ मेधातिथिपाठे]

260 यथाश्वमेधः क्रतुराट् ...{Loading}...

यथाश्वमेधः क्रतुराट्
सर्वपापाप-नोदनः ।
तथाघमर्षणं सूक्तं
सर्वपापाप-नोदनम् ॥ ११.२६० ॥ [२५९ मेधातिथिपाठे]

261 हत्वा लोकान् ...{Loading}...

हत्वा लोकान् अपीमांस् त्रीन्
अश्नन्न् अपि यतस् ततः ।
ऋग्वेदं धारयन् विप्रो
नैनः प्राप्नोति किं चन ॥ ११.२६१ ॥ [२६० मेधातिथिपाठे]

262 ऋक्संहितान् त्रिर् ...{Loading}...

ऋक्संहितां त्रिर् अभ्यस्य
यजुषां वा समाहितः ।
साम्नां वा स-रहस्यानां
सर्वपापैः प्रमुच्यते ॥ ११.२६२ ॥ [२६१ मेधातिथिपाठे]

263 यथा महाह्रदम् ...{Loading}...

यथा महाह्रदं प्राप्य
क्षिप्तं लोष्टं विनश्यति ।
तथा दुश्चरितं सर्वं
वेदे त्रिवृति मज्जति ॥ ११.२६३ ॥ [२६२ मेधातिथिपाठे]

264 ऋचो यजूंषि ...{Loading}...

ऋचो यजूंषि चाऽन्यानि
सामानि विविधानि च ।
एष ज्ञेयस् त्रिवृद्वेदो
यो वेदैनं स वेदवित् ॥ ११.२६४ ॥ [२६३ मेधातिथिपाठे]

265 आद्यं यत् ...{Loading}...

आद्यं यत् त्र्यक्षरं ब्रह्म
त्रयी यस्मिन् प्रतिष्ठिता ।
स गुह्यो ऽन्यस् त्रिवृद्वेदो
यस् तं वेद स वेदवित् ॥ ११.२६५ ॥ [२६४ मेधातिथिपाठे]


  1. M G: snātakaviśeṣeṇa viśiṣṭo dānārtho ↩︎

  2. M G: vakṣyamāṇo ↩︎

  3. M G: niścitya nirvacanebhyo ↩︎

  4. M G: tathāpi ↩︎

  5. M G: upadeśaṃ ↩︎

  6. M G: -kartavyatayānuktatvāt ↩︎

  7. M G: pītatvāc cārthavādo ↩︎

  8. M G: aṅgaharaṇān ↩︎

  9. M G: vaiśyānām ↩︎

  10. M G: vinimaye ↩︎

  11. M G: na ca ↩︎

  12. M G J: sāmyaṃ (the reading svāmyaṃ conjectural) ↩︎

  13. M G J: kartavyaṃ (hartavyam a conjecture) ↩︎

  14. M G: vāpahāraḥ ↩︎

  15. M G: kutaḥ ↩︎

  16. M G: yogād ↩︎

  17. M G: ca sā, and omit: śāstrād yā caivati cety ayam eva (the reading here is corrupt) ↩︎

  18. J: ayajño ‘somayājī ↩︎

  19. M G: rājapurāpanīta eva ↩︎

  20. M G omit: yasmai ca prayacchati ↩︎

  21. M G: yajñārthaṃ ↩︎

  22. M G omit: yad ↩︎

  23. M G: yady uktalakṣaṇam ↩︎

  24. M G: prītaye ‘bhichindyāt" ity api (for this verse see DK 5: 1750) ↩︎

  25. M G omit: śiṣyād iti ↩︎

  26. M G: nivedayen ↩︎

  27. M G: atatparam ↩︎

  28. M G omit: rājñe ↩︎

  29. M G: athātharvaṇaśabdā ↩︎

  30. M G: brāhmaṇāyābhicareṇa ↩︎

  31. M G J: sarvapraśaktiyuktatvān (I follow DK 5: 1752) ↩︎

  32. M G J: itareṣāṃ (I follow ĀśŚ reading) ↩︎

  33. M G omit: yajñaḥ ↩︎

  34. M G: agnyādheyasyaivāsya ↩︎

  35. M G gives this at the end of commentary on verse 41: agnīnāṃ vṛṣalāgnitvavacanaṃ liṅgāt ↩︎

  36. M G: jñāpitaṃ nityabhāvāt ↩︎

  37. M G: ‘śuciḥ sparśanādau ↩︎

  38. M G: prāyaścitte ↩︎

  39. M G: kartavyatāvidhir ↩︎

  40. M G: nāvagamaṃ ↩︎

  41. M G: phalaṃ niṣidhyate ↩︎

  42. M G: -kalpanānām ↩︎

  43. M G: nimittaṃ viśeṣayet ↩︎

  44. M G: prasajjann ↩︎

  45. M G: indriyaiḥ sukhalubdheṣu ↩︎

  46. M G omit: vinimayaḥ ↩︎

  47. M G: viśeṣahetus tasmāt ↩︎

  48. M G: upakartavyam ↩︎

  49. M G: -virāgitvam ↩︎

  50. M G: evaṃ ↩︎

  51. M G J: viśudhyata iti; most editors have failed to note that this is a citation ↩︎

  52. M G: tathāpi ↩︎

  53. M G: svakāryavirodhitvam ↩︎

  54. M G: tat ↩︎

  55. M G: madyapaḥ ↩︎

  56. M G: arthalakṣaṇā | na tu ↩︎

  57. M G: kūlaṃ ↩︎

  58. M G: gauṇa- ↩︎

  59. M G: buddhidarsanapūrvam ↩︎

  60. M G add: na ↩︎

  61. M G: siddhiḥ ↩︎

  62. M G add: śiṣṭaiḥ ↩︎

  63. M G: duṣkṛtaśeṣe cihnarūpato ↩︎

  64. M G: ātiriktyam ↩︎

  65. M G: aniṣkṛtaiḥ saha ↩︎

  66. M G: vāsanātiśayo ↩︎

  67. M G: tatrātadrūpastapam ↩︎

  68. M G J: iti pātakasamāni (placing the word outside the citation; GDh ed. reads: guror) ↩︎

  69. M G: anyac cāpi ↩︎

  70. M G: ca ↩︎

  71. M G: -śabdau ↩︎

  72. M G J: puruṣo ’nṛtam ↩︎

  73. M G omit: strī- ↩︎

  74. M G: viṣayasamīkaraṇasya nyāyatvāt ↩︎

  75. M G J: enasi ↩︎

  76. M G: prāyaścittaṃ ↩︎

  77. M G: na tyājyam ↩︎

  78. M F: -ārthānām ↩︎

  79. M G: asaṃyājyaṃ ↩︎

  80. M G add: anyena ↩︎

  81. M G: anuvṛttiḥ ↩︎

  82. M G: upādhyāyāntarāśrayaḥ ↩︎

  83. M G: svādhyāyatyāgaś ↩︎

  84. M G: dhanāpadi ↩︎

  85. M G: aśiṣṭa- ↩︎

  86. M G: śāstrato ↩︎

  87. M G: coditaś cec chāstrakṛtaḥ ↩︎

  88. M G: saundaryādīnāṃ ↩︎

  89. M G omit: vā ↩︎

  90. M G: jñātayo ‘sodarādibhyo ↩︎

  91. M G add: eva ↩︎

  92. M G: -ārthās ↩︎

  93. M G: vardhanam ↩︎

  94. M G: na tu garhitānnādyataḥ kuta ↩︎

  95. M G: udyamagṛhīte ↩︎

  96. M G: anāghreyatvam ↩︎

  97. M G: na ↩︎

  98. M G: manyante ↩︎

  99. M G: na pramādāt ↩︎

  100. M G: avajānate ↩︎

  101. M G: vikalpate ↩︎

  102. M G: dvaiguṇa- ↩︎

  103. M G: yojanaśrutaṃ dṛṣṭvā ca ↩︎

  104. M G read here: kaścid apūrvavacanaḥ apūrvam ↩︎

  105. M G J: gobrāhmaṇasya ↩︎

  106. M G: tasmād ↩︎

  107. M G: brāhmaṇaḥ ↩︎

  108. M G: anye ity āhur ↩︎

  109. M G: ājyasya ↩︎

  110. M G: pratyak darśanavat ↩︎

  111. M G: haitukatvād guṇāntarābhāvo ↩︎

  112. M G: -jātīyatva ↩︎

  113. M G: aviśeṣān na ↩︎

  114. M G: strīviṭkṣatriyavadhaḥ ↩︎

  115. M G: ye ↩︎

  116. M G: avamastrīṇām upapātakaṃ mahāpātakaprāyaścitte vikalpate ↩︎

  117. M G: -maraṇānivṛttyarthāḥ ↩︎

  118. M G J: avālamayam (this is probably a typo) ↩︎

  119. M G: vākyān na ↩︎

  120. J: mṛdvīkārasya ↩︎

  121. M G: aprāpta iti ↩︎

  122. M G: evaṃ kiṃ ca ↩︎

  123. M G: -saṃmṛśyā; J: -saṃmaṣṭyā (my reading is conjectural) ↩︎

  124. M G: -vāse ↩︎

  125. M G: śuṣkatṛṇena ↩︎

  126. M G: -bandhakatva- ↩︎

  127. M G: taddravyāntarāṇi ↩︎

  128. M G: guror ↩︎

  129. M G: tadguṇa ↩︎

  130. M G: madhvāsavau kṣībau ↩︎

  131. M G: adhītavedabrahmasaṃskārarūpeṇāvasthitahṛdayenocyate, and add: tadapekṣayākāryaṃ kuryād iti ↩︎

  132. J: dātum udyuktaṃ yadā ↩︎

  133. M G: prayojanāpahāras ↩︎

  134. J: niṣkān ko ↩︎

  135. J: yā prakṛtiḥ (the reading of this sentence is corrupt) ↩︎

  136. M G: mātaiva samānajātīyāgamana ↩︎

  137. M G: kalpate ↩︎

  138. M G: tapte ↩︎

  139. M G omit: sūrmiḥ ↩︎

  140. J: utkartanaṃ na ↩︎

  141. J: śastrādhyākṣiptam | śaktiḥ ↩︎

  142. M G: pratyagudagdakṣiṇā ↩︎

  143. J: pratipātanaṃ ↩︎

  144. M G: ca bhāryā- ↩︎

  145. M G: dvijātīyagamane ↩︎

  146. M G place cīraṃ vastrakhaṇḍam . . . laghv eva prāyaścittam mistakenly in the com. on the next verse. ↩︎

  147. M G: kāryo ↩︎

  148. M G: yena ↩︎

  149. M G: māsādilāghavam ↩︎

  150. M G: gṛhitā ↩︎

  151. M G: -śabdenocchvāsa- ↩︎

  152. M G: dhārayet ↩︎

  153. M G omit: na ↩︎

  154. M G: damana- and -yoga- ↩︎

  155. M G: vipannāṃ ↩︎

  156. M G: tasya ↩︎

  157. M G: tathānyatra ↩︎

  158. M G: tathānyatra ↩︎

  159. M G: saktuyāvakāśī payodadhi ↩︎

  160. M G: vrīhiṣupapatteḥ svecchayā ↩︎

  161. M G: na mayā ↩︎

  162. M G: kathaṃ ↩︎

  163. M G: āsitavyam ↩︎

  164. M G: vrataniyamaḥ ↩︎

  165. M G: -paśuyāgā ↩︎

  166. M G omit: saḥ ↩︎

  167. M G: ataḥ ↩︎

  168. M G: vātamarucchabdau ↩︎

  169. M G: ādyāhutir ↩︎

  170. M G: havir iti yācyād ity ↩︎

  171. M G: strīśūdrasya viṭkṣatriyavadhaḥ; J: -kṣatriyavadhaḥ ↩︎

  172. M G: -karmaṇor vaiśyavṛttau vaiśyasya vṛttāv eva vādharmasthitayoḥ ↩︎

  173. M G omit: vaiśyavṛttau vaiśyasya vṛttāv eva (but see previous note) ↩︎

  174. J adds: tiyacchagniveti (the reading of this passage is corrupt) ↩︎

  175. M G: tad uktaṃ ↩︎

  176. M G: atulyatvād ↩︎

  177. M G: samudāyavidheḥ ↩︎

  178. M G: caitat | evaṃ sarve ↩︎

  179. M G: hantāra ↩︎

  180. M G: hatā ↩︎

  181. M G add: na cet ↩︎

  182. M G: veti ↩︎

  183. M G: vākyaṃ ↩︎

  184. M G: asamañjasyaṃ ↩︎

  185. M G: ānarthakye ↩︎

  186. M G: -viseṣeṇa vivakṣā ↩︎

  187. M G: yuktaiva ↩︎

  188. M G: kathaṃ cediti sarvam eveti ca; J: kathaṃ ca tad iti sarva aita iti ca (the passage is unclear; I think it is a reference to the statement of the first pūrvapakṣa above) ↩︎

  189. M G: ākheṭakamṛgayā ↩︎

  190. M G: prasiddhatarasūkarena ↩︎

  191. M G: prāṇāyāmaghṛtaprāśanam ↩︎

  192. M G: uktaḥ, and omits: nadyāṃ snānam, and adds: sravantyāṃ ↩︎

  193. M G: vā sareto ↩︎

  194. M G: saprāṇi- ↩︎

  195. M G: caturāḍhakaṃ ↩︎

  196. M G: hastiḥ ↩︎

  197. M G omit: na ↩︎

  198. M G: dāna- ↩︎

  199. All editors place this at the end of the commentary on the previous verse. But, it appears to be an introduction to the next verse, which prescribes additional or different penances for the same offences. Jha’s translation appears to support this. ↩︎

  200. M G: cāsthimanto ↩︎

  201. M G: te ↩︎

  202. M G: ṛkśataṃ japo ↩︎

  203. M G: pravṛttaḥ ↩︎

  204. M G: annād ↩︎

  205. M G: tataś ↩︎

  206. M G: vāyuś ceti ↩︎

  207. M G omit: vā ↩︎

  208. M G: pratyavāyaḥ prāyaścittāt ↩︎

  209. M G: yatra ↩︎

  210. M G: mukhyā yā suroktā ↩︎

  211. M G: sakṛtpāne surāpāne ↩︎

  212. M G: ācaret ↩︎

  213. M G: śreyam ↩︎

  214. M G: abuddhipūrve buddhipūrve ca ↩︎

  215. M G: madyapānāṃ ↩︎

  216. J: -yavaka- ↩︎

  217. M G: yady api ↩︎

  218. M G: adhikataras tato ↩︎

  219. M G: kalpanāvṛttyarthaṃ ↩︎

  220. M G gives throughout ghṛtam for śṛtam ↩︎

  221. M G: prūṣṭaṃ ↩︎

  222. J omits: atrāpi taptakṛcchraṃ samuccīyate | darśitaś ca hetuḥ (Jha’s translation includes this) ↩︎

  223. M G omit: tāni ↩︎

  224. M G: strīgrahaṇaṃ labdhasavarṇārthaṃ vijñeyam ↩︎

  225. M G: tadāspṛṣṭaṃ ↩︎

  226. M G: agāmikatvād ↩︎

  227. M G: -bhojanedaṃ ↩︎

  228. M G: yavakapānaṃ; J: yavapānam (see under 11.155) ↩︎

  229. M G: ityetattrayābhyanujñānād ↩︎

  230. M G: niṣkrāmaṇād ↩︎

  231. M G omit: amatyā ↩︎

  232. J: tucchagrahaṇāt tadrahitasya ↩︎

  233. M G: śabdena ↩︎

  234. M G: kravyādānāṃ ↩︎

  235. M G: biḍālakākādanyatrāpekṣate ↩︎

  236. M G: kṛte ↩︎

  237. M G: brahmacārī ↩︎

  238. M G puts this sentence at the beginning of the commentary on the next verse. ↩︎

  239. M G omit: tūttāryaṃ ↩︎

  240. M G: gautamīye ↩︎

  241. M G J: purīṣābhāvaḥ (I follow the GDh edition; also see the term in the next sentence. ↩︎

  242. M G: vāntau ↩︎

  243. M G: dhanaṃ siddhaṃ ↩︎

  244. M G add: na ↩︎

  245. M G: kiṃcit parimāṇe ↩︎

  246. M G: siddhamāṃsaṃ ca ↩︎

  247. M G: brāhmaṇādi- ↩︎

  248. M G: tad ↩︎

  249. M G: khātaḥ | taḍāge ‘py evam eva; J: khātataḍāge (mine is conjectural) ↩︎

  250. M G: svayonyādiṣv; J: supyād ↩︎

  251. M G: putrādibhir ↩︎

  252. M G: amatyāsu ↩︎

  253. M G: jñātito ↩︎

  254. M G J: sakhi- and -śiṣyābhāryāsu ↩︎

  255. M G: gurutalpasamam eva ↩︎

  256. M G: sthānaṃ ↩︎

  257. M G: -saṃparke yuvatidoṣe ‘pi ↩︎

  258. M G omit: prāyaścittābhāvaḥ ↩︎

  259. M G: tat ca ↩︎

  260. M G: mṛtabhartṛkābhartṛpakṣeṇa ↩︎

  261. M G: tajjātīyās ↩︎

  262. M G: ubhayasmai ↩︎

  263. M G: prabandhāc ↩︎

  264. M G: tu kurvan ↩︎

  265. M G: jātiśabdo ↩︎

  266. M G: tat ↩︎

  267. M G: yathā śrāddham ↩︎

  268. M G: vācyam ↩︎

  269. M G: śūdrāvivāhasya vihitatvāt ↩︎

  270. This cannot be right. The word is probably: brahmaghnādayaḥ; reference is to the four mahāpatakins mentioned in the previous verse. ↩︎

  271. M G: yānāsanāśana- ↩︎

  272. M G: sahāgamanam ↩︎

  273. M G omit: yānam ↩︎

  274. M G omit: ekasyāṃ ↩︎

  275. M G omit: ekasmin, and read: āsanam ↩︎

  276. M G: -yaunāt kṛtvāpy avicchedaḥ ↩︎

  277. M G: na ca ↩︎

  278. M G: prasiddhamūlaṃ ↩︎

  279. M G: samatvam ↩︎

  280. M G: saṃkalpa iṣyate ↩︎

  281. M G: gorgavayasyeva ↩︎

  282. M G: adhikārāgame ↩︎

  283. M G: siddhe vā ↩︎

  284. M G J: puṇyasravantyāṃ (my reading is conjectural, but it appears to be a citation of the term from the root text) ↩︎

  285. M G omit: nava- ↩︎

  286. M G: tu sakṛt; J: tu sakṛta ↩︎

  287. M G: suyājakam ↩︎

  288. M G omit: prītyā tad ↩︎

  289. M G: vānumāsaṃ ↩︎

  290. M G: śakta- ↩︎

  291. M G: kiṃcid ↩︎

  292. M G: saṃvāsaḥ pratiṣedhaḥ ↩︎

  293. M G omit: yan ↩︎

  294. M G: tyāge nādeyaṃ ↩︎

  295. J: mānavaśabdaṃ ↩︎

  296. M G: satyam ↩︎

  297. M G: -paṇenāntikaveśam ↩︎

  298. M G: vrātyaḥ stomaḥ ↩︎

  299. M G: śeyananidhanādi ↩︎

  300. M G: ahīne ↩︎

  301. M G: dvirātrikaṃ ↩︎

  302. M G: lipsālakṣaṇā- ↩︎

  303. M G omit: na ↩︎

  304. M G: -karmaṇaḥ ↩︎

  305. M G: kāmyāny aniṣiddhāni ↩︎

  306. M G: tadvidhiprāyaścittāny ↩︎

  307. M G add: na ↩︎

  308. M G: tadvicaritam ↩︎

  309. M G: -dhīnasya tu yogadānaṃ ↩︎

  310. J omit: dantair ↩︎

  311. M G: vedavihitānāṃ ↩︎

  312. M G omit: abhivādya ↩︎

  313. M G: prasādya ↩︎

  314. M G: vikalpate ↩︎

  315. M G: -prabheda evaṃ ↩︎

  316. M G: cet ↩︎

  317. M G add: yat ↩︎

  318. M G: bhojanaṃ prāptaṃ bhuktveti vyapadiśati ↩︎

  319. M G: ’natarāṃ tathā hastivedikāyāṃ ↩︎

  320. M G: saṃviśeṣāt ↩︎

  321. M G: yadi ↩︎

  322. M G: svayaṃbhūtāyāṃ ↩︎

  323. M G: -mantraṇaṃ ↩︎

  324. M G: dvitīyasyāṃ ↩︎

  325. M G omit: grāso ↩︎

  326. M G add: kasmiṃścit ↩︎

  327. M G: sarvaprāyaścittāni, and omits the repetition ↩︎

  328. M G: tathā ↩︎

  329. M G: śiṣṭāpratiṣiddheṣu ↩︎

  330. M G omit: sarveṣu ↩︎

  331. J omits: yadi tāvat pariṣadaḥ | nanu ↩︎

  332. J: tasmāttāpau vaimanasyam (the original reading was probably: paścāttāpo) ↩︎

  333. M G: janmany ↩︎

  334. M G: nivarteti ↩︎

  335. M G: prayataḥ ↩︎

  336. M G add: tat ↩︎

  337. J: kāmo vai’kyārthā ↩︎

  338. M G omit: na ↩︎

  339. M G: bhakaṇamātrād ↩︎

  340. M G J: vratniyamadharmāś (editors have erred; this is clearly a citation of MDh 2.3) ↩︎

  341. M G: yamāḥ (cf. DK 5. 631) ↩︎

  342. DK (5: 631): pratiṣedhasāmānyanimittato ↩︎

  343. M G omit: tad eva ↩︎

  344. M G: ātmanaḥ prasā- ↩︎

  345. M G: samartho ’ta eva sarvaphalasiddhim ↩︎

  346. M G: mahaty api vratasiddhiḥ ↩︎

  347. M G: duṣprāpaṃ ↩︎

  348. M G: prāyaścittānāṃ ↩︎

  349. M G omit: snāto bhavati sarvair devair ↩︎

  350. M G: jñātaḥ ↩︎

  351. M G: vedeṣu ↩︎

  352. M G: prāyaścittānidānabhāvaṃ ↩︎

  353. J: pāpapramocanārthāpi ↩︎

  354. M G: dīkṣopaśamanādy ↩︎

  355. M G: ekastanaṃ ↩︎

  356. M G: upety upayann iti ↩︎

  357. M G: yogādhikṛtakāmamātra- ↩︎

  358. M G omit: dadāti ↩︎

  359. M G: tapasaḥ sāmarthyajaiva ↩︎

  360. M G: apiśabdāc chrutiḥ ↩︎

  361. M G omit: na ↩︎

  362. M G omit: tat ↩︎

  363. M G: devādisattatvavijñānaṃ ↩︎

  364. M G add: na tviṣā ↩︎

  365. J: dāhaka- ↩︎

  366. M G: recakārakhyaṃ ↩︎

  367. M G: tena ↩︎

  368. M G: -pratīkārārthaṃ ↩︎

  369. M G: māhendraṃ māhitrīṇām ↩︎

  370. M G add: akratuṛco ↩︎

  371. M G: vājasane ṣaḍṛcam ↩︎

  372. M G: iti itikaraṇaḥ ↩︎

  373. M G omit: abdārdhaṃ ↩︎

  374. M G: iti, add add: padaṃ nāma gavām anugamanam | ↩︎

  375. M G: antaś ↩︎

  376. M G: jñānā- ↩︎